१०

॥अथ दशमोऽध्यायः॥

श्रीभगवानुवाच— भूय एव महाबाहो ! शृणु मे परमं वचः। यत् तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

वृत्तं कीर्तयति— सप्तम इति। सप्तमेऽष्टमे नवमे चाध्याये भगवतस्तत्त्वं प्रकाशितं, विभूतयश्च प्रकाशिताः। भावाः पदार्थाः। ननु तत्त्वस्योक्तत्वात् कुतः पुनर्वचनम्? अत आह— उक्तमपीति। दुःखेन विज्ञातुं शक्यं दुर्विज्ञेयं ज्ञातुमशक्यमित्यर्थः। महान्तौ दीर्घौ आजानुलम्बिनौ बाहू यस्य तत्सम्बुद्धिः महाबाहो ! अनेन भगवदंशसम्भूतत्वात् त्वं भगवद्वाक्यश्रवणार्हः इति सूच्यते। वचसः परमत्वं कथम्? अत आह— निरतिशयवस्तुनः प्रकाशकमिति। निरतिशयं वस्तु ब्रह्म, तस्य परमत्वात् तत्प्रकाशकवाक्यस्यापि परमत्वमिति भावः। प्रतिपाद्यमहिम्नैव वाक्यस्य गौरवादिति तत्त्वम्। प्रीयसे प्रीतिं गच्छसि। प्रीयमाणाय प्रीतिं गच्छते। यथा सुधां पिबन् पुरुषः प्रीयते, तथा मद्वचः शृण्वन् त्वं प्रीयसे। ततः एवं प्रीयमाणत्वात् तव। हितं संसारनिवर्तनात्मकम्। तवेति शेषः। तवैव हिताय मया वक्ष्यते, न तु मदर्थम् , मम पूर्णकामत्वादिति भावः॥१॥

अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् वृत्तानुवादपूर्वकं व्यवहितेन सम्बन्धं कथयति—सप्तमेऽध्याय इति। पौनरुक्त्यं परिहरति—उक्तमपि दुर्विज्ञेयत्वादिति ॥१॥

[आनन्दगिरिकृतव्याख्या]

अध्यायद्वये सिद्धमर्थं संक्षेपतोऽनुभाषते— सप्तम इति। तत्त्वं सोपाधिकं निरुपाधिकं च। विभूतयः सविशेषनिर्विशेषरूपप्रति- पत्त्युपयोगिन्यः। उत्तराध्यायस्याध्यायद्वयेन सम्बन्धं वदन्नध्यायान्तरमवतारयति— अथेति। वक्तव्याः सविशेषध्याने निर्विशेषप्रतिपत्तौ च ३शेषत्वेनेति शेषः। ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्रोक्तम् , तत् किमिति पुनरुच्यते? तत्राह— उक्तमपीति। यद्यपि तत्र तत्र तत्त्वमुक्तम् , तथापि पुनर्वक्तव्यं दुर्विज्ञेयत्वादिति यतो मन्यते, अत इति योजना। प्रकृष्टत्वं वचसः स्पष्टयति— निरतिशयेति। तदेव वचो विशिनष्टि— यत् परममिति। सकृदुक्तेरर्थसिद्धेरसकृदुक्तिरनर्थिकेत्याशङ्क्याह— प्रीयमाणायेति। ततो वक्ष्यामि तुभ्यमिति पूर्वेण सम्बन्धः। हितं दुर्विज्ञेयं तत्त्वज्ञानम्॥१॥

कश्चिदन्योऽपि परमं वचो मह्यं वक्ष्यति। तेन च मम तत्त्वज्ञानं भविष्यति। अतो भगवद्वचनमकिञ्चित्करमिति शङ्कित्वा सप्तमेऽध्याये भगवतस्तत्त्वं विभूतयश्च प्रकाशिताः, नवमे च। अथेदानीं येषु येषु भावेषु चिन्त्यो भगवांस्ते ते भावाः वक्तव्याः, तत्त्वं च भगवतो वक्तव्यम् १उक्तमपि दुर्विज्ञेयत्वाद् इत्यतः श्रीभगवानुवाच— भूय इति। भूय एव भूयः पुनः, हे महाबाहो ! शृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचो वाक्यम् , यत् परमं२ ते तुभ्यं प्रीयमाणाय, मद्वचनात् प्रीयसे त्वमतीव अमृतमिव पिबन् ; ततो वक्ष्यामि हितकाम्यया हितेच्छया॥१॥

१. ‘बहुकृत्वोऽपि पथ्यं वदितव्यं भवती’ति न्यायेन दुर्विज्ञेयस्य वस्तुनः पुनः कथने पौनरुक्त्यं न दोष इति भावः। एकस्यैव पुनःपुनः कथनस्य अभ्यासरूप- तात्पर्यलिङ्गत्वेनाप्युपयोगो ज्ञेयः। २. ‘वचः’ इति शेषः। ३. उपायत्वेनेत्यर्थः। ‘विशेषत्वेन’ इति पा.।

[[४९२]]

नेति। नन्विन्द्रादयो देवाः, कश्यपादयः ऋषयो वा मह्यं प्रपन्नाय तत्त्वं ब्रूयुरेवेत्याक्षिपति— किमर्थमहमिति। मे प्रभवं सुरगणा न विदुः, महर्षयश्च न विदुः। अतो न ते तुभ्यं तत्त्वं वक्तुं शक्नुयुः। ततश्चाहमेव ते वक्ष्यामि। एतेनेश्वरस्यैकस्यैव सर्वज्ञत्वम् , अन्येषां सर्वेषां किञ्चिज्ज्ञत्वमेवेति सिद्धम्। नन्वहं सर्वज्ञत्वात् सर्वं वक्ष्यामीति येन प्रतिज्ञातम् , स किमात्मा? उत प्रमाता? नाद्यः, अविक्रियस्यात्मनो वक्तृत्वादि- विकारायोगात्। नान्त्यः, प्रमातुर्जीवत्वेन असर्वज्ञत्वादिति चेत्? मैवम् ; यथा जीवस्य वास्तवमाध्यासिकं चेति रूपद्वयमस्ति, तथा ईश्वरस्याप्यस्ति। तत्र जीवेश्वरयोर्वास्तवं रूपं चैतन्यलक्षण आत्मैव। तद् एकरूपमेव। आध्यासिकं रूपं तु प्रमातृत्वम् । तज्जीवेश्वरयो- र्भिन्नमेव। जीवानां च परस्परं भिन्नमेव। तथा सति यथा जीवो व्यवहारतः प्रमाता, तथा ईश्वरोऽपि प्रमातैव। यथा जीवेषु परस्परं ज्ञान- तारतम्यमस्ति, तथा जीवेश्वरयोरस्त्येव। तत्र प्रमाता जीवः किञ्चिज्ज्ञः, तदुपाध्यज्ञानस्य परिच्छिन्नत्वात्। प्रमाता ईश्वरस्तु सर्वज्ञः, तदुपाध्यज्ञानस्यापरिच्छिन्नत्वात्। बुद्धिर्जीवोपाधिः, माया त्वीश्वरोपाधिरिति प्रागेवोक्तम्। बुद्धेः परिच्छिन्नत्वं, मायाया अपरिच्छिन्नत्वं च शास्त्रादिसिद्धम्। एवं सति यः कृष्णशरीरावच्छिन्नः प्रमाता स मायोपाधिक ईश्वर इति सिद्धं तस्य सर्वज्ञत्वम्। इन्द्रादिशरीरा- वच्छिन्नाः प्रमातारस्तु बुद्ध्युपाधिका जीवा इति सिद्धं तेषां किञ्चिज्ज्ञत्वम्। एवं जीवेश्वरयोः प्रमातृत्वांशे किञ्चिज्ज्ञत्वसर्वज्ञत्वरूप- भेदसद्भावेन ऐक्यायोगादेव ‘तत्त्वमसी’त्यादौ लक्षणा चैतन्यमात्रविषया स्वीकृता। न च - श्रीकृष्णशरीरे मायावच्छिन्नचैतन्यमस्ति, अस्मदादिशरीरेष्वविद्यावच्छिन्नचैतन्यमस्तीत्यत्र किं नियामकमिति - वाच्यम् , सर्वज्ञत्वकिञ्चिज्ज्ञत्वादेरेव नियामकत्वात्। ततश्च यावद्व्यवहारं प्रमात्रोर्जीवेश्वरयोः प्रमातॄणां जीवानां वा नैक्यमिति कृष्ण ईश्वर एव, इन्द्रादयस्तु जीवा एवेति स्थितम्। परमार्थतस्तु सर्वः प्रमातृवर्गो जीवगण एव। आत्मा एक एवेश्वर इति बोध्यम्। एवं प्रमातुरपीश्वरस्य सर्वज्ञत्वसिद्धेरुचितैव प्रतिज्ञा तस्य। आदिरिति। यथा पुत्रस्य प्रभवं पिता वेत्ति, पितुः प्रभवं तु न पुत्रः, तद्वत् सर्वकारणत्वात् सर्वमीश्वरो वेत्ति, तं तु न सर्वम् , सर्वस्य तत्कार्यत्वादिति भावः। ईश्वरस्य सर्वादित्वं च ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतिसिद्धम्। ननु यदीश्वराज्जीवाः जायेरन् , तर्हि जीवादित्वमीश्वरस्य स्यात्। तदेव नास्ति, जीवानामजत्वेनानादित्वात्। उक्तं हि पूर्वमेव —‘अजो नित्यः शाश्वतोऽयं पुराणः’[इति।] ‘अजो ह्येको जुषमाणोऽनुशेते’ इति श्रुतेश्च। भूतोत्पत्तिश्रुतिस्तु भूतशब्दस्य देहाद्यर्थपर- त्ववर्णनेन नेयेति चेत्? सत्यम् , इन्द्रादयो हि जीवा देहादिसङ्घातमेवात्मत्वेनाभिमन्यमाना देवोऽहं मनुष्योऽहं ब्राह्मणोऽहमित्येवं प्रतियन्ति, देहे जाते सत्यात्मानं जातम् , देहे नष्टे सत्यात्मानं नष्टं च मन्यन्त इति तद्दृष्ट्योक्तम्— ‘अहमादिर्हि देवाना’मिति। देहेन्द्रियादिसङ्घातस्य कार्यत्वेन तत्तादात्म्याध्यासादिन्द्रादिजीवानां कार्यत्वेन सादित्वम्। ईश्वरस्य तु तदभावादनादित्वम्। वस्तुतस्तु जीवोऽपीश्वरवदनादिरेवेति भावः। परिहरति— किमर्थमित्यादिना। इन्द्रादयो भृग्वादयश्च भगवत्प्रभावं न विदन्तीत्यत्र प्रश्नपूर्वकं हेतुमाह— कस्मादिति। २निमित्तत्वेनो- पादानत्वेन च यतो देवादीनां भगवानेव हेतुः, अतः तद्विकारास्ते न तस्य प्रभावं विदुरित्यर्थः॥२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः॥२॥

किमर्थमहं वक्ष्यामीत्यत आह— न म इति। न मे विदुः न जानन्ति सुरगणाः १ब्रह्मादयः। किं ते न विदुः? मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम् , अथवा प्रभवं प्रभवनम् उत्पत्तिम्। नापि महर्षयो भृग्वादयो विदुः। कस्मात् ते न विदुः? इत्युच्यते— अहम् आदिः कारणं हि यस्माद् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः॥२॥

१. ‘ब्रह्मादयः’ इति क्वचिन्न। टीकानुसारेणापि नास्तीत्येव भाति। २. ‘सर्वशः’ इति विशेषणलभ्यमर्थमाह— निमित्तत्वेनोपादानत्वेन चेति।

[[४९३]]

इमे च देवत्वमनुष्यत्वादिजातिविशिष्टदेहाः ईश्वरादेव जायन्त इति ‘यतो वा’ इति श्रुत्युपपत्तिः, ‘अहमादिर्हि देवाना’मिति गीतोपपत्तिश्च। किञ्च अयमीश्वरः स्वयं देहरहितः सन्नेव आकाशादिभूतोत्पादनद्वारा भौतिकानि उत्पादयति सङ्कल्पवशादेव। यद्वा भूतानि भौतिकानि च युगपदेवोत्पादयति। अथवा हिरण्यगर्भमादावुत्पाद्य तद्द्वारा भूतभौतिकोत्पत्तिं निर्वर्तयति। यद्वा स्वयमपि मायया कञ्चिद् देहमधिष्ठाय वर्तमानः सन्नेव तन्नाभीकमलाद् ब्रह्माणमुत्पाद्य तेन सर्वं जगदुत्पादयतीति वा। एवमादयो बहवः सृष्टिप्रकाराः श्रुतिसूत्रपुराणादिषु दृश्यन्ते। सर्वथा चेश्वर एव देवादिजगत्कर्तेत्याह— सर्वप्रकारैरिति। एवं देवा महर्षयश्च कार्यभूतदेवत्वमनुष्यत्वादि- विशिष्टदेहादिसङ्घाताभिमानित्वात् सादय एवेति तेषाम् अहमेवादिः, मत्कार्यत्वाद् देहादिसङ्घातानाम्॥२॥

य इति। ननु देवानां महर्षीणां च त्वमादिर्भवसि, तव पुनः क आदिः? अत आह— य इति। अहमेव सर्वस्य जगत आदिः, न मम कोऽप्यादिः। अन्यथा तस्याप्यन्य आदिरित्यनवस्थादोषापत्तेः। एवमनादित्वादेव अहमजः जन्मरहितः उत्पादकाभावेनोत्पत्त्य- भावात्। एवम् अजत्वेनाकार्यत्वादेव अनन्याधीनस्थितिकोऽहम्। कार्यं हि कारणाधीनस्थितिकम्। ततः स्वतन्त्रत्वाद् अहं सर्वलोक- महेश्वरो यस्यान्य ईश्वरो नास्ति स महेश्वरः, यथा महाराजः। य एवम्भूतं माम् ३असम्मोहः ईश्वरो मत्तोऽन्यः इत्याकारकमोहरहितः सन् वेत्ति स्वात्मत्वेन जानाति, मर्त्येषु मध्ये स एव विद्वान् सर्वपापैः प्रमुच्यते। ज्ञानानन्तरभावित्वात् पापप्रहाणस्याह— प्रमोक्ष्यत इति। पापपदम् उपलक्षणं पुण्यानामपि। तेषामपि बन्धकत्वेन पापत्वात् पापशब्दवाच्यत्वमिति वा। ततश्च संसारान्मोक्ष्यत इत्यर्थः। ‘तद्विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्युपैती’ति श्रुतेः। न चात्र भिन्नेश्वरज्ञानादेव पुंसां पापक्षयो भविष्यतीति कथमभिन्नेश्वरज्ञानमवतारितं त्वयेति वाच्यम् ; ईश्वरतत्त्वज्ञानादेव पाप- क्षयः, न त्वीश्वरभ्रान्तिज्ञानादिति सिद्धान्तात्। ईश्वरतत्त्वस्य च जीवाभिन्नत्वेन भिन्नेश्वरज्ञानस्य भ्रान्तिज्ञानत्वेन पापनिवर्तनाक्षमत्वात्। प्रत्युत पापस्यैव वर्धकत्वात्। जीवरूपेण वर्तमानस्येश्वरस्य नित्यस्याजस्य जन्ममृत्युप्रमुखविकारसम्पादनस्य दोषावहत्वात्। न च कथमीश्वरस्य जीवरूपत्वमिति वाच्यम् ; ‘तत्सृष्ट्वा। तदेवानुप्राविशत्’ ‘ईश्वरो जीवकलया प्रविष्टो भगवानिति’ ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इति, ‘भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः। अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः’ इत्येवमादि- श्रुतिस्मृतिपुराणप्रामाण्यात्। न च मायावच्छिन्नस्येश्वरस्य कथं बुद्ध्यवच्छिन्नजीवत्वमिति वाच्यम् ; यदेव चैतन्यं मायावच्छिन्नं तदेव बुद्ध्यवच्छिन्नम्। चैतन्यस्यैकत्वादितीश्वरस्यैव जीवत्वोपपत्तेः। यथा महाकाशस्यैव घटाकाशत्वोपपत्तिः। एवमीश्वरस्यैव जीवत्वाद् १. ‘तुरीयम् अज्ञानतत्कार्यवर्जितम्’ इति क्वचिन्न। २. अजम् अनादिम् इति पदद्वयस्य फलत एकार्थकत्वात् पौनरुक्त्यशङ्का। हेतुहेतुमद्भावेन तद्वारणम्। अनादित्वं पूर्वश्लोके सिद्धमिति सामर्थ्याद् हेतुरिति बोध्यम्। दृश्यते चैवं हेतुहेतुमद्भावेन योजनाऽन्यत्रापि। इत्थं च हेतुत्वज्ञापकविभक्त्याद्यभावादिति दूषणम् अकिञ्चित्करम्। ३. ‘असम्मोहः’ इति रा.पा. भाति। किञ्च— यो मामिति। यो माम् अजमनादिं च, यस्मादहमादिर्देवानां महर्षीणां च, न ममान्यः आदिर्विद्यते, अतोऽहमजोऽनादिश्च; अनादित्वमजत्वे हेतुः; तं मामजमनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तमीश्वरं १तुरीयम् अज्ञानतत्कार्यवर्जितम् , असम्मूढः सम्मोहवर्जितः स मर्त्येषु मनुष्येषु सर्वपापैः सर्वैः पापैः मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते॥३॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३॥

[आनन्दगिरिकृतव्याख्या]

इतश्च कश्चिदेव भगवत्प्रभावं वेत्तीत्याह— किञ्चेति। कोऽसौ प्रभावो भगवतो यं बहवो न विदुरित्यपेक्षायां, पारमार्थिकं प्रभावं तद्धीफलं च कथयति— यो मामिति। २पदद्वयापौनरुक्त्यमाह— अनादित्वमिति॥३॥

[[अ. १०. श्लो. २-३]] [[४९४]]

‘अजो नित्यः शाश्वतः’ इतीश्वरधर्माणामजत्वनित्यत्वादीनां जीवे प्रसञ्जनं प्राक् कृतमिहैव ग्रन्थे। न चाजत्वादीनामीश्वरधर्मत्वे विवदितव्यम् , ‘यो मामजमनादिं च’ इतीहैवोक्तत्वात्। न च - ईश्वरवज्जीवः अजो नित्यश्चेत्येतावन्मात्रेण कथं जीवेश्वराभेदः? किञ्चिज्ज्ञत्वसर्वज्ञत्वादिबहुवैलक्षण्यसत्त्वादिति - वाच्यम् ; किञ्चिज्ज्ञत्वादीनामाध्यासिकधर्मत्वात्। अविक्रिये निर्धर्मके बोधरूपे आत्मनि किञ्चिज्ज्ञत्वादिविक्रियाऽयोगात् , जीवस्याप्यविक्रियात्मत्वस्य प्रागेवोक्तत्वात्। तस्माज्जीवाभिन्नेश्वरज्ञानमेव यथार्थज्ञानत्वेन पापनिवर्तनक्षमं पुंसामिति स्थितम्। अत एवोक्तं श्रुत्या‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’रिति, ‘योऽन्यथा सन्तमात्मानम् अन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा’ इति भारतेन च। तस्माद् भिन्नेश्वरज्ञानिन आत्मानं यथावन्नैव विदन्ति। प्रत्युतान्यथैव विदन्तीति पापकारिण एव ते, न तु निष्पापाः। तथा च पापैः प्रमुच्यत इति लिङ्गाच्च जीवाभिन्नेश्वरज्ञानमेवेह विवक्षितमिति ज्ञायते। ननु इन्द्रादयो जीवाः सादय इति पूर्वश्लोकेनोक्त्वा, इह अहमेवानादिरिति ईश्वरस्यानादित्वं चोक्त्वा कथं जीवेश्वराभेदः प्रतिपाद्यतेऽनुन्मत्तेन व्यासेनेति चेत् , मैवं वादीः, देहादिसङ्घातदृष्ट्या देवादीनां सादित्वं पूर्वमुक्तम् , तद्विलक्षणस्यात्मनस्त्वीश्वराभेद इहोच्यत इत्यदोषात्। देहादिसङ्घातविलक्षणः सच्चिदानन्द आत्मैव हीश्वरो नित्योऽजश्च। न ह्यात्मनोऽन्यः कश्चिदीश्वरो नामास्ति। यत्तु रामानुजः— चेतनान्तरसजातीयो भगवान् इत्याकारकमोहरहितः सन् यो मां चिदचिद्विलक्षणतया निखिलहेय- प्रत्यनीकानन्तकल्याणगुणनिलयं कर्मकृताचित्संसर्गरूपजन्मरहितत्वेन बद्धजीवविलक्षणम् आदिमदजत्ववतो मुक्तात्मनश्च विलक्षणम् अजमनादिमीश्वरं जानाति स सर्वपापैः प्रमुच्यत इति। तत्तुच्छम् ; चिद्रूपस्येश्वरस्य चिद्विलक्षणत्वायोगात्। ‘केवलो निर्गुणश्चे’ति श्रुत्युक्तनिर्गुणस्य गुणनिलयत्वायोगात्। जायमानदेहसंसर्गस्यैव जन्मरूपत्वेन ‘कर्मकृताचित्संसर्गो जन्मे’ति वक्तुमयुक्तत्वात् , तस्य च गौरवत्वात्। ईश्वरस्याप्येतादृशजन्मसद्भावेनाजत्वाभावात् बद्धजीववैलक्षण्यासिद्धेः। आदिमत्त्वाजत्वयोर्विरुद्धधर्मयोः एकत्र सामा- नाधिकरण्यायोगेन मुक्तात्मनामादिमदजत्वासिद्धेः। यज्जायते तद्धि आदिमत् , यथा घटः। यत्तु न जायते, कथं तस्यादिमत्त्वम्? किञ्च मुक्तस्येश्वरसायुज्यमापन्नस्य कथमीश्वराद्भेदः? येन मुक्तवैलक्षण्यमीश्वरस्य स्यात्। न चेश्वरसायुज्ये विवदितव्यम् , ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः। अपि च ‘साक्षी चेता’ इति श्रुत्युक्तस्य चेतनस्यैकस्येश्वरस्य कथं चेतनान्तरविसजातीयत्वम्? न हि चेतनान्तरमस्ति येन तद्विसजातीयत्वं स्यादीश्वरस्य। ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुत्या हि चेतनान्तरं निषिध्यते इति। उक्तमपीदं पुनःपुनरुच्यते मन्दमत्यनुग्रहार्थम्॥३॥

