०९

॥अथ नवमोऽध्यायः॥

श्रीभगवानुवाच— इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

वृत्तं कीर्तयन् पूर्वाध्यायस्यास्य च सङ्गतिं दर्शयति— अष्टमे इति। नाडी सुषुम्ना। धारणा प्राणानां नियमनम्। अनेनैव सगुणोपासनेनैव। नान्यथा सम्यग्दर्शनेन न। व्याविवृत्सया व्यावर्तयितुमिच्छया। सन्निहिते वस्तुनीदंशब्दप्रयोगादाह— बुद्धौ सन्निधी- कृत्येति। पूर्वेष्वध्यायेषूक्तम् उत्तरत्र वक्ष्यमाणं च तत् सर्वं ब्रह्मज्ञानं बुद्धौ सन्निहितं कृत्वा इदमित्याह। ५विशेषार्थः पूर्वोक्ताद् योगादस्य ज्ञानस्य वैलक्षण्यं द्योतयितुं तुशब्द इत्यर्थः। तमेव विशेषं दर्शयति— इदमेवेत्यादिना। साक्षादिति। योगस्तु क्रमेणेति भावः। किं तत् सम्यग्ज्ञानम्? अत आह— वासुदेवः सर्वमित्यादि। ‘वासुदेवः सर्वमिति स महात्मा सुदुर्लभः’ इति गीतावाक्यं स्मृतिः। ‘आत्मैवेदं सर्वम् , एकमेवाद्वितीयं ब्रह्म, तदिदं सर्वं यदयमात्मा’ इत्यादेरादिपदाद् ग्रहणम्। दर्शितश्रुतिस्मृतिसिद्धं ‘सर्वं ब्रह्म, अहं ब्रह्मास्मी’- त्येवंरूपं ज्ञानं सम्यग्ज्ञानमित्यर्थः। अन्यत् ज्ञानान्तरं तु सम्यग्ज्ञानं न भवति। मोक्षप्राप्तिसाधनं न भवतीति वा। उक्तार्थे श्रुतिं आनन्दगिरिकृतव्याख्या २अतीतेनागामिनोऽध्यायस्यागतार्थत्वं वक्तुं वृत्तमनुवदति— अष्टम इति। नाडी सुषुम्नाख्या। धारणाख्येनाङ्गेन युक्तो योगो धारणायोगः। सगुणः सर्वद्वारसंयमनादिर्गुणः, तेन सहित इत्यर्थः। तत्फलोक्त्यर्थम् अनन्तराध्यायारम्भमाशङ्क्याह— तस्य चेति। अग्निरर्चिरित्यादिनोपलक्षितेन क्रमवता, देवयानेन पथेति यावत्। ज्ञानानन्तरमेव यथोक्तफललाभादलमनेन मार्गेणेत्याशङ्क्याह— कालान्तर इति। अर्चिरादिमार्गेण ब्रह्मप्राप्तौ मुक्तेर्मार्गायत्तत्वात् ३‘न तस्य’ इत्यादिश्रुतिविरोधः स्यादित्याशयेन शङ्कते— तत्रेति। वृत्तोऽर्थः सप्तम्यर्थः। उक्ताशङ्कानिवृत्त्यर्थम् अनन्तराध्यायमुत्थापयति— तदाशङ्केति। ४सम्प्रयुक्तत्वेनापरोक्षत्वाभावेऽपि पूर्वोत्तर- ग्रन्थालोचनया बुद्धिसन्निधानाद् इदंशब्देन ब्रह्मज्ञानं गृहीतमित्याह— तद्बुद्धाविति। प्रकृताद् ध्यानाज्ज्ञानस्य वैशिष्ट्यावद्योती तुशब्द इत्याह— तुशब्द इति। निपातार्थमेव स्फुटयति— इदमेवेति। तस्मिन्नर्थे संवादकत्वेन श्रुतिस्मृती दर्शयति— वासुदेव इति। अद्वैतज्ञानवद् द्वैतज्ञानमपि केषाञ्चिन्मोक्षहेतुरित्याशङ्क्याह— नान्यदिति। द्वैतज्ञानं मोक्षाय न क्षममित्यत्र श्रुतिमुदाहरति— अथेति। अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः। तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्ष- णमेवानावृत्तिरूपं निर्दिष्टम्। तत्र ‘अनेनैव प्रकारेण मोक्षप्राप्तिफलमधिगम्यते, नान्यथा’ इति १तदाशङ्काव्याविवृत्सया श्रीभगवानुवाच— इदमिति। इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेष्वध्यायेषु , तद् बुद्धौ सन्निधीकृत्य ‘इद’मित्याह। तुशब्दो विशेषनिर्धारणार्थः। इदमेव तु सम्यग्ज्ञानं साक्षान्मोक्षप्राप्तिसाधनम् , ‘वासुदेवः सर्वमिति’ (भ.गी.७.१९), ‘आत्मैवेदं सर्वम्’ (छा.उ.७.२५.२), ‘एकमेवाद्वितीयम्’ (छा.उ.६.२.१) इत्यादिश्रुतिस्मृतिभ्यः; नान्यत्। ‘अथ ये १. ‘तदाशङ्काव्याविवर्तयिषया’ इति पा.। २. अध्यायेनेति शेषः। ३. ‘न तस्य प्राणा उत्क्रामन्ति’ इति श्रुतौ उत्क्रमणनिषेधेन ब्रह्मविदो मार्गाभावबोधनादिति भावः। ४. ‘इदमस्तु संनिकृष्ट’मित्युक्तेः ब्रह्मज्ञाने इन्द्रियसंनिकर्षाभावेन इदंशब्दप्रयोगस्यानुपपत्तिं तस्य संनिहितमात्रपरतया समाधत्ते—संप्रयुक्तेत्यादिना। संप्रयुक्तत्वेन यदपरोक्षत्वं तदभावेऽपीत्यर्थः। ‘असंप्रयुक्तत्वेन’ इति वा पाठः स्यात्। ५. भाष्ये ‘विशेषार्थः’ इति रा.पाठः इति भाति।

[[४५५]]

प्रमाणयति— अथ य इति। अथशब्दः अविद्याप्रकरणोपक्रमार्थः। ये अतोऽस्मादुक्तात् ‘सर्वं ब्रह्मे’त्येवम्प्रकाराद् अन्यथा प्रकारान्तरेण ‘जीवोऽहम् , ईश्वरोऽन्यः’ इत्यादिरूपेण विदुः तत्त्वमिति शेषः। अन्यराजानः अन्यः इन्द्ररुद्रादिः, राजा प्रभुः, उपास्य इति यावत् ; येषां तेऽन्यराजानः। भिन्नदेवतोपासका इत्यर्थः। तेऽविद्वांसः क्षय्यलोकाः क्षय्याः क्षयवन्तः स्वर्गादयो लोकाः प्राप्या येषां ते तथोक्ता भवन्ति। ज्ञानाभावाद् यज्ञादिकर्मसु प्रवर्त्य तत्फलं क्षयिष्णु स्वर्गादिलोकं गच्छन्तीत्यर्थः। यज्ज्ञात्वेति वाक्यस्याकाङ्क्षामाह— किं तत्? ज्ञानमिति। विज्ञानसहितमित्यस्याकाङ्क्षामाह— किंविशिष्टमिति। केन विशिष्टं किंविशिष्टम्। मोक्ष्यसे मुक्तो भविष्यसि। किं तदशुभम्? अत आह— संसारबन्धनादिति। [मुमुक्षोः पुण्यमपि] पापम् , पापवत् पुण्यस्यापि बन्धकत्वादिति भावः॥१॥

राजेति। ‘राजृ दीप्तौ’ राजते दीप्यत इति राजा, प्रसिद्धो राजाऽपि हि सर्वेषु पुरुषेषूत्कर्षेण भाति; यथा सर्वपुरुषाणां मध्ये दीप्त्यतिशयत्त्वेन भूपस्य राजत्वं, तथा सर्वविद्यानां मध्ये ब्रह्मविद्याया दीप्त्यतिशयवत्त्वेन राजत्वमितीयं ब्रह्मविद्या राजविद्या। गुह्यानां गोप्यानां राजा राजगुह्यं परमगुह्यमित्यर्थः। कथमस्योत्तमपवित्रत्वम्? अत आह— सर्वेषां पावनानामिति। सर्वपावनपावनत्वादुत्तम- पवित्रत्वमित्यर्थः। अस्य च सर्वपावनपावनत्वं कैमुतिकन्यायसिद्धमित्याह— अनेकेति। समूलं साज्ञानम्। लोके पापपरिहारकस्या- ग्निजलादेः पावनत्वं प्रसिद्धम् , दुःखहेतोर्विप्रस्वापहरणादेः पापत्वं च। तथा धर्मस्य यज्ञादिलक्षणस्य स्वर्गादिसुखहेतुत्वेन पावनत्वम् , अविद्याप्रकरणोपक्रमार्थोऽथशब्दः। अतः अद्वैताद् अन्यथा भिन्नत्वेनेत्यर्थः। विदुः, तत्त्वमिति शेषः। द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वान्न क्षेमप्राप्तिहेतुरिति चकारार्थः। असूया गुणेषु दोषाविष्करणम् , तद्रहिताय, ज्ञानाधिकृतायेत्यर्थः। ज्ञानं ब्रह्मचैतन्यं, तद्विषयं वा प्रमाणज्ञानम् , तस्य तेनैव विशेषितत्वानुपपत्तिमाशङ्क्य व्याकरोति— अनुभवेति। विज्ञानम् अनुभवः साक्षात्कारः, तेन सहितमित्यर्थः। उक्तज्ञानं प्राप्तस्य किं स्यादित्याशङ्क्याह— यज्ज्ञानमिति॥१॥

तदाभिमुख्यसिद्धये तज्ज्ञानं स्तौति— तच्चेति। ब्रह्मविद्या विद्यानां राजा श्रेष्ठेत्यत्र हेतुमाह— दीप्तीति। कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वम्? तदाह— दीप्यते हीति। दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदामिति भावः। उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानमित्येतदुपपादयति— अनेकेति। तत्र च श्रुतिस्मृती३ प्रमाणयितव्ये। न शास्त्रैकगम्यमिदं ज्ञानं, किन्तु प्रत्यक्षप्रमेय-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति’ (छा.उ.७.२५.२) इत्यादिश्रुतिभ्यश्च। ते तुभ्यम् , गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि, अनसूयवे असूयारहिताय। किं तत्? ज्ञानम्। किंविशिष्टम्? विज्ञानसहितम् अनुभवयुक्तम्। यद् ज्ञानं ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात्॥१॥

तच्च १(स्तौति)— राजविद्येति। राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात्। दीप्यते हीयमतिशयेन ब्रह्मविद्या सर्वविद्यानाम्। तथा राजगुह्यं गुह्यानां राजा। पवित्रं पावनम् इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणमिदं ब्रह्मज्ञानम् उत्कृष्टतमम्। अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति यतः, अतः राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥

१. कुण्डलितं क्वचिन्न। २. द्र.पा.सू.२.२.३७।आकृतिगणत्वात् तस्य। विकल्पार्थमेतदादृतम्। अत एव ‘राजदन्तादिषु परम्’ (पा.सू.२.२.३१) इति विद्यादिशब्दस्य परनिपातः इति न युक्तम्। ३. ‘क्षीयन्ते चास्य कर्माणि’ इत्यादिः श्रुतिः, ‘यथैधांसि समिद्धोऽग्निः…भस्मसात्कुरुते तथा।’ इत्यादिः स्मृतिश्चात्रानुसंधेये। अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् २वाऽऽहिताग्निगणपाठात् राजशब्दस्य पूर्वनिपातो द्रष्टव्यः- राजविद्येत्यादौ। ‘सुख्यहम्’ इतिवद् ‘ब्रह्माहमस्मी’ति

[[अ. ९. श्लो. १]] [[४५६]]

अधर्मस्य चापावनत्वं दुःखहेतुत्वेन प्रसिद्धमेव। अयं च पावनोऽपि धर्मः शास्त्रदृष्ट्या संसारहेतुत्वेन पाप एव। ततश्च दुःख- हेत्वधर्मनिरासकधर्मस्य यथा पावनत्वम् , तथा दुःखहेतुधर्माधर्मनिरासकज्ञानस्य पावनत्वम्। संसारैकदेशनरकनिवर्तकधर्माणामेव पावनत्वे स्वर्गनरकाद्यात्मकसर्वसंसारनिवर्तकज्ञानस्य परमपावनत्वमर्थात् सिद्धमिति भावः। प्रत्यक्षेणावगमो यस्य तत् प्रत्यक्षावगमं सुखादिवत् प्रत्यक्षानुभवविषयमित्यर्थः। धर्म्यमिति। ननु धर्माधर्मादिविध्वंसकस्य ज्ञानस्य कथं धर्माविरोधित्वमिति चेद्? उच्यते— धर्मशास्त्रं यथाधर्ममित्यादिप्रयोगात् ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ इति शास्त्रविहितत्वाज्ज्ञानस्य धर्म्यत्वम्। अनेन भस्मीक्रियमाणो धर्मस्तु पुण्यादृष्टसुकृतादिपर्यायजन्मान्तरकृतसत्कर्मजन्यसद्वासना- विशेषः। स हि जन्मप्रदत्वेन बन्धहेतुत्वाज्ज्ञानेन मुक्तिप्रदेन भस्मीक्रियते। न च पुराकृतसुकृतलभ्यस्य ज्ञानस्य कथं सुकृतनाशकत्व- मिति वाच्यम् ; प्रारब्धसुकृतविशेषलभ्यस्य ज्ञानस्य सञ्चितसुकृतनाशकत्वे बाधकाभावात्। प्रारब्धस्य भोगं विना ज्ञानेन क्षयाभावाच्च। सुसुखं सुष्ठु सुखमनायासमित्यर्थः। तत्र दृष्टान्तमाह— यथेति। इदं रत्नं ब्रह्मजातीयम् , इदं क्षत्रजातीयमित्येवंविधरत्नविवेकज्ञानं यथा सुसुखम् , तद्वदित्यर्थः। अयमात्मा, इदमनात्मा इति विवेकज्ञानस्य बुद्धिसाध्यत्वेन शरीरादिसाध्येषु कर्मस्विव श्रमाभावादिति भावः। तत्रेति। व्यवहारभूमावित्यर्थः। व्येति विकारं प्राप्नोति, नश्यतीति यावत्। इति प्राप्ते पूर्वपक्षे इति शेषः। आह उत्तरम्— अव्ययमिति। न विद्यते व्ययोऽस्येत्यव्ययम्। यथा कर्मणः फलतः क्षयः, तथा नास्येत्यर्थः। कृतं हि कर्म तत्फलं स्वर्गादिकमनुभाव्य क्षीयते, न तथा ज्ञानम् , नित्यब्रह्मफलत्वाज्ज्ञानस्य। यद्वा कर्मणां स्वरूपतः क्षयः कर्मसमाप्तावेव भवति, यज्ञादिकर्मणां पञ्चषादि- दिनानन्तरमदर्शनात्। तत्फलं तु किञ्चित्कालमेव तिष्ठति; न सर्वदेति फलतोऽप्यस्ति कर्मणां क्षयः। ‘अहं ब्रह्मे’त्यात्मज्ञानस्य तु वृत्तिरूपस्य क्षणिकत्वेऽपि तत्फलस्य ब्रह्मणः शाश्वतत्वान्न ज्ञानस्य फलतः क्षय इति कृत्वा अक्षयफलत्वाज्ज्ञानस्याव्ययत्वम्। क्षयिफलत्वात्तु कर्मणो नाव्ययत्वमिति भावः। एतेन वृत्तिज्ञानस्य कर्मवत् स्वरूपतः क्षयोऽस्त्येवेति सिद्धम्। शास्त्रैकगम्याद् दुष्करात् क्षयिफलाच्च यज्ञादिलक्षणधर्मात् प्रत्यक्षगम्यं सुकरम् अव्ययफलं चेदं ज्ञानं सर्वस्य विश्वसनीय- मित्याह— किञ्चेति। प्रत्यक्षम् अवगमो४ मानमस्मिन्निति तथा। यद्वा अवगम्यत इत्यवगमः फलं, प्रत्यक्षोऽवगमोऽस्येति दृष्टफलत्वं ज्ञानस्योच्यते। धर्म्यमित्येतद् व्याकरोति— अनपेतमिति। धर्मस्येव तस्य क्लेशसाध्यत्वमाशङ्क्याह— एवमपीति। तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगादुपदेशापेक्षादनायासेन दृष्टम् , तथेदं ब्रह्मज्ञानमित्याह— यथेति। अव्ययमिति विशेषणमाशङ्कापूर्वकं विवृणोति— तत्रेत्यादिना। व्यवहारभूमिः सप्तम्यर्थः। ज्ञानस्याक्षयफलत्वे फलितमाह— अत इति ॥२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किं तस्य पावनत्वं वक्तव्यम्? किञ्च प्रत्यक्षावगमम् प्रत्यक्षेण सुखादेरिवावगमो यस्य तत् प्रत्यक्षावगमम्। अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , १श्येनयाग इव, न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम्। एवमपि स्याद् २दुःसम्पाद्यमित्यत आह— सुसुखं कर्तुम्। यथा रत्नविवेकविज्ञानम्। तत्राल्पायासानां कर्मणां सुखसम्पाद्यानामल्पफलत्वम् , दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयाद् व्येतीति ३प्राप्तम् , अत आह— अव्ययम् । नास्य फलतः कर्मवद् व्ययोऽस्तीति अव्ययम्। अतः श्रद्धेयमात्मज्ञानम्॥२॥

विज्ञानस्यापरोक्षवस्तुविषयत्वात् प्रत्यक्षावगमत्वमाह—किञ्च[इति]। अनेकगुणवतोऽपि श्येनयागादेः धर्मविरुद्धत्वं यथा, न तथा ब्रह्मज्ञानम् , ‘न हिंस्यात् सर्वाणि भूतानि’ इतिवद् निषेधाभावादित्यर्थः। यथा रत्नलक्षणशास्त्राभिज्ञस्य रत्नज्ञानं सुखसाध्यम् , तथा तत्त्वमस्यादिवाक्यनिविष्टलक्ष्यपदार्थाभिज्ञस्य ब्रह्मज्ञानमपि सुकरमित्यर्थः॥२॥

१. ‘श्येनयाग इव’ इति क्वचिन्न। २. ‘दुःखसम्पाद्यम्’ इति पा.। ३. ‘प्राप्त आह’ इति पा.। ४. अवगम्यतेऽनेनेति करणव्युत्पत्त्या प्रमाणपरत्वं बोध्यम्। साक्षिसिद्ध- मिति यावत्। आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यं फलम् , अभिव्यञ्जिका वृत्तिः प्रमाणमिति विभागः। समानाधिकरणबहुव्रीहिः। भाष्ये तु फलितार्थकथनम्।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[४५७]]

मित्याह—अत इति। ज्ञानस्य राजविद्यात्वाद् राजगुह्यत्वात् परमपवित्रत्वात् प्रत्यक्षावगम्यत्वाद् धर्म्यत्वात् सुकरत्वाद् अव्ययफल- त्वाच्चेति अतःशब्दार्थः। न च ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती’ति श्रुतेः कर्मफलमप्यक्षयमेवेति वाच्यम् ; कर्म- प्रशंसापरत्वात् तच्छ्रुतेः। ‘यवागूं पिब शिखा ते वर्धिष्यते’ इति वाक्यवत् प्ररोचनवाक्यं हि तत्। कर्मफलस्य स्वर्गादेरनित्यत्वं हि श्रुति- स्मृतिन्यायसिद्धम्॥२॥

अश्रद्दधाना इति। अस्य धर्मस्येति। आत्मज्ञाने धर्मत्वारोपः श्रुतिविहितत्वगुणनिमित्तः। ज्ञानस्य कुत्रांशे अश्रद्दधाना इत्यत आह— स्वरूपे तत्फले चेति। अस्य धर्मस्य स्वरूपे फले चाश्रद्दधाना इति सम्बन्धः। के ते? अत आह— नास्तिका इति। नास्ति दिष्टं ४मतिर्येषां ते नास्तिकाः, देवो नास्ति, परलोको नास्ति, धर्मो नास्ति इत्येवं प्रतिपन्ना बौद्धाः इत्यर्थः। कुत एषां नास्तिकत्वम्? अत आह— पापकारिण इति। जन्मान्तरे पापं कृतवन्तः, इदानीमपि तत्संस्कारवशात् पापकरणस्वभाववन्तश्चेत्यर्थः। नास्तिकानां मतं संक्षेपेणाह— असुराणामिति। देहमात्रात्मदर्शनरूपामसुराणां विरोचनादीनामुपनिषदं विद्यां प्रतिपन्नाः प्राप्ताः, असुरवद् देह एवात्मेति मन्वाना इत्यर्थः। देह एवात्मेत्यमीषां मतमिति भावः। अस्मिन् मते— कर्तुर्देहस्यात्मनः इहैव नष्टत्वान्न स्वर्गनरकादिभोगप्रसङ्गः। नापि पुनर्जन्मप्रसङ्गः। निर्वाणस्य प्रदीपस्य पुन- रुत्पत्त्यदर्शनात्। एवं चैहिकभोग एव भोगः। स च जारत्वचोरत्वादिनाऽपि सम्पादनीयः, जन्मान्तराभावेन विधिनिषेधशास्त्रा- नर्थक्यात्। अत एवामी असुतृपः प्राणतर्पणपरायणाः; येन केनाप्युपायेनोदरम्भरयः, परदारगमनादिना मनइन्द्रियतर्पणपराश्च देहपातमेव मोक्षं मन्यन्ते, परदारगमनादिकमेव रम्भासम्भोगादिरूपं स्वर्गं मन्यन्ते, ऐहिकमेव दुःखं नरकं मन्यन्ते। यत् प्रत्यक्षप्रमाणसिद्धं तदेव वस्तु; अन्यत् सर्वं तु नास्त्येवेति मतमेतेषाम्। अत एव पापा अमी वेदशास्त्रस्वर्गादिषु विश्वासरहितत्वाद् आत्मज्ञाने तत्फले च विश्वासरहिताः। न चाद्वैतिनोऽप्येवंविधा एव, ब्रह्मान्यस्मिन्नविश्वासादिति वाच्यम् ; न वयं वेदशास्त्रादिफलं नास्तीति ब्रूमः; किं तर्हि? परमा- र्थतो नास्तीति ब्रूमः। ततश्च यावद्व्यवहारं पुण्यपापसुखदुःखस्वर्गनरकवेदशास्त्रगुरुशिष्यजन्ममरणबन्धमोक्षादिसर्वद्वैतमस्त्येवेति। अमीषां नास्तिकानां गतिमाह—अप्राप्येति श्लोकार्धेन। ननु मामप्राप्येत्युक्तिरयुक्ता, बौद्धानां भगवत्प्राप्तिर्भवेद्वा न वेति शङ्काया उदये तत्परिहारार्थं मामप्राप्येति वक्तव्यम् , प्रकृते तु तच्छङ्काया एवानुदयादित्याक्षिप्य मामप्राप्येत्यस्य मद्भक्तिमप्यप्राप्येत्यर्थमाह आत्मज्ञानाख्ये धर्मे श्रद्धावतां तन्निष्ठानां परमपदप्राप्तिमुक्त्वा ततो विमुखानां संसारप्राप्तिमाह— ये पुनरिति। आत्मज्ञान- तत्फलयोः नास्तिकानेव विशिनष्टि— पापेति। उक्तानाम् आत्मम्भरीणां भगवत्प्राप्तिसम्भावनाऽभावाद् ‘अप्राप्य माम्’ इत्यप्रसक्त- प्रतिषेधः स्यादित्याशङ्क्याह— मत्प्राप्ताविति॥३॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ये पुनः—अश्रद्दधाना इति। अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्यास्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः १असुराणामुपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः २(अश्रद्दधानाः), परन्तप ! अप्राप्य मां परमेश्वरम् ; मत्प्राप्तौ नैवाशङ्केति मत्प्राप्तिमार्गसाधनभेदभक्तिमात्रमप्यप्राप्येत्यर्थः। निवर्तन्ते निश्चयेन ३वर्तन्ते। क्व? मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारो मृत्युसंसारः, तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्त इत्यर्थः॥३॥

अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप !। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥

१.द्र.छा.उ. ८.८.५। २.क्वचिन्न। ३.‘आवर्तन्ते’ इति पा.। ४.‘नास्तीति मतिर्येषां ते नास्तिकाः’ इति स्यात्।‘अस्ति नास्ति दिष्टं मतिः’(पा.सू. ४.४.६०) इति ठक्।

[[अ. ९. श्लो. २-३]] [[४५८]]

भाष्यकारः— मत्प्राप्तावित्यादिना। मत्प्राप्तौ ये मार्गास्तद्भेदस्तद्विशेषरूपा या भक्तिः, तन्मात्रमपि। मात्रमपीत्यनेन ज्ञानोपासनादि- मार्गभेदप्राप्तौ का कथेति सूचितम्। निर्गुणस्य भक्त्यविषयत्वेऽपि सगुणस्य भक्तिविषयत्वमस्तीति भक्तीत्युक्तम्। अथवा आत्मनः उपासनादिकं माऽऽस्ताम् , आत्मनि प्रीतिरपि तेषां नास्ति, सत्यां प्रीतौ आत्मदर्शनसाधनान्वेषणादिः स्यादिति प्रीतेरप्यात्म- प्राप्त्युपायत्वमुक्तम् ॥३॥

