॥अथ द्वादशोऽध्यायः॥
अर्जुन उवाच — एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
वृत्तं कीर्तयित्वा तत्र प्रश्नसङ्गतिमर्जुनस्य दर्शयति— विभूत्यन्तेष्विति। विभूत्यध्यायान्तेष्वित्यर्थः। दशमाध्यायावसानेष्विति यावत्। अध्यायेष्विति नवस्विति भावः। विध्वस्ताः निरस्ताः सर्वे उपाधिविशेषा यस्य तस्य विध्वस्तसर्वोपाधिविशेषस्य निरुपाधिकस्य, शुद्धस्येति यावत्। तव चेति। मायाशबलितब्रह्मण इत्यर्थः। उभयोरिति। निर्गुणसगुणब्रह्मोपासनयोरित्यर्थः। न च निर्गुणसगुणोपासनयोः फलभेदाद् अन्यतरस्योत्कृष्टत्वं सुबोधमिति वाच्यम् ; फले भेदाभावाद् , उभयस्यापि सायुज्यफलश्रवणात्। न च निर्गुणोपासनस्यैव सायुज्यं फलमिति वाच्यम् ; मत्कर्मकृदित्यादिना सगुणोपासनस्यापि सायुज्यफलकथनादित्यभिप्रेत्याह— मत्कर्मकृदित्याद्युक्तवानसीति। अत इति। फलैकत्वादित्यर्थः। ये भक्ता एवं सततयुक्ताः सन्तः त्वां पर्युपासते, ये चाप्यव्यक्तमक्षरं पर्युपासते, तेषां मध्ये के योगवित्तमाः? अयमाशयः— सर्वत्र लोके आस्तिकानां प्रवृत्तिर्निवृत्तिश्चेति मार्गद्वयमेवास्ति। तथा च दर्शितं भाष्यारम्भे भाष्यकृद्भिः। तदेव मार्गद्वयम् – ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति श्रीकृष्णेनाप्युक्तम्। निवृत्तिर्ज्ञानयोगः, प्रवृत्तिस्तु कर्मयोग इति विवेकः। इयमेव प्रवृत्तिः कर्मफलासङ्गादित्यागद्वारा कर्मयोगीभूय मुमुक्षून् संसारात् तारयति, तदत्यागात्तु संसारिणः संसारयतीति बोध्यम्। इदं च मार्गद्वयं भिन्नाधिकारिविषयम् , एकस्य युगपन्मार्गद्वयप्रवृत्त्यसम्भवात्। तत्र ज्ञानिनां निवृत्तिर्विषयः– ‘ज्ञानयोगेन साङ्ख्याना’मित्युक्तत्वात्। ‘वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥’ इति ज्ञानिनः सर्वकर्माभावस्योक्तत्वाच्च। अमी च ज्ञानिनः संन्यासिन एव, तेषामेव कर्मपरित्यागसम्भवात्। अग्निहोत्रादिकं सर्वं कर्म परित्यज्य व्रजति हि परिव्राट्। कर्मिणस्तु परिशेषाद् ब्रह्मचारि- गृहस्थवानप्रस्थाः। अमीषां प्रवृत्तिरेव विषयः। एवं स्थिते ये निर्गुणं प्रत्यगभिन्नं परमात्मानमुपासते, तेषां ज्ञानिनां संन्यासिनां आनन्दगिरिकृतव्याख्या ‘अशोच्यान्’ इत्यादिषु विभूत्यध्यायावसानेषु अध्यायेषु निरुपाधिकस्य ब्रह्मणो ज्ञेयत्वेनानुसन्धानमुक्तमिति वृत्तं कीर्तयति— द्वितीयेति। अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्यापि ब्रह्मणो ध्येयत्वेन प्रतिपादनं कृतमित्याह— सर्वेति। सर्वस्यापि प्रपञ्चस्य योगो घटना जन्मस्थितिभङ्गप्रवेशनियमनाख्या, तत्र ऐश्वर्यं सामर्थ्यं, तेन सर्वत्र ज्ञेये प्रतिबन्धविधुरया ज्ञानशक्त्या विशिष्टस्य सत्त्वाद्युपहितस्य भगवतो ध्यानं तत्र तत्र प्रसङ्गमापाद्य मन्दमध्यमयोरनुग्रहार्थमुक्तमित्यर्थः। एकादशे वृत्तमनुवदति— विश्वरूपेति। अध्यायान्ते भगवदुपदेशमनुवदति—तच्चेति। यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुमध्यायान्तरमवतारयन्नादौ प्रश्नमुत्थापयति—अत इति। १द्वितीयप्रभृतिष्वध्यायेषु विभूत्यन्तेषु परमात्मनो ब्रह्मणोऽक्षरस्य २विध्वस्तसर्वोपाधिविशेषस्योपासनमुक्तम्। सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेरीश्वरस्य तव चोपासनं तत्र तत्रोक्तम्। विश्वरूपाध्याये तु ऐश्वरमाद्यं समस्त- जगदात्मरूपं विश्वरूपं त्वदीयं दर्शितमुपासनार्थमेव त्वया। तच्च दर्शयित्वोक्तवानसि— ‘मत्कर्मकृत्’ (भ.गी.११.५५) इत्यादि। अतोऽहमनयोरुभयोः पक्षयोर्विशिष्टतरबुभुत्सया त्वां पृच्छामीत्यर्जुन उवाच—एवमिति। एवमिति अतीता- १. ‘द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेषु अध्यायेषु’ इति पा.। २. ‘विध्वस्तसर्वविशेषणस्य’ इति पा.।
[[५५३]]
विश्वरूपोपासनमिदं विधीयते किम्? यद्वा कर्मिणाम्? नाद्यः, निर्गुणोपासकानां सगुणोपासनाया असम्भवात्। मत्कर्मकृदित्यादिना विश्वरूपोपासकानां भक्तानां कर्मविधानाच्च। न हि संन्यासिनां कर्म सम्भवति। तस्मात् कर्मिणामेव विश्वरूपोपासनम्। एवं कर्मयोगिनां विश्वरूपादिसगुणोपासकानामिह भक्तशब्देन व्यवहारः। अन्येषां तु ज्ञानिशब्देनेति विवेकः। न च कर्मिभ्यो ज्ञानिभ्यश्चान्ये एव भक्ता इति वाच्यम् ; ‘ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति’ इति स्मरणात्। ‘लोकेऽस्मिन् द्विविधा निष्ठे’ति निष्ठाद्वैविध्यस्यैवेहाप्युक्तत्वेन निष्ठात्रैविध्यकल्पनस्याप्रमाणत्वात्। तस्मात् स्ववर्णाश्रमधर्माचरणमेव भक्तिः। न च पूज्येषु प्रीतिर्भक्तिरिति वाच्यम् ; पूज्यप्रीति- कारित्वस्यापि धर्म एवान्तर्भावात्। न च सगुणस्य साकारस्य भगवत उपासनं भक्तिरिति वाच्यम् ; तस्या अपि कर्मस्वेवान्तर्भावात्। ब्राह्मणानां विहितेषु षट्कर्मसु देवार्चनं ह्येकं कर्म। तस्मान्न कर्मयोगाद् भिन्नो भक्तियोगः। न च - बहिः प्रतिमादौ देवार्चनस्य कर्मत्वेऽपि, मनसि भगवद्विग्रहार्चनस्याकर्मत्वमिति - वाच्यम् ; तस्यापि मानसिकक्रियात्वेन कर्मत्वात्। अहमिदानीं भगवतः स्नानं कल्पयामि, प्राग्दन्तधावनं कल्पितम् , अथ वस्त्रबन्धनं कल्पयिष्यामीत्येवं हि बहिरिव मनस्यप्यनुसन्धत्ते भक्तः। एवं मानसिकैरपि अनेकै- र्वस्त्राभरणाद्युपकरणैः साध्यस्य भगवन्मानसिकार्चनस्य कथमकर्मत्वम्? कारकव्यापारतन्त्रं हि कर्म। तस्माद् भक्तियोगः कर्मयोगा- दनन्य इति स्थितम्। अनयोश्च योगयोः कः उत्तम इति पृच्छत्यर्जुनः। ननु कर्मयोगाज्ज्ञानयोग उत्तम इति कृष्णेनोक्तम् , अर्जुनेनावधारितं च, ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन’ इत्युक्तत्वादर्जुनेन। ज्ञानयोगिनां साक्षान्मोक्षः, कर्मयोगिनां तु ज्ञानद्वारेति फलभेदोऽप्युक्तः, चित्तशुद्धेरेव कर्मफलत्वात्। ततश्च योगद्वारा योगिनश्चोत्कर्षसिद्धेर्ज्ञानयोगिन उत्कर्ष इति ज्ञात एवांशे नास्त्यर्जुनस्य प्रश्नावकाशः। न च कर्मिभ्यो ज्ञानिनामुत्कृष्टत्वेऽर्जुनेन ज्ञातेऽपि भक्तेभ्यो ज्ञानिनामुत्कृष्टत्वं न ज्ञातमिति वाच्यम् ; कर्मिणामेव भक्तत्वात् इति चेत्? उच्यते— कर्मयोगाद् भक्तियोगो ऽनतिरिक्त इति नार्जुनो वेत्ति। ज्यायसी चेदिति प्रश्नात् प्राग् भक्तियोगस्तु नोक्तः। ततश्च सगुणब्रह्मोपासनं विना ये फलाभिसन्धिं त्यक्त्वा यज्ञादिकर्माणि कुर्वन्ति, तेभ्यः कर्मिभ्य उत्तमा भवन्तु ज्ञानिनः। ये सगुणब्रह्मोपासनं कुर्वन्त एव कर्मयोगे स्थिताः, तेभ्यः किं ज्ञानिनः उत्तमाः, उत नेति संशयादर्जुनस्य प्रश्न उपपद्यत इति। न च सगुणब्रह्मोपासन एव स्थिताः कर्मयोगे त्वस्थिता एते कर्मिभ्योऽन्ये भक्ता इति वाच्यम् ; मत्कर्मकृदिति कर्मकरण एव भक्तिमार्गस्योपसंहृतत्वात्। एवं सततयुक्ता इत्येवंशब्देना- तीतानन्तरश्लोकेन मत्कर्मकृदित्यादिना प्रोक्तस्यैवार्थस्य परामर्शनात्। न हीश्वराभक्त ईश्वरार्थं कर्म करोति, स्वामिभक्तस्यैव भृत्यस्य स्वामिकार्यकरणदर्शनात्। नापि ज्ञानी कर्म करोति, त्यक्तसर्वक्रियत्वात् संन्यासिनस्तस्य। तस्मात् कर्मयोग्येव भक्तः। एतदज्ञानात्त्वर्जुनस्य प्रश्नः। यद्वा कर्मयोगाज्ज्ञानयोग उत्तम इति श्रीकृष्णेनादावुक्तमर्थं श्रीविश्वरूपसंदर्शनसंक्षुब्धान्तरङ्गतया विस्मृत्यार्जुनः पृच्छति— ‘ये विश्वरूपोपासकास्त्वत्कर्मकृतो भक्तास्तेऽपि त्वामेव यान्ति, ‘मत्कर्मकृदि’ति, ‘यः स मामेती’ति चोक्तत्वात्। ये च शुद्धं प्रत्यगभिन्नं ब्रह्मोपासते, तेऽपि त्वामेव यान्ति, ‘अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ’ इत्यादिदर्शनात्। अतो नानयोः फलतो वैलक्षण्यं ज्ञातुं शक्यते। तस्मादहं पृच्छामि भक्तज्ञानिनोर्मध्ये क उत्तमः’ इति। ननु भगवताऽपि कथमुक्तं कर्मणः साक्षात् कैवल्यं ‘यः स मामेती’ति चेत्? मैवम् ; यः स ज्ञानद्वारा मामेतीति भगवदाशयात्। तदाशयापरिज्ञानात्त्वर्जुनस्य प्रश्नः। यत्तु रामानुजः - विश्वरूपेश्वरोपासका भक्ताः, प्रत्यगात्मोपासकास्तु ज्ञानिनः, तदुभयतारतम्यजिज्ञासया प्रश्नोऽर्जुनस्येति। तन्मन्दम्। किमयं प्रत्यगात्मा जीवः, उतेश्वरः? आद्ये - जीवाद् ईश्वरस्योत्कृष्टत्वेन जीवोपासकाद् ईश्वरोपासकस्योत्कृष्टत्वसिद्धेः प्रश्नस्यैवानवकाशः। द्वितीये - स्वमतत्यागः, परमतप्रवेशश्च। किञ्च अन्योपासकानां तदन्यप्राप्तिर्विरुद्धा। जीवोपासकानां त्वीश्वरप्राप्तिः वक्ष्यते, ‘ये त्वक्षरं पर्युपासते तेऽपि मामेव प्राप्नुवन्ती’ति वक्ष्यमाणत्वात्। न च ‘मां प्राप्नुवन्ती’त्यस्य मत्समानाकारमसंसारिणमात्मानं प्राप्नुवन्तीत्यर्थ इति वाच्यम् ; मुख्यार्थ- परित्यागे कारणाभावात् , लक्षणाश्रयणस्याप्रमाणत्वात्। न हि मामिति शब्दो मत्समानाकारमित्यमुमर्थं शक्त्या बोधयतुमीष्टे। तस्माद् ब्रह्मप्राप्तिश्रवणाद् , ब्रह्मोपासकानामेव ब्रह्मप्राप्तिसम्भवाद् अक्षरोपासका एते ब्रह्मोपासका एव। तच्च प्रत्यगभिन्नमेव। भाष्यार्कप्रकाशः
[[अ. १२. श्लो. १]] [[५५४]]
नन्तरश्लोकेनोक्तमर्थं परामृशति ‘मत्कर्मकृदि’त्यादिना१। एवं सततयुक्ताः नैरन्तर्येण भगवत्कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः; ये भक्ताः अनन्यशरणाः सन्तः त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति, ये चान्येऽपि त्यक्तसर्वैषणाः संन्यस्तसर्वकर्माणो यथाविशेषितं ब्रह्म अक्षरं निरस्तसर्वोपाधित्वाद् अव्यक्तम् अकरण- गोचरम् ; यद्धि लोके करणगोचरं तद् व्यक्तमुच्यते, अञ्जेर्धातोस्तत्कर्मकत्वात् ; इदं त्वक्षरं तद्विपरीतं २शिष्टैश्च सोपाधिकध्यानस्य निरुपाधिकज्ञानस्य चोक्तत्वादित्यर्थः। एवंशब्दार्थमुक्त्वा तमनूद्य ‘सततयुक्ताः’ इति भागं विभजते—एवमिति। ‘ये भक्ताः’ इत्यनूद्य व्याचष्टे— अनन्येति। मन्दमध्यमाधिकारिणः सगुणशरणानुक्त्वा, निर्गुणनिष्ठानुत्तमाधिकारिणो निर्दिशति— ये चेति। यथाविशेषितम् अनिर्देश्यं सर्वत्रगमचिन्त्यं कूटस्थमित्यादिवक्ष्यमाणविशेषणविशिष्टमित्यर्थः। न क्षरति, अश्नुते वेत्यक्षरम्। ‘अव्यक्तम्’ इत्येतद् व्याचष्टे— निरस्तेति। करणागोचरत्वं व्यतिरेकद्वारा स्फोरयति— यद्धीति। यथाविशेषितमित्युक्तं स्पष्टयति— शिष्टैश्चेति। आनन्दगिरिकृतव्याख्या अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् ‘अञ्जू व्यक्तिश्लक्ष्ण[म्रक्षण]कान्तिगतिषु’ इत्यस्य धातोर्विपूर्वस्य तत्कर्मकत्वादिति व्यक्तिवाचकत्वात्। विशेषा- वगतिरेव ह्यभिव्यक्तिरित्यर्थः॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
किञ्च ईश्वरस्य सोपाधिकं निरुपाधिकं चेति रूपद्वयमस्ति, तत्र सच्चिदानन्दलक्षणं चैतन्यं निरुपाधिकं रूपम् , विश्वरूपादिकं तु सोपाधिकमित्यस्यार्थस्य सम्प्रतिपन्नत्वात् , सोपाधिकेश्वरोपासकानां [निरुपाधिकेश्वरोपासकानां] चोभयेषामपीश्वरोपासकत्वेन साम्याद् , अमीषां के योगवित्तमाः इत्यर्जुनस्य जिज्ञासया प्रश्न उपपद्यते, न त्वन्यथेत्येवं प्रश्नोपपत्तेश्चाक्षरमिह ब्रह्मैव, न तु तद्भिन्नः प्रत्यगात्मा। न च सोपाधिकोपासकानां न साक्षान्मोक्ष इति सिध्येदेव विवेकोऽर्जुनस्य प्रश्नं विनाऽपीति वाच्यम् ; ‘यः स मामेती’ति सोपाधिकोपासकस्यापि साक्षान्मोक्षस्योक्तत्वात्। न च विरुद्धार्थः कथमुक्तो भगवतेति वाच्यम् ; स कर्मी मां ज्ञानद्वारैतीति श्रीकृष्णाशय इति पूर्वमेवोक्तत्वात्। ननु यदि विश्वरूपोपासकानां न साक्षान्मोक्षः, तर्हि भगवता कृष्णेनार्जुनप्रश्नानन्तरमपि, ‘न भक्तानामस्ति साक्षान्मोक्षः, परन्तु ज्ञानिनामेवे’ति कुतो नोक्तमिति चेत्? उच्यते— उक्तमेव भगवता व्यङ्ग्यमर्यादया। कथम्? ‘मय्यावेश्ये’ति भक्तानां युक्ततमत्व- मित्येवोक्तम् , न तु ‘मां प्राप्नुवन्ती’ति भगवत्प्राप्तिः। अक्षरोपासकानां तु ‘ते प्राप्नुवन्ति मामेवे’ति भगवत्प्राप्तिरेवोक्ता, न तु युक्ततमत्वादिकम्। अनेन च ज्ञानिनामेव साक्षान्मोक्षः, भक्तानां तु ज्ञानद्वारेति भगवदाशय इति ज्ञायते। रामानुजभाष्यरीत्या त्वीश्वरोपासकानां युक्ततमत्वम् , जीवोपासकानामीश्वरप्राप्तिरिति महानयं विरोधः इति। तस्मात् सगुणनिर्गुणब्रह्मोपासकयोर्योगिसाङ्ख्ययोरन्यतरप्राशस्त्यबुभुत्सया पृच्छत्यर्जुनः— एवं सततेति। सततं नैरन्तर्येण युक्ताः समाहिताः सततयुक्ताः। क्वामीषां योगः? अत आह— भगवत्कर्मादाविति। भगवदर्थानि कर्माणि भगवत्कर्माणि यज्ञादीनि नित्यनैमित्तिकानि। आदिपदाद् विश्वरूपध्यानादिकं गृह्यते। भक्तेः परां काष्ठामाह— अनन्यशरणा इति। न विद्यते ईश्वरादन्यः शरणं रक्षिता येषां ते तथोक्ताः। ईश्वरमेव सर्वात्मना शरणं गता इत्यर्थः। एतेनानन्यशरणत्वं भक्तेर्लक्षणमिति सिद्धम्। यथेति। दर्शितं विश्वरूपमनतिक्रम्य यथादर्शितविश्वरूपम् त्वां पर्युपासते तव विश्वरूपं ध्यायन्तीत्यर्थः। एषणा दारधनपुत्र- विषयाः त्रयोऽभिलाषाः। यथाविशेषितमिति। यथोक्तविशेषणविशिष्टमित्यर्थः। अक्षरस्य विशेषणानि तु ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥’ इत्यादिश्रुतिप्रसिद्धानि इहापि तत्र तत्रोक्तानि बोध्यानि। यद्वा अव्यक्तत्वरूपविशेषणविशिष्टमित्यर्थः। अव्यक्तत्वे हेतुमाह— निरस्तेति। उपाधीनां करणविषयत्वान्निरुपाधिक- चैतन्यस्य तदविषयत्वाच्चेति भावः। करणानि मनआदीन्द्रियाणि। तत्कर्मकत्वादिति। तत् करणगोचरं वस्तु कर्म यस्य तत्त्वात्। १. ‘मत्कर्मकृदित्यादिना अतीतानन्तरश्लोकेनोक्तमर्थं परामृशति— एवमिति’ इत्यन्वयः। २. ‘विशिष्टैः’इति रा.पा.।
[[५५५]]
उच्यमानैर्विशेषणैर्विशिष्टम् ; तद् ये चापि पर्युपासते तेषाम् उभयेषां मध्ये के योगवित्तमाः केऽतिशयेन योगविदः इत्यर्थः॥१॥
श्रीभगवानुवाच। ये त्वक्षरोपासकाः सम्यग्दर्शिनो निवृत्तैषणास्ते तावत् तिष्ठन्तु। तान् प्रति यद् वक्तव्यं तदुपरिष्टाद् वक्ष्यामः। ये त्वितरे— मयीति। मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनो ये भक्ताः सन्तो मां सर्वयोगेश्वराणामधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिं नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सकर्मकोऽयं २व्यजिधातुः प्रकटनार्थकः। गोपी भावं व्यञ्जयतीत्यादिप्रयोगात्। कर्म चास्य प्रकटीकरणयोग्यमेव भवति, अप्रकटीकर- णीयस्य प्रकटीकरणासम्भवात्। करणग्राह्यमेव प्रकटीकरणीयम् , अकरणग्राह्यस्य प्रकटनायोगात्। व्यङ्ग्यं हि घटादिकं व्यञ्जकैश्चक्षु- रादिभिर्व्यज्यते। तस्माद् व्यजिधातोर्व्यङ्ग्यकर्मकत्वात् तस्याकर्मभूत एवात्मा अव्यक्तः। अथवा तत्कर्मकत्वात् तत् करणगोचरीकरणमेव कर्म क्रिया, अर्थ इति यावत् , यस्य तत्त्वात्। करणगोचरीकरणं प्रकटीकरणं, प्रकटनमिति यावत्। यथाविशेषितमित्येतस्यार्थमाह— विशिष्टैरिति। विशिष्टैरसाधारणैः। चकारादुक्तैरित्यर्थः। वक्ष्यमाणैरिति च। उभयेषां विश्वरूपोपासकानामक्षरोपासकानां चेत्यर्थः। योगवित्तमाः योगं कर्मयोगं ज्ञानयोगं च विदन्ति भजन्त इति योगविदः - योगिनो ज्ञानिनश्च। तमप्प्रत्ययार्थमाह— अतिशयेनेति। तेषां के योगवित्तमाः? तेषां योगविदामुभयेषां मध्ये के उत्तमाः इत्यर्थः। यद्यपि तमप्प्रत्ययो विच्छब्दान्वयी, तथापीह योगशब्देना- न्वेतव्यः। ततश्च तेषां मध्येऽतिशयितं योगं के भजन्तीति फलितार्थः। यदाश्रितो योगोऽतिशयितस्तेऽतिशययोगवत्त्वाद् योगवित्तमा इत्युच्यन्ते। यद्वा योगमतिशयेन विदन्तीति योगवित्तमाः, योगस्य परां काष्ठां गतवन्त इत्यर्थः। कर्मयोगज्ञानयोगयोरुभयोरपि योगत्वात् , तत्र कर्मिणां ज्ञानिनां वा योगस्य परा काष्ठा सिध्यतीति प्रश्नः। किं विश्वरूपोपासनं योगस्य परा काष्ठा, उत परब्रह्मोपासनमिति यावत्। न च - विदन्तीत्यस्य भजन्तीति व्याख्यानमयुक्तमिति - वाच्यम् ; धातूनामनेकार्थकत्वात् , कर्मयोगादी- नामनुष्ठानं विना ज्ञानमात्रात् फलाभावाच्च॥१॥
मयीति। ये परया श्रद्धयोपेता मयि मन आवेश्य नित्ययुक्ताः सन्तो मामुपासते, ते युक्ततमा मे मताः। उक्तश्लोकेति। ‘मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु’ इति न्यायेनेत्यर्थः। अतिशयेन युक्ताः युक्ततमाः। युक्ताः समाहिताः। पूर्वार्धगतक्रियापदस्यानुषङ्गं सूचयति— तदिति। सर्वे तावदेते योगं समाधिं विन्दन्तीति योगविदः। के पुनरतिशयेनैषां मध्ये योगविदो योगिनः इति पृच्छति— केऽतिशयेनेति॥१॥
किमनयोर्योगयोर्मध्ये सुशक्यो योगो वा पृच्छ्यते, किं वा साक्षान्मोक्षहेतुरिति विकल्प्य क्रमेणोत्तरं भगवानुक्तवानित्याह— श्रीभगवानिति। यदि द्वितीयः, तथाविधयोगस्य वक्ष्यमाणत्वान्न प्रष्टव्यतेत्याह— ये त्वक्षरेति। यद्याद्यः, तत्राह— ये त्विति। सर्वयोगे- श्वराणां सर्वेषां योगमधितिष्ठतां योगिनामित्यर्थः। विमुक्ता त्यक्ता रागाद्याख्य१क्लेशनिमित्तभूता तिमिरशब्दितानाद्यज्ञानकृता दृष्टिरविद्या मिथ्याधीर्यस्य तमिति विशिनष्टि—विमुक्तेति। नित्ययुक्तत्वं साधयति—अतीतेति। तत्रोक्तो योऽर्थो मत्कर्मकृदित्यादि , तस्मिन् निश्चयेन अयनमायो गमनं, तस्य नियमेनानुष्ठानं, तेनेत्यर्थः। उपासते मयि स्मृतिं सदा कुर्वन्तीत्यर्थः। उक्तोपासकानां युक्ततमत्वं व्यनक्ति—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
श्रीभगवानुवाच— मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥२॥
१. ‘रागाद्याख्या क्लेशनिमित्तभूता’ इति मु.पा.। रागाद्याख्यानां क्लेशानामविद्या कारणमिति योगशास्त्रे प्रसिद्धम्। द्र. योगदर्शनम् २पादे सू.३,४। २. भाष्ये ‘व्यञ्जे- र्धातोस्तत्कर्मकत्वात्’ इति पाठः अत्रादृत इति भाति। व्यजिधातुः धातुपाठे नोपलभ्यते। चुरादिगणपाठस्य बाहुलकत्वादिदं संगमनीयमिति भाति।
[[अ. १२. श्लो. १-२]] [[५५६]]
सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टयोपेतास्ते मे मम मताः अभिप्रेताः - युक्ततमा इति। नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रमतिवाहयन्ति। अतो युक्तं तान् प्रति युक्ततमाः इति वक्तुम्॥२॥