बुद्धिरिति। इतश्चेति। मम सर्वादित्वेन, अनादित्वेन, सुरगणमहर्ष्याद्यविदितप्रभावत्वेन च केवलं न महेश्वरत्वम् , किन्तु हेत्वन्तरादपीत्यर्थः। बुद्धिर्नान्तःकरणं, तस्य द्रव्यत्वेन ज्ञानादिगुणसहपाठायोगादित्यभिप्रेत्याह— अन्तःकरणस्येति। बुद्धिशब्दस्य भाष्यार्कप्रकाशः न केवलं दुर्विज्ञेयत्वादिदं तत्त्वं सिद्धम् , हेत्वन्तरमुच्यत इत्याह— इतश्चाहं महेश्वर इति। बुद्धिर्भाव[र्ज्ञान]मित्यादेः ‘भवन्ति भावाः’ इत्यनेन सम्बन्धः॥४॥

इतश्चाहं महेश्वरो लोकानाम्— बुद्धिरिति। बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम्। तद्वन्तं बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च॥४॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या भगवतो लोकमहेश्वरत्वे हेत्वन्तरमाह— इतश्चेति। मुमुक्षुभिराराध्यत्वसिद्धये बन्धमोक्षसाधनं पुरस्कृत्याशेषजगत्प्रकृत्य-

[[४९५]]

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥५॥

धिष्ठातृत्वलक्षणं सोपाधिकं भगवत्प्रभावमभिधत्ते— बुद्धिरिति। सूक्ष्मादीत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्चार्थो गृह्यते। उक्तं सामर्थ्यं बुद्धिरित्यस्मिन्नर्थे प्रसिद्धिं प्रमाणयति— तद्वन्तमिति। आत्मादीति। तदवबोधवन्तं हि ज्ञानिनं वदन्ति। अन्तःकरणस्य उपशमो विषयेभ्यो व्यावृत्तिरिति शेषः॥४॥

यथाशक्तीति। पात्रे श्रद्धया स्वशक्तिमनतिक्रम्यार्थानां देशकालानुगुण्येन ४प्रतिपादनमित्यर्थः। उक्तानां बुद्ध्यादीनां साश्रयाणाम् ईश्वरादुत्पत्तिं प्रतिजानीते—भवन्तीति। नानाविधत्वे हेतुमाह—स्वकर्मेति। कथञ्चिदपि तेषामात्मातिरेकेणाभावाद् मत्त एवेत्युक्तम्॥५॥

[आनन्दगिरिकृतव्याख्या]

तत्र प्रयोगे लोकप्रसिद्धिं दर्शयति— तद्वन्तमिति। तच्छब्दस्यान्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यमर्थः। बुद्धिमानिति। अन्यथा सर्वस्याप्यन्तःकरणवत्त्वाविशेषाद् एकस्मिन् पुरुषे बुद्धिमत्त्वप्रसिद्धिर्न सङ्गच्छेतेति भावः। वदन्ति लोका इति शेषः। बोद्धुं शक्येषु बोद्धव्येषु , बोद्धुं योग्येष्विति वा; विज्ञेयेष्वित्यर्थः। प्रत्युत्पन्नेषु उत्पन्नेषूत्पन्नेषु सर्वेषु कार्येष्वित्यर्थः, प्रतेर्वीप्सार्थकत्वात्। ‘सप्तम्या बहुलमम्भावः’ इति ५बहुलग्रहणाद् न अम्भावः। देहेन्द्रियादिसर्वपदार्थेष्विति यावत्। विवेकपूर्विका आत्मानात्मविवेकपूर्विकेत्यर्थः। ‘उत्पन्नानीमानि सर्वाण्यपि कार्याणि देहादीन्यनात्मानः एव’ इत्याकारको विवेकः। स पूर्वः प्रथमो यस्याः सा विवेकपूर्विका विवेक- पुरःसरेत्यर्थः। मतिप्रवृत्तिः बुद्धिप्रवृत्तिः असम्मोहः इत्युच्यते। अनात्मसु आत्मेति मोहाभावः इति यावत्। आत्मानुभवस्य स्वानुभवसिद्धार्थस्येत्यर्थः। बाह्येन्द्रियाणि चक्षुरादीनि। अन्तःकरणम् अन्तरिन्द्रियं मनः। उपशमो निर्व्यापारता। तद्विपर्ययः उत्पत्तिविपर्ययः, नाश इति यावत्। तदभावो भयाभावः॥४॥

अहिंसेति। सन्तोषमेव विवृणोति— पर्याप्तेति। लभ्यन्त इति लाभास्तेषु पर्याप्तबुद्धिः अलम्बुद्धिः। तृप्तिरिति यावत्। संयमो नियमनम्। शरीरपीडनम् उपवासादिनेति भावः। शक्तिमनतिक्रम्य यथाशक्ति। संविभागो धनधान्यादेरर्थिभ्यो विभजनम्। अधर्मो निमित्तं यस्याः सा अधर्मनिमित्ता अकीर्तिः दुष्कीर्तिः। भूतानां पृथग्विधा भावा मत्त एव भवन्ति। नन्वेकस्य क्षमादिसद्गुणसर्जनाद् अन्यस्याकीर्त्यादिदुर्गुणसर्जनाच्चेश्वरस्य वैषम्यदोषप्रसक्तिरत आह— स्वकर्मानुरूपेणेति। स्वेषां भूतानां यानि कर्माणि पुण्यपापादि- लक्षणान्यदृष्टानि, तदनुरूपेण॥५॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

१. ‘मतिप्रवृत्तिः’ इति रा.पा. भाति। २.‘अन्तःकरणस्योपशमः’ इति पा.। न चात्र ‘शमो मन्निष्ठता बुद्धेः दम इन्द्रियसंयमः’(११-१९-३६) इति भागवतविरोध इति केनचिदुक्तं शङ्क्यम्। ‘विरज्य विषयव्राताद् दोषदृष्ट्या मुहुर्मुहुः। स्वलक्ष्ये नियतावस्था मनसः शम उच्यते॥’(वि.चू. २२) इत्युक्तरीत्याऽस्मदभिमतशमपदार्थस्य तदभिन्नत्वात्। ३. ‘भयं च त्रासः, अभयमेव च तदभावः’ इति रा.पा. भाति। ४. अर्थानां प्रतिपादनं नाम इह धनादेः दानमेवात्र विवक्षितम्। ५. ‘तृतीयासप्तम्योः बहुलम्’(पा.सू. २-४-८४) इति सूत्रे इति आदिः। बुद्धिमानिति हि वदन्ति। ज्ञानम् आत्मादिपदार्थानामवबोधः। असम्मोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका १प्रवृत्तिः। क्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्तता। सत्यं यथादृष्टस्य यथाश्रुतस्य चात्मानुभवस्य परबुद्धि- संक्रान्तये तथैवोच्चार्यमाणा वाक् सत्यमुच्यते। दमो बाह्येन्द्रियोपशमः। शमः अन्तःकरणस्य२। सुखम् आह्लादः। दुःखं सन्तापः। भवः उद्भवः, अभावः तद्विपर्ययः। ३भयं च त्रासः, अभयमेव च तद्विपरीतम्॥४॥

अहिंसेति। अहिंसा अपीडा प्राणिनाम्। समता समचित्तता। तुष्टिः सन्तोषः पर्याप्तबुद्धिर्लाभेषु। तपः इन्द्रिय- संयमपूर्वकं शरीरपीडनम्। दानं यथाशक्ति संविभागः। यशो धर्मनिमित्ता कीर्तिः। अयशस्त्वधर्मनिमित्ताऽकीर्तिः। भवन्ति भावाः यथोक्ताः बुद्ध्यादयो भूतानां प्राणिनां मत्त एव ईश्वरात् पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण॥५॥

[[अ. १०. श्लो. ४-५]] [[४९६]]

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥७॥

महर्षय इति। एवं लोकमहेश्वरत्वे हेत्वन्तरमुक्त्वा स्वप्रभावमेव दर्शयति पुनरित्याह— किञ्चेति। मद्भावाः पूर्वे सप्त महर्षयः, तथा चत्वारो मनवो मानसाः सन्तो जाताः। मद्भावा मानसाश्च सन्तो जाता इति वा। यद्यपि मनवश्चतुर्दश, तथापि तत्रैकस्मिन् मन्वन्तरे चतुर्णामेव प्रजासृष्टिहेतुत्वादुक्तं चत्वार इति। ब्रह्मसावर्णो, रुद्रसावर्णो, धर्मसावर्णो, दक्षसावर्ण इति तेषां नामानि। मयि भावना येषां ते मद्भावाः, मच्चित्ता इत्यर्थः। मम विष्णोर्भावः सामर्थ्यं येषां त इति वा मद्भावाः। लोके जगति इमाः दृश्यमानाः प्रजा भूतानि॥६॥

एतामिति। विस्तारं जगद्रूपमिति भावः। आत्मनो मम घटनं सङ्घटनम् , पितृपितामहादिरूपेण प्रजानां जगति कल्पनमिति यावत्। किं तत् सामर्थ्यम्? अत आह— सर्वज्ञत्वमिति। ननु योगसामर्थ्ये कथं योगशब्दप्रवृत्तिः? अत आह— योगजमिति। उच्यते लक्षणयेति शेषः। कोऽसौ योगः? अत आह— सम्यगिति। सम्यग्दर्शनम् ‘अहं ब्रह्मे’ति ज्ञानम् , तस्य स्थैर्यं दृढता, तदेव लक्षणं स्वरूपं यस्य, तेन तथोक्तेन। ‘अहं ब्रह्मे’त्याकारकदृढज्ञानमेव योगः, तेन युज्यते युक्तो भवति। न केवलं भगवतः सर्वप्रकृतित्वमेव, किन्तु सर्वज्ञत्वसर्वेश्वरत्वरूपमधिष्ठातृत्वमपीत्याह— किञ्चेति। आद्याः १भृग्वादयो वसिष्ठान्ताः सर्वज्ञाः विद्यासम्प्रदायप्रवर्तकाः। तथेति मनूनामपि पूर्वत्वेनाद्यत्वमनुकृष्यते। के ते मनवः? तत्राह—सावर्णा इतीति। प्रसिद्धाः पुराणेषु प्रजानां पालकाः स्वयमीश्वराश्चेति शेषः। महर्षीणां मनूनां च तुल्यं विशेषणम्— ते चेति। मयि सर्वज्ञे सर्वेश्वरे गता भावना येषां ते तथा। भावनाफलमाह—वैष्णवेनेति। वैष्णव्या शक्त्याऽधिष्ठितत्वेन ज्ञानैश्वर्यवन्त इत्यर्थः। तेषां जन्मनो वैशिष्ट्यमाचष्टे— मानसा इति। मन्वादीनेव विशिनष्टि— येषामिति। विद्यया जन्मना च सन्ततिभूता मन्वादीनामस्मिन् लोके सर्वाः प्रजा इत्यर्थः॥६॥

सोपाधिकं प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलमाह— एतामिति। बुद्ध्याद्युपादानत्वेन विविधा भूतिर्भवनं वैभवं सर्वात्मकत्वं, तदाह— विस्तारमिति। ईश्वरस्य तत्तदर्थसम्पादनसामर्थ्यं योगः, तदाह— आत्मन इति। योगः तत्फलमैश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च। मदीयं शक्तिज्ञानलेशमाश्रित्य मन्वादयो भृग्वादयश्चेशते, जानते च। तदाह— अथवेति। यथा तौ विभूतियोगौ तथा वेदनस्य निरङ्कुशत्वं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्च— महर्षय इति। महर्षयः सप्त भृग्वादयः पूर्वे अतीतकालसम्बन्धिनः, चत्वारो मनवः तथा, सावर्णाः इति प्रसिद्धाः। ते च मद्भावाः मद्गतभावनाः, वैष्णवेन सामर्थ्येनोपेताः, मानसाः मनसैवोत्पादिताः मया जाताः उत्पन्नाः येषां मनूनां महर्षीणां च सृष्टिः लोके इमाः स्थावरजङ्गमलक्षणाः प्रजाः॥६॥

एतामिति। एतां यथोक्तां विभूतिं विस्तारम् , योगं च युक्तिं च आत्मनो घटनम् , अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते; मम मदीयं (योगं) यो वेत्ति तत्त्वतः तत्त्वेन, यथावदित्येतत्। सः अविकम्पेन अप्रचलितेन योगेन सम्यग्दर्शनस्थैर्यलक्षणेन युज्यते सम्बध्यते। नात्र संशयो नास्मिन्नर्थे संशयोऽस्ति॥७॥

१. ‘भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम्। वसिष्ठं च महातेजाः सोऽसृजद् मनसा सुतान्॥’ इत्युक्ताः इति श्रीधर्यादौ। ‘महर्षीणां भृगुरहम्’(१०.२५) इति अग्रिमग्रन्थैकवाक्यत्वात् भृग्वादयः इति भाष्यं युक्तमेव। एतेन मरीच्यादयः इति वक्तव्ये भृग्वादयः इत्ययुक्तमिति दूषणमनवकाशम् । अधिकमन्यत्र द्र.। प्रजापतीनामपि मदधीनत्वात् मम सर्वेश्वरत्वं सिद्धमित्याह— किञ्च महर्षय इति॥६॥

[[४९७]]

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥८॥

ननु ईश्वरविभूत्यादिज्ञानाद् विदुषः कथम् ‘अहं ब्रह्मे’ति ज्ञानमिति चेद्? उच्यते— परब्रह्मण ईश्वरस्यैव स्वात्मत्वादिति। अस्मिन्नर्थे ईश्वरतत्त्वज्ञानाद् ‘ब्रह्माहम्’ इति सम्यग्दर्शनस्थैर्यं भवतीत्युक्तार्थे, संशयो नास्ति, ईश्वरेण मयैव साक्षादुक्तत्वादिति भावः। यत्तु रामानुजः— ‘विभूतिमैश्वर्यं, योगं कल्याणगुणगणं, योगेन भक्तियोगेन’ इति, तन्मन्दम् ; ईश्वरे तदैश्वर्याद्यनभिज्ञस्यापि भक्तियोगदर्शनात्। तदभिज्ञस्य तस्मिन् भक्तियोगोत्पत्तेर्लोकत एव सिद्धत्वेन वचनस्य व्यर्थत्वाच्च। राजगतैश्वर्यादिगुणाभिज्ञा हि राजानं भजन्ते। योगशब्दस्य कल्याणगुणार्थप्रतिपादनमपि लोकशास्त्रविरुद्धम्॥७॥

विदुषां सम्यग्दर्शनमेव दर्शयतीत्याह— कीदृशेनेति। अहमिति। अस्मच्छब्दोऽत्र लक्षणया चिन्मात्रपर इत्याह— परं ब्रह्मेति। वासुदेवशब्दो वसन्ति जगन्त्यस्मिन्निति व्युत्पत्त्या परमात्मपरः। वसति जगतीति व्युत्पत्त्या प्रत्यगात्मपरश्च। तथा च प्रत्यगभिन्नः परमात्मा वासुदेव इति वासुदेवाख्यः। प्रभव उपादानम् , उत्पत्तिहेतुरिति यावत्। मत्त एवेति। वासुदेवाख्यात् परब्रह्मण एवेत्यर्थः। जगतः स्थितिनाशादयोऽपि मत्त एव भवन्तीत्यर्थः। माम् आत्मानम्। अयमाशयः— ईश्वराज्जन्मस्थितिलया भवन्तीति श्रूयते। स चेश्वरः सर्वेषु क्षेत्रेषु प्रत्यग्रूपेण वर्तत इति च श्रूयते। ततश्च ‘अहमेवेश्वरः, मत्त एव सर्वं जगज्जायते वर्धते लीयते च’। एवमीश्वरमात्मत्वेन मत्वा बुधाः स्वात्मानमेवेश्वरं भजन्ते इति। यद्वा परब्रह्मणः सकाशाज्जगज्जन्मादयो भवन्तीति ज्ञात्वा तमेव परमात्मानं स्वात्मभूतं बुधा भजन्ते इति। परमार्थतत्त्वाभिनिवेश इति। परमार्थतत्त्वं ब्रह्म, तस्मिन् अभिनिवेशः अहमिति निश्चयः। अहं ब्रह्मेति दृढज्ञानमिति यावत्। यत्तु रामानुजः— ‘ईश्वरः श्रीकृष्णो जगत्सृष्ट्यादिहेतु’रिति ज्ञात्वा श्रीकृष्णाख्यं ब्रह्म बुधा भक्तियुक्ता भजन्ते इति। तन्मन्दम् ; श्रीकृष्णावतारात् पूर्वोत्तरकालस्थानां कृष्णावतारेऽपि दूरस्थानां श्रीकृष्णभजनासम्भवात् , सन्निहितानामपि विदुषां श्रीकृष्णदेहे ईश्वरबुद्ध्ययोगात् , आत्मनश्च सर्वव्यापित्वादिति॥८॥

दर्शयति— यथावदिति। सोपाधिकं ज्ञानं निरुपाधिकज्ञाने द्वारमित्याह— सोऽविकम्पेनेति। उक्तेऽर्थे प्रतिबन्धाभावमाह— नास्मिन्निति ॥७॥

कथं तावकविभूत्यैश्वर्यज्ञानमुक्तयोगस्य हेतुरिति मत्वा पृच्छति— कीदृशेनेति। उक्तज्ञानमाहात्म्यात् प्रतिष्ठिता भगवन्निष्ठा सिद्ध्यतीत्याह— उच्यत इति। प्रभवत्यस्मादिति प्रभवः सर्वप्रकृतिः सर्वात्मेत्याह— उत्पत्तिरिति। सर्वज्ञात् सर्वेश्वरान्मत्तो निमित्तात् सर्वं स्थितिनाशादि भवति, मया चान्तर्यामिणा प्रेर्यमाणं सर्वं यथास्वं मर्यादामनतिक्रम्य चेष्टते, तदाह— मत्त इति। इत्थं मम सर्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्तीत्याह— इत्येवमिति। संसारासारताज्ञानवतां भगवद्भजने ऽधिकारं द्योतयति— अवगतेति। परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरावभिनिवेशाख्यौ भवतः, तेन संयुक्तत्वं च भगवद्भजने भवति हेतुरित्याह— भावेति॥८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कीदृशेनाविकम्पेन योगेन युज्यत इति? उच्यते—अहमिति।अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्पत्तिः, मत्त एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्तते इत्येवं मत्वा भजन्ते सेवन्ते मां बुधाः१अवगततत्त्वार्थाः भावसमन्विताः भावो भावना परमार्थतत्त्वाभिनिवेशस्तेन समन्विताः संयुक्ता इत्यर्थः॥८॥ १. ‘अवगतपरमार्थतत्त्वाः’ इति पा.।

[[अ. १०. श्लो. ६-८]] [[४९८]]

मच्चित्ता इति। देहगतानां प्राणानां चित्प्रतिबिम्बग्रहणासमर्थानामात्मगतत्वासम्भवादाह— चक्षुरादय इति। प्राणिति चेष्टते देह एभिरिति प्राणाः इति व्युत्पत्त्या प्राणशब्दश्चक्षुरादिकरणपर इति भावः। चक्षुरादिविषयव्यापाराविषयत्वादात्मनः कथं तेषामात्म- गतत्वम्? अत आह— मय्युपसंहृतेति। आत्मनि चक्षुरादीनामुपसंहारो नाम निर्व्यापारत्वमेवेति बोध्यम्। मद्गतजीवना इति। आत्मस्वरूपानन्दानुभवसुधयैव जीवन्तः इत्यर्थः। आत्मस्वरूपानुसन्धानं विना क्षणमपि प्राणधारणामलभमानाः इति यावत्। बोधयन्तो ज्ञापयन्तः। किं तद्? अत आह— तत्त्वमिति। आत्मानमिति यावत्। रमन्ति रमन्ते, परस्मैपदमार्षम्। दृष्टान्तमाह— प्रियसङ्गत्येवेति। इष्टवस्तुसङ्गमादविद्वांसो यथा रमन्ते, तद्वदिति। यद्वा प्रियस्य सङ्गत्या कामिन्यो यथा रमन्ते, तद्वदिति। अनेन श्लोकेन ब्रह्माभ्यासः उक्तः ‘तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः॥’ इति तल्लक्षणात्। तुष्यन्तीति कृतकृत्यतोच्यते, अकृतकृत्यस्य कर्तव्यशेषवत्त्वेन तुष्ट्ययोगात्। इयं च कृतकृत्यता गृहस्थस्य दुर्लभा, तस्य कृत्यशेषसद्भावात्। अतः संन्यासिविषयमेवैतत्। तत्रापि परमहंसविषयमेव, अन्येषां संन्यासिनां दण्डतर्पणादिकृत्यसद्भावात्। एवं कृतकृत्यत्वादेव एते आत्मारामाः भवन्ति, तेषां विषयैः प्रयोजनाभावात्। विषयसुखस्य क्षुद्रत्वाद् , आत्मानन्दस्य शाश्वतत्वाच्चेति॥९॥

तेषामिति। सततयुक्तानां नित्यमात्मनि चित्तसमाधानशालिनाम्। किमिदमात्मभजनं सोपाधिकम्? इत्याक्षिपति— किमिति। अर्थित्वम् अर्थादिकाङ्क्षित्वम्। आदिशब्दाद् आर्तिपरिहारादिकं ग्राह्यम्। प्रीतिपूर्वकमिति। आत्मनि निरतिशयप्रीतेः स्वतःसिद्धत्वाद् किञ्च— मच्चित्ता इति। मच्चित्ताः मयि चित्तं येषां ते मच्चित्ताः। मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः। मय्युपसंहृतकरणाः इत्यर्थः। अथवा मद्गतप्राणाः मद्गतजीवनाः इत्येतत्। १बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम् , कथयन्तश्च ज्ञानबलवीर्यादिधर्मैर्विशिष्टं माम् , तुष्यन्ति च परितोषमुपयान्ति, रमन्ति च रतिं च प्राप्नुवन्ति प्रियसङ्गत्येव॥९॥

ये यथोक्तप्रकारैर्भजन्ते मां भक्ताः सन्तः— तेषामिति। तेषां सततयुक्तानां नित्याभियुक्तानां निवृत्तसर्व- बाह्यैषणानां भजतां सेवमानानाम् ; किमर्थित्वादिना कारणेन? नेत्याह— प्रीतिपूर्वकम् - प्रीतिः स्नेहः, तत्पूर्वकं मां न केवलमुक्तमेव भगवद्भजने साधनम् , साधनान्तरं चास्तीत्याह— किञ्चेति। ईश्वरात् प्रतीचः प्रागुक्तादन्यत्र चित्तप्रचार- राहित्यं भगवद्भजनोपायमाह— मयीति। चक्षुरादीनां भगवत्यप्राप्तिस्तदगोचरत्वात् तस्येत्याशङ्क्याह— मय्युपसंहृतेति। भगवदतिरेकेण जीवनेऽपि नादरः, तदपि मय्येवार्पितं भक्तानामित्याह— अथवेति। आचार्येभ्यः श्रुत्वा वादकथया परस्परं भगवन्तं सब्रह्मचारिणो बोधयन्ति, तदपि भगवद्भजनसाधनमित्याह— बोधयन्त इति। आगमोपपत्तिभ्यां भगवन्तमेव विशिष्टधर्माणं शिष्येभ्यो गुरवो व्यपदिशन्ति, तदपि भगवद्भजनमेवेत्याह— कथयन्त इति। भक्तानां तुष्टिरती स्वरसतः स्यातामित्याह— तुष्यन्तीति। मनोरथपूर्त्या रतिप्राप्तौ कामुकसम्मतमुदाहरणमाह— प्रियेति॥९॥