मयेति। इदं सर्वं जगदव्यक्तमूर्तिना मया ततम्। सर्वभूतानि मत्स्थानि भवन्ति। अहं तेषु न चावस्थितः। भावः स्वरूपम्। ईश्वरस्य परमपरं चेति स्वरूपद्वयमस्ति। तत्र परं स्वरूपं ब्रह्म सच्चिदानन्दम् , अपरं तु आध्यासिकमोङ्कारादिरूपं बहुविधम्। तत्र परेण भावेन जगतो व्याप्तिरित्याह— ममेत्यादि। मया प्रत्यगभिन्नेन परमात्मनेति यावत्। ततमिति। परमात्मनः सच्चिदानन्दरूपत्वात् तेनैव रूपेण व्याप्तं जगदिदं सर्वम् , जगदस्ति, जगद्भाति, जगत्प्रियमिति प्रतीतिभिर्जगति सच्चिदानन्दान्वयदर्शनात्। जगति परमात्मा- व्याप्तौ तु नैताः प्रतीतय उपपद्येरन्। कार्ये हि घटे कारणमृदंशव्याप्त्यैव हि मृद्घट इति प्रतीतिः। जगतश्च ब्रह्मकार्यत्वं स्पष्टम्। कीदृशस्तव परो भावः? अत आह— अव्यक्तमूर्तिनेति। यदि मनइन्द्रियात्मककरणगोचरस्तर्हीदृश इति वक्तुं शक्येत, न तु तथा करणगोचर इति नास्त्यस्मिन्नीदृक्ता, निर्विशेषचिन्मात्रत्वात्। करणगोचरेण सच्चिदानन्दात्मकेन मम परस्वरूपेण जगदिदं सर्वं व्याप्तमिति निष्कृष्टार्थः। करणागोचरत्वं चास्य ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह’ इत्यादिश्रुतिसिद्धम्। न चानन्दः मनःकरणगोचर इति वाच्यम् , वैषयिकसुखस्यैव तद्गोचरत्वादिति। तस्मिन् पूर्वोक्ते सच्चिदानन्दरूपे ब्रह्मणि मयि ब्रह्मादीनि सर्वाणि भूतानि कार्यकरणसंघातात्मकानि स्थितानि, रज्जौ सर्पवदित्यर्थः। मय्येव भूतानां मायया कल्पितत्वादिति भावः। कुतस्त्वयि स्थितानीत्यत आह— न हीति। निरधिष्ठानभ्रमायोगाद् भ्रमस्य चाधिष्ठानात्मकत्वान्निरात्मकं किञ्चिदपि वस्तु न व्यवहारयोग्यं भवति। अन्यथा शशशृङ्गादेरपि व्यवहारार्हत्वापत्तेरिति भावः। निरात्मकं निस्तत्त्वं स्वरूपशून्यमिति यावत्। शशशृङ्गादिरूपमिति भावः। न च रज्जुसर्पादिरूपमिति वाच्यम् , रज्जुस्वरूपेणैव रज्जुसर्पस्य स्वरूपवत्त्वेन भ्रमस्य सर्पाधिष्ठानभूतरज्ज्वात्मत्वेन सात्मकत्वात्। भ्रमस्य ह्यधिष्ठानमेव स्वरूपम् , अधिष्ठानातिरिक्तस्वरूपाभावात्। न चायं न्यायो भ्रमस्थले एव, किन्तु कार्यमात्रेऽपि - मृत्कार्यस्य घटस्य स्वाधिष्ठानमृद्रूपातिरिक्तरूपाभावेऽपि मृद्रूपेणैव सरूपत्वदर्शनात्। तस्माद् भ्रमरूपं प्रमारूपं वा सर्वमपि कार्यं स्वाधिष्ठानभूतकारणा- त्मकत्वेन न निरात्मकम् , किन्तु शशशृङ्गादिकमेव निरात्मकमिति स्थितम्। कार्यस्य च कारणमेवाधिष्ठानं मृद्येव घटदर्शनादिति च स्थितम्। एवं सति सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां ब्रह्मकार्यत्वाद् ब्रह्मण्येव स्थितिः। ब्रह्माधिष्ठानत्वाच्च ब्रह्मात्मकत्वं, ब्रह्मात्मकत्वादेव व्यवहारयोग्यत्वमिति सिद्धम्। तथा च व्यवहारयोग्यानां ब्रह्मकार्याणां ब्रह्मात्मकानां चामीषां भूतानां ब्रह्मणि स्तुतिनिन्दाभ्यां ज्ञाननिष्ठां महीकृत्य ज्ञानं व्याख्यातुमारभते— स्तुत्येति। सोपाधिकस्य व्याप्त्यसम्भवमभिप्रेत्य विशिनष्टि— ममेति। अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति—करणेति। व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्याह— तस्मिन्निति। तथापि भगवतो भूतानां चाधाराधेयत्वेन भेदः स्यादित्याशङ्क्याह— न हीति। निरात्मकस्य व्यवहारानर्हत्वे फलितमाह— १. ‘ज्ञानस्तुत्या’ इति पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१स्तुत्याऽर्जुनमभिमुखीकृत्याह— मयेति। मया मम यः परो भावस्तेन, ततं व्याप्तं सर्वमिदं जगद् अव्यक्त- मूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः, तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेणेत्यर्थः। तस्मिन् मय्यव्यक्तमूर्तौ स्थितानि मत्स्थानि सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि। न हि निरात्मकं किञ्चिद् भूतं मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥४॥

[[४५९]]

स्थितिरुचिता, जलाहरणादियोग्यस्य मृत्कार्यस्य मृदात्मकस्य घटस्य मृदि स्थितिवदिति भावः। अत इति। व्यवहारयोग्यस्य जगतः सात्मकत्वेन भाव्यत्वादित्यर्थः। ननु कुण्डे बदराणामिव कारणे मृदादौ कार्यस्य घटादेः स्थित्यदर्शनात् कथं भूतानां त्वत्स्थत्वम्? अत आह— मयेति। आत्मना स्वरूपभूतेन मया भूतानाम् आत्मवत्त्वेन स्वरूपवत्त्वेन हेतुना स्थितान्यासन्नित्यतो हेतोर्मयि स्थितानीत्युच्यन्ते। यथा मृत्स्वरूपेणैव स्वरूपवत्त्वाद् घटस्य मृदि स्थितत्वं, तथा मत्स्वरूपेणैव स्वरूपवत्त्वाद् भूतानां मयि स्थितत्वमिति भावः। न चानृतजडदुःखात्मकानां भूतानां कथं परमात्मस्वरूपत्वमिति वाच्यम् , सर्पस्य रज्जुस्वरूपत्वदर्शनात् , नैल्यस्य गगन- स्वरूपत्वदर्शनात् , उदकस्य किरणस्वरूपत्वदर्शनाच्च सच्चिदानन्दलक्षणपरमात्मस्वरूपस्य भूतेष्वप्यन्वयदर्शनाच्च, मृदंशातिरिक्त- घटस्येव सच्चिदानन्दांशातिरिक्तभूतपदवाच्यस्यादर्शनाच्च सच्चिदानन्दात्मकान्येव भूतानि। तेषु च भूतेषूपलभ्यमानोऽनृताद्यंशो मायाकार्यम् , नामाकारौ च मायाकार्यमेव। मृदि कम्बुग्रीवाद्याकारघटनाम्नोरिव ब्रह्मणि मनुष्यत्वाद्याकारमनुष्यादिनाम्नां मायया कल्पितत्वात्। तत्रापि नामाकारयोर्वर्तमानः सत्ताद्यंशो ब्रह्मधर्म एवेति नामाकारयोरप्यस्ति ब्रह्मात्मकत्वम्। तस्माद् युक्तमुक्तं सच्चिदानन्दांशातिरिक्तं भूतपदवाच्यं किमपि वस्तु नास्तीति। एवं भूतानां सच्चिदानन्दब्रह्मात्मकत्वेन ब्रह्मणि स्थितत्वमुचितम्। एवं सर्वस्य ब्रह्मात्मकत्वादेव ‘सर्वं ब्रह्म’ इति श्रुत्युपपत्तिः। ‘वासुदेवः सर्व’मिति गीतोपपत्तिश्च। न चैवं ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्यस्य विरोध इति वाच्यम् ; जगतः स्वेन रूपेण मिथ्यात्वात् , कारणभूतब्रह्मरूपेण सत्यत्वाच्च। यथा घटः स्वेन रूपेणासत्योऽपि कारणमृद्रूपेण सत्यः। उक्तं हि श्रुत्या— ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य’मिति। एवं मृदात्मकानां घटानां यथा मृदेव स्वरूपम् , तथा ब्रह्मात्मकानां भूतानां ब्रह्मैव स्वरूपमिति भूतानामात्मा ब्रह्म; आत्मा हि स्वरूपम्। एवं भूतानामात्मत्वादेव ब्रह्म भूतेषु स्थितम्। यथा घटानामात्मा मृदंशो घटेषु स्थित इत्याह— तेषामित्यादि। इतीति। भूतानामात्मत्वाद्भूतेष्वहं स्थित इति इतिशब्दार्थः। मूढबुद्धीनाम् अल्पज्ञानाम् अवभासते प्रतिभाति। एवंविधभ्रान्तिज्ञानवन्तस्ते इत्यर्थः। अतः एवं मूढानामवभासमानत्वादित्यर्थः। ब्रवीमि तद्भ्रान्तिनिरासार्थमिति भावः। अहं तेषु भूतेषु नैवावस्थित इति ब्रवीमि। तत्र हेतुमाह— मूर्तवत्संश्लेषाभावेनेति। पृथिव्यादीनां मूर्तत्वात् परस्परं संश्लेषोऽस्तीति पृथिव्यां जलं, जले पृथिवी वा वर्तत इति यथा अत इति। ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यादित्याशङ्क्याह— तेषामिति। तस्य तेषु स्थित्यभावं व्यवस्थापयति— मूर्तवदिति। संश्लेषाभावेऽपि किमिति नाधेयत्वम् ? अत आह— न हीति ॥४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

परमात्मा ना(भि)धेयः, सर्वान्तरत्वात् , न यदेवं न तदेवम् , यथा घट इत्याह— न चाहं तेष्ववस्थितो मूर्तवदिति। ‘हृदि ब्रह्म’ ‘सूर्यमण्डले ब्रह्मे’त्यादिनिर्देशविरोधमाशङ्क्याह— संश्लेषाभावेनेति। निरवयवत्वाद् न जतुकाष्ठवत् संश्लेषा- भावेनावस्थानम्२, किन्तु उपासकदृष्ट्या हृदयादिष्ववस्थानोपचारः इत्यर्थः। तर्हि आकाशस्यैव सर्वान्तरत्वप्रसिद्धेः परमात्मनः सर्वान्तरत्वमप्रसिद्धमित्याशङ्क्याह—आकाशस्याप्यन्तरतमो ह्यहमिति। ‘य आत्मा सर्वान्तरः’[इति] श्रुते- व्यवहारायावकल्पते । अतो मत्स्थानि मयाऽऽत्मनाऽऽत्मवत्त्वेन स्थितानि, अतो ‘मयि स्थितानी’त्युच्यन्ते। तेषां भूतानाम् अहमेवात्मा इत्यतस्तेषु स्थित इति मूढबुद्धीनामवभासते। अतो ब्रवीमि— न चाहं तेषु भूतेष्ववस्थितो मूर्तवत् संश्लेषाभावेन ; १आकाशस्याप्यन्तरतमो ह्यहम्। न ह्यसंसर्गि वस्तु क्वचिदाधेयभावेनावस्थितं भवति॥४॥

१. ‘आकाशादप्यत्यन्तं विलक्षणतमो ह्यह’मिति रा.पा.भाति। २. निरवयवत्वात् संश्लेषाभावेन जतुकाष्ठवत् नावस्थानम् इत्यन्वयः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. ९. श्लो. ४]] [[४६०]]

वक्तुं शक्यते, तथा नाहं क्वचिद् वर्त इति वक्तुं शक्यः, अमूर्तत्वादिति भावः। नन्वमूर्तोऽप्याकाशो घटेऽस्ति, घटश्चाकाश इत्यमूर्तस्याप्यस्ति संश्लेषः खलु मूर्तेनेत्यत आह— आकाशादप्यत्यन्तं विलक्षणतमो ह्यहमिति। सुतराममूर्तश्चेदाकाशश्चक्षुरिन्द्रिया- विषय एव स्यात् , तथा अविषयत्वे ‘अयमाकाशः’ इति प्रतीतिरेव न स्यात्। १दृश्यते त्वाकाशः। इदं चाकाशस्य चक्षुर्विषयत्वं स्वावसृष्टप्रकाशप्रयुक्तम् , अथवा स्वावसृष्टतमःप्रयुक्तम्। न हि तमःप्रकाशान्यतरातिरिक्तः कश्चनाकाश इति पदार्थः केनापि दृश्यते। तदेवं वस्तुतोऽमूर्तत्वेऽपि तमःप्रकाशान्यतरसंश्लेषेण मूर्तत्वादाकाशस्य भवेदेव घटेन संश्लेषः। न चामूर्तस्याकाशस्य तमःप्रकाशसंश्लेषो वा कथमिति वाच्यम् ; तमःप्रकाशाभिव्याप्तत्वस्यैव तमःप्रकाशसंश्लेषत्वात्। सा चाभिव्याप्तिः प्रत्यक्षसिद्धेति न तत्रातिशङ्क्यम्। तस्मादाकाशस्य तमःप्रकाशान्यतराभिव्याप्तेरपरिहार्यायाः सत्त्वेन मूर्तत्वाद् भवेदेव घटेन संश्लेषः। न तथा मम सुतराममूर्तस्य। एवमाकाशस्यापि घटादिसङ्गसद्भावादेवासङ्गोऽहमकाशादप्यत्यन्तविलक्षणः। न च तवाप्यस्त्यज्ञानसङ्ग इति वाच्यम् ; चैतन्यस्याप्यज्ञानावृतत्वे जगदान्ध्यप्रसङ्गात्। ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतिविरोधाच्च। तस्माद् अज्ञानमप्यसङ्गे मयि असंसृष्टमेव वर्तते, यथा भूतानि। न चात्र विप्रतिपत्तव्यम् , मायया सर्वस्याप्युपपत्तेः। ननु भवतु तवामूर्तत्वात् केनापि संश्लेषाभावः, किं ततः? अत आह— न हीति। असंसर्गि वस्तु क्वचिदाधेयभावेन स्थितं न हि भवति। आधाराधेयभावस्य संसर्गिवस्तुविषयत्वादिति भावः। क्वचित् कुत्रचिदाधारे इत्यर्थः। आधेयभावेन कुत्रचित् सत्त्वे तस्य तेनैव संसर्गसम्भवेनासंसर्गित्वभङ्गप्रसङ्गादिति भावः। ‘आकाशस्याप्यन्तरतमो ह्यहम्’ इति पाठान्तरम्। तत्पक्षे - नन्वाकाश एवामूर्तः, न त्वमित्यत आह— आकाशस्याप्यन्तर- तम इति। अव्याकृतकार्यत्वात् तावदाकाशस्याव्याकृतमन्तरम् , कारणं हि कार्यस्यान्तरं भवति। कारणव्याप्तत्वात् कार्यस्य। तच्चाव्याकृतं चैतन्यस्योपाधित्वाच्चैतन्येन व्याप्तमेव, यथा आकाशस्योपाधिर्घटः आकाशेन व्याप्तः। व्यापकं हि वस्तु व्याप्यस्यान्तरं भवति। किञ्च चैतन्येऽध्यस्तत्वादपि चैतन्येन व्याप्तमेवाव्याकृतम् , यथा रज्जावध्यस्तः सर्पो रज्जुना२ व्याप्तः। अपि च ३‘यः प्रकृतौ तिष्ठन्नि’त्यन्तर्यामिब्राह्मणमपि चैतन्यस्याव्याकृतान्तःस्थत्वं वदति प्रकृतेरेवाव्याकृतत्वात्। अत एवाव्याकृताच्चैतन्यं परमिति वदति श्रुतिः— ‘अव्यक्तात्पुरुषः परः’ इति। अव्यक्तम् अव्याकृतम् , पुरुषः पूर्णः चैतन्यमेवेति। तस्मादाकाशान्तरस्याप्यव्याकृतस्यान्तर- त्वादाकाशस्यान्तरतमः परमात्मा। तथा च आकाशस्यैवामूर्तत्वे तदन्तरतमस्य परमात्मनश्चैतन्यस्यामूर्तत्वं किं वक्तव्यमिति भावः। न चाव्याकृतस्याप्यन्तर इति कुतो न भाषितमाचार्यैरिति वाच्यम् ; अव्याकृतस्य सर्वजनाविदितत्वात्। अमूर्त आकाश इति सार्वजनीनत्वाच्च आकाशस्याप्यन्तरतम इति भाषितम्। आकाशस्यैवामूर्तत्वे आकाशस्याप्यतिशयेनान्तरः परमात्मा अमूर्त इति किं वक्तव्यमिति भावं द्योतयितुं येऽव्याकृतपदार्थानभिज्ञास्तेषाम्४। न चात्मन आकाशान्तरत्वे विवदितव्यम् , ‘आकाशशरीरं ब्रह्म’ ‘य आकाशे तिष्ठन्नि’त्यादिश्रुतिप्रामाण्यात्। ‘आत्मन आकाशः सम्भूतः’ इति श्रुतेराकाशस्यात्मकार्यत्वेनात्मन आकाशान्तरत्वाच्च। न चाव्याकृतशरीरस्याव्याकृतकार्यस्य चाकाशस्य कथमात्मशरीरत्वमात्मकार्यत्वं चेति वाच्यम् ; अव्याकृतोपहितस्य ब्रह्मणः शरीरं कार्यं चाकाश इत्यदोषात्। अव्याकृतद्वारा आत्मनः कार्यं शरीरं चाकाश इति वा। आत्मशरीरभूतस्य कार्यभूतस्य चाव्याकृतस्य शरीरभूतं कार्यभूतं चाकाशमात्मनः शरीरभूतं कार्यभूतं च भवत्येव परम्परयेति वा इति। हिशब्दो हेत्वर्थे। हि यस्मादहमाकाशस्याप्यन्तरतमः, तस्मादिति शेषः। यद्वा हिः प्रसिद्धौ। सा च ‘आकाशशरीरं ब्रह्म’ इत्यादिश्रुतिस्मृतिसिद्धेति भाव इति व्याख्येयम्॥४॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

भाष्यार्कप्रकाशः रित्यर्थः। किञ्च ‘असङ्गो न हि सज्यते’ इति श्रुतेः संसर्गायोग्यत्वावगमादप्यनाधेयत्वं सिद्धमित्याह— न ह्यसंसर्गीति ॥४॥

१. आकाशस्य चाक्षुषत्वं भाट्टमीमांसकानां मतम्। वेदान्तिनां तु साक्षिवेद्यत्वमिष्टम्। २. ‘रज्ज्वा’ इति पाठो युक्तः। ३. इयमानुपूर्वी अन्तर्यामिब्राह्मणे नोपलभ्यते। ‘एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च’(बृ.उ. ३-८-११) इति श्रुतिरपि उक्तार्थे ज्ञेया। ४. ‘येऽव्याकृतपदार्थानभिज्ञास्तेषाम् पूर्वोक्तं भावं द्योतयितुम् आकाशस्याप्यन्तरतम इति भाषितम्’ इति योजना। तमप्प्रत्ययस्वारस्यायाव्याकृतं मध्ये योजितमिति बोध्यम्।

[[४६१]]

अत एवासंसर्गित्वान्मम— न चेति। न च मत्स्थानि भूतानि ब्रह्मादीनि। पश्य मे योगं युक्तिं घटनम् , मे मम भाष्यार्कप्रकाशः नेति। अत एवेति। तस्यार्थमाह— असंसर्गित्वान्ममेति। भूतानि मत्स्थानि न भवन्ति, भूतानामपि नाहमाधारः। असंसर्गि- वस्तुन आधारत्वस्याप्ययोगादिति भावः। एतेन मत्स्थानि सर्वभूतानीति पूर्वोक्तमपि मूढदृष्ट्यैव, न विद्वद् दृष्ट्येति सिद्धम्। अन्यथा पूर्वोत्तरविरोधात्। न ह्येक एव वक्ता भूतानि मत्स्थानीति, न मत्स्थानीति च ब्रूयादनुन्मत्तः। तस्मान्मयि भूतानि सन्तीति, भूतेष्वहमवस्थितः इति च मूढानामेव प्रतिभाति, न तु तत्त्वविदाम् , असङ्गस्य ममाधाराधेयभावायोगादिति स्थितम्। नन्वेवं ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि, ईक्षते योगयुक्तात्मा’ इत्यादिकं पूर्वमुक्तं विरुध्येतेति चेत् , मैवम्। विद्यातार- तम्येन विद्वत्तारतम्याद् विदुषां ब्रह्मविद् ब्रह्मविद्वरब्रह्मविद्वर्यब्रह्मविद्वरिष्ठत्वरूपभेदस्य प्रसिद्धत्वात्। ये सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि पश्यन्ति ते ब्रह्मविदः। नाहं भूतानामाधारः, भूतानि च न ममेति ये पश्यन्ति ते ब्रह्मविद्वरिष्ठाः। एतद् दृष्ट्या तु पूर्वोक्तब्रह्मविदः मूढा एव। अतो न विरोध इति। ननु यथान्यायं पूर्वमुपपादितस्य मतस्य कथं प्रतिक्षेप इति चेद्? उच्यते— ब्रह्मण्यसङ्गस्वप्रकाशे कालत्रयेऽपि कार्यैः सह माया नास्त्येव, ‘एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन’ इत्यादिशास्त्रात्। न च ज्ञानकाल एव नास्ति, अज्ञानकाले त्वस्त्येव, यथा रज्जुसर्पोऽध्यासकालेऽस्ति, रज्जुयाथात्म्यज्ञानकाल एव नास्तीति वाच्यम् ; ब्रह्मणो विकारित्वापत्तेः। प्रपञ्चसद्भावाभावाभ्यां हि विकारः प्राप्तो ब्रह्मणः। स हि न युज्यते। सदैकरूपस्याविक्रियस्य ब्रह्मणः विकारित्वे त्वनित्यमेव स्याद् ब्रह्म, लोके विकारिणो घटादेरनित्यत्वदर्शनात्। नित्यं हि ब्रह्म, सजातीयविजातीयस्वगतभेदशून्यमविक्रियं निर्विशेषचिन्मात्रमसङ्गं च। कथं तत्राज्ञानकाले वा प्रपञ्चस्य सद्भावः? रज्जुसर्पदृष्टान्तोऽपि न युक्तः, रज्जौ सर्पस्यापि कालत्रयेऽभावात्। न ह्यध्यासात्प्राक्काले पश्चात्काले चासन् सर्पः अध्यासकाले भवितुमर्हति, यस्य रज्जौ सर्पभ्रमः आसीत् , स एव भ्रमनिवृत्त्यनन्तरं ‘रज्जुरेवायं१ न सर्पः; केवलमहं भ्रान्तोऽस्मी’ति हि प्रत्येति। न च भ्रमकाले रज्जुः सर्पाकारेण परिणत एवेति वाच्यम् ; क्षीरस्य दध्यात्मनेव रज्जोः सर्पाकारेण परिणन्तुं सामर्थ्याभावात्। सति तु तत्सामर्थ्ये भ्रमं विनापि परिणतैव भवेत्। न हि क्षीरं दध्यात्मना भ्रमकाले परिणमते, किन्तु प्रमाकाल एव, दध्नः प्रमात्वात्२। नापि भ्रमकाले रज्जावपूर्वः सर्प उदेतीति वाच्यम् ; सर्पोदयस्यैव भ्रमत्वात्। न च माध्यमिकवच्छून्यवादापत्तिः, सत्यब्रह्माभ्युपगमात्। न च रज्जावपूर्वः सर्प उदेतीति स्वसिद्धान्तभङ्गप्रसङ्ग इति वाच्यम् ; तस्याप्यत्रैव तात्पर्यात्। भ्रान्तदृष्ट्या सर्प उदेतीत्युक्तम् , न त्वभ्रान्तदृष्ट्येति सिद्धान्तात्। न चैवं प्रपञ्चस्यात्यन्तापलापे विज्ञानवादापत्तिः, क्षणिकविज्ञानवादिनां तेषां सत्यज्ञानवादिनामस्माकं च भेदात्। बुद्धिस्थः प्रपञ्चो बहिःस्थ इवावभातीति विज्ञानवादिनः; वयं तु प्रपञ्चो न बुद्धिस्थः, नापि बहिःस्थः, किन्तु भ्रान्तदृष्ट्या बहिःस्थ इव प्रतिभातीति परमेश्वरस्य भूतेषु स्थित्यभावेऽपि भूतानां तत्र स्थितिरास्थितेति कुतोऽसङ्गत्वम्? तत्राह— अत एवेति। न चेत्यत्र चकारो नन्वाधेयत्वाभावेऽप्याधारत्वं भविष्यतीत्याशङ्क्याह— अत एव [इति।] असंसर्गित्वाद् ममाधारत्वमपि न ततो [जगतो]ऽस्ति। किंतु मायाद्वारकमेव जगदाधारत्वमित्यर्थः॥५॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥५॥

अ. ९. श्लो. ४-५ ] १. अयम् पुरोवर्तिपदार्थः। इयमिति स्त्रीलिङ्गप्रयोगो युक्तः। एवमग्रेऽपि। २. ‘प्रमाविषयत्वात्’ इति पाठः स्यात्।

[[४६२]]

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

वदामः। तस्मादस्माकं न विज्ञानवादापत्तिः। न च ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिविरोधः, यद् रजतं सा शुक्तिरितिवद् भ्रान्तदृष्ट्या प्रतीयमानमिदं जगत् १न जगत् , किन्तु ब्रह्मैव, ब्रह्मण्येव तेषां जगद्भ्रान्त्युदयाद् रज्जौ सर्पभ्रान्त्युदयवदिति श्रुतितात्पर्यात्। न चैवं प्रपञ्चस्यात्यन्तासत्त्वे शशशृङ्गवत्प्रपञ्चो व्यवहारयोग्यो न भवेदेवेति वाच्यम् ; व्यवहारस्यैवासत्त्वेन तद्योग्यत्वस्य का कथा? भ्रान्तदृष्ट्या तु व्यवहारोऽस्ति, तद्योग्यं जगच्चास्ति, न विद्वद्दृष्ट्या । शशशृङ्गादिकं तु भ्रान्तदृष्ट्याऽपि नास्तीति कथं तस्य भ्रान्त- दृष्टिसिद्धव्यवहारयोग्यत्वम्? यो यद् दृष्टिसिद्धः स हि तद्व्यवहारयोग्यः, यथा स्वप्नद्रष्टृदृष्टिसिद्धः स्वाप्नप्रपञ्चः स्वप्नद्रष्टृव्यवहारयोग्य इति। तस्माद् ब्रह्मणि निष्प्रपञ्चे कालत्रयेऽपि प्रपञ्चो नास्त्येव। एवं प्रपञ्चस्याभावादेव प्रपञ्चे ब्रह्मास्तीति वक्तुं न शक्यते। न हि शशशृङ्गे किमपि वस्तु वर्तेत; शशशृङ्गं वा कस्मिंश्चिद् वस्तुनि। विद्वद्दृष्ट्या खलु शशशृङ्गतुल्यः प्रपञ्चः। भ्रान्तदृष्ट्या तु रज्जुसर्पतुल्यः। ‘वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन। शशशृङ्गेन नागेन्द्रो मृतश्चेज्जगदस्ति तत्॥’ इति तेजोबिन्दूपनिषत्प्रसिद्धेः। उक्तं चेदं गीतायामेव— ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति। ततश्च एकस्मिन् काले सतो वस्तुनः कालान्तरेऽभावो न युक्तः, ‘नाभावो विद्यते सतः’ इत्युक्तत्वात्। तथा एकस्मिन् कालेऽसतो वस्तुनः कालान्तरे भावोऽपि न युक्तः, ‘नासतो विद्यते भावः’ इत्युक्तत्वात्। तदेवं ज्ञानकालेऽसतः प्रपञ्चस्य अज्ञानकाले चासत्त्वमयुक्तम्। न हि सत्यं ब्रह्म, ज्ञानकालेऽस्ति अज्ञानकाले नास्तीति वक्तुं शक्यते। अत एव हि ब्रह्मैव सत् , अन्यदसत् इति ‘अविनाशि तु तद्विद्धी’त्यत्र प्रतिपादितम्। ‘तत् सत्यमतोऽन्यदार्तम्’ इति श्रुतिश्च। तस्मादज्ञानकालेऽपि नास्त्येव प्रपञ्चः, तत्सत्त्वं तु भ्रान्तिसिद्धमेव, निष्प्रपञ्चे ब्रह्मणि प्रपञ्चायोगादिति स्थितम्। आध्यासिकः कश्चन प्रपञ्चो ब्रह्मण्यस्तीति पूर्वमतसंग्रहार्थः२। सोऽपि नास्तीत्युत्तरमतसंग्रहार्थः। ब्रह्मण्याध्यासिकप्रपञ्च- सत्त्ववादिनामेव मूढबुद्धित्वे कृष्ण-शङ्कराभ्युपगते सति वास्तवप्रपञ्चसत्त्ववादिनां द्वैतिनां विशिष्टाद्वैतिनां च मूढबुद्धित्वं किं वक्तव्यम्? न चायं वादः श्रीमदचलमतगुरुशिवरामदीक्षितीयः इति वाच्यम् ; तन्मते अब्रह्मत्वादात्मनः। स्वरूपनाशस्यैव जीवस्य पुरुषार्थत्वप्रसङ्गाच्च। ‘अहं ब्रह्मास्मी’ति श्रुतिविरुद्धं हि तत्। किञ्च परिपूर्णं माया चेति तत्त्वद्वयमप्युपगतवन्तः ते, वयं तु परिपूर्णम् एकमेवेति भेदात्। न च दृग् दृश्यमिति पदार्थद्वयं भवद्भिरभ्युपगतमिति वाच्यम् ; मूढबुद्धिविषयत्वात् तदभ्युपगमस्य। न हि तत्त्वविद् दृष्ट्या दृश्यं तत्त्वं भवितुमर्हति शशशृङ्गतुल्यम्। न च बन्धमोक्षादिव्यवस्थानुपपत्तिः, इष्टापत्तेः। उक्तं हि कैवल्योपनिषदि— ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति। बद्धदृष्ट्यैव बन्धमुक्तिव्यवस्था, न तु विद्वद् दृष्ट्या, नित्यमुक्ते निष्प्रपञ्चे ब्रह्मणि तदयोगात्।न च गुरुशिष्यादिसम्प्रदायोच्छेदप्रसङ्गः, शास्त्रवैयर्थ्यं वा; अतिगुह्यस्यास्यार्थस्य गुरुशास्त्रे विना दुर्ज्ञेयत्वात्। ‘गुरुशास्त्रे विनाऽत्यन्तं गम्भीरं ब्रह्म वेत्ति कः’ इत्युक्तं हि विद्यारण्यगुरुभिः। न च - वेदशास्त्रवैयर्थ्यम् , तदर्थयज्ञाद्यनुष्ठानाभावादिति - वाच्यम् ; मूढार्थं तस्यावश्यकत्वात्। ‘त्रैगुण्यविषया वेदाः’ इत्युक्तमत्रैव। तस्मादात्मा न भूतस्थः; नापि भूतान्यात्मस्थानि; भूतानामभावादिति स्थितम्। कस्मादभावो भूतानामिति चेद्? असंसर्गित्वादेवात्मनः। सत्सु भूतेषु तैः स्यादात्मनो हि संसर्गः कयाऽपि विधया। असंसर्गित्वे श्रुतिं प्रमाणयति— असङ्गो न हि सज्जत इति। आत्मेति शेषः। मे ऐश्वरं योगं पश्य ईश्वरस्य मम सम्बन्धिनं योगं पश्येत्यर्थः। योगशब्दस्य फलितार्थमाह— याथात्म्यमिति। ‘न च मत्स्थानि भूतानि न चाहं तेष्ववस्थितः’ इत्युक्तं निष्प्रपञ्चत्वरूपं मत्तत्त्वं पश्येत्यर्थः। ऽवधारणार्थः। भूतानामीश्वरे नैव स्थितिरित्यत्र हेतुमाह—पश्येति। आत्मनोऽसङ्गत्वं स्वरूपमित्यत्र प्रमाणमाह—तथा चेति। असङ्गश्चेद् आनन्दगिरिकृतव्याख्या ऐश्वरम् ईश्वरस्येममैश्वरं योगम् , आत्मनो याथात्म्यमित्यर्थः। तथा च श्रुतिरसंसर्गित्वादसङ्गतां दर्शयति– ‘असङ्गो न १. ‘सर्वं ब्रह्मे’ति बाधायां सामानाधिकरण्यमिति भावः। द्र.ब्र.सू.भा. १.३.१ पृ. २७५। २. संक्षेपेणार्थः इति यावत्।