कुतोऽमीषां भक्तानां युक्ततमत्वम्? अत आह— नैरन्तर्येणेति। अतिवाहयन्ति गमयन्ति। अयं भावः— ये तु विश्वरूपोपासनशून्याः केवलं कर्मयोगिनस्ते युक्ताः, ये तु विश्वरूपोपासकाः कर्मयोगिनस्ते युक्ततमा इति। न चाक्षरोपासकेभ्योऽपि कर्मयोगिन उक्तलक्षणा उत्कृष्टा इति युक्ता ज्ञानिनः, युक्ततमास्तु भक्ता इति वाच्यम् ; कर्मज्ञानयोगयोः ज्ञानयोगस्य प्रशस्ततरत्वस्य प्रागेव बहुशः प्रपञ्चितत्वात्। मोक्षं प्रत्यव्यवहितो हि ज्ञानयोगः। इहाप्ययमर्थो वक्ष्यते – ‘ते प्राप्नुवन्ति मामेवे’ति। ननु सगुणोपासकानां निर्गुणोपासकानां च मध्ये के युक्ततमाः इत्यर्जुनप्रश्नस्य केवलकर्मिणां सगुणोपासकानां च मध्ये सगुणोपासका युक्ततमा इति श्रीकृष्णोत्तरमननुरूपमिति चेत्? मैवम् ; किं सगुणोपासका युक्ततमाः उत निर्गुणोपासका इति अर्जुनप्रश्नस्यानुरूपमेव श्रीकृष्णोत्तरं सगुणोपासका एव युक्ततमा इति। तर्हि निर्गुणोपासकाः किं युक्ताः? अतो वक्ष्यति – ‘ते प्राप्नुवन्ति मामेवे’ति। निर्गुणोपासका न युक्ताः, नापि युक्ततमाः, किन्तु साक्षादहमेव ते। ‘ज्ञानी त्वात्मैव मे मत’मित्युक्तत्वादिति तदाशयः। ननु यद्येवं तर्हि तेषां मध्ये के अतिशयेन योगविद इति प्रश्नोऽनुपपन्न इति चेत्? मैवम् ; तस्याप्यत्रैव तात्पर्यात्। यद्यपि तेषां मध्ये के युक्ततमा इति प्रश्नेन के पुनर्युक्ता इति प्रश्नान्तरं गम्यते, तथापि न तदिहानुसंहितम्। यद्वा भवतु प्रश्नान्तरमिहानुसंहितं, तथापि नानुपपत्तिः, तेषां मध्ये न केऽपि युक्ताः, किन्तु भक्ता युक्ततमा एव, ज्ञानी त्वहमेव, युक्तास्तु केवलं कर्मिण एवेत्युत्तरकल्पनोपपत्तेः। ननु उभयेषां योगिनां मध्ये के पुनरुत्तमाः इति प्रश्नार्थो वर्णितः पूर्वम् , इदानीमुत्तरं त्वन्यथाऽवतारितमिति चेत्? मैवम् ; ते प्राप्नुवन्ति मामेवेत्यनेन ज्ञानिनामेवोत्तमत्वमिति सिद्धत्वादुत्तरस्य। न च - ते मे युक्ततमा मताः इति साक्षादुत्तमत्वं भक्तानामेवोक्तमिति - वाच्यम् ; युक्ततमा इत्यस्योत्तमाः इत्यर्थालाभात्। न च - योगवित्तमा इत्यनेनाभिन्नार्थक एव युक्ततमा इत्ययं शब्द इति - वाच्यम् ; वक्तृविवक्षयाऽर्थभेदसम्भवाच्छब्दद्वयस्य। तथाहि— सगुणोपासकानामक्षरोपासकानां च मध्ये के पुनरुत्तमाः इति विवक्षया ‘के योगवित्तमाः’ इत्युक्तमर्जुनेन, उत्तमानामेव योगवित्तमत्वादित्याशयात्। भगवांस्तु तद्विवक्षां ज्ञात्वाऽपि तेषां मध्ये के पुनर्युक्ततमा इत्यमुमेव यथाश्रुतार्थं गृहीत्वा उत्तरयामास— भक्ता एव युक्ततमा इति। एतावता श्रीकृष्णोत्तरवाक्येनार्जुनस्य स्वविवक्षानुसारेण भक्ता एवोत्तमा इति कृष्णेनो- त्तरमुक्तमिति प्रत्ययः स्यात् , तन्निरासाय च वक्ष्यति— ज्ञानिनो मामेव प्राप्नुवन्ति, ममैव ज्ञानित्वात्। अतो न युक्तो नापि युक्ततमो ज्ञानी, किन्त्वहमेवेति। ततश्चार्जुनविवक्षितप्रश्नस्यापि दत्तमुत्तरं भवति। तदेवम् अर्जुनहृद्गतार्थस्य भक्तज्ञानिनोः क उत्तम इत्यस्य, अर्जुनप्रश्नवाक्यबललभ्यस्य के युक्ततमा इत्यस्य च भगवता दत्तमुत्तरद्वयमिति बोध्यम्। वस्तुतस्तु तेषां के योगवित्तमा इत्यस्य यथाश्रुत एवार्थः। भक्तानां ज्ञानिनां चोभयेषां मध्ये के युक्ततमा इति। युक्ततमज्ञाने सति परिशेषाद् युक्तज्ञानं भवेदिति के वा युक्ता इति न पृष्टमर्जुनेन। आवां रामलक्ष्मणावित्युक्ते कोऽनयोः राम इति प्रश्नवत्। भगवांश्च प्रश्नानुरूपं प्रतिवचनं ददौ— भक्ता युक्ततमा इति। ततः परिशेषन्यायेन ज्ञानिनां युक्तत्वे सिद्धे प्रत्याह भगवान् – ‘ते प्राप्नुवन्ति मामेवे’ति। ज्ञानिनो न युक्ता नापि युक्ततमाः, किन्त्वहमेवेति। तथा च ‘ते मे युक्ततमा मताः’ इति भगवदुत्तरश्रवणाज्जातोऽर्जुनस्य भक्ताः युक्ततमत्वाज्ज्ञानिभ्यो युक्तेभ्य उत्तमाः इत्याकारकः प्रत्ययः ‘ते प्राप्नुवन्ति मामेवे’ति वचनश्रवणान्निर्मूलं नष्टः आसीत्। परन्तु नैरन्तर्येणेति। तदेव स्फुटयति— अहोरात्रमिति। अह्नि च रात्रौ चातिमात्रम् अतिशयेन मामेव विषयान्तरविमुक्ताः चिन्तयन्तीत्यर्थः ॥२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[५५७]]
ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥३॥
ज्ञानिनो भगवदात्मत्वादुत्तमाः। भक्तास्तु भगवदभिमतत्वात् तेभ्योऽपकृष्टा इति प्रत्यय आसीत्। तस्मात् केवलकर्मयोगिनो युक्ताः, भक्तियोगसहितकर्मयोगिनस्तु युक्ततमाः, समयग्दर्शिनस्तु भगवानेवेति कृत्वा नात्र युक्ततमा इत्यनेन ज्ञान्यपेक्षया भक्तानामुत्तमत्वमर्थ इति भ्रमितव्यम्। ज्ञानस्य मोक्षं प्रति साक्षात्साधनत्वाद् भक्तेर्ज्ञानद्वारेति परम्परासाधनत्वाच्च। भक्तियोगो हि कर्मयोगादनतिरिक्तः। कर्मणश्च ज्ञानादपकृष्टत्वं बहुशः प्रपञ्चितं प्रागेव। तस्मादत्र ज्ञान्यपेक्षया भक्ता युक्ततमत्वादुत्तमा इति, भक्ता मोक्षं शीघ्रं गच्छन्तीति च रामानुजव्याख्यानं नादर्तव्यम्। भक्तानां परम्परया मोक्ष इति, ज्ञानिनां साक्षान्मोक्ष इति च सिद्धान्तितत्वेन ज्ञानिनामेव शीघ्रं मोक्षलाभात्। ‘ब्रह्मविद् ब्रह्मैव भवति, तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इत्यादिश्रुतिभ्यः। तस्माद् भक्ता भगवतो युक्ततमत्वेनाभिमताः। ज्ञानिनस्तु साक्षादात्मत्वेनाभिमता इति ज्ञानिन एवोत्तमाः॥२॥
य इति। ये त्विन्द्रियग्रामं संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताश्च सन्तोऽनिर्देश्यमव्यक्तं सर्वत्रगमचिन्त्यं कूटस्थमचलं ध्रुवमक्षरं पर्युपासते ते मामेव प्राप्नुवन्तीति श्लोकद्वयान्वयः। निर्देष्टुं प्रतिपादयितुम्। यदि शब्देन प्रतिपाद्येत, तर्हि शब्दगोचरत्वाद् व्यक्तमेव भवेत्। ननु यदि शब्दागोचरं ब्रह्म, तर्हि प्रत्यक्षाद्यविषयत्वाद् धर्मादिवच्छास्त्रप्रमाणाविषयत्वाच्चासदेव भवेदिति चेत्? मैवम् ; अनुभवैकवेद्यत्वाद् , आत्मत्वेन सर्वप्रत्यक्षत्वात् , तद्विषयत्वेनैव सर्वस्य सत्तालाभाच्च। नन्वत्यन्तं शब्दागोचरत्वे कथं ब्रह्मणो व्यवहार्यत्वम्? कथं वा शास्त्रसम्प्रदायप्रवृत्तिः? कथं वा शास्त्रयोनित्वाधिकरणसङ्गतिः? कथं वा श्रुतिगीतोपपत्तिरिति चेत्? उच्यते— सुखतापादिवदनुभवैकवेद्यमेव ब्रह्म। न हि मम सुखमीदृशं, ताप ईदृश इति कोऽपि वक्तुं क्षमते। तद्वद् ब्रह्मेदृशमिति कोऽपि वक्तुं नेष्टे। एवं दुर्वचत्वादेव तस्य शब्दागोचरत्वम्, न तु ब्रह्मादिशब्दानां तद्वाचकत्वाभावात्। यद्वा ब्रह्मादिशब्दा अभिधया न ब्रह्म बोधयन्ति, किन्तु लक्षणया। एवमभिधाऽविषयत्वादेव ब्रह्मणः शब्दागोचरत्वमिति। वस्तुतस्तु अद्वितीये ब्रह्मणि शब्दाद्यभावात् कथं शब्दगोचरत्वं ब्रह्मणः? व्यवहारस्तु माययोपपद्यते। माया हि शब्दागोचरे ब्रह्मणि शब्दादीन् कल्पयित्वा तद्गोचरत्वमपि कल्पयति। तस्माच्छब्दागोचरस्यापि ब्रह्मणो मायया भवति व्यवहार्यत्वमिति। उपासत इति। ‘अहं ब्रह्मास्मी’त्याकारेणेति भावः। यथाशास्त्रं शास्त्रोक्तविधयेत्यर्थः। उपास्यस्यार्थस्य प्रकृते परमात्मनः। अन्यत्र तु विश्वरूपरामकृष्णादिरूपादिकमुपास्यार्थ इति बोध्यम्। ‘वक्ष्यामः तदुपरिष्टादि’त्युक्तं प्रश्नपूर्वकं प्रकटयति—किमित्यादिना। पूर्वेभ्यः फलतो विशेषार्थः तुशब्दः। अव्यक्तत्वमनिर्देश्यत्वे हेतुरित्याह— अव्यक्तत्वादिति। यतोऽव्यक्तम् अतोऽनिर्देश्यमिति योजना। निरुपाधिकेऽक्षरे कथमुपासनेति पृच्छति— उपासनमिति।२
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किमितरे युक्ततमा न भवन्ति? न, किन्तु तान् प्रति यद् वक्तव्यं तच्छृणु— ये त्विति। ये त्वक्षरम् अनिर्देश्यम् अव्यक्तत्वादशब्दगोचरमिति१ न निर्देष्टुं शक्यते; अतोऽनिर्देश्यम् , अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्ताद् उपासते। उपासनं नाम? यथाशास्त्रमुपास्यस्यार्थस्य विषयीकरणेन सामीप्यमुपगम्य १. इतिशब्दो हेत्वर्थे। २. ‘आत्मेत्येवोपासीत’(बृ.उ. १-४-७) इत्यत्रेवात्रापि उपासनं ज्ञानमेव विवक्षितमिति भावः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[अशब्दगोचरमितीति।] तात्पर्यवृत्त्या वेदान्तवेद्यमपि ब्रह्म शब्दशक्त्यविषयत्वाद् अनिर्देश्यमित्यर्थः॥३॥
[[अ. १२. श्लो. २-३]] [[५५८]]
तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यदासनं तदुपासनमाचक्षते। अक्षरस्योपास्यस्य विशेषणमाह— सर्वत्रगं व्योमवद् व्यापि अचिन्त्यं चाव्यक्तत्वादचिन्त्यम् ; यद्धि करणगोचरं तद् मनसाऽपि चिन्त्यम् , तद्विपरीतत्वाद् अचिन्त्यमक्षरम् ; कूटस्थं दृश्यमानगुणमन्तर्दोषं वस्तु कूटम् ; १कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके। तथा च २अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवद् मायाऽव्याकृतादिशब्दवाच्यतया ‘मायां तु प्रकृतिं विद्यान्मायिनं तु विषयीकरणं गोचरीकरणं, साक्षात्कार इति यावत्। उपगम्येति। मनस इति कर्तुःशेषः। समानोऽभिन्नः प्रत्ययानां प्रवाहस्तेन, तैलधारावदविच्छिन्नेनेत्यर्थः। आसनं स्थितिः। मनस इत्यस्याध्याहृतस्यानेनान्वयः— यन्मनस आसनमिति। ब्रह्माद्युपास्यविषयक- मानसिकदीर्घकालावच्छिन्नप्रत्ययप्रवाह उपासनमित्युच्यत इत्यर्थः। उपास्यविषयकनिरन्तरप्रत्ययप्रवाहोपलक्षिततया मनस उपास्य- समीपे आसनमुपासनमिति निरुक्तेरिति भावः। मनस उपास्यसमीपे स्थितिः सुषुप्तावपि सम्भवति, मनसस्तदा ब्रह्मण्येव लयाद् , अत आह— प्रत्ययप्रवाहेणेति। सत्यपि अहं ब्रह्मास्मीति वाचिकप्रत्ययप्रवाहे विषयान्तरसङ्गेन मनसो ब्रह्मणो दूरतः स्थितावुपासनं न सम्भवतीत्यत आह— सामीप्यमुपगम्येति। निर्विकल्पकसमाधौ ब्रह्मणः समीपे स्थितस्यापि मनसः प्रत्ययाभावान्नोपासनमित्यत आह— प्रत्ययप्रवाहेणेति। कथं मनस उपास्यसामीप्योपगतिः? अत आह— विषयीकरणेनेति। वृत्तिद्वारा मनो विषयसमीपं गच्छतीति भावः। उपास्यस्याक्षरस्य विशेषणम् जात्येकत्वाद् विशेषणान्याह— सर्वत्रगमित्यादीनि। इमान्येव विशेषणानि ‘विशिष्टैर्विशेषणै- रुच्यमानै’रित्यनेन संगृहीतानि प्राग् भाष्ये। ‘एको देवः’ इत्यादिश्रुतिसिद्धानि चेमान्येव। सर्वत्र गच्छतीति सर्वत्रगं सर्वव्यापीत्यर्थः। तत्र दृष्टान्तमाह— व्योमवदिति। तद्विपरीतत्वात् करणागोचरत्वादित्यर्थः। अनिर्देश्यं वाचा वक्तुमशक्यम् , अचिन्त्यं मनसा चिन्तयितुमशक्यमिति न पौनरुक्त्यम्। न च मनसाऽप्यचिन्त्यत्वे ‘मनसैवानुद्रष्टव्य’मिति श्रुतिविरोध इति वाच्यम् ; मनसा इदमीदृशमिति चिन्तयितुमशक्यमित्यर्थात् , ब्रह्मणि चेदृक्ताया अभावान्निर्विशेषचिन्मात्रे। दृश्यमानाः बहिरुपलभ्यमाना गुणा यस्य तद् दृश्यमानगुणम्। अन्तर्गर्भे दोषा यस्य तद् अन्तर्दोषं वस्तु कृत्रिममैन्द्रजालादिकं मिथ्यावस्त्वित्यर्थः। कूटरूपकमिति। रूपकं रूप्यं, रजतमिति यावत्। रजतवद् बहिरवभासमानं वस्तुतो रजतगुणरहितं च रङ्गादिकं वस्तु रजतत्वेन व्यवह्रियमाणं सत् कूटरूपक- मित्युच्यते। नेदं यथार्थरूपकं, रजतगुणराहित्यात्। नापि शुक्तिरजतवत् प्रातिभासिकं, कटकाद्युपयोगित्वात्। किन्तु विलक्षणं कृत्रिमं कूटरूपकमेव। इदमधुना ५द्रुषद्रूपकमिति व्यवह्रियते। कूटसाक्ष्यमिति। कूटं च तत् साक्ष्यं च कूटसाक्ष्यम्। साक्षिणो भावो धर्मो वा साक्ष्यम्। कौटसाक्ष्यमिति पाठे तु कूटसाक्षिणो भावो धर्मो वा कौटसाक्ष्यम्। यथार्थवाक्यवदवभासमानं वस्तुतोऽयथार्थं वाक्यं कूट- साक्ष्यम् , अयथावृत्तं वाक्यमित्यर्थः। प्रसिद्ध इति। अनृतार्थवाचित्वेन प्रसिद्ध इत्यर्थः। ननु लोके बहिः सत्यवस्तुवदवभासमानाः वस्तुतस्त्वसत्याः कूटरूपककूटसाक्ष्यादिपदार्थाः कूटशब्दवाच्याः भवन्तु नाम, प्रकृते कूटशब्दवाच्यं वस्तु किम्? अत आह— तथा चेति। अविद्या तूलाज्ञानम् , आदिपदादस्मितारागद्वेषादिग्रहणम्। अविद्यादीन्यनेकानि संसारबीजानि यत्र तत् तथोक्तम्। अत एवान्तर्दोषं मायाऽव्याकृतकूटेत्यत्रादिपदाच्छक्तिप्रकृत्यज्ञानादिपरिग्रहः। एवमाद्यनेकशब्दवाच्यतया प्रसिद्धम्। क्व प्रसिद्धम्? अत आह— मायां त्वित्यादि। यद् वस्तु तत् कूटमित्युच्यते। ननु दृश्यमानगुणत्वं शास्त्रतोऽक्षरं ज्ञात्वा तदुपेत्य आत्मत्वेनोपगम्य ३आसते तथैव तिष्ठन्ति, पूर्णचिदेकतानमक्षरमात्मानमेव सदा भावयन्तीत्येतदिह विवक्षितमित्याह—यथेति। अव्यक्तत्वमेवाचिन्त्यत्वेऽपि हेतुरित्याह—यद्धीति। ४कूटशब्दस्योक्तार्थत्वं वृद्धप्रयोगतः साधयति—कूटरूप- मिति। आदिपदमनृतार्थम्। प्रकृते किं तदनृतं कूटशब्दितमित्याशङ्क्याह— तथा चेति। उक्तरीत्या कूटशब्दस्यानृतार्थत्वे सिद्धे यदनेकस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘कूटरूपकम्’ इति पा.। २. ‘अविद्यादि अनेकसंसारबीजम्’ इति आनन्दगिरीयानुसारी पदच्छेदः। ३.‘उपासते’ इति मु.पा.। ४. ‘कूटस्थशब्दस्य’ इति पा.। ५. इदमान्ध्रभाषायामिति भाति।
[[५५९]]
नोक्तमिति चेत्? सुग्रहत्वधिया नोक्तं भाष्यकारैः। सत्यत्वप्रियत्वादयो दृश्यमानगुणाः। तदेवं वस्तुतो दोषवदापाततो गुणवच्चाज्ञानं कूटमित्युच्यत इति सिद्धम्। इदं हि स्वकार्यैः सहानृतजडदुःखात्मकमपि सच्चिदानन्दमिव प्रतिभाति, तथा व्यवह्रियते च। यथा कूटरूपकं यथार्थरूपक- वत्। न च - कूटरूपकं यथार्थरूपकवत् कूटमज्ञानं यथार्थ[र्था]ज्ञानवत् प्रतिभातीति वक्तव्यम् , न चेष्टापत्तिः, यथार्थ[र्था]ज्ञानस्या- भावात् , सत्त्वेऽद्वैतहानेश्च। तथा यथार्थ[र्था]ज्ञानस्याभावे तु इदमज्ञानं कूटाज्ञानं भवितुं नार्हतीति - वाच्यम् ; अनृतजडदुःखात्मक- तया [अ]सच्चिदानन्दमिदमज्ञानं सच्चिदानन्दब्रह्मवद् अस्ति भाति प्रियमिति सच्चिदानन्दत्वेन व्यवह्रियत इति अस्याज्ञानस्य कूटवस्तुत्वसिद्धेः। वस्तुतोऽरजतमपि रजतत्वेन प्रतिभासमानं कटकाद्युपयोगि हि वस्तु कूटरजतमिति। एतेन अज्ञानस्यानृतत्वे कथमर्थक्रियाकारित्वम् , तज्जन्यप्रपञ्चस्य वा कथं तदिति शङ्का प्रत्युक्ता। अनृतस्यापि कूटरूपकस्य अर्थक्रियाकारित्वदर्शनात्। तस्मात् सत्यवदवभासमानं वस्तुतस्त्वसत्यम् अज्ञानं कूटमेव। ननु कूटरूपकपदवाच्यं द्रुषदादिरूपं किञ्चिद् वस्त्वस्त्येव, परन्तु तद्वस्तु स्वस्वरूपेणाव्यवह्रियमाणमन्यरूपेण व्यवह्रियमाणं च सत् कूटशब्दवाच्यं भवति, तद्वदिहाप्यज्ञानमिति किञ्चिद्वस्त्वस्ति वा, न वा? आद्ये अद्वैतहानिः, द्वितीये कस्य कूटत्वम् , अज्ञानस्यैवाभावादिति चेत्? मैवम् ; ब्रह्मण्यध्यस्तत्वात् सप्रपञ्चमिदमज्ञानं ब्रह्मैव, आरोप्यस्याधिष्ठानात्मकत्वात्। तथा च वस्तुतोऽज्ञानपदवाच्यं वस्तु ब्रह्मैव। तद् ब्रह्मैकमेवास्ति कालत्रयेऽपि नान्यदिति नाद्वैतहानिः। तदेव सच्चिदानन्दं ब्रह्म, अनृतजड- दुःखात्मकाज्ञानस्वरूपेण गृह्यमाणं सत् कूटमित्युच्यते। तथा च सच्चिदानन्दात्मकस्वरूपेणागृह्यमाणम् अनृतजडदुःखरूपेण च गृह्यमाणं कूटशब्दवाच्यमज्ञानशब्दवाच्यं च वस्त्वस्त्येव ब्रह्मेति न कश्चिद् दोषः। न च - एवं कूटरूपकसत्यरूपकवत् कूटाज्ञानसत्याज्ञानयोरभावेऽपि कूटब्रह्मसत्यब्रह्मणोः सद्भावः सिध्यति, तच्चानिष्टम् , क्वापि ब्रह्मणः कूटत्वाश्रवणादिति - वाच्यम् ; कार्यब्रह्मकारणब्रह्मशब्दाभ्यां कूटब्रह्मसत्यब्रह्मणोरेवाभिधीयमानत्वात्। ब्रह्मकार्यं ह्यज्ञानं कार्यब्रह्मेति हि व्यवह्रियते, अकार्यत्वाद् ब्रह्मणः। न चाज्ञानप्रतिफलितश्चिदाभास ईश्वरः कार्यब्रह्मेति वाच्यम् ; तस्यापि चिदाभासस्य मिथ्यात्वेन कूटत्वात्। अज्ञानप्रतिफलितचिदाभासवत् साभासाज्ञानस्यापीश्वरत्वाच्च। तस्मात् कार्यब्रह्म कूटब्रह्मैव। कार्यस्य सर्वस्यापि मिथ्यात्वेन कूटत्वात्। तच्च कूटब्रह्म अज्ञानं, तस्यैव परिणामो जगदिति जगदप्यज्ञानमेव। न च ब्रह्मद्वयमप्रसिद्धमिति वाच्यम् ; ‘बाढम् , द्वे ब्रह्मणी’ इति भाष्यकारैरुक्तत्वात्। ‘एतद्वै सत्यकाम यत्परं चापरं च’ इति श्रुत्याऽपि परापरब्रह्मद्वयस्योक्तत्वात्। एतत्कार्यापरब्रह्मव्यावृत्तये एव परं ब्रह्मेति ब्रह्मणः परत्वविशेषणदानाच्च तत्र तत्र। एवमज्ञानस्य कूटब्रह्मत्वादेव ब्रह्मशब्दवाच्यत्वमपि। ‘मम योनिर्महद् ब्रह्म’ इत्यादिप्रयोगदर्शनात्। तस्मात् कूटरूपक- सत्यरूपकवत् कूटब्रह्मसत्यब्रह्मणी द्वे स्तः। तत्र कूटब्रह्म दृश्यमज्ञानादिकं, सत्यब्रह्म तु दृगात्मेति विवेकः। तस्मिन्निति अज्ञाने इत्यर्थः। किमज्ञानेऽस्य स्थितिः कुण्डे बदरवद्? अत आह— तदध्यक्षतयेति। अज्ञानस्य साक्षित्वेन स्थितमित्यर्थः। अज्ञान- साक्षिणमिति कूटस्थशब्दस्य यावदर्थः। न च साक्षित्वेनापि कथमज्ञाने ज्ञानस्य स्थितिरिति वाच्यम् ; चैतन्यरूपज्ञानस्या- ज्ञानाविरोधित्वात्। अज्ञानमस्ति, अज्ञानं भाति, अज्ञानं प्रियमिति प्रतीतीनामज्ञाने ब्रह्मव्याप्तिं विनाऽसम्भवात्। अत एव ब्रह्मणः संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतं ‘तद्धेदं तर्ह्यव्याकृतम्’ ‘मायां तु प्रकृतिम्’ ‘मम माया’ इत्यादौ माया[दि]शब्दिततया
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
महेश्वरम्’(श्वे.उ.४.१०) ‘मम माया दुरत्यया’ (भ.गी.७.१४) इत्यादौ प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया। अथवा राशिरिव स्थितं कूटस्थम्। अत एवाचलम्। यस्मादचलं तस्माद् ध्रुवं नित्यमित्यर्थः ॥३॥
[[अ. १२. श्लो. ३]] [[५६०]]
सर्वान्तरात्मत्वम् , सच्चिदानन्दरूपेण सर्वत्र व्याप्य स्थितत्वात्। कूटस्थशब्दस्यार्थान्तरमाह— अथवेति। कूटो राशिः स इव तिष्ठतीति कूटस्थं, यथा व्रीह्यादिराशिः स्वोचितं देशमवष्टभ्य निरन्तरमवतिष्ठते तद्वद् महतो महानयमात्मा सर्वं जगदवष्टभ्य निरन्तरं तिष्ठतीत्यर्थः। अत एवेति। राशिवत्स्थितत्वादेवेत्यर्थः। न हि राशिश्चलति। यद्वा अत एव मायाऽध्यक्षत्वादेवेत्यर्थः। मायायाः सर्वव्यापित्वेन तदध्यक्षस्यापि सर्वव्यापित्वात् परिपूर्णत्वेन तस्याचलत्वं युक्तमिति भावः। अचलं न चलतीत्यचलः तं चलनरहितमित्यर्थः। अपरिपूर्णस्य परिच्छिन्नस्य चलनसम्भवात् तादृशस्य चानित्यत्वादचलोऽयं नित्य इत्याह— ध्रुवं नित्यमिति। न हि परिपूर्णं वस्तु क्वापि चलितुमर्हति, येन तस्यानित्यत्वं स्यात्। अस्माद् देशात् क्वापि गतं हि वस्तु नष्टमित्युच्यते। यथा देवदत्तादिः स्वर्गादिकम्। अत्र रामानुजः - अक्षरं प्रत्यगात्मस्वरूपं, अनिर्देश्यं देहादन्यतया देवादिशब्दानिर्देश्यं, सर्वत्रगं देवादिदेहेषु वर्तमानं कूटस्थं सर्वसाधारणम् अचलम् अप्रच्युताकारमिति। तत्तुच्छम् ; यदि देवादिशब्दैरनिर्देश्यतया स्यादक्षरमनिर्देश्यम् , तर्हि ब्रह्मानन्दादिशब्दै- रनिर्देश्यतया स्याद् देहोऽप्यनिर्देश्यः। ‘यत्तदद्रेश्यमग्राह्यम्’ , ‘यतो वाचो निवर्तन्ते’ इत्यादिश्रुतयस्त्वात्मन एवानिर्देश्यत्वं ब्रुवन्ति, न तु देहस्येति। कथमयं श्रुतिविरुद्धार्थः परिगृह्येत? तथा तव मते अण्वात्मनां कथं देवाद्यनेकदेहवृत्तिः? न चैकस्मिन् देहे एक आत्मेत्येव सर्वदेहस्थमपि वाच्यम् ; तथा सति एकदेहस्थः एक एवात्मेति स्यादात्मनः एकदेहस्थत्वादेकदेशस्थत्वमेव, न तु सर्वत्रगत्वम्। सर्वशब्दस्य देवादिदेहपरतया सङ्कोचोऽप्ययुक्तः, पाषाणादिसर्वपरिग्रहस्य युक्तत्वात्। पाषाणादिपरिग्रहे तु पाषाणादावचेतने चेतनस्याक्षरस्याभावान्न स्यात् सर्वत्रगत्वमक्षरस्य। ननु एक एवात्मा कालभेदेन देवादिशरीरपरिग्रहाद् देवादिशरीरेषु सर्वत्रास्तीति सर्वत्रगः इत्युच्यत इति चेत्? मैवम् ; वर्तमानमित्यनेन कालविशेषस्योक्तत्वात्। वर्तमानकाले एकस्य देहिनो देहान्तरेषु स्थित्ययोगात्। कायव्यूहविद्या तु मायामयी नेहोदाहरणमर्हति। अस्मिन् मतेऽपि सर्वशब्दसङ्कोचदोषस्तदवस्थ एव। तथा सर्वसाधारणः कूटस्थः इत्यप्ययुक्तम् , सर्वसाधारणत्वस्य कूटस्थत्वे पृथिव्यादिपदार्था अपि कूटस्थाः स्युः। तेऽपि हि पशुपक्षिमनुष्यादिसर्वसाधारणा भवन्ति। जलं हि पानार्थं सर्वसाधारणं, पृथिवी च निवासार्थं, वायुश्च प्राणनार्थं, गगनं चावकाशार्थं, तेजश्च शीतापनयनाद्यर्थम्। किञ्चात्मनो भोगायतनत्वाद् देहोऽपि सर्वात्मसाधारणः इति सोऽपि कूटस्थ एव स्यात्। न च सर्व- साधारणत्वं नाम तत्तद्देवाद्यसाधारणाकारासम्बद्धमित्यर्थ इति वाच्यम् ; एवंविधमप्यसाधारणत्वं जलादीनामस्त्येव। न हि जलादयो देवाद्यसाधारणाकारसम्बद्धाः। न च जलादिषु रसत्वाद्यसाधारणाकारसम्बन्धोऽस्तीति वाच्यम् ; जीवेऽपि चेतनत्वाद्यसाधारणाकार- सम्बन्धसद्भावात्। न च निराकारस्यैव सर्वसाधारणत्वम् , न तु साकारस्येति वाच्यम् ; वाय्वाकाशयोरपि कूटस्थत्वप्रसङ्गात् , मनइन्द्रियादीनां च निराकाराणाम्। एवं कूटस्थशब्दस्याभिधेयमर्थं विहाय लाक्षणिकस्य सर्वसाधारणत्वरूपार्थस्य कल्पनमयुक्तम् , अप्रमाणं च। तथा अचलमित्यस्य अप्रच्युताकारमित्यर्थवर्णनमप्ययुक्तम् , आकारान्न चलतीत्यचलः इत्याकारस्यापादानस्य कल्पनस्यायुक्तत्वात्। न चलतीत्यचलः इत्यपादानं विनैव निरुक्तिसिद्धेः अपादानस्य स्वकपोलकल्प्यत्वात्। घटोऽपि मृत्स्वरूपान्न चलतीत्यचलत्वं स्याद् घटस्यापि। न चोत्क्रान्तिमतो जीवस्य स्पन्दनिषेधादेरनुपपन्नत्वाच्चलनरहितः इति त्वदुक्तार्थोऽप्ययुक्त एवेति वाच्यम् ; सर्वव्यापकस्या- चलस्याप्यात्मनः बुद्धितादात्म्याध्यासेनोत्क्रान्त्यादिसिद्धेः ‘ध्यायतीव लेलायतीव’ इति श्रुतेः। बुद्धौ चलन्त्यामात्मा चलतीव, तस्या- मुत्क्रामन्त्यामात्मोत्क्रामतीव, न तु स्वत इति युक्तमचलत्वं, चलनरहितत्वादात्मनः॥३॥