यदुक्तं ‘सोऽविकम्पेने’त्यादि तदर्थं भूमिकां कृत्वा तदिदानीमुदाहरति— ये यथोक्तेति। नित्याभियुक्तानाम् अनवरतं भगवति ऐकाग्र्यसम्पन्नानामित्यर्थः। पुत्रादिलोकत्रयहेत्वर्थित्वेन वा गर्भदासत्वेन वा प्रत्यहं जीवनोपायसिद्धये वा भजनमिति शङ्कित्वा दूषयति— किमित्यादिना। प्रागुक्तां ज्ञानाख्यां भक्तिं स्नेहेन कुर्वतामित्यर्थः। तेभ्योऽहं तत्त्वज्ञानं प्रयच्छामीत्याह— ददामीति। उक्तबुद्धिसम्बन्धस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥९॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। १. ‘बोधयन्तस्तत्त्वम्’ इति रा.पा. भाति। अत्र— नित्यं तुष्यन्ति च नित्यं रमन्ति चेति नित्यशब्दान्वयो बोध्यः। भाष्ये तु लेखकप्रमादेन नित्यमिति पदं नष्टम्।

[[४९९]]

नात्मप्रीतेर्बलात्कारेण सम्पाद्यतेति बोध्यम्। भजतामिति। प्रमातॄणामिति भावः। ददामीति। अहमात्मेति शेषः। ‘मत्तः स्मृतिः ज्ञानमपोहनं चे’ति वक्ष्यमाणत्वादिति भावः। न च निर्विक्रियस्यात्मनः कथं दातृत्वविकार इति वाच्यम् ; आत्मस्वरूपानुसन्धानवशात् पुंसाम् ‘आत्मैवाहं परब्रह्मे’ति सम्यग्दर्शनं जायत इत्यभिप्रायेणात्मज्ञानं ददातीत्युक्तत्वात्। न हि मुख्यमत्र दानं विवक्षितं, येनोक्तदोषः स्यात्। योगः संयोगः। प्रतिपद्यन्ते निश्चयेन जानन्तीति यावत्। अथवा प्राप्नुवन्तीत्येव। ब्रह्मैव भवन्तीति यावत्। ज्ञानिनः सम्यग्दर्शनेन स्वस्मिन् प्रमातृत्वबुद्धिं विहायात्मत्वनिश्चयं प्रतिपद्य ब्रह्मस्वरूपेणैव तिष्ठन्तीति परमार्थः॥१०॥

तेषामिति। ननु किं बुद्धियोगदानेन? साक्षात् सायुज्यमेव भक्तानां देहीति शङ्कायां, बुद्धियोगं विना मत्प्राप्तिप्रतिबन्धकस्याज्ञान- स्य नाशो न स्यादिति भगवत्प्राप्तिप्रतिबन्धकाज्ञाननाशनार्थं बुद्धियोगदानमावश्यकमित्युत्तरमुच्यते, किञ्च भक्तानां बुद्धियोगदानेन तव किं वा फलमिति शङ्कायां, कृपैव फलमित्युत्तरं चोच्यते श्लोकेनानेनेत्याह—किमर्थमिति। अनुकम्पाया आकारं दर्शयति— कथं न्विति। ननु निर्विकारस्यात्मनः कथं भक्तश्रेयोऽभिलाषित्वमिति चेत्? नैष दोषः; मायया तदुपपत्तेः। अयं भावः— यावज्जीवानाम- स्त्यज्ञानं तावत् परोक्ष एव आत्माऽपि ईश्वरः। स च मायावच्छिन्न एव। जीवाज्ञानस्यैव मायायाः तदवच्छेदकत्वात्। अस्य च मायावच्छिन्नस्येश्वरस्य मायया कृपालुत्वादिकमुचितमेव। यदा पुनर्ज्ञानेन तदज्ञानं नाशितं तदा त्वपरोक्ष एवेश्वर आत्मा। स चानवच्छिन्न एव, मायाया अभावात्। तस्य तु निर्विकारत्वेन कृपालुत्वादिकमयुक्तमिति यावदज्ञानमात्मनोऽपीश्वरस्य भक्तश्रेयो- ऽभिलाषित्वमुपपद्यत एवेति। ननु यो बुद्धियोगेन भक्तानामज्ञानं नाशयति अनुकम्पार्थं, स किं मायावच्छिन्न उतान्तःकरणावच्छिन्नः? नाद्यः, तस्यात्म- भावस्थत्वाभावात्। नान्त्यः, तस्य परिच्छिन्नत्वेन सामर्थ्याभावादिति चेत्? मैवम् ; मायावच्छिन्नः सर्वव्यापी य एवेश्वरः, तस्यैव भजतामित्यर्थः; ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्दर्शनं मत्तत्त्वविषयं, तेन योगो बुद्धियोगः, तं बुद्धियोगम् , येन बुद्धियोगेन सम्यग्दर्शनलक्षणेन मां परमेश्वरमात्मभूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते। के ते? ये मच्चित्तत्वादिप्रकारैः मां भजन्ते ॥१०॥

किमर्थं कस्य वा त्वत्प्राप्तिप्रतिबन्धहेतोः नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासि? १इत्याकाङ्क्षायामाह— तेषामिति। तेषामेव कथं नु नाम श्रेयः स्यादिति अनुकम्पार्थं दयाहेतोः अहम् अज्ञानजम् अविवेकतो जातं मिथ्या- फलमाह— येनेति। ध्यानजन्यप्रकर्षकाष्ठागतान्तःकरणपरिणामे निरस्ताशेषविशेषभगवद्रूपप्राप्तिहेतौ बुद्धियोगे प्रश्नपूर्वकम् उक्तान- धिकारिणो दर्शयति— के त इति॥१०॥

भगवत्प्राप्तेर्बुद्धिसाध्यत्वे सत्यनित्यत्वापत्तेस्त्वमपि भक्तेभ्यो बुद्धियोगं ददासीत्ययुक्तमिति शङ्कते— किमर्थमिति। तेषां बुद्धियोगं किमर्थं ददासीति सम्बन्धः। भगवत्प्राप्तिप्रतिबन्धकनाशको बुद्धियोगः, तेन नास्ति तत्प्राप्तेरनित्यत्वमित्याशङ्क्याह— कस्येति। भक्तानां तत्प्राप्तिप्रतिबन्धकं विविच्य दर्शयति— इत्याकाङ्क्षायामिति। अविवेको नामाज्ञानम् , ततो जातं मिथ्याज्ञानम् , तदुभयमेकीकृत्य तमो विवक्ष्यते। न च तन्नाशकत्वं जडस्य कस्यचित् तदन्तर्भूतस्य युक्तम् , तेन अहं नाशयामीत्युक्तम्। केवलचैतन्यस्य जडबुद्धिवृत्ते-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥१०॥

तेषामेवानुकम्पार्थम् अहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥११॥

अ. १०. श्लो. ९-११ ] १. ‘इत्यपेक्षायाम्’ इति पा.।

[[५००]]

अन्तःकरणावच्छिन्नत्वेन आत्मभावस्थत्वसम्भवात्। अन्यथा ईश्वरस्य सर्वव्यापित्वस्यैव नाशप्रसङ्गात्। अत एव ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती’ति वक्ष्यते भगवतेहैव। न चेश्वरस्य अन्तःकरणावच्छिन्नत्वे सति परिच्छिन्नत्वेनासर्वज्ञत्वादिकं संभवेदिति वाच्यम् ; अन्तःकरणावच्छिन्नस्यापि सिद्धान्तेऽपरिच्छिन्नत्वाभ्युपगमात्। परिच्छिन्नत्वे तु जीवस्य घटवदनित्यत्वादिप्रसङ्गात्। न चान्तः- करणावच्छिन्ने आत्मनीश्वरे सार्वज्ञ्यं नोपलभ्यत इति वाच्यम् ; उपलभ्यत एव तद् ईश्वरेण। न त्वज्ञेन त्वया, अज्ञत्वादेव तव। न चान्तःकरणावच्छिन्नादन्य एव मायावच्छिन्नः कश्चिदीश्वरो हृद्देशे तिष्ठतीति वाच्यम् ; प्रमाणाभावादनुभवाभावात्। ईश्वरस्यैव जीवरूपेण क्षेत्रेष्वनुप्रवेशश्रवणात्। न च ‘द्वा सुपर्णा’ इति श्रुतिः प्रमाणमिति वाच्यम् ; चिदाभासप्रत्यगात्मपरत्वात् तच्छ्रुतेः, अथवा बुद्धिचिदात्मपरत्वात्। न च चिदाभास एव जीवः, प्रत्यगात्मा त्वीश्वर इति वाच्यम् ; सुषुप्तौ चिदाभासलयस्य त्वयैवानुभाव्यमानत्वेन तव प्रत्यगात्मत्वात्। चिदाभासो हि संसारी। न हि सुषुप्तौ स दृश्यते ‘अन्धोऽप्यनन्धो भवती’त्यादिश्रुतेश्च। तस्मात् प्रत्यग्रूपेण हृद्देशस्थित ईश्वर एव यावदज्ञानं परोक्षः सन् भक्तानां बुद्धियोगं ददाति माययेति सर्वमनवद्यम्। अविवेक आत्मानात्मविवेकाभावः। मिथ्याप्रत्ययोऽनात्मनि देहादावहम्बुद्धिः। मोह एवान्धकारः तं मोहान्धकारम्। तमोमोह एव तमोऽन्धकार इति श्लिष्टरूपकमिति भावः५। आत्मभावः आत्मनोऽन्तःकरणस्य भावः आशयः, आत्माकारवृत्तिविशेष इत्यर्थः। यद्वा आत्मनः स्वस्य भावोऽन्तःकरणाशयः। बुद्धिवृत्तिरित्यर्थः। तस्मिन् स्थितःसन् प्रतिफलनरूपेणेति भावः। विषयत्वेन रूपेणेति वा। ज्ञानम् आत्मानात्मविवेकबुद्धिः, तदेव दीपः, तेन ज्ञानदीपेन। मोहेऽन्धकारत्वरूपणाज्ज्ञाने दीपत्वरूपणम्। एवं ज्ञानदीप इति रूपणादेव तम इत्यत्र श्लिष्टरूपकमुक्तम्। मूले ज्ञानदीप इत्येकदेशविवर्तिरूपकमुक्तम्। तदेव सावयवरूपकतया निर्दिशति भाष्यकारः— भक्तिस्नेहेत्यादिना। भक्तिः आत्मप्रीतिरेव स्नेहः तैलं, तेन सिक्तेन। मद्भावनाभिनिवेशो मद्भावाग्रह एव वातः स्वल्पवायुः, तेनेरितेन। अत्यन्तं वाताभावेऽधिकवातसत्त्वे वा दीपस्थित्ययोगादिति भावः। ब्रह्मचर्यादिसाधनसंस्कारवती या प्रज्ञा सैव वर्तिर्यस्य तेन। विरक्तं यदन्तःकरणं तदेव आधारः पात्रं यस्य तेन। विषयेभ्यो व्यावृत्तम् , अत एव रागद्वेषादिभिरकलुषीकृतं चित्तं, तदेव प्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि आत्मभावस्थः आत्मनो भावोऽन्तःकरणाशयः, तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कार- वत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवातापवरकस्थेन १नित्यप्रवृत्तैकाग्र्य- रिवाज्ञानाद्यनाशकत्वमाशङ्क्य२ विशिनष्टि— आत्मेति। तस्याशयः तन्निष्ठो वृत्तिविशेषः। ३वाक्योत्थबुद्धिवृत्त्यभिव्यक्तश्चिदात्मा सहाय- सामर्थ्यादज्ञानादिनिवृत्तिहेतुरित्यर्थः। ४बुद्धीद्धबोधस्याज्ञानादिनिवर्तकत्वमुक्त्वा बोधेद्धबुद्धेस्तन्निवर्तकत्वमिति पक्षान्तरमाह— ज्ञानेति। देहाद्यव्यक्तान्तानात्मवर्गातिरिक्तवस्तुगोचरत्वमाह— विवेकेति। भगवति सदा विहितया भक्त्या तस्य प्रसादोऽनुग्रहः, स एव स्नेहः, तेनासेचनद्वारा अस्योत्पत्तिमाह— भक्तीति। मय्येव भावनायामभिनिवेशो वातस्तेन प्रेरितोऽयं जायते। न हि वातप्रेरणमन्तरेणादौ दीपस्योत्पत्तिरित्याह— मद्भावनेति। ब्रह्मचर्यम् अष्टाङ्गम्। आदिशब्देन शमादिग्रहः। तेन हेतुनाऽऽहितसंस्कारवती या प्रज्ञा तथाविध- वर्तिनिष्ठश्चायम्। न हि वर्त्यतिरेकेण दीपो निर्वर्त्यते, तदाह— ब्रह्मचर्येति। न चाधारादृते दीपस्योत्पत्तिरदृष्टत्वादित्याह— विरक्तेति। यद् विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितं तदेव निवातमपवारकम् [वरकम्], तत्र स्थितत्वमस्य दर्शयति— विषयेति। भास्वतेति विशेषणं १. ‘नित्यप्रवृत्तैकाग्रध्यान’ इति पा.। २. बुद्धिवृत्तेर्जडत्वात् केवलचैतन्यस्याज्ञानभासकत्वाच्च न तन्नाशकत्वमिति भावः। ३. वाक्यं महावाक्यम्। ४. बुद्धीद्धबोधः बुद्धिवृत्त्यभिव्यक्तचैतन्यम्। बोधेद्धबुद्धिः चैतन्यप्रतिबिम्बविशिष्टा बुद्धिवृत्तिः। ५. उपमैव तिरोभूतभेदा रूपकमुच्यते। उपमानोपमेययोः सादृश्यातिशयेनाभेदारोप इति यावत्। तत्र च साधारणधर्मस्य श्लेषमूलकत्वे श्लिष्टरूपकम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

ज्ञानस्य दीपसाम्यं दर्शयति—भक्तीत्यादिना। भक्तिनिमित्तप्रसादः ईश्वरानुग्रहः, स एव स्नेहः, तत्सिद्धेन। मद्भावना- यामभिनिवेश एव वातः तत्प्रेरितेन। ब्रह्मचर्यादिसाधनसंस्कारवती प्रज्ञैव वर्त्तिर्यस्य ज्ञानदीपस्य तेन। विरक्तमन्तः-

[[५०१]]

निवातापवरकं वातरहितं निकेतनं, तत्र तिष्ठतीति तत्स्थम् , तेन। चित्तान्तःकरणयोरेकात्मकत्वेऽपि व्यापारभेदात् पृथग् निर्देशः। अन्तःकरणं मनः, चित्तं बुद्धिरिति विवेकः। इति रूपणम्। अथ भास्वतेति विशेषणं व्याकरोति— नित्येति। नित्यं सदा प्रवृत्तं यदेकाग्रं ध्यानं तस्माज्जनितमुदितं यत् सम्यग्दर्शनं ब्रह्मात्मसाक्षात्कारस्तदेव भाः दीप्तिः, तद्वता नित्यप्रवृत्तैकाग्रध्यानजनितसम्यग्दर्शनभास्वता। भाः अस्यास्तीति भास्वानिति ‘तदस्या- स्त्यस्मिन्निति मतुप्’। अहं तेषामेवानुकम्पार्थम् आत्मभावस्थः सन् भास्वता ज्ञानदीपेनाज्ञानजं तमो नाशयामि। अहमनुकम्पार्थं तेषामेवेति वा। तस्मादीश्वरदत्तबुद्धियोगस्य भगवत्प्राप्तिप्रतिबन्धकाज्ञाननाशनमेव कृत्यमिति सिद्धम्॥११॥

परमिति। भवान् परमं पवित्रं, परं धाम, परं ब्रह्म भवति। देवर्षिर्नारदः, असितः, देवलः, व्यासः एवमाद्याः सर्वे ऋषयः त्वां शाश्वतं दिव्यमादिदेवमजं विभुं पुरुषमाहुः। स्वयं चैव मे ब्रवीषीति श्लोकद्वयान्वयः। ब्रह्मशब्दस्य प्रकृत्यादिपरत्वात् तद्व्युदासाय परत्व- विशेषणम्। धामशब्दस्य दीपादिपरत्वात् तद्व्युदासाय परत्वविशेषणम्। धाम चात्र ज्ञानम्। चिन्मयस्येश्वरस्य अग्न्यादितेजोरूपत्वा- भावात्। गङ्गादीनामपि पवित्रत्वात् तद्व्युदासाय परमत्वविशेषणम्। दिवि हृदयाकाशे भवतीति दिव्यः, देवानामादिः आदिदेवः; आदिश्चासौ देवः आदिदेव इति वा समासः। अर्थस्त्वेक एव। विभवनं व्यापनं नियमनं वा शीलं यस्य तं विभवनशीलम्। ध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेनेत्यर्थः॥११॥

यथोक्तां भगवतो विभूतिं योगं च श्रुत्वा अर्जुन उवाच— परमिति। परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान्। पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदिदेवं सर्वदेवानामादौ भवं १देवम् अजं विभुं विभवनशीलम्॥१२॥

विशदयति— नित्येति। सदातनं चित्तैकाग्र्यं, तत्पूर्वकं ध्यानं, तेन जनितं सम्यग्दर्शनं फलं, तदेव भाः, तद्वता तत्पर्यन्तेनेत्यर्थः। तेनाज्ञाने सकार्ये निवृत्ते भगवद्भावः स्वयमेव प्रकाशीभवतीति मत्वा व्याख्यातमेव पदमनुवदति— ज्ञानेति॥११॥० निरस्ताशेषविशेषं निरुपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपं तद्धीफलं च श्रुत्वा, निरुपाधिकरूपस्य प्राकृत- बुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्यं सोपाधिकं रूपं विस्तरेण श्रोतुमिच्छन् पृच्छतीत्याह— यथोक्तामिति। परं ब्रह्म भवानिति लक्ष्यनिर्देशः। तस्य लक्षणार्थं परं धामेत्यादिविशेषणत्रयम्। धामशब्दस्य स्थानवाचित्वं व्यावर्तयन् व्याचष्टे— तेज इति। तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्र्ह्यम्। प्रकृष्टं पावनम् अत्यन्तशुद्धत्वमुच्यते। यदेवं लक्षणं परं ब्रह्म तद् भवानेव, नान्य इत्यर्थः। कुतस्त्वमेवमज्ञासीरित्याशङ्क्याप्तवाक्यादित्याह— पुरुषमिति। दिवि परमे व्योम्नि भवतीति दिव्यस्तं सर्वप्रपञ्चातीतम्। दीव्यति द्योतत इति देवः, स चादिः सर्वमूलत्वाद् अत एवाजस्तं त्वां सर्वगतम् आहुरिति सम्बन्धः॥१२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अर्जुन उवाच — परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥१२॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

करणमेवाधारं पात्रं यस्य। विषयेभ्यो व्यावृत्तं यच्चित्तं तत एव रागद्वेषाभ्यां [अ]कलुषीकृतम् , स एव निवातापवरकः। तत्रास्ति [तत्र स्थि]तेन। नित्यप्रवृत्तं यदेकाग्रं ध्यानं, तज्जनितं सम्यग्दर्शनमेव भाः प्रभा विद्यते यस्य तेनेत्यर्थः॥११॥

॥ इति श्रीगीताभाष्यटिप्पणे दशमोऽध्यायः॥

अ. १०. श्लो. ११-१२ ] १. ‘आदिदेवम्’ इति पा.।

[[५०२]]

अत्र सर्वे ऋषयः त्वां शाश्वतत्वादिविशेषणविशिष्टमाहुः। देवर्षिर्नारदस्तथाऽऽह। असितो देवलोऽप्येवमाह। व्यासश्चैवमाह इत्यप्यन्वयो भाष्याभिमत इति बोध्यम्। भवानित्यस्य त्वामित्यस्य च श्रीकृष्णशरीरावच्छिन्नं चैतन्यमर्थः। तस्यैव परब्रह्मत्वादिविशेषणविशिष्टत्वात्। यद्यप्यर्जुन- शरीरावच्छिन्नं चैतन्यमप्येवंविधमेव। तथापि नार्जुनस्यैतावताऽप्यात्मनीश्वरप्रत्ययः आसीदिति बोध्यम्। अथवा भवानित्यस्य त्वामित्यस्य च चिन्मय आत्मेत्येवार्थः॥१२ , १३॥

सर्वमिति। हे केशव! त्वं मां प्रति यद् वदसि, तदेतत् सर्वमृतं मन्ये। हे भगवन् ! देवाः दानवाश्च ते व्यक्तिं न विदुर्हि। हिः प्रसिद्धौ। प्रभवम् आदिं न विदुः। तवानादित्वेन आदेरभावादिति भावः॥१४॥

स्वयमिति। हे पुरुषोत्तम! हे भूतभावन! हे भूतेश! हे देवदेव! हे जगत्पते! त्वं स्वयमेवात्मनाऽऽत्मानं वेत्थ। आत्मस्वरूपज्ञानेनैवेत्यर्थः। पुरुषोत्तमशब्दं भगवान् स्वयमेव व्याख्यास्यति ‘यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि उक्तविशेषणं त्वामृषयः सर्वे यस्मादाहुस्तस्मात् तद्वचनात् तवोक्तं ब्रह्मत्वं युक्तमित्याह— ईदृशमिति। ऋषिग्रहणेन गृहीतानामपि नारदादीनां विशिष्टत्वात् पृथग्ग्रहणम्। असितो देवलस्य पिता। किमन्यैः? त्वं स्वयमेवात्मानमुक्तरूपं मह्यमुक्तवानि- त्याह— स्वयं चेति ॥१३॥

ऋषिभिस्त्वया चोक्तत्वादुक्तं सर्वं सत्यमेवेति मम मनीषेत्याह— सर्वमिति। किं तदित्याशङ्क्यात्मरूपमित्याह— यन्मामिति। देवादिभिः सर्वैरुच्यमानतया त्वद्रूपे विशिष्टवक्तृग्रहणमनर्थकमित्याशङ्क्याह— न हीति। प्रभवो नाम प्रभावो निरुपाधिकस्वभावः। यदा देवादीनामपि दुर्विज्ञेयं तव रूपम् , तदा का कथा मनुष्याणामित्यर्थः॥१४॥