[[४६३]]

पश्येति क्रियापदं पुनराकृष्याह— इदं चाश्चर्यमन्यत् पश्येति। वाक्यशेषोऽयम्। अन्यदित्यनेन पूर्वोक्तमेकमाश्चर्यमिति सूचितम्। प्रत्यक्षादिबहुप्रमाणगम्यस्य प्रपञ्चस्य सशास्त्रं सयुक्तिकं सानुभवम् अभावस्य प्रदर्शितत्वात् तस्याश्चर्यत्वमिति भावः। असङ्गोऽपि सन् भूतभृत् , भूतानि बिभर्तीति व्युत्पत्तिः। एवं भूतभृत् सन्नपि न च भूतस्थः। यथोक्तेन पूर्वोक्तेन न्यायेन भूतस्थत्वा- नुपपत्तेर्दर्शितत्वादित्यन्वयः। असंसर्गिणः क्वचिदप्याधेयभावेनावस्थितिर्न सम्भवतीति पूर्वोक्तन्यायः। ननु स्वस्यैवात्मत्वाद् ‘ममात्मा भूतभावनः’ इति कथमुच्यत इत्याक्षिपति—कथमिति। समाधत्ते—विभज्येति। देहादिसंघातं विभज्य आत्मनः पृथक्कृत्य, तस्मिन् संघाते अहङ्कारमध्यारोप्य अहम्बुद्ध्यध्यासं कृत्वा लोकबुद्धिमनुसरन् व्यपदिशति यथा लोकः संघातेऽहम्बुद्ध्या ‘अहं मनुष्यः’ इति व्यवहरति, तादृशसंघाताद् विलक्षणं चात्मानं ‘ममात्मे’ति, तद्वदित्यर्थः। लोकदृष्ट्या ‘ममात्मे’ति निर्देश इत्यर्थः। ननु लोकबुद्धिमनुसरन्निति कथमुच्यते, स्वबुद्ध्यैवोक्तवानित्यत आह—न पुनरिति। न हि सर्वज्ञः कृष्णः लोकवदजानन् आत्मतत्त्वमविदन् ममात्मेति ब्रूयात्। लोकस्याज्ञानमेवाभिनीय दर्शयति—आत्मन आत्माऽन्य इति। मम पुस्तकमितिवद् ममात्मेति वचनं ह्यात्मनो मच्छब्दवाच्यादन्य आत्मा पुस्तकवदिति भेदज्ञानपूर्वकम्। तस्मान्ममात्मेत्यस्य अहमात्मेत्येवार्थः। असङ्गस्यात्मनो युक्तमेवाभूतस्थत्वं, भूतभृत्त्वं तु विरुद्धमिति विरोधादाश्चर्यमिदमिति भावः। यद्वा भूतभृतोऽपि ममाभूतस्थत्वं विरुद्धम् , भूतान्यन्तःप्रविश्य बिभर्तीति हि भूतभृत्। न चान्तःस्थस्य कथं भरणमिति वाच्यम्; प्राणस्यान्तःस्थस्यापि देहभरणदर्शनात्। तस्माद् विरुद्धमिदमाश्चर्यमिति भावः। अथवा अभूतस्थस्य मम भूतभृत्त्वं विरुद्धम् , भूतान्तःस्थितिप्रयुक्तत्वाद् भूतभरणस्येति। अस्य च विरोधस्य परिहारश्चेत्थम्— असङ्गोऽप्ययं[हं] मायया भूतभृदिति, मायया भूतभृदप्यहं वस्तुतो न भूतस्थ इति, अभूतस्थोऽप्यहं मायया भूतभृदिति, तत्त्वविद्दृष्ट्या न भूतस्थोऽपि मूढदृष्ट्या भूतस्थत्वाद् भूतभृदहमिति वा। तथा असङ्गाक्रियोऽपीत्यर्थः। वस्तुतो भूतानामेवाभावे इदं [भूतभृत्त्वं] भूतभावनत्वं चात्मनि मायया प्रतिभाति मूढदृष्टीनाम्। न च विदुषामप्यस्ति प्रपञ्चसाक्षात्कार इति वाच्यम् ; ‘मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः, खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति। यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं, सान्द्रानन्दमुपास्महे हृदि सदा वामार्धजानिं शिवम्’२॥ इति कृष्णमिश्रोक्तेः। ३‘मालाफणीव च निलीयति यत्प्रबोधादि’त्यन्यत्राप्युक्तेः। ब्रह्मात्मसाक्षात्कारशालिनां नास्ति पुनः प्रपञ्चसाक्षात्कारः, ईश्वरः, तर्हि कथं ‘मत्स्थानि भूतानी’त्युक्तम् , कथं च तथोक्त्वा ‘न च मत्स्थानी’ति तद्विरुद्धमुदीरितम्? इत्याशङ्क्याह— इदं चेति। तर्हि भूतसम्बन्धः स्यादिति? नेत्याह— न चेति। यथोक्तेन न्यायेन असङ्गत्वेनेति यावत्। असङ्गतया वस्तुतो भूतासम्बन्धेऽपि कल्पनया तदविरोधान्न मिथो विरोधोऽस्तीति भावः। आत्मनः सकाशादात्मनोऽन्यत्वायोगात् कुतः सम्बन्धोक्तिरित्याशङ्क्याह— असाविति। [विभज्येति]। यथा लोको वस्तुतत्त्वमजानन् भेदमारोप्य ममायमिति सम्बन्धमनुभवति, न तथेह सम्बन्धव्यपदेशः, आत्मनि स्वतो भेदाभावात् , अतो भेदेऽसत्येव लोके सम्बन्धबुद्धिदर्शनमनुसरन् भगवानात्मनो देहादिसंघातं विभज्याहङ्कारं तस्मिन्नारोप्य असौ ममात्मेति भेदं व्यपदिशति। तथा च संघातस्य ममेति व्यपदेशात् ततो निकृ[ष्कृ]ष्टस्य स्वरूपस्यात्मशब्देन निर्देशान्न भूतस्थो ऽसावित्यर्थः। पूर्वोक्तासङ्गत्वाङ्गीकारेणैवात्मा भूतानि भावयतीत्याह— तथेति॥५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

हि सज्जते’ (बृ.उ.३.९.२६) इति। इदं चाश्चर्यमन्यत् पश्य भूतभृद् असङ्गोऽपि सन् भूतानि बिभर्ति। न च भूतस्थः, यथोक्तेन न्यायेन दर्शितत्वाद् भूतस्थत्वानुपपत्तेः।[ममात्मा] कथं पुनरुच्यते असौ ममात्मेति? विभज्य देहादिसंघातं तस्मिन् अहङ्कारमध्यारोप्य लोकबुद्धिमनुसरन् व्यपदिशति— ‘ममात्मा’ इति, न पुनरात्मनः१ आत्माऽन्यः इति लोकवदजानन्। तथा भूतभावनो भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः॥५॥

१. आत्मनः स्वस्येत्यर्थः। स्वस्य आत्मा स्वस्मादन्यः इति लोको व्यपदिशति तत्त्वमजानन्। न तथेत्यर्थः। २. ‘उपास्महे तदमलं स्वात्मावबोधं महः’ इति मुद्रितः पाठः। ३. शिखामण्याख्यवेदान्तपरिभाषाव्याख्यागतमङ्गलपद्यैकदेशोऽयम्। निमीलतीति तत्र पाठः।

[[अ. ९. श्लो. ५]] [[४६४]]

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥

यथा सुषुप्तौ सर्वेषाम् , यथा वा समाधौ योगिनामिति। न च यावत्प्रारब्धं विदुषामपि देहादिप्रपञ्चोऽस्त्येवेति वाच्यम् ; ‘यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात्। तद्वत् सत्यमविज्ञाय जगत् पश्यति मूढधीः॥ रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति। अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते॥ देहस्यापि प्रपञ्चत्वात् प्रारब्धावस्थितिः कुतः। अज्ञानिजनबोधार्थं प्रारब्धमिति चोद्यते॥’ इति नादबिन्दूपनिषदि दर्शनान्नास्ति विदुषः प्रारब्धादिकमिति ॥५॥

यथेति। नन्वसङ्गस्य तव वस्तुतोऽभूतस्थत्वेऽपि मायया वा कथं तदुपपत्तिरित्यमूमाशङ्कां दृष्टान्तेन परिहरतीत्याह— यथेति। उक्तमर्थमिति। असङ्गित्वभूतभृत्वादिरूपम्। महानिति। महत्परिमाण इत्यर्थः। न तु निरतिशयमहत्त्वम् , ब्रह्मनिष्ठत्वात् तस्येति सूचयितुमाह— परिमाणत इति। न तु स्वरूपत इति भावः। आकाशगस्य वायोर्यथा आकाशेन न संश्लेषः, तथा मत्स्थानां भूतानां मया न संश्लेषः। तथा च मायया मयि भूतानां सत्त्वेऽपि न ममासङ्गित्वस्य क्षतिः काऽपीति भावः। मूढदृष्टिमभ्युपेत्येदमुक्तम् ; वस्तुतस्तु मयि भूतानि माया वा कालत्रयेऽपि न सन्त्येव, अद्वितीयत्वान्ममासङ्गत्वाच्च। यत्तु रामानुजः - अन्तर्यामिणा मया सर्वं ततम् , मदधीनस्थितिकत्वात् सर्वं मयि स्थितम् , तदधीनस्थितिकत्वाभावादहं न तेषु स्थितः। घटे जलानीव मयि भूतानि न स्थितानि। निरालम्बनेऽप्याकाशे मयैव धृतःसन् वायुर्यथा तिष्ठति, तद्वत् सर्वमपीति। तदसत्। अन्तर्यामी हि सर्वस्य जगतोऽन्तरेव व्याप्तुमीष्टे, न तु बहिः, अन्तर्यामित्वादेव। इयं चान्तरेवेश्वरस्य व्याप्तिः श्रुतिविरुद्धा, ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः। सर्वव्यापिन ईश्वरस्यान्तरेव व्याप्तिरिति व्याप्तिसङ्कोचस्यान्याय्यत्वाच्च। न चान्तर्यामिणोऽन्यः कश्चन बहिर्व्यापी विद्यते, तथा सति कश्चिदीश्वरोऽन्तर्यामी, कश्चित्तु बहिर्व्यापीतीश्वरद्वित्वप्रसङ्गात्। नाप्यन्तर्याम्यधीनस्थितिकानि स्थावरजङ्गमात्मकभूतानि, तेषां जीवाधीनस्थितिकत्वात्। ‘जीवापेतं वाव किल शरीरं म्रियते’ इत्यादिशास्त्रात्। न चान्तर्याम्यपगमादेव शरीरमरणमिति वाच्यम् ; अचेतनेष्वप्यन्तर्यामिणः सत्त्वेन मृतशरीराद् भस्मनो वा ऽन्तर्यामिणोऽपगत्यसम्भवात्। ‘यः पृथिव्यां तिष्ठन्’ इत्याद्यन्तर्यामिब्राह्मणात्। न च जीवोऽप्यन्तर्याम्यधीनस्थितिक इति वाच्यम् ; नित्यस्य जीवस्य पराधीनस्थितिकत्वायोगात्। न च जीवः परतन्त्र इति वाच्यम् ; जीवगतपारतन्त्यस्य बुद्धिधर्मत्वात्। अचेतनं हि चेतनपरतन्त्रम् , चेतनस्तु स्वतन्त्र एव, चेतनत्वादेव। किञ्च यदि मूलकर्तुरीदृगर्थविवक्षा, तर्हि— ‘मद्वशानि तु भूतानि न चाहं तद्वशः पुनः’ इत्येव ब्रूयात्। घटे जलानीव मयि भूतानि न स्थितानीत्येतदप्ययुक्तम् , विश्वरूपे तस्मिन् तथैव भूतानां सत्त्वात्। तथा सृष्टिस्थितिसंहाराणाम् असङ्गात्माधारत्वं ‘मया ततमिदम्’ इत्यादिश्लोकद्वयेनोक्तोऽर्थः, तं दृष्टान्तेनोपपादयन्नादौ दृष्टान्तमाहेति योजना। सदा इत्युत्पत्तिस्थितिसंहारकालो गृह्यते। आकाशादेर्महतोऽन्याधारत्वं कथम्? इत्याशङ्क्याह— महानिति। यथा सर्वगामित्वात् परिमाणतो महान् वायुराकाशे सदा तिष्ठति, तथा आकाशादीनि महान्त्यपि सर्वाणि भूतान्याकाशकल्पे पूर्णे प्रतीच्यसङ्गे परस्मिन्नात्मनि संश्लेषमन्तरेण स्थितानीत्यर्थः॥६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यथोक्तेन श्लोकद्वयेनोक्तमर्थं दृष्टान्तेनोपपादयन्नाह— यथेति। यथा लोके आकाशस्थितः आकाशे स्थितो नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगो महान् परिमाणतः, तथा१ आकाशवत् सर्वगते मयि असंश्लेषणैव स्थितानि इति एवम् उपधारय विजानीहि॥६॥

१. ‘सर्वाणि भूतानि’ इति शेषः।

[[४६५]]

एवं वायुराकाश इव मयि स्थितानि सर्वभूतानि स्थितिकाले, तानि— सर्वेति। सर्वभूतानि कौन्तेय ! प्रकृतिं विश्वरूपस्य दर्शयिष्यमाणत्वात्। तव मते चिदचिद्विशिष्टस्य साकारस्यैवेश्वरत्वेन विश्वरूपस्यापीश्वरत्वात्। तथा सर्वाधारस्य स्वयमाधारान्तरानपेक्षस्य वायोर्निरालम्बनेऽप्याकाशे स्थितिसम्भवात् किमीश्वरधृतत्ववर्णनेन? यदि वायु- रीश्वरेणाधृतः स्यात् , तर्हि निरालम्बने आकाशे अस्थित्वा क्व वर्तेत? तद् ब्रूहि! येन वायोराकाशस्थित्यर्थमीश्वरधृतत्वमुच्येत। यथा वायुराकाशस्थितस्तथा भूतानि मत्स्थानीत्येतावत एव मूलस्य स्थितौ, मयैव धृत इति मूलातिरिक्तांशकल्पनं तव हि निर्मूलम् अप्रमाणम् अयुक्तं च, ‘मया धृतो यथा खस्थो वायु’रिति मूलस्याभावात्। दार्ष्टान्तिकेऽपि ‘तथा मत्स्थानि भूतानि मद्धृतानीति भावये’ति मूलस्याभावात्। आकाशस्थितस्य वायोरीश्वरधृतत्ववदीश्वरस्थितस्य जगत ईश्वरधृतत्वमिति वचनस्याप्ययुक्तत्वात्। न हि दृष्टान्ते ईश्वरधृतो वायुरीश्वरे स्थितः, किन्तु ईश्वरादन्यस्मिन्नाकाशे एव। दार्ष्टान्तिके तु ईश्वरधृतानि भूतानीश्वर एवेति कथमनयोरर्थयोः दृष्टान्तदार्ष्टान्तिकभावः? आन्तरेणेश्वरेण धृतानां कथं वेश्वरे स्थितिः? बहिरीश्वरस्यैवाभावात्। उक्तं हि प्राक् त्वया - अन्तर्यामिणा मया ततमिति। यदि तु बहिरप्यस्तीश्वरस्तर्हि स भवेदेव भूतानामाधारो वायोरिवाकाश इति किमीश्वरधृतत्ववर्णनेन? किञ्च ईश्वरेण धृतत्वादेव वायुराकाशे वर्तत इत्युक्तम् , स चाकाशः केन धृतः? कुत्र वर्तते? स एव ह्यज्ञातांशः पुनर्वक्तव्यः सर्वज्ञेन। वायोराकाशसत्त्वं तु सर्वविदितमेव, प्रत्यक्षत्वात्। यदि त्वाकाश ईश्वरेण धृत ईश्वरे वर्तत इति मतं, तर्हि स एवार्थ इह दृष्टान्तीकर्तव्यः, दार्ष्टान्तिकानुरोधात्। तत्परित्यागे कारणं नोपलभामहे। यद्य[द]प्यनेनोक्तम् - ममात्मा मम सङ्कल्पः इति, तदप्यसत् - आत्मशब्दस्य मुख्यार्थपरित्यागे कारणाभावात्। भूतभावन- क्रियां प्रति कर्ता ह्यात्मा, सङ्कल्पस्तु हेतुरेवेति कर्तारमात्मानं विहाय सङ्कल्पस्य भूतभावनकर्तृत्ववर्णनं चायुक्तम्। सत्यामेतद्विवक्षायां व्यासो ब्रूयाद् - ‘आत्मना भूतभावनः’ इति। न च मत्सङ्कल्प एव भूतभावनः, किम्पुनरहमित्यर्थापत्तिसूचनाय ‘ममात्मा भूतभावनः’ इत्युक्तमिति वाच्यम् ; सङ्कल्पातिरेकेणेश्वरस्य भूतभावनत्वासिद्धेः। ‘तदैक्षत बहु स्यां प्रजायेये’ति सङ्कल्पपूर्वकत्वश्रवणात् सृष्टेः। न हीश्वरः कुलाल इव दण्ड- चक्रादिव्यापारेण घटम् , केनचिद् व्यापारेण जगन्निर्माति, किन्तु सङ्कल्पादेव। येन मम सङ्कल्प एव भूतभावनः, किम्पुनरहमित्युच्येत। सङ्कल्पेनैवाहं भूतभावन इत्युक्तेऽपि तादृशार्थापत्तेः सुलभत्वाच्च। तस्मान्मम वसुदेवसुतस्य दृश्यमानावयवसन्निवेशवतः पुरुषस्य आत्मा स्वरूपं सच्चिदानन्दलक्षणं परमात्मेति शङ्करोक्त एव समीचीनार्थः। न च षष्ठ्यनुपपत्तिः, कृष्णस्यैवात्मत्वादिति वाच्यम् ; दर्शितविधया तत्परिहारात्। कार्यकरणसंघातात्मत्वेन सच्चिदा- नन्दात्मकत्वेन च विवक्षाभेदेन ममात्मेति षष्ठ्यन्तप्रथमान्तपदद्वयनिर्देशादिति॥६॥

सर्वेति। प्रकृतिं यान्ति मायायां निलीयन्त इत्यर्थः। हे कौन्तेय ! सर्वभूतानि कल्पक्षये मामिकां प्रकृतिं यान्ति, कल्पादावहं पुनस्तानि विसृजामि। ननु यस्य यत्र लयस्तस्य तस्मादेवोदयस्तत्रैव स्थितिरिति निष्कर्षः, घटस्य मृदि लयस्थित्योर्मृदः उदयस्य च दर्शनात्। प्रकृते तु भूतानां प्रकृतौ लयः, परमात्मनि स्थितिरिति चोच्यते, कथं पुनरस्य विरोधस्य परिहार इति चेत्? उच्यते— भूतानां परमात्मनि आकाशे वाय्वादिस्थितिवद् आकाशादीनि भूतानि स्थितिकाले परमेश्वरे स्थितानि चेत् , तर्हि प्रलयकाले ततोऽन्यत्र तिष्ठेयुरित्याशङ्क्याह— एवमिति। प्रकृतिशब्दस्य १स्वभाववचनत्वं व्यावर्तयति— त्रिगुणात्मिकामिति। सा च ‘अपरेयम्’ इति प्रागेव

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वभूतानि कौन्तेय ! प्रकृतिं यान्ति मामिकाम्। अ. ९. श्लो. ६-७ ] १. ‘शैत्यं हि यत् सा प्रकृतिर्जलस्य’ (रघु. ५.५४ ) ‘प्रकृतेर्वशात्’ (भ.गी. ९-८) इत्यादौ प्रकृतिशब्दस्य स्वभाववाचकतया प्रयोगस्य दृष्टत्वात् शङ्का।

[[४६६]]

स्थितिर्मायाद्वारैव, न तु स्वतः, निष्प्रपञ्चत्वात् तस्य। तथा च परमात्मनि मायाऽस्ति; तस्यां तु भूतानि स्थितानि; तस्यामेव लीयन्ते; तस्या एव जायन्त इत्यविरोधः। न च मायायाः सत्त्वे ब्रह्मणः सद्वितीयत्वापत्तिः, अग्निशक्त्याऽग्नेरिव मायया स्वशक्त्या परमात्मनः सद्वितीयत्वायोगात्। यदि ब्रह्मणः पृथग् निरूपयितुं शक्या स्यान्माया, तर्हि तया सद्वितीयत्वं स्याद् ब्रह्मणः, न तु तदस्ति। न चैवं मायाया एव जगज्जन्मस्थितिलयहेतुत्वे ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतिः ब्रह्मलक्षणं [ब्रह्मलक्षणबोधिका] न स्यादिति वाच्यम् ; जगदाकारपरिणतमायाऽधिष्ठानत्वेन ब्रह्मणि लक्षणसमन्वयात्। एवं मायाद्वारेणैवेश्वरस्य भूताधारत्वम् , न तु स्वत इति कृत्वैव ‘मत्स्थानि भूतानी’ति, ‘न च मत्स्थानि भूतानी’ति च प्रोक्तम्॥७॥

प्रकृतमिति। अहं स्वां प्रकृतिमवष्टभ्य प्रकृतेर्वशादवशमिमं कृत्स्नं भूतग्रामं पुनःपुनर्विसृजामि। कुतः प्रकृतिमवष्टभ्य विसर्जनं भूतग्रामस्य? अत आह— प्रकृतितो जातमिति। इदमुपलक्षणं प्रकृत्यां लीनमित्यस्य। भूतग्रामलयोदययोः , प्रकृत्याधारत्वात् प्रकृत्याश्रयणं विना नेश्वरस्य भूतग्रामसर्जनं सम्भवतीति भावः। न चैवमीश्वरस्येश्वरत्वभङ्गः , प्रकृतिवशीकरणस्यैवेश्वरत्वात्। जीवो हि प्रकृतिपरतन्त्रः। तस्मादीश्वरः स्वमायया सर्वं जगत् प्रतिकल्पं पुनःपुनरुत्पादयति, प्रतिप्रलयं च पुनःपुनर्मायायां विलापयति। एवमपि विचित्रप्राणिसर्गप्रयुक्तवैषम्यनैर्घृण्ये नेश्वरस्येत्याह— प्रकृतेर्वशादवशमिति। प्रकृतिः स्वभावो धर्माधर्मसंस्कारः प्राक्तनजन्मार्जितः आत्मनिष्ठः कर्मपर्यायः। स्वस्वकर्मानुगुणं सृजतः ईश्वरस्य न वैषम्यादिदोषप्रसक्तिरिति भावः॥८॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥७॥

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥८॥

सूचितेत्याह— अपरामिति। तस्याश्च ईश्वराधीनत्वेनास्वातन्त्यमाह१— मदीयामिति। प्रलयकाले भूतानि यथोक्तां प्रकृतिं यान्ति चेद् उत्पत्तिकालेऽपि ततस्तेषामुत्पत्तेः ईश्वराधीनत्वं भूतसृष्टेर्न स्यादित्याशङ्क्याह— पुनरिति॥७॥

तर्हि कीदृशी प्रकृतिः? सा च कथं सृष्टावुपयुक्तेत्याशङ्क्याह— एवमिति। संसारस्यानादित्वद्योतनार्थं पुनःपुनरित्युक्तम्। भूतसमुदायस्य अविद्याऽस्मितादिदोषपरवशत्वे हेतुमाह— स्वभाववशादिति॥८॥ यदि प्राकृतं भूतग्रामं स्वभावादविद्यादितन्त्रं विषमं विदधासि, तर्हि तव विषमसृष्टिप्रयुक्तं धर्मादिमत्त्वमित्यनीश्वरत्वापत्तिरिति आनन्दगिरिकृतव्याख्या त्रिगुणात्मिकामपरां निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले। पुनर्भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयामि अहं पूर्ववत् ॥७॥

एवमविद्यालक्षणाम्— प्रकृतिमिति। प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम् , अविद्यादिदोषैः परवशीकृतं प्रकृतेर्वशात् स्वभाववशात् ॥८॥

१. अस्वातन्त्यमाहेति। अत एव सांख्याभिमतायाः त्रिगुणात्मकप्रकृतेः सकाशादस्याः वैलक्षण्यम्। सांख्यैस्तस्याः स्वतन्त्रत्वाङ्गीकारात्। तदुक्तम्— ‘तदधीनत्वादर्थवत्’ (ब्र.सू. १-४-३) इति। अपिच ‘भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्’ (भ.गी. १३-३४) इत्यादौ प्रकृतेः ज्ञानेन निवृत्त्यभिधानात् ज्ञान- निवर्त्यत्वेनापि वैलक्षण्यं बोध्यम्।

[[४६७]]

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय !। उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥

नेति। ननु चौर्यसेवादिकर्मानुगुणचोरभृत्यादिशिक्षणरक्षणादिवशाद् राज्ञ इव, कर्मानुगुणविषमभूतसृष्टिवशादीश्वरस्य धर्माधर्मादिसम्बन्धः स्यादिति शङ्कते— तर्हीति। विषममिति क्रियाविशेषणम्। तन्निमित्ताभ्यां विषमभूतसर्गनिमित्ताभ्याम्। हे धनञ्जय! उदासीनवदासीनं तेषु कर्मस्वसक्तं मां तानि कर्माणि न च निबध्नन्ति; न च नैवेत्यर्थः। तानि कानीत्यत आह— भूतेति। विषमसर्गस्य निमित्तानि भूतग्रामस्य सम्बन्धीनि कर्माणि पूर्वप्रपञ्चार्जितानि अदृष्टानि पुण्यापुण्यरूपाणि मां परमेश्वरं न निबध्नन्ति, किन्तु भूतग्राममेव निबध्नन्ति। सुखदुःखादिसंसारसम्पादनद्वारेति भावः। यद्यप्यन्यदीयकर्मभिरन्यस्य बन्धः शङ्कितुमयुक्तः, तथापि अन्यदीयकर्मानुगुणस्वव्यापारैः स्वस्य बन्धः स्यादिति शङ्कयेद- मुक्तम्। ततश्च भूतग्रामसम्बन्धिकर्माणि तदनुगुणविषमसृष्टिद्वारा नेश्वरस्य बन्धकानीति सिद्धम्। पूर्वप्रपञ्चार्जितभूतग्रामकर्मानुगुणानि विषमाणि भूतग्रामसृष्ट्यादीनि कर्माणि नेश्वरं निबध्नन्तीति परमार्थः। तत्र एवं सति कर्मणां सृष्ट्यादिकर्मणां, सृष्ट्यादिव्यापारहेतुभूतग्रामादृष्टाख्यकर्मणामिति वा। अबन्धकत्वे धर्माधर्मादिसंसारा- सम्पादकत्वे। उदासीनवदासीनमित्यनेन न तूष्णीं स्थितिर्विवक्षिता , निष्क्रिये आत्मनि तूष्णीमासनरूपक्रियाया अप्ययोगात्। किन्तु यथा द्वयोर्विवदमानयोः चित्तक्षोभादिकं विकारं भजमानयोःसतोः उदासीनोऽन्यस्तत्र न कञ्चिद् विकारं भजते, तद्वदीश्वरोऽपीत्ययमर्थोऽत्र विवक्षित इत्याह - आत्मनोऽविक्रियत्वादिति। अविक्रियात्मस्वरूपाभिज्ञत्वादविक्रियमित्यर्थः। अनेन च ईश्वरस्येव जीवस्यापि यद्यप्यात्मा अविक्रियस्तथापि जीवस्तदनभिज्ञत्वाद् विक्रियत इवेति सूचितम्। असक्तमिति। कर्मस्वासङ्गो हि द्विविधः - फलासङ्गरूपः, कर्तृत्वाभिमानरूपश्च। तदुभयरहितमित्याह - फलेति। अभिमानस्याकारं दर्शयति - अहं करोमीति। तेषु कर्मस्वहं करोमीत्यभिमानवर्जितमित्यन्वयः। कर्मस्विति। सृष्ट्यादिव्यापारेषु। अत इति। कर्मस्वसक्तत्वेनेश्वरस्य कर्मबन्धाभावादित्यर्थः। असम्बन्धः धर्माधर्मादिसंसारासम्बन्धः। अन्यथेति। कर्मस्वसङ्गाभाव इत्यर्थः। कर्मसु सङ्गसत्त्वे इति वा। बध्यते संसारं प्राप्यत इत्यर्थः। मूढ आत्मस्वरूपानभिज्ञः। अनात्मन्यात्माभिमानशालीति वा। कोशकारवदिति। कोशकारः कीटविशेषः४ । स हि स्वबन्धकं कोशं तनोति, रन्ध्राभावात् तत्रैव कोशे म्रियते। तद्वज्जीवः कर्मसु सङ्गं कुरुते, संसारमापद्यते च॥९॥

शङ्कते— तर्हीति। तत्रेति सप्तम्या परमेश्वरो निरुच्यते। ईश्वरस्य फलासङ्गाभावात् कर्तृत्वाभिमानाभावाच्च कर्मासम्बन्धवद् ईश्वरादन्यस्यापि तदुभयाभावो धर्माद्यसम्बन्धे कारणमित्याह— अतोऽन्यस्येति। यदि कर्मसु कर्तृत्वाभिमानो वा कस्यचित् ३कर्मफलसङ्गो वा स्यात् , तत्राह— अन्यथेति॥९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तर्हि तस्य ते परमेश्वरस्य भूतग्राममिमं विषमं विदधतस्तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति इदमाह भगवान्— न च मामिति। न च माम् १ईशं तानि भूतग्रामस्य विषमविसर्गनिमित्तानि कर्माणि निबध्नन्ति धनञ्जय!। तत्र कर्मणामसम्बद्धत्वे कारणमाह— उदासीनवदासीनं यथोदासीन उपेक्षकः कश्चित् तद्वद् आसीनम् आत्मनोऽविक्रियत्वाद् , असक्तं फलासङ्गरहितम् अभिमानवर्जितम् ‘अहं करोमी’ति तेषु कर्मसु। अतोऽन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्च २असंबन्धकारणम्। अन्यथा कर्मभिर्बध्यते मूढः कोशकारवदित्यभिप्रायः॥९॥

१. ‘ईश्वरम्’ इति पा.। २. ‘अबन्धकारणम्’ इति पा.। ३. ‘फलासङ्गो’ इति पा.। ४. अत्र मुद्रितपुस्तके (‘आन्ध्रे गव्वपुरुगु’) इति अधिकः पाठः।

[[अ. ९. श्लो. ७-९]] [[४६८]]

मयेति। ननु भूतग्रामस्य विषमोऽपि सर्गः आत्मनोऽविक्रियत्वज्ञमीश्वरं न निबध्नातीत्युक्तं न युक्तम् , आत्मनः सति अविक्रियत्वे ईश्वरो भवतु आत्मनोऽविक्रियत्वज्ञः। तदेव न सम्भवति, ‘भूतग्राममिमं कृत्स्नं विसृजामी’ति भूतसर्जनरूपविकारस्या- त्मनि प्रोक्तत्वात्। न हि क्रियावान् आत्मा विकाररहितः स्यात्। उदासीनेऽपि विवादादिक्रियाराहित्यं हि विकाराभावे हेतुः। तस्माद् अविक्रियत्वं भूतसर्गादिकर्तृत्वं चेति विरुद्धधर्मद्वयस्यात्मनि सामानाधिकरण्यं न सङ्गच्छत इत्याक्षिपति— तत्रेति। तत्र पूर्वोक्तार्थे। मया अध्यक्षेण सता प्रकृतिः सचराचरं सूयते। हे कौन्तेय! अनेन हेतुना जगद् विपरिवर्तते। दृशिमात्रं चैतन्यमेव स्वरूपं यस्य तेन दृशिमात्रस्वरूपेण। अध्यक्षः प्रभुः,साक्षीति यावत्। यथा देहे गच्छति सति देहधर्मं गमनं देहिन्यारोप्य देही गच्छतीति प्रत्येति लोकः, तथा प्रकृत्यां सृष्टिं कुर्वाणायां प्रकृतिधर्मं सर्गं प्रकृतिमति मायिनीश्वरे आरोप्य ‘सृजति जगदीश्वरः’ इति वदति शास्त्रविज्जनः। तथा च प्रकृत्यामेव क्रिया, न त्वात्मनीति क्रियाऽभावाद् आत्मा भवत्यविक्रियः। एवमविक्रियमात्मानं वेत्तीति ईश्वरो भवति उदासीनवदासीनः। स्रष्टृप्रकृतिसाक्षित्वाद् ईश्वरस्य स्रष्टृत्वव्यपदेशश्चेति न कश्चिद् विरोध इति समाधानार्थः। सूयते उपलक्षणमिदं रक्षतिहरत्योः३। चराणि जङ्गमानि मनुष्यादीनि, अचराणि स्थावराणि तर्वादीनि, तत्सहितं सचराचरम्। सृष्ट्यादिषु ईश्वरः साक्ष्येव, न कर्ता, प्रकृतिरेव कर्त्रीत्युक्तार्थे श्रुतिं प्रमाणयति— एक इति। गूढः दुर्विज्ञेयत्वेन स्थितः। कर्माध्यक्षः अकर्मवश्यः। अधिवासः आधारः। चेता चेतनः। चकाराद् निष्क्रियः। अनेन मन्त्रवर्णेन साक्षित्वे सिद्धे परमेश्वरस्य, अगतिकत्वात् कर्तृत्वं पतितं प्रकृत्यामिति बोध्यम्। ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपा’मित्यादयस्तु साक्षात् कर्तृत्वं बोधयन्ति प्रकृत्याः इति वेद्यम्। ननु यद्येवं जगज्जन्मादिहेतुत्वं प्रकृतेः स्यात् , तर्हि ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतेः प्रकृतेरेव लक्षणं स्यात् , न चेष्टापत्तिः, ‘ईक्षतेर्नाशब्द’मिति प्रकृतेस्तन्निरासात्। ‘मूलप्रकृतिरविकृति’रिति साङ्ख्यशास्त्रस्यैव सिद्धान्तत्वप्रसङ्गाच्च। उक्तं हि तत्र प्रकृतेर्जगत्कर्तृत्वं, पुरुषस्यौदासीन्यं चेति चेत्? मैवम् ; ईश्वराधिष्ठितप्रकृतेः प्रकृतिसंसृष्टेश्वरस्य वा जगज्जन्मादिहेतुत्वं भवितुमर्हति, न भाष्यार्कप्रकाशः मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद् विपरिवर्तते ॥१०॥

ईश्वरे स्रष्टृत्वमौदासीन्यं च विरुद्धमिति शङ्कते—तत्रेति। पूर्वग्रन्थः सप्तम्यर्थः। विरोधपरिहारार्थमुत्तरश्लोकमवतारयति— तदिति। तृतीयाद्वयं समानाधिकरणमित्यभ्युपेत्य व्याचष्टे—मयेत्यादिना। प्रकृतिशब्दार्थमाह—ममेति। तस्या अपि ज्ञानत्वं व्यावर्तयति१ —त्रिगुणेति। पराभिप्रेतं प्रधानं व्युदस्यति— अविद्येति। साक्षित्वे प्रमाणमाह— तथा चेति। मूर्तित्रयात्मना भेदं वारयति— एक इति। अखण्डं जाड्यं प्रत्याह— देव इति। आदित्यवत् ताटस्र्ह्यं प्रत्यादिशति— सर्वभूतेष्विति। किमिति तर्हि सर्वैर्नोपलभ्यते? तत्राह— गूढ इति। बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति— सर्वव्यापीति। तर्हि नभोवद् अनात्मत्वम्? नेत्याह— सर्वभूतेति। तर्हि तत्र तत्र कर्मतत्फलसम्बन्धित्वं स्यात्? तत्राह— कर्मेति। सर्वाधिष्ठानत्वमाह— सर्वेति। सर्वेषु भूतेषु सत्तास्फूर्तिप्रदत्वेन सन्निधिः वासोऽत्रोच्यते। न केवलं कर्मणामेवायमध्यक्षः, अपि तु तद्वतामपीत्याह— साक्षीति। दर्शनकर्तृत्वशङ्कां २शातयति— चेतेति। अद्वितीयत्वं केवलत्वम्। तत्र ‘भूतग्राममिमं विसृजामि’ ‘उदासीनवदासीन’मिति च विरुद्धमुच्यत इति, तत्परिहारार्थमाह— मयेति। मया सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मम माया त्रिगुणात्मिकाऽविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत्। तथा च मन्त्रवर्णः– ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ.६.११) इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन, कौन्तेय ! आनन्दगिरिकृतव्याख्या १. प्रकृतिशब्दस्य मायापदेन विवरणे मायापदस्य ‘माया प्रज्ञा वयुनम्’ इति ज्ञानेऽपि प्रयोगादियं शङ्का। २. निराकरोतीत्यर्थः। ३. रक्षणस्य संहरणस्य चेत्यर्थः।

[[४६९]]

तु केवलप्रकृतेः, केवलेश्वरस्य वा, तस्याः जडत्वात् , तस्य चिन्मात्रत्वाच्च। न हि जडायाः सङ्कल्परूपं ज्ञानं सम्भवति; नापि चिन्मात्रस्य मायावृत्तिरूपः सङ्कल्पः सम्भवति। तत्र साङ्ख्याः केवलप्रकृतेरेव जगद्धेतुत्वं वदन्तीति नास्माकं साङ्ख्यमतप्रवेशदोषः; केवलेश्वरस्य सृष्ट्यादिहेतुत्वं वयं निषेधाम इति न श्रुतिविरोधश्च। ‘यतो वा’ इति श्रुतिर्हि मायिनमीश्वरं जगद्धेतुं ब्रूते। न च - मायाद्वारा ब्रह्मापि जगत्कारणं ब्रूते श्रुतिरिति - वाच्यम्; तस्यास्माकमिष्टत्वात्। ब्रह्मणि केवले सृष्ट्यादिक्रियाऽयोगादेव हि मायाया द्वारकारणत्वमभ्युपेयते। तस्मादीश्वरप्रकृत्योरविवेक एव ईश्वरस्य जगत्कर्तृत्वं, यथा देहदेहिनोरविवेक एव देहिनो गन्तृत्वम्। सति तु विवेके ईश्वरो नैव कर्ता, यथा देही नैव गन्ता। प्रकृतिरेव कर्त्री, यथा देह एव गन्ता इति स्थितम्। न च - मायावच्छिन्नचैतन्यस्येश्वरत्वात् प्रकृतिविवेके न सिध्येदीश्वर एवेति - वाच्यम् ; मायावच्छिन्नत्वरूपेश्वरत्वस्यासिद्धा- वपि चैतन्यरूप ईश्वरः सिद्ध एवेति। ईश्वरस्य स्वस्वरूपं हि चैतन्यमात्रमेव; मायावच्छिन्नत्वं त्वाध्यासिकरूपमेव, मायायाश्चैतन्ये अध्यस्तत्वात्। जीवस्यापि चैतन्यमेव स्वस्वरूपम् ; अन्तःकरणावच्छिन्नत्वं त्वाध्यासिकमेव, अन्तःकरणस्य चैतन्येऽध्यस्तत्वात्। एवं चैतन्यमात्ररूपत्वादेव जीवेश्वरयोरैक्यं ब्रुवन्ति श्रुतयः तत्त्वमस्यादयः। अत एवेहापि ‘एको देवः’ इत्युक्तम्। एक एव हि जीवेश्वरयोरात्मा चैतन्यलक्षणः। आत्मा हि स्वरूपम्। तस्माच्चैतन्यलक्षणस्यात्मनोऽकर्तृत्वेनाविक्रियत्वाद् उदासीनवदासीन एवेश्वरः। जगत्कर्तृत्वं तु प्रकृतिगतं प्रकृतिसङ्गाद् आत्मनीश्वरेऽध्यस्तमेवेति स्थितमीश्वरस्याविक्रियत्वमात्मनः। श्लोकस्योत्तरार्धं व्याख्याति— हेतुनेति। अध्यक्षत्वेनेति। ईश्वरस्याध्यक्षत्वेनेत्यर्थः। इदानीं जगद् व्यक्तात्मकं स्फुटस्वरूपम् , प्रलये त्वस्फुटत्वादव्यक्तात्मकम्। अनेन च प्रलयेऽपि न नाशः सम्भवति भूतग्रामस्येति सूचितम् , सूक्ष्मरूपेण तदानीमपि सत्त्वादिति। विपरिवर्तते विशेषेण परिवृत्तिं परिभ्रमणं प्रतिपद्यते। व्यक्तावस्थं जगद् अव्यक्तावस्थं भवति; तच्च पुनर्व्यक्तावस्थं भवतीत्येवं कुलालचक्रवज्जगत् परिभ्रमतीत्यर्थः। केवलायाः प्रकृतेः जडत्वेन जगद्विपरिवर्तनासम्भवात् साक्षिण्यध्यक्षे मयि प्रकृति- मधितिष्ठति सति प्रकृतिः जगद् विपरिवर्तयतीति परमार्थः। चित्प्रतिबिम्बसहिता बुद्धिर्यथा जडाऽपि चेतनीभूय पश्यामि शृणोमीत्येवं व्यवहरति, तद्वच्चित्प्रतिबिम्बसहिता प्रकृतिर्जडाऽपि चेतनीभूय सृष्ट्यादिव्यवहारं करोतीति भावः। समष्ट्यज्ञानं प्रकृतिः, व्यष्ट्यज्ञानं तु बुद्धिः। अत एव सर्वव्यापिनी प्रकृतिः, परिच्छिन्ना तु बुद्धिरिति विवेकः। एतेन ईश्वरस्याध्यक्षत्वं नाम प्रकृतौ प्रतिफलनमिति सिद्धम्। ईश्वरे प्रकृत्यां प्रतिफलत्येव प्रकृतेः सृष्ट्यादिसामर्थ्यसम्भवस्यो- क्तत्वात्। यद्वा अध्यक्षत्वं प्रेरकत्वम्। तच्च लोहायस्कान्तन्यायेनेति नेश्वरस्य विकारप्रसङ्गः। इदं च प्रेरणमन्तःप्रवेशपूर्वकमेव, ‘यः प्रकृतौ तिष्ठन्’ इत्याद्यन्तर्यामिब्राह्मणात्। इदं चेश्वरस्य प्रकृत्यामन्तःप्रवेशनं प्रतिबिम्बरूपेणैव, स्वस्वरूपेण तु प्रवेशात् प्रागेव सिद्धत्वात्। परिपूर्णं हि चैतन्यं सर्वव्यापि। एवं च ईश्वरः प्रतिबिम्बरूपेण प्रकृत्यां प्रविश्य तां सृष्ट्यादिषु नियमयतीत्यध्यक्षस्तस्या इति फलितम्। अथवा अध्यक्षत्वं प्रभुत्वम्। प्रकृतिं सर्वेश्वरीं स्ववशीकृत्य राज्यश्रियमिव राजा, तया सृष्ट्यादिलीला निर्वर्तयतीति प्रकृत्यध्यक्ष ईश्वरः। यद्वा अध्यक्षयति प्रत्यक्षीकरोति सर्वं स्वत एवेत्यध्यक्षः साक्षी। ईश्वरो हि मायया सर्वं साक्षात्करोति, मायां तु स्वरूपभूतचैतन्येनैव, अज्ञानस्य साक्षिप्रत्यक्षसिद्धत्वात् , सुषुप्तावज्ञानस्य साक्षिणाऽनुभूयमानत्वादिति सिद्धमीश्वरस्य मायासाक्षित्वम्। एवमीश्वरे साक्षित्वेन तिष्ठति सत्येव माया जगद्व्यापारं विधत्ते। यथा राजनि साक्षित्वेन तिष्ठति सति सेना युद्धव्यापारं विधत्ते, तद्वत्। जडत्वेन स्वतोऽसमर्थाया मायाया ईश्वरसाक्षात्कारवशाच्चैतन्यलाभेन सृष्ट्यादिसामर्थ्यसिद्धिरिति भावः।अथवा अध्यक्षत्वमधिष्ठातृत्वम्। जडाऽपि प्रकृतिरीश्वराधिष्ठानवशाज्जगद् विधत्ते; यथा जडोऽपि देहो जीवाधिष्ठानवशाद् गमनादिकं कर्म, यथा वा जडोऽपि खड्गो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

धर्माधर्मादिराहित्यमाह— निर्गुण इति। किं बहुना? सर्वविशेषशून्य इति चकारार्थः। उदासीनस्यापीश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारावनुभवतीत्याह— हेतुनेति। कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिरिति वक्तुं १व्यक्ताव्यक्तात्मक- अ. ९. श्लो. १० ] १. व्यक्तं कार्यम् , अव्यक्तं कारणम्।

[[४७०]]

भटाधिष्ठानवशात् छेदनमिति। ननु प्रकृतेर्जगद्व्यापारं प्रतीश्वरस्याध्यक्षत्वं निमित्तमस्तु नाम। जगतो विपरिवर्तनं प्रति कथं तन्निमित्तम्? अत आह—सर्वेति। सर्वासु बाल्यादिषु, जाग्रदादिषु, सुखित्वादिषु चावस्थासु। दृशिः ज्ञानक्रिया, तन्निरूपितकर्मत्वं दृशिकर्मत्वं दृश्यत्वम् , तस्य आपत्तिः प्राप्तिः, सा निमित्तं यस्याः सा दृशिकर्मत्वापत्तिनिमित्ता; हिः प्रसिद्धौ। जगतः सर्वावस्थासु सर्वा प्रवृत्तिर्दृशिकर्मत्वापत्तिनिमित्ता हीत्यन्वयः। प्रवृत्तिमेवाभिनीय दर्शयति— अहमिदं भोक्ष्य इत्यादिना। इत्याद्येत्याद्यपदाद् ३घ्राणनादानविसर्गादिक्रियान्तरसङ्ग्रहः। अस्याश्च जगत्प्रवृत्तेरात्मैव निष्ठा पर्यवसानं चेत्याह— अवगतिनिष्ठा अवगत्यवसानेति। अवगतिः ज्ञानम् आत्मा, तस्यैव सर्वा- धारत्वात् , सर्वशेषित्वाच्चेति भावः। तदेवम् अवगतिनिष्ठत्वाद् अवगत्यवसानत्वाच्च जगत्प्रवृत्तेः अवगतिकर्मत्वापत्तिनिमित्तकत्वमिति अवगतेरेव जगद्विपरिवर्तनं प्रति हेतुत्वाद् ईश्वरस्याध्यक्षत्वं जगद्विपरिवर्तनं प्रति निमित्तमेव। अवगतेरेवेश्वरत्वादध्यक्षत्वाच्चेति सिद्धम्। अयमाशयः—ब्रह्मादिस्तम्बपर्यन्तचराचरात्मकजगत्पदवाच्यभूतग्रामस्य सर्वाऽपि प्रवृत्तिश्चेतनपरतन्त्रैव, जडस्य तस्य स्वतः प्रवृत्त्ययोगात्। जडस्य चेतनपारतन्त्यं च चेतनकटाक्षाधीनशक्तिमत्त्वम् , स्वत एव शक्तिमत्त्वे पारतन्त्यायोगात्। तथा च चेतनेनात्मना दृश्यमानः सन्नेव भूतग्रामः ‘अहमिदं भोक्ष्ये’ इत्यादिकं व्यवहारं करोति, न तु स्वतः, तस्याचेतनत्वात्। तस्मादचेतनानां देहेन्द्रियान्तःकरणानां भोजनदर्शनमननादिप्रवृत्तीः प्रति चेतनात्मदृश्यमानत्वमेव निमित्तम्। इदमेव चेतनकर्तृकमचेतनकर्मकं दर्शनं नियमनमिति प्रेरणमिति च वदन्ति। यस्मादेवमचेतनस्य जगतः सर्वासु प्रवृत्तिषु चेतनकर्तृकं दर्शनं निमित्तं तस्माज्जगद्विपरिवर्तनं प्रत्यपि तदेव निमित्तम्। साक्षित्वं च साक्षाद्दर्शनमेव। यद्वा विपरिवर्तते इत्यस्य विविधं प्रवर्तत इत्यर्थः। अन्यत् तुल्यम्। एवं जगत्प्रवृत्तेश्चेतनकर्तृकदर्शनहेतुकत्वाच्चेतनस्येश्वरस्याध्यक्षत्वं जगत्प्रवृत्तिषु निमित्तं भवति, यथा प्रकृतिप्रवृत्तिष्विति स्थितम्। एवमीश्वरस्य जगत्प्रकृत्योरध्यक्षत्वे श्रुतिं प्रमाणयति— यो अस्याध्यक्ष इति। अस्य जगतः सकारणस्येत्यर्थः। अध्यक्षः साक्षी। परमे व्योमन् परमाकाशे स्थित इति शेषः। व्योमन्नित्यत्र ‘सुपां सुलुक्’ इति सप्तम्या लुक्। ‘स्वे महिम्नि व्यवस्थितः’ इतिवत् परमव्योमरूपस्यापि परमात्मनः परमव्योमस्थितिरुक्ता। न तु परमेश्वरः सर्वाधारो निराधारश्च कुत्रचित् स्वेतराधारे स्थातुमुचितः। यद्वा अव्याकृतं परमं व्योम, ‘एतस्मिन् खल्वक्षरे गार्ग्याकाशः’ इति श्रुतेः। अथवा हृदयाकाश एव परमव्योम, ‘यो वै स बहिर्धा १. ‘तदर्थमिदं करिष्ये, इदं ज्ञास्यामि’ इति पा.। २. भाष्ये ‘सर्वावस्थदृशिकर्मत्वापत्तिनिमित्ता’ इति एतदनुसारेण पाठ ऊह्यते। ३. ‘घ्राणादाने’ति पठितुं युक्तम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

चैतन्याधिष्ठितत्वं जगतो विपरिवर्तने हेतुरित्युक्तम्। तदेव विवृणोति— सर्वावस्थेति। २सर्वावस्थश्चासौ दृशिश्च, तत्कर्मत्वापत्तिनिमित्ता। सर्वत्रोपरक्तचैतन्यविषयत्वापत्तिनिबन्धनेत्यर्थः। परमे व्योमन् अव्याकृताकाशे मायायां प्रति-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः अहमिदं भोक्ष्ये, पश्यामि इदं, शृणोमि इदं, सुखमनुभवामि, दुःखमनुभवामि, १तदर्थमिदं करिष्यामि, एतदर्थमिदं करिष्ये, इदं ज्ञास्यामीत्याद्याऽवगतिनिष्ठा अवगत्यवसानैव । ‘यो अस्याध्यक्षः परमे व्योमन्’ (ऋ.सं.८.७.१७.७, मित्युक्तम्। सर्वावस्थासु इत्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते। तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, नेश्वरायत्ते- त्याशङ्क्याह— दृशीति। न हि दृशिव्याप्यत्वं विना जडवर्गस्य काऽपि प्रवृत्तिरिति हिशब्दार्थः। तामेव प्रवृत्तिमुदाहरति— अहमित्या- दिना। भोगस्य विषयोपलम्भाभावेऽसम्भवान्नानाविधां विषयोपलब्धिं दर्शयति— पश्यामीति। भोगफलमिदानीं कथयति— सुखमिति। विहितप्रतिषिद्धाचरणनिमित्तं सुखं दुःखं चेत्याह— तदर्थमिति। न च विमर्शपूर्वकं विज्ञानं विनाऽनुष्ठानमित्याह— इदमिति। इत्याद्या प्रवृत्तिरिति सम्बन्धः। सा च प्रवृत्तिः सर्वा दृक्कर्मत्वमुररीकृत्यैवेत्युक्तं निगमयति— अवगतीति। तत्रैव च प्रवृत्तेरवसानमित्याह— अवगत्यवसानेति। परस्याध्यक्षत्वमात्रेण जगच्चेष्टेत्यत्र प्रमाणमाह— यो अस्येति। अस्य जगतो योऽध्यक्षो निर्विकारः स परमे प्रकृष्टे

[[४७१]]