प्रसिद्धमविद्यादि१ तदिह कूटशब्दितमित्यर्थः। तत्रावस्थानं केन रूपेणेत्याकाङ्क्षायामाह२— तदध्यक्षतयेति। कूटस्थशब्दस्य निष्क्रियत्व- मर्थान्तरमाह— अथवेति। पूर्वमुपजीव्यानन्तरविशेषणद्वयप्रवृत्तिमाह— अत एवेति॥३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. अत्रादिपदेनाहंकारादिकं ग्राह्यमिति भाष्योत्कर्षदीपिका। २. ‘त्याशङ्कायामाह’ इति पा.।
[[५६१]]
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥४॥
क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम्। संनियम्येति। संनियम्य सम्यङ् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रियसमुदायं, सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिर्येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धयः, ते य एवंविधास्ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः। न तु तेषां वक्तव्यं किञ्चिद्—मां ते प्राप्नुवन्तीति। ‘ज्ञानी त्वात्मैव मे मतम्’ (भ.गी.७.१८) इति ह्युक्तम्। न हि भगवत्स्वरूपाणां सतां युक्ततमत्वम् अयुक्ततमत्वं वा वाच्यम् ॥४॥
संनियम्येति। समेति। हर्षोद्वेगादिरहिता एकरूपेत्यर्थः। सर्वेषां भूतानां हिते हितकरणे, तत्त्वोपदेशादिद्वारेति भावः। हिते आत्मनीति वा। रताः आसक्ताः। मां परमात्मानमेव प्राप्नुवन्ति, न त्वन्यमित्येवकारार्थः। मां प्राप्नुवन्त्येवेत्यप्यन्वयः। एवकारा- न्नाप्राप्तिशङ्केति भावः। सर्वं वाक्यं सावधारणमिति न्यायात्। त एव, मामेव, प्राप्नुवन्त्येवेति वाऽन्वयः। ‘त एवे’त्येवकारान्न तु कर्मयोगिनः इत्यर्थः। यद्वा न तु भक्ताः इत्यर्थः। भक्तानां साक्षान्मोक्षाभावादिति भावः। ननु मां ते प्राप्नुवन्तीति यदुक्तं तन्नोपपद्यते, तथाहि— किमप्राप्तस्य तव प्राप्तिरिति विवक्षितम्? यद्वा नित्यप्राप्तस्येति? नाद्यः, अप्राप्तत्वेन प्राप्यत्वे परमात्मनः कार्यत्वादनित्यत्वं स्यात् , सर्वव्यापकत्वं च न स्यात्, सर्वेण सर्वदा सम्बद्धं हि वस्तु सर्वव्यापीत्युच्यते। न द्वितीयः, नित्याप्तस्य पुनः प्राप्त्ययोगादिति शङ्कामभ्युपेत्य समाधत्ते— न त्विति। यत् त्वया आशङ्कितं तत् सत्यमेव, अत एव ‘ते मां प्राप्नुवन्ती’ति तेषां पुरतो नैव वक्तव्यम्। किन्तु ‘ते अहमेवे’ति वक्तव्यम्। तर्हि कृष्णेन कुतस्तथा नोक्तम्? अत आह— ज्ञानी त्विति। तथा च ‘ज्ञानी त्वात्मैव मे मत’मिति पूर्वोक्तवाक्यानुसारादिहापि तथैव वक्तव्यं, न तु ते मां प्राप्नुवन्तीति वक्तव्यम्। तर्हि कृष्णेन कुत उक्तम् ‘ते मां प्राप्नुवन्ती’ति चेत्? उच्यते— हिरण्यनिधिदृष्टान्ताद् विस्मृतकण्ठचामीकरन्यायाच्च नित्याप्तोऽप्यात्मा अज्ञानादनाप्त इव प्रतीतः, ज्ञानात् तदज्ञाननाशे तु प्राप्त इवेति नित्याप्तस्यापि प्राप्तिरुपपद्यत इति। ननु ‘तेषां के योगवित्तमाः’ इति भगवतोऽर्जुनेन पृष्टस्य ज्ञानिनो मामेव प्राप्नुवन्तीत्युत्तरमयुक्तम्, किं तर्हि? ज्ञानिनो युक्ता इत्येव वक्तव्यम् , भक्तानां युक्ततमत्वस्योक्तत्वाद्, अत आह— न हीति। भगवानेव स्वरूपं येषां तेषां भगवत्स्वरूपाणाम् , ‘निर्विशेषचिन्मात्रः सदाशिवोऽह’मिति भगवति चैतन्यरूपे आत्मबुद्धिशालिनामित्यर्थः। सतां विदुषां युक्ततमत्वं युक्तत्वं वा न हि वाच्यम् ; अक्षरोपासकाः कर्मयोगिन इव न युक्ताः, विश्वरूपोपासका इव न युक्ततमाः, किं तर्हि? साक्षाद्भगवानेव ते। प्रत्यगभिन्नत्वात् परमात्मनः। ‘ज्ञानी त्वात्मैव मे मत’मिति भगवद्वचनाच्चेति भावः॥४॥
क्लेश इति। अव्यक्तासक्तचेतसां तेषामधिकतरः क्लेशो भवतीति शेषः। हि अव्यक्ता गतिर्देहवद्भिर्दुःखमवाप्यते। दुःखं कृच्छ्रे- कथमक्षरमुपासते? तदुपासने वा किं स्यादिति? तदाह— संनियम्येति। तुल्या हर्षविषादरागद्वेषादिरहिता। सम्यग्ज्ञानेनाज्ञान- स्यापनीतत्वात् १क्रमपरापेक्षयोरसम्भवं विवक्षित्वाऽऽह— ते य इति। सर्वेभ्यो भूतेभ्यो हिते रताः - सर्वेभ्यो भूतेभ्यो हितमेव चिन्तयन्तः तदेवाचरन्ति। ज्ञानवतां यथाज्ञानं भगवत्प्राप्तेरर्थसिद्धत्वादनुवादमात्रमेतदित्याह— न त्विति। ज्ञानिनो भगवत्प्राप्तिः सिद्धैवेत्यत्र प्रमाणमाह— ज्ञानी त्विति। ज्ञानवतां भगवत्प्राप्तौ त एव युक्ततमा वक्तव्याः, कथं सगुणब्रह्मोपासकान् युक्ततमानुक्तवानसि? इत्याशङ्क्याह— न हीति॥४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. क्रमः— चित्तशुद्धिज्ञानप्राप्त्यनन्तरमिति मुक्तौ क्रमः। ‘तेषामहं समुद्धर्ता’ इति च परापेक्षा दर्शिता। द्वयमपीदं निर्गुणविदां नास्ति। तत्र हेतुः— सम्यग्ज्ञानेनेति। ‘क्रमपरम्परापेक्षयोः’ इति पा.।
[[अ. १२. श्लो. ३-५]] [[५६२]]
किन्तु— क्लेश इति। क्लेशोऽधिकतरः, यद्यपि मत्कर्मादिपराणां क्लेशोऽधिक एव, क्लेशोऽधिकतरस्तु अक्षरात्मनां १परमार्थदर्शिनां देहाभिमानपरित्यागनिमित्तः; अव्यक्तासक्तचेतसाम् अव्यक्ते आसक्तं चेतो येषां ते अव्यक्तासक्तचेतसः, तेषाम् अव्यक्तासक्तचेतसाम्। अव्यक्ता हि यस्माद् या गतिरक्षरात्मिका, दुःखं सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते। अतः क्लेशोऽधिकतरः। २अक्षरोपासकानां यद् वर्तनं तदुपरिष्टाद् वक्ष्यामः॥५॥
णेति क्रियाविशेषणम्। अधिकतरः इति द्वयोर्निर्धारणे डतरच्। कस्मात्पुनः अधिकादयमधिकतरः इत्यत आह— मत्कर्मादिपराणा- मिति। भक्तानां क्लेशोऽधिकः, ज्ञानिनां तु तस्मादधिकतरः इत्यर्थः। ‘अक्षरात्मना’मिति अव्यक्तासक्तचेतसामित्यस्य प्रतिपदम्। तस्यार्थमाह— परमात्मदर्शिनामिति। परमात्मानं प्रत्यगभिन्नं द्रष्टुं शीलं येषां तेषां तथोक्तानाम्। कस्मान्निमित्तादेषामधिकतरः क्लेशः? अत आह— देहेति। देहाभिमानपरित्याग एव ज्ञानिक्लेशस्य भक्तक्लेशादधिकतरत्वे निमित्तम्। एतेन भक्तानां देहाभिमानोऽस्तीति सिद्धम्। पुंसामनादिकालादारभ्य देहाभिमानोऽस्ति, तस्य परित्यागस्त्वधिकक्लेशावहः, परित्यागस्य दुष्करत्वात्। देहाभिमानेऽपरित्यक्ते तु परमात्मन्यात्मबुद्धिर्न स्यात्। अतो निर्गुणोपासकैर्देहाभिमानस्तावत् कृच्छ्रेण त्याज्यः। भक्तास्तु विश्वरूपे देहे ईश्वरबुद्धिं, स्वमनुष्यादिदेहे च जीवबुद्धिं कुर्वन्तीति न तेषां देहाभिमानत्यागप्रयुक्तक्लेशोऽस्तीति भावः। अव्यक्ते आत्मनीत्यर्थः। आसमन्तात् सक्तमासक्तम्। गम्यत इति गतिः। प्राप्यं वस्त्वित्यर्थः। काऽसौ गतिः? अत आह— अव्यक्तेति। तदर्थमाह— अक्षरात्मिकेति। आत्मस्वरूपेत्यर्थः। आत्मैव गतिरिति यावत्। आत्मान्यस्य स्वर्गादेः सर्वस्यापि प्राप्यस्य व्यक्तत्वेनाव्यक्तत्वाभावात् आत्मरूपैव गतिरव्यक्ता। आत्मनोऽव्यक्तत्वं तु प्रागेव दर्शितम्। अव्यक्तेत्यस्य करणागोचरेति यथाश्रुतार्थः; अक्षरात्मिकेति तु फलितार्थः। ननु सर्वेषां देहोऽस्त्येव? अत आह— देहाभिमानवद्भिरिति। अनादिकालादारभ्यानेकजन्मस्वभ्यस्तस्य देहाभिमानस्य परित्यागो दुष्करः, तत्परित्यागं विना आत्मा दुर्लभः, तस्मादक्षरोपास्तौ क्लेशोऽधिकतर इति भावः। अत इति। देहाभिमानिभिरात्मनो दुरवापत्वाद् देहाभिमानस्य च दुस्त्यजत्वादित्यर्थः। यस्मादात्मा देहाभिमानिभिर्दुर्लभः, यस्माच्च देहाभिमानो दुस्त्यजः, तस्माद् आत्मलाभार्थमक्षरोपासकानामधिकतरः क्लेश इति परमार्थः। ननु ४आत्मप्राप्तेर्दुर्लभत्वे देहाभिमानिनामात्मोपासनं सुलभमेवेति चेत्? मैवम् ; ‘अहं ब्रह्मे’त्यक्षरोपासनस्यापि ‘नाहं देहः’ इति देहाभिमानत्यागपूर्वकत्वात्। न च ज्ञानादेव कैवल्यसिद्धेः किमक्षरोपासनेनेति वाच्यम् ; ये तु श्रवणादिनैवात्मानं ब्रह्मेति विदितवन्तस्तेषां ज्ञानादेव कैवल्यमिति नोपासनेन फलम्। ये तु प्रतिबन्धबाहुल्याद् बहुशः श्रवणादिनाऽपि नात्मानं विदुः, तेषामक्षरोपासनमिदं विहितम्५। ततश्चोपासनात् तेषामात्मनि ब्रह्मबुद्धिर्भवति, उपासनमहिम्ना प्रतिबन्धक्षयात्। इदं च यावदात्मसाक्षात्कारं कर्तव्यम् , न तु पश्चात् , फलाभावात् , नीरलाभानन्तरं खनित्रपरित्यागवदिति बोध्यम्॥५॥
सगुणोपासकेष्वपि ३कथमित्याह— किन्त्विति। अक्षरोपासनस्य दुष्करत्वाद् उपासनान्तरस्य सुकरत्वादित्यभिप्रेत्याह— क्लेश इति। अधिक एव इतरेभ्यो द्वैतदर्शिभ्यः कामिभ्यः इति शेषः। तेषां क्लेशस्याधिकतरत्वे हेतुं मत्वा विशिनष्टि— देहेति। अव्यक्तम् अत्यन्तसूक्ष्मं निर्विशेषमक्षरम् , तस्मिन् आसक्तम् अभिनिविष्टं चेतो येषां, तेषामिति यावत्। अक्षरोपासकानां क्लेशस्याधिकतरत्वे भगवानेव हेतुमाह— अव्यक्तेति। दुःखं दुःखेन, कृच्छ्रेणेति यावत्। अतो देहाभिमानत्यागादित्यर्थः। ते कथं वर्तन्ते? तत्राह— अक्षरेति॥५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘परमात्मदर्शिनाम्’ इति पा.। २. इदं भाष्यमुत्तरश्लोके व्याख्यातं रा.पा.। ३. युक्ततमत्वमिति शेषः। ४. देहाभिमानिनामात्मज्ञानाभावेन तत्प्राप्तेः दुर्लभत्वेऽपि आत्मोपासने देहात्माभिमानत्यागस्यानावश्यकत्वात् कुतो दौर्लभ्यमिति शङ्का। ५. द्र. पञ्चदशी ध्यानदीपप्रकरणम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥५॥
[[५६३]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
ये त्विति। अयं श्लोको भक्तविषयः इत्याह— अक्षरेति। वर्तनं प्रवृत्तिर्व्यवहरणमिति यावत्। स्थितिरिति वा। उपरिष्टादिति। ‘अद्वेष्टा सर्वभूताना’मिति श्लोकमारभ्येति भावः। इदानीं तु भक्तानां वर्तनं वच्मीति भावः। अहं परः उत्कृष्टः, ईश्वर इति वा येषां ते मत्पराः। मयि परमेश्वरत्वबुद्धिमन्तः इत्यर्थः। योऽयं विश्वरूपः स एव परमेश्वरः इति कृतनिश्चयाः इत्यर्थः। अनन्येनेति। अन्यालम्बनरहितेनेत्यर्थः। विश्वरूपैकालम्बनेनेति यावत्। आलम्बनमिति। मनसः इति भावः॥६॥
तेषामिति। हे पार्थ! अहं मय्यावेशितचेतसां तेषां मृत्युसंसारसागराद् नचिरात् समुद्धर्ता भवामि। मय्यावेशितचेतसस्तान् भक्तानहं मृत्युसंसारसागराद् नचिरादेवोद्धारयिष्यामीत्यर्थः। न चिरात् नचिरादिति नशब्देन समासः। अतो न नलोपः। मदुपासनेति। मम विश्वरूपस्योपासनं मदुपासनं, तदेवैकं परं प्रधानं येषां तेषां तथोक्तानाम् , मदुपासने एकस्मिन्नेव पराणाम् आसक्तानामिति वा। भक्तानामिति यावत्। समुद्धर्ता उत्तारकः। ज्ञानप्रदानद्वारेति भावः। न हि ज्ञानं विना मोक्षः सम्भवति। न चेश्वरः स्वयमेव भक्तानां स्वस्वरूपं मोक्षं दिशतीति वाच्यम् ; मोक्षस्य नित्यसिद्धत्वेनादेयत्वात्। देयत्वे च धर्मादिवदनित्यत्वप्रसङ्गात् , नित्यो हि मोक्षः। न चेश्वरानुग्रहाज्जीवस्येश्वरसायुज्यं भवतीति वाच्यम् ; ईश्वरसायुज्यस्यापि नित्यसिद्धत्वात्। ईश्वरः परमात्मैव हि जीवः प्रत्यगात्मा। न चेश्वरानुग्रहाद् दुःखध्वंसलक्षणो मोक्षः स्याज्जीवानामिति वाच्यम् ; असङ्गस्यानन्दस्य जीवस्य दुःखसम्बन्धासम्भवात्। सुखदुःखादीनां मनोधर्मत्वाच्च। ‘कामः सङ्कल्पः’ इति श्रुतेः। न च निरतिशय- ब्रह्मानन्दप्राप्तिरिति वाच्यम् ; तस्यापि स्वतःसिद्धत्वेन ब्रह्मानन्दस्यानागन्तुकत्वात्। न च स्वस्वरूपेण तिष्ठतीति वाच्यम् ; प्रागपि जीवस्य स्वस्वरूपाच्च्युत्यभावात्। अविक्रियो हि जीवः प्रत्यगात्मा, ‘अजो नित्यः’ इत्यादिमन्त्रात्। कथं तर्हीश्वरस्य संसारसागराज्जीवोद्धारणम्? उच्यते— ज्ञानप्रदानद्वारेति। अज्ञानाज्जीवः आत्मानं देहादिरूपं मत्वा संसारसागरे पतितः। स एवेश्वरानुग्रहादात्मानं देहादिविलक्षणं सच्चिदानन्दं ज्ञात्वा संसारसागरादुत्तीर्णो भवति। ‘ईश्वरानुग्रहादेव पुंसामद्वैतवासना’ इति स्मरणादीश्वरानुग्रहो ज्ञानप्रयोजक एव, न तु मोक्षप्रयोजकः, मोक्षस्याप्रयोज्यत्वात्। अज्ञानमूलो हि रज्जुसर्पभ्रमो रज्जुतत्त्वज्ञानादेव निवर्तते, न त्वन्यस्माद् यथा, तथा अज्ञानमूलो जीवस्यात्मनि संसारित्वभ्रमो जीवतत्त्वज्ञानादेव १. ‘तेनानन्येनैव केवलेन योगेन’ इति पा.। २. ‘विशिष्यन्ते’ इति पा.। ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते॥६॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात् पार्थ ! मय्यावेशितचेतसाम्॥७॥
यद्यक्षरोपासका मामेवाप्नुवन्तीति २विशेष्यन्ते, तत् किं सगुणोपासकाः त्वां नाप्नुवन्ति? न, तेषामपि क्रमेण मत्प्राप्तेरित्याह— ये त्विति। तुशब्दः शङ्कानिवृत्त्यर्थः॥६॥
तेषां भगवद् ध्यायिनां किं फलतीति शङ्कामनुभाष्य फलमाह— तेषामित्यादिना। समुद्धर्ता सम्यगूर्ध्वं नेता ज्ञानावष्टम्भ- ये त्विति। ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः अहं परो येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यद् आलम्बनं विश्वरूपं देवमात्मानं मुक्त्वा यस्य सोऽनन्यः, १तेनानन्येनैव; केन? योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते॥६॥
तेषां किम्?—तेषामिति। तेषां मदुपासनैकपराणाम् अहम् ईश्वरः समुद्धर्ता। कुत इत्याह— मृत्युसंसार- आनन्दगिरिकृतव्याख्या
[[अ. १२. श्लो. ५-७]] [[५६४]]
निवर्तते, नान्यथा। तथा चेश्वरमाययाऽपहृतविवेकान् अनात्मतादात्म्याध्यासमापद्य संसरतो जीवान् , भगवान् भक्त्या तोषितश्चेत् तैः, विवेकिनः कृत्वा अनात्मतादात्म्याध्यासं नाशयित्वा आत्मसाक्षात्कारं तेभ्यो दिशति, ततश्च ते मुच्यन्ते। अत उक्तम्— ईश्वरो भक्तान् संसारसागरात् तारयतीति। एवमीश्वराधीनस्थितिकत्वादेव भक्तानां मार्जारकिशोरन्यायोऽमीषु सञ्चारितः पूर्वैः। मार्जारो हि स्वशिशुं स्वयमेव वक्त्रेण गृहीत्वा स्थलान्तरं नयति, तद्वदीश्वरोऽपि भक्तान् स्वयमेव ज्ञानप्रदानद्वारा संसारात् तारयतीति। ज्ञानिनस्तु नेश्वरस्तारयति, किं तर्हि? त एव तरन्ति स्वयम् , ‘अहं ब्रह्मास्मी’ति ब्रह्मापरोक्षज्ञानादेव भास्करालोकात् तिमिरस्येव सर्वसंसारस्याज्ञानमयस्य समूलस्य निवृत्तेः। अत एवामीषु मर्कटकिशोरन्यायः सञ्चारितः पूर्वैः। मर्कटकिशोरो हि स्वयमेव मर्कटोदरं परिरभ्य वृक्षान्तरं गच्छति। तथा ज्ञान्यपि स्वयमेवेश्वरमात्मानं साक्षात्कृत्य ब्रह्मसायुज्यं प्रतिपद्यत इति। अनेन स्वतः संसारसागरोत्तरणक्षमाः ज्ञानिनः तदक्षमेभ्यो भक्तेभ्यः उत्कृष्टा इति सूचितम्। यस्मादहमेव भक्तानां संसार- सागरादुद्धर्ता, ततः संसारसागरतरणे भक्तानां न कश्चित् क्लेशः। ज्ञानिनस्तु स्वयमेव संसारसागरं तरन्तीति तेषामस्ति संसारसागरतरणे क्लेशोऽधिकः इति भावोऽत्र गम्यते। यद्यपि भक्ता अपीश्वरानुग्रहाज्ज्ञानं लब्ध्वा तेनैव ज्ञानप्लवेन संसारसागरं स्वयमेव तरन्ति, पूर्वं भक्तानामेवेदानीं ज्ञानित्वात्। ततश्च भक्तानामीश्वरः संसारसागरात् समुद्धर्तेति वक्तुं न शक्यम् , तथापि भक्तानां समुद्धर्तेश्वर इत्यस्य भक्तानामीश्वरः संसारसागरो- त्तारकं ज्ञानं दिशतीत्येतावत एवार्थस्येह विवक्षितत्वात्। ज्ञानिनां तु न कश्चित् संसारः, नापि तदुद्धारकः, ज्ञानिन एवेश्वरत्वादिति। अथवा ये सगुणब्रह्मोपासकास्तानहं संसाराज्ज्ञानप्रदानद्वारा उद्धारयामि। ये तु निर्गुणोपासकास्ते स्वयमेवात्मानं साक्षात्कृत्य संसारं तरन्तीति। न हि सगुणोपासकाः निर्गुणोपासकीभूय मुक्ता भविष्यन्तीति स्थितं, येन पूर्वं भक्तानामेवेदानीं ज्ञानित्वादितिवद् वक्तुमत्र शक्येत। न हि निर्गुणोपासनं ज्ञानम् , किं तर्हि? निर्गुणब्रह्मसाक्षात्कार एव। तदेवं सगुणोसकान् मार्जारकिशोरन्यायेनाहं संसारात् तारयामि। निर्गुणोपासकास्तु मर्कटकिशोरन्यायेन स्वयमेव तरन्ति। ज्ञानिनां तु न कश्चित् संसारः, नापि तत्तरणमिति विवेकः सिद्धः। न चैवमव्यक्तोपासकाः ज्ञानित्वेन इतः प्राग् व्यवहृता इति तद्विरोधः इति वाच्यम् ; आत्मानात्मविवेकरूपज्ञानवत्त्वेन तेषां ज्ञानित्वव्यवहारात्। नन्वेवं सगुणोपासका अपीश्वरानुग्रहादात्मसाक्षात्कारं लब्ध्वा आत्मानमेव प्रतिपद्यन्ते, अव्यक्तोपासकाश्चात्मसाक्षात्कारं लब्ध्वा आत्मानं प्रतिपद्यन्ते। ततश्च ‘ते प्राप्नुवन्ति मामेवे’ति ज्ञानिनः प्रति, ‘ते मे युक्ततमा मताः’ इति भक्तान् प्रति च यदुक्तमीश्वरेण तन्न सङ्गच्छत इति चेत्? मैवम् ; अक्षरोपासकानां तत्त्वसाक्षात्कारात् प्रागपि तत्त्वस्य परोक्षं ज्ञानमस्ति। ततश्च ज्ञानिनोऽमी सच्चिदानन्दमीश्वरमेवात्मत्वेन प्रतिपद्यन्ते। भक्तानां तु तदपि नास्ति, आत्मानात्मविवेकस्यैवाभावात्। तदेवं परोक्षज्ञानिनो ऽक्षरोपासनवशाद् अपरोक्षमीश्वरं प्राप्नुवन्तीति ‘ते प्राप्नुवन्ति मामेवे’त्युक्तम्। तत्त्वसाक्षात्कारलक्षणेश्वरप्राप्तिरूपफलादन्यस्य अक्षरोपासनजन्यस्य फलस्याभावात्। भक्तास्तु ईश्वरोपासनवशात् तावद् विवेकं प्रतिपद्य, पश्चात् परोक्षज्ञानं प्रतिपद्य, ततस्तत्त्वसाक्षात्कारं प्रतिपद्यन्त इति कृत्वा भक्तानामीश्वरप्राप्तिरूपफलादन्यफलयोः प्राप्तव्ययोः विवेकज्ञानयोः सत्त्वाद् भक्ताः मां प्राप्नुवन्तीति नोक्तम् , भक्तानां विवेकादिप्राप्तेरपि सद्भावात्। किन्तु युक्ततमाः इत्युक्तम् , विवेकादिप्राप्तिद्वारा तेषामपि क्रमेण मोक्ष- सद्भावात्। तथा च विवेकविज्ञानशून्येभ्यो भक्तेभ्यः तद्युक्ताः ज्ञानिनः उत्तमाः इति सिद्धम्। तदेवं सगुणोपासकान् विवेकविज्ञानहीनान् भगवान् स्वयं तत्प्रदानद्वारा संसारात् तारयति। विवेकविज्ञानवन्तस्त्वक्षरो- पासकाः स्वयमेव विवेकादिसाधनैस्तरन्तीति नाक्षरोपासकानामीश्वरानुग्रहापेक्षा। न हि ते ईश्वरमात्मनोऽन्यं मन्यन्ते, येनात्मनो जीवस्य परित्राणाय स्यात् तेषामीश्वरानुग्रहापेक्षा। किन्तु आत्मानमेवेश्वरं मन्यन्त इति१। भाष्यार्कप्रकाशः १. अहमीश्वरः इति मन्यन्ते इति नार्थः, किन्तु आत्मनः ईश्वरस्वरूपचैतन्यादभेदं मन्यन्त इत्यर्थः ।
[[५६५]]
ननु नचिराच्छब्दस्वारस्याद् भक्तानामीश्वरस्तत्त्वसाक्षात्कारं सुखेन शीघ्रं दिशतीति गम्यते। ततश्चाभक्तानामात्मसाक्षात्कारो दुर्लभ इति सूच्यते। अतो भक्तिरेव ज्यायसी चेत्? मैवम् ; ते प्राप्नुवन्ति मामेवेत्यनेन अक्षरोपासकानामेव भगवत्प्राप्तिः सुलभेति प्रोक्तत्वात्। ईश्वरस्यापि भक्तानां तत्त्वसाक्षात्कारं साक्षाद् दातुमशक्तत्वात्। अन्यथा विवेकादिसाधनवैयर्थ्यप्रसङ्गात्। किं तर्हि? विवेकादिदानद्वारैव। तथा च मोक्षं प्रति विवेकादिमन्तोऽक्षरोपासका एवान्तरङ्गाः, तद्रहितास्तु भक्ता बहिरङ्गा एव। न चेश्वरो भक्तानां विवेकं परोक्षज्ञानमपरोक्षज्ञानं च युगपदेव दिशति, अथवा क्षिप्रमेवेति वाच्यम् ; किं निर्गुणोपासकेष्वीश्वरस्य प्रद्वेषे निमित्तं, येन तेषां विवेकज्ञानवतामपि क्षिप्रं परमात्मसाक्षात्कारं न दिशति? न च भक्त्यभाव एवेति वाच्यम् ; कूटस्थेश्वरे तेषामपि भक्तिसद्भावात्। आत्मरता हि ते। न हि विश्वरूप एवेश्वरः, कूटस्थस्त्वनीश्वर इति वक्तुं शक्यते, येन कूटस्थरतानामीश्वराभक्तत्वं स्यात्। प्रत्युत कूटस्थ एवेश्वरः, सच्चिदानन्दरूपत्वात् , विश्वरूपं तु मायामयत्वादनीश्वरमेव। एवं सति ये यथार्थं कूटस्थमात्मानमीश्वरमुपासते त एवेश्वरस्य प्रियाः। वक्ष्यत्यमुमेवार्थम्— अद्वेष्टेत्यादिना। ये त्वयथार्थं विश्वरूपोपहितमीश्वर- मुपासते, ते नातीवेश्वरस्य प्रियाः। पितुर्हि पण्डिते पुत्रे प्रीतिः, न तु मूर्खे। भगवांस्तु सर्वस्य पिता। अतः पण्डिता एव ब्रह्मादयः पुत्रास्तस्य प्रियाः। आत्मत्वाच्च ज्ञानिनः प्रियाः ईश्वरस्य। एवं प्रियानप्यमूनीश्वरः संसारसागरान्न तारयति, कुतः? अक्षरोपासनेन तेषामात्मसाक्षात्कारे सति तत्तर्तव्यसंसारसागरस्यैवाभावात्। तस्मादीश्वरो भक्तानामेव संसारसागरादुद्धारकः, न तु ज्ञानिनामिति युक्तमुक्तम्। नैतावता भक्ता एवेश्वरस्य प्रिया इति भ्रमितव्यम् , ज्ञानी प्रियः इति वक्ष्यमाणत्वादुक्तत्वाच्च। नापि ज्ञानिनां स्वयं संसारसागरतरणक्लेश इति भ्रमितव्यम् , तेषां संसारस्यैवाभावात्। नाप्यक्षरोपासकानां स्वयं संसारसागरतरणक्लेश इति भ्रमितव्यम् , तेषामपीश्वरानुग्रहादेव तत्त्वसाक्षात्कारे सति संसारस्यैवाभावात्। नन्वेवमपरोक्षज्ञानप्रदानद्वारा ज्ञानिनामपि संसारसागराद् ईश्वर एवोद्धर्तेति कथमुक्तम् - भक्तानामेवेति चेद्? उच्यते— परोक्षज्ञानिदृष्ट्याऽपि नास्त्यात्मनोऽन्य ईश्वरः, यः संसाराज्ज्ञानिनः उद्धरेत्। किं तर्हि? ज्ञानिनामात्मैवेश्वरः। एतेषामात्मानुग्रह एवेश्वरानुग्रहः। एतेनात्मैवोद्धारयति, न त्वात्मनोऽन्य ईश्वरः, भक्तास्त्वात्मनोऽन्यमीश्वरं मन्यन्ते। अतस्तान् भिन्न एवेश्वर उद्धारयति। अत एवोक्तम् — भक्तानामीश्वर उद्धारकः, ज्ञानिनस्तु स्वयमेवोत्तरन्तीति। परोक्षज्ञानिनः स्वात्मनैवोत्तीर्यन्ते, अपरोक्षज्ञानिन उत्तीर्णा एव, भक्तास्त्वीश्वरेणोत्तार्यन्त इति विवेकः। यद्यपि भक्तानां परोक्षत्वेनाभिमतोऽपीश्वर आत्मैव, तथापि ते आत्मानमीश्वरं न विदुः। अतोऽस्मान् सर्वज्ञ ईश्वर उत्तारयिष्य- तीति तेषां निश्चयः। तमनुसृत्योक्तं भगवताऽपि— ‘तेषामहं समुद्धर्ता’ इति। इदं चेश्वरकर्तृकं भक्तोद्धारणं तत्त्वज्ञानदानद्वारैवेति वेद्यम्। ननु यद्यात्मैवेश्वरः, कथं तर्हि ज्ञानिन आत्मानुग्रहः? न हि स्वयं स्वस्यानुग्राहकः स्यादिति चेत्? मैवम् ; ज्ञानिनो हि प्रमातारः आत्मानुग्रहादपरोक्षज्ञानं लभन्ते, आत्मानुग्रहादेव हि इतः प्राक् परोक्षज्ञानलाभः आसीदेषाम्। किं बहुना? आत्मानुग्रहादेव प्रमातॄणां घटादिविषयलाभोऽपि। आत्मनोऽन्यस्य सर्वस्यापि जडत्वादात्मप्रतिफलनेनैव प्रमातुरहङ्कारस्य चेतनत्वापत्तेः। न चैवमात्मनः सकाशादत्यन्तं भिन्न एव प्रमातेति वाच्यम् ; आत्मप्रतिबिम्बरूपस्य प्रमातुर्बिम्बादात्मनः सकाशादत्यन्तं भेदस्य, अत्यन्तमभेदस्य वा दुर्निरूपत्वात्। एवमनिर्वाच्यत्वादेव मिथ्यात्वं प्रमातुः। यत्तु प्रमातरि प्रतिबिम्बेऽनुगतं शुद्धचैतन्यमात्रं तदेव सत्यं, तदेव स्वस्वरूपं च प्रमातुरिति नात्यन्तं भिन्न आत्मनः प्रमाता, वस्तुतः प्रमातुरेवात्मत्वादिति संक्षेपः। तस्मादहमन्य ईश्वरादिति ये मन्यन्ते, तान् विवेकविज्ञानादिप्रदानद्वारा अनुगृह्णातीश्वरः। ये त्वहमेवेश्वर इति मन्यन्ते ते स्वयमेवोत्तरन्तीत्यभिप्रायेणोक्तम् – ‘तेषामहं समुद्धर्ता’ इति भगवता। सम्यगुद्धर्ता समुद्धर्ता यथा पुनःसंसारसागरोन्मज्जनं न स्यात् तथा सम्यगुद्धर्तेत्यर्थः। १परमपदस्यापुनरावर्तित्वाद् , भक्तानां च क्रमेण परमपदलाभाच्चेति भावः। जन्ममरणसुखदुःखरोगारोग्य- शीतोष्णवृद्धिक्षयादिलक्षणः संसारः। तत्र मृत्योः पतितत्वेऽपि पुनस्तद्ग्रहणं तस्य भयङ्करत्वप्रदर्शनार्थम्। समुद्रे मकर इव संसारे मृत्युरतीव भयङ्करो हि। स्वस्य स्वीयस्य वा मरणादनुमितादपि हि नित्यं बिभेति लोकः, न तु तज्जन्मादेः। दुःखदा अपि भाष्यार्कप्रकाशः अ. १२. श्लो. ७ ] १. पुनःसंसारसागरोन्मज्जनाभावे हेतुमाह— परमेति।
[[५६६]]
शीतदारिद्र्यादयो न मृत्युवद् भीतिं कुर्युः, धनिकोऽपि हि मृत्युभीतो धनादिकं परित्यजत्येव। तदेवमतिभयङ्करेण दुर्वारेण मृत्युना युक्तत्वात् संसारोऽतिभयङ्करो दुस्तरश्च। ननु कथं संसारस्य सागरत्वम्? अत आह— सागर इवेति। कस्मिन्नंशे संसारसागरयोरौपम्यम्? अत आह— दुस्तरत्वादिति। सागर इव दुस्तरत्वात् संसारसागर इत्युच्यते उपचारात्। संसारश्चासौ सागर इति कर्मधारयः। न च संसारः स एव सागर इति भाष्ये विग्रहो दर्शितः, ततोऽवधारणपूर्वपदकर्मधारयोऽयम्, न तु विशेषणसमास इति वाच्यम् ; व्याकरणशास्त्रे क्वाप्यवधारणपूर्वपदकर्मधारयादर्शनात्। सम्भावनावधारणपूर्वपदकर्मधारययोर्विशेषणसमासत्वात् ‘विशेषणं विशेष्येण बहुल’मिति तद्विधायकसूत्रात्। मयूरव्यंसकादित्वाद् विशेष्यस्यापि संसारस्य पूर्वनिपातः। एवं रूपकसमासेषु सर्वत्राप्यूह्यम्। अत्र संसारः सागर इवेत्युपमितसमासोऽपि वक्तुं शक्यते। यत्तु रामानुजः - मृत्युभूतात् संसाराख्यात् सागरादिति, तदयुक्तम् - मृत्योरपि संसारान्तःपातित्वेन संसारस्य मृत्यूपमानौ- चित्यात्। यच्च नचिरात् क्षिप्रमेव भक्तान्तारयामि, ज्ञानिनस्तु चिरेणेति, तच्चायुक्तम् - ज्ञानस्यैव मोक्षं प्रत्यन्तरङ्गत्वेन सन्निहितत्वात् ज्ञानिनामेवाचिरेण मोक्षलाभः। भक्तानां तु ज्ञानद्वारा क्रमेणेति भक्तानामेव चिरेण मोक्षलाभ इति सिद्धान्तात्। न चैवं नचिरादित्य- पार्थमिति वाच्यम् ; केवलकर्मयोग्यपेक्षया नचिरादित्युक्तत्वात्। यज्ञयागादिकर्मानुष्ठात्रपेक्षया विश्वरूपोपासकानां द्रुतं चित्तशुद्धिर्भवति, ततो ज्ञानप्राप्तिरिति भावः॥७॥
मयीति। यत एवं मय्यावेशितचेतसां तेषामहं मृत्युसंसारसागरात् समुद्धर्ता, तस्मादित्यर्थः। मनोबुद्ध्योरपौनरुक्त्यायाह— सङ्कल्पेति। एकमेवान्तःकरणं संशयनिश्चयगर्वस्मरणात्मकचतुर्विधवृत्तिभेदात् क्रमेण मनोबुद्ध्यहङ्कारचित्तशब्दैरुच्यते, तत्र सङ्कल्प- विकल्पौ संशयः, बुद्धिमिति निश्चयात्मिकामित्यर्थः। इदमेवाह— अध्यवसायं कुर्वतीमिति। अध्यवसायो निश्चयः। तत इति। मयि मनोबुद्ध्योर्निवेशनादित्यर्थः। अत ऊर्ध्वं मय्येव निवसिष्यसि। ननु कथमाधाराधेयभाव एकस्यैवात्मनः? इत्यत आह— मदात्मनेति। मत्स्वरूपेण तव स्थितिरेव मयि वासस्तवेति विवक्षितेति भावः४। यद्यपि देहपातात् प्रागपीश्वरस्वरूपेणैव जीवः स्थितः, दानेनेत्यर्थः। मृत्युः अज्ञानं, मरणाद्यनर्थहेतुत्वात् , तेन कार्यतया युक्तः संसारः॥७॥
भगवदुपासना विशिष्टफलेत्येवं यतः सिद्धम् , अतो भगवन्निष्ठायां प्रयतितव्यमित्याह— यत इति। ३असंहिताकरणं श्लोकपूरणा- र्थम्। मनोबुद्ध्योः भगवत्यवस्थापने प्रश्नपूर्वकं फलमाह—तत इति। भगवन्निष्ठस्य तत्प्राप्तौ प्रतिबन्धाभावं सूचयति— संशयोऽत्रेति॥८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय। १निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥८॥
सागरात् मृत्युयुक्तः संसारो मृत्युसंसारः, स एव सागर इव सागरः, २दुस्तरत्वात् ; तस्माद् मृत्युसंसारसागराद् अहं तेषां समुद्धर्ता भवामि; न चिरात् , किं तर्हि? क्षिप्रमेव, हे पार्थ ! मय्यावेशितचेतसां मयि विश्वरूपे आवेशितं प्रवेशितं समाहितं चेतो येषां ते मय्यावेशितचेतसः, तेषाम्॥७॥
यत एवं तस्मात्— मय्येवेति। मय्येव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकम् आधत्स्व स्थापय, मय्येव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय। ततस्ते किं स्यादिति शृणु— निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यस्येव अतः शरीरपाताद् ऊर्ध्वम् , न संशयः संशयोऽत्र न कर्तव्यः॥८॥
१. इडागमः आर्षः। २. ‘दुरुत्तरत्वात्’ इति पा.। ३. ‘मय्येव अत’ इत्यत्र सवर्णदीर्घाकरणमित्यर्थः। ४. ‘वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम्॥’ इति न्यायात् सगुणनिष्ठाऽपि अन्ते निर्गुणब्रह्मभाव एव पर्यवस्यतीति भावः।
[[५६७]]
अथेति। २अथ एवं यथा ३अवोचम् तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं ४न शक्नोषि चेत् , ततः पश्चाद् अभ्यासयोगेन चित्तस्य एकस्मिन्नालम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः, तत्पूर्वको योगः समाधानलक्षणः, तेनाभ्यासयोगेन मां विश्वरूपम् इच्छ प्रार्थयस्व आप्तुं प्राप्तुम् , हे धनञ्जय !॥९॥
जीवेश्वरयोश्चैतन्यरूपत्वात् , तथापि जीवन्मुक्तिदशायां कदाचिद् देहादितादात्म्याध्यासः स्यादिति न सर्वदा जीवस्येश्वरात्मना स्थितिः, विदेहकैवल्ये तु देहाद्यभावात्, अज्ञानस्य च नष्टत्वान्न देहाद्यभिमान इति तदा सर्वदाऽपि जीवस्येश्वररूपेण स्थितिः स्यात्। अत एव विदेहकैवल्यस्यापुनरावर्तित्वम्। अयं चार्थ एवकारेण ज्ञाप्यते। अत ऊर्ध्वं मयि निवसिष्यस्येव, न तु पुनरागमिष्यसीत्यर्थात्। यद्वा मय्येव निवसिष्यसि, न तु देहादिसंसार इत्यर्थात्। तथा चात ऊर्ध्वं सर्वदाऽपि मय्येव निवसिष्यस्येवेति फलितार्थः। संशय इति। निवसिष्यसि वा न वेत्याकारक इति भावः। निवसिष्यामि न वेत्याकारक इति वा। विश्वरूपे ईश्वरे मनोबुद्ध्योरा- धानाच्चित्तशुद्धिज्ञानप्राप्तिद्वारा परमात्मसायुज्यं स्यादिति परमार्थः। न च विश्वरूपोपासनमात्रादेव परमपदप्राप्तिरत्राभिधीयत इति वाच्यम् ; ज्ञानादेव मुक्तिरित्येतदर्थप्रतिपादकश्रुतिस्मृत्यादि- विरोधात्। अज्ञानकृतस्य संसारस्य ज्ञानं विना नाशायोगात्। ईश्वरोपासनस्य च क्रियात्वेनाज्ञानाविरोधित्वाद् विश्वरूपेश्वरोपासकानां नाहं ब्रह्मेति, अहमज्ञ इति, अहं मनुष्यः संसारीति चाज्ञानदर्शनात्। विश्वरूपे च देहे तेषामीश्वरभ्रान्तिदर्शनात्। तस्माद् विश्वरूपोपासकानामपि ज्ञानद्वारैव मोक्षः॥ ८॥
अथेति। अथ त्वं मयि चित्तं स्थिरं यथा तथा समाधातुं न शक्नोषि चेत् , हे धनञ्जय ! ततो मामभ्यासयोगेनाप्तुमिच्छ। यथाऽवोचमिति। यथाऽहमुक्तवानस्मि तथा मदुक्तप्रकारेण मयि विश्वरूपे। अभ्यासपदार्थमाह— चित्तस्येति। स्वाभिमते सुन्दरे कस्मिंश्चित् पद्मादिवस्तुनि विषयान्तराच्चित्तमानीय स्थापयेत्। तच्चेच्चित्तं सहजचापल्याद् विषयान्तरं गच्छति, तर्हि पुनरपि तदानीय पद्मादिवस्तुनि स्थापयेत्। एवं प्रत्यहं बलादपि चित्तमेकस्मिन् वस्तुनि स्थापयेच्चिरम्। एवङ्करणमभ्यासः। अनेन चाभ्यासेन चित्तसमाधाने पुरुषः शक्तो भवति। चित्तसमाधनं नाम चित्तस्य स्वाभिमतेऽर्थे चिरं स्थापनम्। ततश्च पद्मादाविव विश्वरूपेऽपीश्वरे चित्तसमाधानं स्यादिति भवेत् तस्य विश्वरूपप्राप्तिरिति। मां विश्वरूपं प्राप्तुमिति। विश्वरूपं मां साक्षात्कर्तुमित्यर्थः। विश्वरूपे मनः स्थापयितुमिति यावत्। विश्वरूपात्मना मनः परिणमयितुमिति फलितार्थः। ध्यानेन हि ध्यातुर्ध्येयात्मता स्यादिति। यद्वा अभ्यासयोगेन निमित्तेन, मनसा करणेन। मामाप्तुमिति। मां ध्यातुमित्यर्थः। विषयीकर्तुमिति यावत्। मनसो मद्रूपत्वमापादयितुमिति फलितार्थः। मनो हि वृत्त्या बहिर्घटादिरूपं प्राप्नोति यथा, तथा अन्तरपि वृत्त्या विश्वरूपभगवद्रूपं प्राप्नुयात्। एवं विश्वरूपात्मना मनसोऽवस्थानं यदि त्वं प्रार्थयसि, तर्हि पद्माद्यात्मना मनसोऽवस्थापनं तावदभ्यसेः६। यथा स्थूलप्रस्तरमुद्धरिष्यन् पुरुषः तावत् सूक्ष्मप्रस्तरोद्धारणमभ्यस्यति, तद्वत्॥९॥
मतप्रदर्शनपूर्वकं भगवत्प्राप्तावुपायान्तरमाह— अथेत्यादिना। एकमालम्बनं स्थूलं प्रतिमादि। समाधानं ५ततः अभ्यन्तरे विश्वरूपे चित्तैकाग्र्यम् ॥९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. इदानीं सगुणब्रह्मध्यानाशक्तानाम् अशक्तितारतम्येन प्रतिमादौ ध्यानाभ्यासः, भागवतधर्मानुष्ठानम् , सर्वकर्मफलत्यागः इति साधनानि त्रिभिः श्लोकैरुच्यन्ते। द्र. मधुसूदनी। २. ‘अथ त्वं’ इति रा.पा.। ३. ‘अवोचाम’ इति पा.। ४. ‘कर्तुं न शक्नोषि’ इति पा.। ५. ततः = प्रतिमादेः। इदं च ‘योगः समाधानलक्षणः’ इति भाष्यगतसमाधानपदार्थविवरणम्। ६. ‘अस गतिदीप्त्यादानेषु’ इति भौवादिकस्य धातोः रूपमिदम् । ‘अभ्यस्यति’ इति तु ‘असु क्षेपणे’ दैवादिकस्येति बोध्यम्। १अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनञ्जय !॥९॥
[[अ. १२. श्लो. ७-९]] [[५६८]]
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥१०॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥११॥
अभ्यास इति। मत्कर्म परमं प्रधानं यस्य स मत्कर्मपरमः, ईश्वरार्पणबुद्ध्या यज्ञादिविहितकर्मकारीत्यर्थः। सहजचपलस्य चित्तस्यैकत्रावस्थानरूपाभ्यासस्यापि दुष्करत्वाच्चित्तसमाधानं विनैव यज्ञादिकर्मणां सुकरत्वादभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भवेत्युक्तम्। कर्मणां बन्धकत्वादुक्तं मत्कर्मेति। कर्माणि हि फलद्वारा बध्नन्ति पुरुषम्। यदि कर्मणां फलमीश्वरे समर्पितम् , तर्हि कर्माणि नैव बध्नन्ति तम्। ननु विश्वरूपोपासनादभ्याससाध्याद् भवति पुंसां सिद्धिः, किम्पुनः त्वत्कर्मकरणात्? अत आह— मदर्थमिति। मदर्थं कर्माणि कुर्वन्नपि सिद्धिमवाप्स्यसि। अपिशब्दात् किं पुनः मद्विश्वरूपोपासकः इति द्योत्यते। अभ्याससापेक्षत्वाद् विश्वरूपोपासनं दुष्करम् , तन्निरपेक्षत्वात् कर्म सुकरमिति सूचनायाह— अभ्यासेन विनेति। केवलमिति। फलसङ्गादिराहित्येनेत्यर्थः। यद्वा केवलं भक्तियोगा- संस्पृष्टत्वेनेत्यर्थः। अथवा विवेकादिराहित्येनेत्यर्थः। काऽसौ सिद्धिः? अत आह— सत्त्वेति। चित्तशुद्धिमित्यर्थः। अर्थान्तरमाह— मुक्तिमिति। कथं कर्मकरणान्मुक्तिः? अत आह— योगेति। चित्तसमाधानं योगः॥१०॥
अथेति। अथ एतदपि कर्तुमशक्तोऽसि यदि, तर्हि यतात्मवान् मद्योगमाश्रितश्च सन् सर्वकर्मफलत्यागं कुरु। एतच्छब्दार्थमाह —मत्कर्मपरत्वमिति। ईश्वरार्थं कर्मानुष्ठानमित्यर्थः। मद्योगशब्दार्थमाह— मयीति। क्रियमाणानि कर्माणि मयि संन्यस्य तेषां यत् करणं स मद्योग इत्यन्वयः। मयि योगो मद्योगो, मदाधारको मद्विषयो वा कर्मयोगः। ईश्वरे कर्मणां संन्यासो नाम तत्फलपरित्यागः, सर्वकर्मफलत्यागं कुर्विति वक्ष्यमाणत्वात्। न च पुनरुक्तिः, ईश्वरे सर्वकर्मफलसमर्पणात्मकं मद्योगमाश्रितत्वादेव त्वं सर्वकर्मफलत्यागं कुर्विति हेतुहेतुमद्भावात्। द्वैताभिनिवेशादभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनरुपायान्तरमाह— अभ्यासेऽपीति। अभ्यासयोगेन विना भगवदर्थं कर्माणि कुर्वाणस्य किं स्यादित्याशङ्क्याह— अभ्यासेनेति। सिद्धिर्ब्रह्मभावः। अपिरुक्तव्यवधिसूचनार्थः॥१०॥
भगवत्कर्मपरत्वमप्यशक्यमिति शङ्कते— अथेति। बहिर्विषयाकृष्टचेतस्त्वादित्यर्थः। तर्हि भगवत्प्राप्त्युपायत्वेन संयतचित्तो भूत्वा कर्मफलसंन्यासं कुर्वित्याह— मद्योगमिति॥११॥
१. ‘सत्त्वशुद्धिं , मुक्तिं वा योगज्ञानप्राप्तिद्वारेण’ इति रा.पा. भाति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अभ्यासेऽपीति। अभ्यासेऽपि असमर्थोऽसि अशक्तोऽसि, तर्हि मत्कर्मपरमो भव, मदर्थं कर्म मत्कर्म, तत्परमो मत्कर्मपरमो मत्कर्मप्रधान इत्यर्थः। अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं १सत्त्वशुद्धि- योगज्ञानप्राप्तिद्वारेण अवाप्स्यसि॥१०॥
अथैतदिति। अथ पुनः एतदपि यदुक्तं मत्कर्मपरमत्वं तत् कर्तुमशक्तोऽसि, मद्योगमाश्रितो मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषामनुष्ठानं, स मद्योगः, तमाश्रितः सन् सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः सन्नित्यर्थः॥११॥
[[५६९]]
ननु मदर्थं कर्माणि कुर्विति पूर्वोक्तस्य मयि संन्यस्य कर्माणि कुर्वित्यधुनोक्तस्य चार्थस्य को भेद इति चेत्? उच्यते— ईश्वरार्थं यः कर्म करोति, तेन कर्मणि कर्तृत्वाभिमानोऽपि न कर्तव्यः। ईश्वरयोगाश्रितो यः कर्म करोति, तेन फलत्यागमात्रमेव कर्तव्यमिति। तत्र कर्तृत्वाभिमानपरित्यागस्य दुष्करत्वात् तदपेक्षया सुकरोऽयं मार्ग उपन्यस्तः फलपरित्यागरूपो भगवता दयालुना श्रीकृष्णेनेति बोध्यम्। यद्वा ईश्वरेण यज्ञादिकर्मणां विहितत्वात् तानि केवलं मया कर्तव्यानि, राज्ञा विहितानि कर्माणि भृत्येनेव, अकरणे नरकपातादिलक्षणप्रत्यवायादिति मत्वा ‘यः कर्म करोति स ईश्वरार्थं कर्मकर्ता’ इत्युच्यते। ईश्वराज्ञानिर्वर्तितया ईश्वरप्रीत्यर्थतया च तत्कर्मण ईश्वरार्थत्वात्। न च - निष्कामस्य पूर्णकामस्य चेश्वरस्य, राज्ञ इव सकामस्य भृत्यकर्मणा, जीवकर्मणा कोऽर्थः? येनेश्वरस्य प्रीतिः स्यादिति - वाच्यम् ; फलाभावेऽपि स्वाज्ञानुसारेण कर्माणि कृतानीति तत्कर्तरि प्रीयते महेश्वरः, यथा विद्यां सम्पादयेति स्वाज्ञया गुरुकुलं प्रविश्य विद्यामधीयाने पुत्रे प्रीयते पिता, तद्वत्। अथवा यथोक्तकर्मकरणद्वारा चित्तशुद्धिप्राप्त्यादिक्रमेण जीवा एते मुच्यन्त इति तेषु प्रीतिर्भगवतः। यथा तत्त्वविदो गुरोः शिष्ये। एवमेते ईश्वरार्थं कर्म केवलं कुर्वन्ति, अन्ये तु कृतकर्मफलमीश्वरे समर्पयन्तीति भेदः। अथवा यज्ञादिकर्मभिरीश्वर एवाराध्यत इतीश्वराराधनबुद्ध्या कृतानि कर्माणीश्वरार्थकर्माणि। इन्द्रचन्द्रादित्यगणपत्यादयो देवता मया कर्मभिराराध्यन्ते, यत्त्वमीषामाराधनजन्यं फलं तन्न मम, किन्त्वीश्वरस्यैवेति बुद्ध्या यानि कृतानि कर्माणि, तानि तु नेश्वरा- र्थानि, किं तर्हि तत्फलमेवेश्वरार्थमिति मत्कर्मकृतां फलत्यागिनां च भेदः। सर्वाणि कर्माणि विधाय ब्रह्मार्पणमस्त्विति तत्फल- परित्यागः सुकरः। इमानि सर्वकर्माण्यपीश्वराराधनार्थानीत्यनुसन्धानं तु दुष्करमिति पक्षद्वयमुपन्यस्तम्। यत्तु रामानुजः - मदर्थं कर्माणि मदीयानि आलयनिर्माणोद्यानकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजा- प्रवर्तननामसङ्कीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि; सर्वकर्मफलत्यागस्तु यज्ञादिकर्मफलस्वर्गादिपरित्याग इति। तत्तुच्छम् - यज्ञादि- कर्माणामपीश्वराराधनरूपत्वेनालयनिर्माणादिवदीश्वरार्थकर्मत्वात्। अन्यथा आलयनिर्माणादिकर्माण्येव विदध्याच्छ्रुतिरपि, न तु यज्ञा- दीनि। ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ इत्यादिनेहापि यज्ञादीनामीश्वराराधनरूपत्वस्योक्तत्वात्। किञ्च यज्ञा- द्यपेक्षया पुष्पाहरणादिकर्मणां सुकरत्वेन यज्ञाद्यशक्तस्यैव पुष्पाहरणादिकर्माधिकारात् ‘अथैतदप्यशक्तोऽसी’ति पुष्पाहरणादिकर्मा- शक्तस्य यज्ञादिकर्मफलत्यागविधानमयुक्तम्। अपि च आलयनिर्माणादीनां पूर्तकर्मत्वेन, पूर्तकर्मणश्च चन्द्रलोकभोगफलकत्वेन, फलत्यागस्य १चाहितत्वेन न तेषां सत्त्वशुद्धिरपि सिध्येत् , किं पुनर्मोक्षः? अपि च ‘अहरहः सन्ध्यामुपासीत’, ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादिश्रुतिसिद्धसन्ध्यायज्ञादिकर्मपरित्यागे, आलय- निर्माणादिकर्मस्वीकारे च परित्यक्तभर्तृकायाः स्वीकृतजाराया जारिण्या इव तवापि दुर्गतिरेव स्यात्। न च सन्ध्यायज्ञादिकर्मसु स्थित्वैवालयनिर्माणादीनि कुर्यादिति वाच्यम् ; एकत्र कर्मणि व्यापृतस्य कर्मान्तरे प्रवृत्त्यसम्भवात्। यज्ञादिकर्मानधिकारिणामद्विजानां परलोकभोगायैव पूर्ताख्यकर्मणामीश्वरेण निर्मितत्वात्। ‘यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्। हित्वाऽर्चां भजते मौड्याद् भस्मन्येव जुहोति सः॥’ इति प्रतिमायां भगवदाराधनस्य निन्दितत्वात्। प्रतिमार्चनस्य स्त्रीशूद्रादिसर्वसुकरत्वेन महानुभावं पार्थं प्रति ‘अथैतदप्यशक्तोऽसी’ति वक्तुमयुक्तत्वात्। प्रतिमार्चनापेक्षया यज्ञादिकर्मफलत्यागस्य सुकरत्वं विदुषामपहासास्पदमेवेति हेतोश्च। यच्च मद्योगं मद्भक्तियोगमाश्रितः सन् एतत् कर्तुमशक्तोऽसीत्यन्वयस्तेन दर्शितः, तदप्यसत् - मद्योगमाश्रितः इत्यस्य पूर्ववाक्यान्वये १समाप्तपुनरादानदोषात्। यद्यार्षेषु ग्रन्थेषु तादृशा दोषा नाश्रीयन्ते, तर्हि मद्योगमित्यस्य मद्भक्तियोगमित्यर्थश्च लाक्षणिकत्वादुपेक्ष्यः। मयि योगश्चित्तसमाधानमर्थाद्भक्तिरेवेति न लक्षणा दोष इत्यभ्युपगमेऽपि भगवति चित्तं समाधातुमशक्तस्यैव मदर्थं कर्माणि कुर्विति उपदिष्टत्वेन ईश्वरकर्मपरस्येश्वरे चित्तसमाधानाभावाद् मद्योगमाश्रितो मदर्थं कर्माणि कर्तुमशक्तोऽसीति वर्णनमयुक्तमेवेति। भाष्यार्कप्रकाशः अ. १२. श्लो. १०-११ ] १. ‘अविहितत्वेन’ इति पाठः संभाव्यते।
[[५७०]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
अत्र मद्योगमाश्रितः सन्नेतदपीत्यन्वयोऽपि गम्यते। मद्योगशब्दस्य तु शङ्करोक्त एवार्थः। तथा चेश्वरे कर्तृत्वादिसंन्यास- पूर्वकमीश्वरार्थं कर्म कर्तुं यो न शक्नोति, तेन कर्मफलपरित्यागः कर्तव्यो नियतात्मनेति सिध्यति निरवद्यः पन्थाः। माऽस्तु ममैतत् कर्मफलमित्यनुसन्धानमात्रमेवास्य फलत्यागिनः कर्तव्यः[व्यम्]। ईश्वरार्थं कर्मकृतस्तु— ईश्वराराधनायैतत् कर्म मया क्रियत इति, अनेन कर्मणा मयेश्वर एक एवाराध्यत इति वा, ईश्वरप्रीतये एतत् कर्म क्रियत इति वा, न मया कर्म क्रियते किन्त्वीश्वरेणैवेति वा, न मया कर्म क्रियते किन्तु प्रकृत्यैवेति वा। एवमाद्यनुसन्धानं कर्तव्यमिति दुष्करम् ईश्वरकर्मप्रधानत्वं कर्मफलत्यागापेक्षयेति भावः॥११॥
श्रेय इति। अभ्यासाद् अनुष्ठानात् कर्मणां ‘मत्कर्मपरमो भवे’त्युक्तलक्षणाद् ज्ञानं शास्त्रार्थपाण्डित्यम् , आत्मानात्मपदार्थ- ज्ञानमिति यावत्। श्रेयः प्रशस्यतरं हि। हिः प्रसिद्धौ। ज्ञानाच्च तस्माद् ध्यानं विश्वरूपोपासनं विशिष्यते। ध्यानात् तस्मात् सर्वकर्मफलत्यागो विशिष्यते। यद्यपीश्वरार्थकर्मकरणाशक्तस्यैव फलत्यागो विहितस्तथापि फलत्यागः सर्वोत्कृष्ट एव। कुतः? त्यागाच्छान्तिरनन्तरम् त्यागादनन्तरमेव यस्माच्छान्तिः स्यात् , तस्मात् त्यागो विशिष्यते ज्ञानविशिष्टादपि ध्यानादिति। यद्यपि पूर्वं विश्वरूपोपासन-अभ्यास-मत्कर्मपरमत्व-फलत्यागरूपाश्चत्वार उपायाः उक्ताः, त एवेहापि वक्तव्याः, तेषां मध्ये कर्मफलत्याग उत्कृष्ट इति तस्य स्तवनीयत्वात् , तथापि चित्तस्यैकत्रावस्थापनलक्षणाभ्यासो नेह गृहीतः, अभ्यासस्य विश्वरूपोपा- सनहेतुत्वेन साक्षान्मोक्षमार्गत्वाभावात्। विश्वरूपध्यानसामर्थ्याय ह्यभ्यासो विहितः। ज्ञानं तु पूर्वमनुक्तमप्युक्तम् , इह तस्यापि मोक्षमार्गत्वेन तदपेक्षयाऽपि फलत्यागस्य प्राशस्त्यस्य वक्तव्यत्वात्। न चैवं ज्ञानायोगादप्यस्य प्राशस्त्यं वक्तव्यमेवेति तस्यापीह ग्रहणं भवेदिति वाच्यम् ; अज्ञविषयत्वादस्य श्लोकस्य। अज्ञस्य ज्ञानयोगानधिकारेण ज्ञानयोगो हि न तस्य मोक्षमार्गः। न चाज्ञस्य कथं शास्त्रार्थपरिज्ञानमिति वाच्यम् ; सुतरामज्ञस्यावैदिकस्य नास्तिकस्य कर्मण्यप्यनधिकारेणात्मयाथार्थ्यज्ञानशून्यस्यैवेहाज्ञत्वेन विवक्षितत्वात्। शास्त्रार्थविदोऽपि सम्यग्दर्शनशून्या ह्यज्ञा इति। यद्वा अभ्यासाच्चित्तस्यैकत्र स्थापनलक्षणात् ज्ञानं शास्त्रार्थपरिज्ञानं श्रेयः, अभ्यासस्तु ईश्वरकर्मपरमत्वाच्छ्रेयानिति बोध्यम्। अन्यत्सर्वं पूर्ववत्। मत्कर्मपरमत्व अभ्यास-शास्त्रार्थज्ञान-ध्यान-फलत्यागानां मध्ये फलत्याग उत्कृष्ट इति। अथवा अभ्यासाच्चित्तस्यैकत्र स्थापनलक्षणाज्ज्ञानं शास्त्रार्थयज्ञादिकर्मपरिज्ञानं लक्षणया तत्प्रयुक्तमीश्वरार्थकर्मपरत्वं श्रेयः, अन्यत्पूर्ववत्। यद्यप्यभ्यासेऽप्यसमर्थस्येश्वरार्थकर्मपरत्वं विहितं, तथापि अभ्यासादविवेकपूर्वकात् श्रेय एव ज्ञानपूर्वकमीश्वरकर्म- परत्वम्। विश्वरूपोपासनं प्रति त्वन्तरङ्गहेतुत्वाद् विश्वरूपोपासनानन्तरमभ्यास उक्त इति बोध्यम्। विश्वरूपोपासनाभ्यास- मत्कर्मपरमत्व-फलत्यागानां मध्ये फलत्याग एवोत्कृष्ट इति भावः। अत्र अभ्यासाद् विश्वरूपोपासनात्मकाद् ज्ञानं ज्ञानयोग आत्मानात्मविवेचनरूप इति भावः- श्रेयः, तस्माच्च ज्ञानात्परोक्षात् श्रवणादिलक्षणाद् ध्यानं तादृशज्ञानपूर्वकमात्मोपासनं विशिष्यते। ध्यानात् सर्वकर्मफलत्यागः सर्वकामप्रहाणं भवतीति शेषः। आत्मोपासकानामात्मैककामत्वेन कामान्तराभावादिति भावः। त्यागाच्छान्तिरनन्तरं भवतीत्यर्थोऽप्यापतति - स त्वप्रकृतत्वादुपेक्ष्यः, अनात्मविदां कर्मफलत्यागस्यात्र स्तूयमानत्वात् , तस्यैव प्रकृतत्वात् , अथैतदप्यशक्तोऽसीति, कुरु कर्मफलत्यागमिति च पूर्वमुक्तत्वात्। यत्तु रामानुजः - अभ्यासाद् भगवति स्मृत्यभ्यासाद् ज्ञानमात्मापरोक्ष्यज्ञानं श्रेयः आत्मविहितत्वे विशिष्यते, ज्ञानाद् ध्यानं विशिष्यते, ध्यानात् फलत्यागेनानुष्ठितं कर्मैव विशिष्यते, तदनन्तरं निरस्तपापतया मनसः शान्तिर्भविष्यति, शान्ते मनस्यात्मध्यानं सम्पत्स्यते, ध्यानाच्चात्मापरोक्ष्यं, तदापरोक्ष्यात् परा भक्तिरिति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी, आत्मनिष्ठस्यापि अशान्त- श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥१२॥
[[५७१]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
मनसो निष्ठाप्राप्तयेऽन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठैव श्रेयसीत्यर्थ इति। तत्तुच्छम् – ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसा’- मित्यात्मनिष्ठाया एव भक्तियोगाद् विश्वरूपोपासनात्मकादधिकक्लेशावहत्वस्योक्तत्वात्, ज्ञानयोग एव भक्तियोगाद् दुष्कर इति ज्ञानयोगाशक्तस्यैव भक्तियोगेऽधिकारः। युक्तं चेदम्— ज्ञानयोगिनो ह्यात्मानात्मविवेकः, अनात्मस्वात्माभिमानत्यागः, उन्मेष- निमेषादिसर्वकर्मसु देहादेः कर्तृत्वं न ममेति स्वस्याकर्तृत्वानुसन्धानं, दृश्यमानसर्वप्रपञ्चमिथ्यात्वनिश्चयः- एवमादयो बहवो गुणा आवश्यकाः। तदभावे ज्ञानयोगासिद्धेः। तस्माद् दुष्करोऽज्ञस्य ज्ञानयोगः। भक्तियोगस्तु - ब्राह्मणोऽहं विष्णुशर्मा मोक्षाय भगवन्तं रामचन्द्रं भजामीत्यनुसन्धानसाध्यः इति न तत्र देहाभिमानत्यागः, नाप्यात्मानात्मविवेकः, नापि कर्तृत्वाभिमानत्यागः। तस्मात् सुकरो भक्तियोगः। न च पत्रपुष्पाद्युपकरणसम्पादनक्लेशाद् दुष्करो भक्तियोग इति वाच्यम् ; तथा सति बहूपकरणसाध्यः कर्मयोग एव दुष्कर इति कर्मयोगाशक्तस्यैव भक्तियोगाधिकार इति वक्तव्यत्वात्। तस्मान्मनःक्लेश एव क्लेशः, न तु कायक्लेशः क्लेशः। अन्यथा कर्मयोगापेक्षया कृषेरेव दुष्करत्वप्राप्तेः। एवं ज्ञानयोगस्य दुष्करत्वादेव ज्ञानिनां स विहितः— ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति। भक्तियोगो हि कर्मयोगान्तर्गत एवेत्युक्तं प्राक्। निष्ठाद्वयस्यैव भगवता प्रोक्तत्वेन तृतीयनिष्ठाकल्पनस्या- युक्तत्वात्। तस्मात् कर्मयोगस्तदन्तर्गतभक्तियोगो वा ज्ञानयोगाशक्तस्याज्ञस्यैव श्रेयःप्राप्तिहेतुत्वेन विहित इति भक्तियोगाशक्तस्य ज्ञानयोगः, ज्ञानयोगाशक्तस्य तु कर्मयोग इति न वक्तुं शक्यते। भक्तियोगकर्मयोगयोरेकत्वेन ज्ञानयोगं प्रत्युत्कर्षापकर्षयोरेकस्यैव दुर्वचत्वात्। तथा आत्मापरोक्ष्यात् परा भक्तिः स्यादित्यप्ययुक्तम् - अपरोक्षीकृतात्मस्वरूपस्य विदुषः आत्मन एवेश्वरत्वेनात्मभिन्नेश्वर- स्यैवाभावात् कुतो भक्तिमार्गावकाशः? स हि सेव्यसेवकद्वयाश्रयः। प्रकृते तु आत्मेश्वरभेदाभावात् कथं सेव्यसेवकभावः? न च भिन्न एवात्मन ईश्वर इति वाच्यम् ; ‘ज्ञानी त्वात्मैव मे मत’मित्युक्तत्वाद् , ईश्वरस्य च सर्वात्मत्वात् सर्वभूतानां हृद्देशे आत्मन एवावस्थानाद् ईश्वरस्य च सर्वान्तरत्वेनात्मत्वात्। ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’रिति भिन्नात्मज्ञानस्य श्रुत्यैव निन्दितत्वात्। तस्मादज्ञविषय एवायं भिन्नात्मज्ञानप्रयुक्तो भक्तियोगः। ‘तरति शोकमात्मविदि’ति१ आत्मापरोक्ष्यज्ञानादेव सर्वसंसारनिवृत्तिश्रवणात् कथं भक्तेर्ज्ञानात्परत्वम्? किन्तु अवरत्वमेव। ज्ञानं विना भक्त्या संसारस्यानिवृत्तेः। संसारो ह्यज्ञानकृतत्वाज्ज्ञानैकनाश्यः। न चात्मज्ञानाद् आत्मानन्दलाभ एव, भक्त्या तु ब्रह्मानन्दलाभ इति वाच्यम् ; आत्मानन्दस्यैव ब्रह्मानन्दत्वात्। भक्तस्य ब्रह्मानन्दालाभाच्च। स्वकल्पितविश्वरूपानुभवजन्यानन्द एव हि भक्तस्य भक्तिदशायां स्फुरति। स च मायिक एव। तस्मादनित्य एव च। नित्यो हि ब्रह्मानन्दः, ब्रह्मणस्तस्य नित्यत्वात्। एवं फलतोऽधिकत्वादेव दुष्करेऽपि ज्ञानयोगे ज्ञानिनः प्रवर्तन्ते। दुष्करत्वादेव च ज्ञानिविषयोऽयम्। अज्ञा हि न दुष्करं कर्तुमर्हन्ति, किन्तु प्राज्ञा एव। ततश्च ज्ञानिविषयात् ज्ञानयोगादज्ञविषयस्य भक्तियोगस्य कथमपि नास्त्युत्कर्षः, किन्त्वपकर्ष एवेति ज्ञानयोगाशक्तस्य अज्ञस्यैव भक्तियोग इति स्थितम्। अथ आत्मनिष्ठस्यापि कर्मनिष्ठैव श्रेयसीति यदुक्तम् , तदयुक्तम् , आत्मनिष्ठाकर्मनिष्ठयोरेकत्रावस्थानायोगात् , त्यक्तसर्व- कर्मण एवात्मनिष्ठायामधिकारात् , संन्यासिनः पुनः कर्मनिष्ठाप्राप्त्ययोगात्। आत्मनिष्ठाप्राप्त्यनर्हस्यैव विक्षिप्तचित्तस्याज्ञस्य चित्तशुद्ध्यर्थं कर्मनिष्ठाया विहितत्वात्। आत्मनिष्ठस्यात्मनिष्ठयैव कृतकृत्यत्वात्। ज्ञानिन एवात्मनिष्ठत्वेन तस्य कर्मानधिकारस्य पूर्वमेव स्थापितत्वाद् ‘वेदाविनाशिन’मिति श्लोकभाष्यादौ। तस्माद् अज्ञस्यात्मनिष्ठाप्राप्त्यनर्हस्यैव कर्मनिष्ठा श्रेयसीति स्थितम्। यच्चानेनोक्तम् – फलत्यागान्मनःशान्तिः, मनःशान्तेरात्मध्यानम् , आत्मध्यानादात्मापरोक्ष्यम् , आत्मापरोक्ष्याद् भक्तिश्च भविष्यतीति। तत्रात्मापरोक्ष्याद् भक्तिरिति निरस्तम्। आत्मापरोक्ष्यानन्तरं कृतकृत्यत्वेन प्राप्तप्राप्यत्वेन च कर्तव्यस्य प्राप्यस्य वा अभावात्। आत्मसाक्षात्कार एव हि सर्वावधिः। आत्मध्यानादेवात्मापरोक्ष्यमिति तु नियन्तुं न शक्यते, आत्मोपासनं विनाऽपि अ. १२. श्लो. ११-१२ ] १. अत्र शोकशब्देन शोककारणमविद्या लक्ष्यते। तरणं निवृत्तिः। उद्देश्यविधेयभावमहिम्ना चोद्देश्यतावच्छेदकात्मज्ञानप्रयोज्यत्वं शोकनिवृत्तौ लभ्यते इति ज्ञेयम्।
[[५७२]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
श्रवणादिना आत्मसाक्षात्कारसम्भवात्। श्रवणाद्यशक्तस्य अनुत्तमस्यैवात्मध्यानस्य विहितत्वाद् , उत्तमाधिकारिणां श्रवणादेरेव विहितत्वात्। मूले त्यागाच्छान्तिरनन्तरमितिवत् - शान्तेरनन्तरं ध्यानम् , ध्यानादनन्तरं ज्ञानमिति क्रमस्यादर्शनात्। किञ्च त्याग- शान्त्योरिव ज्ञानध्यानयोरुपायोपेयभावः कार्यकारणभावो वा विवक्षितः स्याद् यदि, तर्हि उपेयात् ज्ञानाद् उपायस्य ध्यानस्य, शान्तिद्वारा उपायस्य त्यागस्य ध्यानादुपेयाच्च श्रेष्ठत्ववचनमयुक्तं स्यात्। उपायादुपेयं हि प्रशस्यतरम्। उपेयस्य प्रशस्तत्वादेव उपेयप्राप्त्यनन्तरमुपायपरित्यागः। उपायस्यैव प्रशस्तत्वे तु उपेयप्राप्तिकामो नैव स्याज्जनानाम्। नाप्यभ्यासं प्रति ज्ञानस्योपायत्वं सङ्गच्छते, अविवेकपूर्वकत्वादभ्यासस्य, ज्ञानस्य चाविवेकनाशकत्वात्। न हि भक्तिमार्गे विश्वरूपं दृश्यमानमेवेश्वरं मन्यमानानां तद्विविक्तस्य द्रष्टुरीश्वरस्यात्मनो ज्ञानं भवितुमर्हति। सति त्वनात्मविविक्तद्रष्ट्रात्मज्ञाने न ह्यनात्मनि देहे विश्वात्मके रज्ज्येरन् ते, किन्तु सच्चिदानन्दे स्वात्मन्येवेश्वरे। तस्मान्नास्त्यभ्यासे आत्मानात्मविवेक इति। तस्माद् अज्ञस्य कर्मणि प्रवृत्तस्य ज्ञानमार्गेऽनधिकाराद् विश्वरूपोपासनाभ्यासेश्वरकर्मपरत्वरूपोपायानुष्ठानाशक्तेश्च कर्मफलत्याग एव सुकरत्वाच्छान्तिहेतुत्वाच्च श्रेयानिति यथोक्त एवार्थः। अथ भाष्यं व्याख्यायते— ‘प्रशस्यस्य श्रः’ इति श्रादेशः, तरबर्थे ईयसुन् प्रत्ययश्चेत्यभिप्रेत्याह— प्रशस्यतरमिति। अभ्यासाज्ज्ञानस्योत्कृष्टत्वे हेतुमाह— अविवेकपूर्वकादिति। ज्ञाने तु विवेकोऽस्तीति भावः। ज्ञानवत इति। ज्ञानयुक्तादित्यर्थः। पूर्वोक्तविशेषणवत इति। ध्यानोत्कृष्टत्वरूपविशेषणयुक्तादित्यर्थः। उपशमो निवृत्तिः सहेतुकस्य अज्ञानस्य [साज्ञानस्य], संसारं प्रत्यज्ञानस्यैव हेतुत्वात्। अनन्तरमेवेति। यदा फलत्यागस्तदैवेत्यर्थः। एवकारार्थमाह—न तु कालान्तरमिति। प्रकृतश्लोकोपदिष्टार्थमाह— अज्ञस्येति। अज्ञोऽपि संन्यस्य यमनियमाद्यनुतिष्ठेदित्यत आह— कर्मणि प्रवृत्तस्येति। गृहस्थस्येत्यर्थः। पूर्वोपदिष्टोपायानां विश्वरूपोपासनाभ्यासेश्वरकर्मपरत्वानामनुष्ठानस्य अशक्तौ सामर्थ्याभावे। न प्रथममेवेति। शक्त्यशक्त्यवेक्षणं विनैव कर्मफलत्यागः श्रेयःसाधनमज्ञस्येति न वक्तव्यमित्यर्थः। इदानीं सर्वकर्मफलत्यागं स्तौति— श्रेय इति। श्रेयो हि प्रशस्यतरं ज्ञानम्। कस्मात्? १अविवेकपूर्वका- दभ्यासात्। तस्मादपि ज्ञानाद् ज्ञानपूर्वकं ध्यानं विशिष्यते। ज्ञानवतो ध्यानादपि कर्मफलत्यागो विशिष्यत इत्यनुषज्यते। एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् , न तु कालान्तरमपेक्षते। अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेयःसाधनमुपदिष्टम् , न आनन्दगिरिकृतव्याख्या उत्तरश्लोकतात्पर्यमाह— इदानीमिति। ज्ञानं २शब्दयुक्तिभ्यामात्मनिश्चयः। अभ्यासो ज्ञानार्थश्रवणाभ्यासः, अनिश्चयपूर्वको ध्यानाभ्यासो वा३। तस्य विशिष्यमाणत्वे साक्षात्कारहेतुत्वं हेतुः। त्यागस्य विशिष्टत्वे हेतुमाह— एवमिति। प्रीणातु भगवानिति तस्मिन् कर्मसंन्यासपूर्वकमित्यर्थः। पूर्वविशेषणवतः नियतचित्तस्य पुंसो यथोक्तत्यागादित्यर्थः। अनन्तरमेवेत्युक्तं व्यनक्ति— न त्विति। ननु कर्मफलत्यागस्य सद्यःशान्तिकरत्वे, सम्यग्धीरेव तथेति श्रुतिस्मृतिप्रसिद्धिर्विरुध्येत, तत्राह— अज्ञस्येति। दीर्घेण कालेनादरनैरन्तर्यानुष्ठिताद् ध्यानाद् वस्तुसाक्षात्कारद्वारा संसारदुःखोपशान्तेस्तथाविधाद् ध्यानात् त्यागस्य विशिष्टत्वोक्तेः तदीयस्तुतिः यदुक्तं सर्वकर्मफलत्यागं स्तौतीति, तदिदानीं प्रकटयति— अज्ञस्य कर्मणि प्रवृत्तस्येत्यादिना॥१२॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘विवेकपूर्वकाद्’ इति पा.। २. वेदान्तश्रवणमननाभ्यामित्यर्थः। ३. ‘निश्चयपूर्वको ध्यानाभ्यासो वा’ इति पा.। एतदुत्तरम्— ध्यानं निश्चयपूर्वकं निदिध्यासना- परपर्यायमित्यर्थकः पाठोऽपेक्षितः। तस्येत्याद्युत्तरग्रन्थश्च इत्थं योज्यः— ज्ञानाच्छ्रवणमननपरिनिष्पन्नादपि ध्यानं निदिध्यासनसंज्ञं विशिष्यतेऽतिशयितं भवति। तत्र हेतुमाह—साक्षात्कारेति। तस्य साक्षात्कारं प्रत्यव्यवहितहेतुत्वादित्यर्थः- इति।
[[५७३]]
एतेनाशक्तस्यैवाज्ञस्य कर्मणि प्रवृत्तस्य कर्मफलत्यागः श्रेयःसाधनम् , न तु शक्तस्याज्ञस्य, नापि कर्मण्यप्रवृत्तस्याज्ञस्येति, किं पुनः प्राज्ञस्य संन्यासिनः इत्यर्थात् सूच्यते। अतश्चेति। अशक्तस्य कर्मिणः कर्मफलत्यागस्यैव श्रेयःसाधनत्वादित्यर्थः। उत्तरोत्तर- विशिष्टत्वोपदेशेनेति। उत्तरस्योत्तरस्य ज्ञानध्यानादेः, पूर्वस्मात्पूर्वस्माद् अभ्यासज्ञानादेः विशिष्टत्वस्य उत्कृष्टत्वस्य उपदेशेन कथनेन सर्वकर्मफलत्यागः सर्वोत्कृष्ट इति स्तूयते। अभ्यासाज्ज्ञानस्य, ज्ञानाद् ध्यानस्य च विशिष्टत्वं वस्तुस्वभावसिद्धमेव, न तद्वचनं स्तुतिः। किं तर्हि? सर्वकर्मफलत्यागस्य अभ्यासज्ञानध्यानासमर्थाज्ञकर्मिविषयस्य अभ्यासज्ञानध्यानेभ्य उत्कृष्टत्वकथनमेव स्तुतिः, अयथार्थ- वर्णनस्य स्तुतित्वात्। यथा राजानं प्रति त्वमिन्द्रस्त्वं चन्द्र इति वचनस्य स्तुतित्वम्। नन्वेवं शक्ताज्ञविषयेभ्योऽभ्यासादिभ्यः परम् अशक्ताज्ञविषयत्वेन निकृष्टस्य फलत्यागस्य कुत उत्कृष्टत्वप्रतिपादनम्? अत आह— सम्पन्नेति। सम्पन्नानामुत्तमानां साधनानां विश्वरूपोपासनादीनामुपायानामनुष्ठानाशक्तौ। तेन धर्मेणेति। अशक्तानुष्ठेयत्वरूप- धर्मेणेत्यर्थः। स्तुतित्वं कर्मफलत्यागो विशिष्यत इति वचनस्येति शेषः। यद्वा स्तूयत इति स्तुतिः स्तुत्यं वस्तु , तद्भावः स्तुतित्वं, स्तुतिरिति यावत्। कर्मफलत्यागस्येति भावः। अशक्ताज्ञकर्मिविषयत्वेनासुलभत्वात् [त्वेन सुलभत्वात् ] कर्मफलत्यागः सर्वोत्कृष्ट इति कथ्यते, न तु वस्तुतो ज्ञानादिभ्य उत्कृष्टत्वादिति भावः। नन्वेवमज्ञाशक्तकर्मिजनसुलभत्वादेव कर्मफलत्यागो विशिष्ट इति स्तूयतां, त्यागाच्छान्तिरनन्तरमिति शान्तिहेतुत्वात् कर्म- फलत्यागस्योत्कृष्टत्वमिति तु न युक्तं वक्तुम् , कर्मफलत्यागसंसारोपरमयोः कार्यकारणभावाभावेन यदनन्तरन्यायाभावात्। कर्मफल- त्यागाच्चित्तशुद्धिः, ततो ज्ञानं, ततः संसारोपरम इति क्रमात्। तस्मात् कथमज्ञकर्मिविषयात् कर्मफलत्यागात् संसारनाशः? अत आह— यदेति। ‘यदा सर्वे प्रमुच्यन्ते कामाः येऽस्य हृदि स्थिताः’ इत्यनेन सर्वकामत्यागादमृतत्वं मोक्षः स्यादित्युक्तं, तत् सर्वकामप्रहाणादमृतत्वं प्रसिद्धं च शास्त्रे। चकारादनुभवाच्च, निष्कामस्य सुखदर्शनादिति भावः। काम्यन्त इति कामा इति व्युत्पत्त्या आह— फलानीति। स्वर्गादीनीत्यर्थः। ज्ञाननिष्ठस्येति। संन्यासिन आत्मनिष्ठस्येत्यर्थः। अनन्तरमेवेति। कामत्यागानन्तरक्षण एवेत्यर्थः। शान्तिरिति। तत्प्रसिद्धं चेत्यन्वयः। ननु भवतु विदुषां सर्वकामत्यागादनन्तरमेव शान्तिः, प्रकृते अज्ञानां कथं कर्मफलत्यागादनन्तरमेव शान्तिरित्युक्तम्? अत आह— सर्वकामेति। विदुषां सर्वकामत्याग इवाविदुषां कर्मफलत्यागोऽपि त्यागात्मक एवेति भवति त्यागांशे सादृश्यमुभयोः। यद्वा विदुषां सर्वकामत्यागे इवाविदुषां कर्मफलत्यागेऽपि सर्वकामत्यागत्वरूपं सर्वकामत्यागसामान्यमस्ति। कर्मफलानामेव अत्रेष्टेत्याह—अतश्चेति। तत्र हेतुमाह— सम्पन्नेति। सम्पन्नानि प्राप्तानि साधनानि अक्षरोपासनादीनि, तेषां मध्ये पूर्वपूर्वस्यानुष्ठानाशक्तौ उत्तरोत्तरस्यानुष्ठेयत्वेनोपदेशात् , त्यागे चोपदेशपर्यवसानादित्यर्थः। त्यागे विशिष्टत्ववचनस्य केन साधर्म्येण तं प्रति स्तुतित्वमिति पृच्छति— केनेति। उत्तरमाह— यदेति। अमृतत्वमुक्तम् ‘अथ मर्त्योऽमृतो भवति’ इति शेषादिति शेषः। कामप्रहाणस्यामृतत्वार्थत्वम् ‘अथाकामयमानः’ इत्यादावपि सिद्धमित्याह— तदिति। कामत्यागस्यामृतत्वहेतुत्वेऽपि, कथं कर्मफलत्यागस्य तद्धेतुत्वमित्याशङ्क्याह — कामाश्चेति। कर्मफलत्यागादेव शान्तिश्चेद् ज्ञाननिष्ठोपेक्षितेत्याशङ्क्याह— तत्त्यागे चेति। तथापि कथमज्ञस्य कर्मफलत्यागस्तुति- रित्याशङ्क्याह—इति सर्वेति। विद्यावतस्त्यागवद् अविद्वत्त्यागस्यापि त्यागत्वाविशेषाद् विशिष्टत्वोक्तिर्युक्तेति स्तुतिमुपसंहरति—इति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रथममेव। अतश्च ‘श्रेयो हि ज्ञानमभ्यासाद्’ इति उत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, सम्पन्न- साधनानुष्ठानाशक्तावनुष्ठेयत्वेन श्रुतत्वात्। केन साधर्म्येण स्तुतित्वम्? ‘यदा सर्वे प्रमुच्यन्ते’(क.उ.६.१४) इति सर्वकामप्रहाणाद् अमृतत्वमुक्तम् , तत् प्रसिद्धम्। कामाश्च सर्वे श्रौतस्मार्त१सर्वकर्मणां फलानि। तत्त्यागे च विदुषो २ज्ञाननिष्ठस्यानन्तरैव शान्तिरिति सर्वकामत्यागसामान्यम् ३अज्ञकर्मफलत्यागस्यास्तीति तत्सामान्यात् सर्वकर्मफल- १. ‘सर्व’ इति क्वचित् नास्ति। २. ‘ध्याननिष्ठस्य’ इति पा.। ३. ‘अन्य’इति पा.।
[[अ. १२. श्लो. १२]] [[५७४]]
कामत्वात् त्यागस्य चोभयत्रैकत्वात्। भवतु , किं ततः? आह— तत्सामान्यादिति। विद्वत्सर्वकामत्यागसादृश्यादित्यर्थः। सर्वकामत्यागत्वरूपजातिवशादिति वा। इयं त्यागाच्छान्तिरनन्तरमित्येषेत्यर्थः। स्तुतेः फलमाह— प्ररोचनार्थमिति। कर्मफलत्यागे रुच्युत्पादनार्थमज्ञस्य कर्मिण इति भावः। अज्ञा उपासनाद्यशक्ता मुमुक्षवः। हा! धिगस्मान् , काऽस्माकं गतिरिति खिद्यमानाः भगवतैवं कृपालुना समुपलाल्यन्ते – ‘माऽस्तु वः खेदः, कर्मफलत्यागो युष्माकं सुकरः, स च न निकृष्टः पन्थाः, किन्तूत्कृष्ट एव। कर्मफलत्यागादनन्तरमेव युष्माकं मोक्षलाभा’दिति। एवं भगवद्वचनमधिगम्य क्षिप्रमेवास्माकं फलत्यागान्मोक्षो भवेत् , अन्येषां तु चिरादेवेति मन्यमाना उत्साहात् कर्मफलत्यागे प्रवर्तन्ते ते, ततश्च चित्तशुद्धिज्ञानप्राप्तिद्वारा क्रमेणैव मुच्यन्त इति भावः। प्ररोचनार्थत्वे दृष्टान्तमाह— यथेति। शूद्रादीनां ब्राह्मणेषु भक्त्यादिप्रजननार्थं ब्राह्मणाः स्तूयन्ते शास्त्रकृद्भिः - किमिति? ‘अहो! ब्राह्मणानां महिमा! यैः पीतः समुद्रः, शायितो विन्ध्याद्रिः, ध्रियते च दक्षिणभूमण्डल’मित्येवम्। इदं हि स्तुतिवचनमेव, न यथार्थवचनम् , आधुनिकब्राह्मणानां समुद्रपानाद्यभावात्। किं तर्हि? एकेनैवागस्त्येन समुद्रपानादिकं कृतम् , अगस्त्यस्येवेदानीन्तनानामपि विष्णुशर्मादीनां ब्राह्मणत्वात् तेन ब्राह्मणत्वसामान्येन स्तूयन्ते आधुनिकाः। अगस्त्यब्राह्मणस्थानीयः विद्वत्सर्वकामत्यागः, आधुनिक- ब्राह्मणस्थानीयः सर्वकर्मफलत्यागः। ब्राह्मणत्वस्थानीयं तु त्यागसामान्यम्। विद्वत्कामत्यागस्य शान्तिहेतुत्वादविद्वत्कर्म- फलत्यागोऽपि शान्तिहेतुरिति स्तूयते कर्मफलत्यागेऽज्ञजनप्रवर्तनार्थं, यथा पीतार्णवागस्त्यब्राह्मणस्य महानुभावत्वादतादृशा अपि ब्राह्मणा महानुभावा इति कीर्त्यन्ते ब्राह्मणपूजादौ शूद्रादीनां प्रवर्तनार्थम् , तद्वदिति भावः। एतेन ब्राह्मणजातेरगस्त्याश्रयेणेव त्यागस्य विद्वदाश्रयेणोत्कृष्टत्वं प्राप्तम्। तच्च ब्राह्मणजातेरुत्कृष्टत्वमाधुनिकविष्णुशर्माद्या- श्रयेऽपि न नष्टम् , आधुनिकब्राह्मणानामप्युत्कृष्टत्वेन कीर्त्यमानत्वात् , यथा, तथा त्यागस्य विद्वदाश्रयलब्धमुत्कृष्टत्वमविद्वदाश्रयादपि न नष्टमिति त्यागः स्तूयते— त्यागाच्छान्तिरनन्तरमिति। एवमिति। त्यागस्योत्कृष्टत्वादेवेत्यर्थः। कर्मफलत्यागाद् हेतोः कर्मयोगस्य श्रेयःसाधनत्वम् अज्ञानामिति शेषः। ननु शान्तिशब्दस्य संसारोपरमार्थमुक्त्वा कर्मफलत्यागस्य शान्तिहेतुत्वासम्भवं मत्वा विद्वत्त्यागस्य शान्तिहेतुत्वात् तत्साम्येनाविद्वत्त्यागोऽपि शान्तिहेतुरिति स्तूयत इति किमनया कल्पनया फलम्? शान्तिश्चित्तशुद्धिरित्यर्थो वर्ण्यताम् , तथा सति अविद्वत्कर्मफलत्यागस्य चित्तशुद्धिहेतुत्वसम्भवात् सर्वं वाक्यं यथार्थमेव स्याद् युक्तमेवेदं यथार्थवादिन ईश्वरस्येति चेत्? मैवम् ; चित्तशुद्धिहेतोः फलत्यागस्य चित्तशुद्धिसाध्यध्यानादुत्कृष्टत्ववर्णनायोगात्। न च सुलभत्वमेवोत्कृष्टत्वमिति वाच्यम् ; तर्हि ‘सुलभं ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं च भारत। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥’ इत्येव ब्रूयाद् वेदव्यासः। न च - ध्यानात् फलत्याग एव सुलभः, अभ्यासाज्ज्ञानं तु विशिष्टमेव, तथा ज्ञानाद् ध्यानमपि विशिष्टमेवेति - वाच्यम् ; ज्ञानध्यानयोः प्रकृतस्य विशिष्टत्वस्य त्यागे भङ्गायोगात्। नन्वेवं ध्यानादुत्कृष्टो यो विद्वत्कर्तृकः सर्वकामत्यागः स एवेहोच्यताम् , तथा सति त्यागात् तस्मात् संसारोपरमलक्षण- शान्तिः भवितुमर्हेति चेत्? मैवम् ; अप्रकृतत्वात् तस्य। ‘अथ चित्तं समाधातुं न शक्नोषि मयि स्थिर’मित्यादिना अशक्ताज्ञ- तत्सामान्यादिति। किमर्था स्तुतिरित्याशङ्क्य त्यागे रुचिमुत्पाद्य प्रवर्तयितुमित्याह— प्ररोचनार्थेति। त्यागस्तुतिं दृष्टान्तेन स्पष्टयति— यथेति। फलत्यागः श्रेयोहेतुश्चेत् कर्मत्यागादपि फलत्यागसिद्धेरलं कर्मानुष्ठानेनेत्याशङ्क्याह— एवं कर्मेति। फलाभिलाषं त्यक्त्वा कर्मानुष्ठानस्यार्पितस्येश्वरे १श्रेयोहेतुतया विवक्षितत्वान्नानुष्ठानानर्थक्यमित्यर्थः॥१२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
त्यागस्तुतिरियं प्ररोचनार्था। यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तना अपि ब्राह्मणाः ब्राह्मणत्व- सामान्यात् स्तूयन्ते। एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयःसाधनत्वमभिहितम्॥१२॥
१. ‘श्रेयोहेतुतायाः’ इति पा.।
[[५७५]]
अत्र चात्मेश्वरभेदमाश्रित्य विश्वरूप ईश्वरे चेतःसमाधानलक्षणो योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च। गतिप्रदर्शनस्य प्रकृतत्वात्। अद्वेष्टेत्यादिना विद्वद्गतेः प्रदर्शयिष्यमाणत्वाच्चाज्ञपरत्वादस्य श्लोकस्य। तस्मात् सर्वकामत्यागस्य शान्तिहेतुत्वात् सर्वकर्मफलत्यागोऽपीह शान्तिहेतुत्वेन स्तुतः प्ररोचनार्थमिति युक्तमुक्तम्— शान्तिश्च संसारोपरम इति। वस्तुतश्चित्तशुद्धिहेतोरपि कर्मफलत्यागस्य त्यागसामान्येन सर्वकामत्यागाभेदात् संसारोपरमहेतुत्वेन ध्यानादुत्कृष्टत्वम् , ध्यानज्ञानयोस्तु ज्ञानाभ्यासाभ्यां स्वत एव मुख्यमुत्कृष्टत्वमिति वस्तुगतिः। एवं कर्मफलत्यागे सर्वकामत्यागाभेदारोपपूर्वकं संसारोपरमहेतुत्वकथनं तु कर्मफलत्यागप्ररोचनार्थम्। सुलभोऽयं कर्मफलत्यागो निष्फल इति न तत्र प्रवृत्तिः स्यादज्ञानामिति कृत्वा तत्र तेषां प्रवर्तनार्थम्— नायं सुलभोऽपि निष्फलः, किं तर्हि? सर्वोत्कृष्टफलमेव, संसारोपरमस्यानन्तरमेव हेतुत्वादित्युक्तं भगवता। ननु य एव सर्वकामत्यागः स एव कर्मफलत्यागः इति को भेदो विद्वदविद्वदाश्रययोस्तयोः? उच्यते— क्रियमाणकर्मणां फलत्यागः कर्मफलत्यागः। स विदुषां न सम्भवति, तेषां कर्मण्यनधिकारात्। ऐहिकामुष्मिकसर्ववस्तुविषयकामनापरित्यागः सर्वकामत्यागः। स चाविदुषां न सम्भवति, तेषां जीवितहेतौ जलान्नादौ कर्मनिर्वर्तकेषु समित्कुशादिषु च कामसत्त्वादिति। नन्वेवमपि विज्ञानादनन्तरमेव संसारोपरम इति वक्तव्ये कथं त्यागादित्युक्तम् , न हि सर्वकामत्यागादप्यनन्तरमेव स्यात् संसारोपरम इति चेत्? मैवम् ; आत्मस्वरूपसाक्षात्कारं विना विदुषामपि सर्वकामत्यागो न सम्भवति। उत्कृष्टं वस्तु लब्ध्वैव हि अपकृष्टे वस्तुनि कामनां त्यजति लोकः। परमानन्दमये आत्मस्वरूपे अधिगते सत्येव क्षुद्रसुखहेतुष्वन्नादिषु कामनात्यागः। नन्वेवं ‘तरति शोकमात्मविदि’ति ज्ञानसंसारयोः यदनन्तरन्याय उक्तः स न सिध्येत् , मध्ये कामत्यागेन व्यवधानादिति चेत्? मैवमपि, यदैवात्मसाक्षात्कारस्तदैव सर्वकामत्यागः संसारोपरमश्च भवतीति ज्ञानानन्तरं न सर्वकामत्यागात्मकं किञ्चित् कृत्यं कर्तव्यमस्ति, येन तद्व्यवधानं स्यात्। यद्वा ज्ञानयोगे प्रवृत्तस्य विदुषः यदा सर्वकामत्यागस्तदा ज्ञाननिष्ठापरिपाक इति ज्ञायते। अपरिपक्वज्ञानस्य सर्वकामत्यागा- सम्भवात्। ज्ञानस्य परिपाक आत्मतत्त्वसाक्षात्कार एव। तथा च त्यागादनन्तरं जातायाः शान्तेर्न त्याग एव हेतुः, किं तर्हि? त्याग- सहकृतं ज्ञानमेवेति न ‘तरति शोकमात्मविदि’ति श्रुतिविरोधः, नापि ज्ञानशान्त्योर्मध्ये त्यागाख्यस्य किञ्चित्कृत्यस्य कर्तव्यतेति। अथवा त्यागादनन्तरमेव शान्तिर्भवेदिति न त्यागशान्त्योः कार्यकारणभावः। किं तर्हि? लक्ष्मणादनन्तरमेव शत्रुघ्नो जात इतिवज्ज्ञानादादौ त्यागो जातोऽनन्तरमेव शान्तिरिति ज्ञानत्यागयोरिव ज्ञानशान्त्योरपि कार्यकारणभाव इति। न चैवमपि ज्ञानशान्त्योर्मध्ये त्यागाख्यं किञ्चित्कर्तव्यमस्तीति वाच्यम् ; त्यागेनैव ज्ञानं परिपक्वमित्यनुमीयमानत्वात्। यथा ज्ञानादनन्तरं संसारोपरमस्याकर्तव्यत्वं, तथैव त्यागस्यापीति बोध्यम्। तस्माद् विदुषां यदैवात्मसाक्षात्कारस्तदैव सर्वकामप्रहाणम् , तदैव सर्वसंसारोपरमः, कामपूर्वत्वात् संसारस्येति स्थितम्॥१२॥
ननु अविदुषामेव कर्मयोगः कर्मफलत्यागाच्छ्रेयः साधनमिति कथमुच्यते? विदुषामपि स एवेत्यत आह— अत्र चेति। अत्र प्रकरणे। आत्मेश्वरभेदम् आत्मनःसकाशाद् ईश्वरस्य भेदम्। अज्ञानकार्यमिदं भेददर्शनमिति भावः। कर्मानुष्ठानादि चेति। उक्तमिति शेषः। आदिपदात् फलत्यागस्य ग्रहणम्। न च भेदमाश्रित्योक्तमिति कथं वक्तुं शक्यत इति वाच्यम् ; उपास्यस्य विश्वरूपस्य उपासकस्य स्वस्य च भेदं विना उपासनायोगात्। विश्वरूपे देवे ईश्वरभ्रमं, मनुष्यदेहे जीवभ्रमं च विधाय हि विश्वरूपं भक्तो ध्यायति। यज्ञादिकं कर्मापि ‘इन्द्रादिराराध्यदेवता मत्तोऽन्यः, आराधको ब्राह्मणोऽहमन्यः’ इति भेदबुद्धिना२ हि क्रियते। तस्माज्जीवेश्वरभेदमा- सम्प्रति ‘अद्वेष्टा’ इत्याद्यवतारयितुं वृत्तं कीर्तयति— अत्र चेति। तयोश्चेदात्यन्तिकोऽभेदो, न तर्हीश्वरे मनःसमाधानरूपो योगो ऽत्यन्ताभेदे ध्यातृध्येयत्वाभावात्। न चात्यन्ताभेदे कर्मानुष्ठानं तत्फलत्यागो वा, १परस्परं तदयोगादित्यर्थः। भगवदुक्तिसामर्थ्यादपि
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. १२. श्लो. १२-१३ ] १. ‘अपरस्य तद्योगाद्’ ‘परस्परं तद्योगाद्’ इति पाठान्तरे दृश्येते। २. बहुव्रीहिसमासः, पुरुषेणेति शेषः। ‘भेदबुद्ध्या’ इति वा पाठः स्यात्।
[[५७६]]
‘अथैतदप्यशक्तोऽसि’ इत्यज्ञानकार्यसूचनान्नाभेददर्शिनोऽक्षरोपासकस्य कर्मयोग उपपद्यत इति १दर्शयति। तथा कर्मयोगिनोऽक्षरोपासनानुपपत्तिं दर्शयति भगवान्— ‘ते प्राप्नुवन्ति मामेव’(भ.गी.१२.४) इति। अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्यमुक्त्वा, इतरेषां पारतन्त्यमीश्वराधीनतां दर्शितवान्— ‘तेषामहं समुद्धर्ता’ (भ.गी.१२.७) इति। यदि हीश्वरस्यात्मभूतास्ते मताः, अभेददर्शित्वादक्षरस्वरूपा एव ते इति समुद्धरणकर्मवचनं तान्प्रति अपेशलं स्यात्। श्रित्यैव विश्वरूपध्यानादिकमत्रोक्तम्। स च भेदोऽज्ञविषय इति प्रकृतवचनान्यप्यज्ञविषयाण्येव। किमत्र लिङ्गम्? अत आह— अथैतदिति। अशक्तिर्ह्यज्ञानकार्यम्। किमनेनाशक्तिवचनेन सूचितम्? अत आह— नेति। अज्ञस्याक्षरोपासनं, विज्ञस्य कर्मयोगश्च नोपपद्यत इति सूचितं भगवतेत्यर्थः। अशक्तस्याज्ञस्यैव योगादिविधानात् शक्तस्य विज्ञस्य तन्न विहितमिति गम्यत इति भावः। युक्तमेवेदम् , कर्मयोगस्य भक्तियोगस्य वा जीवेश्वरभेदबुद्धिसाध्यत्वाज्ज्ञानयोगस्य चाभेदबुद्धिसाध्यत्वाद् अज्ञानामभेदबुद्ध्य- योगाज्ज्ञानिनां च भेदबुद्ध्ययोगादिति। न चात्मेश्वरभेदवादिनोऽपि ज्ञानिन एवेति वाच्यम् ; ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्यो ऽहमस्मीति न स वेद यथा पशु’रिति भेदवादिनां पशुत्वस्य श्रुत्यैवोक्तत्वात्। ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवति, द्वितीयाद्वै भयं भवती’त्यादिश्रुतिभ्यः भिन्नात्मज्ञानस्य निन्दितत्वाच्च। तस्मादज्ञविषयमेवेदं प्रकरणमिति। ननु कर्मयोगस्याज्ञविषयत्वेऽपि तदन्तर्गतो भक्तियोगो नाज्ञविषयः, किं तर्हि? प्राज्ञविषय एव। एवं प्राज्ञत्वादेव भक्तानामपि मोक्षलाभो ज्ञानिवदिति शङ्कायामाह— त इत्यादिना। यद्यक्षरोपासका इव विश्वरूपोपासका अपि ज्ञानिनः स्युः, तर्हि अक्षरोपासकाना- मिव भक्तानामपि स्वतन्त्र एव मोक्षः स्यात्, न चेष्टापत्तिः, ‘ते प्राप्नुवन्ति मामेवे’ति, ‘तेषामहं समुद्धर्ते’ति च भगवतैवाक्षरोपासकानां मोक्षे स्वातन्त्यं, भक्तानां मोक्षे पारतन्त्यं चोक्तमिति भगवद्वचनविरोधात्। तस्मात् करतलामलकवत् स्वतन्त्रं कैवल्यमक्षरोपासकानाम्। भक्तानां तु ईश्वरायत्तमिति न भक्ता ज्ञानिनः। ननु ईश्वराधीनकैवल्यत्वमात्रेण कथं भक्तानामज्ञत्वं, स्वाधीनकैवल्यत्वमात्रेण कथं वा अक्षरोपासकानां विज्ञत्वम्? अत आह— यदि हीति। यदि हीत्यस्य यस्माच्चेत्यर्थः। ते ज्ञानिन ईश्वरस्यात्मभूता मताः। ‘ज्ञानी त्वात्मैव मे मत’मित्युक्तत्वात्। तस्मादात्मेश्वरयोरभेददर्शित्वादीश्वरस्वरूपा एव ते ज्ञानिनः। अतस्तान् प्रति समुद्धरणकर्मविषयवचनं समुद्धरणमिति कर्म क्रिया तद्विषयं वचनं ‘ज्ञानिन ईश्वरः समुद्धरती’त्याकारकं वाक्यमित्यर्थः। अपेशलम् असुन्दरम् ,अयुक्तमिति यावत्। एव स्यान्न तु पेशलम्। ज्ञानिन एवेश्वरस्यात्मत्वादिति भावः। समुद्धरणक्रिया हि समुद्धर्तृसमुद्धार्यवस्तुद्वयतन्त्रा। उद्धर्तुरभावे उद्धार्यस्याभावे वोद्धारणा- सम्भवात्। प्रकृते तु वस्तुद्वयं नास्ति, उद्धर्तुरीश्वरस्यैवोद्धार्यात्मत्वात्। न ह्येकस्यैवोद्धर्तृत्वमुद्धार्यत्वं च सम्भवति, कर्मकर्तृ- न्यायविरोधात्। तथा च समुद्धरणक्रियानिरूपितकर्मत्वं ज्ञानिनां, ज्ञानिकर्मकसमुद्धरणक्रियानिरूपितं कर्तृत्वमीश्वरस्य च नोपपद्यते। ज्ञानीश्वरयोरेकात्मत्वात्। य एवमात्मानमेवेश्वरं मन्यन्ते ते कथम् ‘ईश्वरेण वयमुद्धरिष्यामहे’ इति भ्रमं प्रतिपद्येरन्? कथं वेश्वरोऽपि ज्ञानिनमात्मत्वेन मन्यमानो ज्ञानिनमहं मृत्युसंसारसागरादुद्धरिष्यामीति ब्रूयात्? न कथमपि। अत एव—‘भक्तानामहं समुद्धर्ता’ इत्युक्तमीश्वरेण, न तु ‘ज्ञानिनां समुद्धर्ते’ति। ज्ञानिनस्तु स्वात्मानं मां स्वयमेव प्राप्नुवन्तीत्युक्तमीश्वरेण ‘ते प्राप्नुवन्ति मामेवे’ति। तस्मादात्मनः सकाशाद्भिन्न ईश्वर इति ये मन्यन्ते, तेषामीश्वराधीनकैवल्यानाम् अज्ञानामज्ञत्वं सुप्रसिद्धमेव। भिन्नेश्वरज्ञानस्या- कर्मयोगादि नाभेददृष्टिमतो भवतीत्याह— अथेति। अक्षरोपासकस्य कर्मयोगायोगवत् कर्मयोगिनोऽक्षरोपासनानुपपत्तिरपि दर्शितेत्याह —तथेति। अक्षरोपासकाः सम्यग्धीनिष्ठाः यथाज्ञानं भगवन्तमेवाप्नुवन्ति, न तथा कर्मिणः साक्षात् तदाप्तावुचिताः। तथा च कर्मिणो नाक्षरोपासनसिद्धिरित्यर्थः। इतश्चाक्षरोपासनं कर्मानुष्ठानं च नैकत्र युक्तमित्याह—अक्षरेति। नन्वक्षरोपासकवद् अन्येषामपीश्वरात्मत्वा-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘दर्शयति, तथा कर्मयोगिनोऽक्षरोपासनानुपपत्तिम्। ‘ते प्राप्नुवन्ति मामेव’ (भ.गी.१२.४) इत्यक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्यमुक्त्वा’ इत्यादिः पाठः। यथास्थितस्तु आनन्दगिरीयानुसारी।
[[५७७]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
ज्ञानकार्यत्वात्। भिन्नेश्वरज्ञानं विना ‘अस्माकं कैवल्यमीश्वराधीन’मिति भ्रमायोगात्। ये त्वात्मानमेवेश्वरं मन्यन्ते ते मुक्ता एव नित्यमिति स्वतन्त्रमेव कैवल्यं तेषामिति न तेषाम् ‘ईश्वराधीनं कैवल्य’मिति भ्रमः। ततश्च ‘तेषामहं समुद्धर्ते’ति यान् प्रत्युक्तं ते भक्ताः अज्ञा एव। अज्ञानामेवेश्वराधीनं कैवल्यमिति भ्रमात्। ‘ते प्राप्नुवन्ति मामेवे’ति यान् प्रत्युक्तं ते तु प्राज्ञा एवाक्षरोपासकाः। प्राज्ञानामेवेश्वरात्मैक्यज्ञानेन नित्यसिद्धो मोक्ष इति मोक्षस्वातन्त्यज्ञानात्। तस्मादज्ञानामेव भक्तिमार्गादावधिकारः, ज्ञानिनां त्वक्षरोपासन एवेति भक्तियोगस्याज्ञविषयत्वं स्थितम्। युक्तं चेदं कर्म- योगान्तर्गतत्वेनास्यापि भक्तियोगस्य कर्मयोगवदज्ञविषयत्वम्। कर्मयोगो ह्यज्ञविषयः। ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मि- त्युक्तत्वात्। ‘आत्मानात्मविवेकज्ञानवन्तः साङ्ख्याः’ इति साङ्ख्यशब्दार्थो ग्रन्थारम्भे भाष्ये एव दर्शित आचार्यैः। तद्विपरीतत्वाद् योगिनः अज्ञा एव। अथ अद्वेष्टेत्याद्युत्तरग्रन्थस्य भूमिकामारचयति — यस्मादिति। ननु अर्जुनस्यात्यन्तहितैषिणा भगवता य एवोत्तमः पन्थाः स एवोपदेष्टव्यः, न त्वन्यः, प्रकृते च कर्मयोग एवोपदिष्ट इत्युत्तम एव कर्मयोगो ज्ञानयोगात्। ‘मय्येव मन आधत्स्व, अभ्यासेन मामाप्तु- मिच्छ, मत्कर्मपरमो भव, सर्वकर्मफलत्यागं कुरु’ इति ह्युपदिष्टमिति शङ्कायां भेददृष्टिमतोऽज्ञस्यैव मया कर्मयोगो हिततम इत्युक्तं, प्राज्ञस्याभेददर्शिनस्तु ज्ञानयोग एव हिततमः, स एव कर्मयोगादुत्तमः, एवमुत्तमत्वादेव ज्ञानयोगस्य ज्ञानिनो मम प्रिया इति वक्तुमारभते भगवान् अद्वेष्टेत्यादिनोत्तरग्रन्थेन यावदध्यायपरिसमाप्ति इतीममर्थमाह भाष्यकारः— यस्माच्चेत्यादिना। यस्माच्चार्जुन- स्यात्यन्तमेव हितैषी भगवान् तस्मादक्षरोपासकानां साक्षादमृतत्वकारणं धर्मपूगं वक्ष्यामीति प्रवर्तत इत्यन्वयः। तर्हि कर्मयोगोपदेशः किमर्थः? अत आह— तस्येति। सम्यग्दर्शनानागन्धितं सम्यग्दर्शनगन्धशून्यं कर्मयोगं भेददृष्टिमन्त- मेवोद्दिश्य तस्योपदिशति। नन्वभेददृष्टिमन्तमुद्दिश्य नोपदिशतीति कथं ज्ञायते? अत आह— न चेति। कश्चित्प्राज्ञ आत्मानमीश्वरं प्रमाणतः तत्त्वतो बुद्ध्वा ज्ञात्वा कस्यचिदन्यस्य गुणभावं शेषत्वं जिगमिषति प्राप्तुमिच्छति। न च जिगमिषतीत्यन्वयः। चकार एवार्थकः, कुतो नैवेच्छतीत्यत आह— विरोधादिति। ईश्वरोऽन्यः सर्वज्ञत्वादिगुणयुक्तः, अहमीश्वरादन्यः किञ्चिज्ज्ञत्वादिगुणयुक्त इति यो मन्यते, स एवेश्वरं भक्त्या भजते राजानमिव भृत्यः। शेषिणस्तस्येश्वरस्य स्वयं शेषभूतश्च भवति। शेषी स्वतन्त्रः, शेषस्त्वस्वतन्त्र इति विवेकः। यः पुनरीश्वरोऽहमित्यात्मानमेवेश्वरं मन्यते स हि नेश्वरं भक्त्या भजते, स्वस्यैवेश्वरत्वात्। सेव्यसेवकभावो हि द्विनिष्ठः। अतो ज्ञानी आत्मानं शेषिणमेव मन्यते, न तु शेषभूतं कस्यचित्। तस्मान्नाभेददृष्टिमतो विश्वरूपोपासनादिकर्मयोगसम्भवः। १. ‘अयोगे’ इति पा.।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
…भेदालम्बनस्य कर्मयोगः स्यात् , अक्षरोपासकस्य कर्मयोगासम्भव इत्याह— यस्माच्चेति। हेत्वन्तरमाह— न चात्मानमिति। यस्मादक्षरोपासकानां कर्मयोगो विरुद्धः, तस्मान्निवृत्तिनिष्ठत्वमेव तेषामित्युत्तरग्रन्थस्य सम्बन्धमाह— तस्मादित्यादिना॥१३॥
॥इति श्रीगीताभाष्यटिप्पणे द्वादशोऽध्यायः॥
यस्माच्चार्जुनस्यात्यन्तमेव हितैषी भगवान् तस्य सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तमेवोपदिशति। न चात्मानमीश्वरं प्रमाणतो बुद् ध्वा कस्यचिद् गुणभावं जिगमिषति कश्चिद् , विरोधात्। तस्माद् अक्षरोपासकानां आनन्दगिरिकृतव्याख्या विशेषात् कुतस्तदधीनत्वम्? तत्राह— यदीति। कर्मयोगस्याक्षरोपास्तेश्च युगपदेकत्रायोगे हेत्वन्तरमाह— यस्माच्चेति। ‘कुरु कर्मैवे’- त्यादाविति शेषः। किञ्चाक्षरोपासको वाक्यादीश्वरमात्मानं वेत्ति, नासौ क्रियायां गुणत्वेन कर्तृत्वमनुभवति, गुणत्वेश्वरत्वयोरेकत्र व्याघाताद् , अतोऽपि नाक्षरोपासनं कर्मानुष्ठानं चैकत्र युक्तमित्याह—न चेति। अक्षरोपास्तिकर्मयोगयोरेकत्र १पर्यायायोगे फलितमाह—
[[अ. १२. श्लो. १३]] [[५७८]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
अभेदज्ञानस्य शेषशेषिभावस्य च विरोधात्। तस्मादिति। भेददृष्टिमन्तं प्रति कर्मयोगस्यैवार्जुनायोपदिष्टत्वाद् अर्जुनहितैषिणा भगवतेत्यर्थः। इत्यादीति। इत्यादिश्लोकोक्तमित्यर्थः। सर्वभूताद्वेषादिरूपमिति यावत्। आदिशब्दान्मैत्रकरुणादिसङ्ग्रहः। साक्षादिति। भक्तानां धर्मपूगस्तु क्रमेण मोक्षकारणं, न तु साक्षादिति भावः। मोक्षं प्रति ज्ञानस्यैवान्तरङ्गत्वात्। न हि ज्ञानोदयानन्तरं मुमुक्षुणा मोक्षं प्रति किञ्चित् कर्तव्यमस्ति। कर्मयोगस्तु भक्त्यादिलक्षणो बहिरङ्गः, कर्मयोगस्य चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षहेतुत्वेन भक्तानां ज्ञानार्थं श्रवणादेः कर्तव्यत्वादिति। एवमर्जुनस्यात्यन्तं हितैषिणा भगवता अर्जुनायाज्ञविषयः कर्मयोगः, प्राज्ञविषयो ज्ञानयोगश्चेति द्वयमुपदिष्टम्। यद्यर्जुनः प्राज्ञस्तर्हि ज्ञानयोगमभ्यसेत् , यदि त्वज्ञस्तर्हि कर्मयोगमभ्यसेदिति दृष्ट्या। अत एव ‘मय्येव मन आधत्स्वे’ति भक्तियोगमुपदिश्य तावत् पश्चाद् ‘अथैतदप्यशक्तोऽसी’त्यशक्तत्वमर्जुने सम्भाव्याभ्यासयोग उक्तः। ततोऽभ्यासेऽप्यर्जुनस्याशक्तत्वं सम्भाव्य ईश्वरकर्म- परमत्वमुक्तम् – ‘अभ्यासेऽप्यसमर्थोऽसी’त्यादिना। ततश्च तत्राप्यशक्तं सम्भाव्य कर्मफलत्यागः उक्तः। अनेन च किं ज्ञायते? अक्षरो- पासनाशक्तिमर्जुने सम्भाव्यैव विश्वरूपोपासनमादावुक्तमिति। अक्षरोपासनस्य दुष्करत्वं च ‘क्लेशोऽधिकतरः’ इत्यनेन सूचितम्। वस्तुतस्तु न ह्येकस्यैवार्जुनस्य विश्वरूपोपासनाभ्यासादौ शक्तत्वमशक्तत्वं च भवितुमर्हति, न वाऽर्जुनस्य शक्तिविषयमिदमिति सर्वज्ञो भगवान् न वेदेति वक्तुमुचितं, येन तत्राप्यशक्तोऽसीति पक्षान्तरमुपदिश्येत भगवता। तस्मादर्जुनं निमित्तीकृत्य भगवता सर्वलोकहिताय शास्त्रमिदमुच्यते। तत्र यः प्राज्ञः सोऽक्षरोपासनं कुर्यात् , यस्त्वज्ञः स विश्वरूपोपासनम् , यस्तत्राप्यशक्तः सोऽभ्यासम् , यः पुनस्तत्राप्यशक्तः स मत्कर्मपरमत्वम् , यस्तत्राप्यशक्तः स फलत्यागं कुर्यात्। अतो नार्जुनस्यैतेषु सर्वेष्वधिकारप्रसङ्गः। तस्मादर्जुनस्य हितैषिणाऽपि भगवता सर्वलोकहितार्थं भेददृष्टिमन्तमुद्दिश्य कर्मयोगमुपदिश्य, अभेददृष्टि- मन्तमुद्दिश्य ज्ञानयोगोऽप्युपदिश्यत इति ज्ञानयोग एवोत्तमः, प्राज्ञविषयत्वात्। उत्तमो हि मार्गः प्राज्ञैराश्रीयते, उत्तममार्गाश्रयणं प्राज्ञत्वलक्षणमिति। यद्वा यदर्जुनेन पृष्टं तदुत्तरितं भगवता – ‘ते मे युक्ततमा मताः’ इति, ‘ते प्राप्नुवन्ति मामेवे’ति च। तत्र कर्मयोगे स्वल्पः क्लेशः, ज्ञानयोगे त्वधिक इति कर्मयोगस्य सौकर्यमुक्तम्। भक्तिमार्गेऽप्यशक्तानां गत्यन्तराणि च दर्शितानि। अतः समाप्तो ग्रन्थः। ततश्चाद्वेष्टेत्याद्युत्तरग्रन्थारम्भानवकाश इति शङ्कायामाह— यस्माच्चेति। लोके हितैषिणो हि पुरुषा यस्य हितमिच्छन्ति, तेन पृष्टं सर्वमप्युत्तरयन्ति, अत्यन्तहितैषिणस्तु पृष्टादन्यदपि ब्रुवन्ति, प्रष्टुर्हितकरत्वात् स्वोक्तार्थस्य। तथा भगवानप्यर्जुनस्यात्यन्तहितैषित्वाद् अपृष्टमप्यर्थं हितायार्जुनस्योपदिशतीत्याह— यस्माच्चेति। श्रुते त्वक्षरोपासकानां धर्मपूगे, क्लेशाधिक्ये सत्यप्यमीषां मार्ग एव सर्वाधिक इति ज्ञानमर्जुनस्य स्यात् , ततश्च क्लेशाधिक्यमभ्युपगम्याप्यर्जुनः प्रविशेदेव ज्ञानमार्गे, ततश्च स्वाधीन एव स्यादर्जुनस्यापि मोक्ष इति भगवतः आशयः। अत एवात्यन्तमर्जुनस्य हितैषी भगवान् , अर्जुनं ज्ञानमार्गे प्रवर्त्य स्वाधीनमोक्षं तं कर्तुमिच्छुत्वात्। अथवा अर्जुनस्य ज्ञानमार्गे प्रवेशो मा भून्नाम, ज्ञानिनां धर्मपूगश्रवणादर्जुनस्य ज्ञानिष्वीश्वरबुद्धिर्भवेत् ; ततश्च ज्ञानिनां सतां सङ्गादिषु प्रवर्तेत; सत्सङ्गो हि ज्ञानलाभहेतुः; तत्प्रवृत्तिवशाज्ज्ञानी भूत्वा मुच्येतेति भगवदाशयः। एवमर्जुनस्यात्यन्तहितैषित्वादेव भगवानर्जुनस्याज्ञविषयं कर्मयोगमुपदिश्य प्राज्ञानां धर्मपूगं वक्ष्यामीति प्रवर्तते। अन्यत्तुल्यमिति। एतेन ‘अद्वेष्टा’ इत्यारभ्य ज्ञानयोगप्रकरणमिति प्रकरणभेदः फलितः। अतो न कर्मिणां ज्ञानिनां वक्ष्यमाणधर्मसाङ्कर्यम्। आनन्दगिरिकृतव्याख्या सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वैषणानाम् ‘अद्वेष्टा सर्वभूतानाम्’ इत्यादिधर्मपूगं१ साक्षादमृतत्वकारणं तस्मादिति। अज्ञानां कर्मिणां वक्ष्यमाणधर्मजातस्य साकल्येनायोगादक्षरनिष्ठानामेवेदमुच्यते। अविरुद्धांशस्य तु सर्वार्थत्वमिष्टमेवेत्यर्थः। १. धर्मपूगः धर्मसमूहः। अग्रे वक्ष्यमाणानि ज्ञानिनो भक्तस्य लक्षणानि साधकस्य यत्नसंपाद्यत्वेन साधनतयोपयुज्यन्ते। द्र.भाष्ये पृ. १२१।
[[५७९]]
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥१३॥
अद्वेष्टेत्यादि। यः कोऽपि सर्वभूतानि अद्वेष्ट्यैव[न द्वेष्ट्येव], केषाञ्चिद् द्वेष्टुमशक्यत्वात् , केषाञ्चिदयोग्यत्वाच्चेत्यत आह— आत्मन इति। आत्मनः सुखहेतुं प्राणिनमज्ञोऽपि न द्वेष्टि, दुःखहेतुं तु द्वेष्टि सर्पादिकम् ; प्राज्ञस्तु दुःखहेतुमपि न द्वेष्टि, किम्पुनः सुखहेतुमित्युच्यते—अद्वेष्टा सर्वभूतानामिति। कुतो न द्वेष्टीत्यत आह— सर्वभूतानीति। ‘मयि सत्यसुखाम्भोधौ बहुधा विश्ववीचयः। उत्पद्यन्ते विलीयन्ते मायामारुतसम्भ्रमात्॥’ इति शास्त्रादात्मन्येव सर्वभूतानां मायया कल्पितत्वात् सर्वेषु भूतेषु चात्मन एव सर्वत्रानुगतत्वाच्च सर्वभूतानि स्वात्मेत्येव पश्यति प्राज्ञः ‘ऐतदात्म्यमिदं सर्वं’ ‘सर्वं खल्विदं ब्रह्मे’त्यादिश्रुतिभ्यः। आत्मनश्च परमप्रेमास्पदत्वं प्रसिद्धमिति नोचितः आत्मनि द्वेषो मूर्खस्यापि। न हि मूर्खोऽप्यात्मत्वेनाभिमतं स्वदेहमग्न्यादिना तापयति। तथा प्राज्ञोऽप्यात्मत्वेनाभिमतं दुःखहेतुमपि सर्पादिभूतं न द्वेष्टि। न च - प्राज्ञः सर्पादिदेहमात्मत्वेन कथं प्रत्येति? यः स्वदेहमेवात्मत्वेन न पश्यति; देहाद्भिन्नं ह्यात्मानमीश्वरं मन्यत इति - वाच्यम् ; भूतानामात्मनि कल्पितत्वेन कल्पितस्याधिष्ठानात्मकत्वाद् भूतान्यात्मत्वेन गृह्णाति प्राज्ञः। यद्वा आत्मनो २भूतान्तरत्वादिति। न तु मूर्खवद् देहमात्मत्वेन गृह्णातीति। एवं सर्वात्मदर्शिनः प्राज्ञस्य सर्वस्याप्यात्मत्वान्न कस्मिंश्चिदपि द्वेषः। अयं हि सर्वभूताद्वेषः सर्वात्मज्ञानप्रयुक्तत्वाद् नाज्ञेषु कर्मिषु भक्तेषु वा स्वप्नेऽपि सम्भवेत्। अतः प्राज्ञधर्म एवायम्। मैत्र इति। मित्रस्य भावो मैत्री, मैत्री अस्यास्तीति मैत्रः, अर्शआद्यजन्तः। मित्रतया मैत्र्या वर्तत इति मैत्र इति तु फलितार्थ- कथनम्। इयं च सर्वभूतमैत्री प्राज्ञधर्म एव। यस्य सर्वात्मभावस्तस्यैव सर्वत्र मैत्री, नेतरस्य। एवं करुणाऽपि। विशेषणत्रयस्य फलितार्थमाह— सर्वभूतेति। सर्वेषामपि भूतानामभयप्रदोऽभयमेव प्रदत्ते, न तु भयम्। द्वेषाभावान्मैत्रीकरुणयोः सत्त्वाच्चेति भावः। क एवंविधः? अत आह—संन्यासीति। संन्यासिनामेव रागद्वेषयोःसमूलनाशादिति भावः। न च मैत्रीकरुणाभ्यां भूतेषु तस्य रागः स्यादिति वाच्यम् ; रागं विनापि दुःखितेषु शुनकादिषु करुणादिदर्शनान्महताम्। करुणाऽभावे तु दुःखितशिष्यदुःखापनोदनार्थं गुरुर्न प्रयतेत, शास्त्रसम्प्रदायश्च विच्छिद्येत, नैर्घृण्यदोषश्च गुरोः स्यात्। अत एव हीश्वरोऽपि दयासमुद्र इति गीयते। मैत्री तु स्नेहः सर्वभूतेष्वात्मत्वेन प्रीतिः। तेषां हितैषित्वं वा। असंन्यासिनं कर्मिणमज्ञं दृष्ट्वा भूतानि बिभ्यति - छेत्स्यति अस्मानिति सोमलता- पश्वादयः, निरसिष्यति अस्मानिति भूतप्रेतराक्षसादयः, अर्थं याचिष्यति अस्मानिति राजादय इन्द्रादयश्च, कृत्येष्वारोप्य पीडयिष्यति अस्मानिति दारापत्यसोदरादयः। संन्यासिनं दृष्ट्वा तु न कोऽपि प्राणी बिभेति। अत उक्तम्—सर्वभूताभयप्रद इति। एतेन सर्वभूत- सर्वेषां भूतानां मध्ये यो दुःखहेतुः तं विद्वानपि द्वेष्ट्येवेत्याशङ्क्याह— आत्मन इति। तत्र हेतुः— सर्वाणीति। सर्वभूतानामित्युभयतः सम्बध्यते। ममप्रत्ययवर्जितो देहेऽपीति शेषः। वृत्तस्वाध्यायकृताहङ्कारान्निष्क्रान्तत्वमाह— निर्गतेति॥१३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
वक्ष्यामीति प्रवर्तते— अद्वेष्टेति। अद्वेष्टा सर्वभूतानां सर्वेषां भूतानां न द्वेष्टा, आत्मनो दुःखहेतुमपि न किञ्चिद् द्वेष्टि, सर्वाणि भूतान्यात्मत्वेन हि पश्यति। मैत्रः- मित्रभावो मैत्री, मित्रतया वर्तत इति मैत्रः। करुण एव च - करुणा कृपा दुःखितेषु दया, तद्वान् करुणः सर्वभूताभयप्रदः संन्यासीत्यर्थः। निर्ममो १ममप्रत्ययवर्जितः, निरहङ्कारो निर्गताहम्प्रत्ययः। समदुःखसुखः समे दुःखसुखे द्वेषरागयोरप्रवर्तके यस्य स समदुःखसुखः, क्षमी क्षमावान् आक्रुष्टोऽभिहतो वाऽविक्रिय एवास्ते॥१३॥
अ. १२. श्लो. १३ ] १. ‘ममेति प्रत्ययवर्जितः’ इति पा.। २. सर्वभूतान्तरात्मत्वादित्यर्थः।
[[५८०]]
सन्तुष्ट इति। सन्तुष्टः सततं नित्यं देहस्थितिकारणस्य लाभेऽलाभे चोत्पन्नालम्प्रत्ययः, तथा गुणवल्लाभे विपर्यये च सन्तुष्टः, सततं योगी समाहितचित्तो यतात्मा संयतस्वभावो दृढनिश्चयो दृढः स्थिरो निश्चयोऽध्यवसायो यस्यात्मतत्त्वविषये स दृढनिश्चयो मय्यर्पितमनोबुद्धिः १सङ्कल्पविकल्पात्मकं मनः, अध्यवसायलक्षणा बुद्धिः, ते भयप्रदस्य सर्वात्मज्ञानशून्यस्याज्ञस्य कर्मिणो भक्तस्य वा अद्वेषमैत्रीकरुणाः भूतेषु न भवन्तीति सिद्धम्। सत्सु तेषामेतेषु धर्मेषु पशुलतापुष्पफलादिच्छेदनाद्ययोगात्। तस्माद् अद्वेषमैत्रीकरुणावान् संन्यास्येव, न कर्मी। ममप्रत्यय इति। देहादौ ममायमिति ज्ञानम्। अहम्प्रत्यय इति। देहादावहमित्यभिमानः। इदं द्वयं ह्यज्ञानामस्ति -ब्राह्मणोऽहं ज्योतिष्टोमं करोमीति, मम हस्ते कृष्णमृगशृङ्गोऽस्तीति च तेषां प्रत्ययात्। संन्यासी तु - नाहं देहादिः, न मम देहादिना कोऽपि सङ्गो ऽसङ्गस्येति च प्रत्येतीति तद्द्वयरहितः। समेति। द्वेषजनकं दुःखं, रागजनकं सुखम् ; दुःखजनके द्वेषाभावः, सुखजनके रागाभावश्च यस्य स उच्यते समदुःखसुख इति। द्वेषप्रवर्तकं दुःखं, रागप्रवर्तकं सुखं च स्वनिष्ठद्वेषप्रवर्तकत्वरागप्रवर्तकत्वरूपविरुद्धधर्मप्रहाणेन परस्परं समं भवति। द्वेषजनकत्वरहिते दुःखे, रागजनकत्वरहिते सुखे च गुणत्वरूपस्य वस्तुत्वरूपस्य वा समानस्यैव धर्मस्य सत्त्वात् , अत उक्तम् — समदुःखसुख इति। समे तुल्ये द्वेषप्रवर्तकत्वरागप्रवर्तकत्वरूपधर्माभावात् पदार्थत्वरूपेण परस्परं समाने सुखदुःखे यस्य स समदुःखसुखः। इदं चोक्तं प्राक् ‘दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः’ इति। इदं च समदुःखसुखत्वम् — सर्वं मिथ्येति, निर्विशेषचिन्मात्रोऽहमिति च ज्ञानाभावे न सिध्येदेवेति ज्ञानिन एवायं धर्मः। आक्रुष्टोऽधिक्षिप्तः, अभिहतस्ताडितो वा योऽविक्रिय आस्ते स क्षमीत्युच्यते। अयं च देहादावहङ्कारममकारशून्यस्य ज्ञानिन एव धर्मः। सति त्वभिमाने ताडनादिजन्यदुःखादिविकारः स्यादेव। अभिमानाभावे तु वल्मीकत्यक्तसर्पनिर्मोकताडनादिना यथा सर्पस्य न कोपादिविकारः, तथाऽमुष्यापि। सर्पस्य निर्मोक इव ज्ञानिनो देहेऽपि अहम्ममाभिमानाभावस्य तुल्यत्वात्। कर्मिणस्तु अभिमानसत्त्वान्न क्षमा॥१३॥
सन्तुष्ट इति। सततंशब्दः काकाक्षिन्यायेनोभयान्वयी—सततं सन्तुष्टः, सततं योगीति। देहस्थितिकारणस्यान्नादेर्लाभे, जीविताशाभावादिति भावः। देहादावभिमानाभावादिति वा। यो हि देहमात्मानमात्मीयं वा मन्यते, स देहस्थित्यर्थमन्नादिलाभे तुष्यति, तदलाभे च खिद्यते। यस्तु देहाद् विलक्षणमसङ्गमात्मानं वेत्ति, किं तस्यान्नादिना देहस्थितिहेतुना? अतस्तस्य तत्रालम्बुद्धिरुचितेति भावः। एतेन सन्तोषोऽयं कर्मिणो न सम्भवतीति सूचितम्। तथा सततं समाहितचित्तः, चित्तविक्षेपहेत्वभावात्। देहाद्यभिमानो हि चित्तविक्षेपहेतुः, तत्पूर्वकत्वात् सर्वव्यवहारस्य। सुषुप्तौ ह्यभिमानाभावाद् व्यवहाराभावो दृश्यते। यद्यपि कर्मी कदाचिच्चित्तसमाधानं कुर्यात् , तथापि न सर्वदा कर्तुं क्षमते। अत उक्तम्— सततं योगीति। यद्वा फलत्यागात् कर्मिणश्चित्तसमाधानलाभो यद्यपि भवेत् , तथापि देहाद्यभिमानात्यागाच्चित्तसमाधानं नावतिष्ठते। देहाद्य- भिमानपूर्वकं समित्कुशादिबहूपकरणसम्पादनस्य कर्तव्यत्वात् कथं कर्मिणश्चित्तसमाधानगन्धः? फलत्यागप्रयुक्तं चित्तसमाधानं तु फलसिद्ध्यसिद्ध्यादिसम्भावनाप्रयुक्तविकारराहित्यमात्रमेवेति बोध्यम्। संयतो नियतः स्वभावः प्रकृतिर्येन स संयतस्वभावः। बलात्कारेण धर्माधर्मादिलक्षणं स्वस्वभावमपि नियमितवानित्यर्थः। इदं च स्वभावनियमनम् ईश्वरस्यासाधारणो गुणो वशीकृत- प्रकृतित्वाद् ईश्वरस्य; ज्ञानिनश्चेश्वरत्वादुपपद्यत इति बोध्यम्। न च ‘स्वभावो दुरतिक्रमः’ इति वाच्यम् ; पुरुषकारस्य व्यर्थत्वापत्तेः। अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराण्याह— सन्तुष्ट इति। सततमिति सर्वत्र सम्बध्यते। कार्यकरणसङ्घातः स्वभाव- १. ‘सङ्कल्पात्मकं’ इति पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः। मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥१४॥
[[५८१]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
अथवा नियतः आत्मचिन्तनादिलक्षणः स्वभावो यस्य स तथोक्तः। नियमेन स्वविहिते श्रवणादौ वर्तमान इत्यर्थः। ननु कर्म्यपि नियमेन कर्मणि प्रवृत्त एवेति चेत्? मैवम् ; श्रवणादिप्रवृत्तेरेवेह स्वभावत्वेन विवक्षितत्वात्। अथवा यतात्मा निश्चलस्वभावः, स्वभावः कार्यकरणसङ्घातः इत्यानन्दगिरिः। दृढो निश्चयोऽहं ब्रह्मेत्याकारको यस्य स दृढनिश्चयः। कर्मिणां तु नास्ति अहं ब्रह्मेति निश्चयः, देहाभिमानानाशात् , आत्मज्ञानाभावाच्च। मय्येवेति। स्वात्मन्येवेश्वर इत्यर्थः। न तु विश्वरूपे मयीति, तस्याज्ञविषयत्वाद् , अस्य च प्राज्ञप्रकरणत्वात्। मद्भक्त इति। आत्मनिष्ठ इत्यर्थः। ज्ञानप्रकरणत्वादस्य, विश्वरूपोपासकस्य ईश्वरभक्तस्य प्रागुक्तधर्मायोगाच्च। स ह्यज्ञः, विश्वरूपदेहे ईश्वराभि- मानित्वात्। ननु ‘यो मद्भक्तः स मे प्रियः’ इत्यस्य ‘ज्ञानी यः स मे प्रियः’ इत्यर्थवर्णनमयुक्तम्? अत आह— प्रिय इति। सप्तमाध्यायस्थ- वाक्यविरोधादिह मद्भक्तो ज्ञान्येव, तत्र ज्ञानी मम प्रिय इत्युक्तत्वाद् , इह भक्तो मम प्रियः इत्युक्तौ स्ववाक्यव्याघातात्। सूचितमिति। संक्षेपत उक्तमित्यर्थः। यद्वा सप्तमाध्यायस्थात् ‘प्रियो हि ज्ञानिनः’ इति वचनादिहापि मद्भक्त इत्यस्य ज्ञानीत्येवार्थ इति ध्वनित- मित्यर्थः। एवं च ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्यनेनैककण्ठ्यान्मद्भक्तो मे प्रिय इत्यत्रापि ज्ञानी मम प्रिय इत्येवार्थः स्वीकर्तव्य इति सिद्धम्। यद्वा ‘प्रियो हि ज्ञानिन’ इत्यत्रैव ज्ञानिनो भगवत्प्रियत्वमुक्तमिति पुनरत्र तद्वचनं पुनरुक्तिदोषावहमेवेत्यत आह—प्रिय इति। सप्तमाध्याये सूचितं संक्षेपत उक्तमेव ज्ञानिन ईश्वरप्रियत्वम्। तत्तु इह प्रपञ्च्यते विस्तरेणोच्यते। तस्मान्न पुनरुक्तिदोष इति भावः। यत्तु रामानुजः - कर्मनिष्ठस्योपादेया गुणा अद्वेष्टेत्यादिनोच्यन्त इति; तत्तुच्छम् ; कर्मयोगिनां निर्ममत्वाद्यसम्भवस्य दर्शि- तत्वात्। ब्राह्मणोऽहमित्याद्यभिमानं विना कर्मसु प्रवृत्त्यनुपपत्तेः। मद्भक्त इत्यस्य ‘मां कर्मयोगेन भजमान’ इत्यर्थवर्णनमप्ययुक्तम् , कर्मयोगेनेति निर्मूलार्थकल्पनस्याप्रमाणत्वात्। ज्ञानी मम प्रिय इति सप्तमाध्यायोक्तात् स्ववाक्यादेव कर्मी मम प्रिय इत्यस्यार्थस्य व्या- घातात्। सततं योगीत्यस्य प्रकृतिविविक्तात्मानुसन्धानपर इत्यर्थकथनमप्ययुक्तम् , प्रकृतिविविक्तात्मानुसन्धानस्याक्षरोपासकज्ञान- विषयस्य कर्मिष्वसम्भवात्। कर्मानुष्ठानात्मानुसन्धानयोर्युगपदेकपुरुषकर्तृकत्वानुपपत्तेः। अत एव – ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति निष्ठाद्वयमधिकारिद्वयस्य विविच्योक्तं भगवतैव। अत्रापि प्रकरणे ‘एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥’ इति कर्मयोगस्य, अक्षरात्मानुसन्धानस्य चाधिकारिद्वयनिष्ठत्वं दर्शितम् , भक्तानामात्मोपासकानां च कक्षद्वयेन निर्देशात्। यदि भक्तानां कर्मयोगिनामेवात्मानुसन्धानात्मकम् अक्षरोपासनमपि स्यात् तर्ह्यात्मोपासकानां भक्तानां च मध्ये के योगवित्तमा इति कथं प्रष्टुं शक्यतेऽर्जुनेन? तस्माद् भिन्नैरेव कर्मिभ्यो भवितव्यमात्मानुसन्धानपरैः। प्रपञ्चितं चैतद् बहुशः पूर्वं कर्मज्ञानसमुच्चयवादनिराकरणप्रसङ्गे॥१४॥
मय्येवार्पिते स्थापिते यस्य संन्यासिनः स मय्यर्पितमनोबुद्धिः, यः ईदृशो मद्भक्तः स मे प्रियः। ‘प्रियो हि ज्ञानिनो ऽत्यर्थमहं स च मम प्रियः’ (भ.गी.७.१७) इति सप्तमेऽध्याये सूचितम् , तदिह प्रपञ्च्यते॥१४॥
यस्मादिति। यस्मात् संन्यासिनो नोद्विजते नोद्वेगं गच्छति, न सन्तप्यते, न १संक्षुभ्यति लोकः; तथा लोकाद् शब्दार्थः। स्थिरत्वं कुतर्कादिनाऽनभिभवनीयत्वम्। मद्भक्तो मद्भजनपरः, २ज्ञानवानिति यावत्। ज्ञानवतो भगवत्प्रियत्वे प्रमाणमाह— प्रियो हीति। किमर्थं तर्हि पुनरुच्यते? तत्राह— तदिहेति॥१४॥
[आनन्दगिरिकृतव्याख्या]
अ. १२. श्लो. १३-१५ ] यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। १. ‘संक्षुभ्यते’ इति पा.। २. भक्तिः परमार्थतत्त्वज्ञानलक्षणेति भावः।
[[५८२]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