कश्चिदेव महता कष्टेनानेकजन्मसंसिद्धो जानाति त्वदनुगृहीतस्त्वद्रूपमित्यभिप्रेत्याह— यत इति। स्वयमेव उपदेशमन्तरेणे- त्यर्थः। आत्मना प्रत्यक्त्वेन, अविषयतयेति यावत्। आत्मानं निरुपाधिकं रूपम्। न च ३तव सोपाधिकमपि रूपमन्यस्य गोचरे तिष्ठतीत्याह— निरतिशयेति। पुरुषश्चासावुत्तमश्चेति क्षराक्षरातीतपूर्णचैतन्यरूपत्वं सम्बोधनेन बोध्यते। सर्वप्रकृतित्वं सर्वकर्तृत्वं च

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥१३॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव !। न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥१४॥

स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम !। ईदृशम्— आहुरिति। आहुः कथयन्ति त्वाम् ऋषयो वसिष्ठादयः सर्वे, देवर्षिर्नारदस्तथा, असितो देवलो ऽप्येवमेवाह , व्यासश्च ; स्वयं चैव त्वं १च ब्रवीषि मे॥१३॥

सर्वमिति। सर्वमेतद् यथोक्तमृषिभिस्त्वया च, एतद् ऋतं सत्यमेव मन्ये यन्मां प्रति वदसि भाषसे, हे केशव ! न हि ते तव भगवन् व्यक्तिं प्रभवं विदुः२न देवाः, न दानवाः॥१४॥

यतस्त्वं देवादीनामादिः, अतः—स्वयमिति। स्वयमेवात्मना आत्मानं वेत्थ जानासि त्वं निरतिशयज्ञानैश्वर्य- बलादिशक्तिमन्तमीश्वरम् , पुरुषोत्तम ! भूतानि भावयतीति भूतभावनो हे भूतभावन ! भूतेश ! भूतानामीशितः, हे १. ‘चैव’ इति पा.। २. नञोऽनुकर्षणमिदम् अन्वयप्रदर्शनार्थम्। नञ् क्वचिन्न दृश्यते। ३. ‘एतत्’ इति पा.।

[[५०३]]

देवदेव ! जगत्पते ! ॥१५॥ वक्तुमिति। वक्तुं कथयितुम् अर्हसि अशेषेण, दिव्या ह्यात्मविभूतयः आत्मनो विभूतयो याः१, ताः वक्तुमर्हसि, याभिः विभूतिभिः आत्मनो माहात्म्यविस्तरैः२ इमान् लोकान् त्वं व्याप्य तिष्ठसि॥१६॥

कथमिति। कथं विद्यां विजानीयाम् अहम् , हे योगिन् ! त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु वस्तुषु चिन्त्योऽसि ध्येयोऽसि, भगवन् ! मया ॥१७॥

लोके वेदे च प्रथितः पुरुषोत्तमः’ इति। अतो नात्र व्याख्यातः आचार्यैः। सर्वाणि भूतानि प्रकृतिश्च पुरुषशब्दवाच्याः, तेभ्यः पुरुषेभ्यः उत्तमः पुरुषोत्तमः। यद्वा पुरुषश्चासावुत्तमश्च पुरुषोत्तमः, क्षराक्षराभ्यामुत्तमः पुरुषोऽयमित्यर्थः। पूर्णत्वात् पुरि शयनाद्वा पुरुष इति निरुक्तिः पुरुषशब्दस्य पुरैव दर्शिता। पुरुषेभ्यो जीवेभ्यः संसारिभ्यश्चिदाभासेभ्यः उत्तमः, असंसारित्वादात्मनः, पुरुषोत्तम इति वा। भावयति उत्पादयति। ईशितः नियामक, प्रभो इति यावत्। देवानामपि देवः प्रभुर्देवदेवः, तत्सम्बुद्धिः। जगतः पतिः प्रभुः पालकः जगत्पतिः, तत्सम्बुद्धिः। यस्मात् त्वमुत्तमः पुरुषः, यस्माच्च जगत्सृष्ट्यादिहेतुः, यस्माच्च जगन्नियामकः, यस्माच्च देवानामधिपतिः, तस्मात् त्वमेव त्वां वेत्सि, न त्वन्यः कोऽपि प्राणी त्वां वेद। त्वज्जन्यत्वात् त्वत्परतन्त्रत्वाच्च सर्वस्येति भावः॥१५॥

वक्तुमिति। यत एवं ततः, या दिव्याः आत्मविभूतयस्ताः अशेषेण वक्तुमर्हसि हि , त्वमिमान् लोकान् याभिर्विभूतिभिर्व्याप्य तिष्ठसि। यद्वा याभिर्विभूतिभिस्त्वमिमान् लोकान् व्याप्य तिष्ठसि, याश्च दिव्या आत्मविभूतयस्ताः अशेषेण वक्तुमर्हसि हि॥१६॥

कथमिति। हे योगिन् ! त्वां सदा कथं परिचिन्तयन्नहं विद्याम्? हे भगवन् ! त्वं मया केषु केषु च भावेषु चिन्त्योऽसि? योगः सम्यग्दर्शनम् अणिमाद्यैश्वर्ययोगो वा अस्यास्तीति योगी, तत्सम्बुद्धिः॥१७॥

कथयति— भूतानीति। सर्वेश्वरत्वमाह— भूतानामिति। उक्तं ते सोपाधिकं रूपं देवादीनामाराध्यतामधिगच्छतीत्याह— देवेति। जगतः सर्वस्य स्वामित्वेन पालयितृत्वमाह— जगदिति॥१५॥

यस्मादस्मादृशामगोचरस्तवात्मा जिज्ञासितश्च, तस्मात् त्वयैव ३तद्रूपं वक्तव्यमित्याह— वक्तुमिति। दिव्यत्वम् अप्राकृतत्वम्। सम्प्रत्यन्वयमन्वाचष्टे— आत्मन इति। वक्तव्याः विभूतीर्विशिनष्टि— याभिरिति। यद्द्वारा लोकान् पूरयित्वा वर्तसे, ताः विभूतीरशेषेण वक्तुमर्हसीत्यर्थः॥१६॥

किमर्थं विभूतीः श्रोतुमिच्छसीत्याशङ्क्य ध्यानसौकर्यप्रकारप्रश्नेन फलं कथयति— कथमिति। योगो नामैश्वर्यं, तदस्यास्तीति योगी, हे योगिन् ! अहं स्थविष्ठमतिः त्वां केन प्रकारेण सततमनुसन्दधानो विशुद्धबुद्धिर्भूत्वा निरुपाधिकं त्वां विजानीयामिति प्रश्नः।४ प्रश्नान्तरं प्रस्तौति— केषु केष्विति। चेतनाचेतनभेदाद् उपाधिबहुत्वाच्च बहुवचनम् ॥१७॥

१. प्रथमान्तनिर्देशसंगमनाय अध्याहारेण ‘आत्मविभूतयः याः ताः’ इति योजितम्। २. ‘विस्तरैः’ इति विस्तारार्थे बोध्यम्। अग्रेऽपि एवम्। ३. ‘त्वद्रूपं’ इति पा.। ४. बुद्धिशुद्धितदैकाग्र्यद्वारा तत्त्वज्ञानसाधनीभूतध्यानप्रकारः प्रथमप्रश्नविषयः। ध्यानालम्बनविशेषः द्वितीयप्रश्नविषयः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

भूतभावन ! भूतेश ! देवदेव ! जगत्पते !॥१५॥

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः। याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥१६॥

कथं विद्यामहं योगिन् ! त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन् ! मया॥१७॥

[[अ. १०. श्लो. १३-१७]] [[५०४]]

विस्तरेणेति। विस्तरेणात्मनो योगं योगैश्वर्यशक्तिविशेषं, विभूतिं च विस्तरं ध्येयपदार्थानाम् , हे जनार्दन ! अर्दतेर्गतिकर्मणो रूपम्। असुराणां देवप्रतिपक्षभूतानां जनानां नरकादिगमयितृत्वाज्जनार्दनः। १अभ्युदयनिःश्रेयस- पुरुषार्थप्रयोजनं सर्वैर्जनैर्याच्यत इति वा। भूयः पूर्वमुक्तमपि कथय। तृप्तिः हि परितोषो हि यस्मान्नास्ति मे मम शृण्वतः त्वन्मुखनिःसृतवाक्यामृतम् ॥१८॥

हन्त त इति। हन्त इदानीं ते तव दिव्याः दिवि भवाः आत्मविभूतयः आत्मनो मम विभूतयो यास्ताः कथयिष्यामीत्येतत्। प्राधान्यतः यत्र यत्र प्रधाना या या विभूतिस्तां तां प्रधानां प्राधान्यतः कथयिष्याम्यहम् , विस्तरेणेति। हे जनार्दन! आत्मनो योगं विभूतिं च विस्तरेण भूयः कथय। हि अमृतं शृण्वतो मे तृप्तिर्नास्ति। ननूक्त एव मम योगो विस्तर[विभूति]श्चेत्यत आह— विस्तरेणेति। संक्षेपेणोक्तात् तस्मान्नास्ति मम तृप्तिरिति भावः। कोऽसौ योगः? अत आह— ऐश्वर्यशक्तिविशेषमिति। विस्तरं समृद्धिम्। केषां विस्तरः? अत आह— ध्येयेति। ध्येयाः चिन्त्याः पदार्था आदित्यादयः। येषु भावेषु भगवांश्चिन्त्यः, तेऽपि भावा भगवदाश्रयत्वेन चिन्त्या एवेति भावः। गतिकर्मण इति। गतिर्गमनं कर्म क्रिया, धात्वर्थ इति यावत् , यस्य तस्य तथोक्तस्य, अर्दतेः ‘अर्द गतियाचनयो’रिति धातोः रूपम् अर्दनः इति। अर्दयति गमयतीत्यर्दनः। जनानामर्दनो जनार्दनः। कान् किं गमयतीत्यत आह— असुराणां नरकादिगमयितृत्वादिति। आदिपदात् पातालादिग्रहणम्। असुराणामिति कर्मणि षष्ठी। देव- प्रतिपक्षत्वादसुरान् नरकादि गमयतीत्याह— देवेति। भगवतो देवपक्षपातित्वाद् , राक्षसान्तकत्वाच्चेति भावः। शमदमदयादिसद्गुण- म्पत्तिमत्सु भगवतः प्रीतिः, तादृशाश्च देवा एवेति बोध्यम्। अर्दतेर्याच्ञार्थत्वाद् व्युत्पत्त्यन्तरमाह— अभ्युदयेति। जनैर्भक्तैरर्द्यते याच्यते अभ्युदयरूपं निःश्रेयसरूपं वा पुरुषार्थनामकं प्रयोजनमिति जनार्दनः। याचतेर्द्विकर्मकत्वाद् अभ्युदयेत्यादिकमुक्तम्। जनाः अभ्युदयादिकम् एनं भगवन्तं याचन्त इत्यर्थः। किं तदमृतम्? अत आह— वाक्यामृतमिति। वाक्यरूपममृतमित्यर्थः॥१८॥

हन्तेति। हन्तेत्याश्चर्ये। दिव्या इति। दिवि आकाशतुल्ये ब्रह्मणि भवन्तीति भवाः, ब्रह्मण्यधिष्ठाने मायया कल्पिता इति भावः। यत्र यत्र जातौ या या व्यक्तिः प्रधाना तां तामात्मविभूतिं कथयिष्यामीत्यर्थः। विभूतीनामिति। भगवत्यात्मनि ब्रह्मणि कल्पिता प्रकृतं प्रश्नमुपसंहरति— विस्तरेणेति। अर्दतेर्गतिकर्मणो जनार्दनेति रूपम्। तद् व्युत्पादयति— असुराणामिति। प्रकारान्तरेण शब्दार्थं व्युत्पादयति— अभ्युदयेति। ननु पूर्वमेव सप्तमे नवमे च विभूतिरैश्वर्यं चेश्वरस्य दर्शितम् , तत् किमिति श्रोतुमिष्यते? तत्राह— भूय इति। अमृतम् अमृतप्रख्यमित्यर्थः॥१८॥

प्रष्टारं विश्रम्भयितुं भगवानुक्तवानित्याह— श्रीभगवानिति। हन्तेत्यनुमतिं व्यावर्त्य जिज्ञासावच्छिन्नं कालं दर्शयति— इदानी- मिति। दिवि भवत्वम् अप्राकृतत्वमस्मदगोचरत्वम्। वाक्यान्वयं द्योतयति— यास्ता इति। सर्वविभूतीनां वक्तव्यत्वप्राप्तावुक्तम्— यत्रेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विस्तरेणात्मनो योगं विभूतिं च जनार्दन !। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥१८॥

श्रीभगवानुवाच— हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ ! नास्त्यन्तो विस्तरस्य मे॥१९॥

१. ‘फलमत उपपत्तेः’ (ब्र.सू. ३.२.३९) इत्यत्रकर्मफलदातृत्वस्य, ‘चतुर्विधा भजन्ते माम्’ इत्यत्र भगवतो याच्यत्वस्य च प्रसिद्धत्वान्नेदं व्याख्यानमप्रामाणिकम्।

[[५०५]]

अहमात्मा गुडाकेश ! सर्वभूताशयस्थितः। अहमादिश्च मध्यं च भूतानामन्त एव च॥२०॥

मायया चराचरात्मकाः सर्वे पदार्था विभूतिशब्देनोच्यन्ते। विशेषेण भूतिर्भवनं विभूतिरिति व्युत्पत्तेः। एकरूपेण स्थितो ह्यात्मा मायया बहुरूपो भवति। अन्तोऽवधिः, न तु नाशः, विभूतीनां नश्वरत्वात्॥१९॥

अहमिति। केषु केषु भावेषु कथं वा तव चिन्तनम्? इत्यर्जुनस्य यः प्रश्नः, तत्रोत्तरं तावद् वक्तीत्याह— तत्रेति। हे गुडाकेश! सर्वभूताशयस्थित आत्मा अहमेव। भूतानामादिः, मध्यम् , अन्तश्चाहमेव। ‘निद्रालस्ये गुडाके स्यादि’त्यभिधानादाह— गुडाका निद्रेति। जितनिद्र इति। परिभूततमोगुण इत्यर्थः। अत एव जितालस्योऽपि गुडाकेश इत्युच्यते। निद्रालस्ययोस्तमोगुणकार्यत्वात्। अर्थान्तरमाह— घनेति। वनवासादिषु तपश्चर्यया जटीभूतत्वेन गुडवद् घनाः केशा यस्य स गुडाकेशः। गुडकेश इति भवितव्ये पृषोदरादित्वादाकारः। हृदि [गुहा]पदार्थे प्रत्यग्रूपेणेश्वरो नित्यं ध्येय इत्ययं प्रथमः पक्षः। अत एव लीलाशुकः ‘उपासतामात्मविदः पुराणाः परं पुमांसं निहितं गुहायाम्। वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः॥’ इत्यवोचत्। तदशक्तेनेति। तस्मिन् प्रत्यगात्मध्याने अशक्तेन असमर्थेन तूत्तरेषु वक्ष्यमाणेष्वादित्यादिष्वित्यर्थः। ननु कुतस्त्वमेव चिन्त्यः? इत्यत आह— अहमिति। मत्त एव भूतानि जायन्ते, मय्येव लीयन्ते, भूतानामन्तश्चाहमेव स्थित इत्यहमेव ध्येयः। ‘कश्चिद् ध्येयः कारणं तु ध्येयः’ इति श्रुतेः। मम कारणत्वात् , मद्भिन्नस्य सर्वस्य मदात्मकत्वाच्चेति भावः। रामानुजस्तु— ‘अहमात्मतया सर्वभूताशयस्थितः’ इति वदन् ‘प्रत्यगात्मनोऽप्यन्तःस्थितोऽयं परमात्मा’ इति बभाषे। ‘यः सर्वेषु भूतेषु तिष्ठन्’ ‘य आत्मनि तिष्ठन्’ इत्यन्तर्यामिब्राह्मणमत्र प्रमाणत्वेनोपन्यस्तवांश्च। तदेतद् मन्दम् ; प्रत्यगात्मनोऽन्यस्य परमात्मनो हृद्देशेऽनुपलम्भात्। मनआदिसर्वप्रपञ्चाभावसाक्षित्वेन स्वस्य प्रत्यगात्मन एव स्फुरणात् समाधौ। निरन्तरप्रज्ञानघने आत्मन्यन्यस्य वस्तुमनवकाशाच्च। २ब्राह्मणे तु भूतशब्दः प्राणिपरः, आत्मशब्दस्तु बुद्धिपरः३ इति न तस्योक्तार्थे प्रामाण्यम्॥२०॥

किमित्यनवशेषतो विभूतयो नोच्यन्ते? तत्राह— अशेषतस्त्विति। तत्र हेतुः—यत इति॥१९॥

विभूतिप्रदर्शने प्रस्तुते सत्यादावेव पारमार्थिकं पारमेश्वरं रूपं दर्शयितुं श्रोतुरर्जुनस्य मनःसमाधानार्थं यतते— तत्रेति। सोपाधिकमपि काल्पनिकं परस्य रूपं पश्चाद् वक्ष्यमाणं श्रोतुं चित्तसमाधानं कर्तव्यमेवेत्याह— तावदिति। आशेरतेऽस्मिन् विद्याकर्म- पूर्वप्रज्ञाः इत्याशयो हृदयम् , सर्वेषां भूतानां हृदयेऽन्तःस्थितो यः प्रत्यगात्मा सोऽहमेवेति वाक्यार्थमाह— सर्वेषामिति। यस्तु मन्दो मध्यमो वा परमात्मानमात्मत्वेन ध्यातुं नालम् , तं प्रत्याह— तदशक्तेनेति। वक्ष्यमाणादित्यादिषु परस्य न ध्येयत्वम् , अन्यदेव कारणं किञ्चित् तत्र तत्र ध्येयमित्याशङ्क्याह— यस्मादिति। सर्वकारणत्वेन सर्वज्ञत्वेन सर्वेश्वरत्वेन च परस्य ध्येयत्वमत्रेप्सितम् , नान्यस्य कस्यचित् कारणस्यादित्यादिषु ध्येयतेत्यर्थः॥२०॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कुरुश्रेष्ठ ! अशेषतस्तु वर्षशतेनापि न शक्या वक्तुम्। यतो नास्ति अन्तो विस्तरस्य मे मम विभूतीनामित्यर्थः॥१९॥

तत्र प्रथममेव तावच्छृणु— अहमिति। अहम् आत्मा प्रत्यगात्मा, गुडाकेश ! गुडाका निद्रा, तस्या ईशो गुडाकेशो जितनिद्रः इत्यर्थः। घनकेश इति वा। सर्वभूताशयस्थितः सर्वेषां भूतानामाशयेऽन्तर्हृदि स्थितोऽहमात्मा प्रत्यगात्मा नित्यं ध्येयः। तदशक्तेन चोत्तरेषु भावेषु चिन्त्योऽहम् , १चिन्तयितुं शक्यः यस्माद् अहमेव आदिः भूतानां कारणम् , तथा मध्यं च स्थितिः, अन्तः प्रलयश्च॥२०॥

अ. १०. श्लो. १८-२० ] १. ‘चिन्तयितुं शक्यः’ इति क्वचिन्न। २. अन्तर्यामिब्राह्मणे। ३. ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’ ( ब्र.सू. १-२-२०) इति सूत्रभाष्ये तु ‘य आत्मनि तिष्ठन्’ इति आत्मपदस्य जीवपरत्वं व्याख्यातम्। तच्च बुद्ध्युपाधिकत्वाज्जीवस्येति संगमनीयम्।

[[५०६]]

आदित्यानामिति। अनेन च विष्ण्वादयो मद्विभूतय इति कथनेन विष्ण्वादिभावेष्वीश्वरस्य ध्येयत्वं, तेषां भावानां चेश्वरात्मक- तया ध्येयत्वं सूच्यते। आदित्यानां विष्णुरहं भवामीति शेषः। तथा च विष्णावादित्ये ध्येय ईश्वरो हिरण्मयपुरुषरूपेणेति द्योत्यते। ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः’ इति स्मृतेः। ज्योतिषां नक्षत्रादीनां मध्ये अंशुमान् रविरहम्। अनेन च रवेस्तन्मण्डलस्थपुरुषस्य च ध्येयत्वं सूच्यते। मरुतां मरुन्नामकदेवताविशेषाणां मध्ये मरीचिरहम्। अनेन च मरीचेस्त- दन्तरपुरुषस्य च ध्येयत्वं सूच्यते। नक्षत्राणां मध्ये शश्यहम्। अनेन चन्द्रस्य तन्मण्डलस्थहयग्रीवस्य च ध्येयत्वं सूच्यते। एवमुत्तरत्राप्यूह्यम्। ननु चन्द्रस्य नक्षत्रजातीयत्वाभावात् कथं निर्धारणे षष्ठी इति चेत्? उच्यते— भगोलगतानां निशि भासमानानां ज्योतिः- पिण्डानां नक्षत्रपदवाच्यत्वाच्चन्द्रोऽपि तादृश एवेति नक्षत्रत्वमस्ति चन्द्रस्य। परन्तु स्थूलस्य ज्योतिःपिण्डस्य चन्द्रपदवाच्यत्वं, सूक्ष्माणां तु तेषां नक्षत्रपदवाच्यत्वं च लोकतः सिद्धमिति। यद्वा नक्षत्राणामित्यस्य निशि भगोले भासमानानां ज्योतिःपिण्डानाम् इत्येवार्थो वाच्यः। वस्तुतस्तु ‘यो वा इह यजमानोऽमुं लोकं नक्षते तन्नक्षत्राणां नक्षत्रत्व’मिति श्रुतेर्यजमानेन पुण्यफलभोगार्थं देहान्ते गन्तव्या लोका नक्षत्राणीत्युच्यन्ते। श्रुतौ नक्षत इत्यस्य गच्छतीत्यर्थः। नक्षते गच्छति यजमान एतदिति नक्षत्रमिति व्युत्पत्तिः। तथा च शशी च नक्षत्रमेव, इष्टाधि[दि]कारिगन्तव्यलोकत्वाच्छशिन इति। न च नक्षत्राणामधिपतिः शश्यहमिति व्याख्येयमिति वाच्यम् , प्रकरणविरोधात्। आदित्यानामहं विष्णुरित्यादिषु निर्धारणषष्ठ्या एव प्रकृतत्वात्॥२१॥

वेदानामिति। यद्यपि मन इन्द्रियं नेति वेदान्तिनः, तथापि तदेकदेशिभिर्मनस इन्द्रियत्वस्याभ्युपगतत्वाद् एकादश इन्द्रियाणीत्युक्तम्। मनस इन्द्रियत्वे च प्रमाणमिदमेव गीतावचनं भाष्यवचनं च। न्यायादिमतान्तरदृष्ट्या मनस इन्द्रियत्वमत्रोक्तमिति मनसोऽनिन्द्रियत्ववादिनः आहुः। मनःपूर्वकत्वाच्चक्षुरादिव्यापारस्य मनस उत्कृष्टत्वमिन्द्रियाणाम्। भूतानां सर्वप्राणिसम्बन्धि- परिणामानां मध्ये चेतना बुद्धेः स्पष्टा वृत्तिः अहमस्मि। भूतानां कार्यकरणानां देहादीनां मध्ये चेतना स्पष्टवृत्तिमती बुद्धिरहमस्मीति च एवं च ध्येयोऽहम्—आदित्यानामिति।१आदित्यानां द्वादशानां विष्णुर्नामादित्योऽहम्। ज्योतिषां रविः प्रका- शयितॄणाम् अंशुमान् रश्मिमान्। मरीचिर्नाम मरुतां मरुद्देवताभेदानामस्मि। नक्षत्राणामहं शशी चन्द्रमाः॥२१॥