तै.ब्रा.२.८.९) इत्यादयश्च मन्त्रा एतमर्थं दर्शयन्ति। ततश्चैकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः पुरुषादाकाशो, यो वै सोऽन्तः पुरुष आकाशो, योऽयमन्तर्हृदय आकाशः’ इति श्रुतेः। ईश्वरस्य प्रकृतिबुद्ध्यन्तःस्थत्वं चान्तर्यामि- ब्राह्मणप्रसिद्धम्। मायावच्छिन्नचैतन्यलक्षणो हीश्वरः ईश्वरत्वेन रूपेण प्रकृतौ, प्रत्यक्त्वेन रूपेण बुद्धौ च वर्तत इति सिद्धान्तात्। ननु यो बुद्धौ स्थितः प्रत्यगात्मा, स न जगतोऽध्यक्षः, किन्तु स्वोपाधिबुद्धीन्द्रियादीनामेव, अपरिपूर्णत्वात्। पूर्णो हि पर- मात्मा; परिच्छिन्नस्तु प्रत्यगात्मा। किं चास्ति प्रत्यक्परयोर्महान् भेदः प्रत्यक्षत्वाप्रत्यक्षत्वरूपः, सद्वितीयत्वाद्वितीयत्वरूपश्च। तदुक्तम् वाक्यवृत्तौ— ‘आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः। अन्तःकरणसम्भिन्नबोधः स त्वम्पदाभिधः॥ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः। पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः॥ प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णते। विरुध्येते यतस्तस्माल्लक्षणा सम्प्रवर्तते॥’ इति। एवं विरोधादेव हि तत्त्वमस्यादिस्थले लक्षणास्वीकारः। तच्चोक्तं तत्रैव— ‘मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे। मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते॥ तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा। सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा॥’ इति। तस्मान्न प्रत्यगात्मनः परमात्मधर्मो जगदध्यक्षत्वं, नापि परमात्मनो बुद्धिस्थत्वमिति चेत्? मैवम्। ‘यः साक्षादपरोक्षाद् ब्रह्मे’त्यपरोक्ष एव परमात्मा; ‘येन सर्वमिदं तत’मिति गीतावचनात् परिपूर्ण एव प्रत्यगात्मा; बुद्धौ चैतन्यस्याभिव्यक्तत्वाद् बुद्ध्यवच्छिन्नमित्युच्यते चैतन्यम् , न तु बुद्धिपरिच्छिन्नत्वात्। अन्यथा परिच्छिन्नत्वे जडत्वा- नित्यत्वाद्यापत्तेः, घटादिवदिति। तस्मादेक एवात्मा जगद्धेतुत्वादिधर्मवैशिष्ट्येन परमात्मेति, बुद्ध्यभिव्यक्तत्वादिधर्मवैशिष्ट्येन प्रत्यगात्मेति चोच्यत इति कृत्वा यः परमात्मा स एव बुद्धिस्थितः, यो बुद्धिस्थितः प्रत्यगात्मा स एव जगदध्यक्षः परमात्मा चेति स्थितम्। न च वाक्यवृत्तिविरोधः, अज्ञा हि प्रत्यगात्मानं परिच्छिन्नं परमात्मानं परोक्षं च मन्यन्त इति तद्दृष्ट्या तद्वाक्यप्रणयनात्। कथमन्यथा तैरेवाचार्यैरुपनिषद्भाष्यारम्भे—‘याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादी’त्युच्येत। न च परमार्थतोऽभेदेऽपि यावद्व्यवहारम् अस्त्येवौपाधिको भेदो जीवेश्वरयोरिति वाच्यम् ; औपाधिकभेदस्योपाधिगतत्वेन आत्मगतत्वा- सम्भवात्। कथमन्यथा ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती’ति ब्रूयात्? ईश्वरो हि व्यवहारदशायां प्रत्यग्रूपेण भूतानां हृद्देशे तिष्ठतीति हि तदर्थः। परमार्थदशायां भूतादेरेवाभावात्। तस्माद् यावद्व्यवहारमपि न प्रत्यगात्मपरमात्मभेदः। ईश्वरस्यैव प्रत्यगात्मत्वात्। न च निरीश्वरसाङ्ख्यमतप्रवेशापत्तिः वः इति वाच्यम् ; जगद्धेतोरीश्वरस्याभ्युपगतत्वादस्माभिः। न हि बुद्धिसृष्टेः प्राग् बुद्ध्यभिव्यक्तत्वलक्षणं प्रत्यक्त्वमस्ति परमात्मनः, येन प्रत्यगात्मैक एवास्ति, न परमात्मेत्युच्येत साङ्ख्यैरिवास्माभिः। नापि द्वैतमतप्रवेशः, परमात्मनोऽन्यः प्रत्यगात्मेत्यनभ्युपगमात्। अत एव ‘एकमेवाद्वितीयं ब्रह्म, स आत्मा’ इत्यादि श्रुतिभिरात्मभेदो निषिद्धः। न केवलं श्रुतिभिः, युक्तिभिश्चात्मभेदो न स्थास्यति। तथाहि - किमात्मभेदः केनापि ज्ञायते? उत न? आद्ये किमात्मना? उतानात्मना? नात्मना, आत्मदृश्यस्यात्मभेदस्य श्वेतपीतादेरिवात्मधर्मत्वायोगात्। नानात्मना, तस्य जडत्वात्। यदि न हार्दे व्योम्नि स्थितो दुर्विज्ञेय इत्यर्थः। ईश्वरस्य साक्षित्वमात्रेण स्रष्टृत्वे स्थिते फलितमाह— ततश्चेति। किन्निमित्ता परस्येयं सृष्टिः? न तावद् भोगार्था, परस्य परमार्थतो भोगासम्बन्धित्वात् , तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वात्२। न चान्यो भोक्ता, चेतनान्तराभावाद् , ईश्वरस्यैकत्वाद् , अचेतनस्याभोक्तृत्वात्। न च स्रष्टुरपवर्गार्था, तद्विरोधित्वात्। नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

बिम्बितो योऽस्य जगतोऽध्यक्षः स वेदेत्यर्थः। अनिर्वाच्यमायानिबन्धना सृष्टिः, परमात्मनस्त्वध्यक्षत्वमात्रमित्येवं स्थिते सति चोद्यान्तरमपि निरस्तमित्याह— ततश्चैकस्येति। ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतेरेक एव सिद्धातुः[चिद्धातुः] परमात्मा। तस्य चाविक्रियत्वाद् न भोगसम्बन्धोऽस्ति। अतस्तस्य न भोगाय सृष्टिः। १अतः जगत्(?) तस्य किन्निमित्ता अ. ९. श्लो. १० ] १. ‘अतः तस्य किन्निमित्ता जगत्सृष्टिरिति संबन्धः’ इति पाठः संभाव्यते। २. ‘अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेरिति भावः।

[[४७२]]

ज्ञायते, तर्हि शशशृङ्गवन्नैवास्ति। किञ्च - किमात्मभेदः आत्मनो भिन्नः, उताभिन्नः? आद्ये, अनात्मधर्म एव सः। द्वितीये, आत्मव्यतिरेकेण निरूपणासम्भवाद् भेदस्यात्मन एकत्वमेव स्यात्। न च - आत्मानो बहवः, तथा च एकात्मभेदः अन्यात्मना न गृह्यत इति - वाच्यम् ; ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुतेः। आत्मभेदं विना आत्मबहुत्वस्यासिद्धेश्च। तदिदं सर्वमभिप्रेत्याह— एकस्येति। सर्वाध्यक्षभूतेति। साक्षित्वस्यापि परमार्थत आत्मन्यसम्भवादुक्तम्— भूतेति। साक्षिवत् स्थितमित्यर्थः। चैतन्यमेव चैतन्यमात्रम्। सर्वभोगानभिसम्बन्धिनः सर्वभोगसम्बन्धरहितस्य, असङ्गत्वादद्वितीयत्वाच्चेति भावः। नन्वेवंविधस्य ईश्वरस्य सृष्टिर्न स्वार्था, स्वस्यासङ्गत्वादविक्रियत्वाच्च; नापि परार्था, अन्यस्याभावादित्याक्षिपति— ततश्चेत्यादिना। भोक्तृत्वस्य चेतनधर्मत्वेनाचेतनस्य भोक्तृत्वायोगात् , चेतनस्य चैकत्वेन चेतनान्तराभावात् , तस्य च चेतनस्याविक्रियत्वेन भोक्तृ- त्वायोगाद् व्यर्थेयं सृष्टिरिति प्रष्टुराशयः। इत्यत्र इत्यस्मिन्नाक्षेपे। परिहरति— प्रश्नप्रतिवचने अनुपपन्ने इति। तत्र श्रुतिमेव प्रमाणयति— को अद्धेति। अद्धा साक्षात् को वेद, न कोऽपीत्यर्थः। इह अस्मिन्नर्थे कः प्रवोचत् को वदेत् , न कोऽपीत्यर्थः। आ इत्याश्चर्ये। इयं विसृष्टिः विसर्गः कुतो जाता ३कस्माद्धेतोर्जाता, कुतः कस्मादुपादानादिति। यद्वा कुतःकुतः इति सम्भ्रमादौ द्विरुक्तिः। ईश्वरस्य परिपूर्णकामस्याविक्रियस्य प्रपञ्चसृष्टौ निमित्तं कोऽपि न वेदेति श्रुत्यर्थः। न च लीलैव प्रयोजनमिति वाच्यम् ; चिन्मात्रे लीलाया अप्ययोगात्। एवं कर्तुरीश्वरस्य प्रपञ्चसृष्टौ प्रयोजनाभावादपि मायामय्येव सृष्टिरेष्टव्या। सर्वमप्यसङ्गतं मायया हि सङ्गतमिव भवति। उक्तार्थे गीतां प्रमाणयति— अज्ञानेनेति। कृत्स्नजगदाकार- परिणतमायया आत्मानात्मविवेकज्ञानमावृतम्। तेन हेतुना आत्मस्वरूपविज्ञानाभावाज्जन्तवो मुह्यन्ति। आत्मानात्मतादात्म्याध्यासं प्रतिपद्य, अनात्मगतं कर्तृत्वादिकमात्मन्यारोप्य, आत्मा कर्तेति मोहं प्रपद्यन्ते। वस्तुतस्तु अकर्ता अविक्रिय एवात्मा ईश्वरः। सृष्ट्यादि- व्यापारस्तु प्रकृत्या एव। दर्शनश्रवणादिव्यापारस्तु जगत एव। जगतः प्रकृतेश्चेयं प्रवृत्तिः सर्वाऽपीश्वरकटाक्षलब्धैवेत्यनवद्यम् ॥१०॥

मायानिबन्धने सर्गे तस्यानवकाशत्वादित्यर्थः। परस्यात्मनो दुर्विज्ञेयत्वे श्रुतिमुदाहरति— को अद्धेति। तस्मिन् प्रवक्ताऽपि संसारमण्डले नास्तीत्याह— क इहेति। जगतः सृष्टिकर्तृत्वेन परस्य ज्ञेयत्वमाशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जातेत्याह— कुत इति। न हीयं विविधा सृष्टिरन्यस्मादपि कस्माच्चिदुपपद्यते, अन्यस्य वस्तुनोऽभावादित्याह— कुत इति। कथं तर्हि सृष्टिरित्याशङ्क्याज्ञानाधीनेत्याह— दर्शितं चेति॥१०॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्याभावे भोक्तुरन्यस्याभावात् किन्निमित्तेयं सृष्टिरित्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः’ (ऋ.सं.८.७.१७.८, तै.ब्रा.२.८.९) इत्यादिमन्त्रवर्णेभ्यः। दर्शितं च भगवता ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’(भ.गी.५.१५) इति १॥१०॥

सृष्टिरिति सम्बन्धः। कल्पितानां जीवानां भोक्तृत्वात् तददृष्टनिबन्धना सृष्टिरित्याशङ्क्याह— अन्यस्य चेतनान्तरस्याभाव इति। कल्पितानां रज्जुसर्पवज्जडत्वाद् न चेतनत्वमित्यर्थः। अनिर्वाच्यमायाधीना सृष्टिरित्यत्र प्रमाणमाह— को अद्धा वेदेति। अद्धा साक्षाद् वस्तुस्वभावपर्यालोचनया को वेद? को वाऽत्र प्रवक्ता स्यादियं विसृष्टिर्यतः बभूवेत्यर्थः। २श्रुत्यन्तरं पठति— कुत आजाता इत्यादि॥१०॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. “आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत्। तथा च श्रुतिः ‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’ इति, ‘को अद्धा वेद क इह प्रवोचत्’ ‘इयं विसृष्टिर्यत आबभूव’ इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः।” इति भाष्यमिहानुसंधेयम् (ब्र.सू. २-१-६)। २. श्रुत्यन्तरमिति चिन्त्यम् , एकस्या एव श्रुतेः भाष्ये पाठात्। ३. एकस्य कुतःशब्दस्य वैयर्थ्यमाशङ्क्य परिहरति—कस्मादिति। हेतोः निमित्तादित्यर्थः। ‘अर्वाग् देवा अस्य विसर्जनाय’ इत्यादिः श्रुतिशेषः। सृष्ट्युत्तरकालीनत्वाद् देवादयोऽपि सृष्टिकारणं न जानन्तीति तदर्थः। द्र. भ.गी. १०-२।

[[४७३]]

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम् ॥११॥

अवजानन्तीति। नित्यम् अविनाशिनम्। भूतग्रामस्तु निरा[विना]शीति भावः। शुद्धं निर्मलम्। बुद्धं ज्ञातारम्। मूढाः मम भूतमहेश्वरं परं भावमजानन्तः मानुषीं तनुमाश्रितं मामवजानन्ति। आकाशकल्पम् आकाशतुल्यम् , तद्वन्निर्लेपमित्यर्थः। आकाश एव किं न स्याद्? अत आह— आकाशादपीति। आकाशमभिव्याप्य वर्तमानमित्यर्थः। सर्वभूतानामीश्वर आत्मा परमपुरुषः परमार्थसत्यः श्रीनारायण एवायं वासुदेवः, न तु मनुष्यमात्र इत्येवं रूपं मत्तत्त्वम् अविद्वांसो मूढा मां मनुष्यं मत्वा तिरस्कुर्वन्तीति पर्यवसन्नोऽर्थः। मनुष्योऽयम् , गोपोऽयम् , यादवोऽयमित्येवमवज्ञां कुर्वन्तीति यावत्। अत्र मानुषीं तनुमित्युपलक्षणम्। तेन क्रिमिकीटपक्षिपश्वादिषु सर्वेषु देहेषु सन्तमात्मानमीश्वरं श्रीकृष्णं परं ब्रह्माविदित्वा, जीवं मत्वा, तत्रापि क्रिम्यादिरूपं मत्वा, क्रिम्यादिदेहानामात्मनश्च तादात्म्याध्यासेन क्रिमिरयमात्मा कीटोऽयमात्मा - इत्यादिविधया स्वात्मानमेव तिरस्कुर्वन्ति आत्मानात्मविवेकशून्या मूढा इति सिद्धम्। ततश्च विवेकिभिरात्मानमनात्मभ्यो विविच्य सच्चिदानन्देश्वर- रूपतया प्रतिपत्तव्यमित्युपदिष्टप्रायम्। यत्तु रामानुजः—‘असक्तं तेषु कर्मसु’ इत्यत्र ‘तत्र वैषम्ये ३प्रयोजकत्वरूपसम्बन्धरहित’मिति, ‘मयाऽध्यक्षेणे’त्यत्र ‘सत्य- सङ्कल्पेन मयाऽध्यक्षेण ईक्षिता’ इति, ‘पश्य मे योगमैश्वर’मित्यत्र ‘मम वसुदेवसूनोः सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वमित्यादिकं योगं पश्य’ इति, प्रकृतश्लोके च ‘भूतमहेश्वरं मां मनुष्यतन्वाश्रयणमात्रेण ममापारकारुण्यौदार्यसौशील्यवात्सल्यादिनिबन्धनं मनुष्यत्व- समाश्रयणलक्षणमिमं परं भावमजानन्तो मूढास्तिरस्कुर्वन्ती’ति (चौचत्)[चावोचत्।] तदेतत् सर्वं मन्दम् ; तेषु कर्मस्विति शब्दद्वयात् ‘तत्र वैषम्ये’ इत्यर्थावगमो न सम्भवतीति सर्वविदितम्। न च तेषु कर्मसु यद् सर्वाध्यक्षः सर्वभूताधिवासो नित्यमुक्तश्चेत् त्वम् , तर्हि किमिति त्वामेवात्मत्वेन भेदेन वा सर्वे न भजन्ते? तत्राह— एवमिति। विपर्यस्तबुद्धित्वं भगवदवज्ञायां कारणमित्याह— मूढा इति। भगवतो मनुष्यदेहसम्बन्धात् तस्मिन् विपर्यासः सम्भवतीत्याह— मानुषीमिति। अस्मदादिवद् देहतादात्म्याभिमानं भगवतो व्यावर्तयति— मनुष्येति। १भगवन्तमवजानतामविवेकमूलाज्ञानं हेतुमाह— परमिति। ईश्वरावज्ञानात् किं भवतीत्यपेक्षायां तदवज्ञानप्रतिबद्धबुद्धयः शोच्या भवन्तीत्याह— ततश्चेति। २भगवदज्ञानादेव हेतो- रवजानन्तस्ते जन्तवो वराकाः शोच्याः सर्वपुरुषार्थबाह्याः स्युरिति सम्बन्धः। तत्र हेतुं सूचयति— तस्येति। प्रकृतस्य भगवतोऽवज्ञानम् अनादरणं निन्दनं वा , तस्य भावनं पौनःपुन्यम् , तेनाहताः तज्जनितदुरितप्रभावात् प्रतिबद्धबुद्धयः इत्यर्थः॥११॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनामात्मानमपि सन्तम्— अवजानन्तीति । अवजानन्ति अवज्ञां परिभवं कुर्वन्ति, मां मूढाः अविवेकिनो मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितम् , मनुष्यदेहेन व्यवहरन्तमित्येतत्। परं प्रकृष्टं भावं परमात्मतत्त्वमाकाशकल्पम् आकाशादप्यन्तरतमम् अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तमीश्वरं स्वमात्मानम्। ततश्च तस्य ममावज्ञानभावनेन आहताः वराकास्ते॥११॥

१. भगवन्तमवजानतां योऽविवेकस्तस्य हेतुं मूलाज्ञानमाह इत्यन्वयः। २. ‘भगवदवज्ञानादेव’ इति पा.। ३. असक्तपदार्थविवरणमिदम्। अकर्तृत्वापत्तिनिरासाय इत्थं विवरणमिति तदीयाः। एवं चेत् परमार्थतः स्रष्टृत्वादिविहीनं शुद्धबुद्धमुक्तस्वभावं ब्रह्म, कुतस्तर्हि केषाञ्चिदेवेह ज्ञानमित्याशङ्क्याह— एवं मामिति॥११॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. ९. श्लो. १०-११]] [[४७४]]

वैषम्यं तत्रासक्तमित्यर्थ इति वाच्यम्; वैषम्यपदाध्याहारगौरवात् तस्याप्रमाणत्वाच्च। सर्वान्तर्यामिण ईश्वरस्य विषमकर्मगतवैषम्य- प्रयोजकत्वस्यापि सम्भवात् कथं तत्सम्बन्धराहित्यसिद्धिः? तथा ‘सत्यसङ्कल्पेनेक्षिता प्रकृति’रित्यप्ययुक्तम् , प्रकृतिं विना ईश्वरस्य सङ्कल्पायोगात्। मायावृत्तिः खलु सङ्कल्पः, यथा मनोवृत्तिः। तथा ‘वसुदेवसूनोर्ममे’त्यप्ययुक्तम् , देहस्यैव वसुदेवसूनुत्वाद्, आत्मनश्च तद्विलक्षणत्वाद्, ईश्वरस्यात्मत्वात् , कृष्णस्य विवेकेन आत्मनि वसुदेवसूनुदेहतादात्म्याभिमानस्यायुक्तत्वात् प्रकृतानुपयोगाच्च। तथा ‘मा’मित्यस्य व्यवहितेन ‘भूतमहेश्वर’मित्यनेन सम्बन्धकल्पनमन्याय्यम्। ‘परं भाव’मित्यस्य ‘मनुष्यत्वसमाश्रयण- लक्षणं भाव’मित्यर्थवर्णनमप्ययुक्तम् , मनुष्यत्वसमाश्रयणस्य परभावत्वायोगात्। अप्राकृतदिव्यविग्रहसमाश्रयणं हि परो भावः। अन्यथा अस्मदादीनामपि मनुष्यत्वसमाश्रयणस्य परभावत्वापत्तेः। न चेश्वरीयमनुष्यत्वसमाश्रयणस्य वात्सल्यादिनिबन्धनत्वात् परभावत्वमिति वाच्यम्; अशरीरस्येश्वरस्य वात्सल्यादिनाऽपि मनुष्यत्वाश्रयणायोगात्। मनुष्यत्वं हि देहाश्रयम्। ईश्वरस्य मनुष्यदेहाश्रयणमपि न परभावः, किन्तु मायिकभाव एव। सच्चिदानन्दरूपत्वमेव हीश्वरस्य परो भावः। अन्यत् सर्वमवरो भाव एव, अनुत्कृष्टत्वात्। न चेश्वरस्य मायया मनुष्यदेहाश्रयणं परो भाव इति वाच्यम्; परमव्योमनिलयेश्वरीयाप्राकृतदेहस्यापरभावत्वापत्तेः। मायया सर्वचराचरदेहजालाश्रयस्येश्वरस्य मनुष्यदेहाश्रयणमात्रं कथं वा परो भावो भवितुमर्हति? मानुषीं तनुमाश्रितमिति कण्ठोक्तस्य मनुष्यतन्वाश्रयणस्य परं भावमिति शब्दाभ्यां गूढं पुनर्वचनस्य व्यर्थत्वात् क्लिष्टत्वाच्च, पूर्वोक्तार्थपरामर्शकस्य तदिदमाद्यन्यतम- शब्दस्याभावाच्च मूले इति॥११॥

मोघाशा इति। अवज्ञाभावनं तिरस्कारकरणम्। वराका नीचाः। भगवदनुग्रहाभावे जन्तूनामाशीःप्राप्तिरेव तावन्न भवेत्, कथञ्चित् तत्प्राप्तावपि वैयर्थ्यमेव तासां स्यादित्याह— मोघाशा इति। भगवत्परिभवादिति पदं स्वयमेव व्याख्याति— स्वात्मभूतस्य चावज्ञानादिति। भगवतः स्वात्मभूतस्येश्वरस्य परिभवादवज्ञानादिति। ज्ञानं शास्त्रार्थपाण्डित्यम्। न त्वात्मानात्मविवेकः। विचेतस इति विवेकाभावस्य वक्ष्यमाणत्वात्। राजसतामसभेदेन राक्षसासुरप्रकृत्योर्भेदः। यद्वा एकैव प्रकृती राक्षसानसुरांश्चाश्रित्य वर्तत इति भगवन्तमवजानतां प्रश्नपूर्वकं शोच्यत्वं विशदयति— कथमिति। भगवन्निन्दापराणां न काचिदपि प्रार्थनाऽर्थवतीत्याह— वृथेति। ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्मानुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्तीति, नेत्याह— तथेति। १परिभवः तिरस्करणम् , अवज्ञानम् अनादरणम्। तेषामपि शास्त्रार्थज्ञानवतां तद्द्वारा प्रार्थनार्थवत्त्वमित्याशङ्क्याह— तथा मोघेति। तथापि यौक्तिकविवेकवशात् तत्प्रार्थनासाफल्यमित्याशङ्क्याह— विचेतस इति। न केवलमुक्तविशेषणवत्त्वमेव तेषाम् , किन्तु वर्तमानदेहपातादनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चितेत्याह— किञ्चेति। मोहकरीमिति प्रकृतिद्वयेऽपि तुल्यं विशेषणम्। ‘छिन्धि,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कथम्? — मोघाशा इति। मोघाशाः, मोघाः वृथा आशाः आशिषो येषां ते मोघाशाः। तथा मोघकर्माणः, यानि चाग्निहोत्रादीनि तैरनुष्ठीयमानानि कर्माणि, तानि च तेषां भगवत्परिभवात् स्वात्मभूतस्यावज्ञानाद् मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः। तथा मोघज्ञानाः, मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात्। विचेतसो विगतविवेकाश्च ते भवन्तीत्यभिप्रायः। किञ्च ते भवन्ति राक्षसीं रक्षसां प्रकृतिं मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥

१. अपौनरुक्त्यायात्र निन्दाऽर्थो ज्ञेयः।

[[४७५]]

महात्मानस्तु मां पार्थ ! दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। १. ‘मां’ इति क्वचिन्न। २. ‘अचाञ्चल्यं’ इति पा.। ३. ‘सेवेतेत्याह’ इति पा.। तदर्थमुभयग्रहणम्। प्रकृतिमेव दर्शयति— छिन्धीत्यादिना। छिन्धि, भिन्धि, प्राणिनश्छेदय, भेदय, पिब मदिरामिति रक्तमिति वा शेषः। खाद भक्षय मांसमिति शेषः। परस्वं परकीयं धनम्। वदनं भाषणं शीलं स्वभावः येषां ते वदनशीलाः। क्रूराणि लोकद्रोहकारीणि कर्माणि येषां ते क्रूरकर्माणः। एतेन राक्षसासुरप्रकृतिसम्मूढानामेव जन्तूनां भगवत्परिभव इति सिद्धम्। भगवदवज्ञाकराः प्राणिनः मोघाशाः, मोघकर्माणः, मोघज्ञानाः, विचेतसश्च भवन्ति। राक्षसीमासुरीं च प्रकृतिं श्रिता भवन्त्येवेत्यन्वयः॥१२॥

महात्मान इति। हे पार्थ! महात्मानस्तु दैवीं प्रकृतिमाश्रिताः सन्तोऽनन्यमनसो भूत्वा भूतादिमव्ययं मां ज्ञात्वा भजन्ति। माम् ईश्वरम् , स्वात्मभूतमिति भावः। ‘आत्मन आकाशः सम्भूतः’ इत्यादिश्रुतिभ्यः आत्मनो भूतादित्वम्। न व्येति विक्रियत इत्यव्ययः, तम्। आत्मैवेश्वरो भूतादिरव्ययश्चेति ज्ञात्वा स्वात्मानं महात्मानो भजन्तीत्यर्थः॥१३॥

सततमिति। नमस्यन्त इति। नमस्कुर्वन्तः। नन्वादित्यचन्द्रादिरूपस्येश्वरस्य नमस्कार्यत्वमस्तु नाम, कथं पुनरात्मन इति चेद्? उच्यते— परोक्षमीश्वरं यथा द्वैतिनो नमस्कुर्वन्ति, तद्वदद्वैतिन आत्मानमिति। भक्त्या नित्ययुक्ताः सर्वदा सहिताः, सदा भक्तियुक्ता इत्यर्थः। यद्वा नित्ययुक्ता अनवरतसमाहिताः। भक्तिः प्रीतिः। आत्मन उपासनं नाम आत्मस्वरूपानुसन्धानमेवेति बोध्यम् भिन्धि, पिब, खादे’ति प्राणिहिंसारूपो रक्षसां स्वभावः। असुराणां स्वभावस्तु ‘न देहि , न जुहुधि, परस्वमेवापहरे’त्यादिरूपः। मोहो मिथ्याज्ञानम्। उक्तमेव स्फुटयति— छिन्धीति॥१२॥

के पुनर्भगवन्तं भजन्ते? तानाह— ये पुनरिति। महान् प्रकृष्टो यज्ञादिभिः शोधितः आत्मा सत्त्वं येषामिति व्युत्पत्ति- माश्रित्याह— अक्षुद्रेति। तुशब्दोऽवधारणे। प्रकृतिं विशिनष्टि— शमेति। अनन्यस्मिन् प्रत्यग्भूते मयि परस्मिन्नेव मनो येषामिति व्युत्पत्त्या व्याकरोति— अनन्यचित्ता इति। अज्ञाते सेवानुपपत्तेः शास्त्रोपपत्तिभ्यामादौ ज्ञात्वा ततः ३सेवन्त इत्याह— ज्ञात्वेति। अव्ययम् अविनाशिनम्॥१३॥

भजनप्रकारं पृच्छति— कथमिति। तत्प्रकारमाह— सततमिति। सर्वदेति श्रवणावस्था गृह्यते। कीर्तनं वेदान्तश्रवणं प्रणवजपश्च। व्रतं ब्रह्मचर्यादि। नमस्यन्तो मां प्रति चेतसा प्रह्वीभवन्तः भक्त्या परेण प्रेम्णा नित्ययुक्ताः सन्तः सदा संयुक्ताः॥१४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स्वभावम् , आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, ‘छिन्धि, भिन्धि, पिब, खाद, परस्वमपहर’ इत्येवंवदनशीलाः क्रूरकर्माणो भवन्तीत्यर्थः। ‘असुर्या नाम ते लोकाः’ (ई.उ.३) इति श्रुतेः ॥१२॥ ये पुनः श्रद्दधाना भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्ताः— महात्मान इति। महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं, पार्थ ! दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तो भजन्ति सेवन्ते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा १मां भूतादिं भूतानां वियदादीनां प्राणिनां चादिं कारणम् अव्ययम्॥१३॥

कथम्?— सततमिति। सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्तश्च इन्द्रियोपसंहारशमदम- दयाऽहिंसादिलक्षणैर्धर्मैः प्रयतन्तश्च, दृढव्रता दृढं स्थिरमचाल्यं२ व्रतं येषां ते दृढव्रताः, नमस्यन्तश्च मां हृदयेशयम्

[[अ. ९. श्लो. १२-१४]] [[४७६]]

॥१४॥

ज्ञानेति। अन्ये मोघाशा इति श्लोकोक्तेभ्य इतरे। महात्मान इत्यर्थः। मां ज्ञानयज्ञेन यजन्तःसन्त उपासतेऽपि च। अपिचेत्यस्य एवेत्यर्थः। तत्र केचिदेकत्वेन मामुपासते, परे पृथक्त्वेन मामुपासते, इतरे विश्वतोमुखं मामुपासते। एवं महात्मानो मां बहुधोपासते इत्यन्वयः। ईश्वरं चापीत्यनेनान्योपासनायाः प्राप्तत्वादाह— अन्यामुपासनां परित्यज्येति। ईश्वरमेवेत्यर्थः। न त्वीश्वरमन्यं चेति। अन्योपासना चेह यक्षरक्षःपिशाचाद्युपासनेति बोध्यम्। क्षुद्रकामार्थं हि ते तैरुपास्यन्ते क्षुद्रैः। तच्चेश्वरविषयं ज्ञानं बहुविधमिति शेषः। एवं ज्ञानस्य बहुविधत्वाज्ज्ञानयज्ञेन यजनं च बहुविधमिति भावः। तत्र ‘एकमेव परं ब्रह्मे’ति परमार्थदर्शनलक्षणः प्रधानः कश्चिज्ज्ञानयज्ञः। तत्रोत्तमानां ज्ञानिनामधिकारः। ‘एकमेव ब्रह्म चन्द्रादित्यादिदेवतारूपेण पृथक्त्वेन स्थित’मिति यज्ज्ञानं तल्लक्षणोऽन्यो ज्ञानयज्ञः। तत्र मध्यमानामधिकारः। एकमेव ब्रह्म विश्वरूपेण स्थितमिति यज्ज्ञानं तल्लक्षणोऽपरो ज्ञानयज्ञः। तत्र मन्दानामधिकारः। विश्वरूपध्यानस्य मन्दाधिकारिविषयत्वात्। यत्तु रामानुजः - ‘महात्मानस्ते भूतादिमव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वे- नावतीर्णं मां ज्ञात्वे’ति, ‘आत्मान्तं मद्दास्यव्यवसायिनो मामुपासते’ इति, ‘बहुधा पृथक्त्वेन विश्वतोमुखं जगदाकारेण विश्वप्रकार- मवस्थितं मामेकत्वेनोपासते’ इति च। तत् सर्वं मन्दम् ; महात्मानः कृष्णावतारमुपासत इत्युक्तौ रामावतारोपासकानां क्षुद्रात्मत्वं स्यात्। यदि महात्मानो रामकृष्णादिमनुष्यावतारमुपासत इत्युच्यते, तर्हि मत्स्याद्यवतारोपासकानां क्षुद्रात्मत्वं स्यात्। अथ यदि महात्मानोऽवतारमुपासत इत्युच्यते, तर्हि पर-व्यूह-विभव-अन्तर्यामि-अर्चात्मकतया पञ्चधाऽवस्थितस्येश्वरस्य विभवोपासका एव महात्मानः, अन्ये तु पराद्युपासकाः क्षुद्राः इत्येवोक्तं स्यात्। परो नित्यविभूतिर्नारायणः, व्यूहः वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाः, विभवाः रामकृष्णाद्यवताराः, अन्तर्यामी हृद्देशस्थः ईश्वरः, अर्चा वेङ्कटेश्वरश्रीरङ्गभद्राद्रिरामप्रभृतयः इति विवेकः। उपासनप्रकारभेदप्रतिपित्सया पृच्छति— ते केनेति। तत्प्रकारभेदोदीरणार्थं श्लोकमवतारयति— उच्यत इति। इज्यते पूज्यते परमेश्वरोऽनेनेति प्रकृते ज्ञाने यज्ञशब्दः। ईश्वरं चेति चकारोऽवधारणे। देवतान्तरध्यानत्यागम् अपिशब्दसूचितं दर्शयति—अन्यामिति। अन्ये ब्रह्मनिष्ठाः इति यावत्। ज्ञानयज्ञमेव विभजते— तच्चेति। उत्तमाधिकारिणामुपासनमुक्त्वा, मध्यमानामधिकारिणामुपासनप्रकार- माह— केचिच्चेति। तेषामेव प्रकारान्तरेणोपासनमुदीरयति— केचिदिति। बहुप्रकारेण अग्न्यादित्यादिरूपेणेति यावत्॥१५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

आत्मानं भक्त्या नित्ययुक्ताः सन्तः उपासते सेवन्ते॥१४॥

ते केन केन प्रकारेणोपासते? इत्युच्यते— ज्ञानेति। ज्ञानयज्ञेन, ज्ञानमेव भगवद्विषयं यज्ञः, तेन ज्ञानयज्ञेन यजन्तः पूजयन्तो माम् ईश्वरं चापि अन्ये अन्यामुपासनां परित्यज्य उपासते। तच्च ज्ञानम् एकत्वेन ‘एकमेव परं ब्रह्म’ इति परमार्थदर्शनेन [परमार्थदर्शनम् , तेन] यजन्तः उपासते। केचिच्च पृथक्त्वेन आदित्यचन्द्रादिभेदेन ‘स एव भगवान् १विष्णुरादित्यादिरूपेणावस्थितः’ इत्युपासते। केचिद् ‘बहुधाऽवस्थितः स एव भगवान् सर्वतोमुखो२ विश्वरूपः’ इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेणोपासते॥१५॥

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥

१. ‘आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुरवस्थितः’ इति पा.। २. एतदनन्तरम्— ‘विश्वतोमुख’ इत्यधिकः पाठः क्वचित्।

[[४७७]]

ननु महात्मानः कृष्णावतारमेवोपासत इति नास्माभिरुच्यते, किं तर्हि? महात्मान एव कृष्णावतारमुपासत इति चेत्? मैवम् ; क्षुद्राणामपि कृष्णोपास्तिदर्शनात्। न च महतामेव कृष्णे ईश्वरबुद्धिरिति वाच्यम् ; क्षुद्राणामपि तद्दर्शनात्। ननु ये कृष्णमवजानन्ति त एव क्षुद्राः, येषां कृष्णे ईश्वरत्वबुद्धिः ते महान्त एवेति चेत्? नैतदपि युज्यते; श्रीराम- नरसिंहगणपतिकुमारशङ्करपार्वत्यादीन् येऽवजानन्ति ते न क्षुद्राः, येषां तेषु नेश्वरत्वबुद्धिः, ते महान्तः इत्यस्यापत्तेः। न चेष्टापत्तिः, पाषण्डिनस्तवेष्टापत्तावपि वैदिकानामस्माकं तस्यानिष्टत्वात् , शिवविष्णुगणपतिकुमारादीनां सर्वेषामीश्वरावतारत्वाविशेषात्। तस्माद् अवतारिणमीश्वरं विहायावतारस्य कृष्णस्य भजनवर्णनमिहायुक्तमेव। न चावतार एवेह प्रकृत इति वाच्यम् ; ‘सर्वभूतानी’त्यादिना ईश्वरस्यैव प्रकृतत्वात्। ‘मां भूतादिमव्ययं ज्ञात्वा’ इत्यस्य ‘वाङ्मनसे’त्याद्यर्थवर्णनं सुतरामयुक्तम् , तच्छब्दाभ्यां तदर्थानागमात्। न च लक्षणया तदर्थागम इति वाच्यम्; अभिधेयपरित्यागे कारणाभावात्। किञ्च यो मनुष्यत्वेनावतीर्णः, स देह एव, नेश्वर इति मनुष्यदेहे ईश्वरबुद्धिशालिनः ते न महात्मानः, किन्तु क्षुद्रात्मान एव। क्षुद्राणामेव बौद्धादीनां देहात्मबुद्धिदर्शनात्। न च - यः कृष्णदेहम् अहमित्यभिमन्यते तस्मिन्नीश्वरबुद्धिः महतामिति - वाच्यम्; देहात्मभ्रमवतः सर्वज्ञेश्वरत्वायोगात्। अनीश्वरे तस्मिन्नीश्वरबुद्धिमतां महत्त्वायोगाच्च। नापि महतां कृष्णदेहे ईश्वरदेहबुद्धिरिति वाच्यम्; सर्वेष्वपि देहेष्वीश्वरस्यान्तर्यामित्वेन सर्वदेहानामीश्वरदेहत्वात्। न च कृष्णदेहे ईश्वरावतारबुद्धिर्महतामिति वाच्यम्; ईश्वरस्य चिद्रूपस्य देहत्वेनावतारायोगात्। न च कृष्णदेहावच्छिन्नचैतन्ये महतामीश्वरांशत्वेनेश्वरावतारबुद्धिरिति वाच्यम्; ब्रह्मादिस्तम्बपर्यन्तनिखिल- चराचरदेहावच्छिन्नचैतन्यस्य ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इतीश्वरांशत्वस्य वक्ष्यमाणत्वात्। न च कृष्णदेहान्तरचैतन्ये महतामीश्वरबुद्धिरिति वाच्यम्; सर्वदेहान्तरचैतन्यस्यापीश्वरत्वात्। तस्माच्चिन्मयस्येश्वरस्य न मनुष्यत्वेनावतारः। नापि कृष्ण- शरीरावच्छिन्नस्यैव चैतन्यस्येश्वरत्वम्। न च कृष्णशरीरस्य मायामयत्वात् तदवच्छिन्नं चैतन्यं सर्वेश्वर इति वाच्यम्; सर्वस्यापि मायामयत्वात्। अवच्छेदकानां भेदेऽपि चैतन्यस्यैकत्वात् परिपूर्णत्वाच्च। तस्मात् सर्वत्रावस्थितं परिपूर्णं चिन्मयमीश्वरमात्मानं मां ज्ञात्वेत्येवार्थः समीचीनः, तथा सत्येव भूताद्यव्ययपदार्थानुगुण्यलाभात्। तथा ‘आत्मान्तं दास्य’मित्यप्ययुक्तम् , आत्मन एवेश्वरत्वेन सर्वशेषित्वात् कथमात्मनोऽन्यशेषत्वसम्भव इति। तथा ‘पृथक्त्वेनावस्थितस्य विश्वतोमुखस्यैकत्वेनोपासन’मित्यप्ययुक्तम् , तादृशोपासनस्य भ्रान्तिरूपत्वात्। न च घट- शरावादिपृथक्त्वेनावस्थिताया मृदः एकत्वेन मृत्त्वेनोपासनवद् इदं न भ्रान्तिरूपमिति वाच्यम्; अविकारस्येश्वरस्य मृद इव परिणामायोगात्। न च सूक्ष्मचिदचिद्विशिष्टस्येश्वरस्य स्थूलजगदाकारपरिणामोऽस्तीति वाच्यम्; तत्रापि विशेषणांशस्यैव सूक्ष्मस्य स्थौल्यप्राप्तिरूपपरिणामः, न तु विशेष्यांशस्येश्वरस्येति कृत्वा ईश्वरस्य स्थूलजगदाकारपरिणामाभावात्। न च - स्थूलजग- च्छरीरकत्वमीश्वरस्य पृथक्त्वमिति - वाच्यम् ; शरीराणां पृथक्त्वेऽपीश्वरस्य शरीरिणः पृथक्त्वायोगात्। अन्यथा सूक्ष्मशरीराणामपि पृथक्त्वेन तद्विशिष्टेश्वरस्यापि पृथक्त्वप्रसङ्गात्। न चेष्टापत्तिः, एकत्वेनेश्वरस्योपासनाऽसम्भवात्१। तस्मात् स्थूलजगदाकारेण सूक्ष्म- जगदाकारेण वा बहुधा पृथक्त्वेन परिणामः प्रकृत्या एव, नेश्वरस्येति नेश्वरः पृथक्त्वेन स्थितः। अस्मन्मते तु माययेश्वरस्य विश्वरूपत्वं घटते, मायायां सर्वसम्भवात्। न च - सर्वेष्वपि शरीरेषु एक एवेश्वरः पृथक्त्वेन स्थित इति - वाच्यम्; एकस्य पृथक्त्वस्थितेर्भ्रान्तिरूपत्वाद्, घटपृथक्त्वस्याकाशाभेदकत्ववच्छरीरपृथक्त्वस्येश्वराभेदकत्वात्। अत एव हीश्वरस्यात्मनः एकत्वम् ‘एको देवः’ इत्यादिश्रुतिसिद्धम्। यदि तु सर्वशरीरावस्थितमीश्वरमेकत्वेनोपासत इत्युच्यते, तत् सम्मतमेव। मूलात्तु नैतादृशार्थलाभः। न च पृथक्त्वेनेत्यस्य सर्वशरीरावस्थितत्वेनेति लाक्षणिकार्थ इति वाच्यम्; लाक्षणिकार्थकल्पनस्यान्याय्यत्वात्। न हि मुख्यार्थस्य बाधः, येन लक्षणाश्रयणम् ॥१५॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. ९. श्लो. १४-१५ ] १. एकत्वेनेत्यस्य अभेदेनेत्यर्थः। तथोपासनं चासंभवि, पृथक्त्वेनावस्थिते अभेदज्ञानस्य भ्रान्तिरूपत्वादिति भावः।

[[४७८]]

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६॥

पिताऽहमस्य जगतो माता धाता पितामहः। अहमिति। ननु तव परब्रह्मत्वाद् एकत्वेनोपासकानां त्वदुपासकत्वमस्तु नाम, कथं पुनरादित्यचन्द्रादिदेवतान्तरोपासकानां विश्वरूपोपासकानां च त्वदुपासकत्वमित्याक्षेपसङ्गतिं पूर्वोत्तरश्लोकयोर्दर्शयति— यदिति। सर्वस्यापि जगतो मयि कल्पितत्वात् कल्पितस्याधिष्ठानानतिरेकात् ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतेश्च सर्वमप्यहमेव। यत्त्वादित्यादिदेवताशरीरावच्छिन्नं चैतन्यं तस्य मद्रूपत्वाद् आदित्यादयोऽप्यहमेव। ततश्चेश्वरबुद्ध्या आदित्याद्युपासने विश्वोपासने वा ईश्वरोपासनमेव कृतं भवतीति भावः समाधानस्य। अहं क्रतुः भवामीति शेषः। एवमुत्तरत्रापि। ओषध्यः फलपाकान्ताः व्रीह्यादयः, तासामिदम् औषधमन्नम्। हुतं हवनाख्यं कर्म क्रिया ॥१६॥

पितेति। ‘मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यह’मिति, ‘अहं बीजप्रदः पिता’ इति च वचनाज्जगतः पितृत्वमीश्वरस्य। जगन्मातुः प्रकृत्या ईश्वरेऽध्यस्तत्वाद् ईश्वरस्य प्रकृतिरूपत्वेन जगन्मातृत्वम्। पितामहो हिरण्यगर्भः, तस्यापीश्वरे कल्पितत्वादीश्वरस्य पितामहत्वम्। यद्वा पितैव हिरण्यगर्भः, पितामहस्त्वीश्वर इति। अथवा पुत्रं प्रति पिता यथा निमित्तकारणम्, माता तूपादानकारणम् , तद्वज्जगत् प्रति ईश्वरस्य निमित्तत्वादुपादानत्वाच्च पितृत्वं मातृत्वं च। ४(मातुरुदरात्पुत्रोत्पत्तिदर्शनात् ‘जनिकर्तुः प्रकृति’रिति मातुरुपादानत्वम् , तत्र पितुर्निमित्तत्वान्निमित्तकारणत्वमिति विवेकः।) यद्येवमीश्वरो जगतः पिता, तर्हि कः पुनरीश्वरस्य पितेत्यत आह— पितामह इति। ईश्वरस्य पितेश्वर एव, न त्वन्यः कश्चिदस्ति, अजत्वात् तस्येति भावः। रामानुजस्तु - जगति तत्र तत्र देवदत्तादीन् पुत्रान् प्रति पितृत्वेन ये विष्णुमित्रादयः सन्ति, मातृत्वेन च याः कलावत्यादयः, पितामहत्वेन च ये यज्ञदत्तादयः, धातृत्वेन च ये उपपतयः शम्भुदत्तादयः ते सर्वेऽपीश्वर एव, ईश्वरशरीरत्वात् तेषाम् , ईश्वरस्य च तदन्तर्यामित्वादित्याह। तन्मन्दम् ; जगतः पितेति कृत्स्नजगतोऽपत्यस्थानीयत्वेन तत्प्रति विष्णुमित्रादीनां पितृत्वाद्यसम्भवात् , सत्यां मूलकर्तुरिदंविवक्षायाम् ‘पिताऽहमत्र जगती’त्येव ब्रूयाद्, न तु ‘पिताऽहमस्य जगतः’ इति। वेद्यं ज्ञेयं वस्त्वहमेव, पवित्रं पावनं वस्त्वहमेव। यद्वा वेद्यं यत् पवित्रं तद् वस्त्वहमेव, ओङ्कारोऽहमेव, ऋक्सामयजुरात्मनो भगवदेकविषयमुपासनं तर्हि न सिध्यतीति शङ्कते— यदीति। प्रकारभेदमादाय ध्यायन्तोऽपि भगवन्तमेव ध्यायन्ति, तस्य सर्वात्मकत्वादित्याह— अत आहेति। क्रतुयज्ञशब्दयोरपौनरुक्त्यं दर्शयन् व्याचष्टे— श्रौत इति। क्रियाकारकफलजातं भगवदतिरिक्तं नास्तीति समुदायार्थः॥१६॥

इतश्च भगवतः सर्वात्मकत्वमनुमन्तव्यमित्याह— किञ्चेति। पवित्रं पूयतेऽनेनेति व्युत्पत्त्या परिशुद्धिकारणं पुण्यं कर्मेत्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यदि बहुभिः प्रकारैरुपासते, कथं त्वामेवोपासत इत्यत आह— अहमिति। अहं क्रतुः १श्रौतकर्मभेदोऽहमेव। अहं यज्ञः स्मार्तः। किञ्च स्वधा अन्नम् अहम् , पितृभ्यो यद् दीयते।अहमौषधं सर्वप्राणिभिर्यदद्यते २तदौषधशब्द- वाच्यम्। अथवा स्वधेति सर्वप्राणिसाधारणमन्नम् , औषधमिति व्याध्युपशमार्थं भेषजम्। मन्त्रोऽहं येन पितृभ्यो देवताभ्यश्च हविर्दीयते। अहमेवाज्यं हविश्च, अहमग्निः यस्मिन् हूयते सोऽग्निरहमेव३, अहं हुतं हवनकर्म च ॥१६॥

किञ्च— पितेति। पिता जनयिताऽहमस्य जगतो, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, १. ‘श्रौतः कर्मभेदः’ इति पाठः टीकानुसारी भाति। २. ‘तदौषधशब्दशब्दितं व्रीहियवादिसाधारणम्’ इति पा.। ३. एवकारः क्वचिन्न। ४. अयं कुण्डलित एव दृष्टः।

[[४७९]]

[त्मको] वेदोऽहमेव। ऋगहमेव, सामाहमेव, यजुरहमेवेति प्रत्येकान्वयो वा॥१७॥

गतिरिति। अत्र जगतः इति पूर्वश्लोकस्थस्य पदस्यानुवृत्तिः। जगतो गतिरहम् , जगतो भर्ताऽहमित्याद्यूह्यम्। साक्षी साक्षाद्द्रष्टा। कृतं सत्कर्म, अकृतं दुष्कर्म। यद्वा कृतं विहितम् , अकृतम् अविहितम्। कृतं चाकृतं च कृताकृते, तयोः समाहारः कृताकृतं तस्य। कृताकृतयोरित्यर्थः। निवासो निलयः। निवसन्त्यस्मिन्निति निवासः। प्रभवत्यस्मादिति प्रभवः उपादानम्। प्रभवस्थानप्रलय- शब्दैः सृष्टिस्थितिलयहेतुत्वमुच्यते। अव्ययं यावत्संसारमविनाशीत्यर्थः। अबीजं बीजरहितं किञ्चित् सस्यादि न हि प्ररोहति। प्ररोहदर्शनादिति। संसाररूपाङ्कुरस्येति भावः। बीजसन्ततिः पुण्यपापादिलक्षणकर्मसन्ततिरिति भावः। न व्येति व्ययं नैति। अत्रापि - ‘जगति या याः स्वर्गादिगतयः, धारयितारः, शासितारः, साक्षिणः, वेश्मानि, शरण्यपुरुषाः, हितैषिणः, प्रभवप्रलयस्थानं घटादेः कार्यस्योत्पत्तिप्रलययोर्यत् स्थानं मृदादि तत् , निधानम् उत्पाद्यमुपसंहार्यं च घटादि, अव्ययानि कारणानि च तत् सर्वमहमेव’ इति रामानुजः। इदं च भाष्यं पूर्वोक्तदोषादेवोपेक्ष्यम्॥१८॥

तपामीति। अहं तपामि; अहं वर्षं निगृह्णामि; अहं वर्षमुत्सृजामि च। केन रूपेण तपसीत्यत आह— आदित्यो भूत्वेति। वर्षोत्सर्जननिग्रहणे अप्यादित्यरूपेणैवेत्यभिप्रेत्याह— कैश्चिद् रश्मिभिरिति। ‘याभिरादित्यस्तपति रश्मिभि’रित्यादिश्रुतेरिति भावः। पावनमिति। वेदितव्ये ब्रह्मणि वेदनसाधनमोङ्कारः। तत्र प्रमाणम् ऋगादि। चकाराद् अथर्वाङ्गिरसो गृह्यन्ते॥१७॥

भगवतः सर्वात्मकत्वे हेत्वन्तरमाह— किञ्चेति। गम्यत इति३ प्रकृतिविलयान्तं कर्मफलं गतिरित्याह— कर्मेति। पोष्टा कर्मफलस्य प्रदाता। कार्यकरणप्रपञ्चस्याधिष्ठानमित्याह— निवास इति। शीर्यते दुःखमस्मिन्निति व्युत्पत्तिमाश्रित्याह— शरणमिति। प्रभवत्यस्माज्जगदिति व्युत्पत्तिमादायोक्तम्— उत्पत्तिरिति। कारणस्य कथमव्ययत्वमित्याशङ्क्याह— यावदिति। कारणमन्तरेणापि कार्यं कदाचिदुदेष्यति, किं कारणेनेत्याशङ्क्याह— न हीति। मा भूत् तर्हि संसारदशायामेव कदाचित् कार्योत्पत्तिरित्याशङ्क्याह— नित्यं चेति। कारणव्यक्तेर्नाशमङ्गीकृत्य, ४तदन्यतमव्यक्तिशून्यत्वं पूर्वकालस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि— बीजेति॥१८॥

इतश्च सर्वात्मत्वे भगवतो न विवदितव्यमित्याह— किञ्चेति।‘आदित्याज्जायते वृष्टिः’ इति स्मृतिमवष्टभ्य व्याचष्टे—कैश्चिदिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पितामहः पितुः पिता, वेद्यं वेदितव्यं, पवित्रं पावनम् , १ओङ्कारः, ऋक् साम यजुरेव च ॥१७॥

किञ्च— गतिरिति। गतिः कर्मफलं, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासो यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानां २मत्प्रपन्नानामार्तिहरः, सुहृत् प्रत्युपकारानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिर्जगतः, प्रलयः प्रलीयते अस्मिन्निति। तथा स्थानं तिष्ठत्यस्मिन्निति। निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनां, बीजं प्ररोहकारणं प्ररोहधर्मिणाम् अव्ययं यावत्संसारभावित्वादव्ययम्। न ह्यबीजं किञ्चित् प्ररोहति। नित्यं च प्ररोहदर्शनाद् बीजसन्ततिर्न व्येतीति गम्यते॥१८॥

किञ्च— तपामीति। तपाम्यहमादित्यो भूत्वा कैश्चिद् रश्मिभिरुल्बणैः, अहं वर्षं कैश्चिद् रश्मिभिरुत्सृजामि, वेद्यं पवित्रमोङ्कार ऋक् साम यजुरेव च ॥१७॥

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। १.‘ओङ्कारश्च’ इति पा.। २.‘प्रपन्नानामार्तिहरः’ इति पा.। ३.इति व्युत्पत्त्येति शेषः। ४.प्रवाहानादित्वं विवक्षितम्। तच्च स्वपूर्वकालत्वव्यापकस्वसजातीयकत्वम्।

[[अ. ९. श्लो. १६-१९]] [[४८०]]

सूर्यरश्मीनामेव कासांचित् पर्जन्यरूपत्वाद् वर्षोत्सर्जनं रश्मीनाम्। चतुरो मासानिति। आषाढादिमासचतुष्कमित्यर्थः। अत्यन्तसंयोगे द्वितीया। अष्टभिर्मासैरिति। अष्ट मासानित्यर्थः। पुनरिति। अनेन वर्षोत्सर्जननिग्रहणयोः प्रवाहानादित्वं द्योत्यते बीजाङ्कुरवत्। अमृतं मृत्यभावः, तस्य देवधर्मत्वादाह— देवानामिति। यद्वा मरणाभावहेतुः सुधा अमृतम्। मृत्युः मरणं मरणहेतुर्देवताविशेषो वा। मृत्युदेवता हि प्रसिद्धा। यस्य पुत्रादेः यत् सम्बन्धितया विद्यमानं पित्रादिरूपं वस्तु तदहमेव। तद्विपरीतमिति। सम्बन्धितया अविद्यमानमित्यर्थः। असम्बन्धितया विद्यमानमिति यावत्। विद्यमानं वस्तु सत् , अविद्यमानं तु असत् इत्युक्तौ शशशृङ्गादेरपि भगवद्रूपत्वं स्यात्। तच्चानिष्टम् , सद्रूपस्य भगवतः शशशृङ्गादिरूपत्वासम्भवादित्याह— न पुनरिति। यद्वा सत् व्यक्तत्वात् स्फुटं कार्यम्। असद् अव्यक्तत्वादस्फुटं कारणमित्याह— कार्येति। यत्तु रामानुजः - ‘सद् वर्तमानम् , असद् अतीतमनागतं च’ इति; तन्मन्दम् ; येन केनापि रूपेण सर्वस्य सर्वदाऽपि वर्तमानत्वेनातीतानागतयोरपि वर्तमानत्वात्॥१९॥

त्रैविद्या इति। तिस्रो विद्या अधीयते विदन्ति वा त्रैविद्याः। शुद्धं निरस्तं किल्बिषं येषां ते शुद्धपापाः, निष्पापा इत्यर्थः। स्वरित्यव्ययं स्वर्गे वर्तते। तस्य गतिः स्वर्गतिः, स्वर्गं प्रति गमनमित्येकोऽर्थः। अर्थान्तरमाह— स्वरेव गतिरिति। गम्यत इति गतिः वर्षोत्सर्गनिग्रहावेकस्यैकस्मिन् काले विरुद्धावित्याशङ्क्याह— अष्टभिरिति। ऋतुभेदेन वर्षस्य निग्रहोत्सर्गावेककर्तृकावविरुद्धावित्यर्थः। यस्य कारणस्य सम्बन्धित्वेन यत् कार्यमभिव्यज्यते तदिह सदित्युच्यते३, कारणसम्बन्धेनानभिव्यक्तं कारणमेवानभिव्यक्तनामरूपम् असदिति व्यवह्रियते; तदेतदाह— सदिति। शून्यवादं व्युदस्यति— न पुनरिति। भगवतोऽत्यन्तासत्त्वे कार्यकारणकल्पना निरधिष्ठाना न तिष्ठतीत्यर्थः। तर्हि यथाश्रुतं कार्यस्य सत्त्वं कारणस्य चासत्त्वमास्थेयमित्याशङ्क्य वाशब्देन निषेधति—कार्येति। ४न हि कार्यस्यात्यन्तिकं सत्त्वम् , वाचारम्भणश्रुतेः। नापीतरस्यात्यन्तिकमसत्त्वम् , ‘कुतस्तु खलु’ इत्यादिश्रुतेरित्यर्थः। उक्तैर्ज्ञानयज्ञैर्भगवदभिनिविष्टबुद्धीनां किं फलमित्याशङ्क्य , सद्यो वा क्रमेण वा मुक्तिरित्याह— य इति॥१९॥

भगवद्भक्तानामपि निष्कामानामेव मुक्तिरिति दर्शयितुं सकामानां पुंसां संसारमवतारयति— ये पुनरिति। तिस्रो विद्या अधीयते विदन्तीति वा त्रैविद्या वेदविदः, तदाह— ऋगिति। वस्वादीत्यादिशब्देन ५सवनद्वयेशाना आदित्या रुद्राश्च गृह्यन्ते। शुद्धकिल्बिषाः

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

उत्सृज्य पुनर्निगृह्णामि कैश्चिद् रश्मिभिरष्टभिर्मासैः पुनरुत्सृजामि प्रावृषि। अमृतं चैव देवानाम् , मृत्युश्च मर्त्यानाम्। सद् यस्य यत् सम्बन्धितया विद्यमानं तत् , तद्विपरीतम् असत् चैव, अहमर्जुन ! न पुनरत्यन्तमेवासद् भगवान् स्वयम्। कार्यकारणे १वा सदसती। ये पूर्वोक्तैरनुवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैर्यज्ञैः मां पूजयन्त उपासते ज्ञानविदस्ते यथाविज्ञानं मामेव प्राप्नुवन्ति॥१९॥

ये पुनरज्ञाः कामकामाः— त्रैविद्या इति। त्रैविद्या ऋग्यजुःसामविदो मां वस्वादिदेवरूपिणं, सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः २शुद्धकिल्बिषाः, यज्ञैरग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं, १. आनन्दगिरिव्याख्यानुसारेणात्र वाशब्दो नञोऽनुषङ्गार्थः। ‘न वा कार्यकारणे सदसती’ इति योजना। २. भाष्ये ‘शुद्धपापाः’ इति रा.पा. भाति। ३. अभिव्यक्त- नामरूपत्वं सत्त्वम् , अनभिव्यक्तनामरूपत्वं चासत्त्वमिति भावः। द्र.ब्र.सू.२.१.१७। ४. यथाश्रुतसत्त्वासत्त्वयोस्त्यागे बीजमाह—न हीति। ५. ‘सवनद्वयेशाना- दित्यरुद्राश्च’ इति पा.। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ! ॥१९॥

त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥२०॥

[[४८१]]

स्वर्गगमनं स्वर्गतिः, तां प्रार्थयन्ते। ते च पुण्यं पुण्यफलम् आसाद्य सम्प्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान् देवानां भोगास्तान्२॥२०॥

ते तमिति। ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं, क्षीणे पुण्ये मर्त्यलोकमिमं विशन्ति आविशन्ति। ३एवं यथोक्तेन प्रकारेण ४त्रयीधर्मं केवलं वैदिकं कर्म अनुप्रपन्नाः, गतागतं गतं चागतं च गतागतं गमनागमनं, कामकामाः कामान् कामयन्त इति कामकामाः लभन्ते । गतागतमेव, न तु स्वातन्त्यं क्वचिल्लभन्त इत्यर्थः॥२१॥

प्राप्यस्थानम्। त्रैविद्याः सोमपाः पूतपापा मां यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते याचन्ते। ते पुण्यं सुरेन्द्रलोकमासाद्य दिवि दिव्यान् देवभोगा- नश्नन्ति। सुरेन्द्रलोकस्य साक्षात्पुण्यत्वाभावादाह— पुण्यफलमिति। पुण्यशब्दोऽत्र लक्षणया पुण्यफलपरः। पुण्यं ज्योतिष्टोमादि- जन्यम् अदृष्टाख्यं सत्कर्म। इदमेव अपूर्वमित्युच्यते। जीवनिष्ठं चेदम्। ज्योतिष्टोमादिलक्षणः कर्मविशेषो धर्माख्यो वा पुण्यम्। शतक्रतोरिन्द्रस्य स्थानं स्वर्गं ७यदर्चिरादिमार्गपर्वभूतम्। दिव्यानिति पदं व्याख्याति— दिवि भवानिति। भवार्थे यत्प्रत्ययः। दिवि स्वर्गे। अप्राकृतानिति। अभौमानित्यर्थः, न तु प्रकृत्यजन्यानिति, सर्वस्यापि जगतः प्राकृतत्वात्। भोगा इति। भुज्यन्त इति भोगाः; ये भोगाः सुधारम्भादयो देवैर्भुज्यन्ते, तानेव एते भुञ्जत इत्यर्थः॥२०॥

त इति। ते स्वर्गे गताः पुरुषाः स्वर्गलोकं भुक्त्वा तल्लोकस्थान् भोगाननुभूयेत्यर्थः। पुण्ये स्वर्लोकभोगप्रदप्रारब्धकर्मविशेषे क्षीणे भोगवशान्नष्टे सति मर्त्यलोकं विशन्ति मुद्गरमुसलप्रहारादिभिः इन्द्रचोदितैराजानिकैर्देवैः निहताः सन्तो देवदेहं विहाय पुनर्मनुष्य- देहं प्रपद्यन्त इत्यर्थः। त्रयीधर्ममनुप्रपन्नाः कामकामा एवं गतागतं लभन्ते। त्रयी वेदत्रयं, तत्प्रतिपादितो धर्मः ज्योतिष्टोमादिकर्मरूपः, तं त्रयीधर्ममेवानुप्रपन्नाः, न तु निवृत्तिधर्मं शमदमादियुक्तसंन्यासमित्याह— केवलमिति। वैदिकं वेदोक्तं कर्म, प्रवृत्तिमार्गमिति भावः। अनुप्रपन्ना अनुसृत्य प्राप्ताः, प्रवृत्तिमार्गनिरतान् पूर्वान् मरीच्यादीननुसृत्य स्वयमपि तत्र प्रवृत्ता इत्यर्थः। पूर्वपूर्वजन्मकृतकर्मवासना- मनुसृत्य तत्रैव प्रवृत्ता इति वा। गतं गमनं स्वर्गं प्रतीति भावः। आगतम् आगमनं मर्त्यलोकं प्रतीति भावः। गतागतयोः समाहारो गतागतं गतागते इत्यर्थः। जन्ममरणलक्षणः संसारस्तेषामवर्जनीय इति भावः। एवकारार्थमाह— न त्विति। क्वचिदपि लोके स्वातन्त्यं स्वतन्त्रेणावस्थानं नैव लभन्ते। अहो! कामकामानां कर्मिणां दुरवस्थेति भावः॥२१॥

निरस्तपापा इति यावत्॥२०॥

तर्हि स्वर्गप्राप्तिरपि भगवत्प्राप्तितुल्येत्याशङ्क्याह— ते तमिति। पुण्ये स्वर्गप्राप्तिहेताविति यावत्। प्रसिद्ध्यर्थो हिशब्दः। त्रयाणां हौत्रादीनां वेदत्रयविहितानां धर्माणां समाहारस्त्रिधर्मं, तदेव त्रैधर्म्यम्६, तदनुप्रपन्नाः। तदनुगता इति यावत्। कामकामानां गमनागमनद्वारा कामितफलाप्तिश्चेदिष्टमेव चेष्टितमित्याशङ्क्याह— गतेति॥२१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। १एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

तिसृणां विद्यमानां[विद्यानां] समाहारस्त्रैविद्या५ विद्यते एषां ते त्रैविद्याः। वेदत्रयविहितकर्मकारिण इत्यर्थः॥२०॥

॥ इति श्रीगीताभाष्यटिप्पणे नवमोऽध्यायः॥

अ. ९. श्लो. १९-२१ ] १. ‘एवं हि त्रैधर्म्यमनुप्रपन्नाः’ इति गीतायां भाष्ये च टीकानुसारी पाठः। २. ‘देवानां भोगा देवभोगास्तान्’ ‘देवानां भोगान्’ इति च पा.। ३. ‘एवं हि’ इति पा.। ४. ‘त्रैधर्म्यम्’ इति पा.। ५. ‘त्रैविद्य’मिति पाठः संभाव्यते। ६. चातुर्वर्ण्यमितिवत् स्वार्थे ष्यञिति भावः। ७. द्र. रामकविव्याख्या भ.गी. ८.२४ । पृ ४४९

[[४८२]]

अनन्या इति। मत्तोऽन्ये न भवन्तीत्यनन्याः, मदभिन्ना इत्यर्थः। कथमभेदो जीवेश्वरयोरत्यन्तविलक्षणयोः? अत आह— आत्मत्वेनेति। यदेव जीवस्य स्वरूपभूतं चैतन्यं तदेवेश्वर इति जीवस्यात्मैवेश्वरः। स्वात्मा हि स्वस्मादपृथग्भूतः, स्वस्यैवात्मत्वात्। तथा चेश्वरस्य जीवात्मत्वाज्जीवेश्वरयोरपृथग्भाव इति भावः। गताः प्राप्ताः। नारायण ईश्वरोऽहमेवेति प्रत्ययं प्रतिपन्ना इत्यर्थः। संन्यासिन इति। त्यक्तसर्वकर्माण इत्यर्थः। कर्मिणामात्म- स्वरूपचिन्तनानधिकारात् , तेषां तदसम्भवाच्चेति भावः। पर्युपासते परितः सर्वतः, सर्वावस्थास्वित्यर्थः। उपासते भजन्ते; आत्मारामा भवन्तीत्यर्थः। अभियोग आत्मनि चित्तसमाधानम्। तद्रक्षणं प्राप्तस्य परिरक्षणम्। यदणिमाद्यैश्वर्यं ज्ञानिभिर्ज्ञानान्न प्राप्तं तदीश्वरः स्वयमेव ज्ञानिनः प्रापयति; यत्तु ज्ञानं तैः प्राप्तं तच्च परिरक्षति, विस्मरणाद्यजननद्वारेति भावः। कुत ईश्वरो ज्ञानिनां योगक्षेमं वहतीत्यत आह— ज्ञानी त्विति। ज्ञानिनामीश्वरात्मत्वेनेश्वरस्य प्रियत्वादित्यर्थः। आत्मनः प्रियत्वं च प्रसिद्धम्। न च जीवस्यैवेश्वर आत्मेति कथमीश्वरस्य जीव आत्मा स्यादिति वाच्यम्; एकमेव चैतन्यं जीवस्येश्वरस्य च स्वरूपमितीश्वरस्याप्यात्मा जीव एव। आत्मा हि स्वरूपम्। तस्माच्चैतन्यरूपा ज्ञानिन ईश्वरस्यात्मभूता एव। चैतन्यरूप ईश्वरश्च ज्ञानिनामात्मभूत एव। अत एव ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इत्युक्तमत्रैव। आत्मा हि प्रिय इति। न च अज्ञा अपि चैतन्यरूपत्वात् प्रिया एवेश्वरस्येति वाच्यम्; अज्ञानां देहादेरेवात्मत्वेनाभिमतत्वेन तस्याचैतन्यरूपत्वान्नेश्वरप्रियत्वमिति। नन्वीश्वरो ज्ञानिनामेव योगक्षेमं वहतीति कथमुच्यते? भक्तानामपि तं वहत्येवेत्याक्षिपति— नन्विति। अन्येषामिति। ज्ञानि- ये पुनर्निष्कामाः सम्यग्दर्शिनः— अनन्या इति। अनन्याः अपृथग्भूताः, परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तो मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगोऽप्राप्तस्य प्रापणं, क्षेमस्तद्रक्षणं, तदुभयं वहामि प्रापयामि अहम्। ‘ज्ञानी त्वात्मैव मे मतम्’ (भ.गी. ७.१८) ‘स च मम प्रियः’ (भ.गी.७.१७) यस्मात् तस्मात् ते ममात्मभूताः प्रियाश्चेति। १नन्वन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान्। २सत्यमेवं, वहत्येव। किन्त्वयं विशेषः- अन्ये ये भक्तास्ते फलमनभिसन्धाय त्वामेवाराधयतां सम्यग्दर्शननिष्ठानामत्यन्तनिष्कामानां[णां] कथं योगक्षेमौ स्यातामित्याशङ्क्याह— ये पुनरिति। तेषां योगक्षेमं वहामीत्युत्तरत्र सम्बन्धः। येभ्योऽन्यो न विद्यत इति व्युत्पत्तिमाश्रित्याह— अपृथगिति। कार्यस्येव कारणे तादात्म्यं व्यावर्तयति— परमिति। अहमेव वासुदेवः सर्वात्मा, न मत्तोऽन्यत् किञ्चिदस्तीति ज्ञात्वा तमेव प्रत्यञ्चं सदा ध्यायन्त इत्याह— चिन्तयन्त इति। प्राकृतान् व्यावर्त्य मुख्यानधिकारिणो निर्दिशति— संन्यासिन इति। पर्युपासते परितः सर्वतोऽनवच्छिन्नतया पश्यन्तीत्यर्थः। नित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापृतानामित्याह—सततेति। योगश्च क्षेमश्च योगक्षेमम्। तत्रापुनरुक्त- मर्थमाह— योग इति। किमर्थं परमार्थदर्शिनां योगक्षेमं वहसीत्याशङ्क्याह— ज्ञानी त्विति। अतस्तेषां योगक्षेमं वहामीति सम्बन्धः। सम्यग्दर्शननिष्ठानामेव योगक्षेमं वहति भगवानिति विशेषणममृष्यमाणः शङ्कते— नन्विति। अन्येषामपि भक्तानां भगवान् योगक्षेमं वहतीत्येतदङ्गीकरोति— सत्यमिति। तर्हि भक्तेषु ज्ञानिषु च विशेषो नास्तीति पृच्छति— किन्त्विति। तत्र विशेषं प्रतिज्ञाय विवृणोति— अयमित्यादिना। योगक्षेममुद्दिश्य स्वयमीहन्ते, चेष्टां कुर्वन्तीति यावत्। आत्मविदां स्वार्थं योगक्षेममुद्दिश्य चेष्टाऽभावं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥

१. ‘नन्वन्येषामपि भक्तानाम् …. अतो भगवानेव तेषां योगक्षेमं वहतीति’ इत्यन्तं भाष्यमेव रापुस्तके एतच्छ्लोकावतारिकारूपेण व्याख्याने मुद्रितम्। मूले तु तत्र तन्न दृश्यते। एतत्तु प्रामादिकम् , अग्रे तद्भाष्यव्याख्यानदर्शनात्। २. ‘सत्यम् , वहत्येव’ इति पा.।

[[४८३]]

स्वात्मार्थं स्वयमपि योगक्षेममीहन्ते। अनन्यदर्शिनस्तु नात्मार्थं योगक्षेममीहन्ते। न हि ते जीविते मरणे वाऽऽत्मनो गृद्धिं कुर्वन्ति। केवलमेव भगवच्छरणास्ते। अतो भगवानेव तेषां योगक्षेमं वहतीति॥२२॥

नन्वन्या अपि देवतास्त्वमेव चेत् तद्भक्ताश्च त्वामेव १यजन्ते। सत्यमेवम्— य इति। येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ता अन्यदेवताभक्ताः सन्तो यजन्ते पूजयन्ति श्रद्धयाऽऽस्तिक्यबुद्ध्याऽन्विताः अनुगताः, तेऽपि मामेव कौन्तेय ! यजन्ति अविधिपूर्वकम् , अविधिः अज्ञानम् , तत्पूर्वकम् अज्ञानपूर्वकं यजन्त इत्यर्थः॥२३॥

कस्मात् तेऽविधिपूर्वकं यजन्त इत्युच्यते यस्माद्— अहमिति। अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च भिन्नानामित्यर्थः। आत्मार्थं स्वार्थम्। ईहन्ते वाञ्छन्ति। गर्धिं काङ्क्षाम्। ‘गृधू अभिकाङ्क्षाया’मिति धातुः। भावार्थे २क्तिन्। हिशब्दः ‘नाभिनन्देत मरणं नाभिनन्देत जीवितम्। कालमेव प्रतीक्षेत निर्देशं भृतको यथा॥’ इति नारदपरिव्राजकोपनिषत्प्रसिद्धिं दर्शयति। भगवान् शरणमाश्रयो येषां ते भगवच्छरणाः। आत्मैकनिरता इत्यर्थः। न तु भक्तवद् योगक्षेमादिनिरता इति भावः। ज्ञानिभिरकाङ्क्षित- मपि योगक्षेमं भगवान् स्वयमेव वहति; भक्तैस्तु काङ्क्षितमेव वहति भगवानित्ययं विशेष इति फलितार्थः। तथा च भक्ता भगवता स्वयोगक्षेमं वाहयन्ति, न तु भगवान् स्वयमेव भक्तानां योगक्षेमं वहति। ज्ञानिनस्तु न भगवता तं वाहयन्ति, किन्तु भगवानेव ज्ञानिनां तं वहतीति सिद्धम्। यत्तु रामानुजः - मद्भक्तानां मत्प्राप्तिरूपं योगम् , अपुनरावृत्तिलक्षणं क्षेमं च वहामीति। तन्मन्दम् ; ईश्वरस्य परिपूर्णचैतन्यरूपस्यात्मनः नित्याप्तत्वेनाप्राप्तत्वाभावात्। ईश्वरं प्राप्तानां पुनरावृत्तिशङ्काया एवाभावेनापुनरावृत्तिं वहामीति वचनस्य व्यर्थत्वेनायुक्तत्वात्॥२२॥

य इति। नन्वादित्यादीनां त्वद्रूपत्वस्योक्तत्वादादित्यादिचिन्तकानामपि योगक्षेमं त्वयैव वहनीयम् , आदित्यादिभक्तानामपि त्वद्भक्तत्वाविशेषादित्याक्षिपति— नन्विति। येऽप्यन्यदेवताभक्ताः श्रद्धयाऽन्विताः सन्तोऽन्यदेवता यजन्ते, तेऽपि मामेव यजन्ते ममैवान्यदेवतारूपत्वात्। किन्त्वविधिपूर्वकं यजन्ते। न हि तेषामादित्यादिभक्तानाम् आदित्यादिदेवता ईश्वरात्मिका इति ज्ञानमस्तीति भावः॥२३॥

स्पष्टयति— न हीति। गृद्धिः अपेक्षा, कामना, तामित्येतत्। ज्ञानिनां तर्हि सर्वत्रानास्थेत्याशङ्क्याह— केवलमिति। तेषां तदेकशरणत्वे फलितमाह— अत इति। इतिशब्दो विशेषशब्देन सम्बध्यते॥२२॥

तत्तद्देवतात्मना परस्यैवात्मनः स्थित्यभ्युपगमाद् देवतान्तरपराणामपि भगवच्छरणत्वाविशेषात् तदेकनिष्ठत्वमकिञ्चित्करमिति मन्वानः शङ्कते— नन्विति। उक्तमङ्गीकृत्य परिहरति— सत्यमित्यादिना। देवतान्तरयाजिनां भगवद्याजिभ्यो विशेषमाह— अविधीति। तद् व्याकरोति— अविधिरिति॥२३॥

ननु वस्वादित्येन्द्रादिज्ञानपूर्वकमेव तद्भक्तास्तद्याजिनो भवन्तीति कथमविधिपूर्वकं तेषां यजनमिति शङ्कते— कस्मादिति। देवतान्तरयाजिनां यजनमविधिपूर्वकमित्यत्र हेत्वर्थत्वेन श्लोकमुत्थापयति— उच्यत इति। सर्वेषां द्विविधानां यज्ञानां वस्वादिदेवतात्वेना-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः। तेऽपि मामेव कौन्तेय! यजन्त्यविधिपूर्वकम् ॥२३॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। १. ‘भजन्ते’ इति पा.। २. क्तिन्प्रत्यये ‘गृद्धि’ इति रूपं स्यात्। अतः इन्प्रत्ययेन निर्वाह्यम्। अथवा गृद्धिमित्येवात्र पाठः स्यात्।

[[अ. ९. श्लो. २२-२४]] [[४८४]]

अहमिति। देवतात्वेनेति। इन्द्रादिदेवतारूपत्वेनेत्यर्थः। यज्ञेषु हविर्भागभोक्तारो ये इन्द्रादित्यशङ्करादयो देवास्ते सर्वे मयीश्वरे स्वात्मनि कल्पिता इति मदात्मका एव। इन्द्रादिदेवताशरीरावच्छिन्नचैतन्यस्येश्वरत्वाद् इन्द्रादीनामीश्वरात्मकत्वमिति वा। अहं स्वामी प्रभुर्यस्य स मत्स्वामिकः। मम विष्णोरधियज्ञत्वाद् यज्ञस्याहं प्रभुरित्याह— अधियज्ञ इति। यथावदिति। एक एवेश्वर इन्द्रादि- सर्वदेवतात्मकः सर्वयज्ञात्मकः सर्वयज्ञप्रभुरित्यादिरूपेणेत्यर्थः। च्यवन्ति भ्रश्यन्ति। कस्मादपादानादित्यत आह— यागफलादिति। ज्ञानादिलक्षणादिति भावः। न तु स्वर्गादिलक्षणात् , तस्य तेषामवश्यम्भावित्वस्य वक्ष्यमाणत्वात्। ये तु ज्ञानिनः सर्वात्मकमीश्वरं ज्ञात्वा यत्किञ्चिदपि फलमनभिसन्धाय केवलं यज्ञादिकर्म कुर्वन्ति, ते ज्ञानप्राप्तिद्वारा मोक्षं लभन्ते, न त्वज्ञा इति भावः॥२४॥

यान्तीति। देवान् यान्ति देवलोकं गच्छन्तीत्यर्थः। एवमुत्तरत्रापि। वैष्णवा विष्णोरीश्वरस्यात्मनो भक्ताः। मां यान्ति ईश्वर- सायुज्यं लभन्त इत्यर्थः। ते देवादिभक्ता अल्पफलं क्षुद्रफलं स्वर्गादिकम् , नश्वरत्वात् तस्य। अनेन विष्णुभक्तानां विष्णुसायुज्यरूप- महाफलप्राप्तिरिति द्योतितम्। भाष्यार्कप्रकाशः न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४॥

यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥

सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च, प्रभुरेव च। मत्स्वामिको हि यज्ञः ‘अधियज्ञोऽहमेवात्र’ (भ.गी.८.४) इति ह्युक्तम्। तथा न तु मामभिजानन्ति तत्त्वेन यथावत्। अतश्चाविधिपूर्वकमिष्ट्वा यागफलाच्च्यवन्ति प्रच्यवन्ते ते॥२४॥

१येऽप्यन्यदेवता भक्तिमत्त्वेनाविधिपूर्वकं यजन्ते, तेषामपि यागफलमवश्यम्भावि, कथम्?— यान्तीति। यान्ति गच्छन्ति देवव्रताः देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रताः देवान् यान्ति। पितॄन् अग्निष्वात्तादीन् यान्ति पितृव्रताः, श्राद्धादिक्रियापराः पितृभक्ताः। भूतानि विनायकमातृगणचतुर्भगिन्यादीनि२[चतुःषष्टियोगिन्यादीनि] यान्ति भूतेज्या भूतानां पूजकाः। यान्ति मद्याजिनो मद्यजनशीला वैष्णवाः मामेव ३(यान्ति)। समानेऽप्यायासे मामेव न भजन्तेऽज्ञानात् , तेन तेऽल्पफलभाजो भवन्तीत्यर्थः॥२५॥

१. ‘येऽप्यन्यदेवताभक्तास्तत्त्वेनाविधिपूर्वकं’ इति पा.। २. ‘चतुर्भगिन्यादीनि’ इत्यस्य स्थाने कोष्ठकस्थः पाठः भाष्योत्कर्षदीपिकायां दृष्टः, आनन्दाश्रमपुस्तके पाठान्तरत्वेन निर्दिष्टश्च। स एव प्रसिद्धार्थकत्वेन युक्त इति भाति। अत्र विनायकाः इति बहुवचनान्तेन विग्रहो बोध्यः। ते च भूतगणविशेषाः। ३. क्वचिन्न। आनन्दगिरिकृतव्याख्या हमेव भोक्ता, स्वेनान्तर्यामिरूपेण प्रभुश्चाहमेवेति प्रसिद्धमेतदिति हिशब्दः। प्रभुरेव चेत्युक्तं विवृणोति— मत्स्वामिको हीति। तत्र पूर्वा- ध्यायगतवाक्यं प्रमाणयति— अधियज्ञोऽहमिति। तथापि देवतान्तरयाजिनां यजनमविधिपूर्वकमिति कुतः सिद्धम्? तत्राह— तथेति। ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सतीति यावत्। तयोर्भोक्तृप्रभ्वोर्भावस्तत्त्वं, तेन भोक्तृत्वेन प्रभुत्वेन च मां यथावद् यतो न जानन्त्यतो भोक्तृत्वादिना ममाज्ञानान्मय्यनर्पितकर्माणश्च्यवन्ते कर्मफलादित्याह— अतश्चेति ॥२४॥

यद्यन्यदेवताभक्ता भगवत्तत्त्वाज्ञानात् कर्मफलाच्च्यवन्ते, तर्हि तेषां देवतान्तरयजनमकिञ्चित्करमित्याशङ्क्याह— येऽपीति। देवतान्तरयाजिनामनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपफलप्राप्तिध्रौव्यान्न तदकिञ्चित्करमित्यर्थः। देवतान्तरयाजिनामावश्यकं तत्फलमाशङ्कापूर्वकमुदाहरति— कथमित्यादिना। नियमो बल्युपहारप्रदक्षिणप्रह्वीभावादिरित्यर्थः। देवतान्तराराधनस्यान्तवत्फलमुक्त्वा भगवदाराधनस्यानन्तफलत्वमाह— यान्तीति। भगवदाराधनस्यानन्तफलत्वे देवतान्तराराधनं त्यक्त्वा भगदाराधनमेव युक्तम् आयास- साम्यात् , फलातिरेकाच्चेत्याशङ्क्याह— समानेऽपीति। अज्ञानाधीनत्वेन देवतान्तराराधनवतां फलतो न्यूनतां दर्शयति— तेनेति ॥२५॥

[[४८५]]

यत्तु रामानुजः - ‘देवव्रता देवान् यजामह इति सङ्कल्पशालिनः देवान् यान्ती’त्यादि। तन्मन्दम् ; सङ्कल्पमात्रेण क्रियाकरणं विना फलसिद्ध्ययोगात्। अन्यथा ‘अहं काशीं गमिष्यामी’ति सङ्कल्पवशादेव काशीगमनं विनाऽपि गङ्गास्नानविश्वेश्वरदर्शनादिजन्य- फलसिद्धिप्रसङ्गात्॥२५॥

पत्रमिति। न केवलमित्यस्य अनन्तफलमित्यनेन सम्बद्धः[न्धः], किन्तु मदाराधने सुखम् अनायासोऽप्यस्तीत्याह— सुखाराधन इति। सुखेनाराधनं यस्य स सुखाराधनः; सुखेनाराध्य इत्यर्थः। कथं तव सुखाराधनत्वमित्याक्षिपति - कथमिति। यो मे भक्त्या पत्रं पुष्पं फलं तोयं प्रयच्छति प्रयतात्मनो भक्त्युपहृतं तद् अहमश्नामि। शुद्धबुद्धेः सम्बन्धीति शेषः। मे मह्यं हृदयेशयात्मने सर्वव्यापिने परमात्मने इति वा। आदित्यमण्डलस्थाय पुरुषायेति वा। ईश्वराय पत्राद्युपहरणं च मानसिकमिति बोध्यम्। ननु अभोक्तुरीश्वरस्य कथं पत्राद्यशनमिति चेद्? अत एव गृह्णामीति व्याख्यातम् अश्नामीति पदं भाष्यकारैः। ईश्वरस्य सर्वव्यापित्वेन सर्वसंसृष्टत्वात् सर्वं तेन स्वीकृतमेवेति भावः। काल्यादिदेवताराधने तु रक्तमांसादिवस्तुसम्पादनप्रयासः, ईश्वराराधने तु पत्रपुष्पादीनां सर्वसुलभत्वान्न तत्सम्पादनप्रयास इति सुखाराधन ईश्वर इति श्लोकस्यान्वयः॥२६॥

