॥अथैकादशोऽध्यायः॥
अर्जुन उवाच— मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्। यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
पूर्वाध्यायान्ते ‘विष्टभ्याहम्’ इत्यनेन भगवता जगदात्मको मदेकांशः इत्युक्तं स्वस्य जगदात्मकत्वम्। तदेव प्रधानमी- श्वरस्यैश्वर्यम्। तद्दिदृक्षया पृच्छत्यर्जुन इत्याह— भगवतेति। ननु भगवति ब्रह्मणि सर्वं जगत् कल्पितमिति भगवतो जगदात्मत्वमुक्तम्। २तच्च दृश्यत एव, आकाशादिजगतो दर्शनादिति चेत्? मैवम् ; केवलं जगद् दृश्यते, न त्विदं जगद् ब्रह्मणि वर्तमानत्वेन दृश्यत इति। ननु जगतो ब्रह्मणि वर्तमानत्वं द्रष्टुमशक्यम् , ब्रह्मदर्शनं विना तदयोगात् ; ब्रह्म च दृग्रूपत्वान्न दृश्यम् ; ततश्च जगतो ब्रह्मणि वर्तमानत्वं शास्त्रैकवेद्यमेवेति चेत्? सत्यम् ; ब्रह्मणि वर्तमानत्वेन जगतो दुर्दर्शत्वेऽपीश्वरे वर्तमानत्वेन सुदर्शमेव। ईश्वरस्य मायावच्छिन्नचैतन्यलक्षणस्य माययैव जगन्मयशरीरोपपत्तेः। अयं भावः— ईश्वरस्य बहूनि रूपाणि सन्ति। तत्र प्रधानं रूपं चैतन्यं ब्रह्म, तत्त्वत्वात् तस्य; द्वितीयं तु मायावच्छिन्न- चैतन्यम् ; तृतीयमन्तःकरणावच्छिन्नम् ; चतुर्थं विराड्रूपम् ; ततः पद्मनाभरामकृष्णादीनि। तत्र ब्रह्मरूपेणेश्वरस्य जगदात्मत्वं शास्त्रैकवेद्यम्। मायावच्छिन्नचैतन्यरूपेण च। अनुमानमप्यत्र प्रमाणमेव। अन्तःकरणावच्छिन्नमात्मत्वान्नित्यापरोक्षमेव। विराड्- रूपेण जगदात्मत्वं तु प्रत्यक्षप्रमाणवेद्यमेवेतीश्वरस्य विराड्रूपदिदृक्षया पृच्छत्यर्जुन इति। ननु विश्वरूप ईश्वरोऽपि नित्यापरोक्ष एव; विश्वस्य चक्षुरादिप्रमाणवेद्यत्वादिति चेत्? सत्यम् ; विश्वरूपस्येश्वरस्य विश्वमेव रूपम् ; तत्तु सर्वं न कस्यचित् प्रत्यक्षं, किन्त्वणुमात्रमेव। अतः साकल्येन विश्वस्य दिदृक्षया पृच्छत्यर्जुन इति। अथवा विश्वं प्रत्यक्षं भवतु नाम, विश्वेन रचितावयवसन्निवेशः ईश्वरविग्रहस्त्वप्रत्यक्षः इति तद्दर्शनाय पृच्छत्यर्जुनः।न च - [न] ईश्वरेण तादृशं रूपं ममास्तीत्युक्तम् , येनार्जुनस्य प्रश्नावकाशः स्यादिति - वाच्यम् ; ‘विष्टभ्याह’मित्यनेनोक्तत्वात्। न च - ब्रह्मण्येकदेशे जगदस्तीति हि तच्छ्लोकार्थ इति - वाच्यम् ; यत्र जगदस्ति तस्यैव ब्रह्मपादस्येश्वरभूतत्वात्। आनन्दगिरिकृतव्याख्या तेन तेनात्मना भगवदनुसन्धानार्थमुक्ताः विभूतीरनुवदति—भगवत इति। परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं १ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः। सोपाधिकमैश्वरं रूपमशेषजगदात्मकं विश्वरूपाख्यमधिकृत्य अध्यायान्तरमवतारयन् अनन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तयति— तत्र चेति। यदेतदशेषप्रपञ्चात्मकम् अखिलस्यैतस्य जगतः कारणं सर्वज्ञं सर्वैश्वर्यवद् रूपमुक्तम् , तदिदं श्रुत्वा तस्य साक्षात्कारं यियाचिषुरादौ पृष्टवानित्याह— श्रुत्वेति। मयि करुणां निमित्तीकृत्य उपकारोऽनुग्रहः, तदर्थमिति वचसो विशेषणम्। भगवतो विभूतयः उक्ताः। तत्र च ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ.गी.१०.४२) इति भगवता ऽभिहितं श्रुत्वा यज्जगदात्मरूपम् आद्यमैश्वरम् , तत् साक्षात्कर्तुमिच्छन् अर्जुन उवाच— मदिति। मदनुग्रहाय १. सोपाधिकं ध्येयत्वेन, निरुपाधिकं च ज्ञेयत्वेनोक्तम् इति अन्वयः। २. तच्च = भगवतो जगदात्मकं रूपम्।
[[५२३]]
अथवा यदि त्वमेव जगदात्मकस्त्वय्येव जगदस्ति, तर्हि तादृशं तव रूपं दर्शय, तव च तादृग्रूपमस्तीति यशोदादिभिरुच्यत इति पृच्छत्यर्जुन इति। मदनुग्रहायेति। प्रथमपादेऽक्षराधिक्यमार्षम्। आत्मानमधिकृत्य वर्तमानमध्यात्मम् , तदिति संज्ञा अस्य सञ्जातमित्यध्यात्म- संज्ञितम्। आत्मानात्मविवेको विषयः प्रतिपाद्यं यस्य तद् आत्मानात्मविवेकविषयम्। त्वया मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितं यद् वचः उक्तम् , तेन ममायं मोहो विगतः॥१॥
भवेति। हे कमलपत्राक्ष ! मया त्वत्तो भूतानां भवाप्ययौ विस्तरशः श्रुतौ। अव्ययं माहात्म्यं च श्रुतम्॥२॥
एवमिति। हे परमेश्वर ! त्वं यथा आत्मानं कथयसि, एतदेवमेव। हे पुरुषोत्तम! ते ऐश्वरं रूपं द्रष्टुमिच्छामि। ते ऐश्वरम् ईश्वरस्य विष्णोः तव सम्बन्धि रूपं, विश्वरूपमित्यर्थः। ईश्वरेण मायया कल्पितमिति भावः॥३॥
निरतिशयत्वं परमपुरुषार्थसाधनत्वम्। ‘अशोच्यानि’त्यादि ३त्वम्पदार्थप्रधानं वाक्यम्। मोहस्य अयमित्यात्मसाक्षिकत्वं दर्शयति। अविवेकबुद्धिः अज्ञानविपर्यासात्मिका॥१॥
सप्तमादारभ्य तत्पदार्थनिर्णयार्थमपि भगवदुक्तं वचो मया श्रुतमित्याह— किञ्चेति। ‘त्वत्तो भूतानामुत्पत्तिप्रलयौ’ ‘त्वत्तः श्रुता’वित्याभ्यां ४सम्बध्यते। महात्मनस्तव भावो माहात्म्यं पारमार्थिकं सोपाधिकं वा सर्वात्मत्वादिरूपम्। श्रुतमिति परिणम्यानुवृत्तिं द्योतयितुम् अपिचेत्युक्तम्॥२॥
त्वदुक्तेऽर्थे विश्वासाभावान्न तस्य दिदृक्षा, किन्तु कृतार्थीबुभूषयेत्याह— एवमेतदिति। येन प्रकारेण सोपाधिकेन निरुपाधिकेन चेत्यर्थः। ५यदि ममाप्तत्वं निश्चित्य मद्वाक्यं ते मानम् , तर्हि किमिति मदुक्तं दिदृक्षते? कृतार्थीबुभूषयेत्युक्तं मत्वाऽऽह— तथापीति। चतुर्भुजादिरूपनिवृत्त्यर्थमाह— ऐश्वरमिति। तद् व्याचष्टे— ज्ञानेत्यादिना॥३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष ! माहात्म्यमपि चाव्ययम्॥२॥
एवमेतद् यथाऽऽत्थ त्वमात्मानं परमेश्वर! । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम !॥३॥
१मदनुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसंज्ञितम् आत्मानात्मविवेकविषयं यत् त्वयोक्तं वचो वाक्यम् , तेन ते वचसा मोहोऽयं विगतो मम अविवेकबुद्धिरपगतेत्यर्थः॥१॥
किञ्च— भवेति। भवः उत्पत्तिः, अप्ययः प्रलयः, तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया, न संक्षेपतः, त्वत्तः त्वत्सकाशात् , कमलपत्राक्ष ! कमलस्य पत्रं कमलपत्रं, तद्वदक्षिणी यस्य तव स त्वं कमलपत्राक्षः। हे कमलपत्राक्ष ! २(महात्मनो भावः) माहात्म्यमपि च अव्ययम् अक्षयम् , श्रुतमित्यनुवर्तते॥२॥
एवमिति। एवमेतत् , नान्यथा, यथा येन प्रकारेण आत्थ कथयसि त्वमात्मानम् , परमेश्वर ! । तथापि द्रष्टुमिच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सम्पन्नम् ऐश्वरं वैष्णवं रूपम् , पुरुषोत्तम !॥३॥
१. ‘ममानुग्रहार्थं’ इति पा.। २. ‘महात्मनो भावः’ इति क्वचिन्न। ३. अध्यात्मविशेषणबललभ्यमिदम्। ४. त्वत्तः इति पदम् ‘त्वत्तः उत्पत्तिप्रलयौ’ ‘त्वत्तः श्रुतौ’ इत्युभाभ्यां संबध्यते इति भावः। ५. यदि ममाप्तत्वं निश्चित्य स्थितस्य ते मद्वाक्यं मानम् , तर्हि किमिति मदुक्तं दिदृक्षसे? इत्याशङ्कायां न त्वदुक्तेऽर्थे विश्वासा- भावात् दिदृक्षा, किन्तु कृतार्थीबुभूषयेत्युक्तं मत्वाऽऽह— इति योजना।
[[अ. ११. श्लो. १-३]] [[५२४]]
मन्यस इति। हे प्रभो ! तद् रूपं मया द्रष्टुं शक्यमिति मन्यसे यदि, ततस्तर्हि , हे योगेश्वर ! अव्ययमात्मानं मे त्वं दर्शय। २योगिनः इति जात्येकवचनम्। योगिनामित्यर्थः। योगा इति चित्तसमाधानविशेषाः अणिमादयो वा तेषाम् , ईश्वरः प्रभुर्नियन्ता। एतेन सर्वा अपि योगशक्तय ईश्वरपरतन्त्रा इति सूचितम्। ‘योगिनो योगाः’ इति पाठान्तरे योगशब्दस्य योगिपरत्वम् अर्शआद्यजन्तत्वादिति बोध्यम्। ‘ततः’ इत्यस्य तर्हीत्यर्थमनाश्रित्य, ‘तस्मादि’ति कारणार्थत्वमाश्रित्य, यत्तदोर्नित्यसम्बन्धाद् ‘यतः’ इति पदमध्याहृत्य, पदान्तराध्याहारेण वाक्यं सृजति— यस्मादहमतीवार्थी द्रष्टुमिति। अर्थी काङ्क्षावान्। मदर्थमिति मद्वाञ्छापरिपूर्णार्थमेव, न तु नटस्य रामादिवेषपरिदर्शनमिव तव विश्वरूपसंदर्शनं स्वप्रयोजनार्थमिति भावः। अव्ययम् अवधिरहितमित्यर्थः। आत्मानं जगन्मयं त्वामित्यर्थः॥४॥
पश्येति। भगवतो विश्वरूपत्वे विश्वगतानां सर्वेषामपि भगवद्रूपत्वस्यागतत्वात् सर्वाण्यपि तानि भगवद्रूपाण्येवेति कृत्वा प्राह भगवान्— मे रूपाणि शतशः सहस्रशः पश्येति। शतसहस्रशब्दौ सङ्ख्यावाचिनौ न, किन्त्वमितवाचिनावित्याह— अनेकश इति। असङ्ख्येयानीत्यर्थः। दिवि आत्मनि परमाकाशे भवानि। अप्राकृतानि ३मायामयानि॥५॥
द्रष्टुमयोग्ये कुतो दिदृक्षेत्याशङ्क्याह— मन्यस इति। प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेभ्यः इति प्रभुः। लक्षणया योगशब्दार्थमाह— योगिन इति। ‘ततः’ इत्यादि व्याचष्टे— यस्मादिति॥४॥
अर्जुनमतिभक्तं सखायं प्रार्थितप्रतिश्रवणेनाश्वासयितुमाह— एवमिति॥५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ! । योगेश्वर ! ततो मे त्वं दर्शयात्मानमव्ययम्॥४॥
श्रीभगवानुवाच— पश्य मे पार्थ ! रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥५॥
पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा। मन्यस इति। मन्यसे चिन्तयसि यदि मया अर्जुनेन तच्छक्यं द्रष्टुमिति, प्रभो ! स्वामिन् , योगेश्वर ! योगिनो योगाः, तेषामीश्वरो योगेश्वरः, हे योगेश्वर ! यस्मादहमतीवार्थी द्रष्टुम् , ततः तस्माद् मे मदर्थं दर्शय त्वम् आत्मानम् अव्ययम् ॥४॥
एवं चोदितोऽर्जुनेन भगवानुवाच— पश्येति। पश्य मे मम, पार्थ ! रूपाणि शतशोऽथ सहस्रशः अनेकशः इत्यर्थः। तानि च नानाविधानि अनेकप्रकाराणि, दिवि भवानि दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि च नाना विलक्षणाः नीलपीतादिप्रकाराः वर्णाः, तथा आकृतयः अवयवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि च ॥५॥
पश्यादित्यानिति। पश्य आदित्यान् द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतः १सप्त सप्तगणाः ये १. सप्त सप्तगणाः- एकोनपञ्चाशदिति यावत्। २.‘योगिनो योगानामीश्वरो’ इति रा.पा. भाति। ३. मायारूपप्रकृतिकार्यत्वाभावशङ्कानिरासाय व्याचष्टे—मायेति।
[[५२५]]
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ! ॥६॥
इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश! यच्चान्यद् द्रष्टुमिच्छसि॥ ७॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥ ८॥
सञ्जय उवाच— पश्येति। तत्र कानिचिद् रूपाणि नामभिर्निर्दिशति— पश्यादित्यानिति॥६॥
इहेति। अद्य सचराचरं सर्वं जगद् इह अस्मद्देहे एकस्थम् एकदेशस्थं पश्य। एकस्थं जगत् पश्येति वा। हे गुडाकेश ! यच्चान्यद् द्रष्टुमिच्छसि तत् सर्वमपि मम देहे पश्य॥७॥
नेति। प्राकृतेन ५मांसमयेनेत्यर्थः। स्वस्य तव चक्षुः स्वचक्षुः, तेन। दिव्यम् अप्राकृतम् , मन्मायया कल्पितम् , तेजोमयमित्यर्थः॥८॥
दिव्यानि रूपाणि पश्येत्युक्तम् ; तान्येव लेशतोऽनुक्रामति— पश्यादित्यानिति। तान् मरुतस्तथा पश्येति सम्बन्धः। नाना- विधानीत्युक्तम् ; तदेव स्फुटयति— बहूनीति। अदृष्टपूर्वाणि पूर्वमदृष्टानि। नानावर्णाकृतीनीत्युक्तं व्यनक्ति— आश्चर्याणीति॥६॥ न केवलमादित्यवस्वाद्येव मद्रूपं त्वया द्रष्टुं शक्यम् , किन्तु समस्तं जगदपि मद्देहस्थं द्रष्टुमर्हसीत्याह— नेत्यादिना। ४सप्तमीद्वयं मिथः सम्बध्यते। समासान्तर्गताऽपि सप्तमी तत्रैवान्विता। यदीच्छसि, तर्हि इहैव पश्येति सम्बन्धः॥७॥
मन्यसे यदीत्युक्तमनुवदति— किन्त्विति। सप्रपञ्चमनवच्छिन्नं मां स्वचक्षुषा न शक्नोषि द्रष्टुमित्याह— न त्विति। कथं तर्हि त्वां द्रष्टुं शक्नुयामित्याशङ्क्याह— येनेति। दिव्यस्य चक्षुषो वक्ष्यमाणयोगशक्त्यतिशयदर्शने विनियोगं दर्शयति— तेनेति॥८॥
इमं वृत्तान्तं धृतराष्ट्राय सञ्जयो निवेदितवानित्याह— सञ्जय इति। मदीयं विश्वरूपाख्यं रूपं न प्राकृतेन चक्षुषा निरीक्षितुं क्षमं,
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१तान् तथा। बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तोऽन्येन वा केनचित् , पश्य आश्चर्याणि अद्भुतानि, भारत !॥६॥
न केवलमेतावदेव,— इहैकस्थमिति। इह एकस्थम् एकस्मिन् एव स्थितं जगत् कृत्स्नं समस्तं पश्य अद्य इदानीं सचराचरम् सह चरेणाचरेण च २वर्तमानं मम देहे , गुडाकेश ! यच्चान्यद् जयपराजयादि यच्छङ्कसे ‘यद्वा जयेम यदि वा नो जयेयुः’ (भ.गी.२.६) इति यदवोचः, तदपि द्रष्टुं यदीच्छसि॥७॥
किन्तु— न तु मामिति। न तु मां विश्वरूपधरं ३शक्यसे द्रष्टुम् अनेन एव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा। येन तु शक्यसे द्रष्टुं दिव्येन, तद् दिव्यं ददामि ते तुभ्यं चक्षुः, तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरम् योगम् योगशक्त्यतिशयमित्यर्थः॥८॥
१. ‘तान्। तथा च बहूनि’ इति पा.। २. ‘वर्तते’ इति पा.। ३. शक्नोषीत्यर्थः। दैवादिकस्य शकधातोः कर्तरि लकारे रूपम्। ४. इहेति देहे इति च सप्तमीद्वयम् इह देहे इत्येवं विशेषणविशेष्यभावेन संबध्यत इत्यर्थः। एकस्मिन् स्थितम् एकस्थम् इति समासान्तर्गतं सप्तम्यन्तमपि देहमेव परामृशतीत्यर्थः। देहशब्देन विश्वरूपं विवक्षितम्। ५. मांसमयेनेति अज्ञलोकदृष्ट्येति बोध्यम् , इन्द्रियस्य तथात्वाभावात्।
[[अ. ११. श्लो. ४-८]] [[५२६]]
एवमुक्त्वा ततो राजन् ! महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम्॥ ९॥
अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम्। अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥१०॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥११॥
एवमिति। हरति आश्रितानां संसारमिति हरिः परमात्मा। परमं परम् अधिकं मा नास्ति यस्मात् तत् परमम् , सर्वाधिकम् , विश्वमयमिति यावत्॥९॥
अनेकेति। विश्वरूपमेव विशिनष्टि— अनेकेति। दृश्यन्त इति दर्शनानि, दृश्यानि, विषयाः इति यावत्। ३अनेकानामद्भुतानां दर्शनं यस्मिन् तदिति वा। उद्यतानि उद्धृतानि, शत्रुमारणे उद्युक्तानीति वा। दिव्यत्वम् अप्राकृतत्वम् , मायामयत्वमिति यावत्॥१०॥
दिव्येति। धरतीति धरः, दिव्यमाल्याम्बराणां धरो दिव्यमाल्याम्बरधर इति समासः। गन्धानुलेपनं गन्धचर्चा। सर्वाण्या- श्चर्याणि ४प्रकृतमुच्यन्ते यस्मिन् तं सर्वाश्चर्यमयम् , सर्वाश्चर्यप्रचुरमित्यर्थः। सर्वतोमुखमिति। अनेकमुखमित्यर्थः। तत्र हेतुमाह—सर्व- भूतेति। एकैकभूतस्य एकैकं मुखमिति सर्वभूतानामनन्तमुखानि सन्ति, तानि सर्वाण्यपि मुखानि ईश्वरमुखान्येव। ईश्वरस्य सर्वभूत- किन्तु दिव्येनेत्यादि यथोक्तप्रकारः। अनन्तरं दिव्यचक्षुषः प्रदानादिति शेषः। हरत्यविद्यां सकार्यामिति हरिः। यदीश्वरस्य मायोपहितस्य परममुत्कृष्टं रूपं तद् दर्शयाम्बभूवेत्याह— परममिति॥९॥ तदेव रूपं विशिनष्टि— अनेकेति। दिव्यानि आभरणादीनि हारकेयूरादीनि भूषणानि । उद्यतानि उच्छ्रितानि॥१०॥
उक्तरूपवन्तं भगवन्तं प्रकारान्तरेण विशिनष्टि— किञ्चेति। अर्जुन इति२। अध्याहारेऽपि पदसंघटनासम्भवात्॥११॥
१.‘दर्शयामासे’ति पूर्वेण सम्बन्धः पूर्ववद् इति भावः। २.इदं क्वचिन्न। ३.‘अनेकेषा’मिति पाठः संभाव्यते। ४.‘तत्प्रकृतवचने मयट्’ इति प्राचुर्ये मयडिति भावः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एवमिति। एवं यथोक्तप्रकारेण उक्त्वा, ततः अनन्तरं राजन् धृतराष्ट्र ! महायोगेश्वरो महांश्चासौ योगेश्वरश्च हरिः नारायणो दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम्॥९॥
अनेकेति। अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तदनेकवक्त्रनयनम्। अनेकाद्भुत- दर्शनम् अनेकान्यद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तदनेकाद्भुतदर्शनम्। तथा अनेकदिव्याभरणम् अने- कानि दिव्यान्याभरणानि यस्मिन् तदनेकदिव्याभरणम्। तथा दिव्यानेकोद्यतायुधम् दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तद् दिव्यानेकोद्यतायुधं दर्शयामासेति पूर्वेण सम्बन्धः॥१०॥
किञ्च— दिव्येति। दिव्यमाल्याम्बरधरम् दिव्यानि माल्यानि पुष्पाणि अम्बराणि वस्त्राणि च ध्रियन्ते येनेश्वरेण तं दिव्यमाल्याम्बरधरम् , दिव्यगन्धानुलेपनम् दिव्यं गन्धानुलेपनं यस्य तम् दिव्यगन्धानुलेपनम् , सर्वाश्चर्यमयम् सर्वाश्चर्यप्रायं देवम् , अनन्तं नास्यान्तोऽस्तीत्यनन्तः, तम् , विश्वतोमुखं सर्वतोमुखं, सर्वभूतात्मभूतत्वात्। तम् , दर्शयामास१। अर्जुनो ददर्शेति वाऽध्याह्रियते ॥११॥
[[५२७]]
दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता। यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः॥१२॥
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा। अपश्यद् देवदेवस्य शरीरे पाण्डवस्तदा॥१३॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४॥
रूपत्वादिति भावः॥११॥
दिवीति। उपमीयतेऽनयेति उपमा उपमानम्। दिवि सूर्यसहस्रस्य भाः युगपदुत्थिता स्याच्चेत् , सा तस्य महात्मनो भासः सदृशी स्यात्। ३सम्भावितोपमाऽलङ्कारः। दिव्येक एव सूर्योऽधुनाऽस्ति; न तस्य भगवद्विश्वरूपसमाना कान्तिः, किं तर्हि? तादृशाः सूर्याः सहस्रं दिवि स्युः, ते च संहता भवेयुः, न तु व्यस्ताः, व्यस्तत्वे कान्त्युत्कर्षालाभात्। तथा च परस्परसंश्लिष्टसहस्रसूर्यसदृश- कान्ति भगवद्विश्वरूपमिति सिद्धम्। तृतीयस्यामिति। मर्त्यपातालापेक्षया स्वर्गस्य तृतीयत्वादिति भावः। सूर्यसहस्रस्य युगपदुत्थानं विना तद्भाया युगपदुत्थानं न सम्भवतीत्यभिप्रेत्याह— युगपदुत्थितस्येति। महात्मन इति। महत्परिमाणदेहस्येत्यर्थः। यावदर्थमाह— विश्वरूपस्येति। पक्षान्तरमाह— यदि वा न स्यादिति। यद्वा सा सदृशी न स्यादित्यर्थः। फलितमाह— तत इति। सूर्यसहस्रभास इत्यर्थः। अतिरिच्यत इति। उत्कृष्टा भवतीत्यर्थः॥१२॥
तत्रेति। तदा पाण्डवो देवदेवस्य तत्र शरीरे एकस्थमनेकधा प्रविभक्तं कृत्स्नं जगदपश्यत्। एकस्थम् एकदेशस्थम्॥१३॥
तत इति। ततः स धनञ्जयः विस्मयाविष्टो हृष्टरोमा चाभवत्। भूत्वेति वा शेषः। शिरसा देवं प्रणम्य कृताञ्जलिपुटःसन् ननु २प्रकृष्टस्य भगवतो रूपस्य दीप्तिरस्ति, न वा? न चेत् काष्ठादिसाम्यम् , यद्यस्ति, कीदृशी सा? इत्याशङ्क्याह— या पुनरिति। सा यदि स्यात् , तद्भासः सदृशी सेति योजना। असम्भाविताभ्युपगमार्थो यदिशब्दः। स्याच्छब्दोऽनिश्चयार्थः। सा कथञ्चित् सदृशी सम्भवति, न तु भवत्येवेति विवक्षित्वाऽऽह— यदि वेति॥१२॥
न केवलमुक्तमेवार्जुनो दृष्टवान् , किन्तु तत्रैव विश्वरूपे सर्वं जगदेकस्मिन्नवस्थितमनुभूतवानित्याह—किञ्चेति। तदा विश्वरूपस्य भगवद्रूपस्य दर्शनदशायामित्यर्थः॥१३॥
विश्वरूपधरस्य भगवतः, तस्मिन् एकीभूतजगतश्चोक्तविशेषणस्य दर्शनानन्तरं किमकरोदित्यपेक्षायामाह— तत इति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
या पुनर्भगवतो विश्वरूपस्य भाः, तस्याः उपमोच्यते— दिवीति। दिवि अन्तरिक्षे, तृतीयस्यां वा दिवि, सूर्याणां सहस्रं सूर्यसहस्रम् , तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि सदृशी स्यात् तस्य महात्मनो विश्वरूपस्य१ भासः। यदि वा न स्यात्। ततोऽपि विश्वरूपस्यैव भाः अतिरिच्यत इत्यभिप्रायः॥१२॥
किञ्च— तत्रैकस्थमिति। तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः, अपश्यद् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवोऽर्जुनस्तदा॥१३॥
तत इति। ततस्तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टः, हृष्टानि रोमाणि यस्य सोऽयं हृष्टरोमा चाभवद् १. ‘विश्वरूपस्यैव’ इति पा.। २. ‘प्रकृतस्य’ इति पा.। ३. असम्भावितोपमा इति स्यात्। द्र. काव्यादर्शः २-३९।
[[अ. ११. श्लो. ९-१४]] [[५२८]]
अर्जुन उवाच— पश्यामि देवांस्तव देव ! देहे सर्वांस्तथा भूतविशेषसङ्घान्। ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान्॥१५॥
इदमभाषत॥१४॥
पश्यामीति। हे देव ! तव देहे सर्वान् देवान् पश्यामि; तथा भूतविशेषसङ्घान् पश्यामि; ईशं कमलासनस्थं ब्रह्माणं पश्यामि; सर्वान् ऋषींश्च पश्यामि; दिव्यानुरगांश्च पश्यामि। यद्वा पश्यामीत्येकक्रिययैव सर्वद्वितीयान्तपदानामन्वयः। भूतविशेषसङ्घानिति। नानाविधसंस्थानविशेषविशिष्टचराचरात्मकभूतसमूहानित्यर्थः। संस्थानम् अवयवसन्निवेशः। ईशिता प्रभुः, नियन्तेति यावत्। तत्त- त्कर्मानुगुणं तं तं प्राणिनं नियमयतीति भावः। ननु ब्रह्मणो महात्मनः कथं पद्ममध्यस्थितिर्भृङ्गस्येव क्षुद्रस्येत्यत आह— पृथिवीति। पृथिव्येव पद्मम् , तन्मध्यस्थमेरुरेव कर्णिका; मेरुशिखरे सत्यलोके वर्तनाद् ब्रह्मणः कमलासनस्थत्वमिति भावः। अत एव ‘धाता ऽब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः’ इति कमलासनशब्दस्य ब्रह्मदेववाचित्वमुक्तम् अमरादिभिः कोशकारैः। न च श्रीविष्णुमूर्ति- नाभीपद्मप्रभवत्वादस्य कमलासनत्वमिति वाच्यम् ; विष्णोर्जगन्मयविग्रहस्य पादस्थानीयं पातालं, नाभिस्थानीयं भूतलं, शिरःस्थानीयं तु सत्यतलमिति२ प्रसिद्ध्या भूपद्मस्यैव विष्णुनाभीपद्मत्वात्। यद्वा ब्रह्मणश्चतुर्मुखस्य विष्णुनाभीपद्मे विलक्षणे स्थितिः प्रलयकाल एव, न त्वधुनेति कृत्वा अधुना ब्रह्मणः कमलासनं मेरुशिखररूपमेवेति बोध्यम्। न च - पद्माकार आसनविशेषः पद्मासनमित्युच्यते, भद्रासनस्वस्तिकासनाद्यन्तर्गतः, तस्मिन्नासने स्थितत्वात् कमलासनस्थ इति सुवचमिति - वाच्यम् ; विश्वरूपदर्शनक्षुभिताशयस्य चतुर्मुखस्य तदानीं नैश्चल्येन पद्मासने स्थित्ययोगात्। यत्तु रामानुजः— ब्रह्माणम् अण्डाधिपतिं चतुर्मुखम् , तथा कमलासने ब्रह्मणि स्थितमीशं चेति। तदसत् ; ब्रह्मणि स्थितस्य चिन्मात्रस्य चक्षुरविषयत्वात्। नीरूपो ह्यन्तर्यामी। न च - ब्रह्मणो मते स्थितमीशं रुद्रमित्यर्थ इति - वाच्यम् ; कमलासनस्थशब्देन आश्चर्यबुद्धिः विस्मयः। रोम्णां हृष्टत्वं पुलकितत्वम्। प्रकर्षो भक्तिश्रद्धयोरतिशयः॥१४॥
कथं भगवन्तं प्रत्यर्जुनो भाषितवानिति पृच्छति— कथमिति। तत्प्रश्नमपेक्षितं पूरयन्नवतारयति— यत्त्वयेति। भूतविशेषसङ्घेषु देवानामन्तर्भावेऽपि पृथक्करणमुत्कर्षात्। ब्रह्मणः सर्वदेवतात्मत्वेऽपि तेभ्यो भेदकथनं तदुत्पादकत्वादिति मत्वाऽऽह— किञ्चेति। ऋषीणामुरगाणां च किञ्चिद्वैषम्यात् पृथक्त्वम्१। दिव्यानित्युभयेषां विशेषणम्॥१५॥
१. भूतविशेषसङ्घेषु ऋषीणामुरगाणां चान्तर्भावेऽपि पृथक्करणमित्यर्थः। २. सत्यलोक इत्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
धनञ्जयः। प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं सम्पुटीकृत- हस्तः सन् अभाषत उक्तवान्॥१४॥
कथम्? यत् त्वया दर्शितं विश्वरूपं तदहं पश्यामीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच— पश्यामीति। पश्यामि उपलभे, हे देव ! तव देहे देवान् सर्वान् , तथा भूतविशेषसङ्घान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्था- नविशेषाणां सङ्घाः भूतविशेषसङ्घास्तान्। किञ्च ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवी- पद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः। ऋषींश्च वसिष्ठादीन् सर्वान् , उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥१५॥
[[५२९]]
कमलासनमतस्थमित्यर्थस्याप्रतिपाद्यमानत्वात्। ननु ब्रह्मविष्णुरुद्राणां त्रिमूर्तित्वेऽपि विष्णोः साक्षान्नारायणत्वात् तद्देहे ब्रह्मेव शिवोऽप्यस्तीति कमलासनस्थं ब्रह्माणं, तथा ईशं शिवं च पश्यामीति व्याख्येयमिति चेत्? मैवम् ; सर्वान् देवानित्यनेन रुद्रादित्यादिसर्वदेवानां प्रतिपादितत्वाद् , ईश्वरस्य शम्भोश्च रुद्रगणान्तःपातित्वान्न पृथक् कथनावसर इति। कमलासनस्थं कैलासगिरौ पद्मासनसमासीनमीशं शिवं चापश्यदिति व्याख्यानेऽपि नास्माकं काऽपि क्षतिः। विष्णुशिवयोश्चैतन्यात्मना अभेदेऽपि सङ्घातात्मना भेदसद्भावात्। विष्णोरेवावतारविशेषत्वाद् विष्णुशिव- विग्रहयोः। दिवि ४पातालस्वर्गे भवा दिव्यास्तान्॥१५॥
अनेकेति। अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपं त्वा सर्वतः पश्यामि। हे विश्वेश्वर ! विश्वरूप ! तव पुनरन्तं न पश्यामि; मध्यं न पश्यामि; आदिं न पश्यामि। त्वामेव सर्वत्र पश्यामि, न तु तवादिमध्यावसानानीति परमार्थः। द्वयोः कोट्योः आद्यन्तयोरित्यर्थः ॥१६॥
किरीटिनमिति। किरीटमिति जात्येकवचनम्। अनेककिरीटयुक्तमित्यर्थः। अनेकशिरस्कत्वाद् विराट्पुरुषस्य। गदाचक्रयोस्तु प्राधान्येन निर्देशः। गदाचक्रशङ्खासिधनुराद्यनन्तायुधविशिष्टमित्यर्थः। तेजसां राशिः पुञ्जो यस्य तं तेजोराशिम(न)न्तमित्यर्थः। यद्वा तेजोराशिमति तेजोराशित्वरूपणम् , ‘स राशिरासीन्महसां महोज्ज्वलः’५इतिवत्। सर्वतोदीप्तिमन्तं यस्य दीप्तिः सर्वतः सर्वत्रास्ति तम्। तेजः प्रभापिण्डः, दीप्तिस्तु प्रभेति विवेकः। अग्नितत्प्रभावत्। दुर्निरीक्ष्यं दुःखेन निरीक्षितुं शक्यम् , निरीक्षितुमशक्यमित्यर्थः। प्रमातुं परिच्छेत्तुमशक्यम् अप्रमेयम्॥१७॥
यत्र भगवद्देहे सर्वमिदं दृष्टं तमेव विशिनष्टि— अनेकेति। आदिशब्देन मूलमुच्यते। ‘नान्तं न मध्य’मित्यत्रापि पश्यामीत्यस्य प्रत्येकं सम्बन्धं सूचयति— नान्तं पश्यामीति॥१६॥
विश्वरूपवन्तं भगवन्तमेव प्रकारान्तरेण प्रपञ्चयति— किञ्चेति। परिच्छिन्नत्वं व्यावर्तयति— सर्वत इति। ३दुर्निरीक्ष्यं पश्यामी-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा१ सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर ! विश्वरूप !॥१६॥
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतोदीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम्॥१७॥
१.‘त्वाम्’ पा.। २.‘दीप्तिर्यस्यास्ति सः’ पा.। ३. दुर्निरीक्ष्यत्वे कथं भगवतो दर्शनमिति शङ्कां परिहरति—दुर्निरीक्ष्यमिति। भगवदनुग्रहलब्धदिव्यचक्षुष्काणां दृश्यः, इतरेषां दुर्निरीक्ष्य इति भावः। ४. उरगाणां पातालभवत्वप्रसिद्धेः दिव्यानिति व्याचष्टे—पातालेति। ५. तेजोराशिविशिष्टे राजनि नले तेजोराशित्वरूपणमिदम् । किञ्च— अनेकेति। अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहव उदराणि वक्त्राणि नेत्राणि च यस्य तव स त्वमनेक- बाहूदरवक्त्रनेत्रः, तमनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाण्यस्येति अनन्तरूपः, तमनन्तरूपम् , नान्तम् अन्तोऽवसानम् , न मध्यम् मध्यं नाम द्वयोः कोट्योरन्तरम् , न पुनस्तव आदिम् , तव देवस्य नान्तं पश्यामि, न मध्यं पश्यामि, न पुनरादिं पश्यामि, हे विश्वेश्वर ! हे विश्वरूप !॥१६॥
किञ्च— किरीटिनमिति। किरीटिनम् किरीटं नाम शिरोभूषणविशेषः, तद् यस्यास्ति स किरीटी, तं किरीटिनम् , तथा गदिनं गदा अस्य विद्यत इति गदी, तं गदिनम् , तथा चक्रिणं चक्रमस्यास्तीति चक्री, तं चक्रिणं च तेजोराशिं तेजःपुञ्जं सर्वतोदीप्तिमन्तं सर्वतो २दीप्तिरस्यास्तीति सर्वतोदीप्तिमान् , तं सर्वतोदीप्तिमन्तं पश्यामि त्वां
[[अ. ११. श्लो. १४-१७]] [[५३०]]
त्वमिति। त्वं वेदितव्यमक्षरं परममसि। त्वमस्य विश्वस्य परं निधानमसि। त्वं शाश्वतधर्मगोप्ता अव्ययोऽसि। त्वं सनातनः पुरुष इति मे मतोऽसि। अक्षरम् अविनाशि। परमं निरतिशयम्। फलितमाह— ब्रह्मेति। तस्यैव सर्वातिशयत्वेन निरतिशयत्वात्। कैर्वेदितव्यम्? अत आह— मुमुक्षुभिरिति। तेषामेव मुक्त्यर्थं ब्रह्मजिज्ञासुत्वादिति भावः। सनातनः पुराणः॥१८॥
अनादीति। अनादित्वादिविशेषणविशिष्टं त्वां पश्यामीत्यन्वयः॥१९॥
त्यधिकारिभेदादविरुद्धम्। पुरतो वा पृष्ठतो वा पार्श्वतो वा नास्य दर्शनम् , किन्तु सर्वत्रेत्याह— समन्तत इति। दीप्तिमत्त्वं दृष्टान्तेन स्पष्टयति— दीप्तेति॥१७॥
सप्रपञ्चे भगवद्रूपे प्रकृते प्रकरणविरुद्धं ‘त्वमक्षर’मित्यादिनिरुपाधिकवचनमित्याशङ्क्याह— इत एवेति। योगशक्तिः ऐश्वर्याति- शयः। न क्षरतीति निष्प्रपञ्चत्वमुच्यते४। परमपुरुषार्थत्वात् परमार्थत्वाच्च ज्ञातव्यत्वम्। ‘यस्मिन् द्यौः पृथिवी’त्यादौ प्रपञ्चायतनस्यैव ततो निष्कृष्टस्य ज्ञातव्यत्वश्रवणात् कुतो ब्रह्मणो ज्ञातव्यत्वम्? तत्राह— त्वमस्येति। निष्प्रपञ्चस्य ब्रह्मणो ज्ञेयत्वे हेत्वन्तरमाह— किञ्चेति। अविनाशित्वात् तवैव ज्ञातव्यत्वादतिरिक्तस्य नाशित्वेन हेयत्वादित्यर्थः। ज्ञानकर्मात्मनो धर्मस्य नित्यत्वं ५वेदप्रमाणकत्वम्। ‘धर्म- संस्थापनार्थाय सम्भवामी’त्युक्तत्वाद् गोप्ता रक्षिता॥१८॥
भगवतो विश्वरूपाख्यं रूपमेव पुनर्विवृणोति— किञ्चेति। हुतमश्नातीति हुताशो वह्निः॥१९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥१८॥
अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम्। पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥१९॥
दुर्निरीक्ष्यं दुःखेन निरीक्ष्यो दुर्निरीक्ष्यस्तं दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश्चार्कश्च अनलार्कौ, दीप्तावनलार्कौ दीप्तानलार्कौ, तयोर्दीप्तानलार्कयोर्द्युतिरिव द्युतिस्तेजो यस्य तव स त्वं दीप्तानलार्कद्युतिस्तं त्वां दीप्तानलार्कद्युतिम् , अप्रमेयं न प्रमेयम् अप्रमेयम्। अशक्यपरिच्छेदमित्यर्थः१॥१७॥
इत एव ते योगशक्तिदर्शनादनुमिनोमि— त्वमिति। त्वम् अक्षरम् न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः। त्वमस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयतेऽस्मिन्निति निधानम् , पर आश्रय इत्यर्थः। किञ्च त्वम् अव्ययो न तव व्ययो विद्यत इत्यव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतो नित्यो धर्मस्तस्य गोप्ता शाश्वतधर्मगोप्ता, सनातनः चिरन्तनः त्वं पुरुषः परो मतोऽभिप्रेतो मे मम॥१८॥
किञ्च— अनादीति। अनादिमध्यान्तम् आदिश्च मध्यं चान्तश्च न विद्यते यस्य सोऽयमनादिमध्यान्तस्तं त्वाम् अनादिमध्यान्तम् , अनन्तवीर्यं न तव वीर्यस्यान्तोऽस्तीत्यनन्तवीर्यस्तं त्वाम् अनन्तवीर्यम् , तथा अनन्तबाहुम् अनन्ता बाहवो यस्य तव स त्वम् अनन्तबाहुस्तं त्वामनन्तबाहुम् , शशिसूर्यनेत्रं शशिसूर्यौ नेत्रे यस्य तव स त्वं शशिसूर्यनेत्रस्तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनं पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तश्चासौ हुताशश्च २सः वक्त्रं यस्य तव स त्वं दीप्तहुताशवक्त्रः, तं त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं समस्तं तपन्तं ३तापयन्तम्॥१९॥
१.‘इत्येतत्’ इति पा.। २.‘तद्वद् वक्त्रं’ इति पा.। ३.‘संतापयन्तम्’ इति पा.। ४.अर्थादिति शेषः। सप्रपञ्चस्य क्षरणावश्यकत्वादिति भावः। ५.‘वेदप्रमाणकम्’ पा.।
[[५३१]]
द्यावापृथिव्योरिति। एकेन त्वया इदं द्यावापृथिव्योरन्तरं व्याप्तम् , सर्वा दिशश्च व्याप्ताः, हे महात्मन् ! उग्रं तवेदं रूपं दृष्ट्वा लोकत्रयं लक्षणया तद्वर्तिनो जनाः। ४न च प्रतिकूलानुकूलमध्यस्थरूपजनत्रयमित्यभिधासिद्ध एवार्थो ग्राह्य इति वाच्यम् ; लोकशब्दस्य लक्षणयैव जनार्थे ५प्रवृत्तिः, न त्वभिधयेति तदर्थस्यापि लाक्षणिकत्वात्। प्रतिकूलत्वादिविशेषणकल्पने प्रमाणाद्यभावाच्च। प्रव्यथितं भवतीति शेषः॥२०॥
अमी इति। अमी सुरसङ्घास्त्वां विशन्ति हि। केचिद् भीताः अत एव प्राञ्जलयः सन्तो गृणन्ति। महर्षिसिद्धसङ्घाः त्वां स्वस्तीत्युक्त्वा पुष्कलाभिः स्तुतिभिः स्तुवन्ति। अमी इत्यस्यार्थमाह— युध्यमाना इति। प्रत्यक्षेण दृश्यमाना युद्धं कुर्वन्तो भीष्मादयो योद्धारः। ननु कथमेषां सुरसङ्घत्वम्? अत आह— ये त्विति। मनुष्याणामिव संस्थानम् आकारोऽवयवसन्निवेशो येषां ते मनुष्यसंस्थानाः। मनुष्यजात्यवतीर्णा इत्यर्थः। विशन्तीति। अनेन भगवतैव भीष्मादयः संह्रियन्त इति सूच्यते। इदमेव ‘अमी च त्वा’(भगी ११-२६) इति श्लोकेन स्फुटं वक्ष्यते॥२१॥
प्रकृतभगवद्रूपस्य व्याप्तिं व्यनक्ति— द्यावापृथिव्योरिति। तस्यैव भयङ्करत्वमाचष्टे— दृष्ट्वेति॥२०॥
‘अमी ही’त्यादिसमनन्तरग्रन्थस्य तात्पर्यमाह— अथेति। ३तं भगवन्तं पाण्डवजयमैकान्तिकं दर्शयन्तं पश्यन्नर्जुनो ब्रवीती- त्याह— तं पश्यन्निति। विश्वरूपस्यैव प्रपञ्चनार्थमनन्तरग्रन्थजातमिति दर्शयति— किञ्चेति। असुरसङ्घा इति पदं छित्वा भूभारभूता दुर्योधनादयस्त्वां विशन्तीत्यपि वक्तव्यम्। उभयोरपि सेनयोरवस्थितेषु योद्धुकामेष्ववान्तरविशेषमाह— तत्रेति। समरभूमौ समागतानां द्रष्टुकामानां नारदप्रभृतीनां विश्वविनाशमाशङ्कमानानां तं परिजिहीर्षतां स्तुतिपदेषु भगवद्विषयेषु प्रवृत्तिप्रकारं दर्शयति— युद्ध इति॥२१॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाऽद्भुतं १रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् !॥२०॥
अमी हि २त्वा सुरसङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥२१॥
द्यावापृथिव्योरिति। द्यावापृथिव्योः इदमन्तरं ह्यन्तरिक्षं व्याप्तं त्वया एकेन विश्वरूपधरेण दिशश्च सर्वाः व्याप्ताः। दृष्ट्वा उपलभ्य अद्भुतं विस्मापकं रूपमिदं तव उग्रं क्रूरं, लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा, हे महात्मन् ! अक्षुद्रस्वभाव !॥२०॥
अथाधुना - पुरा ‘यद्वा जयेम यदि वा नो जयेयुः’(भ.गी.२.६) इत्यर्जुनस्य यः संशयः आसीत् , तन्निर्णयाय पाण्डवजयमैकान्तिकं दर्शयामीति प्रवृत्तो भगवान् । तं पश्यन्नाह— अमी हीति। किञ्च अमी हि युध्यमाना योद्धारः त्वा त्वां सुरसङ्घाः येऽत्र भूभारावतारायावतीर्णा वस्वादिदेवसङ्घा मनुष्यसंस्थानास्त्वां विशन्ति प्रविशन्तो दृश्यन्ते। तत्र केचिद् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायनेऽप्यशक्ताः सन्तः। युद्धे प्रत्युपस्थित उत्पातादिनिमित्तान्युपलक्ष्य ‘स्वस्त्यस्तु जगतः’ इत्युक्त्वा महर्षिसिद्धसङ्घाः महर्षीणां सिद्धानां च सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः॥२१॥ अ. ११. श्लो. १७-२१ ] १. ‘रूपमुग्रं तवेदं’ इति पा.। २. ‘त्वां’ इति पा.। ३. भगवान् तं पश्यन्नाह इत्यन्वयभ्रमव्युदासाय व्याचष्टे—तमिति। ४. लोकत्रयमित्यस्य रामानुजोक्तमर्थं प्रतिक्षिपति— न चेति। ५. ‘लोकस्तु भुवने जने’ इत्यमरः लक्षणाभिप्रायेण नेयः। द्र.अग्रे पृ.५३३।
[[५३२]]
रुद्रादित्या वसवो ये च साध्याः विश्वेऽश्विनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥२२॥
रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो ! बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥२३॥
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। रुद्रेति। ये च रुद्रादित्याः, ये च वसवः, ये च साध्याः, ये च विश्वेदेवाः, यौ चाश्विनौ, ये च मरुतः, ये चोष्मपाः, ये च गन्धर्वयक्षासुरसिद्धसङ्घाः, ते ते सर्वे लोका विस्मिताः सन्तः त्वां वीक्षन्त एव। रुद्राश्चादित्याश्च रुद्रादित्याः॥२२॥
रूपमिति। हे महाबाहो! बहुवक्त्रनेत्रं बहुबाहूरुपादं बहूदरं बहुदंष्ट्राकरालं महत् ते रूपं दृष्ट्वा लोकाः प्रव्यथिताः। तथाऽहमपि प्रव्यथितः। लोकशब्दो लक्षणया लोकस्थपर इत्याह— लौकिकाः प्राणिन इति। न च ‘लोकस्तु भुवने जने’ इति कोशादभिधयैव तदर्थागम इति वाच्यम् ; ३शब्दस्यानेकार्थत्वस्यान्याय्यत्वात्। एक एवाभिधेयोऽर्थः, अन्ये तु लाक्षणिका एव। लाक्षणिका अर्था अपि कोशेऽभिधेयैः सह सङ्गृहीताः नानार्थत्वलाभायेति। ‘व्यथ भयचलनयो’रिति धातुः। तत्र चलनार्थमाश्रित्याह— प्रचलिता इति। तत्र हेतुमाह— भयेनेति। भयार्थाश्रयणे तु भीता इत्येव सिध्यति, न तु भीत्या चलिता इति। अत आश्रितश्चलनार्थ इति बोध्यम्। तथा लोकवदित्यर्थः॥२३॥
नभःस्पृशमिति। हे विष्णो! नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा सन् धृतिं शमं च दृश्यमानस्य भगवद्रूपस्य विस्मयकरत्वे हेत्वन्तरमाह— किञ्चेति। त एव उक्ता रुद्रादयः सर्वे विस्मयमापन्नास्त्वां पश्यन्तीति सम्बन्धः॥२२॥
लोकत्रयं प्रव्यथितमित्युक्तमुपसंहरति— यस्मादिति। ईदृशं यस्मात् ते रूपं, तस्मात् तं[तद्] दृष्ट्वेति योजना। भयेन लौकिकवद् अहमपि व्यथितो व्यथां पीडां देहेन्द्रियप्रचलनं प्राप्तोऽस्मीत्याह— तथेति॥२३॥
अर्जुनस्य विश्वरूपदर्शनेन व्यथितत्वे हेतुमाह— तत्रेति॥२४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्चान्यत्— रुद्रेति। रुद्रादित्याः वसवो ये च साध्याः - रुद्रादयो गणाः, विश्वे देवाः, अश्विनौ च देवौ, मरुतश्च वायवः, ऊष्मपाश्च पितरः, गन्धर्वयक्षासुरसिद्धसङ्घाः गन्धर्वाः हाहाहूहूप्रभृतयः, यक्षाः कुबेरप्रभृतयः, असुराः विरोचनप्रभृतयः, सिद्धाः कपिलादयस्तेषां सङ्घाः गन्धर्वयक्षासुरसिद्धसङ्घाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तः, त एव सर्वे॥२२॥
यस्मात्— रूपमिति। रूपं महद् अतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि नेत्राणि चक्षूंषि च यस्मिंस्तद् रूपं बहुवक्त्रनेत्रम् , हे महाबाहो ! बहुबाहूरुपादं बहवो बाहवः ऊरवः पादाश्च यस्मिन् रूपे तद् बहुबाहूरुपादम् , किञ्च बहूदरं बहून्युदराणि यस्मिन्निति तद् बहूदरम् , बहुदंष्ट्राकरालं बह्वीभिर्दंष्ट्राभिः करालं विकृतं तद् बहुदंष्ट्राकरालम् , दृष्ट्वा रूपमीदृशं, लोकाः लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिताः भयेन, तथाऽहमपि॥२३॥
तत्रेदं कारणम्—नभःस्पृशमिति। नभःस्पृशं १द्युस्पर्शमित्यर्थः; दीप्तं प्रज्वलितम् , अनेकवर्णम् २अनेके वर्णा १.‘द्युस्पृशम्’ इति रा.पा.। २.‘अनेकवर्णाः’ पा.। ३.लोकशब्दस्य भुवनवाचकस्य तद्वर्तिजने लक्षणयैव प्रवृत्तिसंभवे न जनेऽपि शक्तिकल्पना, गौरवादिति भावः।
[[५३३]]
न विन्दामि हि। ननु नभसः सर्वसंस्पृष्टत्वाद् व्यर्थं नभःस्पृशमिति विशेषणम् , क्षुद्राणामपि तथात्वाद्, अत आह— द्युस्पृशमिति। अन्तरिक्षलोकस्पृशमित्यर्थः। स्वर्गलोकस्पृशमिति वा। व्याप्तमहाकाशमिति यावत्। त्वद्रूपगताः नभोव्यापित्वव्यात्ताननत्वदीप्त- विशालनेत्रत्वदीप्तत्वानेकवर्णत्वरूपा धर्माः लोकत्रयस्य मम च प्रव्यथितत्वे कारणम्। एवं सर्वलोकभीतिकरत्वादेव एवंविधत्वद्दर्शनात् प्रव्यथितं मनो मे। भीते च मनसि कथं धैर्यशमयोरवस्थानम्? न कथमपीत्यर्थः॥२४॥
दंष्ट्रेति। ननु कस्मात् तव धृतिशमयोरप्राप्तिरिति शङ्कायां तव रूपस्य भीषणत्वादेवेत्याह— दंष्ट्रेति। यद्यपि पूर्वश्लोके स्वेनैवोक्तमिदम् , तथाप्यर्जुनोऽव्यवस्थितचित्तत्वात् सम्भ्रमेण उक्तमेव पुनरपि वदतीति बोध्यम्। हे देवेश! जगन्निवास! दंष्ट्राकरालानि कालानलसन्निभानि ते मुखानि दृष्ट्वैव दिशोऽहं न जाने। शर्म च न लभे। तस्मात् प्रसीद। पूर्वापरविवेकेनेति। इयं दिक् पूर्वा, इयं तु पश्चिमेत्येवं विवेकेनेत्यर्थः। दिङ्मात्रज्ञानाभावे ‘दिशो न जाने’ इति वक्तुमेवासङ्गतत्वादिति भावः। दिङ्मूढः दिङ्मोहमापन्नः॥२५॥
अमी चेति। अमी सर्वे च धृतराष्ट्रस्य पुत्राः अवनिपालसङ्घैः सहैव दंष्ट्राकरालानि भयानकानि ते वक्त्राणि त्वरमाणाःसन्त एव विशन्ति। तथा असौ भीष्मो द्रोणः सूतपुत्रश्चैते अस्मदीयैरपि योधमुख्यैः सह दंष्ट्राकरालानि भयानकानि ते वक्त्राणि त्वरमाणा विशन्ति॥२६॥
दृश्यमानेऽपि भगवद्देहे परितोषाद्यभावे कारणान्तरं प्रश्नपूर्वकमाह— कस्मादिति। दृष्ट्वैवेत्येवकारेण ४प्राप्तिर्व्यावर्त्यते॥२५॥
अस्माकं जयं परेषां पराजयं च दिदृक्षन्तं ५[दिदृक्षुस्तं] पश्यामीत्याह—येभ्य इति। तत्र हेतुत्वेन श्लोकमवतारयति—यत इति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो!॥२४॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश ! जगन्निवास !॥२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भयङ्करा नानासंस्थानाः यस्मिंस्त्वयि तं त्वामनेकवर्णम् , व्यात्ताननम् - व्यात्तानि विवृतानि आननानि मुखानि यस्मिंस्त्वयि तं त्वां व्यात्ताननम् , दीप्तविशालनेत्रम् - दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिंस्त्वयि तं त्वां दीप्तविशालनेत्रम् , दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा - प्रव्यथितः प्रभीतोऽन्तरात्मा मनो यस्य मम सोऽहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे, शमं चोपशमं मनस्तुष्टिम् , हे विष्णो !॥२४॥
कस्मात् ?— दंष्ट्राकरालानीति। दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैव उपलभ्य कालानलसन्निभानि प्रलयकाले लोकानां दाहकोऽग्निः कालानलः, तत्सन्निभानि कालानलसदृशानि दृष्ट्वेत्येतत् , दिशः पूर्वापरविवेकेन न जाने, दिङ्मूढो जातोऽस्मि, अतो न लभे च नोपलभे च शर्म सुखम्। अतः प्रसीद प्रसन्नो भव, हे देवेश ! जगन्निवास !॥२५॥
येभ्यो मम पराजयाशङ्का२ऽऽसीत् , सा चापगता, यतः— अमी चेति। अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः त्वरमाणा विशन्तीति व्यवहितेन सम्बन्धः। सर्वे सहैव ३संहताः अवनिपालसङ्घैः अवनिं पृथ्वीं १. ‘चोपशमनम्’ इति पा.। २.‘याऽऽसीत् , प्रागेवाऽऽसीत्’ इति पा.। ३. ‘सहिताः’इति पा.। ४. दृष्ट्वैव, न तु प्राप्येति यावत्। ५. अत्र ‘दिदृक्षन् तं पश्यामि’ इति छेदः स्यादिति भाति। परं दिदृक्षन् इति परस्मैपदप्रयोगः चिन्त्य इति कोष्ठके संभावितपाठनिवेशः।
[[अ. ११. श्लो. २२-२६]] [[५३४]]
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः॥२६॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥२७॥
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीराः विशन्ति वक्त्राण्यभिविज्वलन्ति॥२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः। वक्त्राणीति। केचिच्चूर्णितैरुत्तमाङ्गैरुपलक्षिता दशनान्तरेषु विलग्नाःसन्तो मया संदृश्यन्ते। ननु दशनान्तरेषु केचित् किमिव विलग्नाः? अत आह— भक्षितं मांसमिवेति। यथा भक्षितमांसविशेषो दन्तान्तरे लगति, तद्वदित्यर्थः॥२७॥
यथेति। कथं विशन्तीति धार्तराष्ट्रादय इति कर्तुःशेषः। यथा नदीनां बहवोऽम्बुवेगाः समुद्रमभिमुखा एव द्रवन्ति, तथाऽमी नरलोकवीरा अभिविज्ज्वलन्ति तव वक्त्राणि विशन्ति। समुद्रे नदीनामम्बुवेगा इव, तव वक्त्रेषु धार्तराष्ट्रादयो विशन्तीत्यर्थः। समुद्रस्थानीयं विराड्रूपं, नदीसङ्गमस्थलस्थानीयानि मुखानि, नदीजलस्थानीयास्तु धार्तराष्ट्रादय इति विवेकः॥२८॥
यथेति। प्रवेशमात्रे दृष्टान्तः पूर्वश्लोकेनोक्तः, अनेन तु नाशाय प्रवेशे दृष्टान्त इति विशेषसद्भावान्न पुनरुक्तिः। यद्वा अबुद्धिपूर्वकप्रवेशे नदीवेगो दृष्टान्त उक्तः, बुद्धिपूर्वकप्रवेशे तु पतङ्ग इति विवेकः। यथा पतङ्गाः समृद्धवेगाःसन्तो नाशाय प्रदीप्तं ज्वलनं विशन्ति, तथैव लोकाः समृद्धवेगाःसन्तो नाशायैव तवापि वक्त्राणि विशन्ति। ज्वलनं दीपज्वालादिरूपमग्निम्॥२९॥
न केवलं दुर्योधनादीनामेव पराजयः, किन्तु भीष्मादीनामपीत्याह— किञ्चेति॥२६॥
भगवद्रूपस्योग्रत्वे हेत्वन्तरमाह— किञ्चेति। प्रविष्टानां मध्ये केचिदिति सम्बन्धः॥२७॥
उभयोरपि सेनयोरवस्थितानां राज्ञां भगवन्मुखप्रवेशं निदर्शनेन विशदयति— कथमित्यादिना॥२८॥
प्रवेशप्रयोजनं तत्प्रकारविशेषं चोदाहरणान्तरेण स्फोरयति— ते किमर्थमित्यादिना॥२९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
पालयन्तीत्यवनिपालाः, तेषां सङ्घैः। किञ्च भीष्मो, द्रोणः, सूतपुत्रः कर्णः, तथाऽसौ१ सह अस्मदीयैरपि धृष्टद्युम्न- प्रभृतिभिः योधमुख्यैः योधानां मुख्यैः प्रधानैः सह॥२६॥
किञ्च— वक्त्राणीति। वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः सन्तो विशन्ति। किंविशिष्टानि मुखानि? दंष्ट्राकरालानि भयानकानि भयङ्कराणि। किञ्च, केचिद् मुखानि प्रविष्टानां मध्ये विलग्नाः दशनान्तरेषु दन्तान्तरेषु मांसमिव भक्षितं, संदृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः उत्तमाङ्गैः शिरोभिः॥२७॥
कथं प्रविशन्ति मुखानीत्याह— यथा नदीनामिति। यथा नदीनां स्रवन्तीनां बहवः अनेके अम्बूनां वेगाः अम्बुवेगाः त्वराविशेषाः समुद्रमेव अभिमुखाः प्रतिमुखाः द्रवन्ति प्रविशन्ति, तथा तद्वत् तव अमी भीष्मादयो नरलोकवीराः मनुष्यलोकशूराः विशन्ति वक्त्राणि अभिविज्वलन्ति प्रकाशमानानि॥२८॥
ते किमर्थं प्रविशन्ति, कथं चेत्याह— यथेति। यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणो विशन्ति नाशाय १. असाविति बुद्धिस्थेन विद्वेष्टृत्वेन कर्णस्य परामर्शः। असौ अजय्यत्वेन प्रसिद्धो भीष्मः इत्यन्यत्र।
[[५३५]]
लेलिह्यस इति। त्वं तु समन्ताज्ज्वलद्भिर्वदनैः समग्रान् लोकान् ग्रसमानःसन् लेलिह्यसे। हे विष्णो! तवोग्राः भासः तेजोभिः समग्रं जगदापूर्य प्रतपन्ति। भासो दीपादिस्थानीयाः सान्द्राः, तेजांसि तु प्रभास्थानीया विरला इति विवेकः। भाष्यकाराभिमतान्वयस्तु— त्वं समग्रं जगत् तेजोभिरापूर्य समन्ताज्ज्वलद्भिर्वदनैः समग्रान् लोकान् ग्रसमानो लेलिह्यसे। हे विष्णो! तवोग्रा भासस्तु प्रतपन्तीति। अस्मिन्नन्वये तु भासां तेजसां चैकार्थ्येऽप्यनन्वयदोषो नास्तीति बोध्यम्। न च ‘तेजोभिरापूर्य जगत् समग्र’मित्यस्य पूर्ववाक्यान्वये समाप्तपुनरादानदोष इति वाच्यम् , अनाकाङ्क्षितविशेषणस्यैव बहिर्भूतत्वे स दोषः, न त्वाकाङ्क्षितविशेषणस्येति सिद्धान्तात्। न चेदं तेजोभिर्जगतः आपूरणं विश्वरूपस्य नाकाङ्क्षितमेव विशेषणमिति वाच्यम् ; तेजोभिर्जगतः आपूरणं विना लोकग्रसनाद्यसम्भवेन तस्याकाङ्क्षितत्वात्। व्याघ्रादयोऽपि स्वतेजसा मृगादीन् परिभूय हि ग्रसन्ते, आस्वादयन्ति च। तद्वदीश्वरोऽपि स्वतेजसा जगत्परिभूयैव ग्रसते आस्वादयति च। तेजसा जगद्व्याप्तिर्हि जगत्परिभवः। येन जगदाक्रान्तं तस्य तेजस उत्कर्षः, तेजो यज्जगदाचक्राम तस्य जगतोऽपकर्षश्चेति। प्रतपन्तीत्यत्र कर्मादर्शनात् किमत्र कर्मेति सन्दिहानं प्रति धात्वर्थसङ्गृहीतकर्मत्वादकर्मकोऽयं धातुरिति बोधयितुमाह प्रेत्युपसर्गयुक्तस्य तपतेरर्थम्२— सन्तापमिति॥३०॥
आख्याहीति। उग्ररूपो भवान् कः? मे आख्याहि। हे देववर! ते नमोऽस्तु। प्रसीद। आद्यं भवन्तं विज्ञातुमिच्छामि। हि तव प्रवृत्तिं न प्रजानामि। मया तव विश्वरूपं जिज्ञासितं प्रार्थितं च। त्वया तु व्यात्ताननत्वादिभिरतिघोरं रूपं दर्शितम्। तत्र पृच्छामि योद्धुकामानां राज्ञां भगवन्मुखप्रवेशप्रकारं प्रदर्श्य, तस्यां दशायां भगवतस्तद्भासां च प्रवृत्तिप्रकारं प्रत्याययति— त्वं पुनरिति। भगवत्प्रवृत्तिमेव[मेवं] प्रत्याय्य, तदीयभासां प्रवृत्तिं प्रकटयति— किञ्चेति॥३०॥
भगवद्रूपस्यार्जुनेन दृष्टपूर्वत्वात् तस्य तस्मिन् न जिज्ञासेत्याशङ्क्याह— यत इति। उपदेशं शुश्रूषमाणेनोपदेशकर्तुः प्रह्वीभवनं कर्तव्यमिति सूचयति— नमोऽस्त्विति। क्रौर्यत्यागमर्थयते— प्रसादमिति। त्वमेव मां जानीषे, किमर्थमित्थमिदानीमर्थयसे, मदीयां चेष्टां
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः॥२९॥
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो !॥३०॥
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर ! प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥३१॥
विनाशाय समृद्धवेगाः- समृद्ध उद्भूतो वेगो गतिर्येषां ते समृद्धवेगाः, तथैव नाशाय विशन्ति लोकाः प्राणिनः तवापि वक्त्राणि समृद्धवेगाः॥२९॥
त्वं पुनः— लेलिह्यस इति। लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् समन्तात् समन्ततो लोकान् समग्रान् समस्तान् वदनैः वक्त्रैः ज्वलद्भिः दीप्यमानैः, तेजोभिः आपूर्य संव्याप्य जगत् समग्रं सहाग्रेण, समस्त- मित्येतत्। किञ्च भासो दीप्तयः तव उग्राः क्रूराः प्रतपन्ति १प्रतापं कुर्वन्ति, हे विष्णो ! व्यापनशील !॥३०॥
यत एवमुग्रस्वभावः, अतः— आख्याहीति। आख्याहि कथय मे मह्यं को भवान् एवम् उग्ररूपः (अति) क्रूराकारः। नमोऽस्तु ते तुभ्यं, हे देववर ! देवानां प्रधान ! प्रसीद प्रसादं कुरु। विज्ञातुं विशेषेण ज्ञातुमिच्छामि १.‘संतापं’ इति रा.पा. भाति। २.संतापं कुर्वन्ति इति विवरणात् संतापस्य कर्मणो धात्वर्थेऽन्तर्भाव इति भावः। वस्तुतस्तु जगत् इति कर्मणोऽत्रापि योजना युक्ता।
[[अ. ११. श्लो. २६-३१]] [[५३६]]
भवन्तम् आद्यम् आदौ भवमाद्यम् । न हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टाम्॥३१॥
कालोऽस्मीति। कालोऽस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति लोकक्षयकृत् प्रवृद्धो वृद्धिं गतः। यदर्थं प्रवृद्धः, तच्छृणु। लोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तः। ऋतेऽपि विनाऽपि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यस्तवाशङ्का, येऽवस्थिताः प्रत्यनीकेषु अनीकमनीकं प्रति प्रत्यनीकेषु , प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः॥३२॥
यस्मादेवम्— तस्मात्त्वमिति। तस्मात् त्वमुत्तिष्ठ। भीष्मद्रोणप्रभृतयोऽतिरथाः अजेया देवैरप्यर्जुनेन जिताः कस्त्वमिति। किं विश्वरूपः स एवायं त्वम्? यद्वा तवेदं विश्वरूपादन्यद् रूपम्? अथवा त्वत्तोऽयमन्यः पुरुषः कश्चिद् घोराकृतिः, तव सौम्यपुरुषत्वादिति?। चेष्टामिति। एवं घोरं रूपं धृत्वा त्वया किं वा चिकीर्षितम्? तदहं न जाने इत्यर्थः॥३१॥ काल इति। लोकान् समाहर्तुमिह प्रवृत्तो लोकक्षयकृत् प्रवृद्धः कालोऽहमस्मि। प्रत्यनीकेषु ये योधाः अवस्थितास्ते सर्वे त्वा ऋतेऽपि न भविष्यन्त्येव। मया त्वत्प्रार्थनामनुसृत्य विश्वरूपमेव दर्शितम्। तद्धि विश्वरूपम् अनेकवक्त्रनयनत्वादिना स्वत एव घोरम्। तत्र च भूभूर[भार]सञ्जिहीर्षयेश्वरस्य ममाधुना लयव्यग्रत्वाद् मम चेदं रूपमतिघोरं व्यात्ताननत्वदशनान्तरविलग्नयोधत्वदंष्ट्राकराल- त्वादिभिः। तस्मादेवं घोररूपोऽहमीश्वरः काल एव। किं कालो यमस्त्वम्? नेत्याह— लोकक्षयकृदिति। सर्वेषां लोकपाललोकस्थजन- सहितानां भूरादिलोकानां क्षयकृत् नाशकारी। यमस्यापि यमोऽहमीश्वर एव, न तु यम इति भावः। यद्वा कालः संवत्सराद्यात्मकः किम्? नेत्याह— लोकक्षयकृदिति। संवत्सरचक्रप्रवर्तकस्य सूर्यस्यापि क्षयकृत्त्वान्नाहं जन्यकालः, किन्तु नित्यकाल ईश्वर एवेति भावः। कीदृशः कालः? अत आह— प्रवृद्ध इति। विश्वरूप ईश्वरोऽहमित्यर्थः। किमर्थं विश्वरूपधारणमिदम्? अत आह— लोकानिति। अस्मिन् लोके अस्मिन् काले, एतान् लोकान् भीष्मद्रोणादीन् जनान् समाहर्तुं गिलितुम् , नाशयितुमिति यावत्। प्रवृत्तो विश्वरूपधारणे प्रवृत्तः। यद्वा लोकसमाहरणे प्रवृत्तः। एवमत्र प्रवृत्तोऽहमिति ते दर्शयितुं प्रवृद्धः। अथवा प्रवृद्धो ग्रसनोन्मुखावस्थः। प्रत्यनीकेषु प्रतिसैन्यम् उभयसेनयोरित्यर्थः। यद्वा सेनां सेनां प्रत्यवस्थिताः। उभयसेनयोरवस्थिता इत्येव यावत्। प्रतिपक्षभूतेष्विति। परस्परमिति शेषः। अन्योन्यं प्रतिपक्षभूतयोः द्वयोः सेनयोरिति प्रत्यनीकेषु इत्यस्यार्थः। यद्वा प्रत्यनीकेषु शात्रवसैन्येषु , तेषामेव प्रतिकूलसैन्यत्वेन प्रत्यनीकत्वात् , इदमेवाह—प्रतिपक्षभूतेष्विति। दृष्ट्वा तथैव प्रतिपद्यस्वेत्याशङ्क्याह— न हीति॥३१॥
स्वयं यदर्था च स्वप्रवृत्तिः तत् सर्वं भगवानुक्तवानित्याह— श्रीभगवानिति। कालः क्रियाशक्त्युपहितः परमेश्वरः। अस्मिन्निति वर्तमानयुद्धोपलक्षितत्वं कालस्य विवक्षितम्। लोकसंहारार्थं त्वत्प्रवृत्तावपि नासावर्थवती, प्रतिपक्षाणां भीष्मादीनां मत्प्रवृत्तिं विना संहर्तुमशक्यत्वादित्याशङ्क्याह— ऋतेऽपीति॥३२॥