वेदानामिति। वेदानां मध्ये सामवेदोऽस्मि। देवानां रुद्रादित्यादीनां वासवः इन्द्रोऽस्मि। इन्द्रियाणाम् एकादशानां चक्षुरादीनां मनश्चास्मि सङ्कल्पविकल्पात्मकं मनश्चास्मि। भूतानामस्मि चेतना कार्यकरणसङ्घाते उक्तध्यानाशक्तेभ्यो व्यस्तं विभूतियोगमुपदिशति— एवञ्चेति। तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् एवंशब्दार्थमेव दर्शयति— आदित्यानामित्यादिना ॥२१॥

मन्त्रब्राह्मणसमुदायानामृगादीनां मध्ये सामवेदोऽस्मीति ध्यानान्तरमुदाहरति—वेदानामिति।सङ्घाते जीवाधिष्ठिते २यावत्पञ्चत्वं सर्वत्र व्यापिनी ३चैतन्याभिव्यञ्जिकेति शेषः॥२२-२३॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥२१॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः। इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥२२॥

१. अदितिपुत्राणां मध्ये विष्णुनामाऽऽदित्यः, अथवा वामनावतारो विष्णुः। २. यावन्मरणमित्यर्थः। ३. बुद्धिवृत्तेः चैतन्याभिव्यञ्जकत्वाच्चेतनात्वमिति भावः।

[[५०७]]

नित्याभिव्यक्ता बुद्धिवृत्तिश्चेतना॥२२॥

रुद्राणामिति। रुद्राणाम् एकादशानां शङ्करश्चास्मि। वित्तेशः कुबेरो यक्षरक्षसां यक्षाणां रक्षसां च। वसूनाम् अष्टानां पावकश्चास्मि अग्निः। मेरुः शिखरिणां शिखरवताम् अहम्॥२३॥

पुरोधसामिति। पुरोधसां च राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि जानीहि , हे पार्थ ! बृहस्पतिम्। स हि इन्द्रस्येति मुख्यः स्यात् पुरोधाः। १सेनानीनां सेनापतीनाम् अहं स्कन्दो देवसेनापतिः। सरसां यानि देवखातानि सरांसि तेषां सरसां सागरोऽस्मि भवामि॥२४॥

वक्तुं शक्यम् , ‘प्रेक्षोपलब्धिश्चित् संवित् प्रतिपज्ज्ञप्तिचेतनाः’ इति बुद्धिपर्यायत्वाच्चेतनाशब्दस्य। अत एव ‘बुद्धिश्चेतना’ इति भाष्ये पाठान्तरम्। उपलब्धिचित्संविदादिशब्दानामपि ज्ञानमात्रे प्रसिद्धप्रयोगसत्त्वात् तत्साहचर्येण चेतनाशब्दस्यापि तत्रैव प्रयोग उचितः। अमरस्तु लक्षणया बुद्धेः ज्ञानवत्त्वाच्चेतनादिशब्दानां बुद्धिपर्यायत्वमूचे। तथा च चेतनाशब्दस्य स्पष्टबुद्धिवृत्तिरेवाभिधया सिद्धोऽर्थ इति श्रीशङ्कराचार्यहृदयम्। संघात इति। तन्मध्ये इत्यर्थः। व्यक्तेति। जाग्रदादाविति भावः। सुषुप्तौ तु अस्पष्टबुद्धिवृत्तिरस्ति, तामेवाविद्यावृत्तिमाहुः। तस्यास्तु ज्ञानत्वेन व्यवहाराभावादुक्तं व्यक्तत्वविशेषणम्। ‘भूतानां चेतनावतां सम्बन्धिनी चेतनाऽहमस्मी’ति रामानुजभाष्यं प्रकरण- विरोधादुपेक्ष्यम्। निर्धारणे षष्ठी हि प्रकृता॥२२॥

रुद्राणामिति। वित्तेशस्य यक्षत्वाद् राक्षसत्वयक्षत्वयोरवान्तरभेदे सत्यपि एकजातित्वाद् यक्षरक्षसां वित्तेश इत्युक्तम्। यद्वा एकस्मादेव सन्ध्यारूपात् पितामहशरीराद् यक्षरक्षसां जातत्वादुभयोरेकत्वेन निर्देशः। सशिखरा अशिखराश्चेति द्विविधाः पर्वताः। तत्र सशिखराणां पर्वतानां मध्ये मेरुरहम्। अशिखराणां मध्ये उत्कृष्टस्तु हिमालयः। स च ‘स्थावराणां हिमालयः’ इतीश्वरत्वेन वक्ष्यते ॥२३॥

पुरोधसामिति। पुरोऽग्रे हितं दधत इति पुरोधसः पुरोहिताः शतानन्दादयः। कुतो बृहस्पतेः प्राधान्यम्? अत आह— स हीति। इन्द्रस्य त्रिलोकाधिपतित्वेन महाराजत्वात् तत्पुरोहितस्योत्कृष्टत्वं राजपुरोहितानां मध्ये इति भावः। पृथग्जनपुरोहितापेक्षया राजपुरोहितस्योत्कृष्टत्वादुक्तम्—राजपुरोहितानामिति। सेनां नयन्ति स्ववशमापादयन्तीति सेनान्यः। स्कन्दस्य देवसेनापतित्वात् प्राधान्यमिति सूचनाया(मा)ह— देवसेनापतिरिति। वापीकूपतटाकादयो मनुष्यैः खाताः, तेभ्यो देवखातानि सरांस्युत्कृष्टानि, तेषां च सरसां मध्ये सगरैः खातः सागर उत्कृष्टः। यद्यपि मनुष्यखातः सागरस्तथापि गङ्गाजलभरितत्वेन, अपारजलवत्त्वेन, सगराणां देवाधिकप्रभावयुक्तत्वेन वा सागरस्योत्कृष्टत्वमिति बोध्यम्। अथवा सगरैः खातादन्य एव ब्रह्मसृष्टः समुद्र इह सागरशब्देन प्रतिपाद्यत इति देवाधिकत्वाद् ब्रह्मणस्तदीयः सागर उत्कृष्ट इति बोध्यम्॥२४ ॥

पुरोहितेषु बृहस्पतेर्मुख्यत्वे हेतुमाह— स हीति॥२४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्॥२३॥

पुरोधसां च मुख्यं मां विद्धि पार्थ ! बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥२४॥

अ. १०. श्लो. २१-२४ ] १. ‘सेनानीना’मिति आर्षम्। ‘सेनान्याम्’ इति लौकिकं रूपम्।

[[५०८]]

महर्षीणामिति। महर्षयो मरीच्यादयः, तन्मध्ये भृगोरुत्कर्षः, पादे शिवफालनेत्रप्रभावापहारिनेत्रवत्त्वात् , त्रिलोकजनन्या लक्ष्म्याः एतस्मादाविर्भावाद्वा। ओङ्कारस्य पदत्वेन वाक्यत्वाभावाद् वाचां निर्धारणमस्य न सम्भवतीत्यभिप्रेत्याह— पदलक्षणानामिति। पदस्वरूपाणां गिराम् , पदानामित्यर्थः। गीर्यन्ते उच्यन्त इति गिरः इति व्युत्पत्त्या गीःशब्दस्यापि पदवाचकत्वादिति भावः। ‘ओमित्येकाक्षरं ब्रह्मे’ति श्रुतेरेकमक्षरं प्रणव एवेत्याह— ओङ्कार इति। ओङ्कारस्य शब्दत्वाच्छब्दानां मध्ये निर्धारणमस्येति बोध्यम्। ब्रह्मप्रतीकत्वाद् ब्रह्मवाचकत्वाच्च प्राशस्त्यमोङ्कारस्येति भावः। यज्ञा द्रव्ययज्ञादयः; जपयज्ञः प्रणवजपादिलक्षणयज्ञः। तस्य चित्तशुद्धिं प्रत्यन्तरङ्गत्वेन हिंसारहितत्वेन द्रव्यार्जनादिकायक्लेशानावहत्वेन च प्राशस्त्यम्। स्थावराः शिखररहिताः पर्वताः॥२५॥ अश्वत्थ इति। ‘मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे। अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥’ इति भजनीयत्वाद् अश्वत्थस्योत्कृष्टत्वम्॥२६॥

उच्चैःश्रवसमिति। क्षीरसमुद्रजातत्वेन्द्रवाहनत्वादिभिः उच्चैःश्रवस उत्कर्षः। अमृतोद्भवमिति पदं काकाक्षिन्यायेन उच्चैःश्रव- ऐरावतयोरन्वेति। तच्च प्राशस्त्यहेतुगर्भं विशेषणम्। अत्रामृतपदम् अमृतनिमित्तमथनलक्षकमित्याह— अमृतनिमित्तमथनोद्भवमिति। अमृतं सुधा, तदुपादानं समुद्रोऽपि लक्षणयाऽमृतमित्युच्यते। अमृतोद्भवं क्षीरसमुद्रजातमित्यर्थः। अमृतं मथ्यमानावस्था सुधा, महर्षीणामिति। महर्षीणां भृगुरहम्। गिरां वाचां पदलक्षणानाम् एकमक्षरम् ओङ्कारः अस्मि। यज्ञानां जपयज्ञोऽस्मि। स्थावराणां स्थितिमतां हिमालयः॥२५॥

अश्वत्थ इति। अश्वत्थः सर्ववृक्षाणाम्। देवर्षीणां च नारदः, देवा एव सन्तः ऋषित्वं प्राप्ता मन्त्रदर्शित्वात् , ते देवर्षयः, तेषां नारदोऽस्मि। गन्धर्वाणां चित्ररथो नाम गन्धर्वोऽस्मि। सिद्धानां जन्मनैव धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः॥२६॥

उच्चैरिति। उच्चैःश्रवसम् अश्वानाम् उच्चैःश्रवा नामाश्वराजः, तं मां विद्धि जानीहि अमृतोद्भवम् अमृत- निमित्तमथनोद्भवम्। ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम् , तम् , मां विद्धीत्यनुवर्तते। नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि॥२७॥

एकमित्योङ्कारस्य ब्रह्मप्रतीकत्वेन तदभिधानत्वेन च प्रधानत्वमुच्यते। जपयज्ञस्य यज्ञान्तरेभ्यो हिंसादिराहित्येन प्राधान्य- मुपेत्याह— यज्ञानामिति। शिखरवतामुच्छ्रितानां पर्वतानां मध्ये मेरुरहमित्युक्तेऽपि स्थितिशीलानां तेषामेव हिमवान् पर्वतराजो ऽस्मीत्यर्थभेदं गृहीत्वाऽऽह— स्थितिमतामिति॥२५॥ सर्ववृक्षाणामित्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते॥२६॥२७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥२५॥

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥२६॥

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥२७॥

[[५०९]]

तदुद्भवमिति वा वक्तुं शक्यते। इराः आपः, ता अस्याः सन्तीति इरावती गजीरूपिणी मेघबाला॥२७॥

आयुधानामिति। आयुधानां खड्गादीनां मध्ये। किं तद् वज्रम्? अत आह— दधीचीति। तथा च तपःसारभूतत्वाद् वज्रस्योत्कर्षः। दुहन्ति इष्टानि दिशन्तीति दोग्ध्र्यः, कामदायिन्यो धेनवः। तासां मध्ये वसिष्ठसम्बन्धिनी समुद्रमथनोद्भवा कामधेनुः अहमस्मि। विश्वामित्रसैन्यनिषूदनसमये म्लेच्छाद्युत्पादनरूपस्य वसिष्ठधेनुसामर्थ्यस्य प्रसिद्धत्वादिति भावः। सामान्येति। क्षीराब्धे- रजातेति भावः। अस्मिन् पक्षे धेनवः पयोदोग्ध्र्यः गावः, तन्मध्ये कामदोग्धृत्वात् कामधुग् धेनुरुत्कृष्टा।[प्रजन इति।] जनयितॄणामिति शेषः। प्रजनः कन्दर्पोऽहमस्मि। तपआदिद्वारा प्रजासर्जकेभ्यो दक्षादिप्रजापतिभ्यः मैथुनद्वारा प्रजासर्जकः कन्दर्प उत्कृष्टः। मैथुनेनैव प्रजावृद्धेर्जातत्वात् , मैथुनस्य च कन्दर्पाधीनत्वात्। न हि निष्कामस्य मैथुनप्रवृत्तिः। इदमेव प्रजनयितेति शब्देन सूचितवान् भाष्यकारः। प्रकर्षेण विस्तरेण [विस्तारेण] जनयिता प्रजनयितेति व्युत्पत्तेः। सृष्टिहेतूनामपि विद्याकालकर्मादीनां मध्ये कन्दर्पः श्रेष्ठः। ईश्वरसङ्कल्पस्यैव कामत्वात् , तस्यैव सृष्टौ प्रधानहेतुत्वाच्च। ‘तदैक्षत बहु स्या’मिति श्रुतेः। सृष्टेः सङ्कल्पपूर्वकत्वात्। एवं कन्दर्पस्य सृष्टिं प्रति प्रकृष्टहेतुत्वादेव प्रकर्ष इति सूचयितुं प्रजन इति विशेषणम्। प्रकर्षेण जनयतीति प्रजन इति वा। कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्यर्थः कन्दर्पः कामोऽहमस्मीति वा। यद्वा सुन्दराणामिति शेषः। जयन्तवसन्तनलकूबरादीनां मध्ये कन्दर्पस्य श्रेष्ठत्वम् , प्रजनयितृत्वात्। कन्दर्पो हि स्त्रीपुरुषयोर्मोहको घटयिता च। सर्पभेदानामिति। एकशिरसामित्यर्थः। सविषाणामिति श्रीधरः। वासुकेः एकशिरस्कत्वात् सर्पजातीयत्वम्॥२८॥

अनन्त इति। नागभेदानां बहुशिरसामित्यर्थः। निर्विषाणामिति श्रीधरः। शेषस्य सहस्रशिरस्कत्वात् तज्जातीयत्वम् , तत उत्कर्षश्च। यादसां जलजन्तूनाम्। वरुणस्यापि जलस्थित्या जलजन्तुत्वात् तत उत्कर्षस्तस्य कृतः। कोऽसौ वरुणः? अत आह— अब्देवतानां राजेति। अबभिमानिन्यो देवता अब्देवताः १गङ्गाकृष्णादयः, तासां राजा प्रभुः। समुद्रस्य नदीपतित्वात् समुद्रस्यापि पतिरयं वरुणो गङ्गादिदेवताप्रभुरेवेति भावः। यद्यपि यादःशब्दोऽभिधया मत्स्यादिजलजन्तुवाची, वरुणश्च देवजातीयः। तथापि यादःशब्दो लक्षणया जलवासिप्राणिवाचीति बोध्यम्। पितॄणाम् अग्निष्वात्तादीनां मध्ये अर्यमा तन्नामकः पितृराजोऽहमस्मि। संयमनं दण्डः, शिक्षेति यावत्। यमो यमधर्मराजः। अप्रतिहतदण्डो हि स उत्कृष्टः॥२९॥

आयुधानामिति। आयुधानामहं वज्रं दधीच्यस्थिसम्भवम्। धेनूनां दोग्ध्रीणामस्मि कामधुक् वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक्। प्रजनः प्रजनयिता अस्मि कन्दर्पः कामः। सर्पाणां सर्पभेदानामस्मि वासुकिः सर्पराजः॥२८॥

अनन्त इति। अनन्तश्चास्मि नागानां नागविशेषाणां नागराजश्चास्मि। वरुणो यादसामहम् अब्देवतानां राजाऽहम्। पितॄणाम् अर्यमा नाम पितृराजश्चास्मि। यमः संयमतां संयमनं कुर्वतामहम्॥२९॥

प्रजनयतीति व्युत्पत्तिमाश्रित्याह— प्रजनयितेति। सर्पाः नागाश्च जातिभेदाद् भिद्यन्ते॥२८॥२९॥३०॥३१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥२८॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितॄणामर्यमा चास्मि यमः संयमतामहम्॥२९॥

अ. १०. श्लो. २४-२९ ] १. गङ्गाद्या नद्यः।

[[५१०]]

प्रह्लाद इति। प्रह्लादस्य भगवद्भक्त्यादिगुणयोगित्वादुत्कर्षः। कालो हि संवत्सराद्यात्मकः। सुखेन सर्वप्राणिनां ब्रह्मादिस्तम्ब- पर्यन्तानामायुष्यं गणयतीति द्रव्यादिगणनाकारिभ्यः साङ्ख्यगणकादिभ्य उत्कृष्टत्वं कालस्य। मृगाः अरण्यचारिणः पशवः हरिणगज- वराहशरभादयः। सिंहव्याघ्रयोरप्यरण्यचारिपशुत्वाविशेषान्मृगजातीयत्वम्॥३०॥

पवन इति। पवतां जगत्परिशुद्धिहेतूनां जलाग्न्यादीनां मध्ये वायुरुत्कृष्टः। तस्य निखिलगगनभागचारित्वेन सर्वव्यापित्वात् सर्वपावनत्वमिति। राम इति परशुरामबलरामयोर्व्युदासायाह— दाशरथिरिति। न च दाशरथेरेव कथमुत्कृष्टत्वमिति वाच्यम् ; रामबाणस्य सप्ततालपर्वतभूमीनां युगपत् क्षणादेव भेदकत्वेन, अमोघत्वेन च, रामस्यापि सर्वक्षत्रियहन्तृपरशुरामजेतृत्वेन च राम उत्कृष्टः शस्त्रधारिष्विति। यद्यपि परशुरामोऽप्युत्कृष्टस्तथापि तस्मादपि राम उत्कृष्ट इति दाशरथिरिह निर्दिष्टः। शस्त्रभृतः शस्त्रादिभिर्युद्धकारिणो वीरपुरुषाः भीष्मद्रोणाश्वत्थामकर्णार्जुनरावणकुम्भकर्णादयः। रामस्यापि शस्त्रभृत्त्वात् तदन्तःप्रवेशः। शस्त्र- भृत्त्वम् अत्र जातिः। रामस्तु व्यक्तिरिति विवेकः। अतो राम एवात्र विभूतिः; न तु शस्त्रभृतः। शस्त्रभृतां वृक्षादिस्थानीयत्वाद् रामस्य चाश्वत्थस्थानीयत्वात् तत्तज्जातीयोत्कृष्टपदार्थस्यैव विभूतित्वात्। न च रामस्य सक्षाद् भगवत्त्वात् कथं विभूतित्वमिति वाच्यम् ; योऽत्र दशरथादुत्पन्ने कार्यकरणसङ्घातात्मके देहे स्फुरति तस्य चिन्मयस्यात्मनो रामस्य साक्षाद् भगवत्त्वेऽपि सङ्घातस्य जडस्यानित्यस्य कार्यस्य सविकारस्य भगवत्त्वाभावात्। भगवति परमात्मनि मायया देवादिसङ्घातानामिव तत्सङ्घातस्यापि कल्पितत्वात्। तस्यैव सङ्घातस्य भूतशब्दवाच्यस्य प्राणिनः इह दाशरथिरामत्वेन विवक्षितत्वात्। तस्य च भगवति कल्पितत्वेन भगवद्विभूतित्वात्। न च चिन्मय एव विवक्षित इति वाच्यम् ; चिन्मयस्य शस्त्रभृज्जातीयत्वायोगात्। शस्त्रभृतो हि प्राणिनः, प्राणिहस्तधार्यत्वाच्छस्त्राणाम्। एतेन रामानुजोक्तं शस्त्रभृत्त्वं विभूतिरर्थान्तराभावादिति भाष्यम् , अचिद्विशेषस्य चेतनान्तरस्य वा शस्त्रभृच्छब्दवाच्यस्य अत्रासम्भवादिति वेदान्तदेशिकव्याख्यानं च प्रत्याख्यातम्। शस्त्रभृच्छब्दवाच्यस्य दाशरथिशरीरेऽहमित्यभिमन्यमानस्य कार्यकरणसङ्घातात्मकस्य प्राणिनश्चिन्मयादात्मनोऽन्यस्य प्रमातुरीश्वरस्य सत्त्वात्। अचिद्विशेषस्य रामदेहस्यैव साक्षाच्छस्त्रसम्बन्धसत्त्वात् , चेतनस्य चिदाभासस्य च देहद्वारा शस्त्रसम्बन्ध- सत्त्वादस्त्येव शस्त्रभृद् देहरूपश्चिदाभासरूपो वा। अस्मदादिशरीरेषु वर्तमानश्चिदाभासो जीवः, रामकृष्णादिशरीरेषु वर्तमानस्तु ईश्वर इति व्यवहारविवेकः। न चेश्वरस्य चिदाभासत्वमयुक्तम् , चिदाभासस्य संसारित्वादिति वाच्यम् ; ‘जीवेश्वरावाभासेन करोती’ति श्रुत्यैव जीववद् ईश्वरस्यापि चिदाभासत्वस्योक्तत्वात्। मायायां चित्प्रतिबिम्बो हीश्वरः। आभासश्च प्रतिबिम्ब एवेति चिदाभासस्यापीश्वरस्य सर्वज्ञत्वाद् प्रह्लाद इति। प्रह्लादो नाम चास्मि दैत्यानां दितिवंश्यानाम्। कालः कलयतां कलनं गणनं कुर्वतामहम्। मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वाऽहम्। वैनतेयश्च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम्॥३०॥

पवन इति। पवनो वायुः पवतां पावयितॄणामस्मि। रामः शस्त्रभृताम् अहम् , शस्त्राणां धारयितॄणां दाशरथी रामोऽहम्। झषाणां मत्स्यादीनां मकरो नाम जातिविशेषोऽहम्। स्रोतसां स्रवन्तीनामस्मि जाह्नवी गङ्गा॥३१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥३०॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥३१॥

[[५११]]

अहमादिश्चेत्यादावुक्तमेव पुनरिहोच्यते। तथा च पुनरुक्तिरित्याशङ्क्याह— भूतानामिति। सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते। अध्यात्मविद्येति १आत्मन्यन्तःकरणपरिणतिः अविद्यानिवर्तिका गृहीता। प्रवदतां सम्बन्धी वादो वीतरागकथा तत्त्वनिर्णयावसाना। यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठीत्याह— प्रवक्त्रिति॥३२॥३३॥

[आनन्दगिरिकृतव्याख्या]