यदिति।[अत इति।] यत एवं भक्तकर्तृकपत्राद्युपहरणेनापीश्वरस्तुष्टस्तस्मै भक्ताय महाफलं प्रदत्ते, तस्मादित्यर्थः। यद् युद्धादिकं गमनादिकं वा कर्म करोषि, स्वतो यदृच्छया प्राप्तं यदन्नं व्रीह्यादिकमश्नासि, यदाज्यादिकं जुहोषि अग्नौ प्रक्षिपसि। इदमेवाह— श्रौतं स्मार्तं वा हवनं निर्वर्तयसीति। श्रुतिस्मृतिसिद्धां होमक्रियां निष्पादयसीत्यर्थः। मदर्पणमिति। ईश्वरार्पणमस्त्विति मनःशुद्धिपूर्वकं अनन्तफलत्वाद् भगवदाराधनमेव कर्तव्यमित्युक्तम् , सुकरत्वाच्च तथेत्याह— न केवलमिति। भगवदाराधनस्य सुकरत्वमेव प्रश्नपूर्वकं प्रपञ्चयति— कथमित्यादिना। यद्धि पुष्पादिकं भक्तिपूर्वकं मदर्थमर्पितम् , तेनायं शुद्धचेतास्तपस्वी मामाराधयतीत्यहमव- धारयामीत्याह— पत्रमित्यादिना॥२६॥

तदाराधनस्य सुकरत्वे तदेवावश्यकमित्याह— यत इति। स्वतः शास्त्रादृते प्राप्तं गमनादीति यावत्। यदश्नासि यं कञ्चिद् भोगं भुङ्क्षे। हवनस्य स्वतस्त्वं वारयति— श्रौतमिति। मत्समर्पणं तत् सर्वं मह्यं समर्पयेत्यर्थः॥२७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२६॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥२७॥

न केवलं मद्भक्तानामनावृत्तिलक्षणमनन्तफलम् , सुखाराधनश्चाहम् , कथम् ?—पत्रमिति। पत्रं पुष्पं फलं तोयम् उदकं यो मे मह्यं भक्त्या प्रयच्छति, तद् अहं पत्रादि भक्त्योपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः॥२६॥

यत एवम् अतः— यदिति। यत् करोषि स्वतः प्राप्तं, यदश्नासि, यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यद् ददासि प्रयच्छसि ब्राह्मणादिभ्यो हिरण्यान्नाज्यादि , यत् तपस्यसि तपश्चरसि, कौन्तेय ! तत् कुरुष्व मदर्पणं मत्समर्पणम्१॥२७॥

अ. ९. श्लो. २४-२७ ] १. ‘नारायणायेति समर्पयामी’ति भावना कर्तव्येति यावत्।

[[४८६]]

मह्यं समर्पयेत्यर्थः। एवं सति फलसङ्गत्यागो भवतीति भावः॥२७॥

तमेव भावं स्फुटयति— शुभाशुभेति। एवं कुर्वत इति। सर्वमपीश्वरार्पणं कुर्वत इत्यर्थः। फलसङ्गे सति कर्माणि शुभाशुभ- फलैर्बध्नन्ति पुरुषम् , तत्त्यागे तु नास्त्यस्य कर्मबन्धः। तत्त्यागश्च तस्येश्वरार्पणाद् भवतीति सर्वमीश्वरायार्पयितव्यमिति भावः। मोक्ष्यसे त्यक्ष्यसे, निर्मुक्तकर्मबन्धनो भविष्यसि, मुक्तो भविष्यसीति यावत्। सोऽयं पूर्वोक्तः ईश्वरार्पणबुद्ध्या कर्मकरणात्मकः संन्यास- योगः, ईश्वरार्पणतया फलसङ्गत्यागात् संन्यासः, संन्यासशब्दस्य त्यागार्थकत्वात् , कर्मानुष्ठानरूपत्वाद् योग इत्याह— कर्मत्वादिति। जीवन्नेव बन्धनैः कर्मभिः विमुक्तः सन् जीवन्मुक्तिं प्राप्तः सन्नित्यर्थः। सति कर्मसु कर्तृत्वाभिमाने फलसङ्गे च तत्सिद्ध्यसिद्धिभ्यां हर्षशोकादिविकारः स्यात्, तदभावे तु विकाराभावाज्जीवन्मुक्तिरिति भावः। निर्विकारतयाऽवस्थानस्यैव जीवन्मुक्तिरूपत्वात्। पतिते मृते सति। मामुपैष्यसि मत्सायुज्यं प्राप्स्यसि; ब्रह्मैव भविष्यसीत्यर्थः॥२८॥

सम इति। रागद्वेषवानिति। भक्तेषु रागः, अभक्तेषु द्वेषः। तावस्य स्त इति रागद्वेषवान्। प्राकृतराजादिवदिति भावः। तन्न भगवतो रागद्वेषवत्त्वं न। सम इति। सर्वभूतेष्वात्मन एकरूपत्वेन; सर्वघटेष्वाकाशस्येव स्थितत्वादिति भावः। एवं सर्वत्रैकरूपत्वाद- विक्रियत्वाच्चात्मनो न कश्चिद् द्वेष्यः, न कश्चित् प्रियश्चास्ति। प्रीतिद्वेषयोर्निर्धर्मके आत्मन्ययोगादिति भावः। अस्य सर्वसमत्वे दृष्टान्तमाह— अग्निवदिति। दृष्टान्तं विवृणोति— यथेति। अग्नेः शीतापनयनं स्वभावः, स चाग्निः स्वसमीपं प्राप्तानां सर्वेषामपि शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥

किमतो भवति? तदाह— एवमिति। भगवदर्पणबुद्ध्या सर्वकर्म कुर्वतो जीवन्मुक्तस्य प्रारब्धकर्मावसाने विदेहकैवल्यमावश्यक- मित्याह— शुभेत्यादिना। भगवदर्पणकरणान्मुक्तिः, संन्यासयोगाच्चेति साधनद्वयशङ्कां १शातयति— सोऽयमिति ॥२८॥

भगवतो रागद्वेषवत्त्वेनानीश्वरत्वमाशङ्क्य परिहरति— रागेत्यादिना। तर्हि भगवद्भजनम् अकिञ्चित्करमित्याशङ्क्याह— अग्नि- वदिति। तत् प्रपञ्चयति— यथेति। भक्तानभक्तांश्च २अनुगृह्णतोऽननुगृह्णतश्च भगवतो न कथं रागादिमत्त्वमित्याशङ्क्याह— ये भजन्तीति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एवं कुर्वतस्तव यद्भवति तच्छृणु— शुभाशुभफलैरिति। शुभाशुभफलैः (एवं) शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि, तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि, तैः कर्मबन्धनैः एवं मत्समर्पणं कुर्वन् मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासश्चासौ मत्समर्पणतया कर्मत्वाद् योगश्चासाविति, तेन संन्यासयोगेन युक्त आत्माऽन्तःकरणं यस्य तव, स त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैर्जीवन्नेव, पतिते चास्मिञ्शरीरे माम् उपैष्यसि आगमिष्यसि॥२८॥

रागद्वेषवांस्तर्हि भगवान् , यतो भक्ताननुगृह्णाति, नेतरानिति। तन्न ; — समोऽहमिति। समः तुल्योऽहं सर्व- भूतेषु । न मे द्वेष्योऽस्ति न प्रियः। अग्निवदहम् । दूरस्थानां यथाऽग्निः शीतं नापनयति, समीपमुपसर्पतामपनयति, तथाऽहं भक्ताननुगृह्णामि, नेतरान्। ये भजन्ति तु माम् ईश्वरं भक्त्या, मयि ते स्वभावत एव, न मम रागनिमित्तं, (मयि) १. नाशयतीत्यर्थः। शदधातोः णिजन्तस्य रूपम्। ‘शदेरगतौ तः’ (पा.सू. ७-३-४२) इति अगत्यर्थत्वात् तकारः। २. भक्तान् अनुगृह्णतोऽभक्तांश्चाननुगृह्णतो भगवतः इति यथाक्रममन्वयः।

[[४८७]]

वर्तन्ते। तेषु चाप्यहं स्वभावत एव वर्ते, नेतरेषु । नैतावता तेषु द्वेषो मम॥२९॥

अविशेषेणैव शीतमपनयति; स्वसमीपमगतानां तु न; नैतावताऽग्नेः रागद्वेषरूपः पक्षपातः; किन्त्वग्निसमीपाप्राप्तिः पुरुषस्यैवापराधः। यदि समीपं प्राप्तानां मध्ये केषाञ्चिच्छीतमपनीय केषाञ्चिन्नापनयेत् तर्हि स दोषः स्यादग्नेः, न त्वेतदस्ति। तस्माद् अग्निर्यथा सर्वसमः तथा परमेश्वरोऽपि स्वमाश्रिताननुगृह्णाति, नेतरानिति कृत्वा भगवदनाश्रयणं पुरुषस्यैव दोषः, न तु भगवतः इति। ननु अग्नेः परिच्छिन्नत्वाद् दूरस्थानामग्निसेवा न स्याद् आत्मनस्तु सर्वव्यापिनः कथं कैश्चिदसेव्यत्वमिति चेद्? नैष दोषः - सेवाया ज्ञानपूर्वकत्वात् सर्वव्यापिनमप्यात्मानं ये न विदन्ति, ते आत्मना नित्यसङ्गता अपि आत्मानं नैव सेवन्ते; यथा स्वगृहस्थमपि निधिं ये न विदन्ति, ते तं न भजन्त एव। यथा वा स्वकण्ठगतमपि चामीकरं ये विस्मृतवन्तस्ते तं न भजन्त एव, तद्वदिति। भक्तानामीश्वरे वर्तनम् , ईश्वरस्य भक्तेषु वर्तनं च अग्नेरौष्ण्यवत् स्वभाव एवेत्याह— ये भजन्तीति। स्वभावत एवेत्येवकारार्थमाह— न मम रागनिमित्तमिति। भक्तानां मयि वर्तने, मम भक्तेषु वर्तने वा, मम भक्तानां वा रागो न निमित्तं, किन्तु स्वभाव एवेत्यर्थः। तथा अभक्तानां मय्यवर्तने, ममाभक्तेष्ववर्तने मम भक्तानां वा द्वेषो न निमित्तं, किन्तु स्वभाव एवेत्याह— नैतावतेति। भक्तानामीश्वरे वर्तनं नाम ईश्वरपरायणत्वम् ; तस्य च भक्तेषु वर्तनं भक्तपरायणत्वमिति बोध्यम्। न च ज्ञानिनां स्वात्मपरायणत्वेन भवितव्यत्वात् कथमीश्वरपरायणत्वम् , ईश्वरस्य वा आत्मारामस्य कथं भक्तपरायणत्वमिति वाच्यम्; ज्ञानिनामात्मन एवेश्वरत्वाद् , ईश्वरस्य च भक्तानामेवात्मत्वात्। भक्तोऽत्र ज्ञानी प्रकरणाद् , आत्मभक्तेश्च ज्ञानसाध्यत्वात्। तथा च ज्ञानिनाऽऽत्मत्वेनाभिमतं यच्चैतन्यं तस्येश्वरत्वात् ज्ञानिनि वर्तमानः ईश्वरः आत्मनि वर्तमान एव। ईश्वरे वर्तमानो ज्ञानी च स्वात्मनि वर्तमान एवेति ज्ञानीश्वरावुभावप्यात्मनि वर्तनादात्मपरायणावेवेति। नात्र जीवेश्वरभेदः प्रसञ्जनीयः, मयीश्वरे स्वात्मभूते ते वर्तन्ते, तेषु च स्वात्मभूतेषु ज्ञानिष्वहं वर्त इत्यर्थात्। न च ज्ञानिनामीश्वरात्मत्वे विवदितव्यम् , ‘ज्ञानी त्वात्मैव मे मत’मित्यत्रैवोक्तत्वात्। ननु मयि ते तेषु चाहमिति अस्मत्तच्छब्दाभ्यां जीवेश्वरयोर्भेदेन निर्देशात् , जीवानां च बहुत्वेन निर्देशात् कथं जीवानामेकेश्वराभेद इति चेद्? उच्यते— सप्तम्यन्तयोरस्मत्तच्छब्दयोर्लक्षणया चैतन्यमात्रवाचित्वात् प्रथमान्तयोरभिधया प्रमातृ- वाचित्वात् प्रमातॄणां च बहुत्वात् , जीववदीश्वरस्यापि प्रमातृत्वस्याध्यासिकत्वात् , प्रमातुरीश्वरात् सर्वज्ञात् प्रमातारो जीवाः किञ्चिज्ज्ञा भिन्ना एव, बहव एव च। पारमार्थिकं तु जीवानामीश्वरस्य च स्वरूपं चैतन्यमेवेति सिद्धो जीवेश्वराभेदश्चेति। यत्तु वेदान्तदेशिकः - अहं च ते च अन्योन्यं पित्रादिष्विव न्यस्तभरा इति पिण्डितार्थ इति। तत्तुच्छम् , ईश्वरे जीवानां न्यस्त- भरत्वेऽपि जीवेष्वीश्वरस्य न्यस्तभरत्वानुपपत्तेः। ईश्वरो हि स्वतन्त्रः सर्वरक्षकश्चेति नास्येतरकर्तृकरक्षापेक्षा, ययेश्वरः स्वरक्षाभरं जीवे न्यसेत्। जीवस्तु परतन्त्रः आत्मानं रक्षितुमक्षमश्चेति स्वरक्षाभरमीश्वरे विन्यसेत्। अत एव हि जीवानामीश्वरशरणागतिः, न तु जीव- शरणागतिरीश्वरस्य। अन्यथा ईश्वरस्येश्वरत्वमेव नश्येदिति॥२९॥

ये वर्णाश्रमादिधर्मैर्मां भजन्ति, ते तेनैव भजनेनाचिन्त्यमाहात्म्येन परिशुद्धबुद्धयो मयि १मत्समीपे वर्तन्ते, मदभिव्यक्तियोग्यचित्ता भवन्ति। तुशब्दोऽस्य विशेषस्य द्योतनार्थः। तेषु च समीपे तेषामहमपि स्वभावतो वर्तमानस्तदनुग्रहपरो भवामि। २यथा व्यापकमपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति, तथा परमेश्वरोऽवर्जनीयतया भक्तिनिरस्तसमस्तकलुषसत्त्वेषु पुरुषेषु ३सन्निधत्ते, ‘दैवीं प्रकृतिमाश्रिताः मां भजन्ती’त्युक्तत्वादित्यर्थः॥२९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. ९. श्लो. २८-२९ ] १. मयीति सप्तमीं सामीप्यपरतया व्याचष्टे— मत्समीप इति। सर्वव्यापकस्य परमेश्वरस्याव्यवहितदेशवृत्तित्वरूपमुख्यसामीप्यस्य सर्वत्राविशेषात् तात्पर्यमाह— मदभिव्यक्तियोग्यचित्ता इति। २. नन्वेतावता कथं भगवतो वैषम्यपरिहारः? यावता भक्तानेव तच्चित्ते स्फुरन्ननुगृह्णाति, नेतरान् इति वैषम्यभाग् भवत्येवेत्याशङ्कां दृष्टान्तेन परिहरति—यथेत्यादिना। तथा च निष्कामकर्मानुष्ठानभक्तिजन्यचित्तशुद्धिः फलवैषम्ये हेतुरिति भावः। ३. तदीयान्तःकरणेषु प्रतिभासते इति यावत्।

[[४८८]]

शृणु मद्भक्तेर्माहात्म्यम्— अपि चेदिति। अपि चेद् यद्यपि सुदुराचारः, सुष्ठु दुराचारः सुदुराचारः, अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभाग् अनन्यभक्तिः सन् साधुरेव सम्यग्वृत्त एव स मन्तव्यो ज्ञातव्यः। सम्यग् यथावद् व्यवसितो हि स यस्मात् साधुनिश्चयः सः॥३०॥

उत्सृज्य च बाह्यां दुराचारताम् अन्तः सम्यग्व्यवसायसामर्थ्यात्— क्षिप्रमिति। क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्त एव। शश्वद् नित्यं शान्तिं चोपशमं निगच्छति प्राप्नोति। शृणु परमार्थम् , कौन्तेय! प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु - न मे मम भक्तो मयि समर्पितान्तरात्मा मद्भक्तो न प्रणश्यति - इति॥३१॥

किञ्च— मां हीति। मां हि यस्मात् पार्थ ! व्यपाश्रित्य मामाश्रयत्वेन गृहीत्वा, येऽपि स्युः भवेयुः पापयोनयः, अपि चेदिति। सुदुराचारोऽपि अनन्यभाक् सन् मां भजते चेत् , सः साधुरेवेति मन्तव्यः, हि स सम्यग्व्यवसितः। सुष्टु दुष्ट आचारो यस्य स सुदुराचारः। अन्यं न भजत इति अनन्यभाक्। व्यवसितो निश्चितः, निश्चयवानिति यावत्। सम्यक् साधु व्यवसितं निश्चयो यस्य स सम्यग्व्यवसितः इत्येकं पदं वा। ‘ब्रह्मैवाह’मिति यस्य निश्चयज्ञानं तत्सामर्थ्यात् स पुरुषो दुराचारोऽपि साधुरेव, देहाद्यनात्मधर्मत्वादाचारस्य, न तेनात्मज्ञानिनः काऽपि क्षतिरात्मनो नित्यशुद्धबुद्धमुक्तस्वरूपत्वात् , ज्ञानिनश्चात्मत्वादिति भावः॥३०॥

क्षिप्रमिति। दुराचारोऽपि सम्यग्व्यवसायसामर्थ्यात् साधुरेवेत्युक्तं यत् तत् प्रौड्योक्तमेव। वस्तुतस्तु सम्यग्व्यवसायसामर्थ्यात् स दुराचारमुत्सृज्य सदाचार एव भवतीत्याह— उत्सृज्येति। धर्मे आत्मा चित्तं यस्य स धर्मात्मा। निगच्छति प्राप्नोति॥३१॥

मामिति। ये पापयोनयः स्युः, ते स्त्रियो वैश्याः शूद्रा अपि हे पार्थ! मां व्यपाश्रित्य परां गतिं यान्ति। हि यस्मादेवं तस्मा- दीश्वरभक्तो न प्रणश्यतीति त्वमेव प्रतिजानीहि। शूद्राणां वेदेषु वैदिकेषु कर्मसु चानधिकारत्वात् पापजन्मत्वम्। वैश्यानां द्विजत्वेन तत्राधिकारेऽपि धान्यादिक्रयविक्रियवृत्त्या पापित्वं तेषाम्। कलौ वैश्यानां शूद्रप्रायत्वादिति वा॥३२॥

प्रकृतां भगवद्भक्तिं स्तुवन् पापीयसामपि तत्राधिकारोऽस्तीति सूचयति— शृण्विति। सम्यग्वृत्त एव भगवद्भक्तो ज्ञातव्य इत्यत्र हेतुमाह— सम्यगिति॥३०॥

हेत्वर्थमेव प्रपञ्चयति— उत्सृज्येति। भगवन्तं भजमानस्य कथं दुराचारता परित्यक्ता भवतीत्याशङ्क्याह— क्षिप्रमिति। सति दुराचारे कथं धर्मचित्तत्वम्? तदाह— शश्वदिति। उपशमो १दुराचारादुपरमः। किमिति त्वद्भक्तस्य दुराचारादुपरतिरुच्यते? दुराचारोप- हतचेतस्तया किमित्यसौ न नङ्क्ष्यतीत्याशङ्क्याह— शृण्विति॥३१॥

इतश्च भगवद्भक्तिर्विधातव्येत्याह— किञ्चेति। न मे भक्तः प्रणश्यतीत्यत्र हेतुमाचक्षाणो भक्त्यधिकारे जातिनियमो नास्तीत्याह

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अपि चेत् सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥३०॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय ! प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥

मां हि पार्थ ! व्यपाश्रित्य येऽपि स्युः पापयोनयः। १. निवृत्तिरूपोपशमस्यावध्याकाङ्क्षां पूरयति— दुराचारादिति।

[[४८९]]

पापा योनिर्येषां ते पापयोनयः पापजन्मानः। के त इत्याह— स्त्रियो वैश्यास्तथा शूद्राः। तेऽपि यान्ति गच्छन्ति परां १गतिं प्रकृष्टां गतिम्॥३२॥

किं पुनरिति। किं पुनर्ब्राह्मणाः पुण्याः पुण्ययोनयो भक्ता राजर्षयस्तथा राजानश्च त ऋषयश्चेति राजर्षयः। यत एवम् अतोऽनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य, पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम्॥३३॥

कथम्?— मन्मना इति। मयि (वासुदेवे) मनो यस्य तव स त्वं मन्मना भव। तथा मद्भक्तो भव। मद्याजी किं पुनरिति। पापयोनयः स्त्रीवैश्यशूद्रा अपि भगवद्भक्ताश्चेत् परां गतिं यान्ति; किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश्च भग- वद्भक्ताः परां गतिं यान्तीति वक्तव्यमित्यर्थः। अर्थापत्ति(रिति)रियम् , कैमुत्येनार्थसाधनात्। यत एवमिति। भगवद्भजनाद् मनुष्याणां परमपदप्राप्तिर्यस्माद् भवति, तस्मादित्यर्थः। क्षणभङ्गुरं क्षणादेव भङ्गशीलम् , नित्यं मृत्योः सन्निहितत्वादिति भावः। एतेन भगवन्तं श्वो २भजिष्यामीत्येवं कालयापना न कर्तव्येति सिद्धम्। असुखमिति। रोगादि- भूयिष्ठत्वान्मनुष्यदेहस्येति भावः। एतेन विषयेषु न सक्तव्यमिति सूचितम् , तत्र सुखलेशस्याप्यभावात्। इदंशब्दस्य सन्निहित- वाचित्वादाह— मनुष्यलोकमिति। मनुष्यदेहं प्राप्येत्यर्थः। लोक्यते ज्ञायत इति लोको देह इति व्युत्पत्तेः। न च किमनित्येन मानवदेहेनेत्युपेक्षितव्यमित्याह— पुरुषार्थसाधनमिति। न हि पशुपक्ष्यादयः पुरुषार्थं मोक्षं साधयितुमर्हन्ति, तेषां विवेकाभावादिति भावः। ननु पतत्वयं मनुष्यदेहः, पुनर्मनुष्यदेहान्तरप्राप्तौ पुरुषार्थाय यतिष्य इत्यत आह— दुर्लभमिति। अतीतानेकजन्मार्जितसुकृत- परिपाकवशादेतन्मनुष्यदेहलाभः, अस्य नाशे तु पुनरेतादृशदेहप्राप्तिर्दुष्प्रापैवेत्यर्थः। अत एव भागवते प्रह्लादः– ‘कौमार आचरेत् प्राज्ञो धर्मान् भागवतानिह। दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्॥’ इत्युक्तवान्। मनुष्यत्वं लब्ध्वा मनुष्यजन्म प्राप्येत्यर्थः। वर्तमान इति शेषः। राजर्षिस्त्वमिति च३। मामीश्वरमात्मानं भजस्व॥३३॥

मन्मना इति। मन्मना भव, मद्भक्तो भव, मद्याजी भव, मां नमस्कुरु। एवं युक्त्वा मत्परायणः सन्नात्मानं मामेवैष्यसि। — मां हीति॥३२॥

यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति, तर्हि किमुत्तमजातिनिमित्तेन संन्यासादिना? किं वा सद्वृत्तेन? इत्याशङ्क्याह— किं पुनरिति। उत्तमजातिमतां ब्राह्मणादीनामतिशयेन परा गतिर्यतो लभ्यतेऽतो भगवद्भजनं तैरेकान्तेन विधातव्य- मित्याह— यत इति। मनुष्यदेहातिरिक्तेषु पश्वादिदेहेषु भगवद्भजनयोग्यताभावात् प्राप्ते मनुष्यत्वे तद्भजने प्रयतितव्यमित्याह— दुर्लभमिति ॥३३॥

भगवद्भक्तेरित्थंभावं पृच्छति— कथमिति। ईश्वरभजने इतिकर्तव्यतां दर्शयति— मन्मना इति। एवं भगवन्तं भजमानस्य मम

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। १. ‘गतिम्’ इति क्वचिन्न। २. इडागमः चिन्त्यः। ३. शेष इत्यनुषङ्गः।

[[अ. ९. श्लो. ३०-३४]] [[४९०]]

युक्त्वेत्यस्यार्थमाह— चित्तं समाधायेति। कुतस्तवात्मत्वम्? अत आह— अहं हीति। सर्वभूतात्मत्वान्ममात्मत्वमित्यर्थः। मत्परायणः अहं परमयनं परा गतिर्यस्य स तथोक्तः। इदमेवाह - अहं परा च गतिरिति। गतिः प्राप्यः। परायणशब्दगतपरपदार्थमाह— अनन्तमिति। अयनविशेषणत्वात् क्लीबत्वम्। परम् अनन्तम् अयनं गतिः परायणम् , अहमेव परायणं यस्य स मत्परायणः। एवम्भूतमिति। सर्वभूतानामात्मानं परायणं चेत्यर्थः। अतीतेनेति। युक्त्वैष्यसीत्यस्यातीतत्वम्। एष्यसि प्राप्स्यसि। यद्वा मत्परायण इत्यस्य मामेवैष्यसीत्यतीतेन सम्बन्धः, मत्परायणस्त्वं मामेवैष्यसीति। तदेवाह— मत्परायणः सन्नित्यर्थ इति। एवं युक्त्वा आत्मानं मामैवेष्यसि, मत्परायणश्च भविष्यसीति वाक्यद्वयान्वयभ्रमव्युदासायोक्तम्— अतीतेन सम्बन्ध इति। वाक्यद्वयान्वये तु ईश्वरसायुज्यप्राप्त्यनन्तरमपि मुक्तस्येश्वरपरायणत्वरूपकर्तव्यशेषसम्भव इत्येष दोषः। मुक्तस्य कृतकृत्यत्व- प्रसिद्धेः। न च मामेवैष्यसि युक्त्वैवमात्मानमिति समाप्तस्य वाक्यार्थस्य मत्परायण इति पुनरादानात् समाप्तपुनरादानदोषापत्तिरिति वाच्यम्; एवं मत्परायण एव मामेवैष्यसि, नो चेन्नेतीश्वरसायुज्यप्राप्तिं प्रतीश्वरपरायणत्वस्याकाङ्क्षितत्वेन तद्दोषाप्रसक्तेः। ईश्वरपरायणत्वं नाम अनवरतमीश्वरस्वरूपानुसन्धानरूपतदेकनिष्ठत्वमिति बोध्यम्। तस्मात् त्वमीश्वरार्पणबुद्ध्या स्वधर्ममिमं संग्रामं निरभिमानःसन् तावत् कृत्वा पश्चात् सर्वकर्माणि संन्यस्य सम्यग्दर्शनं सम्पाद्य स्वात्मस्वरूपानुसन्धानपरो भव। तथा सति तव ब्रह्मभावो भविष्यतीति पर्यवसन्नार्थः॥३४॥

राजविद्या च तद् राजगुह्यं च राजविद्याराजगुह्यं, तस्य योगोऽत्रेति राजविद्याराजगुह्ययोगः। ॥इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते श्रीभगवद्गीताभाष्यार्कप्रकाशे नवमोऽध्यायः॥

श्रीहयग्रीवार्पणमस्तु मद्यजनशीलो भव। मामेव च नमस्कुरु। मामेव ईश्वरम् एष्यसि आगमिष्यसि। युक्त्वा समाधाय चित्तम् एवम् , आत्मानम् अहं हि सर्वेषां भूतानामात्मा, परा च गतिः, परमयनं, तं माम् एवंभूतमेष्यसीत्यतीतेन पदेन सम्बन्धः; मत्परायणः सन्नित्यर्थः ॥३४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः॥९॥

किं स्यादित्याशङ्क्याह— मामेवेति। समाधाय भगवत्येवेति शेषः। एवमात्मानमित्येतद् विवृणोति— अहं हीति। अहमेव परमयनम् तवेति मत्परायणस्तथाभूतः सन् मामेवात्मानमेष्यसीति सम्बन्धः। तदेवं मध्यमानां ध्येयं निरूप्य नवमेनाधमानामाराध्याभिधानमुखेन निजेन पारमार्थिकेन रूपेण प्रत्यक्त्वेन ज्ञानं परमेश्वरस्य परमाराधनमित्यभिदधता सोपाधिकं तत्पदवाच्यं, निरुपाधिकं च तत्पदलक्ष्यं व्याख्यातम्॥३४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने नवमोऽध्यायः॥९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः॥९॥

ॐ श्रीपरमात्मने नमः