यस्मादिति। उद्वेगः सन्तापः, संक्षोभ इति यावत्। प्रियस्य वस्तुनो लाभे सति जायमानोऽन्तःकरणस्योत्कर्षो हर्ष इत्युच्यते। रोमाञ्चनाश्रुपातादयो हर्षस्य लिङ्गानीत्याह— रोमाञ्चनेति। रोमाञ्चनाश्रुपातादयो लिङ्गानि यस्य स इति बहुव्रीहिः। उद्विग्नः संक्षुब्धः। एवंविधो यः संन्यासी स च मे प्रियः। चकारात् संन्यासिनः पूर्वश्लोकोक्ता एतच्छ्लोकोक्ताश्च गुणा आवश्यका इति सूच्यते समुच्चयार्थात्। एवमुत्तरश्लोकेषु वक्ष्यमाणा अपीति बोध्यम्। कर्मी तु धनधान्याहरणयाचनलतापश्वादिच्छेदनादिना लोकक्षोभकः, नास्तिक- प्रायाल्लोकात् स्वयमप्युद्विजते। कर्मसिद्ध्या हर्षः, स्वाधिककर्मकर्तृषु अमर्षः, प्रायश्चित्तादेर्भयम् , अनशनादिक्लेशादुद्विग्नतेति। नामी कर्मिधर्माः, किन्तु ज्ञानिन एव। अत एव एवंविधो ज्ञानी भगवतः प्रियः। ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्युक्तत्वात् ॥१५॥
अनपेक्ष इति। देहश्चेन्द्रियाणि च विषयाः शब्दादयश्च देहेन्द्रियविषयाः, तेषां सम्बन्धादिषु। आदिपदाद् वृद्ध्यादिग्रहणम्। ‘देहादिसम्बन्धो मम स्यात् , स च चिरमवतिष्ठे’दित्याद्यपेक्षारहितोऽनपेक्षः। अथवा विषयसम्बन्धो विषयप्राप्तिः। देहश्चेन्द्रियाणि च विषयसम्बन्धश्च देहेन्द्रियविषयसम्बन्धाः, आदिपदाज्जरारोगाद्यभावादिग्रहणम्। अयं न कर्मिणः सम्भवति, कर्मणो देहादिसाध्यत्वेन तस्य देहादिपाटवापेक्षत्वात्। शौचं परिशुद्धिः, बाह्यं स्नानादिजन्यम्। आभ्यन्तरं तु मानसिकं शमदमादिजन्यम्। अविक्षिप्तचित्तत्वं हि चित्तस्य शुद्धिः। संन्यासिनस्तु चित्तविक्षेपाभावादुपपद्यते आभ्यन्तरशुद्धिः। कर्मिणस्तु नोपपद्यते, कर्मतत्साधनसम्पादनादिना चित्तविक्षेपात् तस्य। प्रत्युत्पन्नेष्विति। ४उत्पन्नेषूत्पन्नेषु प्रत्युत्पन्नेषु सर्वेष्वपि प्राप्तेष्वित्यर्थः। यथावत्प्रतिपत्तुमिति। मिथ्यात्वेन १. ‘अभिलषितप्रतिघातेऽसहिष्णुता’ इति पा.। २. क्लीबत्वोपपत्तिः ५८४ पृष्ठे द्र.। ३. ‘लोकान्नोद्विजते’ इत्यत्र लोकादित्युपादानात् चेतनाधीनोद्वेगराहित्यं विवक्षितम्। इह तु अचेतनाधीनः स ग्राह्यः पौनरुक्त्यपरिहारायेत्यर्थः। कुण्डलितं क्वचिन्न। ४. वीप्सार्थे प्रतीत्यव्ययस्योत्पन्नशब्देनाव्ययीभावसमास इति भावः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥१५॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः। सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥१६॥
नोद्विजते च यः; हर्षामर्षभयोद्वेगैः हर्षश्चामर्षश्च भयं चोद्वेगश्च तैर्हर्षामर्षभयोद्वेगैः मुक्तः; हर्षः प्रियलाभे अन्तःकरणस्योत्कर्षो रोमाञ्चनाश्रुपातादिलिङ्गः, अमर्षः १असहिष्णुता, भयं त्रासः, उद्वेगः उद्विग्नता, तैर्मुक्तो यः स च मे प्रियः॥१५॥
अनपेक्ष इति। देहेन्द्रियविषयसम्बन्धादिषु अपेक्षाविषयेषु अनपेक्षो निःस्पृहः, शुचिः बाह्येनाभ्यन्तरेण च शौचेन सम्पन्नः, दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यो यथावत् प्रतिपत्तुं समर्थः, उदासीनो न कस्यचिद् मित्रादेः पक्षं भजते यः स उदासीनो यतिः, गतव्यथो गतभयः, सर्वारम्भपरित्यागी आरभ्यन्त इत्यारम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि२ कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥१६॥
[आनन्दगिरिकृतव्याख्या]
उद्वेगादिराहित्यमपि ज्ञानवतो विशेषणमित्याह— यस्मादिति। न केवलमुद्वेगं प्रत्यपादानत्वमेव संन्यासिनोऽनुपपन्नम् , किन्तु तत्कर्तृत्वमपीत्याह— तथेति। असहिष्णुता परकीयप्रकर्षस्येति शेषः। त्रासः तस्करादिदर्शनाधीनः। उद्विग्नत्वमचेतनात् , चेतनाधीनस्य लोकादिति गतत्वात्३ (इति यावत् )॥१५॥
निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणमित्याह— अनपेक्ष इति। आदिपदमपेक्षणीयसर्वसंग्रहार्थम्। प्रतिपत्तव्येषु प्रतिपत्तुम् , कर्तव्येषु कर्तुं चेत्यर्थः। परैस्ताडितस्यापि गता व्यथा भयमस्येति व्युत्पत्तिमाश्रित्याह— गतेति। न च क्षमीत्यनेन पौनरुक्त्यम् ,
[[५८३]]
ज्ञातुमित्यर्थः। कार्यमात्रं हि मिथ्या। तस्य मिथ्यात्वमेव याथार्थ्यम्। कार्यमात्रस्य नैवं प्रतिपत्तुं कर्मी क्षमते, ज्ञानाभावात् , कर्मणो मिथ्यात्वज्ञाने तत्र प्रवृत्त्यनुपपत्तेश्च। स यतिरुदासीनः इत्यन्वयः। कर्मिणा तु मित्रादयः सत्कार्याः कर्मनिर्वर्तनार्थमिति भावः। गतभय इति। द्वितीयवस्त्वभावात्। ‘द्वितीयाद्वै भयं भवती’ति श्रुतिः। अद्वितीयात्मैव सर्वमिति हि प्रत्येति विद्वान्। अतः कथं तस्य भयम्? उक्तं हि मुरारिणाऽपि – ‘भयमिति किमेतद् ब्राह्मणस्ये’ति। कर्मिणस्तु द्वैतसद्भावादस्त्येव भयमिति भावः। अत्र गतव्यथो गतदुःख इत्यपि वक्तुं शक्यम्। कर्मिणः कर्मनिर्वर्तकसाधनादिसम्प्रदानप्रयुक्तबहुक्लेशसद्भावान्न गतव्यथत्वम्। संन्यासिनस्तु नास्ति कश्चिदपि क्लेश इति गतव्यथत्वमिति भावः। सर्वारम्भाः सर्वकर्माणि, इहामुत्रफलानां पशुपुत्रस्वर्गादिलक्षणानां भोग्यानां भोगा अनुभवा एव अर्थाः प्रयोजनानि येषां तानि इहामुत्रफलभोगार्थानि कामानां हेतूनि१ यज्ञादीनि। इदं हि सर्वकर्मपरित्यागित्वं संन्यासिन एव लक्षणमिति सुविदितम् , कर्मिणः कर्मत्यागायोगात्। य एवंविधो मद्भक्तः ज्ञानी, स मे प्रियो भवति॥१६॥
य इति। न हृष्यति, कर्मी तु कर्मपरिकरादिप्राप्तौ हृष्यत्येव, प्रायश्चित्तानिष्टप्राप्तौ द्वेष्ट्येव, कर्मभ्रंशे शोचत्येव, कर्मपरिसमाप्त्या- दिकं काङ्क्षत्येव, अशुभं कर्म त्यजन्नपि शुभं कर्म न त्यजत्येव, कर्मत्यागे कर्मित्वासिद्धेः। य एवंविधो भक्तिमान् ज्ञानवान् , स मे प्रियः ॥१७॥
सम इति। कर्मविघातुकेषु शत्रुषु कर्मिणो द्वेषात् , तदुपकारिषु मित्रेषु प्रीतेश्च, न शत्रुमित्रसमत्वं भवितुमर्हति। प्राज्ञस्य तु शत्रुमित्रयोरेकात्मबुद्ध्या समत्वम्। मानावमानयोर्देहादिगोचरतया आत्मविषयत्वाभावं यः पश्यति, स ज्ञानी मानावमानयोः समः। यस्तु अहं ब्राह्मणः सोमयाजीत्यभिमन्यते, स हि कर्मी मानं गृह्णाति, अवमानं न सहत इति बोध्यम्। शीतोष्णयोः सुखदुःखयोश्च समोऽविकृतचित्तः। शीतोष्णयोर्देहधर्मत्वं, सुखदुःखयोर्मनोधर्मत्वं च पश्यन् ज्ञानी न तत्र विक्रियते। कर्मी तु देहाद्यभिमाना- भाष्यार्कप्रकाशः प्रत्युत्पन्नायामपि व्यथायामपकर्तृष्वनपकर्तृत्वं क्षमित्वमित्यभ्युपगमात्॥१६॥
द्वेषहर्षादिराहित्यमपि ज्ञानिनो लक्षणमित्याह— किञ्चेति। सर्वारम्भपरित्यागीत्यनेन विहितकाम्यत्यागस्योक्तत्वाद् विहिता- दन्यत्र मा सङ्कोचीति विशिनष्टि— शुभाशुभेति॥१७॥
सम इति। अद्वेष्टेत्यादिना द्वेषादिविशेषाभाव उक्तः, सम्प्रति सर्वत्रैवाविकृतचित्तत्वमुच्यते। सर्वत्र चेतने स्त्र्यादौ, अचेतने च चन्दनादावित्यर्थः॥१८॥
किञ्च— यो नेति। यो न हृष्यति इष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ, न शोचति प्रियवियोगे, न चाप्राप्तं काङ्क्षति, शुभाशुभे पुण्यपापे कर्मणी परित्यक्तुं शीलमस्येति शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥१७॥
सम इति। समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजापरिभवयोः, शीतोष्णसुखदुःखेषु समः, सर्वत्र च सङ्गविवर्जितः॥१८॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥१८॥
[आनन्दगिरिकृतव्याख्या]
अ. १२. श्लो. १५-१८ ] १. वस्तुतस्तु— कामाः हेतवो येषां कर्मणामिति बहुव्रीहिरत्र युक्तः। भाष्ये— कामहेतूनि इति पाठः उपलभ्यते। स चेत्थं समर्थनीयः।
[[५८४]]
किञ्च— तुल्यनिन्देति। तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती, ते तुल्ये यस्य स तुल्यनिन्दा- स्तुतिः, मौनी मौनवान् संयतवाक् , सन्तुष्टो येन केनचिच्छरीरस्थितिहेतुमात्रेण। तथा चोक्तम्— ‘येन केनचिदाच्छन्नो येन केनचिदाशितः। यत्रक्वचनशायी स्यात् तं देवा ब्राह्मणं विदुः॥’(म.भा.१२.२४५.१२) इति। किञ्च अनिकेतो निकेतः आश्रयो निवासो नियतो न विद्यते यस्य सोऽयमनिकेतः, ‘नागारे’ (म.भा.अनु. १४१.८२) इत्यादिस्मृत्यन्तरात्। स्थिरमतिः स्थिरा परमार्थवस्तुविषया मतिर्यस्य स स्थिरमतिः, भक्तिमान् मे प्रियो नरः॥१९॥
च्छीतादिप्राप्तौ विक्रियत इति भावः। सर्वत्रेति। देहे तदनुबन्धिषु दारापत्यपशुमित्रगृहधनधान्यादिषु च सङ्गो नास्ति संन्यासिनः, त्यक्तसङ्गत्वात् तस्य। सर्वं परित्यज्य हि स गतः। देहस्तु तत्राहंममाभिमानाभावात् त्यक्तप्राय एव। कर्मी तु ससङ्ग एव, असङ्गत्वे कर्मण एवासिद्धेः॥१८॥
तुल्येति। ‘निन्दास्तुत्योर्देहविषयत्वमेव, न त्वात्मविषयत्व’मिति पश्यन् ज्ञानी तदुभयत्र तुल्यबुद्धिर्भवति। कर्मी तु ‘मामयं निन्दती’ति द्वेष्टि, ‘मामयं स्तौती’ति हृष्यति च, देहाभिमानादिति भावः। संयता नियमिता वाग् वागिन्द्रियं येन स तथोक्तः। मितभाषीत्यर्थः। अत्यन्ताभाषित्वे शिष्योपदेशाद्यसिद्धेरिति भावः। कर्मिणा तु बहुभाषिणा भवितव्यम् - त्वमेवं कुरु, त्वमेवं कुरु, त्वमेतद् देहीत्याद्यनेकवाक्यप्रयोगस्यावश्यकत्वात् तस्य। येन केनचित् कौपीनादिना क्षुद्रपरिधानेनाच्छन्नः, येन केनचिच्छाक- फलादिना आशितो भोजितः, यत्र क्वचन भूम्यादौ शायी शयितश्च स्यात् , य एवम्भूतः स संन्यासी, तं देवा ब्राह्मणं विदुः। एतेन ब्राह्मणशब्दः संन्यासिनि सार्थक इति सिद्धम्। अत एव ‘ब्राह्मणः संन्यासी’त्युक्तं भाष्यकारैः ‘ब्राह्मणस्य विजानतः’ इत्यत्र। यो हि ब्रह्मज्ञानी आत्मनिष्ठः स ब्राह्मणः, संन्यास्येव तादृशः, अन्यस्यात्मनिष्ठायामनधिकारात्। स च संन्यासी देहाद्यभि- मानाभावाद् ब्रह्मात्मज्ञानाच्च कौपीनच्छन्नं पीताम्बरच्छन्नं च देहं सममेव पश्यति, तथा मृष्टान्नममृष्टान्नं च सममेव पश्यति, हंसतूलिकातल्पं भूतलं च सममेव पश्यति; न तु कर्मी, तस्य देहाभिमानात्यागाद् , ब्रह्मात्मज्ञानाभावाच्चेति भावः। आश्रय इति। गृहदेवालयादिरित्यर्थः। ननु संन्यास्यपि क्वचन देवालयादौ वर्तत इत्यत आह— नियत इति। गृहस्थवदिति भावः। ग्रामैकरात्रन्यायेन यतेः सञ्चारादिति तत्त्वम्। अनिकेतशब्दस्योक्तार्थपरत्वे प्रमाणमाह—३अनगार इति। स्मृत्यन्तरेऽनगारत्व- स्योक्तत्वाद् इह तदनुक्तेरनिकेतत्वस्यैवोक्तत्वादुभयोरैकार्थ्येन भाव्यमिति भावः। स्थिरमतिरिति। ब्रह्मैव परमार्थवस्तु , तच्चाहमेवेति दृढबुद्धिः कर्मिणः स्वप्नेऽपि न स्यात् , कर्तृत्वादिमत्संसार्यात्मज्ञानवत एव कर्मित्वात्। य एवंविधो भक्तिमान् ज्ञानी स नरो मे प्रियः। मनुष्यं पार्थमुद्दिश्योच्यमानत्वाद् नरः इत्युक्तम्॥१९॥
वाग्यतत्वादिविशेषणमपि ज्ञाननिष्ठस्यास्तीत्याह— किञ्चेति। निन्दा दोषसङ्कीर्तनम्। स्तुतिः गुणगणनम्। देहस्थितिमात्र- फलेनान्नादिना ज्ञानिनः सन्तुष्टत्वे स्मृतिं प्रमाणयति— तथा चेति। नियतनिवासराहित्यमपि ज्ञानवतो विशेषणमित्याह— किञ्चेति। १‘न कुड्यां नोदके सङ्गो न चैले न त्रिपुष्करे। नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः॥’ इति स्मृतिमुक्तेऽर्थे प्रमाणयति— नेत्यादिना। २पुनःपुनर्भक्तेर्ग्रहणमपवर्गमार्गस्य परमार्थज्ञानस्योपायत्वार्थम्॥१९॥
१. ‘न कुट्याम्’ इति पा.। २. भक्तेर्ज्ञानलक्षणायाः प्रक्रान्तत्वेऽपि सगुणभक्तेः ज्ञानद्वारा मोक्षसाधनतायामविवादात् साऽपीह ग्राह्येति भावः। ‘अत्र पुनः पुनर्भक्ते- रुपादानं भक्तिरेवापवर्गस्य पुष्कलं कारणमिति द्रढयितुम्’ इति च मधुसूदनी। एवं च निर्गुणब्रह्मवादो भक्तिविरोधीति केषांचिदाक्षेपोऽसंगतः। ३. रा. पुस्तके भाष्ये नागारे इत्यस्य स्थाने ‘अनगारे’ इति पाठो मुद्रितो दृश्यते।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्। अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः॥१९॥
[[५८५]]
‘अद्वेष्टा सर्वभूतानाम्’(भ.गी.१२.१३) इत्यादिना अक्षरोपासकानां निवृत्तसर्वैषणानां संन्यासिनां परमार्थज्ञान- निष्ठानां धर्मजातं प्रक्रान्तमुपसंह्रियते— ये त्विति। ये तु संन्यासिनो धर्म्यामृतं धर्मादनपेतं धर्म्यं च तदमृतं च तद् अमृतत्वहेतुत्वात्। इदं यथोक्तम् अद्वेष्टा सर्वभूतानामित्यादिना पर्युपासते अनुतिष्ठन्ति, श्रद्दधानाः सन्तो मत्परमाः यथोक्तोऽहमक्षरात्मा परमो निरतिशया गतिर्येषां ते मत्परमाः, [भक्ताः] मद्भक्ताश्च उत्तमां परमार्थज्ञानलक्षणां भक्तिम् आश्रिताः, तेऽतीव मे प्रियाः। ‘प्रियो हि ज्ञानिनोऽत्यर्थम्’(भ.गी.७-१७) इति यत् सूचितं तद् व्याख्यायेहोपसंहृतम्— ‘भक्तास्तेऽतीव मे प्रियाः’ इति। यस्माद् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव १प्रियो य इति। ये तु श्रद्दधाना मत्परमाश्च सन्त इदं यथोक्तं धर्म्यामृतं पर्युपासते ते भक्ता मे अतीव प्रियाः। धर्म्यं धर्मान्निवृत्ति- लक्षणादनपेतं धर्म्यम्। अमृतशब्दोऽत्रोपचारादमृतहेतुपर इत्याह— अमृतत्वहेतुत्वादिति। अमृतत्वं मोक्षः, अमृतं शाश्वतं सुखात्मकं वा ब्रह्म, तद्भावोऽमृतत्वमिति व्युत्पत्तेः। ब्रह्मभावो हि मोक्षः। यथोक्तं पूर्वोक्तमित्यर्थः। २योग्यमुक्तमिति वा। केनोक्तम्? अत आह— अद्वेष्टेति। भक्ताः इत्यस्यार्थमाह— भक्तिमास्थिता इति। केयं भक्तिः? अत आह— परमार्थज्ञानलक्षणामिति। इयमेवोत्तमेत्याह— उत्तमामिति। ननु विश्वरूपोपासनात्मिका भक्तिरेवेह गृह्यताम्? अत आह— प्रियो हीति। यज्ज्ञानिनः प्रियत्वं संक्षेपतः प्रागुक्तं तदेवेह विस्तरेणोच्यत इति नात्र भक्तानामवकाश इति भावः। फलितार्थमाह— यस्मादित्यादिना। विष्णोः परं धाम जिगमिषुणा मुमुक्षुणा इत्यन्वयः। यो हि विष्णोः प्रियः स एव विष्णोः परं धाम प्रपद्येत, न त्वन्यः। न ह्यप्रियस्य कोऽपि स्वकं धाम दिशेदिति भावः। वस्तुतस्तु ज्ञानिन आत्मत्वादेव विष्णोः प्रियत्वमिति यो विष्णोः प्रिय आत्मा ज्ञानी स विष्णोरात्मन एव स्वस्वरूपं सच्चिदा- नन्दात्मकं प्राप्नोतीति भावः। य एवं ज्ञानी विष्णोः प्रिय आत्मत्वात् स ज्ञानी आत्मा साक्षाद् विष्णुरेव भवति, विष्णोरेवात्मत्वात्। ज्ञानी विष्णुश्चेत्युभयमप्येक एव ह्यात्मा। तस्माद् ज्ञान्येव विष्णुरात्मेति सिद्धान्तः। यत्तु रामानुजः - ‘अद्वेष्टे’त्यादिना कर्मयोगिधर्मा उक्ताः, ‘ये त्वि’त्यनेन तु भक्तियोगिधर्म उच्यत इति, तत्तुच्छम् - सर्वारम्भ- परित्यागस्य कर्मिणि सुतरामप्यसम्भवस्य सर्वजनविदितत्वात्। न च विहितेतरकर्मपरित्यागीत्यर्थ इति वाच्यम् ; सर्वशब्दसङ्कोचानुप- पत्तेः। सत्यां तद्विवक्षायां व्यासः- ‘निषिद्धकर्मसन्त्यागी’त्येव ब्रूयात्। तथा अनिकेतत्वमपि गृहिणः कर्मिणो न सम्भवति। न च निकेतादिष्वसक्त इति तदर्थ इति वाच्यम् ; ‘सङ्गवर्जितः’ इत्यनेन पौनरुक्त्याद् , अस्य ३तदर्थस्य च लाक्षणिकत्वात्। आत्मनि स्थिरमतिरित्यप्ययुक्तम् , कर्मिणोऽज्ञस्यात्मचिन्तनासम्भवात्। तथा ‘ये त्वि’ति श्लोकः भक्तविषय इत्यपि न युक्तम् , ‘धर्म्यामृतमिद’- मिति पूर्वोक्तार्थस्येदंशब्देन परामर्शात्। पूर्वोक्तार्थस्य च कर्मिधर्मत्वेन त्वदभिमतत्वात्। अद्वेष्टेत्यादिधर्मजातं ज्ञानवतो लक्षणमुक्तम्। तदुपपादितमनूद्योपसंहारश्लोकमवतारयति— अद्वेष्टेत्यादिना। चतुर्थपादस्य तात्पर्यमाह— प्रियो हीति। यद्यपि यथोक्तं धर्मजातं ज्ञानवतो लक्षणम् , तथापि जिज्ञासूनां ज्ञानोपायत्वेन यत्नादनुष्ठेयमिति वाक्यार्थमुपसंहरति— यस्मादिति। १.‘अतीव मे प्रियः’ इति पा.। २.यथोक्तमिति योग्यार्थे यथाशब्दस्य अव्ययीभावसमास इति भावः। ३.निकेतादिष्वसक्त इत्यनिकेतशब्दार्थस्येत्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥२०॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः॥१२॥
[[अ. १२. श्लो. १८-२०]] [[५८६]]
भवति, तस्मादिदं धर्म्यामृतं मुमुक्षुणा यत्नतोऽनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणेति वाक्यार्थः॥२०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यपूज्यपादश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ श्रीभगवद्गीताभाष्ये भक्तियोगो नाम द्वादशोऽध्यायः॥१२॥
न च ‘ये त्वि’ति तुशब्दाद् ‘अतीव मे प्रियाः’ इति अतीवशब्दप्रयोगाच्च पूर्वोक्ताधिकारिणः सकाशाद् भिन्न एवेह ग्राह्य इति वाच्यम् ; तुशब्दस्य विश्वरूपोपासकेभ्यो ज्ञानिवैलक्षण्यद्योतनार्थत्वात्। ज्ञानिनस्तव प्रियत्वे कस्तर्हि तव प्रियतम इति शङ्कायां ज्ञान्येव मम प्रियतमः, न त्वन्य इत्येतदर्थम् अतीवशब्दस्येह प्रयोगात्। न हि ज्ञान्यपेक्षया कश्चित् प्रियोऽस्तीश्वरस्य। ‘ज्ञानी त्वात्मैव मे मत’मित्युक्तत्वात्। आत्मनश्च प्रियत्वं सुप्रथितम्। तस्मात् प्रियप्रियतरप्रियतमत्वभेदो नेह सञ्चारयितव्यः। ज्ञानिन एकस्यैव विष्णोः प्रियत्वेन तस्यैव प्रियतमत्वादिव्यपदेश इति कृत्वा, य एव मम प्रिय इत्युक्तं सङ्क्षेपविस्तराभ्यां, स एव ज्ञानी ममातीव प्रियः, न त्वन्यः प्रियः प्रियतमो वेत्येतदर्थमिह अतीवशब्दस्य प्रयुक्तत्वात्। न च ‘ज्ञानी त्वात्मैव मे मत’मित्यनेनापि भक्तस्यैव प्रियतमात्मत्वमभि- हितमिति वाच्यम् ; ज्ञानीति कण्ठत एवोक्तत्वात्। न च भक्ताः इतीह कण्ठोक्तमिति वाच्यम् ; पूर्वोक्तस्य ‘ज्ञानी त्वात्मैव मे मतम्’ ‘स च मम प्रिय’ इत्यस्यार्थस्याविरोधायेहापि ज्ञानिन एव भक्तशब्देन ग्राह्यत्वात्। न च कथं भक्तेः ज्ञानत्वमिति वाच्यम् ; ‘भक्तिः पुंसि रतिः पुमान् स भगवान् यः केवलात्माऽस्ति वः। तत्साक्षात्कृतिरेव ते किल मते ज्ञानं तदेकं न द्वयम्॥’ इति मदुक्तविधया केवलात्मनीश्वरे रतेरेव ज्ञानत्वाद् भक्तित्वाच्च। उक्तं हि भाष्यकारैरपि– ‘परमार्थज्ञानलक्षणामुत्तमां भक्ति’मिति। एतेन चोत्तमशब्देन विश्वरूपोपासनादिलक्षणभक्तेरधमत्वं प्रतीयते। युक्तं चैतत् , भेदबुद्धिग्रस्तत्वात् तस्याः। आत्मेश्वरभेदबुद्धिर्हि श्रुत्यादिभिर्निन्दिता। तस्माद् ‘ये त्वि’ति श्लोकेन ‘अद्वेष्टे’त्यादिना प्रक्रान्तो ज्ञानिधर्मपूग एवोपसंह्रियत इत्यनवद्यम्॥२०॥
इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीभगवद्गीताशाङ्करभाष्यार्कप्रकाशे भक्तियोगो नाम द्वादशोऽध्यायः॥१२॥
श्रीहयग्रीवार्पणमस्तु भक्तियोग इति। भक्तेर्विश्वरूपोपासनात्मिकायाः अनुत्तमायाः, अक्षरोपासनात्मिकायाः उत्तमायाश्च योगः सम्बन्धोऽत्रेति भक्तियोगः। सगुणनिर्गुणेश्वरभक्तिद्वयप्रतिपादकोऽध्याय इत्यर्थ इति। भक्तिः भजनम् उपासनमिति यावत्। सगुणस्य निर्गुणस्य चेश्वरस्य तदिह प्रोक्तमिति भक्तियोगोऽयमध्याय इति। ॥इति मध्यमषट्कम्॥ तदेवं सोपाधिकाभिध्यानपरिपाकाद् निरुपाधिकमनुसन्दधानस्य ‘अद्वेष्टा सर्वभूताना’मित्यादिधर्मविशिष्टस्य मुख्यस्याधिकारिणः श्रवणाद्यावर्तयतः तत्त्वसाक्षात्कारसम्भवात् ततो मुक्त्युपपत्तेः तद्धेतुवाक्यार्थधी१विषयत्वयोग्यः तत्पदार्थोऽनुसन्धेयः इति सिद्धम्॥२०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने द्वादशोऽध्यायः॥१२॥
१. ‘विषयोऽन्वययोग्यः’ इति पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ॐ श्रीपरमात्मने नमः