आत्मस्वरूपज्ञत्वाच्च न संसारित्वम् , यथा वा जीवस्यापि ज्ञानिन इति। तस्माद् मायिकत्वाद् रामावतारो विभूतिरेव, न तु भगवान्। न च रामः परमात्मेति व्यवहारविरोध इति वाच्यम् ; तत्र रामशब्देन चिन्मयस्यैव विवक्षितत्वात्। न चात्रापि सैव विवक्षेति वाच्यम् ; शस्त्रभृत्त्वस्य तद्विवक्षाऽभावगमकत्वादित्युक्तत्वात्। किञ्च ‘आदित्यादयः क्षेत्रज्ञा ईश्वरशरीरत्वाच्छस्त्रभृत्स्थानीयाः, रामस्त्वीश्वरः स्वयमेवे’ति यदुक्तं रामानुजेन ; तच्चासत् । शस्त्रभृतां जीवानां मध्ये शस्त्रभृतो जीवस्यैवोत्कृष्टस्य भगवद्विभूतित्वेन वक्तव्यत्वात् , तं प्राकरणिकमर्थं विहाय जीवेभ्य ईश्वर उत्कृष्ट इति शस्त्रभृद्भ्योऽशस्त्रभृत ईश्वरस्योत्कृष्टीकरणमिहानुचितमिति। मकर इति। तस्य जलजन्तुषु मत्स्येषूत्कृष्टत्वं बलक्रौर्यादिमत्त्वेन। अत एव तस्य मत्स्यराजत्वव्यपदेशः। स्रवन्त्यो नद्यः। विष्णुपादोद्भवत्वादिना गङ्गायाः प्राशस्त्यम्॥३१॥

सर्गाणामिति। सृष्टयः क्रियाः इति यावत्। तासां मध्ये उत्पत्त्यादिक्रियात्रयमीश्वरविभूतिः। गमनभाषणादयः क्रियान्तराणि। ताभ्य उत्कृष्टाः सर्जनरक्षणहरणक्रियाः। न च ‘उद्भवश्च भविष्यता’मित्यनेन पौनरुक्त्यम् , तत्रोद्भवशब्दस्याभ्युदयार्थकत्वात्। यत्तु ‘सृज्यन्त इति सर्गास्तेषां सृष्टिस्थितिलयहेतुभूतास्तत्र तत्र स्रष्टारः, पालयितारः, संहर्तारश्चाहमेवे’ति रामानुजः, तन्मन्दम् ; निर्धारणालाभात्। न च प्राणिनां मध्ये स्रष्टारः पालयितारः संहर्तारश्चाहमेवेति निर्धारणसिद्धिरिति वाच्यम् ; स्रष्टृत्वादि- धर्मत्रयान्यतमरहितप्राणिमात्रस्यैवाभावात्। तृणादीनामपि कीटकादिस्रष्टृत्वपश्वादिपालकत्वसंहर्तृत्वदर्शनात्। ‘आदिरन्तो मध्य’मित्ये- कवचनशब्दप्रयोगाच्च। पालननाशवाचिनोर्मध्यान्तशब्दयोः पालकहारकेषु लक्षणायाः स्वीकरणीयत्वात् , सम्भवति मुख्यार्थे लक्षणा- स्वीकारस्यान्याय्यत्वाच्च। ननु सर्गाणां प्राणिनां सृष्टिस्थितिलयानाम् अहमेव हेतुरिति श्लोकार्थ इति चेत्? मैवम् ; निर्धारणालाभात्। अहमादिश्च मध्यं चेति पूर्वमेवास्यार्थस्योक्तत्वाच्च। ननु इममेव पुनरुक्तिदोषं, ‘भूतानां जीवाविष्टानामेवादिरन्तश्चेत्युक्तमुपक्रमे, इह तु सर्वस्य सर्गमात्रस्यैवेति विशेषः’ इति परिहरतो भाष्यकारस्य सर्गाणां सर्वेषां गगनादिपदार्थानां सृष्टिस्थितिलयहेतुरहमेवेत्यर्थ इत्याशय इति निश्चीयत इति चेत्? तर्हि निर्धारणमत्राविवक्षितमिति स्रष्टृत्वरक्षकत्वसंहर्तृत्वाण्येव विभूतिरिति च वक्तव्यं स्यात्। एतच्छ्लोकमारभ्यैव तत्र तत्र ‘तेजस्तेजस्वि- नामहम्’ इत्यादौ निर्धारणस्यादर्शनात् इत आरभ्य निर्धारणस्य प्रकरणसिद्धस्यापि भङ्ग इति बोध्यम्। सर्गाणामिति। सर्गाणां सृष्टीनाम् आदिः अन्तश्च मध्यं चैवाहम् उत्पत्तिस्थितिलयाः अहम् , अर्जुन !। भूतानां जीवाधिष्ठितानामेव आदिरन्तश्चेत्याद्युक्तमुपक्रमे, इह तु सर्वस्यैव सर्गमात्रस्येति विशेषः। अध्यात्मविद्या विद्यानाम् , मोक्षार्थत्वात् प्रधानमस्मि। वादः अर्थनिर्णयहेतुत्वात् प्रवदतां प्रधानम् , अतः सोऽहमस्मि। प्रवक्तृद्वारेण वदनभेदानामेव [वा] वादजल्पवितण्डानामिह ग्रहणम् — प्रवदतामिति॥३२॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन !। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥३२॥

अ. १०. श्लो. ३०-३२ ] १. आत्मसाक्षात्काररूपाऽन्तःकरणवृत्तिरित्यर्थः।

[[५१२]]

न चैवं ‘नक्षत्राणां शशी’त्यत्रापि निर्धारणभङ्ग इति वाच्यम् ; तत्र निर्धारणस्य सम्भवात्। अगतिकस्थलेष्वेव तद्भङ्गाभ्युप- गमात्। न च प्रकरणभङ्गो वक्तुर्दोषावह इति वाच्यम् ; भगवतः सर्वज्ञस्य प्रकरणभङ्गादिदोषदूरत्वात्। न हि वेदेष्वार्षेषु वा ग्रन्थेषु छन्दोभङ्गादयो दोषत्वेन गृह्यन्ते विद्वद्भिः। तस्मात्प्रकरणभङ्गोऽयमार्षत्वादुपेक्ष्यः। अथवा आदित्यानामित्यारभ्य जाह्नवीत्येतदन्तमेव निर्धारणषष्ठीप्रकरणम्। सर्गाणामित्यारभ्य तु शेषषष्ठ्यपि प्रकृतैवेति निर्धारणषष्ठीवत् शेषषष्ठीप्रयोगेऽपि न प्रकरणभङ्गो दोषः। यद्वा विष्ण्वादयो मद्विभूतय इत्येतावदेव भगवता विवक्षितम् , न त्वादित्यादिमध्ये विष्ण्वादय इति। विष्ण्वादीनामादित्यादिषूत्कृष्टत्ववर्णनस्य स्वरूपकथनमात्रपरत्वात्। न चैवं नक्षत्राणां पतिरिति व्याख्यानं युक्तमिति वाच्यम् ; नक्षत्रेषूत्कृष्टत्ववर्णनस्याप्यसिद्धेस्तदेति। न चैवं सर्गाणामिति श्लोके काऽपि न विभूतिरुक्तेति वाच्यम् ; सृष्टिस्थितिलयहेतोरीश्वरस्यैव विभूतेरुक्तत्वात्। न चेश्वरो भगवानेवेति कथं तस्य विभूतित्वमिति वाच्यम् ; जीववदीश्वरस्यापि मायया परमात्मनि कल्पितत्वेन ईश्वरस्यात्मविभूतित्वादिति। प्रकृतत्वान्निर्धारणषष्ठी नैव त्याज्येति मते, सर्गाणां भूतानां मध्ये सृष्टिस्थितिलयहेतुरीश्वराख्यः प्राण्यहमित्यप्यर्थ आपतति, ‘अहमादिश्च मध्यं च भूतानामन्त एव च’ इति श्लोकस्यापि निर्धारणषष्ठीप्रकरणान्तर्भावेऽभिप्रेते तु पुनरुक्तिः स्यात्। अतस्तत्परि- हारायाह— भूतानामिति। भूतशब्देन सजीवा विवक्षिताः, सर्गशब्देन तु सजीवनिर्जीवरूपं कार्यमात्रमिति। ततश्च प्राणिनां मध्ये ईश्वराख्यः प्राण्यहम् , कार्याणां मध्ये चेश्वराख्यं कार्यमहमिति। न चेश्वरस्य कार्यत्वे विवदितव्यम् , ‘जीवेशावाभासेन करोती’ति श्रुतेः। न चेश्वरस्य पुनरपि निर्धारणात् पुनरुक्तिरिति वाच्यम् ; निर्धार्यमाणस्येश्वरस्याभेदेऽपि निर्धारणाश्रयाणां भूतानां सर्गाणां च भेदात्। यद्वा प्राणिनां मध्ये हिरण्यगर्भाख्य ईश्वर उत्कृष्टः, सर्गाणां मध्ये तु मायाप्रतिबिम्ब ईश्वर इति निर्धार्यमाणभेदोऽपीति। वस्तुतस्तु भगवद्विभूतेर्भगवन्माहात्म्यरूपयोगस्य च जिज्ञासितत्वादर्जुनेन, श्रीकृष्णेनापि विभूतिकथनमध्येऽपि योग उक्तः, प्रकृतत्वात् तस्य चेति बोध्यम्। तथा च ‘अहमादिश्चे’ति श्लोकवत् ‘सर्गाणा’मित्येषोऽपि भगवन्माहात्म्यप्रदर्शनपर एव। विभूतिश्लोकेषु तु निर्धारणषष्ठी प्रकृता, न तु योगे। अतो नात्र सर्गाणामिति निर्धारणषष्ठी, नापि नक्षत्राणामित्यत्र शेषषष्ठी। नन्वेवम् ‘अहमादि’रित्यनेनास्य पुनरुक्तम्? अत आह— भूतानां जीवाधिष्ठितानामेवेति। एवकारान्न तु निर्जीवानाम्। सृज्यत इति सर्गः कार्यम् , तन्मात्रम्। न चैवं सर्गाणामित्यस्य सृष्टीनामिति प्रतिपदमयुक्तमिति वाच्यम् ; सृष्टीनामित्यस्य सृष्टिविषयाणामि- त्यर्थात्। उत्पत्तिस्थितिलयाः तद्धेतुरित्यर्थः। अथवा जन्मस्थितिभङ्गाः क्रिया एवार्थः। ‘अहमादिश्चे’ति श्लोकेन तु भूतानामुत्पत्ति- स्थितिलयहेतुरीश्वरोऽहमित्युक्तम् , इह तु सर्गाणामुत्पत्तिस्थितिलया एवाहमित्युच्यते। अतो न पुनरुक्तिदोषावकाशः। न चैवं[नन्वेवं] पुनरुक्तिशङ्काया एवानवकाशे ‘इह तु सर्गमात्रस्येति विशेषः’ इति कुत उक्तमाचार्यैरिति चेत्? उच्यते— इति विशेष इत्यस्य इत्यपि विशेष इत्यर्थः। अयमाशयः—आदिरन्तो मध्यमिति शब्दत्रयस्य द्विः श्रवणाच्छ्रोतॄणां पुनरुक्तिदोषशङ्का स्यात्। तन्निरासे च हेतुद्वयमस्ति, तत्रैकः - आदिमध्यान्तशब्दानां दर्शितार्थभेदरूपः, द्वितीयस्तु - भूतसर्गशब्दयोरर्थभेदरूपश्चेति। एवमेव सृष्टयः क्रियाः इत्यस्मिन्मतेऽपि पुनरुक्तिदोषप्रसङ्गः शङ्कितुराशयानुगुण्येन प्रसञ्जनीयः। परिहारस्य भाष्ये कण्ठत एवोक्तत्वादिति। विद्यानां वेदवेदाङ्गादीनाम्। मोक्षार्थत्वादिति। अन्यास्तु धर्मकामादिफलिका इति भावः। प्रवदतां प्रवक्तॄणां यः प्रधानभूतो वादः सोऽहमस्मीति, तेजस्तेजस्विनामितिवत् प्रधानमात्रनिर्देशः। ननु वादस्य विभूतित्वाद् विभूतिषु निर्धारणषष्ठ्या एव प्रकृतत्वात् कथं शेषषष्ठीग्रहणम्? अत आह— प्रवक्त्रिति। तर्हि निर्धारणषष्ठ्येवाश्रीयताम् , तथा च प्रवदतामित्यस्य लक्षणया प्रवक्तृधर्माणां वादजल्पवितण्डानामित्यर्थः। तन्मध्ये वादस्योत्कर्षे हेतुमाह— अर्थनिर्णयहेतुत्वादिति। वदनभेदानां वचनविशेषाणाम्। प्रमाणफलतत्त्वबुभुत्सोः कथा वादः; १उभयसाधनवती विजिगीषु- कथा जल्पः; स्वपक्षस्थापनाहीना परपक्षविदलनमात्रावसाना वितण्डा। इहोपात्तानां त्रयाणां वचनभेदानां भेदान्तरोपलक्षणत्वात् भाष्यार्कप्रकाशः १. स्वपक्षस्थापनपरपक्षनिराकरणोभयवतीत्यर्थः।

[[५१३]]

छलजात्यादिग्रहणम्। अभिप्रायान्तरेण प्रयुक्तस्याभिप्रायान्तरेण दूषणं छलम् ; असदुत्तरं जातिः इत्याद्यन्यतो ग्राह्यम् ॥३२॥

अक्षराणामिति। अक्षराणि अचो हलश्च, तेषां मध्ये आद्यक्षरम् अकारोऽहम्। अकारो हि सर्ववर्णादित्वात् प्रणवाद्यवयवत्वात् सर्ववर्णप्रकृतित्वाच्चोत्कृष्टः। अकारस्य सर्ववर्णप्रकृतित्वं च ‘अकारो वै सर्वा वाक्’ इति श्रुतिसिद्धम्। द्वन्द्वस्य स्वघटकोभयपदार्थ- प्रधानत्वात् प्राधान्यम्। पूर्वपदार्थप्रधानोऽव्ययीभावः; उत्तरपदार्थप्रधानस्तत्पुरुषः; अन्यपदार्थप्रधानो बहुव्रीहिः; उभयपदार्थप्रधानो द्वन्द्व इति प्रायोवादः। अक्षीण इति। प्रवाहनित्य इत्यर्थः। अहमेवेत्यादिपादत्रयेण कालादय ईश्वरविभूतय इत्येतावदेवेह विवक्षितम् , न तु निर्धारणम् , षष्ठ्यन्तपदादर्शनात्। न च विभूतिषु निर्धारणषष्ठी प्रकृतेति वाच्यम् ; सत्यां षष्ठ्यां निर्धारणं प्रकृतम् , तदभावे तु कथमिति। अथवा नित्यानित्यलक्षणकालद्वयमध्येऽक्षयः कालोऽहम्। अनित्यः कालः क्षणादिरूपः, नित्यस्त्वीश्वर एवेति सिद्धान्तात्। तदेवाह— परमेश्वरो वेति। कुतस्तस्य कालत्वम्? अत आह— कालस्यापीति। कलयति परिच्छिनत्ति क्षणादिरूपेण जन्यं कालमिति कालः परमेश्वरः। परमेश्वरेण हि सूर्यगमनादिद्वारा कालः परिच्छिद्यते। यद्वा माहात्म्यपरमिदं वाक्यत्रयम्। तथा च कालस्यापि कालोऽहम् , धाताऽहम् , मृत्युरहमिति भगवान्माहात्म्यकथनम्। सर्वतोमुखत्वं सर्वव्यापित्वं, सर्वद्रष्टृत्वं वा। विश्वतोमुखेन मयैव सर्वस्य जगतः कर्मफलं विधीयत इति भगवन्माहात्म्यकथनमिदम्। सर्वेषां तत्तत्कर्मानुगुण्येन फलविधानसामर्थ्यमीश्वरस्यास्तीति द्योतनाय विश्वतोमुखः इत्युक्तम्। अत्रापि— ‘धाता धातॄणां भुवनस्य गोप्ता’ इति श्रुतेः धातॄणां मध्ये विश्वतोमुखो धाताऽहमिति निर्धारणं सुवचम्। रथादिनिर्मातारो धातारः, तदपेक्षया कर्मफलविधातुरीश्वरस्योत्कृष्टत्वम्। न चेश्वर एव कथमीश्वरस्य विभूतिरिति वाच्यम् ; धातृत्वरूपेण विभूतित्वात् । एवं कालत्वादिना चेति बोध्यम्। विश्वतोमुखश्चतुर्मुखो धाता हिरण्यगर्भोऽहमेवेति वा। विश्वामित्रादिभ्यः तस्योत्कृष्टत्वादीश्वरविभूतित्वमिति बोध्यम्॥३३॥

मृत्युरिति। मृत्युद्वयस्य मध्ये सर्वहरो मृत्युरहम्। मृत्युद्वयं दर्शयति— धनादिहरः प्राणहरश्चेति। तत्र कः सर्वहरः अत आह— य इति। प्राणहर एव सर्वहर इत्युच्यत इत्यर्थः। यद्वा मृत्युर्द्विविधः— प्रपञ्चे सर्वप्राणिजीवितहर एको यमनामको मृत्युदेवतेति वा। प्रलये सर्वजगन्नाशक ईश्वरोऽन्यः। तयोर्मध्ये यः सर्वहर ईश्वरः सोऽहमित्याह— अथवेति। अयं चेश्वरो मायातमोगुणावच्छिन्नो सर्वहरशब्दस्य मुख्यमर्थान्तरमाह— अथवेति। भाविकल्याणानामित्युक्तमेव स्पष्टयति— उत्कर्षेति। कीर्तिः धार्मिकत्व-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च। अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥३३॥

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। अक्षराणामिति। अक्षराणां वर्णानाम् अकारो वर्णोऽस्मि। द्वन्द्वः समासोऽस्मि सामासिकस्य च समाससमूहस्य। किञ्च अहमेव अक्षयोऽक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः। अथवा परमेश्वरः कालस्यापि कालोऽस्मि । धाताऽहं कर्मफलस्य विधाता सर्वजगतो विश्वतोमुखः सर्वतोमुखः॥३३॥

मृत्युरिति। मृत्युर्द्विविधः - धनादिहरः प्राणहरश्च; तत्र यः प्राणहरः स सर्वहरः उच्यते; सोऽहमित्यर्थः। अथवा परः ईश्वरः प्रलये सर्वहरणात् सर्वहरः, सोऽहम्। उद्भवः उत्कर्षोऽभ्युदयः, तत्प्राप्तिहेतुश्चाहम् , केषाम्? भविष्यताम् भाविकल्याणानाम् उत्कर्षप्राप्तियोग्यानामित्यर्थः। कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः क्षमा

[[अ. १०. श्लो. ३२-३४]] [[५१४]]

कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥३४॥

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्। रुद्रनामक इति बोध्यम्। तथा च रुद्र ईश्वरविभूतिरिति सिद्धम्। ब्रह्मविष्णुरुद्राणां त्रयाणामीश्वरे ब्रह्मणि कल्पितत्वेन विभूतित्वात्। अथवा एकस्यैवेश्वरस्य मायावच्छिन्नचैतन्यलक्षणस्य स्रष्टृत्वरक्षकत्वसंहर्तृत्वगुणयोगाद् ब्रह्मविष्णुरुद्रशब्दवाच्यत्वम्। तत्र संहर्तृत्वगुणयोगी यः परमेश्वरः सोऽहम्। अस्य च सगुणेश्वरस्य निर्गुणब्रह्मत्वायोगात् तद्विभूतित्वमेव। यत्तु वेदान्तदेशिकः—यमादेशकारिप्राणहरणाधिकृतः पुरुषविशेषो मृत्युरिति, तन्मन्दम् ; तादृशस्याप्रमाणत्वात्। यमदूतानां च बहुत्वात्। न च मृत्युदेवतैवेति वाच्यम् ; तस्या भगवदाज्ञापरतन्त्रत्वेन यमादेशकारित्वाभावात्। ननु ‘भूतानामन्त एव चे’त्यनेन लयहेतोरीश्वरस्योक्तत्वादत्र ‘मृत्युरीश्वरः’ इति व्याख्यानं पुनरुक्तमिति चेत्? मैवम् ; तत्र लयस्थानमात्रस्यैवोक्तत्वात्। ‘अहमादि’रिति श्लोकस्य भगवन्माहात्म्यकथनपरत्वेन विभूतिपरत्वाभावाच्च। न च ‘सर्गाणा’मिति श्लोकार्थेन पुनरुक्तमिति वाच्यम् ; सृष्टिस्थितिलयत्रितयहेतुत्वेन तत्रेश्वरो निर्धारितः, अत्र तु केवललयहेतुत्वेनेति भेदात्। सर्गेषु तत्रेश्वरो निर्धारितः, मृत्युद्वये त्वत्रेति भेदादिति वा। ईश्वरश्च त्रिनेत्रो रुद्र इति व्याख्याने नैव पुनरुक्तिप्रसङ्गः। अत्र संहर्तॄणां मध्ये सर्वसंहर्ता मृत्युरहमिति मधुसूदनः। उच्चैरभितो भवत्युदेतीति उद्भवोऽभ्युदयो धर्मादिरूपः। लक्षणया अभ्युदयप्राप्तिहेतुरप्युद्भव एव। उद्भवत्यस्मात् पुंसामभ्युदय इति व्युत्पत्त्या उद्भवशब्दोऽभिधयाऽपि दर्शितमर्थं बोधयत्येव। न चोद्भवशब्दोऽत्र उत्पत्तिपर इति वाच्यम् ; आदिरित्यनेन तस्योक्तत्वात्। न च मृत्युशब्दसाहचर्यादत्रोद्भवशब्द उत्पत्तिपर एवेति वाच्यम् ; मृत्युशब्दस्यापि मरणार्थवाचित्वाभावादत्र। किं तर्हि? सर्वप्राणहरणरूपाशुभहेतुर्मृत्युरित्युक्तत्वेन सर्वाभ्युदयरूपशुभहेतुः कः? इत्याकाङ्क्षायां सोऽप्यहमेवेत्युक्तमिति पूर्वोत्तरसङ्गतिसद्भावाद् यथोक्त एवार्थः। भाविकल्याणानामिति। भावि भविष्यत् कल्याणं शुभं येषां तेषां भाविकल्याणानां पुरुषाणाम्। इदमेव स्पष्टयति— उत्कर्षेति। उत्कर्षप्राप्तियोग्यत्वमेव भाविकल्याणत्वमिति भावः। अकल्याणस्य सर्वहरणस्य प्रतियोगितया कल्याणलाभः। शुभाशुभे हि प्रतियोगिपदार्थौ। नारीणां मध्ये कीर्त्यादिनामिका या उत्तमोत्तमाः स्त्रियः ताः सर्वा अप्यहमेव। धर्मस्य पत्न्यः कीर्त्यादिगुणाभिमानिन्यो देवताः कीर्त्यादिशब्देनोच्यन्ते। तत्र कीर्तिः यशः, धार्मिकत्वनिमित्तख्यातिः। श्रीः सम्पत्। वाग् विद्या। स्मृतिः स्मरणम्। मेधा ग्रन्थधारणशक्तिर्बुद्धेः। धृतिः धैर्यम्। क्षमा मानावमानयोरविकृतचित्तता। कुतः कीर्त्यादीनामुत्तमोत्तमत्वम्? अत आह— यासामिति। यासां कीर्तिलक्ष्मीसरस्वत्यादिदेवतानाम् आभासमात्रसम्बन्धोऽत्यल्पसम्बन्धः, तदभिमानविषयकीर्तिसम्पदादिगुणाल्पयोगगम्य० इति भावः। तेनापि लोको जनः, स्त्रियः पुरुषाश्चात्मानं कृतार्थं मन्यन्ते। संसारिणामज्ञानां हि कीर्तिधनादिभिरात्मनि कृतार्थबुद्धिः, विदुषां तु ज्ञानेनैव ॥३४॥