तवौदासीन्येऽपि प्रतिकूलानीकस्था मत्प्रातिकूल्यादेव न भविष्यन्तीत्येवं यस्मान्निश्चितं तस्मात् त्वदौदासीन्यमकिञ्चित्कर-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
श्रीभगवानुवाच— कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि १त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥३२॥
तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्। १. ‘त्वां’ इति पा.।
[[५३७]]
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् !॥३३॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥३४॥
सञ्जय उवाच— नन्वेवं प्रतिकूलान्यनीकानि प्रत्यनीकानीति न भाषितमाचार्यैरिति चेत् , तर्हि वीप्सायामेव प्रतिरस्तु। सर्वसैन्येष्वित्यर्थः। इमानि च सर्वसैन्यानि शात्रवाण्येवेत्याह— प्रतिपक्षभूतेष्विति॥३२॥
यस्मादेवं मयैव कालेनैते हनिष्यन्ते, तस्मादित्यर्थः। तस्मात् त्वं युद्धायोत्तिष्ठ; यशो लभस्व; शत्रून् जित्वा अकण्टकं राज्यं भुङ्क्ष्व; शत्रून् जित्वा यशो लभस्वेति वा, काकाक्षिन्यायेन द्वयोः सम्बध्यत इति वा। एते धार्तराष्ट्रादयः मयैव पूर्वमेव त्वद्धननात् प्रागेवेत्यर्थः। निहताः। तच्च दर्शितं तवेति भावः। हे सव्यसाचिन् ! त्वं निमित्तमात्रं भव। दैवं तवानुकूलम् , तेषां तु प्रतिकूलम् , अतस्तवैव जयः स्यात्। तथापि न त्वयोदासितव्यम् , पौरुषं विना केवलदैवालम्बनस्य क्षुद्रजनविषयत्वाद् व्यर्थत्वाच्चेति भावः। तस्मादुत्तिष्ठ। सव्यसाचिनस्तवापि न दुष्करमिदं युद्धम् , किन्तु सुकरमेवेति भावः॥३३॥
द्रोणमिति। त्वं मया हतं द्रोणं भीष्मं जयद्रथं कर्णं च जहि। तथा मया हतानन्यानपि योधवीरान् जहि। मा व्यथिष्ठाः। युध्यस्व। रणे सपत्नान् जेतासि। आशङ्का ‘मयैते न हनिष्यन्ते, एत एव मां हनिष्यन्ती’त्येवमाकारिका। जयद्रथः सैन्धवः। यस्येति। यो मम पुत्रस्य शिरो भूमौ निपातयिष्यति तस्यापि शिरो भूमौ पतत्वित्यभिसन्धिमत् तपः यस्य पिता चरति चराचरे[चचारे]त्यर्थः। एवं मित्याह— यस्मादिति। उत्तिष्ठ युद्धायोन्मुखीभवेत्यर्थः। यशोलाभमभिनयति— भीष्मेति। किं तेनापुमर्थेनेत्याशङ्क्याह— पुण्यैरिति। राज्यभोगेऽपेक्षिते किमनपेक्षितेनेत्याशङ्क्याह—जित्वेति। भीष्मादिष्वतिरथेषु सत्सु कुतो जयाशङ्केत्याशङ्क्याह— मयैवैत इति। तर्हि मृतमारणार्थं न मे प्रवृत्तिः, तत्राह— निमित्तेति। सव्यसाचिपदं विभजते— वामेनेति॥३३॥
मयैवेत्यादिनोक्तं प्रपञ्चयति— द्रोणं चेति। किमिति कतिचिदेवात्र द्रोणादयो गण्यन्ते? तत्राह— येष्विति। द्रोणादिषु कुतः शङ्केत्याशङ्क्य द्वयोः शङ्कानिमित्तमाह— तत्रेत्यादिना। जयद्रथेऽपि शङ्कानिमित्तमाह— तथेति। दिव्यास्त्रसम्पन्न इति सम्बन्धः। तत्र शङ्कायां कारणान्तरमाह— यस्येति। कर्णेऽपि तत्कारणं कथयति— कर्णोऽपीति। ३पूर्ववदेव सम्बन्धः। हेत्वन्तरमाह— वासवेति। सा
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इति यशो लभस्व; केवलं पुण्यैर्हि तत् प्राप्यते। जित्वा शत्रून् दुर्योधनप्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम्। मयैव एते निहताः निश्चयेन हताः प्राणैर्वियोजिताः पूर्वमेव। निमित्तमात्रं भव त्वम् , हे सव्यसाचिन् ! सव्येन वामेनापि हस्तेन शराणां १क्षेपात् सव्यसाचीत्युच्यतेऽर्जुनः॥३३॥
द्रोणं चेति। द्रोणं च, येषु येषु योधेष्वर्जुनस्याशङ्काऽऽसीत् , तांस्तान् व्यपदिशति भगवान्—मया हतानिति। तत्र द्रोणभीष्मयोस्तावत् प्रसिद्धमाशङ्काकारणम्। द्रोणो धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः आत्मनश्च विशेषतो गुरुः गरिष्ठः। भीष्मः २स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धमगमत् , न च पराजितः। तथा जयद्रथः, यस्य पिता तपश्चरति मम पुत्रस्य शिरो भूमौ निपातयिष्यति यस्तस्यापि शिरः पतिष्यतीति। कर्णोऽपि वासवदत्तया १. ‘क्षेप्ता’ इति पा.। सव्येन वामेनापि हस्तेन सचति संदधाति शरानिति सव्यसाची। सच संधाने इति धातोर्णिनिः। ‘उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे। तेन देवमनुष्येषु सव्यसाचीति मां विदुः।’ (म.भा. ४.३९.१७)। २. भीष्मस्य स्वच्छन्दमृत्युता पितृप्रसादेन लब्धा। ३. कर्णोऽपि दिव्यास्त्रसम्पन्न इति सम्बन्धः कर्तव्य इत्यर्थः।
[[अ. ११. श्लो. ३१-३४]] [[५३८]]
च जीवताऽस्य दुर्जयत्वं सिद्धम्। सूर्यपुत्र इति। सूर्यस्य प्रसिद्धतेजआदिगुणवत्त्वात् तत्पुत्रस्य कर्णस्यापि पितृसमानगुणवत्त्वेन दुर्जयत्वमिति भावः। कथमयं सूर्यपुत्रः? अत आह— कानीन इति। कन्याया अपत्यं कानीनः। ‘कन्यायाः कनीन च’ इति कनीनादेशः। सूर्यात् कन्यायां कुन्त्यां जात इत्यर्थः। अनेन च कुन्त्याः प्रथमं प्रभूतोऽयं महासत्त्व इति सूच्यते। जेतासीति लुट् प्रयोगः। जेष्यसीत्यर्थः॥३४॥
एतदिति। केशवस्य एतद् वचनं श्रुत्वा वेपमानः किरीटी कृताञ्जलिःसन् नमस्कृत्वा भीतभीतःसन् प्रणम्य कृष्णं प्रति सगद्गदं भूय एवाह। ननु सञ्जय उवाचेति वचनमत्र व्यर्थम् , कृष्णार्जुनप्रश्नोत्तरिकाया असमाप्तत्वादित्यत्राह— अत्रेति। सञ्जयवचनमिति। एतच्छ्रुत्वेत्यादिश्लोकरूपमित्यर्थः। अयं भावः—‘श्रीभगवानुवाच…जेतासि रणे सपत्ना’नित्यन्तं वाक्यजातम्। ततस्तु ‘अर्जुन उवाचे’त्यर्जुनवचनमेव खल्वमोघा पुरुषमेकमत्यन्तसमर्थं घातयित्वैव निवर्तते। जन्मनाऽपि तस्य शङ्कनीयत्वमाह— सूर्येति। कुन्ती हि कन्यावस्थायां मन्त्रप्रभावं ज्ञातुमादित्यमाजुहाव, ततस्तस्यामेवावस्थायामयमुद्बभूव, तदाह— कानीन इति। एतदेवाभिप्रेत्य कर्णग्रहणमित्याह— यत इति। उक्तेष्वन्येषु च न त्वया शङ्कितव्यमित्याह— मयेति॥३४॥
पराजयभयात् करिष्यति सन्धिमिति बुद्ध्या सञ्जयो राज्ञे वृत्तान्तमुक्तवानित्याह— सञ्जय इति। पूर्वोक्तं वचनं कालोऽस्मीत्यादि। विश्वरूपदर्शनदशायामर्जुनस्य भगवता संवादवचनं किमिति सञ्जयो राज्ञे व्यजिज्ञपदित्याशङ्क्य, तदुक्तेस्तात्पर्यमाह— अत्रेति। तमेवाभि- प्रायं प्रश्नद्वारा विशदयति— कथमित्यादिना। तर्हि सञ्जयवचनं श्रुत्वा किमिति राजा सन्धिं न कारयामासेति? तत्राह— तदपीति॥३५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥३५॥
अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् श्रीकृष्णो[ष्णेना]र्जुनाय विश्वरूपं दर्शितमिति तन्मध्ये पाण्डवजयः कौरवपराजयश्चार्जुनेन दृष्टः। तं दृष्ट्वा कृष्णं प्रणम्यार्जुन उवाचेत्येतद् धृतराष्ट्रं प्रति सञ्जयः कथयामास। तत् केनाभिप्रायेणेत्याशङ्क्याह—अत्रावसरे सञ्जयवचनमि- त्यादिना॥३५॥
शक्त्या त्वमोघया सम्पन्नः सूर्यपुत्रः कानीनो यतः, अतस्तन्नाम्नैव निर्देशः। मया हतान् त्वं जहि निमित्तमात्रेण। मा व्यथिष्ठाः तेभ्यो भयं मा कार्षीः। युध्यस्व, जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून्॥३४॥
एतच्छ्रुत्वेति। एतच्छ्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा भूयः पुनरेव आह उक्तवान् कृष्णं सगद्गदम् - भयाविष्टस्य दुःखाभिघातात् , स्नेहाविष्टस्य च हर्षोद्भवाद् अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः, ततश्च वाचोऽपाटवं१ मन्दशब्दत्वं यत् स गद्गदः, तेन सह वर्तत इति सगद्गदम् , वचनमाहेति वचनक्रियाविशेषणमेतत्। भीतभीतः पुनःपुनर्भयाविष्टचेताः सन् प्रणम्य प्रह्वो भूत्वा आहेति व्यवहितेन सम्बन्धः। अत्रावसरे सञ्जयवचनं साभिप्रायम्। कथम्? द्रोणादिष्वर्जुनेन निहतेष्वजेयेषु चतुर्षु निराश्रयो दुर्योधनो निहत एवेति मत्वा धृतराष्ट्रो जयं प्रति निराशः सन् सन्धिं करिष्यति, ततः शान्तिरुभयेषां भविष्यतीति। तदपि नाश्रौषीद् धृतराष्ट्रः, भवितव्यवशात् ॥३५॥
१. ‘अपाटवात्’ इति पा.।
[[५३९]]
निबद्धव्यम् , न त्वनवसरं सञ्जयवचनमिति। ततश्च कृष्णार्जुनप्रश्नोत्तरिकाया मध्ये सञ्जयवचननिबन्धनं ‘कालोऽस्मी’त्यारभ्य ‘जेतासि रणे सपत्नानि’त्यन्तं श्रीकृष्णवाक्यं श्रुत्वा सन्धिं करिष्यति धृतराष्ट्र इत्याशया धृतराष्ट्रं प्रति सञ्जयो ‘जेतासि रणे सपत्नानि’त्यन्तं ग्रन्थमुक्त्वा तूष्णीं बभूव क्षणकालम्। तथापि धृतराष्ट्रे सन्धावप्रवृत्ते सति पुनः सञ्जयो वक्तुं प्रववृत इत्येतद्वृत्तान्तसूचनाय सञ्जय उवाचेति सञ्जयवचनमिह निबद्धं भगवता बादरायणेनेति। नाश्रौषीदिति। त्वदुक्तविधया सन्धिमहं करिष्यामीति नाङ्गीचकारेत्यर्थः। नन्विदमश्रवणं कस्य दोषः? अत आह— भवितव्येति। ‘यद् भावि तद् भवत्येव, यदभावि न तद् भवेद्’ इति न्यायात् भवितव्यं कुरुपाण्डवयुद्धमवश्यं भवत्येव, न त्वभवितुं शक्नोतीति भावः॥३५॥
स्थान इति। हे हृषीकेश! तव प्रकीर्त्या जगत् प्रहृष्यति, अनुरज्यते च। तदेतत् स्थाने। रक्षांसि भीतानि सन्ति दिशो द्रवन्ति। सर्वे सिद्धसङ्घाश्च नमस्यन्ति। तच्च स्थाने। यद्वा विषय इति शेषः। तद् भगवान् स्थाने विषयः। एवमुत्तरत्रापि। अत्र चत्वारि वाक्यानि। चतुर्ष्वपि स्थानेपदस्यानुवृत्तिः। तत्पदस्य विषयपदस्य च चतुर्ष्वपि शेष इति च बोध्यम्। तत् जगतः प्रहर्षणं स्थाने युक्तम्। तत् जगतोऽनुरञ्जनं च स्थाने युक्तम्। तद् रक्षसां पलायनं स्थाने। तत् सिद्धसङ्घनमस्करणं स्थाने। एवं तत् तस्माद् भगवान् स्थाने युक्तो विषय इति। कस्य भगवान् युक्तो विषयः? अत आह— हर्षादीति। आदिपदाद् अनुरागपलायननमस्कारग्रहणम्। हर्षादीनां विषयो हर्षादिविषयः। भगवतो हर्षादिविषयत्वं युक्तमित्यर्थः। नन्वीश्वरस्य परस्य कीर्तौ श्रुतायां कुतो जगतः प्रहर्षः? अत आह— सर्वभूतसुहृदिति। यतो भगवानीश्वरः सर्वभूतसुहृत् , तस्मात् स्वसुहृद ईश्वरस्य कीर्तिश्रवणाज्जगतः प्रहर्षणमुचितमेवेति भावः। इदं च किं तदर्जुनो भगवन्तं प्रति सगद्गदं वचनमुक्तवानिति? तदाह— अर्जुन इति। विषयविशेषणत्वमेव व्यनक्ति— युक्त इति। भगवतो हर्षादिविषयत्वं युक्तमित्यत्र हेतुमाह— यत इति। तव प्रकीर्त्या हर्षवद् अनुरागं च गच्छति जगदित्याह— तथेति। तच्चेत्यनुरागगमनम्। रक्षःसु जगदेकदेशभूतेषु प्रतिपक्षेषु कुतो जगतो भगवति हर्षानुरागावित्याशङ्क्याह— किञ्चेति। इतश्च जगतो
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अर्जुन उवाच— १स्थाने हृषीकेश ! तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥३६॥
स्थाने इत्यव्ययं पदं युक्तत्ववाचीत्यङ्गीकृत्य क्रियाविशेषणपरतया व्याख्यातम्। इदानीं सप्तम्यन्तं स्थाने इति पदं गृहीत्वा विषयार्थत्वमाह— अथवा विषयविशेषणमिति। भो हृषीकेश! तव प्रकीर्त्या त्वयि विषये जगत् [प्र]हृष्यति, त्वय्यनु- रागविषयेऽनुरागं चोपैतीति व्याख्येयः। रक्षांसि भीतानि सन्तीति यत् , तच्च त्वयि स्थाने भयविषये भयानके सत्येवेत्यर्थः। नमस्करणमपि त्वयि विषये॥३६॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
स्थान इति। स्थाने युक्तम्। किं तत्? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश ! यद् जगत् प्रहृष्यति प्रहर्षमुपैति, तत् स्थाने युक्तमित्यर्थः। अथवा विषयविशेषणं स्थान इति। युक्तो हर्षादिविषयः भगवान् , यत ईश्वरः सर्वात्मा सर्वभूतसुहृच्चेति। तथा अनुरज्यतेऽनुरागं चोपैति, तच्च [स्थाने] विषये२ इति व्याख्येयम्। किञ्च रक्षांसि भीतानि भयाविष्टानि दिशो द्रवन्ति गच्छन्ति, तच्च स्थाने विषये। सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसङ्घाः अ. ११. श्लो. ३४-३६ ] १. अयं श्लोको रक्षोघ्नमन्त्रत्वेन मन्त्रशास्त्रे प्रसिद्धः। स च नारायणाष्टाक्षरसुदर्शनास्त्रमन्त्राभ्यां सम्पुटितो ज्ञेय इति रहस्यमिति गूढार्थदीपिका। २. युक्ते विषये इत्यर्थः।
[[५४०]]
सर्वभूतसुहृत्त्वमुपलक्षणं सर्वभूतात्मत्वस्य। स्वसुहृदः स्वात्मभूतस्य चेश्वरस्य कीर्तिश्रवणाज्जगतः प्रहर्षणमनुरञ्जनं च युक्तमेवेति भावः। के ते सिद्धाः? अत आह— कपिलादीनामिति॥३६॥
कस्मादिति। हर्षादीनां विषयो हर्षादिविषयः, तत्त्वे। भगवत्कीर्तिश्रवणादिना जगतो हर्षादिलाभाद् भगवान् हर्षादिविषय इत्युच्यते। कथमेते न नमस्कुर्युः? अपि तु सर्वथाऽपि नमस्कुर्युरेवेत्यर्थः। अत इति। यस्मादेवं सर्वे त्वामेव नमस्कुर्युस्तस्मादित्यर्थः। त्वमेव हर्षादीनां नमस्कारस्य च स्थाने विषयः। स्थानेपदार्थमाह— अर्ह इति। प्रजापतिद्वारा सर्वजगत्स्रष्टुर्ब्रह्मणोऽपि प्रधानजीवस्य यः उत्पादकः, स हि सर्वाधिक इति हर्षादेर्युक्तविषय इत्यर्थः। एतेन क्षुद्रदेवतादीनां हर्षाद्यनर्हविषयत्वं सूचितम्। यत् सदसत् , यच्च तत्परं तदक्षरं त्वमेवेत्यन्वयः। वर्तमानकालोपलक्षितं जगत् सत् , भूतं भविष्यच्चासत्। वर्तमान एव पुत्रादौ अस्तीति प्रत्येति लोकः; न तु नष्टे, नाप्युत्पत्स्यमाने। यद्वा व्यावहारिकं जगत् सत् , प्रातिभासिकं त्वसत् , रज्ज्वादौ सद्बुद्धिदर्शनात् , रज्जुसर्पादौ स्वाप्निकरथादौ चासद्बुद्धिदर्शनात्। अथवा स्थूलावस्थं कार्यं सत् , सूक्ष्मावस्थं कारणं त्वसत्। प्रपञ्चे जगदस्तीति प्रलये सूक्ष्मतया विद्यमानेऽपि जगति नास्तीति बुद्धिरस्त्येव प्राणिनाम्। तथा च प्रपञ्चदशापन्नप्रकृतिःसत् , प्रलयदशापन्नप्रकृतिरसदिति सिद्धम्।अनयोश्च सदसतोरक्षरोपाधिभूतत्वाद् अक्षरमपि सदसदित्युपचर्यत इत्याह— ते इति। ते सदसती उपधानभूते उपाधिभूते। वस्तुतोऽक्षरस्य निरुपाधिकत्वाद् भूते इत्युक्तम्। यद्द्वारेणेति। सदसदुपाधिद्वारेत्यर्थः। उपचर्यते लक्षणयोच्यते। ननु अक्षरं लक्षणया सदसदित्युच्यत इत्युक्तम् , अमुख्यवृत्त्या किमित्युच्यते? अत आह— परमार्थतस्त्विति। उपचारं विनेत्यर्थः। परं विलक्षणं सदसतोर्जडत्वाद् दृश्यत्वाद् विकारित्वाद् अनित्यत्वाद् असत्यत्वाच्च, अक्षरस्य चिन्मात्रत्वाद् द्रष्टृत्वाद् भगवति हर्षादि युक्तमित्याह— सर्व इति॥३६॥
उक्तेऽर्थे हेत्वर्थत्वेनोत्तरश्लोकमवतारयति—भगवत इति। महात्मत्वम् अक्षुद्रचेतस्त्वम्। गुरुतरत्वान्नमस्कारादियोग्यत्वमाह— गुरुतरायेति। तत्रैव हेत्वन्तरमाह— यत इति। महात्मत्वादिहेतूनामुक्तानां फलमाह— अत इति। तत्रैव हेत्वन्तराणि सूचयति— हे अनन्तेति। अनवच्छिन्नत्वं सर्वदेवनियन्तृत्वं सर्वजगदाश्रयत्वं च तव नमस्कारादियोग्यत्वे कारणमित्यर्थः। तत्रैव हेत्वन्तरमाह— त्वमिति। तत्र मानमाह— यदिति। कथमेकस्यैव सदसद्रूपत्वम्? तत्राह— ते इति। कथं सतोऽसतश्चाक्षरं प्रत्युपाधित्वम्? तदाह— यद्द्वारेणेति। तत्परं यदित्येतद् व्याचष्टे— परमार्थतस्त्विति। अनन्तत्वादिना भगवतो नमस्कारादियोग्यत्वमुक्तम्॥३७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कस्माच्च ते न नमेरन् महात्मन् ! गरीयसे ब्रह्मणोऽप्यादिकर्त्रे। अनन्त ! देवेश ! जगन्निवास ! त्वमक्षरं सदसत् तत्परं यत् ॥३७॥
सिद्धानां समुदायाः कपिलादीनाम् , तच्च स्थाने॥३६॥
१भगवतो हर्षादिविषयत्वे हेतुं दर्शयति— कस्माच्चेति। कस्माच्च हेतोः ते तुभ्यं न नमेरन् न नमस्कुर्युः, हे महात्मन् ! गरीयसे गुरुतराय यतो ब्रह्मणो हिरण्यगर्भस्यापि आदिकर्ता कारणम् अतस्तस्माद् आदिकर्त्रे कथमेते न नमस्कुर्युः? अतो हर्षादीनां नमस्कारस्य च स्थानं त्वमर्हो विषय इत्यर्थः। हे अनन्त ! देवेश ! हे जगन्निवास ! त्वमक्षरं तत् परं यद् वेदान्तेषु श्रूयते। किं तत्? सदसदिति। २सद् विद्यमानम् , असच्च यत्र नास्तीति बुद्धिः। ते उपधानभूते सदसती यस्याक्षरस्य, यद्द्वारेण सदसदित्युपचर्यते। परमार्थतस्तु सदसतः परं तद् अक्षरम्। यदक्षरं वेदविदो वदन्ति तत् त्वमेव, नान्यदित्यभिप्रायः॥३७॥
१. ‘अतश्च भगवतः’ इति रा.पा.। २. ‘तत् सद् यद् विद्यमानम्’ इति पा.।
[[५४१]]
त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम्। वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप !॥३८॥
अविकारित्वाद् नित्यत्वात् सत्यत्वाच्च सदसद्वैलक्षण्यमक्षरस्य। यदक्षरमिति। ब्रह्मविद्भिः यद् वस्तु अक्षरत्वेन निर्णीयोच्यते, तद् वस्तु , ब्रह्मेति यावत् , त्वमेव। अन्यत्तु त्वन्न भवतीत्यर्थः। यत्तु रामानुजः— ‘अक्षरं जीवः स त्वमेव, सत् कार्यावस्थप्रकृतिस्त्वमेव, असत् कारणावस्थप्रकृतिस्त्वमेव, ताभ्यां प्रकृति- पुरुषाभ्यां परं मुक्तजीवस्वरूपं यत् तदपि त्वमेव’ इति। तन्मन्दम्। अनेकवाक्यकल्पनाया गौरवाद् , अप्रमाणत्वाच्च, ‘वायुर्यमः’ इति श्लोकार्थेन विभूतिनिर्देशेऽप्यन्यत्र तदभावेनात्रापि विभूतिनिर्देशकल्पनाया अनुचितत्वात् , स्वरूपकथनपरत्वादस्योत्तरश्लोकस्य च, बद्धात्ममुक्तात्मनोः स्वरूपैकत्वेन तद्भेदकल्पनस्यान्याय्यत्वाच्च॥३७॥
त्वमिति। त्वमादिदेवः पुराणः पुरुषोऽसि। त्वमस्य विश्वस्य परं निधानमसि। त्वं वेत्ताऽसि। त्वं वेद्यं च। त्वं परं धामासि। हे अनन्तरूप! त्वया विश्वं ततम्। देवानामादिः आदिदेवः, आदिश्चासौ देवश्चादिदेव इति वा। यो हि ब्रह्मादिस्तम्बपर्यन्तदेवमनुष्यादि- भेदभिन्नचराचरसर्वप्राणिजातस्याप्राणिजातस्य च जगतः स्रष्टा स आदिदेव ईश्वरः परमात्मा। अयमेव प्रत्यगात्माऽपीत्याह— पुराणः पुरुष इति। प्रत्यगात्माऽप्यनादिरेवेति सूचयितुमाह— चिरन्तन इति। न च परमात्मैक एवानादिरिति वाच्यम् ; परमात्मन एव सर्वव्यापिनः शरीरेषु प्रत्यग्रूपेण स्थितत्वादिति। नन्वस्य जगत्स्रष्टृत्वे जगन्नाशकः क इत्यत आह— त्वमस्येति। आदिपदादवान्तर- प्रलयसंग्रहः। सर्वं जगत् प्रलये स्वात्मन्युपसंहरतीति, लयहेतुरयमेवेत्यर्थः। अत्र जगत आत्मनि स्थितिकथनान्मध्येऽपि जगद् आत्मन्येव वर्तत इति स्थितिहेतुरप्ययमेवेति सिद्धम्। ननु २प्रपञ्चप्रलययोर्द्वयोरपि यदि जगदात्मन्येव वर्तते, तर्हि को भेदः प्रपञ्चप्रलययोरिति चेत्? उच्यते— प्रपञ्चदशायामात्मनि जगत् प्रविभक्तनामरूपं स्फुटं वर्तते। प्रलये तु नामरूपविभागानर्हं सूक्ष्मत्वादस्फुटं निलीय, सुषुप्तावात्मन्यन्तःकरणवदिति। वेत्तेति। सर्वसाक्षित्वेन सर्वज्ञत्वादिति भावः। वेद्यमिति। (ननु) घटादयो वेत्तुं शक्यत्वाद् वेद्याः, अयं तु वेत्तुं योग्यत्वाद् वेद्यः। संसारनिवर्तकत्वादस्य वेदनं योग्यम्। अत एव श्रुतिरपि – ‘तमेवैकं जानथ आत्मान’मिति वदति। तस्मादयमेक एव मुमुक्षुभिः ज्ञेयः संसारनाशायेत्याह— तदपीति। ब्रह्मापीत्यर्थः। तस्यैव वेदनार्हत्वात्। न चैकस्यैव ज्ञानक्रियायां कर्मकर्तृविरोधो वेत्तेति वेद्यमिति चेति सम्प्रति जगत्स्रष्टृत्वादिनाऽपि तद्योग्यत्वमस्तीति स्तुतिद्वारा दर्शयति— पुनरपीति। जगतः स्रष्टा पुरुषो हिरण्यगर्भ इति पक्षं प्रत्याह— पुराण इति। स्रष्टृत्वं निमित्तत्वमेवेति तटस्थेश्वरवादिनः, तान् प्रत्युक्तम्— त्वमेवेति। महाप्रलयादावित्यादिपदमवान्तर- प्रलयार्थम्। ईश्वरस्योभयथा कारणत्वं सर्वज्ञत्वेन साधयति— किञ्चेति। वेद्यवेदितृभावेनाद्वैतानुपपत्तिमाशङ्क्याह— यच्चेति। मुक्त्यालम्ब- नस्य ब्रह्मणोऽर्थान्तरत्वं शङ्कित्वोक्तम्—परं चेति। यत् परमं पदं तदपि च त्वमेवेति सम्बन्धः। तस्य पूर्णत्वमाह— त्वयेति। व्याप्यव्यापकत्वेन भेदं शङ्कित्वा, कल्पितत्वात् तस्य मैवमित्याह— अनन्तेति॥३८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
पुनरपि स्तौति— त्वमिति। त्वम् आदिदेवः, जगतः स्रष्टृत्वात् , पुरुषः पुरि शयनात् , पुराणः चिरन्तनः त्वमेवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयतेऽस्मिञ्जगत् सर्वं महाप्रलयादाविति। किञ्च वेत्ताऽसि वेदिताऽसि सर्वस्यैव वेद्यजातस्य। यच्च वेद्यं वेदनार्हं १तच्चासि, परं च धाम परमं पदं वैष्णवम्। त्वया ततं व्याप्तं विश्वं समस्तम् , हे अनन्तरूप ! अन्तो न विद्यते तव रूपाणाम्॥३८॥
अ. ११. श्लो. ३६-३८ ] १. ‘तदपि त्वम् , परं’ इति पा.। २. प्रपञ्चस्य स्थितिः प्रपञ्चपदेन गृह्यते।
[[५४२]]
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते॥३९॥
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ! । वाच्यम् ; जगतो वेत्ता, प्रमातृभिर्वेद्यश्चेत्यदोषात्। वैष्णवं विष्णोः परमात्मनः स्वरूपभूतं धाम तेजः स्थानमिति वा। पद्यते गम्यत इति पदं स्वरूपं, स्थानं वा। मुक्तजीवानां प्रवेशभूमित्वाद् ब्रह्मणः स्थानत्वव्यपदेशः॥३८॥
वायुरिति। वाय्वादयः प्रजापत्यन्ता विभूतयः। प्रपितामह इति माहात्म्यकथनम्। तत्र पितामहस्तु विभूतिरेव। यदि तु ब्रह्मा यन्नाभिकमलात्प्रसूतः स पद्मनाभो विग्रहविशेष इह विवक्षित इत्युच्येत, तर्हि प्रपितामहः पद्मनाभोऽपि विभूतिरेव। ब्रह्मणि तस्यापि कल्पितत्वात्। ननु सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्प्रत्ययस्य विहितत्वात् , सहस्रकृत्वः इत्यनेन बहुशो नमस्कारक्रियाभ्यावृत्तेरुक्त- त्वात् पुनश्च भूयोऽपीत्यादिर्व्यर्थ इत्याशङ्क्य समाधत्ते— बहुश इति। यद्यपितथाप्योः शेषः। यद्यपि बहुशो नमस्कारक्रियाभ्यावृत्तिगणनं कृत्वसुचा उच्यते, तथापि पुनश्च भूयोऽपीति श्रद्धाभक्त्यतिशयादात्मनोऽपरितोषं दर्शयति। यद्वा श्रद्धाभक्त्यतिशयाद् उच्यत इति शेषः। तेन चात्मनोऽपरितोषं दर्शयतीति। अपरितोषं नमस्कारक्रियायामसन्तुष्टिम्। तृप्त्यभावमिति यावत्। बहुवारं नमस्कुर्वतोऽप्यर्जुनस्य पुनःपुनस्तं नमस्कुर्यामित्येव बुद्धिरास, तृप्त्यभावाद् , यथा वा बहुवारं प्रेक्षमाणस्यापि कामिनीं कामुकस्य पुनः पुनस्तां पश्येयमित्येव बुद्धिः, तद्वदिति भावः॥३९॥
नम इति। पृष्ठतः पश्चिमदिशीत्यर्थः। हे सर्व! ते सर्वत एव नमोऽस्तु। पूर्वपश्चिमातिरिक्तदिक् षट्कग्रहणं सर्वतःशब्दादिह। हे तस्य सर्वात्मत्वे हेत्वन्तरमाह— किञ्चेति। कश्यपादिरित्यादिशब्देन विराड् दक्षादयो गृह्यन्ते। पितामहो ब्रह्मा, तस्य पिता सूत्रात्माऽन्तर्यामी चेत्याह— ब्रह्मणोऽपीति। सर्वा देवतास्त्वमेवेत्युक्ते फलितमाह— नम इति। सहस्रकृत्वः इति कृत्वसुचो विवक्षित- मर्थमाह— बहुश इति। पुनरुक्तितात्पर्यमाह— पुनश्चेति। श्रद्धाभक्त्योरतिशयात् कृतेऽपि नमस्कारे परितोषाभावो बुद्धेः आत्मनो ऽलम्प्रत्ययराहित्यम् । तद्दर्शनार्थं पुनरुक्तिरित्यर्थः॥३९॥
विधान्तरेण भगवन्तं स्तुत्या नमस्कुर्वन्नभिमुखीकरोति— तथेति। यस्यां दिशि सवितोदेति सा पूर्वा दिगुच्यते। तस्यां
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्च— वायुरिति। वायुस्त्वं, यमश्च, अग्निः, वरुणः अपाम्पतिः, शशाङ्कः चन्द्रमाः, प्रजापतिस्त्वं कश्यपादिः, प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पितेत्यर्थः। नमो नमः ते तुभ्यम् अस्तु सहस्रकृत्वः, पुनश्च भूयोऽपि नमो नमस्ते। बहुशः नमस्कारक्रियाभ्या(सा)वृत्तिगणनं कृत्वसुचोच्यते। पुनश्च भूयोऽपीति श्रद्धाभक्त्यतिशयाद् अपरितोषमात्मनो दर्शयति॥३९॥
तथा— नम इति। नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम् , अथ पृष्ठतस्ते पृष्ठतोऽपि च ते नमोऽस्तु ते सर्वत सहस्रकृत्व इति कृत्वसुचः प्रत्ययार्थमाह—[बहुश इति।] आवृत्तिगणनं कृत्वसुच्प्रत्ययेनोच्यते, [‘संख्यायाः] क्रियाभ्यावृत्तिगणने कृत्वसुच्’ इति पाणिनिस्मरणादित्यर्थः॥३९॥
इति श्रीगीताभाष्यटिप्पणे एकादशोऽध्यायः॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[५४३]]
एव सर्वासु दिक्षु सर्वत्र स्थिताय, हे सर्व ! अनन्तवीर्यामितविक्रमः- अनन्तं वीर्यमस्य, अमितो विक्रमोऽस्य; वीर्यं सामर्थ्यम्। विक्रमः पराक्रमः; वीर्यवानपि कश्चिच्छत्रुवधादिविषये न पराक्रमते, मन्दपराक्रमो वा; त्वं त्वनन्तवीर्यः अमितविक्रमश्चेत्यनन्तवीर्यामितविक्रमः, सर्वं समस्तं जगत् समाप्नोषि सम्यग् एकेनात्मना व्याप्नोषि यतः १ततः तस्माद् असि भवसि सर्वः। त्वया विनाभूतं न किञ्चिदस्तीत्यर्थः॥४०॥
यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराद्धः२, अतः— सखेति। सखा समानवयाः इति मत्वा ज्ञात्वा विपरीत- बुद्ध्या प्रसभम् अभिभूय प्रसह्य यदुक्तम्— ‘हे कृष्ण ! हे यादव ! हे सखे’ति च, अजानता अज्ञानिना मूढेन। किमजानतेत्याह— महिमानं माहात्म्यं तव इदम् ईश्वरस्य विश्वरूपम्। तवेदं महिमानमजानतेति ३वैयधिकरण्येन सर्व! सर्वात्मकेत्यर्थः। सर्वतः स्थितायेति शेषः। ते नम इति वा अन्वयः। ननु कुतोऽहं सर्वः? अत आह— अनन्तेति। यत इति शेषः। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि तत् सर्वोऽसि। अनन्तं वीर्यं यस्य सोऽनन्तवीर्यः। अमितो विक्रमो यस्य सोऽमितविक्रमः। द्वयोः कर्मधारयः। अमितविक्रमपदवैयर्थ्यं वारयति— वीर्यवानपीति। मन्दपराक्रमो वा भवेदिति शेषः। एकेनात्मनेति। स्वस्वरूपेणेत्यर्थः। चैतन्यरूपेणेति यावत्। व्याप्नोषीति। चैतन्यस्य सर्वव्यापित्वादिति भावः। आत्मभूतेन त्वया सर्वस्य व्याप्तत्वेन सर्वात्मा त्वं सर्वशब्दवाच्योऽसीत्यर्थः। अत इति। सर्वव्यापित्वात् तवेत्यर्थः॥४०॥
सखेति। अपराद्ध इति। अपराधं कृतवानस्मि। इदमित्यस्य महिमानमित्यस्य च क्लीबपुंस्त्वभेदेन भिन्नलिङ्गत्वादाह— वैयधिकरण्येनेति। इदम् विश्वरूपं तव त्वदीयं भवति। तं विश्वरूपत्वाख्यं महिमानमजानतेति इदम्महिमपदयोः वैयधिकरण्येन सम्बन्धः। तवेदं विश्वरूपं तदेव महिमानमिति व्यस्तरूपके तु सामानाधिकरण्यमपि सिध्येदेवेति बोध्यम्। तवेदं महिमानमजानता मया सखेति मत्वा प्रमादात् प्रणयेन वाऽपि प्रसभं हे कृष्ण! हे यादव! हे सखे ! इति यदुक्तम् । हे सखे इतीत्यत्र हे सख इति [इति] भवितव्ये हे सखेति [इति] वचनमार्षम्। सामानाधिकरण्यमिति। इदम्महिमशब्दयोरेकाश्रयवृत्तित्वम्। इमं महिमानमिति पदयोः व्यवस्थितं सर्वं त्वमेव। तस्मै ते तुभ्यं नमोऽस्त्वित्याह— नम इति। अथशब्दः समुच्चये। पश्चादपि स्थितं सर्वं त्वमेव। तस्मै ते तुभ्यं नमोऽस्त्वित्याह— अथेति। किं बहुना? यावत्यो दिशस्तत्र सर्वत्र यद् वर्तते तदशेषं त्वमेव। तस्मै तुभ्यं प्रह्वीभावः स्यादित्याह— नमोऽस्त्विति। फलितं सर्वात्मत्वं सूचयति— हे सर्वेति। वीर्यविक्रमयोर्न पौनरुक्त्यमित्याह— वीर्यमित्यादिना। वीर्यवतो विक्रमा- व्यभिचाराद् अर्थपौनरुक्त्यमाशङ्क्याह—वीर्यवानिति। भगवति लोकतो विशेषमाह—त्वं त्विति। उक्तं सर्वात्मत्वं प्रपञ्चयति— सर्वमिति। सप्रपञ्चत्वं वारयति— त्वयेति॥४०॥
अज्ञाननिमित्तमपराधं क्षमापयति— यत इति। इदंशब्दार्थमाह— विश्वरूपमिति। न हि इदमित्यस्य महिमानमित्यस्य च सामानाधिकरण्यं, लिङ्गव्यत्ययादित्याह— तवेति। पाठान्तरसम्भावनायां सामानाधिकरण्योपपत्तिमाह— तवेत्यादिना। यदुक्तवानस्मि तदहं क्षामये त्वामिति सम्बन्धः॥४१॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥४०॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण! हे यादव! हे सखेति। अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि॥४१॥
अ. ११. श्लो. ३९-४१ ] १. ‘अतः’ इति रा.पा. भाति। २. ‘अपराधी’ इति पा.। ३. इदं विश्वरूपं तव महिमानम् अजानता इति योजना। इदमिति न साक्षान्महिमविशेषणमिति भावः।
[[५४४]]
सम्बन्धः। ‘तवेमम्’ इति पाठो यद्यस्ति तदा सामानाधिकरण्यमेव। मया प्रमादाद् विक्षिप्तचित्ततया, प्रणयेन वाऽपि। प्रणयो नाम स्नेहनिमित्तो १विश्रम्भः, तेनापि कारणेन यदुक्तवानस्मि॥ ४१॥
यच्चेति। यच्च अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि। क्व? विहारशय्यासनभोजनेषु —विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनमित्येतेषु विहारशय्यासन- भोजनेषु एकः परोक्षः सन् असत्कृतोऽसि परिभूतोऽसि, अथवाऽपि हे अच्युत ! तत् समक्षम्। तच्छब्दः क्रियाविशेषणार्थः। प्रत्यक्षं वाऽसत्कृतोऽसि, तत् सर्वमपराधजातं क्षामये क्षमां कारये त्वामहम् अप्रमेयं प्रमाणातीतम् ॥४२॥
यतस्त्वम्— पिताऽसीति। पिताऽसि जनयिताऽसि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य। न विशेषणविशेष्यभावेनान्वय इति यावत्। प्रमादोऽनवधानता, चित्तैकाग्र्याभाव इत्याह— विक्षिप्तचित्ततेति। प्रविलम्भो वञ्चना। मया यदुक्तमिति कर्मणिप्रयोगं कर्तरिप्रयोगेण विनिमयति— यदुक्तवानस्मीति। अहमिति शेषः॥ ४१॥
यच्चेति। मयैकः सन् त्वमपहासार्थं विहारशय्यासनभोजनेषु असत्कृतोऽसीति यच्च, अथवा, हे अच्युत ! तत्समक्षम् असत्कृतोऽसीति यत् , तत् समस्तम् अप्रमेयं त्वामहं क्षामये। आस्थायिका उपवेशनम्। समक्षमिति वक्ष्यमाणत्वादेकशब्दः परोक्षवाचीत्याह— एकः परोक्ष इति। एकत्वस्यैव परोक्षत्वप्रयोजकत्वादिति भावः। गृहे स एको वर्तत इत्यनेन गृहवर्तिपुरुषस्य पुरुषान्तरप्रत्यक्षत्वाभावो ह्येकत्वेन सूच्यते। द्वयोः सत्त्वे तु परस्परं प्रत्यक्षत्वं स्यादित्येकत्वमेव परोक्षत्वप्रयोजकम्। तदित्यस्य तथेत्यर्थ इत्याह— क्रियाविशेषणेति। अप्रमेयम् अपरिच्छिन्नम्। यन्मया प्रणयादिना लाघवाद् , हे यादवेत्यादिकमुक्तम् , यच्च मया विहारादिषु तव पारोक्ष्ये परिहासार्थम् असत्कृतं, यच्च तव समक्षम् असत्कृतं तत् सर्वं क्षमस्वेति त्वां प्रार्थय इत्यर्थः॥ ४२॥
पितेति। ननु त्वादृश एवाहमपीति किं मत्क्षमाप्रार्थनया तवेत्यत आह— पितेति। त्वं चराचरस्यास्य लोकस्य पिताऽसि, पूज्यश्चासि, गरीयान् गुरुश्चासि। हे अप्रतिमप्रभाव! लोकत्रयेऽपि त्वत्समो न ह्यस्ति। अभ्यधिकोऽन्यः कुतः?। अतिशयेन गुरुः गरीयान् गुरूणामपि गुरुरित्यर्थः। गुरुर्गरीयानित्यस्य गुरूणामपि ये गुरवो ब्रह्मादयस्तेषामपि गुरुः परमगुरुः, यस्येतरो गुरुर्नास्ति स इत्यर्थः। चतुर्मुखस्यापि वेदोपदेष्टृत्वादिति भावः। यद्वा अतिशयेन महत्तरः, ‘महतो महीयान्’ इति श्रुतेः। यदयुक्तमुक्तं तत् क्षन्तव्यमित्येव न, किन्तु यत् परीहासार्थं क्रीडादिषु त्वयि तिरस्करणं कृतं तदपि सोढव्यमित्याह— यच्चेति। विहरणं क्रीडा व्यायामो वा। शयनं तल्पादिकम्। आसनम् आस्थायिका सिंहासनादेरुपलक्षणम्। एतेषु विषयभूतेष्विति यावत्। एकशब्दो रहसि स्थितमेकाकिनं कथयतीत्याह—परोक्षः सन्निति। प्रत्यक्षं परोक्षं वा तद् असत्करणं परिभवनं यथा स्यात् तथा यन्मया त्वमसत्कृतोऽसि, तत् सर्वमिति योजनामङ्गीकृत्याह—तच्छब्द इति। क्षमा कारयितव्येत्यत्रापरिमितत्वं हेतुमाह—अप्रमेयमिति॥४२॥
२वाचनिकं मदीयमपराधजातं त्वया क्षन्तव्यमित्युक्तम्। इदानीं मदीयोऽपराधो न त्वया ग्रहीतव्यः, गृहीतोऽपि सोढव्यः इत्याह— यत इति। गुणाधिक्यात् पूजार्हत्वम्। धर्माधर्मात्मज्ञानसम्प्रदायप्रवर्तकत्वेन शिक्षयितृत्वाद् गुरुत्वम्। गुरूणामपि ३सूत्रादीनां
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाप्यच्युत! तत् समक्षं तत् क्षामये त्वामहमप्रमेयम्॥४२॥
पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। १. ‘प्रविलम्भो’ इति रा.पा. भाति। ‘विप्रलम्भो’ इति स्यात्। २.‘वाचनिकं…इत्याह— यत इति।’ इति क्वचिन्न दृश्यते। ३. सूत्रादीनां हिरण्यगर्भादीनामित्यर्थः।
[[५४५]]
न त्वत्सम इति। ननु कुतो मत्समो नास्ति, ब्रह्मविष्णुरुद्राणां त्रयाणां परस्परं समत्वाद् , अत आह— न हीति। ईश्वरस्य किमीश्वरान्तरं समः? यद्वा जीवः? नाद्यः, ईश्वरद्वयाभावात् ; नान्त्यः, जीवस्यासर्वज्ञत्वादसर्वकर्तृत्वादिभ्यश्च। तस्मादसम एवेश्वरः। ब्रह्मविष्णुरुद्रनामभिस्तु स एक एवेश्वरो व्यवह्रियते, चतुर्मुखरुद्रौ तु जीवावेव। एक एव विष्णुर्मायी मायावच्छिन्नचैतन्यलक्षण ईश्वरः। अतो नास्य समं वस्त्वस्ति। ननु ब्रह्मविष्णुरुद्रगणपतिकुमारवाय्वादित्यमहेन्द्रादयोऽनेके ईश्वराः सन्तु, को दोषः? तत्राह— अनेकेति। यदि बहवः ईश्वरास्तर्हि एकस्य यदा सृष्टीच्छा, तदैवान्यस्य संहारेच्छा स्यात्। न चेष्टापत्तिः, प्रपञ्चस्यैवासम्भवप्रसङ्गात्। तथा च प्रपञ्चसृष्ट्यादिसर्वव्यवहाराणामनुपपत्तिः स्यात्। न[ननु] चैवमेकेश्वरत्वे कथं चतुर्मुखादीनां बहूनामीश्वरत्वव्यवहार इति चेत्? उच्यते। तत्तच्चतुर्मुखादिशरीरावच्छिन्नसर्वज्ञ- चैतन्यदृष्ट्येति। ये तु चतुर्मुखादिसङ्घातेऽहमभिमानिनस्ते जीवा एव, यस्तेषामान्तरः कूटस्थः स त्वीश्वरः। स चैक एवेति चतुर्मुखादीनां कूटस्थदृष्ट्या ईश्वरत्वं, सङ्घाताभिमानिप्रमातृदृष्ट्या तु जीवत्वमिति भावः। न चैवं सर्वेऽपि चैतन्यदृष्ट्या ईश्वरा एवेति वाच्यम् ; इष्टापत्तेः। चैतन्यमेव हि सर्वत्रापीश्वर इति, साक्षीति, कूटस्थ इति, आत्मेति चोच्यते। अत एव हि सर्वात्मत्वमीश्वरस्य। प्रतिमीयत इति। सदृशीक्रियत इत्यर्थः। प्रतिमा उपमेत्यर्थः। उपमानमिति यावत्। एवमप्रतिमप्रभावत्वादेव ईश्वरस्य निरतिशयत्वं, सर्वातिशयत्वं च॥४३॥
तस्मादिति। यस्मादेवं सर्वोत्कृष्टस्त्वं तस्मादित्यर्थः। तस्मात् प्रणम्य, कायं प्रणिधाय, ईशमीड्यं त्वामहं प्रसादये। हे देव! पुत्रस्यापराधं पितेव, सख्युरपराधं सखेव, प्रियायाः अपराधं प्रिय इव ममापराधं सोढुमर्हसि। ‘प्रियाया अर्हसी’ति पठितव्ये ‘प्रियायार्हसी’त्यकारलोपपाठ आर्षः। त्वां प्रसादये त्वत्प्रसादं प्रार्थयामीत्यर्थः। प्रसादः प्रसन्नता। पितेत्यादिदृष्टान्तत्रयं साभिप्रायम्। अ(यम)भिप्रायश्च— जगतः स्रष्टृत्वात् पालकत्वाच्चेश्वरस्य पितृत्वम् , कार्यत्वात् पाल्यत्वाच्चार्जुनस्य पुत्रत्वम्। तथा करणप्रेरकत्वादिना ईश्वरस्य सर्वभूतसखत्वात् सखित्वम् , अर्जुनस्य च तत्प्रीतिकारित्वात् सखित्वम्। निरतिशयप्रेमास्पदत्वाद् आनन्दमयेश्वरस्य प्रियत्वम् , तत्परतन्त्रत्वादर्जुनस्य प्रियात्वमिति। एवं च पितृत्वात् सखित्वात् गुरुत्वाद् गरीयस्त्वम्। तदेव प्रश्नद्वारा साधयति— कस्मादिति। ईश्वरान्तरं तुल्यं भविष्यतीत्याशङ्क्याह— न हीति। ईश्वरभेदे प्रत्येकं स्वातन्त्यात् तदैकमत्ये हेत्वभावात् , नानामतित्वे चैकस्य सिसृक्षायामन्यस्य सञ्जिहीर्षासम्भवाद् व्यवहारलोपादयुक्तमीश्वरनानात्वमि- त्यर्थः। अभ्यधिकासत्त्वं कैमुतिकन्यायेन दर्शयति— त्वत्सम इति। तत्र हेतुमवतार्य व्याकरोति— अप्रतिमेत्यादिना॥४३॥
१निरतिशयप्रभावं हेतूकृत्याप्रतिमेत्यादिना, प्रसादये प्रणामपूर्वकं त्वामित्याह—यत इति। प्रसादनानन्तरं भगवता कर्तव्यं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
केवलं त्वमस्य जगतः पिता, पूज्यश्च पूजार्हो यतो गुरुः, गरीयान् गुरुतरः। कस्माद् गुरुतरस्त्वमित्याह— न (च) त्वत्समः त्वत्तुल्यः अन्योऽस्ति। न हीश्वरद्वयं सम्भवति, अनेकेश्वरत्वे व्यवहारानुपपत्तेः। त्वत्सम एव तावदन्यो न सम्भवति, कुत एवान्योऽभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन्? अप्रतिमप्रभाव! प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वमप्रतिमप्रभावः, हे अप्रतिमप्रभाव ! निरतिशयप्रभावेत्यर्थः॥४३॥
यत एवम्— तस्मादिति। तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैर्धृत्वा कायं शरीरं प्रसादये न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव!॥४३॥
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्। अ. ११. श्लो. ४१-४४ ] १. ‘निरतिशयप्रभावत्वं हेतुं कृत्वा प्रतिप्रसादये’ इति पा.।
[[५४६]]
प्रसादं कारये त्वामहम् ईशम् ईशितारम् ईड्यं स्तुत्यम्। त्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते सर्वम् , सखेव च सख्युरपराधम् , यथा वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि, हे देव ! सोढुं प्रसहितुं क्षन्तुमित्यर्थः॥४४॥
अदृष्टेति। अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वमिदं विश्वरूपं तव मयाऽन्यैर्वा, तदहं दृष्ट्वा हृषितोऽस्मि, भयेन च प्रव्यथितं मनो मे। अतस्तदेव मे मम दर्शय, हे देव ! रूपं यद् मत्सखम्। प्रसीद देवेश ! जगन्निवास ! जगतो निवासो जगन्निवासः, हे जगन्निवास !॥४५॥
किञ्च— किरीटिनमिति। किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुमहं तथैव पूर्ववदित्यर्थः। यत एवं तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन, सहस्रबाहो ! वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते ! उपसंहृत्य विश्वरूपं तेनैव रूपेण वसुदेवपुत्ररूपेण भवेत्यर्थः॥४६॥
प्रियत्वाच्च त्वं ममापराधं क्षन्तुमर्हसीति। अत्र - प्रियस्त्वं १प्रियाय मे इति रामानुजव्याख्या। न युक्ता सा, पितेव पुत्रस्येति दृष्टान्तानुरोधेन २प्रियस्य ममेति वक्तव्यत्वात्। न च - मे प्रियाय मम प्रीत्यर्थमित्यर्थ इति - वाच्यम् ; तथापि दृष्टान्ताननुरोधात्। न च दृष्टान्तेऽपि पुत्रस्य प्रियाय पितेवेति वाच्यम् ; पुत्रस्य प्रियाय पुत्रस्यापराधं पितेवेति पुत्रशब्दस्यावृत्तिप्रसङ्गात्। स्वप्रीत्यर्थमेव पिता पुत्रापराधं सहते, न तु पुत्रप्रीत्यर्थमिति सिद्धान्तात्। ‘आत्मनस्तु कामाय सर्वं प्रियं भवती’ति श्रुतेः॥४४॥ अदृष्टेति। हृषितो हृष्टः॥४५॥
किरीटिनमिति। अहं तथैव किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुमिच्छामि। हे सहस्रबाहो! विश्वमूर्ते! तेनैव चतुर्भुजेन रूपेणो- पलक्षित इति शेषः। भव। यद्यपि वसुदेवपुत्ररूपं द्विभुजमेव, तथापि चतुर्भुजत्वस्य कादाचित्कत्वात् तत्रापि तथोक्तमिति बोध्यम् ॥४६॥
प्रार्थयते— त्वं पुनरिति। प्रिय इव प्रियायाः इतीवकारोऽनुषज्यते। प्रियायार्हसीति छान्दसः सन्धिः। क्षन्तुं मदपराधजातमिति शेषः ॥४४॥
हेतूक्तिपूर्वकं विश्वरूपोपसंहारं प्रार्थयते— अदृष्टेति। हृषितो हृष्टस्तुष्ट इति यावत्। भयेन तद्धेतुविकृतदर्शनेनेत्यर्थः॥ ४५॥
तदेव दर्शयेत्युक्तम् , किं तदित्यपेक्षायामाह—किरीटिनमिति। चक्रं हस्ते यस्य तमिति व्युत्पत्तिं गृहीत्वाऽऽह—चक्रेति। मदीयेच्छा फलपर्यन्ता कर्तव्येत्याह— यत इति। चतुर्भुजत्वे कथं सहस्रबाहुत्वम्? तत्राह— वार्तमानिकेनेति। सति विश्वरूपे कथं पूर्वरूपभाक्त्वम्? तत्राह— उपसंहृत्येति॥४६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव! सोढुम्॥४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव ! रूपं प्रसीद देवेश ! जगन्निवास !॥४५॥
किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो ! भव विश्वमूर्ते !॥४६॥
१. ‘प्रियायार्हसि’ इत्यत्र प्रियायेति चतुर्थ्यन्ततया तन्मते पदच्छेदः। २. ‘पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियस्यार्हसि’ इति हि तथा सति वक्तव्यम्।
[[५४७]]
अर्जुनं भीतमुपलभ्य उपसंहृत्य विश्वरूपं प्रियवचनेनाश्वासयन् श्रीभगवानुवाच— मयेति। मया प्रसन्नेन— प्रसादो नाम त्वय्यनुग्रहबुद्धिः, तद्वता प्रसन्नेन मया तव, हेऽर्जुन ! इदं परं रूपं विश्वरूपं दर्शितम् आत्मयोगाद् आत्मन ऐश्वर्यस्य सामर्थ्यात् , तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितम् आदौ भवम् आद्यं यद् रूपं मे मम त्वदन्येन त्वत्तोऽन्येन केनचिन्न दृष्टपूर्वम्॥४७॥
आत्मनो मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्तः इति तत् स्तौति— न वेदेति। न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानामध्ययनैः यथावद् यज्ञाध्ययनैश्च। वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथग् यज्ञाध्ययनग्रहणं यज्ञविज्ञानो- पलक्षणार्थम्। तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः, नापि तपोभिरुग्रैः चान्द्रायणादिभिः २उग्रैः घोरैः एवंरूपो यथादर्शितं विश्वरूपं यस्य सोऽहमेवंरूपः शक्यो न शक्योऽहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तोऽन्येन, कुरुप्रवीर !॥४८॥
मयेति। हे अर्जुन! प्रसन्नेन मया आत्मयोगात् तवेदं तेजोमयं विश्वमनन्तमाद्यं परं तद्रूपं दर्शितम्। मे यद्रूपं त्वदन्येन न दृष्ट- पूर्वम्। आत्मयोग ईश्वरसामर्थ्यं, तस्मात्॥४७॥
नेति। हे कुरुप्रवीर! नृलोके एवंरूपोऽहं त्वदन्येन द्रष्टुं वेदयज्ञाध्ययनैर्न शक्यः, दानैर्न शक्यः, क्रियाभिश्च न शक्यः, उग्रैस्तपोभिर्न शक्यः। मनुष्याणां तपआदिभिर्मद्विश्वरूपसाक्षात्कारो न स्यात्। तवैकस्यैव मदनुग्रहाज्जातः। एवं यतस्ततस्त्वं कृतार्थ एव जात इति भावः। ननु वेदाध्ययनादेव वेदगतयज्ञभागाध्ययनमपि सिद्धमिति किमर्थं पृथग् यज्ञाध्ययनमुक्तमित्याशङ्क्य , यज्ञविज्ञानोपलक्षणार्थं तदिति परिहरति— वेदाध्ययनैरेवेति। यज्ञानां विशेषेण ज्ञानं विज्ञानं तस्योपलक्षणार्थमिति। वेदाध्ययनैः, यज्ञविज्ञानैश्चेत्यर्थः। यज्ञविज्ञानं नाम यथा यथा यज्ञाः कर्तव्यास्तथा तथा तद्विशेषज्ञानम्। नृशब्दग्रहणाद् देवानां ब्रह्मादीनामेवेदं विश्वरूपं द्रष्टुं शक्यमिति ज्ञायते॥४८॥
श्रीभगवानुवाच— मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥४७॥
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य१ अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥४८॥
अर्जुनेन ‘स्थाने हृषीकेशे’त्यादिनोक्तस्य भगवतो वचनमवतारयति— अर्जुनमिति। भगवत्प्रसादैकोपायलभ्यं तद्दर्शनमित्या- शयेनाह— मयेति॥४७॥
तच्छब्देन प्रकृतं दर्शनं परामृश्यते। वेदाध्ययनात् पृथग् यज्ञाध्ययनग्रहणं पुनरुक्तेरयुक्तमित्याशङ्क्याह— न वेदेति। न च वेदाध्ययनग्रहणादेव यज्ञविज्ञानमपि गृहीतमध्ययनस्यार्थावबोधान्तत्वादिति वाच्यम् ; तस्याक्षरग्रहणान्ततया ३वृद्धैः साधितत्वादिति भावः। श्लोकपूरणार्थमसंहितकरणम्। त्वत्तोऽन्येन मदनुग्रहविहीनेनेति शेषः॥४८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. शक्य अहमिति सन्धिरार्षः। २. क्वचिन्न। ३. पञ्चपादिकाविवरणादौ अध्ययनविधेः अक्षरग्रहणपर्यन्तत्वं साधितम्। द्र.पं.वि.तृतीयवर्णकम्।
[[अ. ११. श्लो. ४४-४८]] [[५४८]]
मा ते व्यथेति। मा ते व्यथा मा भूत् ते भयम् , मा च विमूढभावो विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृग् यथादर्शितं ममेदम्। व्यपेतभीः विगतभयः प्रीतमनाश्च सन् पुनः भूयः त्वं तदेव [मे] चतुर्भुजं शङ्खचक्रगदाधरं तवेष्टं रूपमिदं प्रपश्य ॥४९॥
इत्यर्जुनमिति। इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनमुक्त्वा स्वकं वसुदेवगृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः। आश्वासयामास च आश्वासितवांश्च भीतमेनं भूत्वा पुनः सौम्यवपुः प्रसन्नदेहो महात्मा॥५०॥
दृष्ट्वेदमिति। दृष्ट्वेदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं, जनार्दन ! इदानीम् अधुना अस्मि संवृत्तः सञ्जातः। किम्? सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्चास्मि॥५१॥
मेति। ईदृग्घोरं ममेदं रूपं दृष्ट्वा ते व्यथा मास्तु। विमूढभावश्च मास्तु। त्वं व्यपेतभीः प्रीतमनाश्च सन् तदेवेदं मे रूपं प्रपश्य प्रकर्षेण पश्य॥४९॥
इतीति। वासुदेवः इति तथा अर्जुनं प्रत्युक्त्वा, भूयः स्वकं रूपं दर्शयामास। महात्मा पुनः सौम्यवपुर्भूत्वा भीतमेनम् आश्वासयामास च। महात्मा वासुदेव इति वा॥५०॥
दृष्ट्वेति। हे जनार्दन ! इदानीं तव सौम्यं मानुषमिदं रूपं दृष्ट्वा सचेताः प्रकृतिं गतः संवृत्तोऽस्मि॥५१॥
विश्वरूपदर्शनमेवं स्तुत्वा यद्यस्माद् दृश्यमानाद् बिभेषि, तर्हि तदुपसंहरामीत्याह— मा ते व्यथेति। १बहुविधमनुभूतत्वमभि- प्रेत्य ईदृगित्युक्तम्। इदमिति प्रत्यक्षयोग्यत्वम्।२॥४९॥
तदिदं वृत्तं राज्ञे सूतो निवेदितवानित्याह— सञ्जय इति। तथाभूतं वचनं मया प्रसन्नेनेत्यादि। चतुर्भुजं रूपम्। किं तस्य रूपस्य परिचितपूर्वस्य प्रदर्शनेन? [तत्राह—आश्वासयामासेति।] प्रसन्नदेहत्वेन चार्जुनं प्रत्याश्वासनं भगवतो युक्तमित्यत्र हेतुमाह—महात्मेति ॥५०॥
एवं भगवदाश्वासितः सन्नर्जुनस्तं प्रत्युक्तवानित्याह— अर्जुन इति॥५१॥
१. ‘बहुतिथमनुभूतत्वमभिप्रेत्य तदेवेत्युक्तम्’ इति पा.। २. एतदुत्तरं ‘तदेवेत्युक्तम् इदमिति’ इति पाठः क्वचित्। तत्र - ‘तदेवेत्युक्तं विवृणोति— चतुर्भुजमिति।’ इति पाठः संभाव्यते।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ् ममेदम्। व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥४९॥
सञ्जय उवाच— इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥५०॥
अर्जुन उवाच— दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन! । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥५१॥
[[५४९]]
श्री भगवानुवाच— सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥५२॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥५३॥
भक्त्या त्वनन्यया शक्य१ अहमेवंविधोऽर्जुन ! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप !॥५४॥
सुदुर्दर्शमिति। त्वं यन्मम रूपं [दृष्टवानसि,] तदिदं रूपम् , नृणामिति शेषः, सुदुर्दर्शम्। यतो देवा अपि नित्यमस्य रूपस्य दर्शनकाङ्क्षिणः२ ॥५२॥
नेति। त्वं मां यथा दृष्टवानसि तथा द्रष्टुमेवंविधोऽहं देवैर्न [वेदैर्न] शक्यः। तथा एवंविधोऽहं वेदैर्द्रष्टुं न शक्य इति वा। तपसा न शक्यः, दानेन न शक्यः, इज्यया च न शक्यः॥ ५३॥
भक्त्येति। हे परन्तप! अर्जुन! एवंविधोऽहं ज्ञातुं द्रष्टुं तत्त्वेन प्रवेष्टुं च, ज्ञातुं तत्त्वेन द्रष्टुं प्रवेष्टुं चेति वा, तत्त्वेन ज्ञातुं द्रष्टुं प्रवेष्टुं चेति वा। अनन्यया भगवदेकपरयेत्यर्थः। भगवद्भक्तानां भगवदनुग्रहाद् भगवद्विश्वरूपपरिज्ञानदर्शने मोक्षश्च इत्येते भवन्ति। न तु वैदिकास्तपस्विनो दातारः सोमयाजिनो वा मद्रूपज्ञानादौ प्रभवन्तीति परमार्थः। तत्त्वेनेति। यथावदित्यर्थः। उपास्यत्वाय विश्वरूपं स्तोतुं भगवदुक्तिमुत्थापयति— भगवानिति। त्वद्व्यतिरिक्तानामिदं रूपं द्रष्टुमशक्यमित्येतद् विशदयति— देवा अपीति॥ ५२॥
दर्शनोपायाभावाद् दुर्दर्शत्वमिति शङ्क्यते— कस्मादिति। वेदादिषूपायेषु सत्स्वपि भगवानुक्तरूपो न शक्यो द्रष्टुमित्याह—नाह- मिति। तर्हि दर्शनायोग्यत्वाद् द्रष्टुमशक्यत्वमित्याशङ्क्याह— दृष्टवानिति॥ ५३॥
केनोपायेन तर्हि द्रष्टुं शक्यो भगवानिति पृच्छति— कथमिति। शास्त्रीयज्ञानद्वारा तद्दर्शनं सफलं सिध्यतीत्याह— उच्यत इति। न भक्तिमात्रं तत्र हेतुरिति तुशब्दार्थं स्फुटयति— किमित्यादिना। अनन्यां भक्तिमेव व्यनक्ति— सर्वैरिति ॥५४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सुदुर्दर्शमिति। सुदुर्दर्शं सुष्ठु दुःखेन दर्शनमस्येति सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम, देवा अप्यस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणो दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तः, न द्रक्ष्यन्ति चेत्यभिप्रायः॥५२॥
कस्मात्?— नाहमिति। नाहं वेदैः ऋग्यजुःसामाथर्ववेदैश्चतुर्भिरपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च इज्यया यज्ञेन पूजया वा शक्यः एवंविधो यथादर्शितप्रकारो द्रष्टुम् , दृष्टवानसि मां यथा त्वम्॥ ५३॥
कथं पुनः शक्य इति? उच्यते— भक्त्येति। भक्त्या तु , किंविशिष्टयेत्याह— अनन्यया अपृथग्भूतया, भगवतो ऽन्यत्र पृथग् न कदाचिदपि या भवति सा त्वनन्या भक्तिः, सर्वैरपि करणैर्वासुदेवादन्यन्नोपलभ्यते यया साऽनन्या अ. ११. श्लो. ४९-५४ ] १. सन्धिरार्षः। २. तथा च मनुष्याणां सुदुर्दर्शत्वं कैमुतिकन्यायसिद्धमिति भावः।
[[५५०]]
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव !॥५५॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः॥११॥
ननु केऽमी भक्ताः? कीदृशममीभिर्दृश्यं विश्वरूपमिति चेत्? उच्यते— ईश्वरं परोक्षत्वेन ये प्रपद्यन्ते, आत्मत्वेन प्रपद्यन्ते ये, ते च द्विविधा अपि भक्ता इहोच्यन्ते। तत्रात्मतत्त्वविदो ‘मायिकमिदं विश्वरूप’मिति विलासार्थं तत् पश्यन्ति। परोक्षेश्वरज्ञास्तु विश्वरूपमत्यद्भुतं भगवत इति साभिलाषमत्यादरेण पश्यन्तीति विवेकः॥ ५४॥
मत्कर्मेति। निःश्रेयसार्थो मोक्षफलकः। समुच्चित्य निश्चित्य। मत्कर्मकृद् ईश्वरप्रीत्यर्थं नित्यनैमित्तिकादिविहितकर्मकारी। आसंन्यासं कर्मणाम् अत्यक्तव्यत्वादिति भावः। ननु भृत्योऽपि स्वाम्यर्थं कर्म युद्धादिकं करोति, न त्वात्मार्थम् , अत आह— मत्परम इति। या प्रेत्य गन्तव्या सा परमा गतिः। भृत्यस्तु प्रेत्य न स्वामिनं प्रतिपद्यत इति भृत्यस्य न स्वामी परमा गतिः। भक्तस्तु प्रेत्य भगवन्तमेतीति भगवान् भक्तस्य परमा गतिः। एवं यतोऽहं भक्तस्य परमा गतिः, अतो भक्तो मत्परमः इत्युच्यते। अनेन च श्लोकेन त्वमपि मद्भक्त्यादिविशिष्टःसन् मदर्थं युद्धाख्यं नित्यं कर्म कुरु, मत्परमो भविष्यसि, मामेवैष्यसि, भक्त्या त्विति विशेषणाद् अन्येषामहेतुत्वमाशङ्क्याह— अधुनेति। समुच्चित्य सङ्क्षिप्य, पुञ्जीकृत्येति यावत्। मत्कर्मकृदित्युक्ते मत्परमत्वमार्थिकमिति पुनरुक्तिरित्याशङ्क्याह— करोतीति। भगवानेव परमा गतिरिति निश्चयवतस्तत्रैव निष्ठा सिध्यतीत्याह— तथेति। न तत्रैव सर्वप्रकारैर्भजनं धनादिस्नेहाकृष्टत्वादित्याशङ्क्याह— सङ्गेति। द्वेषपूर्वकानिष्टाचरणं वैरम्। अनपकारिषु तदभावेऽपि भवत्येवाप- कारिष्विति शङ्कित्वाऽऽह— आत्मन इति। एतच्च सर्वं सङ्क्षिप्यानुष्ठानार्थमुक्तम्। एवमनुतिष्ठतो भगवत्प्राप्तिरवश्यम्भाविनीत्युपसंहरति— अयमिति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
भक्तिः; तया भक्त्या शक्योऽहम् एवंविधो विश्वरूपप्रकारः, हे अर्जुन ! ज्ञातुं शास्त्रतः, न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुम् , परन्तप !॥५४॥
अधुना सर्वस्य गीताशास्त्रस्य सारभूतोऽर्थो निःश्रेयसार्थोऽनुष्ठेयत्वेन समुच्चित्योच्यते— मत्कर्मकृदिति। मत्कर्मकृद् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत् , मत्परमः- करोति भृत्यः स्वामिकर्म, न त्वात्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते, अयं तु मत्कर्मकृन्मामेव परमां गतिं प्रतिपद्यत इति मत्परमः। अहं परमः परा गतिर्यस्य सोऽयं मत्परमः, तथा मद्भक्तो मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजत इति मद्भक्तः, सङ्गवर्जितो धनमित्रपुत्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः, सङ्गः प्रीतिः स्नेहः, तद्वर्जितः, निर्वैरो १निर्गतवैरः, सर्वभूतेषु शत्रुभावरहितः आत्मनोऽत्यन्तापकारप्रवृत्तेष्वपि। यः ईदृशो मद्भक्तः स मामेति। अहमेव तस्य परा गतिर्नान्या २कदाचिद् भवति। अयं तवोपदेशः इष्टो मयोपदिष्टः, हे पाण्डवेति॥५५॥
इति श्रीपरमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः॥११॥
१. ‘निर्गतवैरोऽतः’ इति पा.। २. ‘गतिः काचित्’ इति पा.।
[[५५१]]
ज्ञानोत्पत्तिद्वारा मोक्ष्यस इति यावत्। इत्युपदेशोऽर्जुनस्य सूच्यते॥५५॥
इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीमद्भगवद्गीताशाङ्करभाष्यार्कप्रकाशे विश्वरूपसंदर्शनयोगो नाम एकादशोऽध्यायः॥११॥
श्री हयग्रीवार्पणमस्तु तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य सर्वेश्वरस्य मत्कर्मकृदित्यादिन्यायेन क्रममुक्तिफलमभिध्यानमभिवदता तत्पदवाच्योऽर्थो व्यवस्थापितः॥५५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने एकादशोऽध्यायः॥११॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. ११. श्लो. ५४-५५ ] DO NOT PRINT THIS P``A``G``E ॐ श्रीपरमात्मने नमः