बृहदिति। साम्नां मध्ये उत्कृष्टं बृहत्सामाख्यं साम, ‘बृहच्च वा इदमग्रे रथन्तरं चे’ति श्रुतेः। ‘त्वामिद्धि हवामहे’ इत्यस्यामृचि निमित्ता ख्यातिः। श्रीः लक्ष्मीः कान्तिः शोभा, वाग् वाणी सर्वस्य प्रकाशिका, स्मृतिः चिरानुभूतस्मरणशक्तिः, मेधा ग्रन्थधारणशक्तिः, धृतिः धैर्यं, क्षमा मानापमानयोरविकृतचित्तता। स्त्रीषु कीर्त्यादीनामुत्तमत्वमुपपादयति— यासामिति॥३४॥

वेदानां सामवेदोऽस्मीत्युक्तम्। तत्रावान्तरविशेषमाह— बृहदिति। छन्दसां मध्ये गायत्री नाम यच्छन्दस्तदहमित्ययुक्तम् ,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इत्येताः उत्तमाः स्त्रीणाम् अहमस्मि यासामाभासमात्रसम्बन्धेनापि लोकः कृतार्थमात्मानं मन्यते॥३४॥

बृहत्सामेति। बृहत्साम तथा साम्नां प्रधानमस्मि। गायत्री छन्दसामहं गायत्र्यादिच्छन्दोविशिष्टानामृचाम्

[[५१५]]

गीयमानं साम बृहत्साम। छन्दसाम् उष्णिगनुष्टुपत्रिष्टुप्प्रमुखानां मध्ये गायत्रीछन्दोऽहमिति व्याख्याने गायत्रीछन्दस उत्कर्षे हेतुर्नास्तीत्यभिप्रेत्याह— ऋचामिति। पादबद्धो वेदभाग ऋगित्युच्यते। गायत्री ऋक् गायत्रीछन्दोविशिष्टा ऋक्। गायत्रीछन्दस्तु षडक्षरपादबद्धम्। यथा— ‘मारायुधभूता बाला शफराक्षी। कान्तं हरिमागाल्लक्ष्मीस्तनुमध्या॥’ इति श्लोकः। एवं षडक्षरैश्चतुर्भिः पादैः बद्धा ऋक् गायत्रीछन्दोविशिष्टा। (ननु) यद्येवं लोकवद् वेदेऽपि षडक्षरपादचतुष्टयवत एव छन्दसो गायत्रीसंज्ञत्वम् , तर्हि ‘तत्सवितु’रिति मन्त्रस्य गायत्रीछन्दस्कत्वं न स्यात् , ‘तत्सवितु’रित्यस्य मन्त्रस्य विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्द इति तु मन्त्रशास्त्रे प्रसिद्धम्। तथा ‘उदु त्यं जातवेदस’मित्यादिमन्त्राणां च गायत्री छन्द इति प्रसिद्धम्। एवं गायत्री त्रिपदेत्यपि प्रसिद्धम् ,‘गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षि’रिति मन्त्रप्रयोगे दर्शनात्। तस्माद् वेदेऽष्टाक्षरपदत्रयैव गायत्री। एवम्भूतगायत्रीछन्दोविशिष्टत्वादपि तत्सवितुरित्यस्य गायत्रीमन्त्रत्वव्यवहारः। न च ‘तत्सवितुर्वरेण्य’मिति सप्ताक्षरमेव प्रथमपाद इति वाच्यम् ; णियमित्यक्षरद्वयपाठात्। न च ‘परोरजसि सावदो’मिति चतुर्थपादोऽप्यस्तीति वाच्यम् ; तस्य मन्त्रान्तरत्वात्। त्रिपदाया एव गायत्र्याः सर्वत्रोपदेशादिषु प्रसिद्धत्वात्। एवम् ‘उदु त्यं जातवेदस’मित्यादिऋक्ष्वपि त्रिपदैव एकैका ऋक्, ‘उदु त्यं जातवेदसं देवं वहन्ति केतवः, दृशे विश्वाय सूर्यम्’ इत्यस्या एकऋक्त्वात्। न च ‘अप त्ये तायवो यथे’त्येतदप्यस्या एव पादभूतमिति वाच्यम् ; ‘नवाद्या गायत्री छन्दः’ इति वचनानुरोधेन ‘उदु त्यं जातवेदस’मिति २मन्त्रे नवगायत्रीऋचां भवितव्यत्वात्। सप्तविंशतिपादानां दृश्यमानत्वाच्च एकैकस्या ऋचः पादत्रयात्मकत्वेन भवितव्यत्वात्। तस्मादष्टाक्षरत्रिपदैव गायत्री। लोके तु चतुर्विंशत्यक्षरा गायत्री षडक्षरपादचतुष्टयत्त्वेन पिङ्गलमुनिना कल्पिता। चतुष्पात्त्वेऽपि चतुर्विंशत्यक्षरसङ्ख्यायाः सत्त्वाद् गायत्रीत्वम्। न च लोकवद् वेदेऽपि चतुर्विंशत्यक्षरामृचं चतुर्धा विभज्य षड्भिरक्षरैरेकः पाद इति कल्प्यतामिति वाच्यम् ; ‘उदु त्यं जातवेदस’मित्यत्र ‘उदु त्यं जातवे’ इति पादविभागस्य कर्तुमशक्यत्वात्। न ह्येकस्मिन् पदे यतिविच्छेदः स्यात्। [न च] तर्हि लोक एवाष्टाक्षरं पादत्रयं गायत्रीछन्दसः कल्प्यतामिति वाच्यम् ; लोके श्लोकानां चतुष्पादवत्त्वेन भाव्यत्वात्। तस्मादष्टाक्षरमेव गायत्रीपादः। न च गायत्र्यनुष्टुप्छन्दसोः साङ्कर्यमिति वाच्यम् ; गायत्र्याः त्रिपदत्वाद् अनुष्टुभश्चतुष्पदत्वाच्च , गायत्र्याश्चतुर्विंशत्यक्षरत्वाद् अनुष्टुभो द्वात्रिंशदक्षरत्वाच्च वैलक्षण्यात्। तथा च त्रिष्टुभादिच्छन्दोबद्धानामृचां मध्ये गायत्रीछन्दोबद्धैव ऋगुत्कृष्टा। सा च ऋग्दर्शिता— ‘तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदया’दिति। अस्य च मन्त्रस्य ३गायत्री- देवताकत्वाद् गायत्रीछन्दोबद्धत्वाच्च गायत्रीति व्यपदेशः। ‘उदु त्यं जातवेदस’मित्यादीनां तु गायत्रीछन्दस्कत्वेऽपि गायत्रीदेवताकत्वं नास्तीति, नास्ति तेषां गायत्रीमन्त्रव्यवहारः। एवं गायत्रीछन्दोविशिष्टऋचामपि गायत्रीमन्त्र एवोत्कृष्ट इति, त्रिष्टुभादिच्छन्दो- विशिष्टानामृचां मध्येऽपि गायत्रीमन्त्र एवोत्तमोत्तमः इति गायत्रीशब्देनात्र गायत्रीमन्त्र एव ग्रहीतुमर्हः, ‘न गायत्र्याः परो मन्त्रः’ इत्यनेन गायत्रीमन्त्रस्य प्राशस्त्यं स्फुटमुच्यते। ननु काऽसौ गायत्रीदेवतेति चेत्? सवितुर्वरेण्यं यत्तेजस्तदेव। किं ज्योतिः? न, चैतन्यमेव। सूर्यमण्डलावच्छिन्नं चैतन्यं गायत्री ऋग् अहमस्मीत्यर्थः। मासानां मार्गशीर्षोऽहम्। ऋतूनां कुसुमाकरो वसन्तः॥३५॥

छन्दसामृग्भ्योऽतिरेकेण १स्वरूपासंभवादित्याशङ्क्याह— गायत्र्यादीति। द्विजातेर्द्वितीयजन्मजननीत्वादित्यर्थः। मार्गशीर्षो मृगशीर्षेण युक्ता पौर्णमास्यस्मिन्निति मार्गशीर्षो मासः, सोऽहम् , पक्वसस्याड्यत्वादित्याह— मासानामिति। वसन्तो रमणीयत्वादिति शेषः॥३५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥३५॥

अ. १०. श्लो. ३४-३५ ] १. ‘स्वरूपभावात्’ इति पा.। २. सूक्ते इति पठनीयम्। द्र. ऋग्वेदः १-५०-१। ३. चिन्त्यमिदम्। तस्य सवितृदेवताकत्वेन प्रसिद्धेः। ‘सूर्यमण्डलावच्छिन्नं चैतन्यं गायत्रीत्युच्यते’ इत्यादिवक्ष्यमाणरीत्या वा कथंचिद् योज्यम्।

[[५१६]]

गायत्रीत्युच्यते। सूर्यस्य तावत् सर्वसाक्षित्वेनेश्वरत्वप्रसिद्धेः, तस्यापि सूर्यस्य यदन्तरं चैतन्यं तदेवेश्वरो गायत्रीत्युच्यते। नैतावता अस्मदादिशरीरावच्छिन्नस्यानवच्छिन्नस्य वा चैतन्यस्य गायत्रीव्यवहाराभावः, चिच्छक्तेरेव गायत्रीत्वात्। तस्माच्चैतन्यं परं ब्रह्मैव गायत्री। न च स्त्रीलिङ्गप्रयोगात् कालीसरस्वत्यादिशक्तिर्गायत्रीति वाच्यम् ; चैतन्ये निर्विशेषे आत्मेति, ब्रह्मेति पुन्नपुंसकशब्दयोरिव गायत्रीति स्त्रीलिङ्गस्यापि प्रयोगसम्भवात्। एवं ब्रह्मपरत्वाज्जीवब्रह्माभेदरूपतत्त्वार्थबोधकत्वाच्च गायत्रीमन्त्रः सर्वमन्त्रोत्कृष्टः। अयं गायत्रीमन्त्रार्थः— यः ईश्वरो नः जीवानां धियः प्रचोदयात् प्रेरयति, ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ इति वचनात् , ‘यो भूतेषु तिष्ठन्’ इत्याद्यन्तर्यामिब्राह्मणाच्च। यच्छब्दात् तच्छब्दाध्याहारः। तस्य सवितुः मायया जगत्सृष्टिस्थितिलयहेतुभूतस्य देवस्य क्रीडत ईश्वरस्य सम्बन्धि, तत् स्वरूपभूतम् , वस्तुत ईश्वरस्यैव ब्रह्मत्वादिति भावः। बिम्बभूतमिति वा, जीवेश्वरयोर्मायाविद्योपाधिद्वयप्रतिफलितब्रह्मचैतन्यप्रतिबिम्बरूपत्वादिति भावः। तत् नित्यापरोक्षतया सच्चिदानन्दरूपतया प्रसिद्धमिति वा। वरेण्यम् उत्कृष्टं [भर्गः] तेजः ज्ञानं, चैतन्यमिति यावत्। ब्रह्मेति भावः। धीमहि सोऽहमिति प्रत्यगभिन्नत्वेन पश्यामः इति। गायत्री छन्दसामहम् मन्त्राणां मध्ये गायत्रीमन्त्रोऽहमित्यर्थः, ऋचां मन्त्रत्वात्। एवं सति गायत्रीत्येकवचनमपि स्वरसतः सङ्गच्छते, गायत्रीमन्त्रस्यैकत्वात्। यद्वा गायत्रीछन्दोविशिष्टा या ऋचः ‘उदु त्यं जातवेदस’मित्यादयः ताः सर्वा अप्यहमेव। जात्यभिप्रायाद् गायत्री- त्येकवचनम्। गायत्रीछन्दस एकत्वादिति वा। छन्दोवाचिना हि गायत्रीशब्देन तद्विशिष्टा ऋग् लक्षिता। तदेवं गायत्रीमन्त्रस्य गायत्रीछन्दोविशिष्टमन्त्राणां वा भगवद्विभूतित्वमिति सिद्धम्। न च गायत्रीछन्दोबद्धमन्त्राणां कुत उत्कृष्टत्वमिति वाच्यम् ; तज्जातौ गायत्रीमन्त्रस्य पठितत्वादिति। यद्वा ‘अग्रं वै छन्दसां गायत्री’ इति श्रुतेर्गायत्र्याश्छन्दसामग्रत्वादुत्कृष्टत्वम्। न च ‘उक्तात्युक्ता तथा मध्ये’ति पिङ्गलवचनाद् १उक्तैव छन्दः प्रथममिति वाच्यम् ; ‘अग्निमीळे पुरोहित’मिति ऋच एव सर्ववेदानामादित्वात् , तस्याश्च ऋचो गायत्रीछन्दोबद्धत्वात्। ‘अग्निमीळे’ इति मन्त्रस्य अग्निर्देवता, गायत्री छन्द इति मन्त्रपाठे दर्शनात्। ननु गायत्रीछन्दोबद्धमन्त्राणामितरच्छन्दोबद्धमन्त्रेभ्य उत्कृष्टत्वे यदि गायत्रीछन्दोबद्धत्वमेव हेतुस्तर्हि छन्दसां मध्ये गायत्री- छन्दस उत्कृष्टत्वं सिद्धमेवेति गायत्री छन्दसामहमित्यस्याभिधासिद्ध एवार्थो वाच्यः। त्रिष्टुभा[बा]दिच्छन्दसां मध्ये गायत्रीछन्दो ऽहमिति। यथा च भाषितं रामानुजेन। तद् विहाय किमिति लाक्षणिकार्थकल्पनाक्लेश आचार्याणामिति चेत्? उच्यते— पादाक्षरसङ्ख्या- विशेषनियमस्य छन्दःशब्दार्थत्वात् तन्मात्रस्य नोत्कृष्टत्वम् , किन्तु तद्विशिष्टस्य शब्दसमूहस्यैवेति। न च श्रुतिविरोधः, तत्रापि छन्दोविशिष्टानां मध्ये गायत्रीछन्दोविशिष्टैवोत्कृष्टेति विवक्षया अविरोधात्। तादृशस्यैव मन्त्रस्य ‘अग्निमीळे’ इत्यस्य वेदादौ स्थितत्वेनाग्रत्वाच्च। ननु ‘अग्निमीळे’ इति मन्त्रस्य वेदादौ स्थितस्य गायत्रीछन्दोविशिष्टत्वेन गायत्रीछन्दोविशिष्टा ऋच उत्कृष्टा इति यथोच्यते तथा वेदादौ ‘अग्निमीळे’ इति मन्त्रे गायत्रीछन्दसो वर्तमानत्वाद् गायत्रीछन्दोऽपि छन्दसामुत्कृष्टमिति वक्तुं शक्यमेवेति चेत्? सत्यम्। उक्तन्यायेन वेदादावग्नेः सत्त्वादग्निरेव देवोत्कृष्ट इति वक्तुमपि शक्यत्वात्। न चेष्टापत्तिः, ‘देवानामस्मि वासवः’ इति गीताविरोधात्। ‘अग्निर्वै देवानामवमो विष्णुः परमः’ इति श्रुतिविरोधाच्च। ननु श्रुतिस्मृतिविरोधादग्नेर्वेदादिस्थितिप्रयुक्तमुत्कृष्टत्वं मास्तु नाम, तदविरोधाद् गायत्रीछन्दसो वेदाद्यमन्त्रस्थितिप्रयुक्त उत्कर्षः स्यादिति चेत्? मैवम् ; अग्निशब्दोत्तरद्वितीयाविभक्तेरग्निशब्दस्य वा वेदादिगतत्वेनोत्कृष्टत्वमिति वक्तव्यत्वात्। अथवा भवतु छन्दोमात्रस्यापि तस्योत्कर्षः, तथापि यन्मन्त्राधीनश्छन्दोमात्रस्योत्कर्षः स एव मन्त्र इहोत्कृष्टत्वेन ग्राह्यो लाघवात्। तज्जातीयत्वादन्ये च तादृशा इति बोध्यम्। भाष्यार्कप्रकाशः १. उक्तेति छन्दोविशेषनाम। उदाहृतं वचनं वृत्तरत्नाकरे दृश्यते। द्र.वृत्त. १-१९।

[[५१७]]

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥३६॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः॥३७॥

वस्तुतस्तु ऋगतिरेकेण छन्दसोऽभावाद् ऋक्सत्तयैव छन्दसः सत्तावत्त्वम् , न तु छन्दसः स्वातन्त्येण सत्तेति कृत्वा छन्दःशब्देनेह स्वतन्त्रसत्ताशालिनी ऋगेव ग्राह्येति बोध्यम्। तस्मान्नात्र गायत्रीछन्दस ईश्वरविभूतित्वं प्रतिपादितम्। मार्गशीर्षस्य सस्यादिसम्पत्तिहेतुत्वात् , व्रताद्युचितकालत्वाद्वा उत्कृष्टत्वम्। वसन्तस्य तु ‘वसन्ते वसन्ते ज्योतिषा यजेते’ति ज्योतिष्टोमकालत्वात् , पुष्पसमृद्धिमत्त्वेन प्राणिसुखकरत्वादिति वा उत्कृष्टत्वम्॥३५॥

द्यूतमिति। छलं कुर्वन्तीति छलयन्तः तेषां छलयताम्। लक्षणया छलानां मध्ये द्यूतमस्मि। द्यूतलक्षणमाह— अक्षदेवनादि- लक्षणमिति। क्रयविक्रयऋणदायसंवित्सङ्गरादयश्छलानि, वञ्चनास्पदत्वात् तेषाम्। द्यूतस्य सर्वाधिकत्वं च क्षणादेव धर्मराजादीनां द्यूते पराजयेन निःस्वभवनाद् , दुर्योधनादीनां च राजराजीभवनाज्जयेनेति बोध्यम्। एवं धनापहरणफलकेषु वञ्चनाविषयेषु क्रयविक्रयादि- सर्वच्छलेषु द्यूतस्य प्रकृष्टत्वादेव ‘अक्षैर्मा दीव्यः’ इति श्रुतिर्द्यूतं निषेधति। तेजस्विनां यत् प्रधानं तेजः, जेतॄणां यः प्रधानो व्यवसायः, सत्त्ववतां यत् प्रधानं सत्त्वं तत् सर्वमहमस्मि। नात्र निर्धारणम् , किन्तु विभूतिमात्रकथनमेव। यद्वा तेजऔदार्यवैभवादीनां मध्ये तेजोऽहम् , जयापजययोर्मध्ये जयोऽहम् , सन्धिविग्रहयानयुद्धजयादिषु जेतृधर्मेषु जयोऽहमिति वा। व्यवसायः उद्योगः। उद्योगानुद्योगयोरुद्योगोऽहम् ; ‘उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी’रित्युद्योगस्य प्रशंसितत्वात्। सङ्कल्पविकल्पनिश्चयादीनां मध्ये उद्योग उत्कृष्ट इति वा। अहमेवं करिष्यामीत्यादिसङ्कल्पादिभ्यः कर्मसु प्रवृत्तिरूपस्योद्योगस्य फलहेतुत्वेन प्रकृष्टत्वमिति बोध्यम्। सत्त्ववतां सत्त्वं सामर्थ्यम् , तच्च वाक्कायेन्द्रियमनोविषयत्वभेदेन चतुर्विधम्। ततश्च वाक्पाटव- कायपाटवेन्द्रियपाटवमनःपाटवानां मध्ये सत्त्वं मनःपाटवमहमस्मि। मनःपाटवस्यैव विद्यामोक्षादिहेतुत्वेनोत्कृष्टत्वात्। यद्वा सात्विकानां धर्मेषु सत्त्वादिषु सत्त्वमहम्। सत्त्वं शमदमादिलक्षणम्। आदिपदाद् यज्ञादिधर्मा ग्राह्याः। अथवा सत्त्वरजस्तमसां मध्ये सात्त्विकानां गुणो यः सत्त्वं सोऽहमेवेत्यर्थः। सत्त्वस्य च शमदमज्ञानादिहेतुत्वादुत्कृष्टत्वम् ॥३६॥

वृष्णीनामिति। वृष्णयो यादवाः। कोऽसौ वासुदेवः? अत आह— अयमेवेति। तव यस्मिन् सखेति बुद्धिः स वसुदेवसूनु- रित्यर्थः। रामावतारवत् कृष्णावतारस्यापीश्वरे कल्पितत्वादीश्वरविभूतित्वम्। धनं जयतीति धनञ्जयः इति व्युत्पत्त्या निखिलराज- विजयित्वरूपोत्कर्षः सिद्धोऽर्जुनस्येति द्योत्यते। कृष्णार्जुनयोर्नरनारायणावतारत्वेन कृष्णस्येवार्जुनस्यापि विष्ण्ववतारत्वाद् वा द्यूतमुक्तलक्षणं सर्वस्वापहारकारणम् अन्यापदेशेन पराभिप्रेतं विघ्नतां, स्वाभिप्रेतं वा सम्पादयतामित्याह— छलस्येति। तेजोऽप्रतिहताज्ञा। उत्कर्षो जयः। व्यवसायः फलहेतुरुद्यमः। धर्मज्ञानवैराग्यादि सत्त्वकार्यं सत्त्वम्॥३६॥

उशना शुक्रः। कविशब्दोऽत्र यौगिको, न रूढः, पौनरुक्त्यात्३॥३७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

द्यूतमिति। द्यूतम् अक्षदेवनादिलक्षणं छलयतां छलस्य कर्तॄणामस्मि। तेजस्विनां तेजोऽहम्। जयोऽस्मि जेतॄणाम्। व्यवसायोऽस्मि व्यवसायिनाम्। सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम्॥३६॥

वृष्णीनामिति। १वृष्णीनां वासुदेवोऽस्मि अयमेवाहं २त्वत्सखः। पाण्डवानां धनञ्जयः त्वमेव। मुनीनां मनन- १. ‘वृष्णीनां यादवानाम्’ इति पा.। २. ‘त्वत्सखा’ इति पा.। ३. ‘उशना भार्गवः कविः’ इति कोशात् कविशब्दः शुक्रे रूढः। प्रकृते तु कवयितृपर इति भावः। अ. १०. श्लो. ३५ -३७ ]

[[५१८]]

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्। मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥३८॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन !। अदान्तान् उत्पथान् [उत्पथात् ] पथि प्रवर्तयतां दण्डोऽहम् उत्पथप्रवृत्तौ निग्रहहेतुरित्यर्थः। नीतिः न्यायो धर्मस्य जयोपायस्य प्रकाशकः। मौनं वाचंयमत्वम् , उत्तमा वा चतुर्थाश्रमप्रवृत्तिः। श्रवणादिद्वारा परिपक्वसमाधिजन्यं सम्यग्ज्ञानं ज्ञानम्॥३८॥

शीलानां सर्वपदार्थज्ञानिनामप्यहं व्यासः। कवीनां क्रान्तदर्शिनाम् उशना कविरस्मि॥३७॥

दण्ड इति। दण्डो दमयतां दमयितॄणामस्मि अदान्तानां दमनकारणम्। नीतिरस्मि जिगीषतां जेतु- मिच्छताम्। मौनं चैवास्मि गुह्यानां गोप्यानाम्। ज्ञानं ज्ञानवतामहम्॥३८॥

यच्चापीति। यच्चापि सर्वभूतानां बीजं प्ररोहकारणं तदहम् , अर्जुन!। प्रकरणोपसंहारार्थं विभूतिसंक्षेपमाह— भाष्यार्कप्रकाशः उत्कर्षः। नरनारायणौ हि विष्ण्वंशसम्भूतावृषी। अत्र वृष्णीनामहमिति, पाण्डवानां त्वमिति चोक्तेऽस्मत्त्वच्छब्दाभ्यां ग्रहणमात्मनः स्यात्। वासुदेवो धनञ्जयः इत्युक्ते तु यो वसुदेवाज्जातः स कार्यकरणसङ्घात एव वासुदेवशब्देन, येन शत्रूणां धनं जितं स सङ्घात एवार्जुनशब्देन च ग्राह्यः स्यात्। तयोश्च सङ्घातयोरीश्वरविभूतित्वं युक्तमीश्वरे कल्पितत्वाद् , आत्मनस्तु न युक्तमात्मन एवेश्वरत्वादिति बोध्यम्। मुनयो मननशीलाः सर्वपदार्थज्ञा वा। तेषां मध्ये व्यासः उत्कृष्टः, आत्मस्वरूपमननशीलत्वात् सूत्रपुराणादिप्रबन्धकर्तृत्वेन वेदविभाजनेन च सर्वज्ञत्वाच्च। वेदान् व्यस्यति विभजतीति हि व्यास इति व्युत्पत्तिः। ‘व्यासो नारायणो हरि’रिति नारायणांशत्वाद्वा व्यासस्योत्कर्षः। क्रान्तदर्शिनो दूरदृष्टयः। भूतभविष्यद्वृत्तान्तवेदनशीला इति यावत्। उशना शुक्रः कविरिति पर्यायाः। उशनाभिधः कविः शुक्रोऽहमित्यर्थः। शुक्रस्य विपश्चित्प्राथम्यं तु ‘न कश्चिन्नोपनयते पुमानन्यत्र भार्गवात्। शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्ववतिष्ठते’ इति प्रसिद्धम्। नीतिशास्त्रादिकर्तृत्वाच्च॥३७॥

दण्ड इति। दमयतां धर्मेषु वादिप्रतिवादिवाक्यश्रवणसाक्षिविचारणादिषु शिक्षणरूपो यो दण्डः सोऽहमस्मि। कुतस्तस्य श्रेष्ठत्वम्? अत आह— अदान्तानामिति। अदान्तानामपि दमेन दान्तत्वं भवतीति दमस्योत्कृष्टत्वम्। यद्वा दमयतां राजगुर्वादीनां दमयितव्येषु भृत्यशिष्यादिषु कर्तव्या ये भावा नयभयदयादयः, तेषां मध्ये दम एवोत्कृष्टः। दमादेव भृत्यादीनां दान्तीभूतत्वादिति। निर्धारणानाग्रहे तु दमयतां यः प्रधानो दण्डः सोऽहमस्मीति बोध्यम्। एवमुत्तरत्रापि। जिगीषतां ये शौर्यधैर्यादयो गुणास्तेषां मध्ये नीतिरस्मि, नीतिपूर्वकत्वाज्जयलाभस्य। गुह्यानां गोप्यानां धनकनकौषधादीनां गोपनाः ये वस्त्रपेटिकादयः, तेषां मध्ये मौनमुत्कृष्ट- महमस्मि। तथा च गुह्यशब्दोऽत्र लक्षणया गुह्यगोपनपरः। वस्त्रादिभिर्गोपितमपि वस्तु सुवर्णादिकं मौनाभावे विवृतमेव स्यात्। मद्वस्त्रग्रन्थौ रूपिकाऽस्तीति वाचैव गोप्यवस्तुनः स्फुटीकृतत्वसम्भवात्। तथा पेटिकादिभिर्गोपयितुमशक्यमपि रहस्यं वाङ्मौनेन गोपयितुं शक्यत एव। तस्मान्मौनस्य गोपनेषूत्कृष्टत्वम्। ज्ञानवतां ये ज्ञानशमदमसुखादयो गुणास्तेषां मध्ये ज्ञानमहमस्मि। ज्ञानवतां यत् प्रधानं ज्ञानं तदहमस्मीति वा॥३८॥

यदिति। बीजानां मध्ये यत् सर्वभूतानां बीजं तदहमस्मि। सर्वभूतबीजं तु प्रकृतिरिति बोध्यम्। एतेन प्रकृतेरपीश्वरविभूतित्वं सिद्धम्। प्रकृतेः सूक्ष्मावस्थापन्नायाः स्थूलावस्थजगद्रूपं प्रति बीजत्वं, यथा बीजस्य वृक्षादिं प्रतीति बोध्यम्। विस्तरेणोक्तां विभूतिं आनन्दगिरिकृतव्याख्या १. ‘गार्हस्र्ह्यमाचार्यकुलं मौनं वानप्रस्थम्’ इत्यत्र मौनशब्दस्य संन्यासार्थे प्रयोगदर्शनादिति भावः।

[[५१९]]

न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥३९॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप !। एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥४०॥

यद्यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा। भाष्यार्कप्रकाशः सङ्क्षेपेण वदति— नेति। यच्चराचरं भूतं मया विना स्यात् , तन्नास्ति। चरमचरं वा किमपि भूतं मया विना नास्त्येवेत्यर्थः। मया विनेत्यस्यार्थमाह— मयाऽप्रविष्टमिति। सच्चिदानन्दरूपेण सर्वव्यापिना सर्वस्यात्मभूतेन मयाऽव्याप्तमित्यर्थः। कल्पितस्याधिष्ठानात्मकत्वात् कार्यस्य च कारणात्मकत्वात् सर्वं जगदीश्वरात्मकमेवेति जगतः स्वरूपम् ईश्वर एव। यथा घटस्य मृत् , यथा वा सर्पस्य रज्जुः। ईश्वरस्य जगत्यप्रवेशे तु जगतः स्वरूपस्यैवाभावाच्छून्यत्वम्। किञ्च सच्चिदानन्देश्वरस्याप्रवेशे जगदस्ति, जगद्भाति, जगत्प्रियमिति व्यवहारो न सिध्येत् , सच्चिदानन्दानामीश्वरधर्मत्वेन जगति तत्सङ्क्रमणं विना तादृशव्यवहारा- सम्भवात्। तथा च शशशृङ्गादिवद् जगन्नास्ति, न भाति, न प्रियमित्येव प्रतीयेतेति शून्यमेव स्याज्जगदिति। ननु सर्वव्यापीश्वरस्य कथं जगत्यप्रवेशः सम्भाव्येतेति चेत्? उच्यते— ईश्वरस्य जगतश्च पृथक्करणमेव जगतीश्वरस्या- प्रवेशत्वेन विवक्षितम्। पृथक्करणं च जगति दृश्यमानानां सत्ताजाड्यादिधर्माणां विवेचनम्। अयमीश्वरधर्मः, अयं जगद्धर्म इति बुद्ध्या जगतः सकाशादीश्वरधर्माणां विवेचने कृते सति अनृतमेव जगत् सिध्यति; अनृतस्य च शशशृङ्गादिवच्छून्यत्वमेवेति। एतेन सर्वस्यापि जगत ईश्वरे कल्पितत्वादीश्वरविभूतित्वमिति सिद्धम्॥३९॥

नेति। अन्तः अवधिः, इयत्तेति यावत्। घटोऽहं पटोऽहम् अश्माऽहं मृत्तिकाऽहमित्येवं मम विभूतिः सर्वां वक्तुमहमपि न शक्नोमि, अनन्तत्वाद् विभूतीनाम्। परन्तु सर्वाः अहं जानामि, सर्वज्ञत्वात्। अन्ये तु ज्ञातुमपि न शक्नुवन्ति, किञ्चिज्ज्ञत्वादिति भावः। एकदेशेनेति। कासाञ्चित् प्रधानविभूतीनां ग्रहणेनेति भावः। विभूतेरिति जात्येकवचनम्। विभूतीनामित्यर्थः॥४०॥

यदिति। लोके यद्यत् सत्त्वं विभूतिमत् , श्रीमत् , ऊर्जितमेव वा भवति, तत्तत् सत्त्वं त्वं मम तेजोंऽशसम्भवमेवावगच्छ। विभूतिः ऐश्वर्यम् , सामर्थ्यमिति यावत्। श्रीः सम्पत्। तेजोंऽशः ज्ञानैकदेशः। यद्यपि ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इति १. ‘मयाऽप्रविष्टम्’ इति रा.पा.। २. ‘वस्तुजातं’ इति पा.। ३. जाड्यम् अविद्या। ३जाड्यमात्रप्रतिबिम्बितं चैतन्यं बीजम्। किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण न भवति? तत्राह—मयेति। तस्यापि स्वरूपेण सत्त्वमाशङ्क्योक्तम्— शून्यं हीति। आत्मनोऽपकर्षादित्यर्थः। मयैव सच्चिदानन्दस्वरूपेण सर्वस्य सिद्धेरिति अतःशब्दार्थः॥३९॥

दिव्यानां विभूतीनां परिमितत्वशङ्कां वारयति— नेत्यादिना। तदेवोपपादयति— न हीति। कथं तर्हि विभूतेर्विस्तरो दर्शितः? तत्राह— एष त्विति॥४०॥

अनुक्ताः अपि परस्य विभूतीः संग्रहीतुं लक्षणमाह— यद्यदिति। वस्तु प्राणिजातं, श्रीमत् समृद्धिमद्वा कान्तिमद्वा। सप्राणं न तदस्ति भूतं चराचरं चरम् अचरं वा मया विना यत् स्याद् भवेत् । मयाऽपकृष्टं १ परित्यक्तं निरात्मकं शून्यं हि तत् स्यात्। अतो मदात्मकं सर्वमित्यर्थः॥३९॥

नान्तोऽस्तीति। नान्तोऽस्ति मम दिव्यानां विभूतीनां विस्तराणाम् , परन्तप!। न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनामियत्ता शक्या वक्तुं ज्ञातुं वा केनचित्। एष तु उद्देशतः एकदेशेन प्रोक्तो विभूतेर्विस्तरो मया॥४०॥

यद्यदिति। यद्यद् लोके विभूतिमद् विभूतियुक्तं सत्त्वं २वस्तु श्रीमद् , ऊर्जितमेव वा श्रीः लक्ष्मीः, तया आनन्दगिरिकृतव्याख्या

[[अ. १०. श्लो. ३७-४१]] [[५२०]]

वचनात् सर्वेऽपीश्वरांशसम्भवा एव। तथापि साधारणप्राणिषु ईश्वरीयसर्वज्ञत्वरूपज्ञानधर्मैकदेशो नास्ति, विभूतिभूतेषु तु तदस्तीति विभूतीनामीश्वरतेजोंऽशसम्भवत्वम्। तेजश्चात्रोपलक्षणं बलक्रिययोः। ईश्वरस्य स्वाभाविक्यो या ज्ञानबलक्रियास्तदंशसम्भवमित्यर्थः। अत एवेश्वरविभूतिषु रामकृष्णमहेन्द्रादिषु ज्ञानबलक्रियाधिक्यदर्शनम्। यद्वा तेजःशब्दोऽत्र भगस्योपलक्षणम्। ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि भग इत्युच्यन्ते। तदेकदेशसम्भवमिति। जीवाः ईश्वरचैतन्यांशभूताः, विभूतयस्तु ईश्वरचैतन्यांशभूताः तद्गुणांशयुक्ताश्चेति भावः। अतो नात्र तेजःशब्दः स्वरूपचैतन्यपर इति बोध्यम्। यद्वा जीवाः प्रत्यगात्मनः परब्रह्मणश्चैतन्यस्यांशभूताः, महाकाशस्येव घटाकाशाः। रामकृष्णादिविभूतयस्तु सर्वज्ञत्वादि- गुणविशिष्टस्य मायिन ईश्वरस्यांशभूताः। अत एव विभूतिष्वीश्वरगुणैकदेशोपलम्भः। अस्मिन् पक्षे ममेश्वरस्य यत् तेजः सर्वज्ञत्वादिगुणयोगि चैतन्यम् , तदंशसम्भवमित्यर्थः। न च ‘ममैवांशः’ इतीश्वरांशत्वमुच्यते जीवानामिति वाच्यम् ; तत्र ममेत्यस्य परब्रह्मण इत्यर्थात्। ईश्वरेण प्रयुक्तो ह्यस्मच्छब्दो लक्षणया परमात्मानं वक्ति, जीवेन प्रयुक्त इवास्मच्छब्दो लक्षणया प्रत्यगात्मानम्। यत्तु रामानुजः— मम तेजः सामर्थ्यं नियमनशक्तिरिति, तन्मन्दम् ; ईश्वरांशेषु प्रभुषु नियमनशक्तिदर्शनेऽपि ज्ञानिविरक्तादिषु तददर्शनात्। अथ तेजः सर्वज्ञत्वसर्वकर्तृत्वसर्वेश्वरत्वादिरूपं सामर्थ्यमित्युच्यते, तर्हि तत् तेजो भगरूपमेव। एवं च तेजःशब्दस्य उपलक्षणत्वं विनैव भगवाचकत्वं सम्भवतीति समीचीनमेवेदं व्याख्यानम्। अवगच्छ विद्धि॥४१॥

अथवेति। ननु ‘न तदस्ति विने’त्यनेन सर्वस्य जगतः ईश्वरविभूतित्वस्योक्तत्वात् , विभूतिमन्तः श्रीमन्त ऊर्जिता एव मत्तेजोंऽशसम्भवत्वाद् मद्विभूतयः, अनीश्वरा दरिद्रा निरुत्साहास्तु मत्तेजोंऽशासम्भवत्वान्न मद्विभूतय इति वचनं विरुद्धमिति शङ्कायाम्— मत्तेजोंऽशसम्भवं विभूत्यादिगुणयुक्तं भूतं मद्विभूतिरिति प्राधान्येनोक्तं ध्येयत्वार्थम्। वस्तुतस्तु सर्वं जगद् मद्विभूतिरेव, मत्तो जातत्वात् , मय्येव कल्पितत्वात् सर्वस्य मदात्मकत्वादित्याह— अथवेति। अथवेति पक्षान्तरे। बहुनेति। आदित्योऽहम् भाष्यार्कप्रकाशः तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्॥४१॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन !। विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्॥४२॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः॥१०॥

बलवदूर्जितम् , तदाह— उत्साहेति। सम्भवत्यस्मादिति सम्भवः। तेजसश्चैतन्यस्येश्वरशक्तेर्वा अंशस्तेजोंऽशः सम्भवोऽस्येति तेजोंऽश- सम्भवम्। तदाह— तेजस इति॥४१॥

सर्वेषां सुगमत्वायावयवशो विभूतिमुक्त्वा, १शक्तानुग्रहार्थं साकल्येन तामाह— अथवेति। पक्षान्तरपरिग्रहार्थम् अथवेत्युक्तम्। २बहुना विस्तीर्णेन एतेन ग्रन्थेन (सं)ज्ञातेन सावशेषेण तव शक्तस्य न किञ्चित् फलं स्यादित्याह— बहुनेति। न हि विभूतिषूक्तासु ज्ञातासु सर्वं ज्ञायते, कासाञ्चिदेव विभूतीनामुक्तत्वादित्यर्थः। तर्हि केनोपदेशेनाल्पाक्षरेण सर्वोऽर्थो ज्ञातुं शक्यते? तत्राह— अशेषत इति। सहितम् , उत्साहोपेतं वा, तत्तदेव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजोंऽशसम्भवं तेजसोंऽशः एकदेशः सम्भवो यस्य तत् तेजोंऽशसम्भवमित्यवगच्छ त्वम्॥४१॥

अथवेति। अथवा बहुना एतेन एवमादिना किं ज्ञातेन तव, अर्जुन ! स्यात् सावशेषेण? अशेषतः त्वम् इमम् १. ‘भक्तानुग्रहार्थं’ इति पा.। २. ‘बहुधा’ इति पा.। आनन्दगिरिकृतव्याख्या

[[५२१]]

अश्वत्थोऽहम् इन्द्रोऽहं चन्द्रोऽहमित्येवमादिभिर्बहुभिर्ज्ञातैः किं फलं तव? न किमपीत्यर्थः। तत्र हेतुमाह— सावशेषेणेति। अशेषतो विभूतीनां वक्तुमशक्यत्वात् प्रत्येकविधयेति भावः। अहमिदं कृत्स्नं जगद् एकपादेन विष्टभ्य स्थितः। स्तम्भनं कृत्वेति। अभि- व्याप्येत्यर्थः; आक्रम्येति वा, नियम्येति वा। सर्वथाऽपि सर्वं जगत् स्वस्यैकस्मिन्नेव पादे यथा स्यात् पादान्तरे यथा न स्यात् , तथा कृत्वेत्यर्थः। एतेन - इदं सर्वं जगद् आत्मगर्भे धर्तुं भगवानीश्वरः कथं शक्नुयादिति शङ्का - परास्ता। भगवतः पादमात्रमेव स्वान्तः सर्वं जगद् बिभर्ति, किं पुनश्चतुष्पाद् ब्रह्मेत्यर्थापत्तेः। तथा - सर्वस्मिन् ब्रह्मणि जगतः सत्त्वे मुक्तप्राप्यब्रह्माभावप्रसङ्ग इति शङ्का च प्रत्युक्ता, मुक्तप्राप्यस्य त्रिपाद्ब्रह्मणः सत्त्वात्। ननु निरंशस्येश्वरस्य कुतोंऽशित्वम्? अत आह— तथा चेति। श्रुतिप्रामाण्यान्निरंशस्यापि सांशत्वमभ्युपेयमिति भावः। अस्येश्वरस्य विश्वा सर्वाणि भूतानि पादः एकोंऽशः। अस्यैकः पादो जगति वर्तत इत्यर्थः। अस्यैकपादे जगद् वर्तत इति वा। अस्यैकः पादो जगद्रूपेण वर्तत इति वा। अस्यैकः पादो जगद्रूपेण दृश्यत इति वा। अत एवोक्तम्— ‘सर्वभूतस्वरूपेणेत्येतद्’ इति भाष्यकारैः। ननु श्रुत्युक्तस्यापि विरुद्धार्थस्य कथं ग्राह्यत्वमिति चेत्? मैवम् ; निरंशस्यापि मायया सांशत्वसम्भवात्। माया हि ब्रह्मण एकदेशे स्थिता, यथा घटशक्तिर्मृद एकदेशे स्निग्धमृदि। न च मायाऽपि कथं ब्रह्मण एकदेशं विभज्य तत्र स्थितवतीति वाच्यम् ; मायाकृत्यस्यानिर्वचनीयत्वेन तत्रातिशङ्कानवकाशात्। अयमेव सर्वभूतात्मको ब्रह्मण एकः पादो मायीति, ईश्वर इति चोच्यते। मायाशबलितस्य मायावच्छिन्नस्य ब्रह्मण एवेश्वरत्वात्। निर्मायं तु शुद्धचैतन्यं परब्रह्मैव। तदेव तत्त्वं मायाया अतात्त्विकत्वेन समायस्यापि अतात्त्विकत्वात्। तथा मायामयानि भूतान्यपि अतात्त्विकान्येव। तदेव तत्त्वं प्रत्यगात्मेति सिद्धं जीवेश्वरैक्यम्। यत्तु रामानुजः— ‘मम महिम्नोऽयुतायुतांशेन विष्टभ्ये’ति, तन्मन्दम् ; एकांशेनेति पदाद् अयुतायुतांशेनेत्यर्थालाभात् , महिम्न इति पदस्यासत्त्वाच्च। सर्वस्य जगतो भगवद्विभूतित्वे वक्तव्ये जगन्नियमनस्य वक्तुमनुचितत्वाच्च। तस्माच्छङ्करोक्त एवार्थः शङ्करः इति॥४२॥

विभूतीनां योगः सम्बन्धो यस्मिन् स विभूतियोगो नामाध्यायः। इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते श्रीभगवद्गीताशाङ्करभाष्यार्कप्रकाशे विभूतियोगो नाम दशमोऽध्यायः॥१०॥

श्रीहयग्रीवार्पणमस्तु

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विशेषतः स्तम्भनं विधरणम् । सर्वभूतस्वरूपेण सर्वप्रपञ्चोपादानशक्त्युपाधिकेन एकेन पादेन कृत्स्नं जगद् विधृत्य स्थितोऽस्मीति सम्बन्धः। तत्रैव श्रुतिं प्रमाणयति— तथा चेति। तदनेन भगवतो नानाविधाः विभूतीर्ध्येयत्वेन ज्ञेयत्वेन चोपदिश्यन्ते[दिश्य, अन्ते] सर्वप्रपञ्चात्मकं ध्येयं रूपं दर्शयित्वा, ‘त्रिपादस्यामृतं दिवि’ इति २प्रपञ्चाधिकं निरुपाधिकं तत्त्वमुपदिशता परिपूर्णसच्चिदानन्दैकतानः तत्पदलक्ष्योऽर्थो निर्धारितः॥४२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने दशमोऽध्यायः॥१०॥

१. ‘विश्वा’ इति पा.। २. ‘प्रपञ्चातीतं’ इति पा.। उच्यमानमर्थं शृणु। विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगद् एकांशेन एकावयवेन एकपादेन, सर्वभूतस्वरूपेणेत्येतत् ; तथा च मन्त्रवर्णः—‘पादोऽस्य १सर्वा भूतानि’(छा.उ.३.१२.५) इति; स्थितोऽहमिति॥४२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीभगवद्गीताभाष्ये विभूतियोगो नाम दशमोऽध्यायः॥१०॥

अ. १०. श्लो. ४१-४२ ] DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः