॥अथाष्टमोऽध्यायः॥
अर्जुन उवाच— किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम !। अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते ॥१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन !। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
हे पुरुषोत्तम! यद् आत्मभक्ता विदुरित्युक्तम् , तद् ब्रह्म किम्? [अध्यात्मं किम्?] तत् कर्म किम्? अधिभूतं किं प्रोक्तं शास्त्रज्ञैः? अधिदैवं च किमुच्यते? (अधिभूतं किम्? अधिदैवं च किमित्यर्थः।) किं किं वस्तु ब्रह्माध्यात्मादिशब्दैरुच्यत इत्यर्थः॥१॥
अधियज्ञ इति। हे मधुसूदन! अस्मिन् देहे कोऽधियज्ञः? कथं चिन्तनीय इति शेषः। प्रयाणकाले च त्वं नियतात्मभिः कथं ज्ञेयोऽसि?॥२॥
[आनन्दगिरिकृतव्याख्या]
सप्तमाध्यायान्ते ‘येषां त्वन्तगतं पापम्’ इत्यादिना येषां ब्रह्मादीनाम् अनुसन्धानमुक्तम् , यच्च प्रयाणकाले भगवतः स्मरणं दर्शितम् , तदिदं जिज्ञासमानः सन् पृच्छतीति प्रश्नसमुदायमवतारयति— ते ब्रह्मेति। प्रश्नबीजानि तद्विषयभूतानि ब्रह्मादीनि वस्तूनीति यावत्। बुभुत्सितविषयप्रतिलम्भानन्तरं तेषां प्रश्नद्वारा निर्णयार्थम् १इत्याह—अत इति। यदुक्तं ‘ते ब्रह्म तद् विदु’रिति, तत् किं सोपाधिकं, निरुपाधिकं वा? ब्रह्मशब्दस्योभयत्रापि सम्भवादिति मत्वाऽऽह—किं तदिति। यच्चोक्तं ‘कृत्स्नमध्यात्म’मिति तत्रात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्मशब्देन श्रोत्रादिकरणग्रामो वा, प्रत्यग्भूतं ब्रह्मैव वा विवक्षितमित्याह—किमध्यात्ममिति। ‘विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च।’ इति श्रुतौ कर्मणो २द्वैविध्यनिर्धारणात् ‘कर्म चाखिल’मित्यत्र कीदृक् कर्म गृहीतमिति पृच्छति—किमिति। ३क्षराक्षराभ्यां कार्यकारणाभ्यामतीतस्य भगवतो न किञ्चिदवेद्यमस्तीति सूचयति—पुरुषोत्तमेति। ‘साधिभूताधिदैव’मित्यत्राधिभूतशब्देन पृथिव्यादिषु भूतेषु वर्तमानं किञ्चिदेव गृह्यते, किंवा समस्तमेव कार्यमिति निर्दिधारयिषया पृच्छति—अधिभूतमिति। अधिदैवमिति च दैवतविषयमनुध्यानं वा, दैवतेष्वादित्यमण्डलादिषु वर्तमानं चैतन्यं वा जिघृक्षितमिति प्रश्नान्तरं प्रस्तौति—अधिदैवमिति॥१॥
‘साधियज्ञं चे’त्यत्राधियज्ञशब्देन ४यज्ञमधिगतो विज्ञानात्मा वा, परदेवता वेति प्रश्नान्तरं प्रकरोति—अधियज्ञ इति। स च कथं केन प्रकारेण ब्रह्मत्वेन चिन्तनीयः, किं तादात्म्येन, किं वाऽत्यन्ताभेदेनेत्याह—कथमिति। सर्वथाऽपि स किमस्मिन् देहे वर्तते, ततो बहिर्वा? देहे चेत् , स कोऽत्र? बुद्ध्यादिस्तद्व्यतिरिक्तो वेति जिज्ञासया ब्रूते—कोऽत्रेति। ५ ‘अधियज्ञः कथं कोऽत्रे’ति न प्रश्नभेदकः[भेदः,] कथमिति तु प्रकारभेदविवक्षयेति द्रष्टव्यम्। यत्तु समाहितचित्तानामुक्तं६ तत्प्रयाणकालेऽपि भगवदनुसन्धानं सिध्यतीति, तदयुक्तम् , उत्क्रमणदशायां करणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तेरित्यभिप्रेत्याह—प्रयाणेति॥२॥
‘ते ब्रह्म तद् विदुः कृत्स्नम्’ (भ.गी.७.२९) इत्यादिना भगवताऽर्जुनस्य प्रश्नबीजान्युपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुन उवाच— किं तद् ब्रह्मेति॥१,२॥
१. ‘आह’ इति पा.। २. वैदिकत्वेन लौकिकत्वेन च कर्मणो द्वैविध्यम्। ३. ‘यस्मात् क्षरमतीतोऽहम्’ (भ.गी.१५-१८) इति श्लोकानुसारेण पुरुषोत्तमशब्दार्थमाह— क्षरेति। ४. ‘यज्ञमधिकृतो’ इति पा.। ५. किंशब्दद्वयश्रवणेऽपि प्रश्नद्वयं नेह विवक्षितम् , किन्तु कथमिति प्रकारः, कः इति स्वरूपं चैकस्यैव प्रश्नस्य विषयः इति भावः। ६. सिध्यतीत्युक्तम् इत्यन्वयः।
[[४११]]
श्रीभगवानुवाच— अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥३॥
अक्षरमिति। परममक्षरं ब्रह्मेत्युच्यते। क्षरति नश्यति। अक्षरशब्दस्य परमात्मवाचित्वे श्रुतिं प्रमाणयति—एतस्येति। यद्वा अक्षरस्य ब्रह्मत्वे श्रुतिं प्रमाणयति—एतस्येति। ईश्वरस्यैव सर्वनियन्तृत्वेन सर्वप्रशासकत्वादीश्वरस्य प्रशासने सूर्याचन्द्रमसौ विधृतौ तिष्ठतः। हे गार्गि ! इति सम्बोधनम्। विधृतौ अन्तर्यामिणा तेनैव विशेषेण धृतौ सन्तौ तस्यैव शासने तिष्ठतः। ईश्वराज्ञापरतन्त्रौ सूर्याचन्द्रमसौ दिवारात्री कुरुतः इत्यर्थः। ‘भीषाऽस्माद् वातः पवते, भीषोदेति सूर्यः’ इति श्रुतेः। ननु ‘ओमित्येकाक्षरं ब्रह्मे’ति श्रुत्या ओङ्कारस्याप्यक्षरत्वाद् ब्रह्मत्वाच्च ‘अक्षरं ब्रह्मे’त्यस्य ओङ्कारो ब्रह्मेत्यर्थः किं न स्यादित्यत आह—ओङ्कारस्येति। ओङ्कारस्याग्रहणमित्यन्वयः।‘ओमित्येकाक्षरं ब्रह्मे’ति श्रुत्या ओङ्कारस्येहाक्षरशब्देन अग्रहणम् अप्रतिपादनम्। तत्र हेतुमाह— परमेण विशेषणादिति। ‘अक्षरं ब्रह्म परम’मिति परमत्वविशेषणसत्त्वादक्षरस्य, अत्र नोङ्कारग्रहणमित्यर्थः। ननु ओङ्कारस्य वेदादित्वेनोत्कृष्टत्वात्परममक्षरमोङ्कारोऽपि भवितुमर्हतीत्यत आह– परममिति। परः उत्कृष्टो मा न विद्यते यस्मात् तदिति व्युत्पत्त्या परमशब्दस्य निरतिशयवाचित्वाद् ब्रह्मणोऽन्यस्य सर्वस्यापि सातिशयत्वादोङ्कारस्य च वर्णात्मकस्य जडस्य कार्यस्य सातिशयत्वात् परमं निरतिशयमक्षरं ब्रह्मैव, न त्वोङ्कार इति भावः। निरतिशये अक्षरे ब्रह्मणि परममिति विशेषणमुपपन्नतर- व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतमवतारयति—एषामिति। क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुरभीष्ट- प्रतिपत्तिसौकर्यं सिध्यतीति बुध्यमानो विशिनष्टि—यथाक्रममिति। तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनमुदाहरति—अक्षरमिति। ‘किं तद् ब्रह्मे’ति प्रश्नस्य प्रतिवचनम्—अक्षरं ब्रह्म परममिति। तत्राक्षरशब्दस्य निरुपाधिके परस्मिन्नात्मनि अविनाशित्वव्याप्तिमत्त्व३सम्बन्धात् प्रवृत्तिं व्युत्पादयति—अक्षरमित्यादिना। कथं पुनरक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगमन्तरेण व्युत्पत्त्या प्रवृत्तिराश्रीयते, व्युत्पत्ते- रर्थान्तरेऽपि सम्भवादित्याशङ्क्य द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मादन्यस्मिन्नसम्भवात् तथाविधप्रशासनकर्तृत्वेन श्रुतमक्षरं ब्रह्मैवेत्याह—एतस्येति। ‘रूढिर्योगमपहरती’ति न्यायादोङ्कारे वर्णसमुदायात्मन्यक्षरशब्दस्य रूड्या प्रवृत्तिराश्रयितुमुचितेत्याशङ्क्याह— ओङ्कारस्येति। प्रतिवचनोपक्रमे प्रक्रान्तमोङ्काराख्यमक्षरमेवोत्तरत्र विशेषितं भविष्यतीत्याशङ्क्य , परमविशेषणविरोधान्न तस्य प्रक्रमः सम्भवतीत्याह—परममिति चेति। ‘किमध्यात्म’मिति प्रश्नस्योत्तरं ‘स्वभावोऽध्यात्म’मित्यादि। तद् व्याचष्टे—तस्यैवेति। स्वकीयो भावः १.‘परमात्मा’ इति पा.। २.परेणेत्यव्ययं परस्तादित्यर्थे। द्र.ब्र.सू. ३,३.५२।‘परमेण’ इति रा.पा.। ३. अश्नुत इत्यक्षरमिति व्युत्पत्तिमभिप्रेत्योक्तम्—व्याप्तिमत्त्वेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच— अक्षरमिति। अक्षरं न क्षरतीति अक्षरं १पर आत्मा, ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ.उ.३.८.९) इति श्रुतेः। ओङ्कारस्य च ‘ओमित्येकाक्षरं ब्रह्म’(भ.गी.८.१३) इति २परेण विशेषणाद् अग्रहणम्। परममिति च निरतिशये ब्रह्मण्यक्षरे उपपन्नतरं विशेषणम्। तस्यैव परस्य ब्रह्मणः अनुभूतिस्वरूपाचार्यविरचितटिप्पणम् नन्वक्षरशब्दस्य वर्णे रूढत्वाद् ओङ्कारः कस्मान्न गृह्यत इत्याशङ्क्याह— ओङ्कारस्य चेति। परेण ग्रन्थेनोङ्कारस्य ब्रह्मप्रतीकत्वेन विशेषितत्वाद् नोपक्रमो[मे]ऽप्योङ्कारो ब्रह्मेत्यर्थः। परममिति निरतिशयत्वमुच्यते।[तच्च] देशतश्च कालतश्च वस्तुतश्चानवच्छिन्नत्वं नोङ्कारस्य सम्भवतीत्याह— परममिति। प्रतिबिम्बस्य बिम्बात्मकत्वाद् जीवाख्यं चित्प्रतिबिम्बमपि
[[अ. ८. श्लो. १-३]] [[४१२]]
प्रतिदेहं प्रत्यगात्मभावः स्वभावः, स्वो भावः स्वभावः, अध्यात्ममुच्यते। आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः। अध्यात्ममुच्यते अध्यात्मशब्देनाभिधीयते। भूतभावोद्भवकरः, भूतानां भावो भूतभावस्तस्योद्भवो भूतभावोद्भवस्तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः। विसर्गः विसर्जनं, मित्यन्वयः। एवम् ‘अक्षरं ब्रह्म परम’मिति प्रथमपादं व्याख्याय ‘स्वभावोऽध्यात्ममुच्यते’ इति द्वितीयपादं व्याख्यातुमारभते— तस्यैवेति। स्वभावः स्वस्य परब्रह्मणो भावः प्रतिदेहं प्रत्यगात्मरूपेण भवनं स्वभावः। ब्रह्मणः प्रत्यग्रूपेण देहे देहे अवस्थानमिति यावत्। स्वो भावः स्वभाव इति समासे तु तस्येति ब्रह्मवाचिपदाध्याहारप्रसङ्गः। अध्यात्ममित्युच्यते। आत्मन्यध्यात्ममिति नात्र विभक्त्यर्थेऽव्ययीभावसमासो ग्राह्यः, तस्य सप्तम्यर्थपर्यवसानादित्यभिप्रेत्याह— आत्मानं देहमिति। अधिकृत्य अधिष्ठित्य[ष्ठाय] प्रवृत्तं स्थितं परमार्थब्रह्मावसानं परमार्थं सत्यं यद् ब्रह्म पूर्वोक्तं परं ब्रह्म तदेवावसानं समाप्तिर्यस्य तत् तथोक्तम् , परमार्थब्रह्मरूपेण पर्यवसितमित्यर्थः। परमार्थब्रह्मभूतमिति यावत्। एवंविधं वस्तु स्वभावशब्दार्थः। निरुपाधिकं चैतन्यं मायोपाधिकं चैतन्यं वा ब्रह्म; प्रतिदेहं प्रत्यग्रूपेण स्थितम् अन्तःकरणोपाधिकं चैतन्यं स्वभावशब्दवाच्यम् अध्यात्ममिति यावत्। परमात्मा ब्रह्म, प्रत्यगात्मा त्वध्यात्ममिति फलितार्थः। ननु ‘अध्यात्मं प्रत्यगात्मविषयं वस्तु’ इति १पूर्वं भाषितम् , अधुना तु प्रत्यगात्मैवेत्युच्यते, अतः कथं पूर्वोत्तरविरोधपरिहार इति चेद्? उच्यते— पूर्वं कृत्स्नपदानुगुण्येन वस्त्विति पदमध्याहृत्य अध्यात्ममित्यस्याव्ययीभावसमासः उक्तः। इदानीं तु समासान्तरमिति। यद्वा प्रत्यगात्मविषयं प्रत्यगात्मशब्दप्रयोगविषयम् अर्थात् प्रत्यगात्मैवेति; कृत्स्नमित्यस्य पूर्णमित्यर्थः। अध्यात्ममुच्यते इत्यस्यार्थमाह— अध्यात्मशब्देनाभिधीयत इति। अध्यात्ममित्युच्यत इत्यन्वयादेतदर्थलाभः। एवं ‘किं तद् ब्रह्म, किमध्यात्म’मिति प्रश्नद्वयस्य पादद्वयेनोत्तरद्वयं दत्त्वा, ‘किं कर्मे’ति प्रश्नस्य पादद्वयेनोत्तरमाह— भूतेति। भूतानां प्राणिनां भावः सत्ता, तस्योद्भव उत्पत्तिः भूतभावोद्भवः, तस्य करः कर्ता। उत्पत्तेः प्रागपि सिद्धानां भूतानामभिव्यक्त्यभावाद् असत्प्रायाणामुत्पत्तिवशात् सत्ता सिध्यति, जन्माधीनत्वात् सत्तायाः। जन्मानन्तरभावी खलु सत्ताख्यो विकारः। पुत्रो जातः, जातः पुत्रोऽस्तीति व्यवहारात्। फलितमाह— भूतवस्तूत्पत्तिकर इति। भूतानां सिद्धानामेव वस्तूनां प्राणिनां देहसङ्घटनद्वारा उत्पत्तिकर इत्यर्थः। लिङ्गशरीरावच्छिन्ना जीवा अनादिकालमारभ्य स्थिताः। प्रलयेऽप्येषां न नाशः। मोक्ष एव लिङ्गभङ्गाख्यो नाशः। अमी हि स्थूलशरीरसंयोगाख्यमुदयं, तद्वियोगाख्यं नाशं च कर्मवशात् प्रपद्यन्ते। तत्र स्थूलशरीरसंयोगाख्य उदयः इह भूतभावोद्भव- शब्देनोच्यत इति भावः। यद्वा भवन्तीति भूतानीति भूतशब्दः कार्यमात्रपरः। भूतानां कार्यकरणसङ्घातादिरूपाणां कार्याणां भावस्य सत्ताया उद्भवकरः, स्वभावः श्रोत्रादिकरणग्रामः; स च आत्मनि देहेऽहम्प्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं विगृह्णाति—स्वो भाव इति। एवं विग्रहपरिग्रहे ‘स्वभावोऽध्यात्ममुच्यते’ इत्यस्यायमर्थो निष्पन्नो भवतीत्यनुवादपूर्वकं कथयति—स्वभाव इति। ‘तस्यैव परस्ये’- त्यादिनोक्तं न विस्मर्तव्यमिति विशिनष्टि—परमार्थेति। परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावमनुभवति ‘तत्सृष्ट्वा, तदेवानुप्राविशत्’ इति श्रुतेरित्यर्थः। ‘किं कर्मे’ति प्रश्नस्योत्तरमुपादत्ते—भूतेति। भूतान्येव भावाः, तेषामुद्भवः समुत्पत्तिः, तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति—भूतानामिति। भावः सद्भावो वस्तुभावः। अत एव भूतवस्तूत्पत्तिकर इति वक्ष्यति। वैदिकं कर्मात्रोक्तविशेषणं कर्मशब्दितमिति विसर्गशब्दार्थं दर्शयन् विशदयति—विसर्ग इत्यादिना। कथं पुनर्यथोक्तस्य यज्ञस्य सर्वेषु
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ब्रह्मात्मकमित्याह— परमार्थब्रह्मावसानमिति॥३॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. द्र. भ. गी. ७ -२९।
[[४१३]]
देवतोद्देशेन चरुपुरोडाशादेर्द्रव्यस्य परित्यागः। स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दितः इत्येतत्। एतस्माद्धि बीजभूताद् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतान्युद्भवन्ति॥३॥
अधिभूतमिति। अधिभूतं प्राणिजातमधिकृत्य भवतीति। कोऽसौ? क्षरः, क्षरतीति क्षरो विनाशी भावो यत्किञ्चिज्जनिमद् वस्त्वित्यर्थः। पुरुषः पूर्णमनेन सर्वमिति, पुरि शयनाद्वा पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः सर्व- कार्यनिष्ठसत्ताया जन्माधीनत्वात् , जन्मनः प्राक्कार्यस्य चाभावात् , सत्त्वे च पुनरुदयायोगात् , सद्वस्तुनः जन्मनः प्रागभावायोगाच्च जन्माधीनसत्ताकान्येव कार्याणीत्यभिप्रेत्य भूतसत्ताया उत्पत्तिकर इत्यस्य भूतवस्तूत्पत्तिकर इति फलितार्थ उक्तो भाष्यकृद्भिः। भूतवस्तूनि कार्यपदार्थाः, कार्यमात्रं सर्वमित्यर्थः। तदुत्पत्तिकरः, तत्सत्तासम्पादको जन्मद्वारेति यावत्। विसर्गो यज्ञः। यज्ञस्य विसर्गलक्षणत्वादित्याह— स एवेति। यज्ञो यजनं देवपूजा, सा च हविरर्पणरूपेति यज्ञस्य विसर्ग एव लक्षणं स्वरूपमिति भावः। एवं विसर्गलक्षणस्य यज्ञस्य क्रियात्वात् कर्मशब्दवाच्यत्वमित्याह— कर्मसंज्ञित इति। कर्मेति संज्ञा कर्मसंज्ञा, साऽस्य सञ्जातेति कर्मसंज्ञितः। तारकादित्वादितच्। यावदर्थमाह— कर्मशब्दित इति। कर्मशब्दप्रतिपाद्य इत्यर्थः। वृष्ट्यादि- क्रमेणेति। ‘यज्ञाद् भवति पर्जन्यः, पर्जन्यादन्नसम्भवः, अन्नाद्भवन्ति भूतानि’ इति क्रमः प्रागुक्तः। ननु ‘अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥’ इति तृतीयाध्याये यज्ञस्य कर्म- समुद्भवत्वमुक्तम्। इदानीं तु कर्मत्वमेवोच्यत इति पूर्वोत्तरविरोध इति चेत् , मैवम् ; यज्ञशब्दस्यापूर्वमिति कर्मेति चार्थद्वयसत्त्वाद् यज्ञोऽपूर्वमिति कर्मेति च मतभेदेन व्यवहारात् , यज्ञोऽपूर्वमिति मते यज्ञोत्पादककर्मणि यज्ञशब्दप्रयोगस्य लाक्षणिकत्वात् , यज्ञः कर्मेति मते कर्मजन्ये अपूर्वे यज्ञशब्दप्रयोगस्य लाक्षणिकत्वात् , १यज्ञशब्दस्य मुख्यवृत्त्या प्रागपूर्वत्वमुक्तम् , गौणवृत्त्या त्विदानीं कर्मत्वमुक्तम्। यद्वा गौणवृत्त्या प्रागपूर्वत्वमुक्तम् , इदानीं मुख्यवृत्त्या कर्मत्वमुक्तमिति पूर्वोत्तरविरोधपरिहारात्। एवं च कर्मरूपाद् यज्ञाद् अपूर्वयज्ञं[अपूर्वरूपयज्ञः], तस्माद् वृष्टिः, तस्मादन्नं, तस्मात् प्रजाः इत्यपि क्रमः सिद्धः। भाष्ये तु वृष्टेरेवादित्वमुक्तम्। तत्तु कर्मापूर्वयोरेकयज्ञशब्दवाच्यत्वलक्षणैक्यव्यवहारादिति बोध्यम्। एतस्मादिति वाक्यं विसर्गस्य भूतभावोद्भव- करत्वं स्फुटयितुं निबद्धमिति बोध्यम्॥३॥
अधिभूतमिति। भूतशब्दार्थमाह—प्राणिजातमिति। प्राणिसमूहः; भूतशब्दाद्भूतत्वग्रहणेन२ तत्समूहलाभः। अधिशब्दार्थमाह — अधि भवतीति। अधिकृत्य भवतीत्यर्थः। कोऽसौ यो भूतजातमधि भवतीत्युच्यत इति पृच्छति—कोऽसाविति। उत्तरयति— क्षरो भाव इति। क्षरति नश्यतीति क्षरः, भवति जायत इति भावः। ‘जातस्य हि ध्रुवो मृत्यु’रिति सिद्धान्तादाह— जनिमदिति। जनेरुक्तत्वे भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वमित्याशङ्क्य ‘अग्नौ प्रास्ताऽऽहुतिः’ इत्यादिस्मृतिमनुस्मृत्याह—एतस्माद्धीति॥३॥
सम्प्रति प्रश्नत्रयस्योत्तरमाह—अधिभूतमिति। अधिभूतं च किं प्रोक्तमित्यस्य प्रतिवचनम्— अधिभूतं क्षरो भाव इति। तत्र अधिभूतपदमनूद्य वाच्यमर्थं कथयति—अधिभूतमित्यादिना। तस्य निर्देशमन्तरेण निर्ज्ञातुमशक्यत्वात् प्रश्नद्वारा तन्निर्दिशति— कोऽसाविति। कार्यमात्रमत्र सङ्गृहीतमिति वक्तुमुक्तमेव व्यनक्ति— यत्किञ्चिदिति। अधिदैवं किमिति प्रश्ने, पुरुषश्चेत्यादि प्रतिवचनम्। तत्र पुरुषशब्दमनूद्य मुख्यमर्थं तस्योपन्यस्यति—पुरुष इति। तस्यैव सम्भावितमर्थान्तरमाह—पुरि शयनाद्वेति। वैराजं देहमासाद्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर !॥४॥
अ. ८. श्लो. ३-४ ] १. यज्ञशब्दप्रतिपाद्यस्येत्यर्थः। २. भूतमधिकृत्य भवतीत्यत्र भूतत्वं सामान्यं विवक्षितम्। ततश्चाविशेषेण सर्वभूतलाभः। फलितार्थकथनं प्राणिजातमिति।
[[४१४]]
विनाश उक्तप्राय इति भावः। उत्पत्तिविनाशवदिति यावत्। भूतशब्देन सर्वप्राणिग्रहणात् तमधिकृत्य सम्भवान्न प्राणि[सम्भवन् अप्राणि]पदार्थजातमेव क्षरो भावः। स च देहादिरूपः शीतोष्णादिरूपश्चेति बोध्यम्। पूर्णं व्याप्तम्। पुरि शरीरे शयनादासनात्। पुरं चादित्यशरीरं हिरण्यगर्भस्य तत्र स्थितत्वात् पुरुषशब्दवाच्यस्य। आदित्यान्तर्गतः सूर्यमण्डलमध्यस्थः हिरण्यगर्भः हिरण्मयः हिरण्यश्मश्रुत्वादिगुणक ईश्वरः सर्वेषां प्राणिनां करणानाम् इन्द्रियाणाम् अनुग्राहकः शक्तिप्रदः, देवतैव दैवतम् , आदित्यस्य च देवजातित्वाद् दैवतत्वम्। तदधिकृत्य स्थितं वस्त्वधिदैवतम्। यज्ञमधिकृत्य वर्तमानोऽधियज्ञः सर्वेषु यज्ञेष्वभिमानवान्। विष्णोर्यज्ञाभिमानित्वे श्रुतिं प्रमाणयति—यज्ञो वै विष्णुरिति। यज्ञाभिमानित्वादेव यज्ञशब्दवाच्यत्वमिति भावः। कोऽसौ विष्णुः? अत आह— अहमेवेति। कृष्ण एवेत्यर्थः। विष्ण्ववतारत्वात् कृष्णस्येति भावः। तस्याहमधियज्ञः तस्य देहाश्रयस्य यज्ञस्याधियज्ञोऽभिमानी अहम्। देहं समवैति सङ्गच्छत इति देहसमवायी देहसङ्गतः। देहाधिकरणः देह अधिकरणमाधारो यस्य सः। देहभृतः प्राणिनस्तेषां वर श्रेष्ठ! यस्मात् त्वं श्रेष्ठस्तस्मात् त इदमुच्यते मयेति भावः। अधिदैवतमधियज्ञश्च यद्यपि प्रत्यगात्मैव, आदित्यदेहोपाधिकत्वाद् विष्णुदेहोपाधिकत्वाच्च। तथापि तयोरीश्वरशरीरोपाधिक- त्वेन पृथङ्निर्देशः, प्रत्यगात्मनां जीवशरीरोपाधिकत्वात्। एवं ब्रह्माध्यात्माधिदैवाधियज्ञानामेकत्वं सिद्धम् , आत्मत्वाच्चतुर्णाम्। अत आत्मज्ञानेन तज्ज्ञानसिद्धिरिति कृत्वा ‘ते ब्रह्म तद्विदुरध्यात्मं विदुः साधिदैवं साधियज्ञं च मां विदु’रिति पूर्वोक्तं सुसङ्गतम्। अथ यज्ञस्य कर्मण अधिभूतस्य कार्यजातस्य आत्मकार्यत्वादात्मज्ञानेन तज्ज्ञानसिद्धिः मृज्ज्ञानेन मृत्कार्यघटादिज्ञानवदिति कृत्वा ‘ते साधिभूतं मां विदुः कर्म च विदु’रिति पूर्वोक्तं सुसङ्गतम्। अत्र रामानुजः—३क्षेत्रज्ञसमष्टिरूपं प्रकृतिविनिर्मुक्तमात्मस्वरूपं ब्रह्म; आत्मनि सम्बध्यमानं भूतसूक्ष्मतद्वासनादिकं प्रकृतिः स्वभावः; मनुष्यादिभावोद्भवकरो योषित्पुरुषसंसर्गजो रेतोविसर्जनं कर्म; शब्दस्पर्शादिः साश्रयः क्षरो भावोऽधिभूतम् ; इन्द्रप्रजापति- [प्रभृति]कृत्स्नदैवतोपरि वर्तमानो विलक्षणशब्दादिभोक्ता पुरुषोऽधिदैवतम् ; अधियज्ञैराराध्यतया वर्तमान इन्द्रादौ मम शरीरभूते आत्मतयाऽवस्थितोऽहमेवाधियज्ञः। तत्र मुमुक्षुभिः प्राप्यतया ब्रह्म, त्याज्यतयाऽध्यात्मम् , उद्वेजनीयतया परिहरणीयतया च कर्म ज्ञातव्यम् ; ऐश्वर्यार्थिभिः प्राप्यतयाऽधिभूतमधिदैवतं च ज्ञातव्यम् ; महायज्ञादिनित्यनैमित्तिकानुष्ठानवेलायां त्रयाणामधिकारिणा- आदित्यमण्डलादिषु दैवतेषु १अन्तरवस्थितो लिङ्गात्मा व्यष्टिकरणानुग्राहकोऽत्र पुरुषशब्दार्थः। स चाधिदैवतमिति स्फुटयति— आदित्येति। अधियज्ञः कथमित्यादिप्रश्नं परिहरन्नधियज्ञशब्दार्थमाह— अधियज्ञ इति। कथमुक्तायां देवतायामधियज्ञशब्दः स्यादित्या- शङ्क्य , श्रुतिमनुसरन्नाह—यज्ञो वा इति। परैव देवताऽधियज्ञशब्देनोच्यते। सा च ब्रह्मणः सकाशादत्यन्ताभेदेन प्रतिपत्तव्येत्त्याह—स हि विष्णुरिति। शास्त्रीयव्यवहारभूमिः अत्रेत्युक्ता। देहसामानाधिकरण्याद्वाऽत्रेत्यस्य व्याख्यानम्—अस्मिन्निति। किमधियज्ञो बहिरन्तर्वा देहादिति सन्देहो मा भूदित्याह—देह इति। ननु यज्ञस्य देहाधिकरणत्वाभावात् कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते? तत्राह—यज्ञो हीति। एतेन तस्य बुद्ध्यादिव्यतिरिक्तत्वमुक्तमवधेयम्। न हि परा देवता दर्शितरीत्याऽधियज्ञशब्दिता २बुद्ध्यादिष्वन्तर्भाव- मनुभवितुमलम्। देहान् बिभ्रतीति देहभृतः सर्वे प्राणिनः, तेषामेष वरः श्रेष्ठः। युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधान- स्यार्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्॥४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्राणिकरणानामनुग्राहकः, सोऽधिदैवतम्। अधियज्ञः सर्वयज्ञाभिमानिनी देवता विष्ण्वाख्या ‘यज्ञो वै विष्णुः’ (तै.सं. १.७.४) इति श्रुतेः। स हि विष्णुरहमेव, अत्र अस्मिन् देहे यो यज्ञः, तस्याहमधियज्ञः। यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायीति देहाधिकरणो भवति। देहभृतां वर !॥४॥
१. ‘योऽन्तरवस्थितो’ इति पा.। २. ‘बुद्ध्यादिष्वन्तर्भावमनुभावयितुमलम्’ इति पा.। ३. तृतीयचतुर्थश्लोकयोः व्याख्यानमिह मिलित्वाऽनूदितम्।
[[४१५]]
मधियज्ञोऽनुसन्धेयः इति प्राह। अत्रोच्यते—क्षेत्रज्ञस्यैकत्वेन तावत् क्षेत्रज्ञसमष्टिर्नास्ति, ‘क्षेत्रज्ञं चापि मां विद्धी’ति वक्ष्यमाणत्वात्। अन्तःकरणभेदात् क्षेत्रज्ञभेदोपचारपक्षेऽपि तव मते चिदचिच्छरीरकत्वेनेश्वरस्य क्षेत्रज्ञसमष्टिरूपत्वं न सम्भवति। न हि क्षेत्रज्ञ- समष्टिरीश्वरः क्षेत्रज्ञशरीरः स्यात्। नापि - क्षेत्रज्ञसमष्टिर्ब्रह्म, ईश्वरस्त्वन्यश्चिदचिच्छरीरक इति - वाच्यम् , ब्रह्मण ईश्वरशरीरत्वापत्तेः। ननु ब्रह्मणः परमात्मनोऽन्यैव क्षेत्रज्ञसमष्टिरिह ब्रह्मशब्देनोच्यते गौणवृत्त्येति चेत् , मैवम्। मुख्यार्थपरित्यागे कारणाभावात्। ‘अक्षरं ब्रह्म परम’मिति ‘परमं ब्रह्मे’ति शब्दद्वयस्य परमात्मनि योगरूढत्वात्। न च परममित्यस्य प्रकृतिविलक्षणमित्यर्थ इति वाच्यम् , तथात्वेऽपि प्रकृतिविलक्षणस्य परब्रह्मण एव ग्राह्यत्वात्। ब्रह्मणश्च क्षेत्रज्ञादन्यत्वे जडत्वापत्तेः। क्षेत्रक्षेत्रज्ञोभयातिरिक्तस्य वस्तुन एवाभावान्न क्षेत्रक्षेत्रज्ञविलक्षणब्रह्मसिद्धिः। ब्रह्मसधर्मत्वात् क्षेत्रज्ञो ब्रह्मेति वक्तव्ये, तथोक्ते चाक्षरं ब्रह्म परममिति तद्विहाय क्षेत्रज्ञसमष्टिपर्यन्तार्थकल्पनस्याप्रमाणत्वात् , अयुक्तत्वाच्च। न हि परमाक्षरसमष्टिर्ब्रह्मेत्युक्तं मूलकर्त्रा, येन क्षेत्रज्ञसमष्टिरुच्येत। न च क्षेत्रज्ञसमष्टिरूपमात्मस्वरूपमित्यपि युक्तम् , आत्मन एव क्षेत्रज्ञत्वेन तस्यैव तत्समष्टिरूपत्ववर्णनस्यायुक्तत्वात्। न चात्मनां स्वरूपं क्षेत्रज्ञसमष्टिरूपमिति वाच्यम् , व्रीहीणामिवात्मनां राश्यभावात्। न च क्षेत्रज्ञसमष्टिरात्मस्वरूपं परमात्मनः शरीरमित्यर्थ इति वाच्यम् , परमात्मशरीरत्वे आत्मनः विनाशित्वापत्तेः। शीर्यत इति हि शरीरम्। न च तन्नियाम्यत्वात् तच्छरीरत्वमात्मन इति वाच्यम् , अद्वितीये आत्मनि नियामकादिद्वैतायोगात्। सुषुप्तावात्मनो नियाम्यत्वादर्शनात्। व्यवहारकाले तु शरीरादितादात्म्याध्यास- प्रयुक्तत्वान्नियाम्यत्वस्य। न च - यं यूयं प्रत्यगात्मेति व्यवहरथ, तमेव वयं परमात्मेति व्यवहरामः; यं तु यूयं प्रमातेति चिदाभास इति च व्यवहरथ, तं वयं प्रत्यगात्मेति व्यवहरामः; चिदाभासानां पारतन्त्यमनेकत्वं च भवद्भिरभ्युपेतमेवेति - वाच्यम् , चिदाभासस्यैव वस्तुतः प्रत्यगात्म- त्वात्। सर्पाभासस्येव वस्तुतो रज्ज्वात्मता। सुषुप्तौ १चिदाभासलयसाक्षी आत्मा कथं चिदाभासः स्यात्। चिदाभासो ह्यनात्मा। आत्मा हि स्वयम्। यः प्रमातृत्वरहितः प्राज्ञः सुषुप्तिसिद्ध आत्मा स एव हि प्रबोधे स्वानुभूतमज्ञानमानन्दं च स्मरति – ‘सुखमहमस्वाप्सं, न किञ्चिदवेदिष’मिति। कथमन्यानुभूतार्थस्यान्यस्मरणम्? अतः प्रत्यगात्मैव स्वयं चिदाभासतादात्म्यमापद्य संसारमापद्यत इवेति न प्रत्यगात्मप्रमात्रोर्भेदः। चिदाभासस्य वास्तवं रूपं चिदेव, अन्तःकरणविशिष्टचैतन्यलक्षणप्रमातुर्वास्तवं रूपं चैतन्यमेवेति प्रकृति- विनिर्मुक्तमात्मस्वरूपं चैतन्यं प्रत्यगात्मैव। न तु चिदाभासत्वप्रमातृत्वविशिष्टचैतन्यस्य प्रकृतिविनिर्मुक्तत्वम् , प्रकृतिपरिणामान्तः- करणविशिष्टत्वात्। तस्मात् प्रकृतिविनिर्मुक्तमात्मस्वरूपं चैतन्यमेव। तच्च क्षेत्रज्ञत्वात् क्षेत्रज्ञमेव; निरुपाधिकत्वादेकमेव; द्वैताभावाद- द्वितीयमेव। न हि प्रकृतिविनिर्मुक्ते वस्तुनि उपाधिर्द्वैतं वा भवितुमर्हति, सर्वस्यापि द्वैतस्य प्रकृतितत्कार्यरूपत्वात्। एवंविधं च चैतन्यं सच्चिदानन्दलक्षणं परं ब्रह्मैवेति सिद्धमक्षरं परमं ब्रह्मेत्यस्य भगवत्पादोक्त एवार्थो ब्रह्म, न तु तदतिरिक्तः कश्चिज्जीवः, सर्वे जीवा वा। ब्रह्मानतिरिक्तस्यैव जीवस्यात्मनः प्रकृतिविनिर्मुक्तत्वम् , तदतिरिक्तस्य तु प्रकृतिसंसृष्टत्वमेवेति। तथा आत्मनि सम्बध्यमानं भूतसूक्ष्मतद्वासनादिकमित्यप्ययुक्तम् ,असङ्गे आत्मनि भूतसूक्ष्मादिसंबन्धायोगात्। ‘असङ्गो ह्ययं पुरुषः’ इति हि श्रुतिः। न च मायया तत्सम्बन्धोपपत्तिः, तव मते भूतसूक्ष्मादेः सत्यत्वेन मायिकत्वाभावात्। एवं सत्यया प्रकृत्या आत्मस्वरूपस्य विनिर्मुक्तिरपि न सम्भवति। न हि सत्यं निवर्तमानं क्वापि दृष्टं श्रुतं वा। यदि सत्याऽपि प्रकृतिरीश्वरसेवया निवर्तते, तर्हि कथमीश्वरस्य चिदचिद्विशिष्टत्वम्? न चेश्वरस्य प्रकृत्यनिवृत्तिरिति वाच्यम् , ईश्वरस्यैव प्रकृत्यनिवृत्तौ कथं तत्सेविनां तन्निवृत्ति- रुपपद्यते? यदि प्रकृतिसङ्गो दोषस्तर्हि कथं स ईश्वरस्य हेयप्रत्यनीकस्य भवितुमर्हति? यदि तु गुणस्तर्हि कथं मुमुक्षोस्त्याज्यः? न च - ईश्वरस्य प्रकृतिसङ्गो गुणः, जीवस्य तु दोष इति - वाच्यम् , जीवेश्वरयोरुभयोरपि ज्ञानैकाकारत्वेन समानधर्मत्वात् , तत्रैकस्मिन् प्रकृतिसङ्गो गुणोऽन्यस्मिन् दोष इति कल्पयितुमनुचितत्वादप्रमाणत्वाच्च। न च - शुद्धप्रकृतिसङ्गः ईश्वरस्य गुणः, अशुद्धप्रकृतिसङ्गो जीवस्य दोष इति - वाच्यम् , मुक्तस्य जीवस्येश्वरसाधर्म्याङ्गीकारात् तस्य शुद्धप्रकृतिसङ्गोऽवश्यं स्यादिति कथं मुमुक्षुभिः प्रकृतिविनिर्मुक्तमात्मस्वरूपं प्राप्यं स्यात्? न चाशुद्धप्रकृतिविनिर्मुक्तं शुद्धप्रकृति- भाष्यार्कप्रकाशः १. सुषुप्तौ अन्तःकरणलयप्रयुक्तः चिदाभासलय इति बोध्यम्।
[[अ. ८. श्लो. ४]] [[४१६]]
संस्पृष्टमात्मस्वरूपं प्राप्यमिति विवक्षितमिति वाच्यम् , तथात्वे आत्मस्वरूपस्य नित्यसिद्धत्वेनाप्राप्यत्वाच्छुद्धप्रकृतिरेव प्राप्येति कृत्वा प्राप्यतयाऽत्र ज्ञातव्या प्रकृतिरेव, न त्वात्मस्वरूपम्। तथा चाक्षरं ब्रह्म परममित्यस्य परमं शुद्धमक्षरं प्रकृतिर्ब्रह्मेत्यर्थो वाच्यः, न तु प्रकृतिविनिर्मुक्तमात्मस्वरूपं ब्रह्मेति। न च तथैवोच्यत इति वाच्यम् , शुद्धाशुद्धप्रकृतिद्वयसाधारणस्य स्वभावशब्दस्य अशुद्धप्रकृतिपरत्वे प्रयोजकाभावात्। न चाक्षरं ब्रह्म परममित्यनेन शुद्धाया उक्तत्वात् स्वभावशब्देन पारिशेषकन्यायेनाशुद्धोच्यत इति वाच्यम् , ईश्वरः शुद्धप्रकृतिविशिष्ट एवेत्युक्तौ अशुद्धप्रकृतेरीश्वरासम्बन्धित्वप्रसक्तेः। न चेष्टापत्तिः, सर्वमपीश्वरस्य शरीरभूतमिति तवाभ्युपगमात्। भूतसूक्ष्मादीनां जीवप्रकृतिकार्यत्वे जीवस्यैव जगत्स्रष्टृत्वापत्तेः, ईश्वरप्रकृतिकार्यत्वे जीवस्य तत्सम्बन्धायोगात् ईश्वरस्यैव तत्सम्बन्धापत्तेः, तन्मोक्षार्थमीश्वरस्यापीश्वरान्तरभजनप्रसक्तेः, सर्वजगत्सृष्ट्यादिहेतोः प्रकृतेरेकत्वेन प्रकृतिद्वयकल्पनस्यायुक्तत्वात्। जीवानामनेकत्वेनाशुद्धप्रकृतीनामनेकानामपि कल्पनीयत्वापत्तेः। किं चेश्वरप्रकृतेः ‘दैवी ह्येषा गुणमयी’ इति गुणमयत्वेन शुद्धत्वस्याप्यसम्भवात्। शुद्धसत्त्वात्मकत्वं हि प्रकृतेरीश्वर- सम्बन्धिन्याः शुद्धत्वम्। कथं त्रिगुणमयप्रकृतेः शुद्धसत्त्वात्मकत्वम्? कथं वा शुद्धसत्त्वात्मिकाया ईश्वरप्रकृतेः सकाशात् तामस- पृथिव्यादिभूतोत्पत्तिः? न हि महाभूतस्रष्टृत्वं जीवस्योचितम् ‘आत्मन आकाशः सम्भूतः’ इत्यादिश्रुतिविरोधात्। ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुत्यन्तरसंवादेनात्मशब्दस्येह परमात्मपरत्वावधारणात्। तस्मादेकैव गुणमयी प्रकृतिः, ययेदं सृष्टं यया मुह्यन्ति भूतानि च। न च - ईश्वरस्यैव शुद्धेति अशुद्धेति च प्रकृतिद्वयमस्ति, तत्राशुद्धप्रकृत्या जगत्सृष्ट्यादिकं करोति; शुद्धा तु ईश्वरस्य दिव्य- मङ्गलविग्रहभूतेति - वाच्यम् , ईश्वरविग्रहस्याप्राकृतत्ववर्णनात्। न च - अप्राकृतत्वं नामाशुद्धप्रकृत्यकार्यत्वमिति - वाच्यम् , तथा कल्पने प्रमाणाभावात्। ईश्वरस्य जीवभूतप्रकृतिरेका, भूम्याद्युपादानभूता प्रकृतिरन्येतीहैवोक्तत्वेन तृतीयप्रकृतिकल्पनस्याप्रमाणत्वात् , तद्विरुद्धत्वाच्च। ‘अप्राणो ह्यमनाः शुभ्रः’ इत्यादिना ईश्वरस्य सशरीरत्वनिषेधेन विग्रहाभावाच्च । सच्चिदानन्दमयेश्वरस्वरूपं मुक्त्या [मुक्त्वा] सर्वस्यापि प्राकृतत्वेन तस्यैकस्यैवाप्राकृतत्वादप्राकृतं दिव्यमङ्गलं च स्वरूपमीश्वरस्य सच्चिदानन्दमेव, न त्वन्यत्। यस्तु वैकुण्ठादौ विष्ण्वादिदेहसङ्घः स मायामय एव, दृश्यत्वाज्जडत्वाच्च। तदुपासकानां च तत्सधर्मदेहप्राप्तिर्भवत्येव१, न तु मुक्तिः, अशरीरस्यैव मुक्तत्वात्। लिङ्गभङ्गो हि मोक्षः। तथा रेतोविसर्जनं कर्म मुमुक्षुभिः ज्ञातव्यमिति यदुक्तं तद् विदुषां श्रवणानन्दायते। क्रिमिकीटपक्षिपश्वादिभिरपि स्वत एव ज्ञातस्य मैथुनस्य मुमुक्षुभिरपि ज्ञातव्यत्ववचनात्। ‘जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥’ इति भगवद्भक्तानामेव ब्रह्मज्ञानवन्मैथुनकर्मज्ञानं नेतरेषामिति श्रीकृष्णाशयं वर्णितवतस्तव पाण्डित्यमहो! वस्तुतः शेषांश एवासि ! कथमन्यथा तवेदृशं पाण्डित्यम्? अथवा मैथुनप्रियाणां भवतां, मध्वानां चेदं वचनं युक्तमेव, शिष्यस्त्रीबाहुमूलयोः शङ्खचक्राङ्कनवत्। यच्च रेतोविसर्जनस्यैव भूतभावोद्भवकरत्वम् , तदप्ययुक्तम् , जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधप्राणिमध्ये जरायु- जाण्डजयोः रेतोजत्वेऽपि स्वेदजोद्भिज्जयोस्तदभावात्। तथा अत्र देहे इति प्रत्यक्षदृश्यमानार्जुनादिदेहवाचिनः अत्रेति शब्दस्य इन्द्रादिवाचित्वमप्ययुक्तम् , इन्द्रादीनां परोक्षत्वात्। इन्द्रादिदेह इवार्जुनादिदेहेऽप्यात्मतयाऽवस्थितत्वेनेश्वरस्य तत्परित्यागे कारणाभावात्। अधिदैवतशब्दस्य अतिदैवतशब्दवद् देवतोपरीत्यर्थसिद्धिरप्ययुक्ता, अधियज्ञ इत्यस्य च यज्ञाराध्य इत्यर्थोऽप्ययुक्तः, उपर्यर्थे आराध्यार्थे वाऽधिशब्दप्रयोगाभावात्। ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ! चतुर्विधा भजन्ते माम्।’ इति भगवद्भजने चतुर्णामधिकारिणां सत्त्वेन त्रयाणामिति कथनं न्यूनमेवेति प्रागेवोक्तम्॥४॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
१. एवकारेण भवदभिमतमुक्तेः स्वरूपं नास्माभिरपलप्यते, किन्तु तस्याः मुख्यमुक्तित्वमेव निराक्रियत इत्यवध्रियते।
[[४१७]]
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम्। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥ ५॥
यत्तु प्रयाणकाले चेत्यादि चोदितम् , तत्राह— अन्तकाले चेति। १मामेवेत्यवधारणेनाध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते। विशिष्टस्मरणे हि चित्तविक्षेपान्न प्रधानस्मरणमपि स्यात्। न च मरणकाले कार्यकरणपारवश्याद् भगवदनुस्मरणासिद्धिः। सर्वदैव नैरन्तर्येणादरधिया भगवति समर्पितचेतसः तत्कालेऽपि कार्यकरणजातमगणयतो भगवदनुसन्धानसिद्धेः। शरीरे तस्मिन् अहम्ममाभि- मानाभावादिति यावत्। प्रयातीत्यत्र प्रकृतशरीरम् अपादानम्। ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिमाश्रित्याह— नास्तीति। २व्यासेध्यं संशयमेवाभिनयति— याति वेति॥५॥
[आनन्दगिरिकृतव्याख्या]
अन्तकाल इति। अन्तकाले च मरणकाले मामेव परमेश्वरं विष्णुं स्मरन् , मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति, स मद्भावं वैष्णवं तत्त्वं याति। नास्ति न विद्यते अत्र अस्मिन्नर्थे संशयः - याति वा न वेति॥५॥
अन्तकाल इति। ‘प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः’ इति भगवतोक्ते ‘प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः’ इत्यर्जुनेन पृष्टम् , तत्रोत्तरमाह— अन्तकाल इति। परमेश्वरं विष्णुं प्रत्यगभिन्नं ब्रह्म। आत्मन एव व्यापकत्वाद् विष्णुत्वम् , निरतिशयेश्वरत्वाच्च परमेश्वरत्वमिति विवेकः। स्मरन् अहं ब्रह्मास्मीत्यनुसन्दधानः सन् मनसेत्यर्थः। केवलमात्मस्वरूपं चिन्तयन्निति वा। मनो निर्वृत्तिकं विधाय तूष्णीमात्मानमनुभवन्निति वा। प्रयाति गच्छति, म्रियत इति यावत्। स्थूलशरीरत्यागपूर्वकप्रयाणस्यैव मरणत्वात्। ननु तत्त्वविदः प्राणोत्क्रमणाभावेन गमनाभावात् प्रयातीत्ययुक्तमिति चेत् , उच्यते—प्रयातीति लोकसिद्धार्थानुवादमात्रम्। तथा च यस्तत्त्ववित् शरीरं मुक्त्वा प्रयातीति लोकैर्मन्यते, स क्वापि न प्रयाति, किन्तु सर्वतः पूर्णस्य निर्विशेषचिन्मात्रस्य ममात्मनो भावं तत्त्वं सच्चिदानन्दरूपं यातीति। यद्वा शरीरं मुच्यति[मुञ्चति] इत्यतोऽनतिरिक्तार्थमेव ‘शरीरं मुक्त्वा प्रयाति’ इति वाक्यम्। न च पुनरुक्तिः, वाचं वदति, कार्यं करोतीत्यादिवददुष्टत्वात्। तथा च शरीरं मुक्त्वा यः प्रयातीत्यस्य यो म्रियत इत्येतावानेवार्थ इति सिद्धम्। अथवा प्रयातीत्यस्य म्रियत इत्यर्थः। प्रयाणकाल इत्यत्रत्यप्रयाणशब्दस्य मरणार्थदर्शनात्। मरणं च प्राणत्यागः। तथा च प्रयाति प्राणांस्त्यजतीति यावत्। लिङ्गशरीरात्मकत्वात् प्राणा उपलक्षणं लिङ्गशरीरस्य। एवं प्राणत्यागो लिङ्गशरीरत्याग इति सिद्धम्। तथा च यः कलेबरं स्थूलं मुक्त्वा प्रयाति लिङ्गं परित्यजति स मद्भावं ब्रह्मसायुज्यं याति। निरुपाधिकस्यैवात्मनो ब्रह्मत्वम्। न च कारणशरीरसत्त्वात् कथं निरुपाधिकत्वमिति वाच्यम् , कारणशरीरस्याज्ञानस्य नाशं विना लिङ्गनाशाभावाल्लिङ्गनाशेनैव कारणनाशस्य सिद्धत्वात्। न च स्थूलशरीरनाशादेव सूक्ष्मदेहसत्त्वेऽपि वैष्णवपदप्राप्तिर्भवतीति वाच्यम् , ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चितामेति ततः परं हि माम्। अव्याकृतं भागवतोऽथ वैष्णवः पदं यथाऽहं विबुधाः कलात्यये।’ इति भागवते रुद्रवचनात्। कलात्ययो लिङ्गभङ्गः, तस्मिन् सत्येव वैष्णवपदप्राप्तिः। किञ्च सति लिङ्गशरीरे तत्तादात्म्याध्यासः स्यात् , ततश्च संसारित्वं स्यात् , तस्मात् तन्नाशं विना कथमसंसारिब्रह्मभावप्राप्तिः? न च - सलिङ्गा एव मुक्तिक्षेत्रं वैकुण्ठलोकं गच्छन्तीति - वाच्यम् , तस्य वैकुण्ठस्य सगुणमुक्तिक्षेत्रत्वात् सत्यलोकत्वात् [लोकवत्]। न च सगुणमुक्तिरेवेह विवक्षितेति वाच्यम् , मद्भावमिति ब्रह्मसायुज्यरूपनिर्गुणमुक्तिवर्णनात्। न च - मद्भावो मत्स्वभावो मदाकार इति - वाच्यम् , निराकारस्येश्वरस्याकाराभावात्। न च - निराकारमपीश्वरमात्मानं यदाकारोपहितं स्मरति तदाकारं भाष्यार्कप्रकाशः अ. ८. श्लो. ४-५ ] १. नात्रैवकारेण विष्णुव्यतिरिक्तदेवता व्यावर्त्यते, किन्तु ‘तमेवैकं जानथ आत्मानम्’ इत्यादाविव विशेष्यात्मस्वरूपातिरिक्तं विशेषणादि सर्वमित्याह—मामेवेति। २. निषेध्यमित्यर्थः। नास्तीत्यभिलप्यमानाभावप्रतियोगिभूतमिति यावत्।
[[४१८]]
प्राप्नोतीति - वाच्यम् , तत्त्वविदा निराकारस्यैवात्मनः सच्चिदानन्दरूपस्य स्मर्यमाणत्वात्। अतत्त्वविदो हि साकारमीश्वरं कल्पयित्वा ध्यायन्ति। स्वतःसिद्धे रूपे सति कल्पितरूपध्यायिनामतत्त्ववित्त्वं सर्वसम्प्रतिपन्नम्। न हि रज्जुं सर्पत्वेन ध्यातवान् पुरुषः रज्जुतत्त्वविदिति वक्तुं शक्यते। वास्तवस्वरूपवेत्तृत्वं हि तत्त्ववित्त्वम्। वास्तवं रूपं चात्मनः सच्चिदानन्दमेव। तस्मात् साकारेश्वरध्यायिनां वैकुण्ठादिलोकगमनसम्भवेऽपि निराकारप्रत्यगभिन्नब्रह्मात्मध्यायिनां न वैकुण्ठादिलोकगमन- सम्भवः, श्रुतिस्मृत्यादिविरोधात्। तथा च मरणकाले आत्मस्वरूपचिन्तकास्तत्त्वविदो मद्भावं ब्रह्मत्वमेव प्रयान्ति, न तु लोकान्तरम्। मद्भावमित्यत्रत्यस्य भावशब्दस्य च रूपार्थवर्णनमयुक्तम् , भावशब्दादाकारार्थालाभात् , धर्मवाचित्वाद्भावशब्दस्य। न च निर्धर्मकस्यात्मनः कथं धर्म इति वाच्यम् , स्वरूपस्यैव धर्मत्वादत्र। अत एव हि वैष्णवं तत्त्वमित्युक्तं भाष्यकृद्भिः। विष्णोरात्मन इदं वैष्णवं तत्त्वं स्वरूपं सच्चिदानन्दात्मकं याति ब्रह्मैव भवतीत्यर्थः। ननु पूर्वमेव ब्रह्मणः सत आत्मनः कथं पुनर्ब्रह्मभाव इति चेत् , मैवम्। पूर्वं नाहं ब्रह्मेति विपरीतज्ञानसत्त्वात् तस्य समूलस्य निवृत्तेरेवेह ब्रह्मभावप्राप्तित्वेन विवक्षितत्वात्॥५॥
यं यमिति। मद्विषय एव आत्मविषय एव। भावः पदार्थः। देवताविशेष इन्द्ररुद्रादिः। प्रायेणास्तिकानामिन्द्रादित्यादिदेवतो- पासकत्वादिदमुक्तम्। वस्तुतस्तु यं यं भावं पदार्थमात्रमित्येवार्थः। अन्ते मृगस्मरणेन भरतस्य मृगजन्मप्राप्तिदर्शनात्। कोऽसावन्त- कालः? अत आह— प्राणवियोगकाल इति। प्राणवियोगोपलक्षितकाले इत्यर्थः। वस्तुतः कालस्यानन्तत्वादियमुक्तिः। परमार्थ- दशायामेव हि कालस्य नाशः। शरीरं स्थूलमित्यर्थः। एवकारार्थमाह—नान्यमिति। कौन्तेयेति सम्बुद्धिरित्याह—हे कौन्तेयेति। स्त्रीभ्यो ढक्। कुन्त्या अपत्यं कौन्तेयः। तस्मिन् इन्द्रादिदेवताविशेषे भावश्चित्तासक्तिः। भावितो वासितः। आहिताग्न्यादित्वाद् भावितशब्दस्य परनिपातः। भाविततद्भाव इत्यर्थः। सदा तद्भावभावितः सन् अत एव अन्ते यं यं भावं वापि स्मरन् कलेबरं त्यजति, हे कौन्तेय! तं तमेवैति। सदा तद्भावभावनां विना अन्ते तद्भावस्मरणं न भवतीत्यत उक्तम्—सदा तद्भावभावित इति। न तु स्मृतभावप्राप्तौ सदा तद्भावभावना कारणम्। यद्यन्ते भावनावशात् सुकृतवशाद् दुष्कृतवशाद्वा इन्द्रादिदेवतास्मरणं स्त्रीपश्वादिस्मरणं वा जायते पुंसस्तर्हीन्द्रादिलोकं प्राप्नोति, स्त्र्यादिजन्म वा प्राप्नोतीति निष्कर्षः। न त्विन्द्रादिदेवभावापत्तिः, अनेकेन्द्रादिप्रसङ्गात्। एतेनान्ते विष्णुमूर्तिस्मरणाद् वैकुण्ठलोकप्राप्तिरित्यपि सिद्धम्। एतेन ‘आक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम्’ इत्यत्र मुक्तिशब्दो वैकुण्ठलोकपर एव, न तु ब्रह्मसायुज्यपर इति च सिद्धम्। भाष्यार्कप्रकाशः १. ‘अन्ते अन्तकाले’ इति पा.। यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय ! सदा तद्भावभावितः॥६॥
न मद्विषय एवायं नियमः, किं तर्हि?— यं यमिति। यं यं वाऽपि, यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति १अन्ते प्राणवियोगकाले कलेवरं शरीरम् , तं तमेव स्मृतं भावमेव एति, नान्यम्। कौन्तेय ! सदा सर्वदा तद्भावभावितः तस्मिन् भावस्तद्भावः, स भावितः स्मर्यमाणतयाऽभ्यस्तो येन स तद्भावभावितः सन्॥६॥
[आनन्दगिरिकृतव्याख्या]
अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिनियमवदन्यमपि तत्काले देवादिविशेषं ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यम्भावि- नीति दर्शयति— नेत्यादिना। कथं पुनरन्तकाले परवशस्य नियतविषयस्मृतिर्भवितुमुत्सहते? तत्राह—सदेति। देवादिविशेषः तस्मिन्निति सप्तम्यर्थः। भावो भावना वासना। स भावो भावितः सम्पादितो येन पुंसा स तथाविधः सन् यं यं भावं स्मरति तं तमेव देहत्यागादूर्ध्वं गच्छतीति सम्बन्धः॥६॥
[[४१९]]
ननु ब्रह्मसायुज्यमिति काचन मुक्तिर्नास्त्येव; वैकुण्ठलोकप्राप्तिरेव मुक्तिः; तत्र स्थितानामनन्तगरुडादिसूरिणां नित्य- मुक्तत्वात् , तल्लोकप्राप्तानामेव शुकादीनां मुक्तत्वव्यवहारात्। ब्रह्मसायुज्ये तु ब्रह्मणि जीवानां लयात् स्वनाशः। तस्यापुरुषार्थत्वमेव स्यात् ; नापि नित्यानां जीवानां लयो भवितुमर्हति, ‘निरञ्जनः परमं साम्युपैती’ति श्रुतेर्ब्रह्मसाम्यमेव जीवानाम् , न तु सायुज्यम् ; साम्यं च सच्चिदानन्दत्वात्मकं शुद्धसत्त्वात्मकशरीरवत्त्वं सर्वज्ञत्वादिकं चेति द्वैतिनां पूर्वपक्षः। अत्रोच्यते—मुक्तिर्नाम मोक्षः; परित्याग इति यावत्। कस्येत्याकाङ्क्षायां न स्थूलशरीरस्य, तथात्वे नीवीमोक्षस्यापि मोक्षत्वा- पत्तेः। किन्तु प्रियाप्रियस्पर्शस्य, सुखदुःखादिद्वन्द्वस्येति यावत्। स च सशरीरस्य न सम्भवति, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः। न च स्थूलशरीररहितस्य सम्भवतीति वाच्यम् , स्वप्ने स्थूलशरीराभावेऽपि द्वन्द्वदर्शनात् । सुषुप्तौ स्थूलसूक्ष्म- शरीरद्वयाभावे द्वन्द्वादर्शनाच्च शरीरद्वयरहितस्यैव तत्सम्भवः। न हि मनःप्राणयोः सतोः मनोधर्माणां कामसुखदुःखादीनाम् , प्राण- धर्माणां क्षुत्तृडादीनां भवेदननुभवोऽस्मरणं वा। प्रियाप्रिययोरनुभववत् स्मरणमपि हि सुखदुःखावहम्। यद्यपि वैकुण्ठलोके अप्रिया- नुभवो नास्ति , तथाप्यप्रियस्यानुभूतस्य स्मरणमस्त्येव, मनसः सत्त्वादिति कथं वैकुण्ठलोकस्य मुक्तिक्षेत्रत्वम्? सगुणमुक्तिक्षेत्रमिति तु सुखातिशयसद्भावादुपचारादुक्तम्। एवं वैकुण्ठलोके स्थूलसूक्ष्मशरीरद्वयसत्त्वेन जीवस्याशरीरत्वाभावात् प्रियाप्रियस्पर्शमोक्षो नास्त्येव। तव मते ब्रह्मसायुज्यं तु नास्त्येव। अथ ‘अशरीरं वाव सन्तम्’ इति श्रुतेर्विषयाभावादप्रामाण्यमेव प्राप्तम्। तद्ध्ययुक्तम् आस्तिकानाम्। तस्माच्छ्रुतिप्रामाण्यादस्ति तावदशरीरत्वं जीवानाम्। तदेवाशरीरत्वं ब्रह्मसायुज्यमित्युच्यते, शरीरासंस्पृष्टशुद्ध- चैतन्यस्यैव ब्रह्मत्वात्। न च जीवस्य ब्रह्मणि लयोऽपुरुषार्थ इति वाच्यम् , चैतन्यरूपे जीवे अन्तःकरणविशिष्टत्वरूपजीवत्वस्यैव नाशः, न तु जीवस्येति स्वनाशाभावात्। अन्तःकरणराहित्यस्यैव ब्रह्मसायुज्यत्वान्न जीवानित्यत्वदोषप्रसक्तिः। ब्रह्माभिन्नत्वाज्जीवस्य। ब्रह्म हि नित्यमिति सम्प्रतिपन्नम्। ‘निरञ्जनः परमं साम्य’मित्यत्र च परमं निरतिशयं निरुपाधिकं वा साम्यं समत्वमेकत्वम् , अभेदमिति यावत् , उपैतीत्यर्थात्। यत्सर्वदैकरूपं तद्धि समं, यदनेकरूपं तद् विषममिति समत्वस्यैकत्वात्। तस्माद् घटाकाशस्येव घटनाशेन महाकाशसाम्यं जीवस्यापि उपाधिनाशेन ब्रह्मसाम्यमिति सिद्धं ब्रह्मसायुज्यम्। न हि पूर्णस्य चैतन्यस्यावच्छेदकान्तःकरणनाशे जीवेश्वरभेदो भवितुमर्हति, येन जीवस्य ब्रह्मसायुज्यं न सिध्येत्। द्वैतिनां तु नास्त्येव ब्रह्मसायुज्यम् , प्रत्यगभिन्नं ब्रह्मेति ज्ञानाभावात् तेषाम्। अत एव ते स्वदृष्ट्या ब्रह्मसायुज्याभावं ब्रुवन्ति , यथा नास्तिकाः स्वदृष्ट्या ब्रह्माभावमिति सङ्क्षेपः॥६॥
तस्मादिति। तस्माच्छब्दार्थमाह— यस्मादित्यादिना। अन्त्या भावना मरणकालिकं स्मरणमित्यर्थः, यं यं वाऽपि स्मरन्निति पूर्वोक्तानुगुण्यात्। अनुभवजन्यः स्मृतिहेतुः संस्कारो भावनेति न्यायशास्त्रम्। भावनाजन्यत्वाच्च स्मरणस्य भावनात्वेन व्यपदेश इह कृतः। यद्वा अन्तकाले स्थिता वासना स्मरणद्वारा देहप्राप्तौ कारणमिति बोध्यम्। तस्मादिति। अन्तकालोपलक्षितमत्स्मरणस्य मत्सायुज्यहेतुत्वादित्यर्थः। सर्वेषु कालेष्विति। अहोरात्रादिविभागापेक्षया बहुत्वम्। सर्वदाऽपीत्यर्थः। सर्वदाऽपि मयि भावे सत्येवान्ते भाष्यार्कप्रकाशः यस्मादेवमन्त्या भावना देहान्तरप्राप्तौ कारणम्—[तस्मादिति।] तस्मात् सर्वेषु कालेषु मामनुस्मर यथाशास्त्रं, तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥७॥
[आनन्दगिरिकृतव्याख्या]
सततभावना प्रतिनियतफलप्राप्तिनिमित्तान्त्यप्रत्ययहेतुरित्यङ्गीकृत्यानन्तरश्लोकमवतारयति— यस्मादिति। विशेषणत्रयवतो भगवदनुस्मरणस्य भगवत्प्राप्तिहेतुत्वं तस्मादित्युच्यते। सर्वेषु कालेषु आदरनैरन्तर्याभ्यां सहेति यावत्। भगवदनुस्मरणे विशेषणत्रय-
[[अ. ८. श्लो. ६-७]] [[४२०]]
मत्स्मरणं लभ्यते, न तु यदा कदापि वेति भावः। एवं मत्स्मरणमपरित्यजन्नेव शास्त्रविहितं स्वधर्मं युद्धं कुर्वित्याह— मय्यर्पितमनो- बुद्धिर्युध्य चेति।१ शास्त्रमनतिक्रम्य यथाशास्त्रं, शास्त्रसिद्धमित्यर्थः। शास्त्रं च दर्शितम् – ‘श्रेयान् स्वधर्मो विगुणः परधर्मा’दिति, क्षत्रियस्य युद्धं स्वधर्म इति च। ननु आत्मभजनलक्षणज्ञाननिष्ठायां संन्यासिनामेवाधिकाराज्ज्ञानिनां कर्मण्यनधिकाराच्च कथमर्जुनायोभयं कर्तव्यतयोप- दिश्यते भगवता कर्म च ज्ञानं च— ‘सर्वेषु कालेषु मामनुस्मरेति, युद्ध्ये’ति च। भिन्नपुरुषानुष्ठेयत्वं हि कर्मज्ञाननिष्ठयोर्दर्शितं प्राक्। न चैककालावच्छेदेन न दर्शितं तदिति वाच्यम् , ‘सर्वेषु कालेष्वि’ति युद्धकालेऽपि भगवद्भजनस्य प्रोक्तत्वात्। न च युद्धातिरिक्तेषु सर्वकालेष्वित्युच्यत इति वाच्यम् , ‘मय्यर्पितमनोबुद्धिःसन् युद्ध्ये’त्युक्तत्वात् युद्धकालेऽपि भगवद्भजनस्य कर्तव्यत्वापत्तेः। किञ्च ‘कुरु कर्मैव तस्मात्त्व’मिति पूर्वमुक्त्वा कथमधुना ‘मामनुस्मर युद्ध्य चे’ति चकारेण कर्मज्ञानसमुच्चय उच्यते भगवता वा? तस्मात् समुच्चयो भगवदभिमत एवेत्यनेन ज्ञायते मामनुस्मर युद्ध्य चेति विधानेनेति चेत् , मैवम्। अर्जुनमतत्त्ववित्त्वाज्ज्ञाननिष्ठायामनधिकारिणमभिप्रेत्य ‘कुरु कर्मैव तस्मात् त्वम्’ इत्युक्तं प्राक्। इदानीं तु स्वोपदेशमहिम्ना तत्त्वविदग्रेसरमर्जुनं मत्वा जनकादिवत् त्वं लोकसंग्रहार्थं कर्म कुरु, ज्ञाननिष्ठायां च वर्तस्वेत्युच्यते भगवतेति न पूर्वापरविरोधः। नाप्यनेन कर्मज्ञानसमुच्चयसिद्धिः, मोक्षाय त्वं युद्ध्य चेत्यनुक्तत्वात्। ‘कर्मज्ञानसमुच्चय एव मोक्षफलकः, न तु केवलं ज्ञान’मित्याकारकसमुच्चयवादोऽस्माभिर्निराकृतः। न च कर्मज्ञानयोरेक- पुरुषानुष्ठेयत्वासम्भवश्च प्रोक्त इति वाच्यम् , कर्तृत्वाभिमानादिपूर्वककर्मनिष्ठाया ज्ञाननिष्ठायाश्चैकपुरुषानुष्ठेयत्वासम्भवस्यास्माभि- रुक्तत्वात् , कर्तृत्वाभिमानादिरहितकर्मणामकर्मत्वस्यैव प्रत्युतोक्तत्वात्। तस्मात् तत्त्वविदाऽर्जुनेन जनकादिना वा क्रियमाणं कर्म न कर्म, वासुदेवेन क्रियमाणं कर्मेवेति नास्ति कर्मज्ञानसमुच्चयः। एतावताऽर्जुनं प्रति कृष्णस्यायमुपदेशःसिद्धः— भो अर्जुन! त्वं यद्यतत्त्ववित् तर्हि कर्मण्येव तवाधिकार इति कुरु स्वधर्मं युद्धम्। यदि तत्त्ववित् तर्हि मत्तत्त्वस्मरणमविहायैव लोकसंग्रहार्थं युद्धं कुरु स्वधर्मं जनकादिवदिति। न चार्जुनस्यासंन्यासिनः कथमात्मभजनमिति वाच्यम् , क्षत्रियाणां संन्यासाश्रमस्वीकारस्यानावश्यकत्वाज्जनकादेः संन्यासं विनाऽपि ज्ञाननिष्ठत्वदर्शनात्। न च तत्त्वविदोऽर्जुनस्य ज्ञाननिष्ठायामेवाधिकारात् कर्मण्यनधिकाराद् युद्ध्य चेत्युक्तिरयुक्तेति वाच्यम् , फलाभिसन्ध्यहङ्काररहितस्य युद्धस्याकर्मत्वेनास्मिन्नर्जुनस्याधिकारसत्त्वात्। न च तूष्णीम्भाव एवाकर्मेति वाच्यम् , तस्यापि कर्मत्वस्य स्थापितत्वात् ‘कर्मण्यकर्म यः पश्येद्’ इति श्लोके। न चैवं ब्राह्मणानामपि गृहस्थानामस्त्यधिकारो ज्ञाननिष्ठायामिति वाच्यम् , ब्राह्मणानां ज्ञाननिष्ठाधिकारसिद्ध्यर्थमेव संन्यासस्य श्रुतिभिर्विहितत्वात्। साहित्यं यथाशास्त्रमिति द्योत्यते। भगवदनुसन्धानं कर्तव्यमुक्त्वा तेन सह स्वधर्ममपि कुरु युद्धमित्युपदिशता भगवता समुच्चयो ज्ञानकर्मणोरङ्गीकृतो भातीत्याशङ्क्याह— मयीति। मनोबुद्धिगोचरं क्रियाकारकफलजातं सकलमपि ब्रह्मैवेति भावयन् युध्यस्वेति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्याभावाभिलापान्नात्र समुच्चयो विवक्षित इत्यर्थः। उक्तरीत्या स्वधर्ममनुवर्तमानस्य प्रयोजनमाह— मामेवेति। उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति—असंशय इति॥७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. अत्र भाष्यवाक्ययोः पौर्वापर्ये व्यत्यासोऽस्तीति भाति। भाष्यार्कप्रकाशकृत्स्वीकृतः पाठस्तथा स्यात्। युद्ध्य च युद्धं च स्वधर्मं कुरु। मयि वासुदेवेऽर्पिते मनोबुद्धी यस्य तव स त्वं मय्यर्पितमनोबुद्धिः सन् मामेव यथास्मृतम् एष्यसि आगमिष्यसि, असंशयः न संशयोऽत्र विद्यते॥७॥
मामनुस्मर युद्ध्य चेति। नात्राविक्रियब्रह्मात्मतासाक्षात्कारस्य कर्मणा समुच्चयो विवक्षितः, तटस्थेश्वरस्मरणस्य कर्मयोगाङ्गत्वेन विवक्षितत्वादित्यर्थः॥७॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[४२१]]
न च ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इत्यर्जुनस्यापि संन्यासो विहित इति वाच्यम् , सर्वपरिग्रहपरित्यागमात्रस्यैव तेन विधानात्। न च तं विनाऽपि ज्ञाननिष्ठासिद्धौ तस्य विधानं व्यर्थमिति वाच्यम् , सति राज्यादिपरिग्रहे विषयव्याकुलचित्तस्यात्मनि मनःसमाधानं दुर्लभमित्यभिप्रेत्य तद्विधानात्। न च प्रकृते परिग्रहपरित्यागं विनाऽपि ज्ञाननिष्ठोपदिष्टेत्ययुक्तमिति वाच्यम् , सत्यपि परिग्रहे जनकादिवच्चित्तविक्षेपाभावे परिग्रहपरित्यागस्यानावश्यकत्वात्। देहभृतां वरेत्यादिसम्बोधनैरर्जुनस्य स्वोपदेशमहिम्ना जनकादितौल्यप्राप्तिरासीदिति भगवद्धृदयस्य ज्ञायमानत्वात्। भोः अर्जुन ! यदि त्वं जनकादिवद् दृढबोधस्तर्हि सर्वधर्मपरित्यागमकृत्वैव मामनुस्मर युद्ध्य च, यद्यदृढबोधस्तर्हि तावद् युद्ध्य, पश्चात् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इत्यर्जुनं प्रति कृष्णोपदेशसिद्धेः। न च - ‘अर्जुनं तत्त्वविदं मत्त्वैव मामनुस्मर युद्ध्य चेत्युक्तं कृष्णेने’त्युक्तं प्राक्, इदानीं तु ‘अदृढबोधं मत्वा सर्वधर्मान् परित्यज्येत्युच्यते’ इत्युच्यते, कथमिदं विरुद्धमिति वाच्यम् , अर्जुनं निमित्तीकृत्य सर्वलोकोपकारार्थमस्य शास्त्रस्य प्रवृत्तत्वात् क्वचिदर्जुनस्य दृढबोधत्वेन क्वचिददृढबोधत्वेन च निर्देशः सम्भवत्येव। दृढबोधानामदृढबोधानां च पुंसां शास्त्राधिकारिणां सत्त्वात्। तस्मात् तत्त्वविज्जनकादिदृष्ट्योक्तमिदम्— मामनुस्मर युद्ध्य चेति। १यथा भगवता नारायणेन चतुर्मुखाय - मामनुस्मरन् सृष्टिं कुरु, ‘भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचिदि’त्युक्तम् , तद्वत्। अतस्तत्त्वविदः क्षत्रियस्यार्जुनस्य ज्ञाननिष्ठायां स्थितस्यापि युद्धे प्रवृत्तिः सम्भवत्येव जनकादिवद् ब्रह्मादिवच्च। न चैतावता कर्मज्ञाननिष्ठयोर्युगपदेकपुरुषानुष्ठेयत्वमागतमिति वाच्यम् , ज्ञाननिष्ठपुरुषकृतकर्मणां कर्मत्वाभावात्। यथा संन्यासिकृतानां भिक्षाटनादिकर्मणाम् , यथा वा वासुदेवकृतानां दुष्टशिक्षणादिकर्मणामिति। न च अहं ब्रह्मास्मीति स्मरतः कथं कर्मसु प्रवृत्तिरिति वाच्यम् , ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणी’ति पूर्वोक्तत्वेन प्रकृति- गुणैरेव कर्मणां क्रियमाणत्वाद् न कर्मसु तत्त्वविदः प्रवृत्तिः। तत्त्वविद्धि आत्मा; आत्मा हि पूर्णोऽचलः प्रवृत्तिनिवृत्त्यविषयः। अज्ञो वा तत्त्वविदि तद्देहाद्याश्रयं कर्मारोपयति, यथा आत्मनि स्वदेहाश्रयं भोजनादिकर्म। नैतावता कर्तृत्वप्रसक्तिस्तत्त्वविदः, न ह्यज्ञजनारोपित- नैल्येन गगनस्य नीलत्वं प्रसज्यते। य एवंवित् स देहादिभिः कर्म कुर्वन्नप्यकर्तैव। ‘कुर्वन्नपि न लिप्यते’ इतीहैवोक्तं हि। अत एव तत्त्वविदा कृतं कर्माप्यकर्मैव, अबन्धकत्वादिति न तत्त्वविदः कर्मण्यधिकार इति। ननु अन्तकालोपलक्षितात्मस्मरणस्यैव मुक्तिहेतुत्वात् , तस्य च सार्वकालिकात्मभजनलभ्यत्वान्मुमुक्षवे अर्जुनाय सर्वेषु कालेषु मामनुस्मरेत्येतावदेव वक्तव्यम् , न तु युध्य चेति, युद्धकरणस्यान्तकालिकात्मस्मरणाहेतुत्वादिति चेत् , उच्यते—नेह युद्धं कर्तव्यतयोपदिश्यते, किन्तु युद्धादुपरमं मा कार्षीरिति युद्धादुपरमस्याकर्तव्यत्वमुपदिश्यते, निवृत्तिलक्षणत्वाद् गीताशास्त्रस्य। तस्माद् युध्यस्व विगतज्वर इत्यत्राचार्यैरेवैतद् भाषितम्। नन्वेवमपि अन्तकाले आत्मस्मरणलाभार्थं सर्वदा मामनुस्मरेत्येतावदेव वक्तव्यम् , न तु युद्धादुपरमोऽकर्तव्य इति चेत् , सत्यम् , आत्मस्मरणलाभार्थं युध्य चेति नोक्तम् , किन्तु सर्वदाऽप्यात्मानं स्मरतोऽपि तव युद्धादुपरमाद् अनुपरम एव श्रेयान् ऐहिकप्रतिष्ठाहेतुत्वादित्युच्यते – ‘शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः’ इति हि प्रागेवोक्तम्। न च मुमुक्षोस्तत्त्वविदः किमैहिकप्रतिष्ठयेति वाच्यम् , लोकसंग्रहार्थं मुमुक्षुणा तत्त्वविदाऽपि प्रतिष्ठैव सम्पादनीया, न त्वप्रतिष्ठा; अन्यथा अल्पज्ञोऽपि तत्त्ववित्तौल्यमात्मनि सम्भाव्य विड्वराहादिवदभक्ष्यभक्षणादिकं कुर्यात् , तेन चाधः पतेत्। एवं च लोकोपद्रवकारिण्येव स्यात् तत्त्वविदः प्रवृत्तिः। लोकानुग्रह एव कर्तव्यस्तत्त्वविदा वासुदेववत्। न चैवं तत्त्वविदा ब्राह्मणेन गृहस्थेन लोकसंग्रहार्थं कर्मैव कर्तव्यं, न तु संन्यसितव्यमिति वाच्यम् , लोकसंग्रहार्थं संन्यासस्यैव स्वीकर्तव्यत्वात्। उन्मार्गान्निवर्त्य शास्त्रविहितमार्गे प्रवर्तनं हि लोकस्य लोकसंग्रहः। संन्यासस्तु नोन्मार्गः, किन्तु विहितमार्ग एव, ‘ब्राह्मणो निर्वेदमायात्’ ‘यदहरेव विरजेत् तदहरेव प्रव्रजेद्’ इत्यादिश्रुतिभ्यः। स च संन्यासः ज्ञानार्थमेव मुमुक्षोर्ब्राह्मणस्य विहित इति भाष्यार्कप्रकाशः अ. ८. श्लो. ७ ] १. द्र. भागवतम् २.९.३०—३६
[[४२२]]
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥ ८॥
कृत्वा जन्मान्तरीयसंन्यासाश्रमसामयिकवेदान्तश्रवणादिबललब्धतत्त्वज्ञानोऽपि वामदेवादिवत्२ तत्त्वविद् गृहस्थः लोकसंग्रहार्थं संन्यासाश्रमं स्वीकृत्य वेदान्तश्रवणं गुरुसन्निधौ कुर्यादेव। यथा वा भगवत्पादश्रीशङ्कराचार्याः स्वत एव तत्त्वविदोऽपि संन्यस्य श्रीभगवत्पूज्यगोविन्दपादगुरुसन्निधौ वेदान्तश्रवणमकुर्वन् , तद्वदिति। न च क्षत्रियादीनां विनैव संन्यासं ज्ञाननिष्ठाप्राप्तिर्ब्राह्मणस्य तु नेति किमपराद्धं ब्राह्मणेनेति वाच्यम् , अतीव जन्मान्तरार्जित- पुण्यातिशयबललभ्यत्वाद् ब्राह्मणत्वस्य। महापुण्यो हि ब्राह्मणः। अत एव तस्य संन्यासाश्रमस्वीकारयोग्यता। संन्यासाश्रमो हि सर्वलोकवन्द्यः, यथा ब्राह्मणः सर्ववर्णवन्द्यः। तत्त्वज्ञानमसम्पाद्य मृतस्याप्यस्य न यमदर्शनम् , किन्त्विन्द्रदर्शनमिति स्वर्गप्राप्तिरेव। अथवा पुनर्ब्राह्मणजन्मप्राप्तिः, तत्त्वज्ञानसम्पादने च संन्यासाश्रमस्वीकारोऽन्तरङ्गसाधनम् , सति परिग्रहे चित्तविक्षेपाद् वेदान्तश्रवणा- सिद्धेरिति मुमुक्षोः परिग्रहपरित्याग आवश्यक एवेति कृतं ब्राह्मणेन महदेव सुकृतम् , न त्वपराद्धम् , यत् संन्यासाश्रमस्वीकारयोग्यता ब्राह्मणस्य। यस्तु ब्राह्मणःसन्नपि परिग्रहपरित्यागं नेच्छति वैराग्याभावात् तस्य संन्यासाश्रमस्वीकारयोग्यतैव नास्ति। ‘यदहरेव विरजेत् तदहरेव प्रव्रजेद्’ इति वैराग्यस्यैव संन्यासं प्रति हेतुत्वम्। एवं वैराग्यहीनत्वादिहामुत्रफलभोगकामपरवशस्य गृहस्थस्य कुतः पुन- र्वेदान्तश्रवणप्रसक्तिः? ‘अथातो ब्रह्मजिज्ञासा’ इति साधनचतुष्टयसम्पन्नस्य हि ब्रह्मविचारेऽधिकार इत्युक्तं बादरायणेन३। य एवं गृहस्थः शमदमादिसम्पत्त्यभावेऽपि कथञ्चित् कुतूहलितया वेदान्तश्रवणे प्रवर्तते, स हि स्वयमुन्मार्गे प्रवर्तमानः लोकं चोन्मार्गे प्रवर्तयतीति न तस्याचार आस्तिकैर्ग्रहीतुमुचितः। न च कुतूहलकृतमपि वेदान्तश्रवणमनर्थकमिति वाच्यम् , वेदपाठवत् सुकृतहेतुत्वाद् एतत्संस्कारेण जन्मान्तरेऽपि संन्यासाश्रमस्वीकारसम्भवात्। संन्यासस्वीकारप्रतिबन्धकपापस्य निष्कामकर्मादिना नाशे सति संन्याससम्भवात्। तस्मान्मुमुक्षोर्गृहस्थस्य ब्राह्मणस्य संन्यासाश्रमस्वीकारपूर्वकमेव ज्ञाननिष्ठायामधिकारः, संन्यासाभावे तु कर्मनिष्ठायामेव। क्षत्रियादीनां तु तत्त्वविदां विनाऽपि ज्ञाननिष्ठायां कर्मनिष्ठायां वा स्वार्थं लोकसंग्रहार्थं वाऽधिकार इति सुस्थम्॥७॥
अथ यश्चाधिदैवतं पुरुषं चिन्तयति स तं यातीत्युच्यते श्लोकद्वयेन—अभ्यासेति, कविमिति च। हे पार्थ! यः अभ्यासयोगयुक्तेन नान्यगामिना चेतसा परमं पुराणं कविं दिव्यं सर्वस्यानुशासितारं धातारमणोरणीयांसमादित्यवर्णं तमसः परस्तात् स्थितमिति शेषः। अचिन्त्यरूपं पुरुषमनुस्मरेत् , स तमनुचिन्तयन् याति; यः परमत्वादिविशेषणविशिष्टं पुरुषमनुध्यायति स तमेव पुरुषं यातीत्यर्थः। अस्य च पुरुषस्येश्वरत्वादाह—मयीति। पुरुषे इत्यर्थः। समर्पणा समर्पणम्। विलक्षणप्रत्ययैः विसजातीयज्ञानैः अनन्तरितः अव्यवहितः तुल्यप्रत्ययानां सजातीयज्ञानानाम् आवृत्तिरभ्यास एव लक्षणं स्वरूपं यस्य सः विलक्षणप्रत्ययानन्तरिततुल्यप्रत्ययावृत्ति- इतश्च पूर्वश्लोकोक्तार्थानुष्ठायी भगवन्तमन्तकाले प्राप्नोतीत्याह—किञ्चेति। अभ्यासं विभजते—मयीति। न हि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तु सदस्तीति मन्वानो विशिनष्टि—चित्तेति। अन्तरालकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छिद्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्च— अभ्यासेति। अभ्यासयोगयुक्तेन मयि १चित्तसमर्पणविषयभूते एकस्मिन् तुल्यप्रत्ययावृत्तिलक्षणो १. ‘चित्तसमर्पणाविषयभूते’ इति रा.पा.। २. वामदेवस्य हि गर्भगतस्यैव जन्मान्तरीयसंन्यासाश्रम-वेदान्तश्रवणादिबलात् तत्त्वज्ञानमभूदिति ‘गर्भ एवैतच्छयानो वामदेव एवमुवाच’(ऐ.उ.२-५) इति श्रुतौ प्रसिद्धम्। ऐहिकाधिकरणे (ब्र.सू. ३-४-५१) भाष्यकारैरप्युक्तम्— ‘तथा च श्रुतिः….गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसंचितात् साधनाज्जन्मान्तरे विद्योत्पत्तिं दर्शयति।’ इति। तादृशोऽपि गृहस्थः लोकसंग्रहार्थं संन्यासं स्वीकृत्य वेदान्तश्रवणं गुरुसन्निधौ कुर्यादेवेति। ३. शास्त्रप्रथमसूत्रेऽस्मिन् शास्त्रारम्भोपयोगितयाऽथशब्देन साधनचतुष्टयसंपत्त्यानन्तर्याभिधानमुखेन नित्यानित्यविवेकवैराग्यादिसंपन्नो ऽधिकारी दर्शित इति बोध्यम्।
[[४२३]]
विलक्षणप्रत्ययानन्तरितोऽभ्यासः, स चाभ्यासो योगः, तेन युक्तं तत्रैव व्यापृतं योगिनश्चेतः, तेन चेतसा, नान्यगामिना नान्यत्र विषयान्तरे गन्तुं शीलमस्येति नान्यगामि, तेन नान्यगामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं याति गच्छति, हे पार्थ ! अनुचिन्तयन् शास्त्राचार्योपदेशमनु ध्यायन्नित्येतत्॥८॥
१किंविशिष्टं च पुरुषं यातीत्युच्यते—कविमिति। कविं क्रान्तदर्शिनं सर्वज्ञं, पुराणं चिरन्तनम् , अनुशासितारं सर्वस्य जगतः प्रशासितारम् , अणोः सूक्ष्मादपि अणीयांसं सूक्ष्मतरम् अनुस्मरेद् अनुचिन्तयेद् यः कश्चित् , सर्वस्य रभ्यासः। स च प्रकृते पुरुषविषय इत्यभिप्रेत्योक्तम्— मयीति। योगश्चित्तसमाधानम् , अभ्यासरूपो योगोऽभ्यासयोगः। तेन युक्तं अभ्यासयोगयुक्तम् , तेन अभ्यासयोगे व्यापृतेनेत्यर्थ इत्याह— तत्रैवेति। न अन्यगामि नान्यगामि, नञर्थकनशब्देन समासः, नञा सह समासे तु अनन्यगामीति स्यात्। अनुचिन्तयन् अनुसृत्य ध्यायन्। किमनुसृत्येत्यत आह— शास्त्राचार्योपदेशमिति॥८॥
क्रान्तदर्शिनं दूरदर्शिनम् ; फलितमाह— सर्वज्ञमिति। चिरन्तनम् अनादिम्। अनुशासितारं नियन्तारम्। सूक्ष्माद् दुर्ज्ञेयादि- त्यर्थः। न त्वणुपरिमाणात् सूक्ष्मं परमाणुभूतमित्यर्थः, तथात्वे परमात्मनो विष्णोर्व्यापकत्वभङ्गप्रसङ्गात्। ‘अणोरणीयान् महतो महीयान्’ इति श्रुतिविरोधात्। न चाणोर्जीवात् सूक्ष्मतरम् अणीयांसमिति वाच्यम् , जीवस्याणुत्वे ४सावयवत्वप्रसङ्गात्। ततश्चा- नित्यत्वप्रसङ्गात् , सर्वगतत्वासम्भवप्रसङ्गाच्च। निराकृत एवायं प्रागेव जीवाणुत्ववादः। ईश्वरस्य परमाणुप्रायत्वे ‘महतो महीयान्’ इति श्रुतिविरोधः, सर्वव्यापित्वाद्यनुपपत्तिश्चेत्यनुपदमेवोक्तम्। विचित्रतया विलक्षणत्वेन परस्परं भिन्नत्वेनेत्यर्थः। विभक्तारं विभज्य कृतवन्तम्। अयं प्राणी अस्मात् कर्मण इदं फलमनु- भवत्विति व्यवस्थापूर्वकं कर्मफलानि निर्मितवन्तमित्यर्थः। अचिन्त्यरूपं चिन्तयितुमशक्यमचिन्त्यं रूपं विग्रहो यस्य तम् , हिरण्य- श्मश्रुत्वादिविलक्षणसंस्थानविग्रहत्वात् केनचित् चिन्तयितुं न शक्यते रूपमस्येत्यर्थः। प्रत्यक्षदृष्टं वस्तु चिन्तयितुं शक्यते, अदृष्टमपि जायमानेष्वपि सजातीयप्रत्ययावृत्तिरयोगिनोऽपि स्यादित्याशङ्क्याह—विलक्षणेति। अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति— तत्रैवेति। तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्याऽपि परामृश्यते। ननु [न तु] प्राकृतानां चेतस्तथेत्याशङ्क्य विशिनष्टि—योगिन इति। तच्चेच्चेतो विषयान्तरं परामृशेन्न तर्हि परमपुरुषार्थप्राप्तिहेतुः स्यादित्याशङ्क्याह—नान्यगामिनेति। प्रामादिकं विषयान्तरपारवश्यमभ्यनु- ज्ञातुं ताच्छील्यप्रत्ययः२। तेन तात्पर्यादपरामृष्टार्थान्तरेण परमपुरुषनिष्ठेनेत्यर्थः। तदेव पुरुषस्य निरतिशयत्वं यदपरामृष्टाखिलानर्थत्व- मनतिशयानन्दत्वं च। तच्च प्रागेव व्याख्यातं नेह व्याख्यानमपेक्षते। ‘यश्चासावादित्ये’ इत्यादिश्रुतिमनुसृत्याह—दिवीति। तत्र विशेषतो ऽभिव्यक्तिरेव भवनम्। पूर्वोक्तेन चेतसा यथोक्तं पुरुषमनुचिन्तयन् याति तमेवेति सम्बन्धः। अनुचिन्तयन्नित्यत्रानुशब्दार्थं व्याचष्टे— शास्त्रेति। चिन्तयन्निति व्याकरोति—ध्यायन्निति॥८॥
पुरुषमनुचिन्तयन्निति सम्बन्धः। चकारात् कया वा नाड्योत्क्रामन्नित्यनुकृष्यते। तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति—उच्यत इति। क्रान्तदर्शित्वम् अतीतादेरशेषस्य वस्तुनो ३दर्शनशालित्वम्। तेन निष्पन्नमर्थमाह— सर्वज्ञमिति। चिरन्तनम् आदिमतः सर्वस्य कारणत्वादनादिमित्यर्थः। सूक्ष्ममाकाशादि , ततः सूक्ष्मतरं, तदुपादानत्वादित्यर्थः। यो यथोक्तमनुचिन्तयेत् स तमेवानुचिन्तयन् यातीति पूर्वेणैव सम्बन्ध इति योजना। ननु विशिष्टजात्यादिमतो यथोक्तमनुचिन्तनं फलवद् भवति, न त्वस्मदादीना-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः। सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्॥९॥
अ. ८. श्लो. ८-९ ] १. ‘किंविशिष्टं पुरुषमनुचिन्तयन् , कया वा नाड्योत्क्रामन् यातीत्युच्यते’ इति भाष्ये आनन्दगिरीयानुसारिणी योजना। २. ‘नान्यगामिना’ इत्यत्र णिनिप्रत्ययः इत्यर्थः। ३. ‘दर्शनशीलत्वम्’ इति पा.। ४. द्र.भ.गी. २-१७।
[[४२४]]
दृष्टसरूपम्। इदं तु हिरण्यगर्भस्य रूपं शास्त्रैकगम्यत्वाद् दृष्टविलक्षणत्वाच्च चिन्तयितुं न शक्यत इत्यभिप्रायः। न तु रूपस्याभावा- दचिन्त्यत्वमित्याह— विद्यमानमपीति। चैतन्यप्रकाशः चैतन्यवत् सर्वमादित्यादिकं प्रकाशयतीति चैतन्यप्रकाशः। यथा चैतन्यं सर्वं बोधयति, तथा पुरुषस्य वर्णो हिरण्मयत्वात् सर्वं भासयति, प्रदीपादिवदित्यर्थः। यथा आदित्यस्य वर्णः सर्वजगदवभासकः प्रत्यक्षः तथा पुरुषस्यापीत्यर्थः। अज्ञानमूढहृदयस्य पुरुषध्यानासम्भवादाह— तमसः परस्तात् स्थितमिति। न चेश्वरस्य पुरुषस्य कथं रूपसद्भाव इति वाच्यम् , मायया तत्सद्भावात्। अथवा अस्मद्देहस्थित आत्मा यथा प्रत्यगात्मेति व्यवह्रियते, तथा देवस्य सूर्यस्य मण्डले स्थित आत्मा परमात्मेति व्यवह्रियते। अतोऽस्य परमपुरुषत्वं, प्रतीचस्तु पुरुषत्वम्। एवं सति सूर्यमण्डलान्तःस्थस्य पुरुषस्याधिदैवतस्य यद् वास्तवं रूपं नित्यचैतन्यात्मकं तदेवेह ध्येयत्वेन प्राप्तत्वेन चोच्यते। न तु कल्पितं हिरण्यश्मश्रुत्वादिविशिष्टं रूपम्। न चैवमचिन्त्यरूपमिति विरुध्येदिति वाच्यम् , यदस्य पुरुषस्य विद्यमानं पारमार्थिकं रूपं सच्चिदानन्दात्मकं तत् केनापि चिन्तयितुमशक्यम् अवाङ्मनस- गम्यत्वादित्यविरोधात्। अत एवेदं तमसः परस्तात् स्थितम्। अज्ञानपारगमनं विना चैतन्यसाक्षात्कारासम्भवात्। अज्ञानमत्र समुद्रस्थानीयम् , तन्नाशस्तु परपारस्थानीयः। यथा अन्धकारावृतचक्षुषो घटादिरप्रत्यक्षः तथा अज्ञानावृतचेतसः पुरुषोऽप्रकाशः। अत उक्तम्— अज्ञानात्परतः स्थितमिति। पुरुषस्य स्वरूपमाह— आदित्यवर्णमिति। यथा आदित्यस्य वर्णोऽस्ति, तथा पुरुषस्य नित्यचैतन्यप्रकाशोऽस्तीत्यर्थः। यथा आदित्यः सर्वजगदवभासकत्वेन प्रकाशात्मकवर्णशाली, तथा पुरुषः सर्वजगदवभासकत्वेन प्रकाशात्मकचैतन्यशालीति यावत्। आदित्यस्य प्रकाशो दीप्तिः, पुरुषस्य प्रकाशस्तु चैतन्यं ज्ञानमिति विवेकः। अत एवोक्तम्— नित्यचैतन्यप्रकाश इति। नित्यचैतन्यात्मकः प्रकाश इत्यर्थः। अस्य परमपुरुषस्य चैतन्यरूपस्य कर्मफलविधातृत्वादिकं तु माययोपपद्यते। सूक्ष्मात् सूक्ष्मतरत्वं चास्मिन्नुपपन्नतरम्। हिरण्यश्मश्रुत्वादिविशिष्टपुरुषे तु नातीवोपपद्यते, साकारस्य दुर्ज्ञेयत्वा- सम्भवात्। अणोरणीयानिति श्रुतिश्च चैतन्यपरैव, साकारस्य पुरुषस्य महतो महीयस्त्वासम्भवात्। न चैवमध्यात्माधिदैवतयो- रेकत्वमेवेति वाच्यम् , इष्टापत्तेः। एक एव ह्यात्मा सूर्यमण्डलमध्यस्थः पुरुषोऽधिदैवतमिति, अस्मदादिदेहस्थः प्रत्यगात्माऽध्यात्म- मिति चोच्यत इत्यौपाधिक एव ह्यध्यात्माधिदैवतयोर्भेदः। न च स्वान्तरस्थमात्मानं विहाय सूर्यान्तरस्थस्यात्मनश्चिन्तनं व्यर्थमिति वाच्यम् , न व्यर्थम्। यः सूर्ये भक्तः, तस्य सूर्य- भक्तिरूपप्रतिबन्ध[क]सद्भावात् प्रत्यगात्मोपासनं न घटते। स्वात्मभक्तस्यैव हि स्वात्मोपासनं घटते। तस्य सूर्यभक्तस्य मुमुक्षोरात्मनि प्रीतिं जनयितुं हितैषिणी श्रुतिः सूर्यबिम्बोपाधिकपुरुषोपासनं विहितवती। यथा महिषीस्नेहप्रतिबद्धस्य भिक्षोर्महिष्युपाधिकं ब्रह्मोपदिश्य गुरुस्तं भिक्षुमात्मनि व्युत्पन्नं चकार२, तद्वदिति। एतेन मुक्तिकामानां विष्णुरुद्रादिभक्तानामपि विष्णुरुद्रादिशरीरावच्छिन्नः आत्मैवो- कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारं विभज्य दातारम् , अचिन्त्यरूपं नास्य रूपं नियतं विद्यमानमपि केनचिच्चिन्तयितुं शक्यत इत्यचिन्त्यरूपः तम् , आदित्यवर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तमादित्यवर्णम् , तमसः परस्ताद् अज्ञानलक्षणाद् मोहान्धकारात् परं तमनुचिन्तयन् यातीति पूर्वेणैव सम्बन्धः॥९॥
१. ‘रूपं’ इति पा.। २. इयं कथा लोकप्रसिद्धेति पञ्चदश्यां ध्यानदीपे ४१-४२ श्लोकयोरुपनिबद्धा। आनन्दगिरिकृतव्याख्या मित्याशङ्क्याह—यः कश्चिदिति। ‘फलमत उपपत्तेः’ इति न्यायेनाह—सर्वस्येति। ‘एतदप्रमयं ध्रुवम्’ इति श्रुतिमाश्रित्याह—अचिन्त्य- रूपमिति। न हि परस्य किञ्चिदपि १रूपादि वस्तुतोऽस्ति ‘अरूपवदेव हि’ इति न्यायात्। कल्पितमपि नास्मदादिभिः शक्यते चिन्तयितुमित्याह— नास्येति। मूलकारणादज्ञानात् तत्कार्याच्च परस्ताद् उपरिष्टाद् व्यवस्थितं परमार्थतोऽज्ञानतत्कार्यास्पृष्टमित्याह— तमस इति॥९॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
[[४२५]]
पास्यः, न तु शरीरमिति सिद्धम्। एवं सूर्यमण्डलस्थे पुरुषे चिन्त्यमाने सति तत्स्वरूपसाक्षात्कारो जायते। ततश्च स एव पुरुषः सर्वगत इति स्वात्मनः तत्पुरुषस्य चाभेदनिश्चयो जायते। ततश्च प्रत्यगभिन्नपरमात्मसाक्षात्काराद् ब्रह्मसायुज्यं प्राप्नोतीति भावः। अत्रायं विवेकः—यः परमात्मानं प्रत्यग्रूपेण भजमानः सदा५ मरणकाले स्मरति, यश्च सूर्यमण्डलमध्यस्थपुरुषरूपेण स एवाहमिति भजमानोऽन्ते स्मरति, तावुभावपि तत्त्वविदौ ब्रह्मभावं प्राप्नुतः। ६यस्तु परमात्मानं हिरण्यश्मश्रुत्वादिविशिष्टसूर्यबिम्बस्थ- पुरुषरूपेण भजमानोऽन्ते स्मरति स हिरण्यगर्भलोकं प्राप्नोतीति॥९॥
प्रयाणेति। एवं ज्ञानिनोऽन्ते कर्तव्यं प्रदर्श्य योगिनः प्रदर्शयति—प्रयाणेत्यादिना। भजनम् आत्मस्वरूपानुसन्धानम्। पूर्वम् आदौ। ततः पश्चाद् नाड्या सुषुम्नया भूमिजयः, आसनजयः, तत इन्द्रियप्राणमनोजयाः क्रमशब्दार्थः। न केवलयोगिनः परमपुरुष- भाष्यार्कप्रकाशः १. ‘कण्ठे कर्णे’ इति पा.। २. ‘निर्गमा’ इति पा.। ३. ‘अनुस्मर्तव्य’ इति पा.। ४. द्र. तै.उ. भाष्यम् १-६। ५. सदा भजमानः इत्यन्वयः। ६. प्रत्यगभिन्नपरमात्म- साक्षात्काराभावाद् नास्य ब्रह्मसायुज्यमिति भावः। ततो हृदयाद् ऊर्ध्वगामिन्या सुषुम्नाख्यया नाड्या ऊर्ध्वमाक्रम्य भूमिजयक्रमेणेति। १कण्ठे यः स्तन इवावलम्बते मांसखण्डः, तं भित्त्वा तालुकयोश्च मध्ये गत्वेत्यर्थः॥१०॥
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्॥१०॥
किञ्च — प्रयाणेति। प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन, भक्त्या युक्तो भजनं भक्तिस्तया युक्तो योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलम् , तेन च युक्त इत्यर्थः; पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं, ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोर्मध्ये प्राणम् आवेश्य इतश्च भगवदनुस्मरणं सफलत्वादनुष्ठेयमित्याह—किञ्चेति। कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते? तत्राह—प्रयाणकाल इति। कथं तदनुस्मरणमित्युपकरणकलापमपेक्षमाणं प्रत्याह—मनसेति। योऽनुस्मरेत् स किमुपैति? तत्राह—स तमिति। मरणकाले क्लेशबाहुल्येऽपि प्राचीनाभ्यासप्रसादासादितबुद्धिवैभवो भगवन्तमनुस्मरन् यथास्मृतमेव देहाभिमान२विगमानन्तरमुपगच्छतीत्यर्थः। भगवदनुस्मरणस्य साधनं ‘मनसैवानुद्रष्टव्य’मिति श्रुत्युपदिष्टमाचष्टे—मनसेति। तस्य चञ्चलत्वान्न स्थैर्यमीश्वरे सिध्यति, तत् कथं तेन तदनुस्मरणमित्याशङ्क्याह—अचलेनेति। ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखं तस्मिन्नेवानुस्मरणयोग्ये पौनःपुन्येन प्रवृत्त्या निश्चलीकृतं ततश्चलनविकलं, तेनेति व्याचष्टे—चलनेति। सम्प्रत्यनुस्मरणाधिकारिणं विशिनष्टि—भक्त्येति। परमेश्वरे परेण प्रेम्णा सहितो विषयान्तरविमुखो३ऽनुस्मर्ता इत्यर्थः। योगबलमेव स्फोरयति—समाधिजेति। योगः समाधिः, चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनम् , तस्य बलं संस्कारप्रचयो ध्येयैकाग्र्यकरणम् , तेन तत्रैव स्थैर्यमित्यर्थः। चकारसूचितमन्वयमन्वाचष्टे—तेन चेति। यत्तु कया नाड्योत्क्रामन् यातीति? तत्राह—पूर्वमिति। चित्तं हि स्वभावतो विषयेषु व्यापृतं तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम्। ‘अथ यदिदमस्मिन् ब्रह्मपुरे’ इत्यादिश्रुतेः। तत्र चित्तं वशीकृत्यादावनन्तरं कर्तव्यमुपदिशति—तत इति। इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निःसृते निरुध्य, तस्मादेव हृदयाग्रादूर्ध्वगमनशीलया सुषुम्नया नाड्या हार्दं प्राणमानीय ४कण्ठावलम्बितस्तनसदृशं मांसखण्डं प्रापय्य, तेनाध्वना भ्रुवोर्मध्ये तमावेश्याप्रमादवान् ब्रह्मरन्ध्राद् विनिष्क्रम्य ‘कविं पुराण’मित्यादि- विशेषणं परमपुरुषमुपगच्छतीत्यर्थः। भूमिजयक्रमेणेत्यत्र भूम्यादीनां पञ्चानां भूतानां जयो वशीकरणम् , तस्य तस्य भूतस्य आनन्दगिरिकृतव्याख्या
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[अ. ८. श्लो. ९-१०]] [[४२६]]
सायुज्यप्राप्तिरित्याह— विद्वान् योगीति। दीव्यतेर्द्योतनार्थकत्वादाह— दिव्यं द्योतनात्मकमिति। चैतन्यरूपमित्यर्थः। यद्यपि रोगार्तस्य म्रियमाणस्य योगिनो दुर्लभोऽयं योगस्तथापि योगिनो योगाभ्यासेन नीरोगत्वान्मृत्युहेतोः कस्यचिद् रोगस्योत्पत्तेः प्राक् स्वयमेव मरणाय यतेत योगीति बोध्यम्। स्वाधीनमरणत्वाद् योगिनो न रोगोत्पत्तिरिति वा॥१०॥
यदिति। वक्ष्यमाणेनेति। सर्वद्वाराणीति श्लोकद्वये इति भावः। प्रतिपत्तुमिष्टं प्रतिपित्सितम्। तस्य विशेष्यस्य ब्रह्मणोऽभि- धानमिति सम्बन्धः। विशेष्यस्य विशिष्टस्येत्यर्थः। अभिधानं नाम ओमित्येतदिति भावः। वेदविदां वदनं वचनम् , आदिशब्दाद् यतिविशन-ब्रह्मचर्यचरणयोर्ग्रहणम्। ‘स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्’ इति श्रुतेः अध्ययनविधेः फलवदर्थावबोधपर्यन्तत्वादाह— वेदार्थज्ञा इति। ‘सर्वे वेदा यत्पदमामनन्ती’ति श्रुतेर्वेदार्थो ब्रह्म; तज्ज्ञाः ब्रह्मविद इति यावत्। हे गार्गि ! तत् प्रसिद्धमक्षरम् एतत् पूर्वोक्तं ब्रह्मैवेति ब्राह्मणाः ब्रह्मवेत्तारोऽभिवदन्ति अभितो वदन्तीति श्रुत्यर्थः। सर्वेभ्यो विशेषेभ्यो निवृत्तं निर्गतं, सर्वे विशेषा निवृत्ता यस्मात् तदिति वा सर्वविशेषनिवृत्तं, तत्त्वेन निर्विशेषत्वेनेत्यर्थः। निर्विशेषत्वे ब्रह्मणः श्रुतिं प्रमाणयति—अस्थूलमिति। स्थौल्यसौक्ष्म्यह्रस्वत्वदीर्घत्वादिरहितमित्यर्थः। प्रविशन्ति सायुज्यं प्राप्नुवन्तीत्यर्थः। कदेत्यत आह— सम्यग्दर्शनप्राप्ताविति। ब्रहात्मसाक्षात्कारे सतीत्यर्थः। मोक्षाय यतनशीलत्वमिहामुत्रार्थफलभोगविरक्तानामेव सम्भवति, न त्वविरक्तानाम्। ते च विरक्ताः संन्यासिन एवेत्यभिप्रेत्याह— संन्यासिन इति। रागो दृष्टश्रुतविषयासक्तिः। वाक्यशेष इति। भाष्यार्कप्रकाशः स्वाधीनचेष्टावैशिष्ट्यम् , तद्द्वारेणेत्युच्यते। ‘स तम्’ इत्यादि व्याचष्टे—स एवमिति॥१०॥
येन केनचिन्मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्ते सत्यभिधानेन५ नियन्तुं स्मर्तव्यत्वेन प्रकृतपरमपुरुषस्य त्रैविद्य- वृद्धप्रसिद्ध्या प्रामाणिकत्वमाह—पुनरपीति। उपायो वक्ष्यमाण ओङ्कारः। अविषये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनमित्याशङ्क्या- विषयत्वमत्यक्त्वैवेति मत्वा श्रुतिमुदाहरति—तद्वा इति। तथापि तस्मिन्नविषये सर्वविशेषशून्ये वचनमनुचितमित्याशङ्क्याह—सर्वेति। न केवलं विद्वदनुभवसिद्धं यथोक्तं ब्रह्म, किन्तु मुक्तोपसृप्यतया मुक्तानामपि प्रसिद्धमित्याह—किञ्चेति। केषां पुनः संन्यासित्वम्? तदाह— वीतरागा इति। ज्ञानार्थं ब्रह्मचर्यविधानादपि ब्रह्म ज्ञेयत्वेन प्रसिद्धमित्याह—यच्चेति। कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यमित्याकुलितचेतसमर्जुनं प्रत्याह—तत्ते पदमिति॥११॥
[आनन्दगिरिकृतव्याख्या]
१. ‘बुद्धिमान्’ इति पा.। २. कुण्डलितः पाठः क्वचिन्न। व्याख्यातृभिरस्पृष्टश्च। ३. ‘सर्वविशेषनिवृत्तत्वेन’ रा.पा. युक्तो भाति। ४. ‘तव’ इति पा.। ५. अभिधानेन ओङ्कारेण। स्थापयित्वा सम्यग् अप्रमत्तः सन् स एवं १विद्वान् योगी ‘कविं पुराण’मित्यादिलक्षणं तं परं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम्॥१०॥
२(योगमार्गानुगमनेनैव ब्रह्मविद्यामन्तरेणापि ब्रह्म प्राप्यत इत्येवं प्राप्त इदमुच्यते।) पुनरपि वक्ष्यमाणेनोपायेन प्रतिपित्सितस्य ब्रह्मणो वेदविद्वदनादिविशेषणविशेष्यस्याभिधानं करोति भगवान्— यदक्षरमिति। यदक्षरम् - न क्षरतीत्यक्षरम् अविनाशि, वेदविदो वेदार्थज्ञाः वदन्ति, ‘तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’(बृ.उ.३.८.८) इति श्रुतेः ३सर्वविशेषनिवर्तकत्वेनाभिवदन्ति—‘अस्थूलमनण्वि’त्यादि। किञ्च विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यद् यतयो यतनशीलाः संन्यासिनो वीतरागाः वीतो विगतो रागो येभ्यस्ते वीतरागाः। यच्चाक्षरमिच्छन्तः, ज्ञातुमिति वाक्यशेषः; ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति, तत् ते पदं तद् अक्षराख्यं पदं पदनीयं ते ४तुभ्यं संग्रहेण, संग्रहः संक्षेपः, यदक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये॥११॥
[[४२७]]
तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि॥११॥
‘स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति, तस्मै स होवाच, एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’(प्र.उ.५.१,२) इत्युपक्रम्य ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवा- क्षरेण परं पुरुषमभिध्यायीत’(प्र.उ.५.५) इत्यादिना वचनेन, ‘अन्यत्र धर्मादन्यत्राधर्मात्’(क.उ.२.१४) इति चोपक्रम्य ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्ये- यदक्षरमिच्छन्त इति वाक्ये ज्ञातुमिति शेष इत्यर्थः। ब्रह्मचर्यं वेदाध्ययनादिकं गुरौ गुरुसन्निधावित्यर्थः। चरन्ति अर्थाद् ब्रह्मचारिणः; यद्वा ब्रह्म जिज्ञासवः। पदनीयं प्राप्यं ब्रह्मेति यावत्। तस्यैवापुनरावृत्तित्वेन मुमुक्षुभिः प्राप्यत्वात्। ‘प्रवक्ष्ये’ इत्युत्तमपुरुष- निर्देशादहमित्यस्याक्षेपः। कथयिष्यामीति। ‘परः’ इत्यादिश्लोकद्वयेनेति भावः। वेदविदो यदक्षरं वदन्ति, वीतरागाः यतयो यद् विशन्ति, यदिच्छन्तः कुशला ब्रह्मचर्यं चरन्ति, तत् पदं ते संग्रहेण प्रवक्ष्ये इत्यन्वयः॥११॥
ननु प्रत्यग्रूपेण पुरुषरूपेण च परमात्मनो भजनमुक्तम् , प्रयाणकाले च तत्स्मरणात् सायुज्यलाभश्चोक्तः, तस्मात् सर्वद्वाराणीत्याद्युत्तरग्रन्थारम्भो व्यर्थ इति शङ्कायां, न व्यर्थः, उत्तमाधिकारिणां पूर्वोक्तविधया ब्रह्मप्रतिपत्तिसम्भवेऽपि मन्दमध्यमाधिकारिणां तदसम्भवात् तेषां गतिप्रदर्शनार्थोऽयमुत्तरग्रन्थ इत्याह— स य इत्यादिना। ‘स य’ इत्यादिरुपनिषत्। अस्याः अयमर्थः— हे भगवन् ! मनुष्येषु मध्ये यः प्रायणान्तं मरणावधि ओङ्कारमभिध्यायीत स तेन ओङ्करध्यानेन कतमं लोकं जयति साधयति, प्राप्नोतीति यावत्। तस्मै एवं पृष्टवते शिष्याय स गुरुरुवाच— हे सत्यकाम ! ओङ्कार इति यत् तदेतत् परं ब्रह्म, अपरं ब्रह्म च वक्ष्यमाणेनोपायेनेत्युक्तं व्यक्तीकुर्वन्नोङ्कारद्वारा ब्रह्मोपासनं श्रुत्युक्तमनुक्रामति—स यो हेति। सत्यकामेनाभिध्यानफलं जिज्ञा- सुना ‘भगवन्’ इति पिप्पलादः सम्बोध्याभिमुखीक्रियते। निपातौ तु प्रसिद्धमर्थमेव द्योतयन्तावभिध्यानस्य फलवत्त्वेन कर्तव्यत्व- मावेदयतः। मनुष्येषु मध्ये स योऽधिकृतो मनुष्यः तत् प्रसिद्धमभिध्यानं यथा सिध्यति तथा सर्ववेदसारभूतमोङ्कारमाभिमुख्येन ध्यायीत। तच्चाभिध्यानम् ‘आप्रायणादि’ति न्यायेन मरणान्तमनुष्ठेयम्। स चैवमनुतिष्ठन् प्रकृतेनाभिध्यानेन लोकानां जेतव्यानां बहुत्वात् कतमं लोकं जयतीति १प्रश्नं पृष्टवते सत्यकामाय पिप्पलादनामा किलाचार्यः प्रतिवचनं प्रोवाच। तत्र प्रथममभिध्येयमोङ्कारं परापरब्रह्मत्वेन महीकरोति—एतद्वा इति। त्रिमात्रेणाकारोकारमकारात्मकेनेति यावत्। योऽभिध्यायीत, [सः] तमेव यथाभिध्यातं पुरुषमधिगच्छती- त्यादिवचनेनोपासनमोङ्कारस्योक्तमित्यर्थः। प्रश्नश्रुतिवत् कठवल्ली च तत्रैवार्थे प्रवृत्तेत्याह—अन्यत्रेति। अव्यवधानेनोपनिषदां, व्यवधानेन च कर्मश्रुतीनां परस्मिन्नात्मनि पर्यवसानं दर्शयति—सर्व इति। तपसामपि सर्वेषां चित्तशुद्धिद्वारा तत्रैव पर्यवसानमित्याह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘प्रश्ने’ इति पा.। यथो[यदो]ङ्कारोपासनं श्रुतिषु विहितम् , तदेवेह भगवता सूत्रितमिति महातात्पर्यमुत्तरग्रन्थस्य दर्शयति—स यो ह वै तदित्यादिना। मनुष्येषु मध्ये सः यः कश्चिद्ध वै किल एतत् करोति, किम्? मरणान्तमोङ्कारमुपासीत, कतमं वाव स (ते) तेन लोकं जयतीति सत्यकामेन पृष्टः पिप्पलादः प्रोवाच— एतद्वै सत्यकामेत्यादि। त्रिमात्रमोङ्कारम् इत्येतदक्षरं परमपुरुष- दृष्ट्या य उपास्ते ‘स सामभिरुन्नीयते ब्रह्मलोक’मित्यादिना वचनेन यथो[यदो]ङ्कारस्योपासनं कालान्तरमुक्तिफलमुक्तम् , तदेवेहापि वक्तव्यमित्यन्वयः। न केवलमाथर्वणे ओङ्कारोपासनमुक्तम् , काठकेऽप्युक्तमित्याह—अन्यत्र धर्मादित्यादिना। धर्माधर्माभ्यामसंस्पर्शं ब्रह्मोपक्रम्येत्यर्थः। तपांसि सर्वाणि यत्प्रतिपत्त्यर्थानि वदन्ति तत् पदमोङ्कारमित्यनुध्येयं सङ्क्षेपेण ब्रवीमीत्यर्थः॥१२॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[अ. ८. श्लो. ११-१२]] [[४२८]]
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायाऽऽत्मनः प्राणम् आस्थितो योगधारणाम्॥१२॥
तत्’ (क.उ.२.१५) इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण, प्रतिमावत् प्रतीकरूपेण च परब्रह्मप्रतिपत्ति- साधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्योङ्कारस्योपासनं कालान्तरे मुक्तिफलमुक्तं यत् , तदेवेहापि ‘कविं पुराणमनु- शासितारम्’, ‘यदक्षरं वेदविदो वदन्ति’ इति चोपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्योङ्कारस्य कालान्तरमुक्तिफलमुपासनं योगधारणासहितं वक्तव्यम् , प्रसक्तानुप्रसक्तं च यत्किञ्चिदित्येवमर्थ उत्तरो ग्रन्थ आरभ्यते— सर्वेति। सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराण्युपलब्धौ, तानि सर्वाणि संयम्य संयमनं भवतीति शेषः। इत्युपक्रम्य आरभ्य यः पुनरेतं परं पुरुषं त्रिमात्रेण अकारोकारमकाररूपमात्रात्रयवता प्लुतस्वरेणेति ओमित्येकेनाक्षरेण वर्णेन अभिध्यायीत, स सामभिः ब्रह्मलोकम् उन्नीयते प्राप्यते। अन्यत्र धर्माद् धर्मरहितम् , अन्यत्राधर्माद् अधर्मरहितम्। आमनन्ति वदन्ति। तपोभिः कृच्छ्रचान्द्रायणादिभिश्चित्तशुद्धिद्वारा ब्रह्मज्ञानसम्भवात् तपांसि सर्वाणि च यद्वदन्तीत्युक्ते किं तत्पदम्? अत आह श्रुतिः– ओमित्येतदिति। वाचकरूपेणेति। वाचकत्वरूपेणेत्यर्थः। प्रतीकरूपेणेति। प्रतीकम् आरोपालम्बनं, तद्रूपेणेत्यर्थः। यथा प्रतिमा विष्ण्वादिदेवतारोपालम्बनम् , तद्वदोङ्कारोऽपि परब्रह्मारोपालम्बनमित्यर्थः। ब्रह्मणो वाचकत्वात् प्रतीकत्वाच्च मन्दमध्यमबुद्धीनां ब्रह्मप्रतिपत्तौ साधनमोङ्कार इति, तस्योपासनं च ब्रह्मलोकप्राप्तिद्वारा क्रममुक्तिफलकमिति च श्रुत्योक्तं यत् तदेव इहापि गीताशास्त्रेऽपीत्यर्थः। श्रुत्यर्थविवरणपरत्वाद् गीताशास्त्रस्येति भावः। पूर्वोक्तरूपेण श्रुत्युक्तरूपेणेत्यर्थः। वक्तव्यं भगवतेति शेषः। अयं भावः— ओमित्येतत् शब्दतोऽर्थतश्च परमपरं चेति द्विविधं ब्रह्म; तत्र १शब्दतोऽपरं ब्रह्म, अर्थतस्तु परं ब्रह्मेति विवेकः। शब्दस्य ब्रह्मप्रतीकत्वादपरब्रह्मत्वम् , अर्थस्य ब्रह्मत्वात् परब्रह्मत्वम्। तत्र ओमित्येतस्य परब्रह्मणो भजनं सायुज्यलाभश्च पूर्वमुक्तम् , तच्चोत्तमाधिकारिविषयम्। अथ ओमित्येतस्य अपरब्रह्मणो ब्रह्मवाचकस्य त्रिमात्रस्योङ्कारस्य शब्दस्य भजनं ब्रह्मलोकप्राप्तिद्वारा क्रममुक्तिश्च वक्ष्यते। तच्च मन्दमध्यमाधिकारिविषयमिति। प्रसक्तानुप्रसक्तं प्रसङ्गादागतमित्यर्थः। किञ्चिदिति। ब्रह्मभुवनादयः पुनरावर्तिन इत्यादिकमित्यर्थः। सर्वेति। द्वाराणि साधनानि करणानीति यावत्। कुत्र? तदाह— उपलब्धाविति। विषयानुभवे इत्यर्थः। तपांसीति। तस्यैव च ज्ञानार्थमष्टाङ्गं ब्रह्मचर्यं तत्र तत्र विहितमित्याह—यदिच्छन्त इति। तस्य पदनीयस्य ब्रह्मणः सङ्क्षेपेण कथनमोङ्कारद्वारकमिति कथयति—ओमित्येतदिति। उदाहृतवचनानां तात्पर्यं दर्शयति—परस्येति। तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्योङ्कारस्योपासनं यथोक्तैर्वचनैरुक्तमिति सम्बन्धः। ननु परस्मिन् ब्रह्मणि तत्त्वमस्यादिवाक्यादेव प्रतिपत्तिरधिकारिणो भविष्यति किमित्युपासनमोङ्कारस्योपन्यस्यते तत्राह—परेति। यद्यपि विशिष्टस्याधिकारिणो विनैवोपासनमुपनिषद्भ्यो ब्रह्मणि प्रतिपत्तिरुत्पद्यते, तथापि मन्दानां मध्यमानां च तद्धीहेतुत्वेनोङ्कारो विवक्षितः। तच्चोपासनं ब्रह्मदृष्ट्या श्रुतिभिरुपदिष्टमित्यर्थः। तस्य क्रममुक्तिफलत्वादनुष्ठेयत्वं सूचयति—कालान्तरेति। भवत्वेवं श्रुतीनां प्रवृत्तिस्तावता प्रकृते किमायातमित्याशङ्क्याह—उक्तं यदिति। तदेवेहापि वक्तव्यमित्युत्तरेण सम्बन्धः। उपासनमेवोपास्योपन्यासद्वारा स्फोरयति—कविमित्यादिना। पूर्वोक्तरूपेणेति अभिधानत्वेन प्रतीकत्वेन चेत्यर्थः। श्रौतस्योपासनस्यानूद्यमानस्य सोपस्करत्वं सङ्गिरते—योगेति। तर्हि कथम् ‘अनन्यचेताः सततम्’ इत्यादि वक्ष्यते? तत्राह—प्रसक्तेति। ओङ्कारोपासनं प्रसक्तम् , तदनन्तरं तत्फलमनुप्रसक्तम् तद्द्वारा चापुनरावृत्त्यादि वक्तव्यकोटि- निविष्टमित्यर्थः। उक्तेऽर्थे समनन्तरग्रन्थमुत्थापयति—इत्येवमर्थ इति। श्रोत्रादीनां कुत्र द्वारत्वम्? तत्राह—उपलब्धाविति। तेषां संयमनं १. शब्दतः इति। ओंशब्दस्वरूपमित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[४२९]]
रूपशब्दादिविषयानुभवसाधनचक्षुःश्रोत्रादिद्वाराणि नियम्येति यावत्। हृदयपुण्डरीके पुण्डरीकाकारे हृदयकोशे। निष्प्रचारमापाद्य निर्वृत्तिकं विधाय । तत्र हृदि वशीकृतेन स्थिरीकृतेनेत्यर्थः। मनसा सहेति शेषः। मूर्ध्नि ब्रह्मरन्ध्रे आधाय निधाय। आस्थितः धारयितुं प्रवृत्तः॥१२॥
ओमिति। तत्रैव मूर्ध्न्येव धारयन् प्राणानिति शेषः। ब्रह्मवाचके ओङ्कारे ब्रह्मशब्दो लाक्षणिक इत्याह— ब्रह्मणोऽभिधान- भूतमिति। वस्तुतो ब्रह्मणि वाच्यवाचकभावाभावादाह— अभिधानभूतमिति। अभिधानतुल्यमित्यर्थः। ब्रह्मणो वाचकमिव स्थितमिति यावत्। तदर्थभूतम् ओङ्कारवाच्यम्। प्रयाणविशेषणार्थमिति। देहत्यागरूपं मरणं प्रपद्यत इत्यर्थः। तदेवाह— देहेति। देहत्यागेनैवा- त्मनो मरणं, न तु स्वरूपनाशेन। यथा देहस्य स्वरूपनाशेन मरणम् , तद्वन्नेत्यर्थः। स एवं मृत इति शेषः। गम्यत इति गतिः प्राप्यस्थानं, हिरण्यगर्भलोकमिति यावत्। स्वर्गादिलोकापेक्षया तस्य प्रकृष्टत्वं बोध्यम्। अथवा हिरण्यगर्भलोकप्राप्तिद्वारा प्रकृष्टां गतिं मुक्तिं यातीति, कालान्तरमुक्तिफलत्वादोङ्कारोपासनस्य। न च ओङ्कारोपासकस्यापीश्वरस्मरणसत्त्वान्मुक्तिरेव स्यादिति वाच्यम् , परोक्षेश्वरस्मरणमेव तस्य, न प्रत्यगभिन्नेश्वरस्मरणमिति कृत्वा भिन्नेश्वरस्मरणस्य मुक्त्यहेतुत्वात्। मामनुस्मरन्निति निर्देशादयं योगी ओङ्कारं वाचकरूपेणोपास्ते, न तु प्रतीकरूपेणेति ज्ञायते। यः प्रतीकरूपेणोपास्ते ओङ्कारं, तस्य हि ओङ्कार एव ब्रह्मबुद्धिः। अन्नादौ सालग्रामादौ वा ब्रह्मबुद्धिवद् विष्ण्वादिबुद्धिवच्चेति न तस्यास्त्योङ्कारातिरिक्तेश्वरस्मरणम्। सर्वद्वाराणि संयम्य, मनः हृदि निरुध्य च आत्मनः प्राणं मूर्ध्न्याधाय योगधारणामास्थितःसन् ब्रह्म ओमित्येकाक्षरं व्याहरन् मामनुस्मरन् यः देहं त्यजन् प्रयाति, स परमां गतिं यातीति श्लोकद्वयस्यान्वयः। अक्षरशब्दोऽत्र वर्णवाच्येव, प्रणवाभिधायकत्वादिति भाष्यार्कप्रकाशः ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥१३॥
कृत्वा, मनो हृदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा, निष्प्रचारमापाद्य, तत्र वशीकृतेन मनसा हृदयादूर्ध्वगामिन्या नाड्योर्ध्वमारुह्य मूर्ध्नि आधायात्मनः प्राणम् आस्थितः प्रवृत्तो योगधारणां धारयितुम्॥१२॥
तत्रैव च धारयन्—ओमिति। ओमित्येकाक्षरं ब्रह्म ब्रह्मणोऽभिधानभूतमोङ्कारं व्याहरन् उच्चारयन् , तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते स त्यजन् परित्यजन् देहं शरीरम्। त्यजन् देहमिति १प्रयाणविशेषणार्थम्। देहत्यागेन प्रयाणमात्मनः, न स्वरूपनाशेनेत्यर्थः। स एवं त्यजन् याति गच्छति परमां प्रकृष्टां गतिम्॥१३॥
विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम्। कोऽयं मनसो हृदये निरोधस्तत्राह—निष्प्रचारमिति। मनसो विषयाकारवृत्तिं निरुध्य हृदि वशीकृतस्य कार्यं दर्शयति—तत्रेति। ऊर्ध्वमित्यत्रापि हृदयादिति सम्बध्यते। सर्वाण्युपलब्धिद्वाराणि श्रोत्रादीनि संनिरुध्य, वायुमपि सर्वतो निगृह्य हृदयमानीय, ततो निर्गतया सुषुम्नया कण्ठभ्रूमध्यललाटक्रमेण प्राणं मूर्धन्याधाय, योगधारणामारूढो ब्रह्म व्याहरन् मां च तदर्थमनुस्मरन् परमां गतिं यातीति सम्बन्धः॥१२॥
यथोक्तयोगधारणार्थं प्रवृत्तो मूर्धनि प्राणमाधाय धारयन् किं कुर्यादित्याशङ्क्यानन्तरश्लोकमवतारयति—तत्रैवेति। एकं च तदक्षरं चेत्येकाक्षरम् ओमित्येवंरूपम्। तत् कथं ब्रह्मेति विशिष्यते? तत्राह—ब्रह्मण इति। यः प्रयातीति मरणमुक्त्वा, त्यजन् देहमिति ब्रुवता पुनरुक्तिराश्रिता स्यादित्याशङ्क्य, विशेषणार्थं विवृणोति—देहेति। एवमोङ्कारमुच्चारयन्नर्थं चाभिध्यायन् ध्याननिष्ठः स पुमानित्यर्थः। परमामिति गतिविशेषणं २क्रममुक्तिविवक्षया द्रष्टव्यम्॥१३॥
[आनन्दगिरिकृतव्याख्या]
अ. ८. श्लो. १२-१३ ] १. आत्मनः प्रयाणमीदृशमिति विशिष्य तत्स्वरूपबोधनार्थमित्यर्थः। २. ब्रह्मलोकं प्राप्य तत्रैवोत्पन्नसाक्षात्कारान्मुक्तिः क्रममुक्तिः।
[[४३०]]
॥१३॥
अनन्येति। अन्यस्मिन् विषये चेतो यस्य सोऽन्यचेताः, स न भवतीत्यनन्यचेताः; विषयानासक्तचित्त इत्यर्थः। नित्यशः इत्यनेन षण्मासान् संवत्सरं वेति दीर्घकालत्वं नोच्यत इत्यन्वयः। यत एवमिति। यस्मादेवं नित्यशो मां स्मर्तुर्मदेकतानचित्तस्य योगिनः सुलभोऽहम् अतः तस्मादित्यर्थः। अनन्यचेता विषयानासक्तचित्तः। समाहितो मदेकतानचित्तः भवेन्मुमुक्षुरिति शेषः। एतच्छ्लोकोक्तमीश्वरस्मरणं यद्यहं ब्रह्मास्मीत्याकारकं, तर्हि साक्षान्मुक्तिरेव स्मर्तुः; यदि तु परोक्षेश्वरस्मरणं तर्हि क्रममुक्तिरिति बोध्यम्। यद्वा मन्दबुद्धीनामोङ्कारोपासनं कालान्तरमुक्तिफलकं ‘सर्वद्वाराणी’ति श्लोकद्वयेनोक्तम्। मध्यमबुद्धीनां तु ‘अहं ब्रह्मास्मी’- त्युपासनमिदं विधीयते। यस्य मुमुक्षोर्बहुवारं वेदान्तश्रवणे कृतेऽपि ‘अहं ब्रह्मास्मी’ति ज्ञानं न जायते प्रतिबन्धादिबाहुल्यात् , स सर्वदाऽपि ‘अहं ब्रह्मास्मी’ति जपेन्मन्त्रवत्। तेन च सर्वप्रतिबन्धक्षये इहैव जन्मनि मुक्तिर्भवेत् । प्रतिबन्धशेषे तु कालान्तरे मुक्तिः। यस्य मुमुक्षोर्बुद्धिमान्द्याद् वेदान्तश्रवणेऽपि नाधिकारः, स ओङ्कारोपासनं कुर्यादिति भावः। एवं मन्दाधिकारिणां मध्यमाधिकारिणां च ब्रह्मप्राप्त्युपायतया ओङ्कारोपासनम् ‘अहं ब्रह्मास्मी’त्युपासनं च यथाप्रतिज्ञमुपदिष्टं भगवता। यत्तु रामानुजः— ‘अभ्यासयोगयुक्तेन’ इत्यादिना ऐश्वर्यार्थिनामुपासनप्रकारोऽन्त्यप्रत्ययप्रकारश्चोक्तः; ‘यदक्षर’मित्यादिना कैवल्यार्थिनाम् ; ‘अनन्यचेताः’ इत्यनेन तु ज्ञानिनामिति; तत्तुच्छम् ; ऐश्वर्यार्थिनां परमपुरुषप्राप्त्यसम्भवात् , ‘परमं पुरुषं दिव्यं याती’ति, ‘स तं परं पुरुषमुपैति दिव्य’मिति च परमपुरुषप्राप्तेरुक्तत्वात्। न च परमपुरुषप्राप्तिरिह परमपुरुषैश्वर्यप्राप्तिरेवेति वाच्यम् , मुख्यार्थपरित्यागस्यान्याय्यत्वात् , लाक्षणिकार्थकल्पनस्यायुक्तत्वात्। अमीषां श्लोकानामैश्वर्यार्थिपरत्वे प्रमाणाभावात्। ‘ऐश्वर्यार्थी भगवद्भक्तः परं पुरुषमुपैती’ति मूले सति ऐश्वर्यार्थिनः परमपुरुषप्राप्त्यभावरूपमुख्यार्थबाधेन तादृशलाक्षणिकार्थः कल्प्येत, न तु तथा मूलमस्ति। किञ्च ऐश्वर्यार्थिनः पुनरावृत्तिं स्वयमेव वक्ष्यति। परमपुरुषश्चायं विष्णुरेव, दिव्यं मामिति वचनादिति त्वयैवोक्तत्वात्। विष्णोरैश्वर्यप्राप्तिश्च विष्णुसारूप्यम् , मत्समानाकारो भवतीति त्वयैवोक्तत्वात्। इदं च सारूप्यं विष्णुलोकं गतानामेव भवितुमर्हति । ननु वायुनिरोधविधुराणामुदीरितया रीत्या स्वेच्छाप्रयुक्तोत्क्रमणासम्भवाद् दुर्लभा परमा गतिरापतेदिति, तत्राह—किञ्चेति। इतश्च भगवदनुस्मरणे प्रयतितव्यमित्यर्थः। सततं नित्यशः इति विशेषणयोरपुनरुक्तत्वमाह—सततमित्यादिना। उक्तमेवापौनरुक्त्यं व्यक्तीकरोति— नेत्यादिना। १जितासुरिच्छया देहं त्यजति, तदितरस्तु कर्मक्षयेणैवेति विशेषं विवक्ष(य)न्नाह— यत इति। अनन्यचेतसं समाहितचेतसं प्रतीश्वरस्य सौलभ्यम् एवमित्युच्यते॥१४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्च—अनन्येति। अनन्यचेताः, न अन्यविषये चेतो यस्य सोऽयमनन्यचेताः योगी, सततं सर्वदा यो मां परमेश्वरं स्मरति नित्यशः। ‘सतत’मिति नैरन्तर्यमुच्यते। ‘नित्यशः’ इति दीर्घकालत्वमुच्यते। न षण्मासं संवत्सरं वा। किं तर्हि? यावज्जीवं नैरन्तर्येण यो मां स्मरतीत्यर्थः। तस्य योगिनोऽहं सुलभः सुखेन लभ्यः, हे पार्थ ! नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः। यत एवम् अतोऽनन्यचेताः सन् मयि सदा समाहितो भवेत्॥१४॥
अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ ! नित्ययुक्तस्य योगिनः॥१४॥
१. उक्तरीत्या वशीकृतप्राणो योगीत्यर्थः।
[[४३१]]
तत्र स्थितानामेव पुरुषाणां शङ्खचक्रचतुर्भुजादिमत्त्वश्रवणात्। स च विष्णुलोकोऽपुनरावर्त्येव तव मत इति कथमैश्वर्यार्थिनां विष्णु- भक्तानां विष्णुसारूप्यं गतानां पुनरावृत्तिः? तव मते सायुज्यस्याभावात्। सालोक्यसारूप्यसामीप्यानामेव मुक्तित्वाद्, यदि सारूप्यं प्राप्तस्य पुनरावृत्तिस्तर्हि सालोक्यं सामीप्यं च प्राप्तानां पुनरावृत्तिः स्यादित्यपुनरावृत्तिपदस्यैवाभावप्रसङ्गः। ‘मामुपेत्य तु कौन्तेय’ इत्यस्य मत्सायुज्यं प्राप्तस्येत्यर्थवादे१ तव स्वमतभ्रंशः, परमतप्रवेशश्च। मल्लोकमुपेत्येत्यर्थवादे विष्णुसारूप्यं प्राप्तानामैश्वर्यार्थिनां पुनरावृत्तिर्न स्यादिति व्याघातः। अत उभयतःपाशा रज्जुरियं तव। विष्णुलोकस्यापि पुनरावर्त्तित्वे ‘आब्रह्मभुवनाल्लोकाः’ इति न सङ्गच्छते। ब्रह्मलोकादुपरितनस्यापि विष्णुलोकस्य पुनरावर्तित्वात्। न चैश्वर्यार्थिनश्चतुर्मुखादिलोकान् प्राप्य पुनरावर्तन्त इति वाच्यम् , ऐश्वर्यार्थिनामपि विष्णूपासकानां चतुर्मुखादिलोकप्राप्तेरयुक्तत्वात् ‘परमं पुरुषं दिव्यं यातीति विष्णु- लोकप्राप्तेरेव युक्तत्वात् , त्वया तथैवोक्तत्वात्। तस्माद् विष्णुभक्तानामप्यैश्वर्यार्थिनां न विष्णुलोकप्राप्तिः, नापि विष्णुसारूप्यप्राप्तिः, किं तर्हि ? मनुष्यलोकप्राप्तिः, अथवा स्वर्गलोकप्राप्तिः। ततश्च पुनरावर्तितैव तेषाम्। यदि तु वैकुण्ठैश्वर्यार्थिनस्ते, तर्हि तेषां विष्णुलोकप्राप्तिरपुनरावृत्तिश्च। इदमेतेषां वैकुण्ठैश्वर्यार्थित्वं न सकामत्वरूपम् , मोक्ष- कामत्ववत् , किं तर्हि? निष्कामत्वरूपमेव। एवं निष्कामानां मोक्षकामानां विष्णुलोकप्राप्तिरपुनरावृत्तिश्चोचितैव। एत एव हि कैवल्या- र्थिनः। कैवल्यं हि मोक्षः। मोक्षश्च वैकुण्ठप्राप्तिरेव तव मते। ज्ञान्यपि कैवल्यार्थ्येवेति न तयोः पृथक्करणमुचितम्। न च - कैवल्यमात्मस्वरूपम् , तत् कैवल्यार्थिभिः प्राप्यते, ज्ञानिना तु परमात्मा प्राप्यत इति भेदोऽस्तीति - वाच्यम् , यत् कैवल्यार्थिना प्राप्यते तदात्मस्वरूपं कैवल्यार्थ्येवेति कथमात्मन एव प्राप्तृत्वप्राप्यत्वे? कथं वा नित्यसिद्धस्यात्मस्वरूपस्य पुरुषार्थत्वम्? कथं वा केवलस्यात्मनः परमात्मभेदः? कथं वा ज्ञानिनः परमात्मप्राप्तिः सति आत्मपरमात्मभेदे? न च क्षीरनीरन्यायेनात्मपरमात्मनोः संयोग इति वाच्यम् , निरवयवत्वादुभयोः। अवयवसंयोगपूर्वको ह्यवयविसंयोगः। नापि क्षीरनीरयोरिवात्मपरमात्मनोर्ज्ञानैकाकारयोरस्ति कश्चिद् विशेषः, येनायमात्माऽयं परमात्मेति व्यवहारः स्यात्। यदि क्षीरे नीरमिव परमात्मन्यात्मा निलीय वर्तेत, तर्हि जीवस्यासौ निलयनावस्था न पुरुषार्थः, स्वरूपस्यैव लीनत्वात्। न च जीवः परमात्मनि प्रविश्यानन्दमनुभवतीति वाच्यम् , परिपूर्णेऽनवकाशे चैतन्यघने परमात्मनि जीवस्य प्रवेष्टुमवका- शस्यैवाभावात्। सावकाशत्वे तु परमात्मनोऽपूर्णत्वं चलनं च स्यात्। तदेतदखिलं श्रुतिविरुद्धं गीताशास्त्रविरुद्धं च। ‘पूर्णस्य पूर्णमा- दाय पूर्णमेवावशिष्यते’ ‘अचलोऽयं सनातनः’ इत्यादिशास्त्रात्। तस्माज्ज्ञानिकैवल्यार्थिनोर्नास्ति फलतः कश्चिदपि भेदः। ब्रह्मण एव तदुभयप्राप्यत्वात्। न च नित्याप्तस्य ब्रह्मणः कथं प्राप्यत्वमिति वाच्यम् , हिरण्यनिधिदृष्टान्तेन नित्याप्तमपि ब्रह्म मायया अप्राप्तमिव भाति यस्मात् , तस्माज्ज्ञानेन तत्प्राप्तिव्यपदेशः। किञ्च ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’ इति भगवत्प्राप्तेरेवापुनरा- वर्तित्वमुक्तम् , न त्वात्मप्राप्तेः। यदि भगवद्भिन्न आत्मा तर्हि तत्प्राप्तिः पुनरावर्तिन्येव स्यात्। न च ‘अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिं, ‘यं प्राप्य न निवर्तन्ते’ इत्यात्मप्राप्तेरपुनरावर्तित्वं वक्ष्यत इति वाच्यम् , परमात्मवाचित्वादक्षरशब्दस्य ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इति श्रुतेः, ‘यं प्राप्य न निवर्तन्ते तद्धाम परमं मम’ इति वाक्यशेषाच्च विष्णुधाम्न एवापुनरावर्तित्वम्। अपि च यथा शत्रुभिरपहृतं राज्यं राजा पुनर्भगवदनुग्रहादिना प्राप्नोति, तथा कामक्रोधादिभिरपहृतमात्मस्वरूपं भगवदनुग्रहा- दिना जीवः पुनः प्राप्नोतीति हि तवाशयः। स न सङ्गच्छते। राज्ञः पृथग् राज्यमिव जीवात् पृथगात्मस्वरूपं यदि स्यात् , तर्हि अयमुपपद्येत, न त्वेतदस्ति, अपृथक्सिद्धं ह्यात्मनः सच्चिदानन्दात्मकं स्वरूपं, सच्चिदानन्दातिरिक्तस्यात्मवस्तुन एवाभावात्। अत एव हि तस्य स्वरूपमिति निर्देशः। यथा घटस्य कम्बुग्रीवत्वादिकं स्वरूपं, तत्स्वरूपव्यतिरेकेण घटाभावश्च। राज्ञो राज्यं तु न स्वरूपं, किन्तु अतिरिक्तमेव। तस्माद् नात्मस्वरूपस्यान्येनापहरणम् , अपहृते तस्मिन्नात्मनाशप्रसङ्गात्। नापि पुनस्तत्प्राप्तिः, अनित्यत्व- १. अर्थवादे = मां प्राप्य इत्यर्थकथने इत्यर्थः। भाष्यार्कप्रकाशः
[[अ. ८. श्लो. १४]] [[४३२]]
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५॥
तव सौलभ्येन किं स्यादित्युच्यते। शृणु तत् , मम सौलभ्येन यद् भवति— मामिति। मामुपेत्य माम् ईश्वरमुपेत्य मद्भावमापद्य, पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति। किंविशिष्टं पुनर्जन्म न प्राप्नुवन्ति? तद्विशेषणमाह— दुःखालयं दुःखानामाध्यात्मिकादीनाम् आलयम् आश्रयम् , आलीयन्ते यस्मिन् दुःखानीति दुःखालयं जन्म। न केवलं दुःखालयम् , अशाश्वतम् अनवस्थितस्वरूपं च। नाप्नुवन्तीदृशं पुनर्जन्म महात्मानो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः। ये पुनः मां न प्राप्नुवन्ति ते पुनरावर्तन्ते॥१५॥
प्रसङ्गात्। यद्धि प्राप्यते तदुपायसाध्यत्वादनित्यमेव , कार्यानित्यत्वस्य सम्प्रतिपन्नत्वात्। न च प्रकृतिसंसृष्टेनात्मना प्रकृतिवियुक्तत्व- माप्यत इति वाच्यम् , असङ्गस्य प्रकृतिसंसृष्टत्वस्यैवाभावात्। ‘असङ्गो ह्ययं पुरुषः’ इति हि श्रुतिः, ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’ इति गीता च। न हि संसृष्टस्य सर्वगतत्वं, येन संसृष्टः तद्गतत्वासम्भवात् ; नापि बुद्ध्यादिसंसृष्टस्य सर्वगतत्वं, परिच्छिन्नत्वात्। किञ्च यः प्रकृतिवियोगः परमात्मनैव दुर्लभः कथं स जीवेनाप्येत? न च परमात्मा प्रकृतिवियुक्त एवेति वाच्यम् , चिद- चिद्विशिष्टस्य परमात्मत्वात्। न च विशिष्टोऽपि वियुक्त एवेति वाच्यम् , विशिष्टत्ववियुक्तत्वयोर्वैयधिकरण्यात्। एवं प्रकृतिविशिष्टे परमात्मनि क्षीरनीरन्यायेन ज्ञानिजीवानां निलीयावस्थानमप्ययुक्तम् , प्रकृतेरैक्यविरोधिन्याः सत्त्वात्। अपि च सगुणमुक्तिर्निर्गुणमुक्तिरिति द्विविधैव मुक्तिः शारीरकशास्त्रसिद्धा। तत्र निर्गुणमुक्तिर्ब्रह्मसायुज्यं, सगुणमुक्तिः सत्यलोकप्राप्तिः। एवं स्थिते त्वया अक्षरप्राप्तिरिति तृतीया मुक्तिः कल्प्यते, तद्धि शास्त्रविरुद्धम्। अपि च अक्षरं प्राप्ताः अमी जीवाः प्रकृतिवियुक्ताःसन्तः परमात्मानमप्राप्य कथं वर्तेरन्? पूर्णो हि परमात्मा सर्वेषामाधारः। न हि गगनमप्राप्य घटो वर्तेत। यद्यमी परमात्मन्येव स्थितास्तर्हि प्राप्त एव परमात्मेति को भेदो ज्ञानिकैवल्यार्थिनोः? यदि तु ज्ञानिनोऽपि वैकुण्ठलोकप्राप्तिस्तर्हि ऐश्वर्यार्थिकैवल्यार्थिनोरेकत्वमिति नात्राधिकारित्रयकल्पनोचिता रामानुजीया॥१४॥
मामिति। ‘तस्याहं सुलभः पार्थ’ इत्यत्राक्षिपति—तवेति। किं फलं स्यात्? मद्भावं मत्सायुज्यमिति यावत्। आदिपदाद् आधिदैविकाधिभौतिकग्रहणम्। १दुःखालयमित्यस्यार्थान्तरमाह— आलयमिति। आलयं लयपर्यन्तं तस्मिन् पुनर्जन्मनि दुःखानि सन्तीत्यर्थः। दुःखान्यालयं यस्मिन् तद्दुःखालयमिति समासः। अनवस्थितं नैकरूपं स्वरूपं यस्य तत्। देवमनुष्याद्यनेकाकारत्वा- ज्जन्मन इति भावः। एतेन ब्रह्मणोऽदुःखालयत्वं शाश्वतत्वं च सूच्यते। मोक्षाख्यां सिद्धमिति शेषः२(?)। गतमिति वा। मामुपेत्य न प्राप्नुवन्तीत्यनेन सिद्धमर्थमाह— ये पुनरिति। पुनरावर्तन्ते पुनर्जन्म प्राप्नुवन्तीत्यर्थः। महात्मानः परमां संसिद्धिं गताः, अत एव मामुपेत्य अशाश्वतं दुःखालयं पुनर्जन्म नाप्नुवन्ति। किं त्वां प्राप्तास्त्वय्येवावतिष्ठन्ते, किं वा पुनरावर्तन्ते चन्द्रलोकादिवेति सन्देहात् पृच्छति—तवेति। तत्रोत्तरश्लोकेन निश्चयं दर्शयति—उच्यत इति। ईश्वरोपगमनं न सामीप्यमात्रमिति व्याचष्टे—मद्भावमिति। पुनर्जन्मनोऽनिष्टत्वं प्रश्नद्वारा स्पष्टयति— किमित्यादिना। महात्मत्वं प्रकृष्टसत्त्ववैशिष्ट्यम्। यतयः तस्मिन्नेवेश्वरे समुत्पन्नसम्यग्दर्शिनः भूत्वेति शेषः। भगवन्तमुपगतानामपुन- रावृत्तौ ततो विमुखानामनुपजातसम्यग्धियां पुनरावृत्तिरर्थसिद्धेत्याह—ये पुनरिति॥१५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. भाष्ये— ‘आलयं तस्मिन् दुःखानि’ इति रा.पा. भाति। २. संसिद्धिमिति पदस्य विवरणे मोक्षाख्यामित्यस्य विशेष्यसाकाङ्क्षत्वादाह— सिद्धमिति। ‘सिद्धिमिति शेषः, गतिमिति वा।’ इति पाठः संभाव्यते।
[[४३३]]
किं पुनस्त्वत्तोऽन्यत्प्राप्ताः पुनरावर्तन्त इत्युच्यते—आब्रह्मेति। आ ब्रह्मभुवनाद् भवन्ति अस्मिन् भूतानीति भुवनम् , ब्रह्मणो भुवनं ब्रह्मभुवनम् , ब्रह्मलोक इत्यर्थः। आ ब्रह्मभुवनात् सह ब्रह्मभुवनेन, लोकाः सर्वे पुनरावर्तिनः ननु मामुपेत्यनेनैव संसिद्धिं गताः इति सिद्धत्वात् तदुक्तिः पुनरुक्तिरेवेति चेत् , मैवम्। ‘संसिद्धिं गताः’ इत्यत्र प्रतीयमानस्य सगुणमुक्तिम् , अन्यद्वा चित्तशुद्ध्यादिकं गताः इत्यर्थस्य व्यावृत्तये मामुपेत्येत्युक्तम्। ‘मामुपेत्ये’त्यस्य मां सेवित्वेत्याद्यर्थस्य प्रतीयमानस्य व्यावृत्तये ‘संसिद्धिं गताः’ इत्युक्तमित्यदोषात्। तस्मान्मम सौलभ्ये पुंसामपुनरावृत्तिः स्यादिति भावः। अयं श्लोकः सायुज्याभाववादिनां कण्ठपाशायते, ‘मामुपेत्ये’ति सायुज्यश्रवणात्। न च - मामित्यस्य मत्सालोक्यं, मत्सामीप्यं, मत्सारूप्यं वेत्यर्थ इति - वाच्यम् , मुख्यार्थपरित्यागे लाक्षणिकार्थकल्पने च कारणप्रमाणाभावात्। न च राजानमुपेत्ये- त्यादाविव मामुपेत्येत्यत्रापि सन्निधिप्राप्तिरेव मुख्यार्थ इति वाच्यम् , राजानमुपेत्येत्यादौ साक्षात्प्राप्तेर्बाधितत्वेन सन्निधिप्राप्तिकल्पना, न तु प्रकृते मुख्यार्थस्य बाध इति कथं तत्कल्पना? तस्मात् सन्निधिप्राप्तिर्न मुख्यार्थः। न च कान्तां प्राप्येत्यत्रेव मामुपेत्येत्यत्रापि जीवेश्वरयोः संयोगोऽर्थ इति वाच्यम् , सावयवद्रव्ययोरवयवसंयोगद्वारा संयोग- संभवेऽपि निरवयवयोः संयोगासंभवात्। जीवेश्वरयोः निरवयवत्वं च संप्रतिपन्नम्। अत एवेश्वरस्य चिद्वैशिष्ट्यासंभवात् चिदचिद्विशिष्ट ईश्वर इति वादोऽस्यात्यन्तमयुक्तः। न च लक्ष्मीवदनन्तवद् वा जीवः सशरीरः सशरीरमीश्वरं संश्लिष्याऽऽस्ते इति वाच्यम्। औपाधिकस्य तादृशसंश्लेषस्यानित्यत्वाद् विश्लेषस्यापि सम्भवाद् मामुपेत्य न पुनरावर्तत इति वक्तुमयुक्तत्वात्। लक्ष्म्या अपि विष्णुं विहाय क्षीरसमुद्रे पुनर्जातत्वात्। सशरीराणामनन्तानां जीवानां मुक्तानां परिच्छिन्नविष्णुशरीरसंश्लेषस्याप्यसम्भवात्। गरुड- विष्वक्सेनादीनां विश्लेषेणैव सत्त्वात्। एवंविधसशरीरेश्वरस्यैव रामकृष्णादिरूपेण पुनरावृत्तौ तद्भक्तानां पुनरावृत्तेः पुनः कैमुतिकन्याय- सिद्धत्वात्। तस्मादशरीर एवेश्वरः, न तु विशिष्टः। जीवश्चाविद्यया सशरीरोऽपि विद्यया शरीरबन्धान्निर्मुक्त ईश्वरभावमशरीरत्वं मोक्षमापद्यते, न पुनरावर्तत इति स्थितम्॥१५॥
आ ब्रह्मेति। त्वत्तोऽन्यत् किं वा पदं प्राप्ताः पुनरावर्तन्त इति प्रश्ने उच्यते—आ ब्रह्मेति। आ इति छेदः। अभिविध्यर्थ- कोऽयमाङ्। आ ब्रह्मभुवनाद् ब्रह्मभुवनमभिव्याप्य। फलितमाह— सह ब्रह्मभुवनेनेति। सर्वेषां लोकानामुपरि वर्तमानः ब्रह्माण्डाद् बहिस्स्थः हिरण्यगर्भस्वामिकः द्विपरार्धावसानः सगुणमुक्तिक्षेत्रमर्चिरादिमार्गावधिः सत्यलोको ब्रह्मभुवनम्। ‘स एतान् ब्रह्म गमयती’ति, ‘तान् वैद्युतान् पुरुषोऽमानव[मानस] एत्य ब्रह्मलोकान् गमयति, ते तेषु लोकेषु पराः परावतो वसन्ति’ इति च श्रुतेः। बहुवचनं तु तदवान्तरकैलासवैकुण्ठलोकसंग्रहार्थम्। ननु ‘आ ब्रह्मभुवनादि’त्यत्राङो मर्यादार्थकत्वमुचितम् , ब्रह्मलोकस्यार्चिरादिमार्गावधेरपुनरावर्तित्वात्। ‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः’ इतीहैव वक्ष्यमाणत्वात्। ‘अनावृत्तिः शब्दात्’ इति शारीरकसूत्रेणापि ‘अपाम सोमममृता अभूम’ इति श्रुतेः स्वर्गादिगतानामपि समानैवानावृत्तिरित्याशङ्कते—किं पुनरिति। अर्थवादश्रुतौ कर्मिणाममृतत्वस्यापेक्षिकत्वं विवक्षित्वा परिहरति—उच्यत इति। एतेन भूरादिलोकचतुष्टयं १प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानामपुनरावृत्तिरिति विभागोक्तिरप्रामाणिकत्वादवहेयेत्यवधेयम्। तर्हि तद्वदेवेश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्क्यते, नेत्याह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन !। मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यते॥१६॥
अ. ८. श्लो. १५-१६ ] १. ‘प्रवृत्तानां’ इति पा.।
[[४३४]]
पुनरावर्तनस्वभावाः, हे अर्जुन ! मामेकमुपेत्य तु कौन्तेय! पुनर्जन्म पुनरुत्पत्तिः न विद्यते॥१६॥
ब्रह्मलोकस्यानावृत्तित्वस्य सिद्धान्तितत्वादिति चेत् , मैवम्। यदनित्यं तत्पुनरावर्तीति, यन्नित्यं तदपुनरावर्तीति व्याप्तिद्वयस्य सम्प्रति- पन्नत्वात् पुनरावर्तिनः स्वर्गादेरनित्यत्वदर्शनादपुनरावर्तिनः परब्रह्मणः नित्यत्वदर्शनाच्च। यदि सत्यलोकोऽपुनरावर्ती स्यात् तर्हि नित्यः स्यात् , न चेष्टापत्तिः, ब्रह्मभिन्नस्य सर्वस्याप्यनित्यत्वात्। ‘तत्सत्यम् अतोऽन्यदार्त’मिति श्रुतेः। नित्यत्वे च ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुत्युक्तब्रह्माद्वैतस्य बाधात्। अद्वितीयं स्वसमानाधिकवस्तुरहितम् इत्यर्थवर्णनस्याप्रमाणत्वादयुक्तत्वाच्च। न हीश्वरसमाना- धिकवस्तुसद्भावशङ्का कस्यापि जायते येन तन्निवृत्त्यर्थं श्रुतिरद्वितीयं ब्रह्मेति ब्रूयात्। एकमेवेति पदद्वयानर्थक्याच्च। किञ्च ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्॥’ इति स्मृतेः, महाप्रलये ब्रह्मणा हिरण्यगर्भेण सह सर्वेऽपि ज्ञानिनःसन्तः परं पदं प्रविशन्तीति साधिपस्य सलोकस्य सत्यलोकस्य नाशसम्भवात्। पूर्वोत्तरवाक्यविरोधपरिहारस्त्वेवं नेयः।तथा हि— अस्मिन् महाप्रलये ब्रह्मलोकोऽयं नश्यति; प्रलयावसाने पुनर्ब्रह्मलोको जायते; अतोऽस्ति ब्रह्मलोकस्य पुनर्जन्मेति पुनरावृत्तिस्वभाववानेव ब्रह्मलोकः। यद्यपि यो ब्रह्मलोको नष्टः स एव पुनर्जात इति वक्तुं न शक्यते, तथापि अत्यन्तसादृश्यात् सेयं दीपज्वालेतिवत् सोऽयं ब्रह्मलोक इति प्रत्यभिज्ञया तथोच्यते। यद्वा अत्यन्तासतो जन्मायोगाच्छशशृङ्गादेर्जन्मादर्शनाद् ब्रह्मलोकः स्वकारणे मायायां निलीय वर्तमानः पुनर्जायत इति। अथवा स्वकारणभूतमायाद्वारा सोऽयं ब्रह्मलोक इति निर्देशः, कारणभेदं विना कार्यभेदस्य दुर्वचत्वात्। वस्तुतस्तु नष्टस्य ब्रह्मलोकस्य पुनरागमनं मास्तु नाम, यज्जन्मनाशवत् तत् पुनरावर्तीतीह विवक्षितम्। तथा च ब्रह्मलोकस्यापि जन्मनाशवत्त्वात् पुनरावर्तित्वमिति। अथ[वा] शुक्लयाऽर्चिरादिकया गत्या ब्रह्मलोकं गतानां जीवानामपुनरावृत्तिस्तु ब्रह्मलोके नष्टे तत्र स्थिता जना न पुनः संसाराय स्वर्गभूम्यादिकमायान्ति प्रलयावसानेऽपि, परन्तु ब्रह्मणा सहैव मुच्यन्त इत्यभिप्रायेणोक्ता। अत एव ‘अनावृत्तिः शब्दा’दिति ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधाना’दिति च सूत्रसाङ्गत्यम्। न च ब्रह्मलोकस्यैव पुनरावर्तित्वे तद्गतजनानां कुतः पुनरपुनरावर्तित्वमिति वाच्यम् , विद्यावैभवादिति। न च लोकनाशे लोकस्थजननाशाल्लोकवल्लोकस्थजनोऽपि पुनरावर्त्येवेति वाच्यम् , नाशमात्रं न पुनरावृत्तिकारणं, किन्तु जन्महेतुर्नाशः। तथा च ब्रह्म- लोकस्थजनानामुपाधिपरित्यागरूपो नाशो न पुनर्जन्महेतुः। ब्रह्मलोकस्य तु मायानिलयनरूपो नाशः पुनर्जन्महेतुरिति कश्चिद् दोषः। एतेन ब्रह्मलोकं प्राप्तानां स्वर्गादिप्राप्तवद् अवर्जनीयनाशत्वाच्च ब्रह्मलोकस्य पुनरावर्तित्वमिति सिद्धम्। यद्यपि स्वर्गादिलोकान् गता इव ब्रह्मलोकं गता अपि उपाधिपरित्यागरूपं नाशं प्रपद्यन्ते, तथापि उपाध्यन्तरस्वीकाररूपं जन्म न प्रपद्यन्त इति कृत्वा ‘अनावृत्तिः शब्दा’दित्युक्तं सूत्रकृता। ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ इति श्रुत्या च ‘एकया यात्यनावृत्ति’मिति गीतया च। तस्माद् ब्रह्मलोकं गतानां पुनर्जन्माभावेऽपि ब्रह्मलोकः पुनरावर्त्येव। तदिदं सर्वमभिप्रेत्याह भगवान् भाष्यकारः—सह ब्रह्म- भुवनेनेति, पुनरावर्तनस्वभावा इति च। ब्रह्मलोकस्यापि जन्मनाशवत्त्वात् पुनरावर्तनस्वभाववत्त्वम्। तस्मान्नश्वरत्वात् सर्वेऽपि लोकाः पुनरावर्तिन एव। किं तदपुनरावर्ति पदम्? अत आह— मामिति। तुशब्दो ब्रह्मलोकादिवैलक्षण्यार्थः। तेन च मामेवेत्यवधारणं फलति। मामुपेत्य मत्सायुज्यं प्राप्य स्थितस्येति शेषः। ब्रह्मभूतस्येत्यर्थः। पुनर्जन्म न विद्यते। ननु ब्रह्मलोकं प्राप्तानामपि पुनर्जन्म न विद्यत मामिति। १यावत्सम्पातश्रुतिवद् ईश्वरं प्राप्तानां निवृत्ताविद्यानां पुनरावृत्तिरप्रामाणिकीत्यर्थः। २यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिः, तस्यैवोक्तेऽर्थे बुद्धिरुदेतीति मत्वा सम्बुद्धिद्वयम्॥१६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘तस्मिन् यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते’ (छा.उ.५-१०-५) इति श्रुतिः इष्टादिकारिणां धूमादिमार्गेँण स्वरारूढानां स्वर्गादितः पुनरावृत्तौ प्रमाणं, न तथेश्वरं प्राप्तानां पुनरावृत्तौ प्रमाणमिति भावः। २. अर्जुन कौन्तेय इति पदद्वयेन शुद्धान्तःकरणत्वं कुलं चार्जुनस्योक्तम्। तदभिप्रायमाह— यस्येति।
[[४३५]]
एवेति कृत्वा मामेकमुपेत्येति कथमुक्तम्? अत आह— पुनरावर्तिन इति। जन्मनाशौ आवृत्तिशब्दार्थः। मद्गतानां न जन्मनाशरूप- पुनरावृत्तिरित्यर्थः। यद्वा ब्रह्मलोकं गतानां जीवानां तत्र दिव्यशरीरपरिग्रहरूपं जन्मास्तीति विद्यत एव पुनर्जन्म, तत्परित्यागप्रयुक्तो नाशश्च। परब्रह्मगतानां तु न शरीरसम्बन्धो, नापि तन्नाश इति भगवन्तमात्मानं गतस्यैव न पुनर्जन्म। न च कैवल्यं गतस्यापि शरीरत्याग- नाशोऽस्तीति वाच्यम् , शरीरं त्यक्तवत एव भगवत्प्राप्तत्वान्न पुनः शरीरत्याग इति। तस्मान्निर्गुणं ब्रह्म गतवत एवापुनरावृत्तिः। न च ‘अनावृत्तिःशब्दा’दिति सूत्रविरोधः, सगुणमुक्तिक्षेत्रं गतस्याप्यपुनरावृत्तिदर्शनादिति वाच्यम् , सगुणमुक्तिं गतस्य तात्कालिकशरीरपरित्यागानन्तरं पुनः शरीरपरिग्रहाभाव इत्यभिप्रायेण तत्सूत्रप्रवृत्तेरिति। ननु भगवन्तं गतानां पुनर्जन्माभावे को हेतुरिति चेत्? उक्त एव— उपाध्यभावादिति। एतेन ब्रह्मलोकं गतानामपि स्वर्गादिलोकं गतानामिवोपाधिसद्भावात् पुनर्जन्मार्हत्वमस्तीति सूचितम्। नैतावता ब्रह्मलोकं गतानां पुनर्जन्मसद्भावः शङ्क्यः, तत्र सम्यग्दर्शनेन तेषामज्ञानस्य समूलस्य नष्टत्वात्। अत एव ‘इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः’ इति श्रुतिः ब्रह्मज्ञानं मनुष्यलोक एव सम्पादनीयम् , न तु स्वर्गादिलोकेषु , तेषां मोहातिशयजनकत्वात् , यद्यपि ब्रह्मलोके सुसम्पादम् , तथापि तल्लोकप्राप्तिर्दुःसम्पादेत्यवोचत्। अथवा पुनरावृत्तिवाचिना पुनर्जन्मशब्देन तद्धेतुभूतस्थानभ्रंशो लक्ष्यते; न हि पत्तनं गतस्य तत्स्थानभ्रंशं विना ग्रामं प्रति पुनरावृत्तिः सम्भवति। स्थानभ्रंशश्च स्थानत्यागः। एवं स्वर्गादिमिव ब्रह्मलोकं गतस्यापि स्थानभ्रंशोऽस्ति, ब्रह्मलोकत्यागपूर्वकत्वात् परमपदप्रवेशस्य। ब्रह्मप्राप्तानां तु न स्थानभ्रंशः। अत एव सर्वे लोकाः पुनरावर्तिनः; ब्रह्मैकमेवापुनरावर्ति। ‘अनावृत्तिः शब्दा’दिति सूत्रं तु ब्रह्मलोकं प्राप्तः पुनः संसारमण्डलं प्रति नावर्तत इत्यभिप्रायेणोक्तं बादरायणेनेति बोध्यम्। तस्मात् ये स्वर्गादिलोकान् गतास्ते पुनः संसारं प्रतिपद्यन्त इति हेतोः पुनरावर्तिन इत्युच्यन्ते। ये ब्रह्मलोकं गतास्ते स्वाश्रयलोकस्य पुनरावर्तित्वात् , स्वेषामुपाधिमत्त्वात् स्वोपाधिनाशस्यावर्जनीयत्वाद्वा पुनरावर्तिन इत्युच्यन्ते। यस्तु परं ब्रह्म प्राप्तः स यया कयाऽपि विधया पुनरावर्तीति वक्तुं न शक्यत इति कृत्वा ये पुनर्मां न प्राप्नुवन्ति ते पुनरावर्तन्ते, मामेकमुपेत्य तु पुनरावृत्तिर्न विद्यत इति भाषितमाचार्यैः। अर्चिरादिकया गत्या ब्रह्मलोकं प्राप्तो न पुनरावर्तत इति तु पुनः संसारं न प्रतिपद्यते इत्यभिप्रायगर्भ इति न कोऽपि व्याघातः। अनित्यत्वात् स्वर्गादिलोकवद् ब्रह्मलोकः पुनरावर्ती। ब्रह्मलोकं गतानां ब्रह्मकृतमहावाक्योपदेशजन्यब्रह्मात्मैक्यज्ञानवत्तया ब्रह्मभूतत्वान्न पुनरावृत्तिरिह लोकेऽपरोक्षीकृतात्मतत्त्वशुकवामदेवादिवदिति निष्कर्षः। तस्मात् ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन’ इति, ‘तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ इति, ‘एकया यात्यना- वृत्ति’मिति, ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते’ इति च सर्ववाक्यानि निर्विरोधानीति सङ्क्षेपः। यत्तु रामानुजः— मां सत्यसङ्कल्पं सर्वज्ञमुपेत्येति, तदसत्। जीवेश्वरभेदकमायोपाधिसत्त्वे जीवेश्वरसायुज्यायोगात् , मायाऽभावे सङ्कल्पाद्ययोगात्। न च - विद्यया जीवोपाधेरविद्याया नाशेऽपीश्वरोपाधेर्मायायाः अनाशादस्त्येवोपाधिरीश्वरस्य, सोपाधिकेऽपीश्वरे निरुपाधिकस्य जीवस्य प्रवेशः सम्भवति लवणोदके शुद्धोदकस्येव, उभयोरप्युपाधिसत्त्व एव प्रवेशासम्भव इति - वाच्यम् , जीवस्यैव स्वविद्यया स्वाविद्यां नाशयितुं शक्तत्वे किमीश्वरस्य स्वविद्यया स्वमायां नाशयितुं नासीच्छक्तिः? मायायाः अनाश्यत्वे तु सोपाधिकादीश्वरान्निरुपाधिको जीव एवाधिकं[कः] निरुपाधिकत्वेन जीवस्य ब्रह्मत्वादिति कथं जीवस्येश्वरप्राप्तिः? मायोपाधिकमेव ब्रह्मेत्युक्तौ तु जीव एव सर्वाधिकः स्यात् , सोपाधिकाद् घटाकाशान्निरुपाधिको हि महाकाशोऽधिकः, उपाधिना ह्युपहितः परिच्छिद्यते, अन्यथा उपाधेरुपाधित्वस्यैवाभावात्। न च - मायायाः सर्वव्यापित्वात् तदुपाधिकेश्वरस्यापि व्यापित्वमेव, न तु परिच्छिन्नत्वमिति - वाच्यम् , निरुपाधिकेषु जीवेषु मायाव्याप्तेरभावेन मायायाः सर्वव्यापित्वाभावात्१। भाष्यार्कप्रकाशः अ. ८. श्लो. १६ ] १. एतच्च सर्वं प्रतिबन्दिन्यायेनोक्तमिति भाति, मायोपाधिकस्येश्वरस्य व्यापकत्वेऽविवादात्।
[[४३६]]
ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः? कालपरिच्छिन्नत्वात् । कथम्?— सहस्रेति। सहस्रयुग- ब्रह्मलोकसहितानां पुनरावृत्तौ हेतुं प्रश्नद्वारा दर्शयति—ब्रह्मेति। उक्तमेव हेतुमाकाङ्क्षापूर्वकमुत्तरश्लोकेन साधयति—कथमित्या- एवमुपाधिपरिच्छिन्ने ईश्वरे निरुपाधिकस्य जीवस्य प्रवेशोऽपि न सम्भवति, उपाधेस्तत्प्रवेशप्रतिबन्धकत्वात्। न हि घटाकाशे महाकाशः प्रविशेत्। न च जीवस्याणुत्वात् प्रवेश उचित इति वाच्यम् , जीवस्याणुत्वे कृत्स्नशरीरव्यापिवेदनोपलम्भाभावप्रसङ्गात् , परिमाणे[परिच्छिन्नपरिमाणत्वे, तद्वतः] द्रव्यस्य घटादेरनित्यत्वदर्शनेन जीवस्याप्यनित्यत्वप्रसङ्गात्। मायया व्यवहितमीश्वरमणुरपि जीवः प्रवेष्टुं न शक्नुयाच्च। न च मायायामेव प्रविशेदिति वाच्यम् , प्रलयेऽपि मायाप्रवेशसत्त्वेन ज्ञानयोगाद्यानर्थक्यप्रसङ्गात् , सुषुप्तिवन्मुक्तावपि जीवस्याज्ञानाभिभूतत्वप्रसङ्गाच्च। माया ह्यज्ञानम्। एवं मायां प्रविष्टस्य पुनःसंसारं प्रत्यावृत्तिप्रसङ्गाच्च। मायां गतो हि प्रलये प्रपञ्चदशायां पुनरावर्तते। ततश्च ‘मामुपेत्य तु कौन्तेय, पुनर्जन्म न विद्यते’ इति वचो व्याहन्येत। न च मायां भित्त्वा तदन्तर्गतमीश्वरचैतन्यं प्रविशेज्जीव इति वाच्यम् , मायाया अनवकाशत्वादभेद्यत्वाच्च। भेद्यत्वे कथमीश्वर एनां न भिन्द्यात्? मायाया बहिरीश्वरस्य सत्त्वे सर्वव्यापित्वभङ्गप्रसङ्गात्। ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः। मायाया अन्तरपीश्वरचैतन्यस्य व्यापित्वे निरवकाशत्वेन जीवप्रवेशायोगात्। सावकाशत्वे तु व्यापित्वायोगात्। चैतन्याद् बहिरेव मायायाः सत्त्वे मायायामेव कारणभूतायां कार्यप्रपञ्चसत्त्वेन चैतन्ये प्रपञ्चसत्त्वायोगात्। प्रपञ्चस्य चेश्वरे सत्त्वश्रवणात्। ‘पादोऽस्य विश्वा भूतानि’ इति श्रुतेः। न चाद्वैतमतेऽपि चैतन्ये निरवकाशे कथं प्रपञ्चसत्त्वमिति वाच्यम् , मायया तदुपपत्तेः। न च मायायाः कथं सत्त्वमिति वाच्यम् , मायात्वादेव। नातिशङ्कनीया हि सा माया। अतिशङ्कायां मायास्वरूपस्यैवासिद्धेः। तस्माद् मामित्यस्य प्रत्यगभिन्नं ब्रह्मेत्येवार्थः। नन्वेवं सर्वत्र मामित्येव किमिति वचनम् , त्वामिति कुतो न ब्रूयात्? त्वच्छब्दार्थस्यापि प्रत्यगभिन्नब्रह्मत्वादिति चेत् , मैवम् , वक्तुर्ब्रह्मात्मसाक्षात्कारेण स्वात्मनि ब्रह्मत्वनिश्चयान्मामित्युक्तिः। श्रोतुश्च तदभावे स्वात्मनि जीवत्वनिश्चयात् त्वामित्यनुक्तिरिति। न च वक्तुः कृष्णस्य परमात्मत्वेन मामित्युक्तिरिति वाच्यम् , स्कान्दपुराणे माघमाहात्म्ये केनचिद् विप्रेण भार्यां प्रति तत्त्वोप- देशसमये– ‘मयि सर्वाणि भूतानि तेषु चाहमवस्थितः। मत्तः परतरं नैव विद्यतेऽहमतः परम्॥’ इत्युक्तम्। कोऽत्र मच्छब्दार्थः? न च जीव एवेति वाच्यम् , जीवस्य सर्वभूताधारत्वसर्वभूतान्तरात्मत्वसर्वपरतरत्वनिरतिशयत्वानामीश्वरधर्माणामसिद्धेः। न ह्येकस्मिन् भूते मनुष्यादिदेहे वर्तमानस्य जीवस्याणोः सर्वभूताश्रयत्वसर्वान्तरत्वे सम्भवतः। जीवादधिकस्येश्वरस्य सत्त्वेन जीवस्य सर्वाधिकत्वनिरति- शयत्वे वा न सम्भवतः। तस्मान्मच्छब्दोऽत्र परमात्मैव१। न हि वक्ता विप्रमात्रः परमात्मा भवितुमर्हति वासुदेववत् , येन त्वदुक्तरीत्या मच्छब्दार्थः परमात्मेति वक्तुं शक्येत। तस्मात् कृष्णवत् सर्वोऽपि तत्त्ववित् परमात्मैव। परमात्मन एवात्मत्वात् तत्त्वविदश्चात्मत्वात्। अतो नात्र गीताशास्त्रे श्रीकृष्णोक्तस्य मच्छब्दस्य क्वापि जीवभिन्नेश्वरपरत्वमर्थ इति भ्रमितव्यम् , प्रत्युत प्रत्यगभिन्नं ब्रह्मैवार्थ इति ज्ञातव्यमित्यलम्॥१६॥
सहस्रेति। कस्माल्लोकाः पुनरावर्तिन इति प्रश्नः। कालपरिच्छिन्नत्वादित्युत्तरम्। कथं कालपरिच्छिन्ना इति पुनः प्रश्नः। सहस्रयुगेत्यादिकमुत्तरमिति विवेकः। भाष्यार्कप्रकाशः सहस्रयुगपर्यन्तम् अहर्यद् ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥१७॥
[आनन्दगिरिकृतव्याख्या]
१. अत एव बादरायणीयं सूत्रम्— ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र.सू. १-१-३०) इति।
[[४३७]]
[आनन्दगिरिकृतव्याख्या]
यद् यस्मात् ते प्रसिद्धा अहोरात्रविदो जनाः, ब्रह्मणो हिरण्यगर्भस्याहः सहस्रयुगपर्यन्तं, रात्रिं युगसहस्रान्तां च विदुः, तस्मादाब्रह्मभुवनाल्लोकाः पुनरावर्तिनः। युगशब्दोऽत्र चतुर्युगसमाहारात्मकमहायुगपरः, ‘चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते’ इति स्मृत्यन्तरसंवादात्। यद्यपि ब्रह्मणो दिनान्ते स्वर्गादिलोकान्तराणामेव नाशः, न तु ब्रह्मलोकस्य; तथापि एवंविधब्रह्मदिनानां षष्ट्युत्तरत्रिशते ब्रह्मणः संवत्सरो भवति। तादृशसंवत्सराणामर्धशते परार्धं ब्रह्मणो भवति। द्विपरार्धावसानं ब्रह्मणः परमायुः। द्विपरार्धावसाने ब्रह्मलोकस्यापि नाशः। अतः कालपरिच्छिन्न एव स्वर्गादिलोकवद् ब्रह्मलोकोऽपि। यस्यायुः कालः क्षपयति स कालपरिच्छिन्न इत्युच्यते। एवंविधकालपरिच्छेदरहितस्त्वेक एवेश्वर आत्मा, जन्मनाशरहितत्वेन नित्यत्वादात्मनः। स चात्मा नित्यमशरीर एव, शरीरित्वे शरीराधीनजन्मनाशवत्त्वप्रसङ्गात्। न च ज्ञानात्प्राक् [स]शरीर एवात्मेति वाच्यम् , तदाऽपि सशरीरत्वस्य मायिकत्वात्। न हि निर्विकारस्यात्मनः सदैकरूपस्य कदाचित् सशरीरत्वं कदाचिदशरीरत्वं च भवितुमर्हति। एतेन सशरीराः विष्णुरुद्रगणपतिकुमारादयः तत्तद्वादिभिरीश्वरत्वेनाभ्युपगताः सर्वेऽपि शरीरिणो देवाः कालपरिच्छिन्ना नश्वरा जीवा एवेति सिद्धम्। अशरीरस्यैकस्यैवात्मन ईश्वरत्वात्। यदि तु विष्ण्वादिशब्दैस्तत्तच्छरीरान्तरः सर्वव्यापी आत्मा विवक्षितः, तर्हि स ईश्वर एवेत्यदोषः। तस्माद् ब्रह्म सत्यं जगन्मिथ्येति स्थितम्। ब्रह्मभिन्नानां सर्वेषां लोकानां लोकस्थानां लोकपालानां च कालावच्छिन्नत्वेन नश्वरत्वाद् ब्रह्मण एकस्यैवाकालावच्छिन्नत्वेन नित्यत्वान्नश्वरत्वस्यैव त्रिकालबाध्यत्वरूपस्य मिथ्यात्वलक्षणत्वात् , त्रिकालाबाध्यत्व- रूपनित्यत्वस्यैव सत्यत्वलक्षणत्वाच्च। अत एव ये नित्यमात्मानं प्रपद्यन्ते ते न पुनर्जन्म प्रतिपद्यन्ते; ये त्वनित्यान् ब्रह्मलोकादीन् प्राप्नुवन्ति, ते पुनर्जन्म प्रतिपद्यन्त इति सिद्धम्॥१७॥
अव्यक्तादिति। श्लोकस्यार्थं सङ्क्षेपत आह— प्रजापतेरिति। यद् जगदित्यर्थः। स्वपतो निद्राणस्य। स्वापावस्था निद्रावस्था। अज्ञानमिति यावत्। समष्टिरूपमिति भावः। व्यष्टिरूपमज्ञानं तु अस्मन्निद्रारूपम्। इदं च समष्ट्यज्ञानं नाव्याकृतम् , तद्धीश्वरोपाधिः। अत्रेदं बोध्यम्—यत्रैकमेव लिङ्गं निलीयते तद् व्यष्ट्यज्ञानं प्राज्ञस्योपाधिः। यत्र सर्वाणि लिङ्गानि निलीयन्ते, महाभूतानि तु न भाष्यार्कप्रकाशः पर्यन्तं, सहस्रं युगानि पर्यन्तः पर्यवसानं यस्याह्नः तदहः सहस्रयुगपर्यन्तं, ब्रह्मणः प्रजापतेर्विराजो विदुः, रात्रिमपि युगसहस्रान्ताम् अहःपरिमाणामेव। के विदुरित्याह—तेऽहोरात्रविदः। कालसंख्याविदो जनाः इत्यर्थः। यत एवं कालपरिच्छिन्नास्ते, अतः पुनरावर्तिनो लोकाः॥१७॥
प्रजापतेरहनि यद् भवति रात्रौ च, तदुच्यते— अव्यक्तेति। अव्यक्तात् , अव्यक्तं प्रजापतेः स्वापावस्था, दिना। १यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसङ्ख्यायुरवच्छिन्नत्वात् प्रजापतेस्तदन्तर्वर्तिनामपि लोकानां यथायोग्यकालपरि- च्छिन्नत्वेन पुनरावृत्तिरित्यभिप्रेत्य व्याचष्टे—सहस्रेत्यादिना। अक्षरार्थमुक्त्वा तात्पर्यार्थमाह—यत इति॥१७॥
यत् प्रजापतेरहस्तद्युगसहस्रपरिमितम् , या च तस्य रात्रिः, साऽपि तथेति कालविदामभिप्रायमनुसृत्य ब्राह्मस्याहोरात्रस्य कालपरिमाणं दर्शयित्वा, तत्रैव विभज्य कार्यं कथयति—प्रजापतेरिति। अव्यक्तमव्याकृतमिति शङ्कां वारयति—अव्यक्तमित्यादिना। अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥१८॥
अ. ८. श्लो. १७-१८ ] १. अहोरात्रावयवकाः मासादयः संवत्सरान्ताः, संवत्सरावयवकं च शतसंख्यायुरिति योज्यम्।
[[४३८]]
जातिप्रतियोगिभूता व्यक्तीर्व्यावर्तयति—स्थावरेति। असदुत्पत्तिप्रसक्तिं प्रत्यादिशति—अभिव्यज्यन्त इति। पूर्वोक्तमव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितं, तस्मिन्निति यावत्॥१८॥
ननु प्रबोधकाले ब्रह्मणो यो भूतग्रामो भूत्वा तस्यैव स्वापकाले विलीयते, तस्मादन्यो भूयो ब्रह्मणोऽहरागमे भूत्वा पुना रात्र्यागमे परवशो विनश्यति। तदेवं प्रत्यवान्तरकल्पं भूतग्रामविभागो२ भवेदित्याशङ्क्यानन्तरश्लोकतात्पर्यमाह—अकृतेति। प्रतिकल्पं प्राणिनिकायस्य भिन्नत्वे सत्यकृताभ्यागमादिदोषप्रसङ्गात् तत्परिहारार्थं भूतग्रामस्य प्रतिकल्पमैक्यमास्थेयमित्यर्थः। यदि ३स्थावरजङ्गम- तस्मादव्यक्तात् , व्यक्तयः व्यज्यन्त इति व्यक्तयः, स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः, प्रभवन्ति अभिव्यज्यन्ते, अह्न आगमोऽहरागमः, तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले। तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वा व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके॥१८॥
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थं, १बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् , अविद्यादिक्लेशमूल- लीयन्ते तत् समष्ट्यज्ञानं हैरण्यगर्भस्वापाख्यं प्राज्ञसमष्ट्युपाधिः। प्राज्ञभेदप्रयोजकाभावात् प्राज्ञस्योपाधिरिति वा। यत्र सर्वाणि लिङ्गानि पञ्चभूतैः समं निलीयन्ते, तदव्याकृतमीश्वरोपाधिः। इदं चाव्याकृतं महाप्रलये वर्तते, तदानीमेव मूर्तामूर्तसर्वदृश्यलयात्। मोक्षे त्वव्याकृतस्यापि नाश इति। एवं सति अव्यक्तशब्दो यद्यप्यव्याकृतपरस्तथापि नेहाव्यक्तशब्देनाव्याकृतं गृहीत[ग्रहीतु]मुचितम्। अहरागमे रात्र्यागमे इति लिङ्गात् प्रजापतेर्हिरण्यगर्भस्य अहोरात्रिसद्भावः। यत्र प्रजापतिर्जागर्ति तदहः, यत्र स्वपिति सा रात्रिरिति। न हीश्वरस्य जाग्रदाद्यवस्थाः सन्तीति। नन्वेवमव्याकृतोपाधिकस्यैवेश्वरत्वे तस्य महाप्रलय एव सत्त्वेन कालत्रयव्यापकत्वमीश्वरस्य न स्यादिति चेत् , मैवम् ; यदेव चैतन्यमव्याकृतेनोपहितं तदेव प्रपञ्चमूर्तामूर्ताभ्यामुपहितं, तदेव चेश्वर इति नेश्वरस्य कालत्रयाव्यापकत्वम्। तदुपाध्यव्याकृतमपि मूर्ता- मूर्तात्मना परिणतं सदवतिष्ठत इति वा नाव्याकृतस्येदानीमभावः। यद्वा मृदि घटादिवदव्याकृतोपहिते ईश्वरे मूर्तामूर्तजगदिदं कल्पितमिति कृत्वा घटादौ सत्यपि यथा मृदस्ति तथा जगति सत्यपि अव्याकृतमस्त्येवेति न कश्चिद् दोषः। न चाव्याकृतमपि न कालत्रयव्यापकं मुक्तावसत्त्वादिति वाच्यम् , मुक्तौ कालस्यैवाभावात्। जगतः प्राक्, जगतः पश्चात् , जगतः स्थितौ च कालत्रयव्यवहारात्। अव्याकृतस्य च तत्र त्रयेऽपि सत्त्वादिति। अत्राव्यक्तशब्दः कारणवाची। कार्यस्याव्यक्तं रूपं कारणात्मकमिति श्रीधरः। कार्यं हि सृष्टेः प्रागनभिव्यक्तं सत् कारणात्मना वर्तत इति तस्याशयः। अस्मिन् पक्षे व्यक्तीनां भौतिकानां कारणमव्यक्तं भूतजातमेवेह ग्राह्यम् , ब्रह्मदिनप्रलये भूतजातस्य सत्त्वात्। व्यक्तस्य तु भूतजातस्याव्यक्तमव्याकृतं कारणं, तत्तु ब्रह्मप्रलय इति बोध्यम्। ननु अव्यक्ताद् व्यक्तयः प्रभवन्तीत्युक्तम् , किमिमा व्यक्तयः प्रभवात्पूर्वं सन्ति? उत न? आद्ये, उत्पत्तिवैयर्थ्यम्। अन्त्ये, असत्कार्यवादापत्तिरिति चेत् , मैवम् ; आद्यपक्षस्यैव परिग्रहात्। न चोत्पत्तिवैयर्थ्यम् , सूक्ष्मावस्थावस्थितानां व्यक्तीनां स्थूलावस्था- प्राप्तेरेवोत्पत्तित्वात्। ननु प्रलये सूक्ष्मावस्थावस्थिता व्यक्तयः सर्वा हिरण्यगर्भोपाधावज्ञाने निलीय वर्तन्ते, प्रपञ्चे तु स्थूलावस्थावत्त्वेन तत आगच्छन्तीत्युक्तम् , तत्र व्यक्तीनां सूक्ष्मावस्था किं प्राथमिकी? उत स्थूलावस्थेति चेत् , मैवम् ; अनादित्वात्॥१८॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
१. ‘विधिनिषेधबन्धमोक्ष’ इति पा. । २. अन्यः अन्यः इति शेषः। सिद्धान्ते तु—अकृतस्य कर्मणः फलागमः, आदिपदात् कृतस्य कर्मणः विप्रणाशश्च प्रसज्येया- ताम्। तथा च शास्त्रप्रामाण्यहानिः, उत्पत्तेः अहेतुकत्वे मुक्तानां पुनरुत्पत्तिप्रसङ्गश्च। तद्वारणाय प्रतिकल्पं सृज्यमानभूतग्रामस्यैक्यमास्थेयमित्यर्थः। ३. ‘स्थावर- जङ्गमलक्षणस्य प्राणिवर्गस्य’ इति पा.। आनन्दगिरिकृतव्याख्या
[[४३९]]
१. ‘भूत्वाभूत्वा प्रलीयते’ इति जन्ममरणाभ्यासोक्तेः प्रयोजनमाहेत्यर्थः। भूतेति। ननु अव्यक्तात्प्रभूता व्यक्तयः पुनरव्यक्तं प्रविष्टाः प्रलये। प्रलयावसाने तु पुनरन्या एव व्यक्तयः प्रभवन्ति। ततश्च पूर्वकल्पस्था व्यक्तयः स्वकृतं कर्म साकल्येनानुपभुज्यैव प्रकृतौ लीना इति कृतहानदोष एकः। प्रलयावसाने पुनरव्यक्तादुद्भूता व्यक्तयः अकृतकर्मफलं भुञ्जत इत्यकृताभ्यागमदोषो द्वितीयः। न हीमाः पूर्वकल्पे कर्म कृतवत्यः, किन्तु पूर्वकल्पस्थाभ्यो ह्यतिरिक्ता एवैता इति विनैव शास्त्राचार्योपदेशादिकं प्रलये अक्लेशेनैव सर्वे जीवा मुच्यन्त इति सर्वमुक्तिरूपो दोषस्तृतीयः, विहितानुष्ठातारो निषिद्धानुष्ठातारश्च स्वर्गिणो नारकिणश्च सर्वेऽप्यविशेषेण प्रलयेऽव्यक्ते लीयन्त इति विधिनिषेधशास्त्रवैयर्थ्यदोषश्चतुर्थः। एतद्दोषचतुष्टयपरिहारार्थ उत्तर- श्लोक इत्याह भाष्यकारः—अकृतेति। फलान्तरमाह— अविद्यादीति। आदिपदाद् रागद्वेषादयः। अविद्यादीनां क्लेशानां मूलभूतं कर्म जीवादृष्टम् । तद्युक्त आशयोऽन्तःकरणं, तद्वशात्। अविद्यादिक्लेशकर्माशयैरपरामृष्टस्त्वीश्वर एक एवेति भावः। भूत्वाभूत्वा कल्पेकल्पे इति भावः। कार्यकरणसङ्घातात्मको भूतग्रामः। स्थावरजङ्गमशरीराभिमानी साभासबुद्धिरूपजीव- समुदाय इत्यर्थः। अयं हि लिङ्गशरीरी जीवसमुदायः कल्पेकल्पे जायते स्थावरजङ्गमात्मकस्थूलशरीरसंयोगात्। तद्वियोगाच्च प्रलयेप्रलये म्रियते। एतेन यः पूर्वकल्पस्थो भूतग्रामः स एवायं वर्तमानकल्पस्थो, न त्वन्य इति न कृतहानाकृताभ्यागमदोषद्वयप्रसङ्गः। स्थूल- शरीरनाशेऽपि लिङ्गशरीरस्य प्रलयेऽप्यज्ञाने निलीय वर्तमानत्वेन न प्रलये जीवानां मुक्तिरिति न सर्वमुक्तिप्रसङ्गः। तत्तज्जीवान्तः- करणेषु तत्तज्जीवकृतसुकृतदुष्कृतकर्मवासनासत्त्वात् , तद्वासनावशेन पुनः प्रपञ्चे तत्तदुचितपुण्यपापशरीरभोगसत्त्वाच्च न विधिनिषेध- शास्त्रवैयर्थ्यम्। गुरुशास्त्रोपदेशं विना लिङ्गशरीरस्य कालतो नाशाभावान्न मोक्षशास्त्रवैयर्थ्यमिति सिद्धम्। अव्यक्तं चतुर्मुखस्य शरीरमिति रामानुजः, तदयुक्तम् ; चतुर्मुखस्य स्थूलशरीरे जीवानां प्रवेशायोगाद् , अत एव ततो निर्गमायोगाच्च। न च पितृदेहात् पुत्रदेह इव चतुर्मुखदेहाद् भूतग्राम उदेतीति वाच्यम् , चतुर्मुखस्य मनसैव प्रायेण सर्वप्रपञ्चस्य जातत्वात्। सङ्कल्पपूर्विका हि सृष्टिः। सनकादीनां ब्रह्ममानसपुत्रत्वेन ब्रह्मशरीरजत्वाभावाच्च। चतुर्मुखदेहात् प्रजापत्यादिदेहानां जातत्वेऽप्यस्मदादिदेहानामजातत्वाच्च। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या भूतग्रामः स एवायं भूत्वाभूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ ! प्रभवत्यहरागमे॥१९॥
कर्माशयवशाच्चावशो भूतग्रामो भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं चेदमाह—भूतग्राम इति। भूत- ग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणः, यः पूर्वस्मिन् कल्प आसीत् स एवायम् , नान्यः, भूत्वाभूत्वा अहरागमे, प्रलीयते पुनः पुना रात्र्यागमे अह्नःक्षये अवशोऽस्वतन्त्र एव, हे पार्थ ! प्रभवति जायते अवश एवाहरागमे॥१९॥
लक्षणप्राणिनिकायस्य प्रतिकल्पमन्यथात्वम् , तदैकस्य बन्धमोक्षान्वयिनोऽभावात् काण्डद्वयात्मनो बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिरफला प्रसज्येत। अतस्तत्साफल्यार्थमपि प्रतिकल्पं प्राणिवर्गस्य नवीनत्वानुपपत्तिरित्याह—बन्धेति। कथं पुनर्भूतसमुदायो ऽस्वतन्त्रः सन्नवशो भूत्वा प्रविलीयते? तत्राह—अविद्यादीति। आदिशब्देनास्मितारागद्वेषाभिनिवेशाः गृह्यन्ते। यथोक्तं क्लेशपञ्चकं मूलं प्रतिलभ्य धर्माधर्मात्मककर्मराशिरुद्भवति, तद्वशादेवास्वतन्त्रो भूतसमुदायो जन्मविनाशावनुभवतीत्यर्थः। प्राणिनिकायस्य जन्मनाशा- भ्यासोक्तेरर्थमाह१—इत्यत इति। संसारे विपरिवर्तमानानां प्राणिनामस्वातन्त्यादवशानामेव जन्ममरणप्रबन्धाद् अलमनेन संसारेणेति वैतृष्ण्यं तस्मिन् प्रदर्शनीयम् , तदर्थं चेदं भूतानामहोरात्रमावृत्तिवचनमित्यर्थः। समनन्तरवाक्यम् इदमा परामृश्यते। रात्र्यागमे प्रलयमनुभवतोऽहरागमे च प्रभवं प्रतिपद्यमानस्य प्राणिवर्गस्य तुल्यं पारवश्यमित्याशयवानाह—अह्न इति॥१९॥
[[अ. ८. श्लो. १८-१९]] [[४४०]]
तत्तद्व्यष्टिशरीरे तत्तज्जीव इव ब्रह्मशरीरे सर्वजीवानां सत्त्वमित्यप्ययुक्तम् , तथा सति ब्रह्मशरीरे सर्वेषां स्वीयत्वाभिमानस्य भवितव्यत्वात्। निद्रावस्थायामभिमानाभावेऽपि प्रलयावसानोत्तरक्षणे तत्सद्भावात्। न चोत्तरक्षण एव तत आविर्भवन्तीत्यदोष इति वाच्यम् , उत्तरक्षण एव सर्वस्थूलशरीरसृष्ट्यभावाद्, येन तत उत्तिष्ठेरन् , प्रजापत्यादिक्रमेण चिरकालाय हि प्रपञ्चसृष्टिः। न च तत्रैवाज्ञाने निलीय वर्तन्त इति वाच्यम् , तथा सति लाघवादज्ञानमेवाव्यक्तमिति वक्तव्यत्वात् , किम्पुनर्ब्रह्मशरीरपरिग्रहेण॥१९॥
पर इति। वृत्तमनुवदति—यदिति। यदक्षरं वेदविदो वदन्तीति यदक्षरमुपन्यस्तं तस्याक्षरस्य ब्रह्मणः प्राप्तौ उपायः साधनं निर्दिष्टः ओङ्कारोपासनरूपः, विष्णुस्मरणरूपश्च। आदिपदाद् ‘अनन्यचेताः’ इति श्लोकस्य संग्रहः। ‘मामुपेत्ये’त्यादिकं तु प्रसङ्गादुक्त- मिति भावः। अथ अक्षरस्य प्राप्त्युपायनिर्देशानन्तरमित्यर्थः। अक्षरस्य उपेयस्य ब्रह्मण इत्यर्थः। एवकाराद् न त्वन्यस्येति भावः। स्वरूपस्य निर्वक्तुमिच्छा निर्विवक्षा, तया। इदं पद्यद्वयम्। उक्तिप्रकारमेव दर्शयति—अनेनेति। अनेनोक्तेन योगमार्गेण गन्तव्यं ब्रह्मेदमित्युच्यते। पर इति। पृथग्भूत इत्यर्थः। घटात् पटवदिति भावः। ननु घटाद्भिन्नोऽपि पटो दृश्यत्वजडत्वादिधर्मैर्घटसलक्षण एवेति तद्वद् अव्यक्ताद्भिन्नोऽयमक्षरो न किमव्यक्तसलक्षण इति शङ्कते— व्यतिरिक्तत्वे सत्यपीति। तद्विनिवृत्त्यर्थम् अव्यक्त- सालक्षण्यप्रसङ्गनिरासार्थम्। विलक्षणः विभिन्नलक्षणः। दृश्यत्वजडत्वमिथ्यात्वप्रमुखलक्षणवद् अव्यक्तम् , द्रष्टृत्वचिदात्मत्वसत्यत्व- प्रमुखलक्षणवान् अक्षर इति भावः। ४नेन्द्रियगोचर इति। ५एतेन संस्कृतमनोगोचरत्वं सिद्धम्। मनसोऽनिन्द्रियत्वात्। यद्वा मतभेदेन मनसोऽपीन्द्रियत्वादगोचर इत्येवार्थः। वाङ्मनसाविषयत्वाद् ब्रह्मणः। न च सुतरामगोचरत्वे शून्यवादापत्तिरिति वाच्यम्। साक्षिचैतन्येन स्वेनैव स्वस्य भास्यत्वात् , शून्यस्यापि साक्षिभास्यत्वात् , अभास्यत्वे ६शून्यस्यैवाभावप्रसङ्गात्। तस्मादत्यन्तागोचरोऽप्यात्मत्वादेवाक्षरः सिध्यति, आत्मन एवासिद्धौ सर्वासिद्धिप्रसङ्गात्।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यदुपन्यस्तमक्षरम् , तस्य प्राप्त्युपायो निर्दिष्टः- ‘ओमित्येकाक्षरं ब्रह्म’ इत्यादिना। अथेदानीमक्षरस्यैव स्वरूप- निर्दिदिक्षया१ इदमुच्यतेऽनेन योगमार्गेणेदं गन्तव्यमिति—परस्तस्मादिति। परो व्यतिरिक्तो भिन्नः। कुतः? तस्मात् पूर्वोक्तात्। तुशब्दोऽक्षरस्य विवक्षितस्याव्यक्ताद् वैलक्षण्य२प्रदर्शनार्थः। भावः अक्षराख्यं परं ब्रह्म। व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्त्यर्थमाह—अन्य इति। अन्यो विलक्षणः, स च अव्यक्तोऽनिन्द्रियगोचरः। परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
‘अक्षरं ब्रह्म परम’मित्युपक्रम्य तदनुपयुक्तं किमिदमन्यदुक्तमित्याशङ्क्य , वृत्तमनूद्यानन्तरग्रन्थसङ्गतिमाह—यदुपन्यस्तमिति। अक्षरस्वरूपे निर्दिदिक्षिते तस्मिन् पूर्वोक्तयोगमार्गस्य कथमुपयोगः स्यादित्याशङ्क्य तत्प्राप्त्युपायत्वेनेत्याह— अनेनेति। गन्तव्यमिति योगमार्गोक्तिरुपयुक्तेति शेषः। पूर्वोक्तादव्यक्तादिति सम्बन्धः। परशब्दस्य व्यतिरिक्तविषयत्वे तुशब्देन वैलक्षण्यमुक्त्वा पुनरन्यशब्दप्रयो- गात् पौनरुक्त्यमित्याशङ्क्याह—व्यतिरिक्तत्व इति। तुना द्योतितं वैलक्षण्यमन्यशब्देन प्रकटितम्३। यतो भिन्नेष्वपि भावभेदेषु सालक्षण्य- मालक्ष्यते। ततश्चाव्यक्ताद्भिन्नत्वेऽपि ब्रह्मणस्तेन सादृश्यमाशङ्क्यते, तन्निवृत्त्यर्थमन्यपदमित्यर्थः। यद्वा परशब्दस्य प्रकृष्टवाचिनो १. ‘निर्विवक्षया’ इति रा.पा.। २. ‘विशेषणार्थः’ इति पा.। ३. तेन न पौनरुक्त्यमिति भावः। ४. भाष्ये ‘अव्यक्तो नेन्द्रियगोचरः’ इति रा.पा. भाति। ५. ‘न गोचर’ इति वक्तव्ये इन्द्रियेति विशेषणात् मनसोऽनिन्द्रियत्वपक्षे तद्गोचरत्वं न व्यावर्त्यत इति अर्थात् संस्कृतमनोगोचरत्वमनुमतमिति भावः। ६. शून्यस्यैवासिद्धि- प्रसङ्गादित्यर्थः।
[[४४१]]
तस्मात् पूर्वोक्तादित्यर्थः। ननु पूर्वमुक्तो भूतग्राम एवेत्यत आह— भूतग्रामबीजभूतादिति। एतेन भूतग्रामादपि वैलक्षण्यमुक्त- प्रायम् , भूतग्रामस्याप्यव्यक्तकार्यस्य, मृत्कार्यस्य घटस्य मृदात्मत्वमिव, अव्यक्तात्मत्वात्। जलादेर्मृद्वैलक्षण्ये उक्ते सति अनुक्तस्यापि घटवैलक्षण्यस्य सिद्धत्वात्। न च अव्यक्तस्याचिद्रूपत्वाद् भूतग्रामस्य चिदचिदात्मकत्वाच्च कथमेकात्मत्वमिति वाच्यम् , भूतग्रामस्य चिदचिदात्मकत्वे अव्यक्तप्रभवत्वस्यैवासम्भवप्रसङ्गात्। न ह्यज्ञानाज्ज्ञानं जायते। नापि नित्यं ज्ञानं कथमपि जायते। तस्मादेक एवाक्षरश्चिदात्मकः। तस्मादन्यः सर्वोऽपि भूतग्रामोऽचिदात्मक एव। अविद्यालक्षणाद् अज्ञानस्वरूपात्। ब्रह्मादिषु हिरण्यगर्भादिस्तम्बान्तेषु कार्यकरण- सङ्घातात्मकेषु भूतेषु प्राणिषु नश्यत्सु सत्सु, यस्तस्मादव्यक्तात् परोऽन्यः सनातनोऽव्यक्तो भावः, स तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति। भवति सर्वत्र सर्वदाऽस्तीति भावः सद्रूपः; अत एवोक्तमक्षराख्यं परं ब्रह्मेति। ब्रह्मण एकस्यैव सद्रूपत्वादन्यस्य सर्वस्यापि मिथ्यात्वात्। स सर्वेषु भूतेषु नश्यत्सु न विनश्यतीत्यनेन ‘अविनाशि तु तद्विद्धि येन सर्वमिदं तत’मिति पूर्वोक्तं स्मारितम्। यः स इत्ये- कत्वनिर्देशेन चात्मन एकत्वं स्थापितम्। न च सर्वेषु भूतेषु जीवेषु नश्यत्सु परमात्मा नश्यतीति वाच्यम् , ‘अजो नित्यः शाश्वतः’ इति पूर्वोक्तविरोधात्। यदि तु जीवाः सच्चिदाभासा बुद्धय इति विवक्षितम् , तर्हि संसारिणस्ते अनन्ता नश्वरा एव । तेऽपि मुक्तावेव नश्यन्ति, न तु प्रलये। अन्यथा प्रलये सर्वमुक्तिप्रसङ्गात्। न चैवं सर्वेषु भूतेषु नश्यत्स्विति कथमुक्तमिति वाच्यम् , स्थूलदेहनाशाभिप्रायात्। लोके स्थूलदेहनाशादेव हि ‘मृतो देवदत्तः’ इत्यादिप्रतीतिः। सूक्ष्मदेहश्चाविद्यायां निलीय संस्कारात्मना वर्तत इति तस्य नाश औपचारिकः। कारणदेहस्तु अविद्यैव। सा चाविद्या विक्षेपशक्तिं सङ्कोच्य केवलामावरणशक्तिमवलम्ब्य जीवान्मोहयन्ती वर्तते प्रलये सुषुप्तौ निद्रेव। एवमव्यक्तस्य प्रलये नाशाभावादेव भूतेषु नश्यत्स्वित्युक्तम्। न त्वव्यक्ते नश्यतीति। न चैवमव्यक्तस्य नित्यत्वप्रसङ्गः, मुक्तौ तन्नाशात्। ननु अव्यक्तं प्रजापतेः स्वापावस्थेत्युक्तम् , कथं तत्र ब्रह्मणोऽपि नाशः? येन ब्रह्मादिष्वित्युच्यत इति चेत् , नायं दोषः, यदेवाज्ञानं प्रजापतेर्निशायां वर्तते तदेव प्रजापतेर्मरणेऽपीति नित्यनैमित्तिकमहाप्रलयेषु त्रिष्वप्यव्यक्तमेकमेव। सत्यप्यवान्तरविशेषे वस्त्वैक्यात्। तस्मात् प्रजापतेः स्वापावस्थेव मरणावस्थाऽप्यव्यक्तमेवेति। एवं महाप्रलये स्थावरजङ्गमात्मकब्रह्मादिस्तम्बपर्यन्तसर्वस्थूलदेहानां स्वरूपतो नाशात् सूक्ष्मदेहानामविद्यायां लयरूपनाशाद् एक एवाक्षर आत्मा तमसः परः तमसः साक्षी सन् वर्तत इत्यविनाशी। एवं स्थिते कोऽत्र जीवेश्वरभेदस्य जीवभेदस्यावकाशो वा? न कोऽपि। यत्तु रामानुजः—अव्यक्तोऽक्षरो जीवः, जात्येकत्वादेकत्वनिर्देशः इति, तत्तुच्छम् , प्राणधारणस्य जीवलिङ्गत्वात् , प्राणिनां जीवानामव्यक्तप्रभवत्वेन अव्यक्तात् परान्यत्वाभावात्२, नश्वरत्वेन चाविनाशित्वाभावात्। त्वदभिमतानाममीषां जीवानां सर्वभूतशब्द- वाच्यत्वेन ‘सर्वेषु भूतेषु नश्यत्स्वि’त्यनेन परामृष्टत्वादक्षरस्य चामीभ्यो विलक्षणत्वात् , लिङ्गिनां जीवानां प्रमाणव्यक्तत्वेनाव्यक्तत्वा- योगात् , सर्वोपाधिविनिर्मुक्तस्याक्षरस्य प्राणाभावेन प्राणधारणप्रयुक्तजीवत्वाभावात् , भेदकाभावेन भेदाभावात् , भेदकसत्त्वे सर्वोपाधिविनिर्मुक्तत्वाभावात् , अक्षरादधिकस्य परमपुरुषस्य सत्त्वे ‘पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति’रिति श्रुतिविरोधात्। भावविशेषणार्थत्वे पुनरुक्तिशङ्कैव नास्तीति द्रष्टव्यम्। अनादिभावस्याक्षरस्याविनाशित्वमर्थसिद्धं समर्थयते—यः स भाव इति। सर्वं हि विनश्यद् विकारजातं पुरुषान्तं विनश्यति। स तु विनाशहेत्वभावान्न विन[नं]ष्टुमर्हतीत्यर्थः॥२०॥
१. कुण्डलितः पाठो न सर्वत्र। २. पूर्वोक्तयोः परत्वान्यत्वयोरभावादित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
परस्तस्मादित्युक्तम् , कस्मात्पुनः परः? पूर्वोक्ताद् भूतग्रामबीजभूतादविद्यालक्षणाद् अव्यक्तात्। १(अन्यो विलक्षणो भाव इत्यभिप्रायः।) सनातनः चिरन्तनः, यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति॥२०॥
[[अ. ८. श्लो. २०]] [[४४२]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
तस्मादव्यक्तोऽयमक्षरः प्रत्यगभिन्नः परमात्मैव॥२०॥
अव्यक्त इति। तमेवाक्षरसंज्ञकं भावं परमां गतिमाहुरित्यन्वयः। भावः परब्रह्म। गम्यत इति गतिः प्राप्यस्थानम् , पदमिति यावत्। कस्मादव्यक्तस्य प्रकृष्टगतित्वम्? अत आह— यं प्राप्य न निवर्तन्त इति। अपुनरावर्तित्वादव्यक्तोऽयमात्मा परमं पदम् । अन्यत् सर्वं पुनरावर्तित्वात् परमं पदं न भवति स्वर्गादिकमिति भावः। संसाराय संसारमनुभवितुमित्यर्थः। तदिति विधेयप्राधान्यात् क्लीबत्वम्। तन्मम विष्णोः परमं धामेत्यन्वयः। धामशब्दार्थमाह— स्थानमिति। यावदर्थमाह— पदमिति। स्वरूपमिति फलितार्थः। न हि सर्वव्यापिनो विष्णोः किञ्चित् स्थानं भवितुमर्हति। न वा विष्णोरक्षरस्य स्थानमक्षर एव भवितुमर्हति। एतेनाक्षरस्य स्वरूपं निरुक्तमव्यक्तात् परत्वं तदन्यत्वं सनातनत्वमव्यक्तत्वमविनाशित्वं सर्वभूतविनाशसाक्षित्वं ‘तद्विष्णोः परमं पद’मिति श्रुत्युक्तपरमपदत्वमपुनरावर्तित्वं भावत्वं चेत्येवंरूपम्। ततश्च सच्चिदानन्दरूपत्वं सिद्धम्। न चानन्दरूपत्वमसिद्धमिति वाच्यम् , अव्यक्तस्य दुःखात्मत्वेन तद्विलक्षणत्वेन तत्सिद्धेः। यत्तु रामानुजः—अचेतनप्रकृतिरेकं नियमनस्थानं, जीवप्रकृतिर्द्वितीयं, मुक्तस्वरूपं तु परं नियमनस्थानमिति, तदल्पम् , मुक्तात्मस्वरूपस्य स्वाभिन्नत्वेन स्वनियाम्यत्वाभावात्। यदि मुक्तस्यापि नियमनं तर्हि मुक्तत्वस्यैवासिद्धिः, नियमनस्य दुःखहेतुत्वात्। न हि मुक्तौ लेशतोऽपि दुःखसद्भावः। सत्यप्यनात्मन्यन्तःकरणे तत्तादात्म्याध्यासस्याभावमात्रेण सुषुप्तावेव नास्ति किञ्चिदपि नियमनं जीवस्येति स्थिते कथं पुनःसर्वोपाधिनाशेऽपि जीवस्य नियमनं भवेत्? तस्माज्जीववास्तवस्वरूपापरिज्ञानमूलकमिदं रामानुजभाष्यम्। यत्तु धाम तेज इत्यस्यैव व्याख्यानान्तरम् , तद्युक्तमेव, परन्तु विष्णुशेषत्वमक्षरस्यायुक्तम् , अक्षरस्यैवात्मत्वेन सर्वशेषित्वा- दात्मन एव व्यापकत्वेन विष्णुत्वाच्च। प्रकृतिवियुक्तज्ञानैकाकारयोरात्मपरमात्मनोः शेषशेषिभावकल्पनाऽयोगाच्च। मुक्तस्याप्यपरि- च्छिन्नज्ञानरूपत्वेन विष्णोस्तद्वैलक्षण्यायोगाच्च। अपरिच्छिन्नज्ञाने परिच्छेदकाभावेन जीवेश्वरभेदानवकाशाच्च। परिच्छेदकसत्त्वेऽपरि- च्छिन्नज्ञानरूपालाभाच्च। ज्ञानबहुत्वे एकस्य ज्ञानस्य ज्ञानान्तरेणैव परिच्छेदलाभेनापरिच्छिन्नत्वासम्भवाच्च॥२१॥
पुरुष इति। भूतानि यस्यान्तःस्थानि, सर्वमिदं येन ततं, स परः पुरुषस्तु हे पार्थ! अनन्यया भक्त्या लभ्यः भवतीति शेषः। पुरि देहे शेत इति पुरुषः। पिपर्ति पूरयति सर्वमिति वा पुरुषः। परिपूर्णस्यापि देहान्तरावस्थितिर्घटते पूर्णस्याकाशस्येव घटान्त- रवस्थितिः। घटकत्वं तु मायाया एव , न ह्यन्यस्यैवंविधशक्तिः। एवं पूर्णत्वादेव परः। न हि परिपूर्णादधिकं वस्तु किञ्चिद् भवितुमर्हति। अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम्। यं प्राप्य न निवर्तन्ते तद् धाम परमं मम॥२१॥
पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया। यथोक्तेऽव्यक्ते भावे श्रुतिसम्मतिमाह—अव्यक्त इति। तस्य परमगतित्वं साधयति—यं प्राप्येति। योऽसावव्यक्तो भावोऽत्र दर्शितः स ‘येनाक्षरं पुरुषं वेद सत्यम्’ इत्यादिश्रुतावक्षर इत्युक्तः, तं चाक्षरं भावं परमां गतिं ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ इत्याद्याः श्रुतयो वदन्तीत्याह—योऽसाविति। परमपुरुषस्य परमगतित्वमुक्तं व्यनक्ति—यं भावमिति। ‘तद्विष्णोः परमं पदम्’ इति श्रुतिमत्र संवादयति—तद्धामेति॥२१॥
नन्वव्यक्तादतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चिदसाधारणो हेतुरेषितव्यो यस्मिन् प्रेक्षापूर्वकारी तत्प्रेप्सया प्रवृत्तो अव्यक्त इति। योऽसावव्यक्तोऽक्षर इत्युक्तः तमेवाक्षरसंज्ञकमव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम्। यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तद् धाम स्थानं परमं प्रकृष्टं मम विष्णोः परमं पदमित्यर्थः॥२१॥
तल्लब्धेरुपाय उच्यते—पुरुष इति। पुरुषः पुरि शयनात् पूर्णत्वाद्वा। स परः, पार्थ! परो निरतिशयः, यस्मात् आनन्दगिरिकृतव्याख्या
[[४४३]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
पूर्णादन्येषां सर्वेषामपूर्णानामल्पत्वात्। पुरुषस्य परत्वे श्रुतिं प्रमाणयति—पुरुषादिति। ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः।’ इति यस्माच्छ्रुत्युक्तं तस्मात् पुरुषः पर इत्यर्थः। महान् महत्तत्त्वम् , अव्यक्तं प्रकृतिर्माया, पुरुष आत्मा; पूर्वोक्तोऽव्यक्तोऽक्षर इति विवेकः। भक्तिरत्र ज्ञानमेवेत्याह— ज्ञानलक्षणमिति[णयेति]। अद्वितीये आत्मनि सेवाद्ययोगादिति भावः। अनन्यया अनन्यविषयये- त्यर्थः। फलितमाह— आत्मविषययेति। आत्मविषयया भक्त्या आत्मज्ञानेनेति सिद्धम्। ‘ज्ञानादेव तु कैवल्य’मित्यादिशास्त्रादिति भावः। न च निरवकाशे आत्मनि कथं भूतानि सन्तीति वाच्यम् , मायया निरवकाशेऽप्यात्मनि भूतानामवकाशलाभात्। सत्स्वपि भूतेषु आत्मनो निरवकाशत्वाभङ्गाच्च। ननु भूतानां कुतः पुरुषस्यान्तरवस्थितिः? अत आह— कार्यभूतानीति। कार्यत्वाद् भूतानां कारणे पुरुषेऽवस्थितिरुचितेत्यर्थः। औचित्यमेव दर्शयति—कार्यं हीति। हिः प्रसिद्धौ। घटादेर्मृदादौ, रजतादेः शुक्तिकादौ च सत्त्वादिति भावः। विवर्तजगदधिष्ठानत्वाज्जगदाकारपरिणतमायाधिष्ठानत्वाद्वा पुरुषस्य भूताधिष्ठानत्वोपपत्तिः। न केवलं भूतानामन्तरवस्थितत्वेन भूतेभ्यो बहिरेव पुरुषोऽस्ति, किन्त्वन्तरपीत्याह— येन सर्वमिदं ततमिति। ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेरिति भावः। अत एव पूर्णत्वात् पुरुषत्वं पुरुषस्य। न चैवं पुरुषे भूतसत्त्वे पुरुषस्य सद्वितीयत्वापत्तिरिति वाच्यम् , मृदि घटसत्त्वे घटेन मृदः सद्वितीयत्वादर्शनात् , शुक्तिकायां रजतसत्त्वे रजतेन शुक्तिकायाः सद्वितीयत्वादर्शनाद् , गगने नैल्यसत्त्वे नैल्येन गगनस्य सद्वितीयत्वादर्शनाच्च। न हि मायामयै- र्वस्तुभिः सत्यस्य सद्वितीयत्वम् , मरीचिकाजलैर्भूमेः पङ्किलत्वादर्शनात्। न च मायया सद्वितीयत्वमिति वाच्यम् , तस्यापि मिथ्या- त्वात्। न हि परमार्थतो मायाऽस्ति। एतेन भूतानां यत्प्रदेशे सत्त्वं तत्प्रदेशस्यात्मना अव्याप्यत्वादपूर्णत्वमात्मन इति शङ्काऽपि प्रत्युक्ता। वस्तुतः पुरुषे भूतानाम- सत्त्वात्। मृदि घटाकारस्येव घटनाम्न इव च पुरुषे भूतानामाकारयोः कल्पितत्वात्। तस्मादेकमेवाद्वितीयं ब्रह्म पुरुषः। स च ज्ञानैकलभ्यः। पुरुषस्वरूपज्ञानपूर्वकत्वात् पुरुषस्वरूपलाभस्य। न च नित्यसिद्ध- स्वरूपस्य कः पुनरपरो लाभ इति वाच्यम् , नित्यसिद्धेऽप्यर्थेऽज्ञातेऽलब्धत्वव्यवहारात्। यो हि घटस्वरूपं न जानाति स पुरः स्थितमिति घटं नैव लभेतेति। यत्तु रामानुजः—परः पुरुषः परमपुरुषो विष्णुः, न तु प्रत्यगात्मा। तस्य पुरुषत्वेन परमपुरुषत्वाभावात्। स च भक्त्या लभ्य इति, तन्मन्दम् , उक्तलक्षणपुरुषाधिकस्य परमपुरुषशब्दवाच्यस्य कस्यचिदभावात्। ‘पुरुषान्न परं किञ्चि’दिति श्रुत्या पुरुषाधिकस्य यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥२२॥
निर्वृणोति, तत्राह—तल्लब्धेरिति। परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयमुदाहरति—यस्येति। निरतिशयत्वं विशद- यति—यस्मादिति। तुशब्दोऽवधारणार्थः। भक्तिर्भजनं सेवा प्रदक्षिणप्रणामादिलक्षणा, तां व्यावर्तयति—ज्ञानेति। उक्ताया भक्तेर्विषयतो वैशिष्ट्यमाह—अनन्ययेति। कोऽसौ पुरुषो यद्विषया भक्तिस्तत्प्राप्तौ पर्याप्तेत्याशङ्क्योत्तरार्धं व्याचष्टे—यस्येति। कथम्भूतानां तदन्तःस्थत्वम्? तत्राह—कार्यं हीति। ‘स पर्यगात्’ इति श्रुतिमाश्रित्याह—येनेति॥२२॥
पुरुषान्न परं किञ्चित् , स भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया। यस्य पुरुषस्य अन्तःस्थानि मध्यस्थानि कार्यभूतानि भूतानि। कार्यं हि कारणस्यान्तर्वर्ति भवति। येन पुरुषेण सर्वमिदं जगत् ततं व्याप्तम् आकाशेनेव घटादि॥२२॥
[आनन्दगिरिकृतव्याख्या]
[[अ. ८. श्लो. २१-२२]] [[४४४]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
निरस्तत्वाच्च। ‘मत्तः परतरं नान्य’दिति गीतया च मत्तः पुरुषात्परतरं नान्यदस्तीत्येव श्रुत्यनुसारेणोक्तत्वाच्च। ‘अविनाशि तु तद्विद्धि येन सर्वमिदं तत’मिति श्लोकस्य भवताऽपि पुरुषपरत्वेन व्याख्यातत्वात् कुतोऽयं पुरुषः परो न भवेत्? पुरुषस्यैव सर्वव्यापकत्वे परम- पुरुषकल्पनं व्यर्थं, यदि तु पुरुषो न सर्वव्यापकस्तर्हि पुरुषत्वमेव पुरुषस्य भज्येत, अविनाशिश्लोकोक्तं ‘येन सर्वमिदं तत’मित्येतद्वि- रुद्ध्येत। न च तत्र सर्वपदस्य देहादिपरत्वेन सङ्कोच इति वाच्यम् , मानाभावात्। व्यष्टिदेहव्यापित्वेनैव पुरुषस्य पूर्णत्वे घटोदरव्यापित्वेन जलस्यापि पूर्णत्वप्रसङ्गात्। किञ्च तव मते पुरुषस्याणुत्वे सुतरां पूर्णत्वानुपपत्तिः। न चात एव पुरुषोऽत्र परमपुरुष इत्युक्तमिति वाच्यम् , अविनाशीति श्लोके पुरुषस्यैवोक्तत्वात्। तस्माज्जीवेश्वरयोर्द्वयोःसर्वव्यापित्वमनुपपन्नम्। उक्तं तु द्वयोरपि सर्वव्यापित्वम् ‘अविनाशी’ति, ‘पुरुषःस’ इति श्लोकद्वयेन भगवतैवेत्येतदनुपपत्तिपरिहाराय जीवेश्वरयोरभेदोऽवश्यमभ्युपगन्तव्यो भवता। तस्मान्नास्ति पुरुषातिरिक्तः परमपुरुषो यो भक्त्या लभ्यः। परमशब्दसाहचर्यं विनाऽपि पुरुषशब्दस्यैव परमात्मनि प्रयोग- दर्शनाच्च ‘तेनेदं पूर्णं पुरुषेण सर्वं’ ‘सहस्रशीर्षा पुरुषः’ इत्यादिश्रुतिषु। न चैवं परमात्मैव पुरुषः जीवस्तु पुरुषशब्दवाच्यो नैवेति वाच्यम् , जीवस्य पुरुषत्वस्य सर्वसम्प्रतिपन्नत्वेन तत्र विप्रतिपत्तेरेवाभावात्। ननु ‘अव्यक्तोऽक्षरः’ इति श्लोकोक्तादस्य पुरुषस्य वैलक्षण्यमक्षरपुरुषयोर्जीवेश्वरत्वरूपे भेदे सत्येव सिद्ध्यति, न त्वन्यथेति कृत्वा जीवोऽक्षरः, ईश्वरस्तु परमपुरुष इति चेत् , मैवम् ; अव्यक्तश्लोकेन पुरुषस्य स्वरूपमुक्तम् ; अनेन पुरुषस्य प्राप्त्युपाय उच्यत इत्येतद्वैलक्षण्यार्थकत्वात् तुशब्दस्य। अन्यथा प्रकृतिविविक्ताज्ज्ञानैकाकाराज्जीवात् तादृशस्यैवेश्वरस्य कीदृशं वैलक्षण्यं स्यात्? न च ज्ञानबलशक्त्याद्याधिक्याल्पत्वरूपम्। तस्योपाधिधर्मत्वादुपाधेश्च मुक्तौ नष्टत्वात्। न चेश्वरस्यास्त्युपाधिरिति वाच्यम् , जीवो निरुपाधिकः, ईश्वरस्तु सोपाधिक इति वाक्यस्य वक्तुर्लज्जावहत्वात्। निरुपाधिकं हि चैतन्यं ब्रह्म। ईश्वरस्तु न ब्रह्म, सोपाधिकत्वाज्जीवस्तु ब्रह्मैव निरुपाधिकत्वादिति। यदुपासनया जीवस्यैव ब्रह्मत्वम् , किं तस्येश्वरस्याब्रह्मत्वं न्याय्यम्? तस्मादव्यक्ताद् विलक्षणोऽक्षरः पुरुषः प्रत्यगभिन्नः परमात्मैव। तल्लाभोपायश्च ज्ञानमेव। न भक्तिः, भक्तेर्द्वैतविषयत्वाद् द्वैतस्य च भयहेतुत्वेन मुक्त्यनुपायत्वात्॥२२॥
यत्रेति। यत्र काले तु प्रयाता योगिन अनावृत्तिमावृत्तिं चैव यान्ति, हे भरतर्षभ! तं कालं वक्ष्यामि। प्रणवावेशितब्रह्मबुद्धीना- मिति। प्रणवे ओङ्कारे आवेशिता आहिता ब्रह्मबुद्धिः ब्रह्मेति दृष्टिर्यैस्तेषां तथोक्तानाम् ; प्रणवं २ब्रह्मदृष्ट्योपासमानानामित्यर्थः। ‘ओमित्येकाक्षरं ब्रह्म व्याहरन्’ इति श्लोकोक्तरीत्येति भावः। ब्रह्मप्रतिपत्तये हिरण्यगर्भलोकप्राप्तये। ब्रह्मलोकप्राप्तिद्वारा परमात्मप्राप्तय ननु ज्ञानायत्ता परमपुरुषप्राप्तिरुक्ता। न च ज्ञानं मार्गमपेक्ष्य फलाय कल्पते, विदुषो गत्युक्रान्तिनिषेधश्रुतेः, तथाच मार्गोक्ति- रयुक्तेत्याशङ्क्य सगुणशरणानां तदुपदेशोऽर्थवानित्यभिप्रेत्याह—प्रकृतानामिति। वक्तव्य इति यत्र काल इत्याद्युच्यत इति सम्बन्धः। स चेद्वक्तव्यस्तर्हि किमित्यध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसम्बद्धे देवयाने पथ्युपास्यत्वाय वक्तव्ये कालो निर्दि- श्यते? तत्राह—विवक्षितेति। सोऽर्थो मार्गस्तदुक्तिशेषत्वेन कालोक्तिरित्यर्थः। पितृयाणमार्गोपन्यासस्तर्हि किमिति क्रियते? तत्राह— आवृत्तीति। मार्गान्तरस्यावृत्तिफलत्वादस्य चानावृत्तिफलत्वात्तदपेक्षया महीयानयमिति स्तुतिर्विवक्षितेति भावः। योगिन इति ध्यायिनां यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ !॥२३॥
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति ‘यत्र काले’ इत्यादि १विवक्षितार्थसमर्पणार्थमुच्यते। आवृत्तिमार्गोपन्यास इतरमार्गस्तुत्यर्थः। यत्रेति। यत्र काले प्रयाता आनन्दगिरिकृतव्याख्या १. ‘वीक्षितार्थ’ इति रा.पा.। २. ‘उपासीनानाम्’ इति युक्तम्।
[[४४५]]
इति वा। उत्तरमार्गोऽर्चिरादिमार्गः। वीक्षितार्थः अपेक्षितार्थः, तत्समर्पणार्थम् उत्तरमार्गो वक्तव्य इत्येतदर्थं ‘यत्र काल’ इत्याद्युच्यत इत्यन्वयः। ननु तर्हि उत्तरमार्ग एवोच्यताम्? अत आह— आवृत्तीति। ज्ञानिस्तुत्यर्थमज्ञानिचरित्रकथनवदिति भावः। यत्र काले यस्मिन् मार्गे इत्यर्थः। कालशब्दस्यात्र लक्षणया कालाभिमानिदेवतोपलक्षितमार्गपरत्वम्। ‘एकया यात्यनावृत्ति- मन्ययाऽऽवर्तते पुनः’ इति वक्ष्यमाणश्लोकार्थानुगुण्येन सावृत्तित्वानावृत्तित्वयोर्मार्गधर्मत्वेन कालधर्मत्वाभावात्। प्रयाता मृताः स्थूल- शरीरवियोगात्मकं मरणं प्राप्य प्रयाणं कृतवन्त इत्यर्थः। तं कालं तं मार्गमित्यर्थः। यत्र मार्गे प्रयाता योगिनोऽनावृत्तिं यान्ति तं दक्षिणमार्गं च तुभ्यं वक्ष्यामीत्यर्थः। श्रोतुः सावधानत्वापादनाय वक्ष्यामीत्युक्तिः। न च कालशब्दस्य मार्गार्थकथनं भाष्यविरुद्धमिति वाच्यम् , तत्र प्रयाता गच्छन्तीत्यादौ भाष्य एव १तत्रेत्यस्य मार्गार्थ- दर्शनात्। तदनुसारेणात्रापि मार्गार्थकथनस्यैवोचितत्वात्। ननु भाष्यमपि मूलविरुद्धमेव, मूले कालशब्दस्यैव दर्शनात्। दक्षिणायने शरतल्पं गतस्य भीष्मस्य स्वच्छन्दमरणस्य उत्तरा- यणपुण्यकालनिरीक्षणाच्चेति चेत् , मैवम् ; ‘शुक्लकृष्णे गती ह्येते’ इति, ‘एते सृती पार्थ जानन्’ इति च गत्योरेव परामृष्टत्वात्। न चोत्तरायणे शुक्लपक्षे अह्नि मृता उत्तरमार्गेण यान्ति; दक्षिणायने कृष्णपक्षे रात्रौ मृता दक्षिणमार्गेण यान्तीत्येतदर्थं काल- मार्गावुभावपि वक्तव्याविति वाच्यम् , तथा सति उत्तरायणे यस्य कस्यापि पापिनो मृतिर्न स्यात् , दक्षिणायने यस्य कस्यापि सुकृतिनो मृतिर्न स्यात्। न त्वेवं व्यवस्था दृश्यते; क्रिमिकीटपशुपक्ष्यादीनां स्थावराणां चोत्तरायणेऽपि मरणदर्शनात्। ब्रह्मविदादीनां दक्षिणायने ऽपि मरणदर्शनाच्च। किञ्च उत्तरायणे कृष्णपक्षेऽह्नि मृतानां तत्रैव शुक्लपक्षे रात्रौ मृतानां वा नोत्तरमार्गगतिः स्यात् ; तथा दक्षिणायने शुक्लपक्षे रात्रौ मृतानां तत्रैव कृष्णपक्षेऽह्नि मृतानां वा न दक्षिणमार्गगतिः स्यात्। न चैवंविधानां प्रयाणार्थः कश्चिद् दक्षिणोत्तरान्तरालमार्गः श्रूयते। न चाधोगतिरिति वाच्यम् , पापिनामेव तत्र गतिसद्भावात्। न चामी पापिन एवेति वाच्यम् , २विहिताचरणानामपि तथा मृतिदर्शनात्। अपि च दक्षिणायने कृष्णपक्षे निशायामेव मृतानां चन्द्रलोकप्राप्तौ किम्पुनरुत्तरायणे कृष्णपक्षे निशायां मृतानां, किं वा पुन- र्दक्षिणायने शुक्लपक्षेऽह्नि मृतानामित्यर्थापत्तेश्च स्यादेव चन्द्रलोकप्राप्तिः। न चेष्टापत्तिः, ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ इति तत्रैव मृतानां चन्द्रलोकप्राप्तिवर्णनात्। किञ्च अहोरात्रिशुक्लकृष्णपक्षोत्तरायणदक्षिणायनव्यतिरिक्तकालस्यैवाभावात् , तेषां च कालानां सुकृतिमृतिविषयत्वान्नारकिणां मृतिकाल एव नास्ति यत्र मृताः पापिनो नरकं गच्छेयुः। अपिचास्तु अहरादीनां कालपरत्वम् , कथं पुनरग्निर्ज्योतिर्धूमानाम्? न ह्यग्निरिति, ज्योतिरिति, धूम इति च कश्चन कालविशेषो ऽस्ति। एवमकालवाच्यग्न्यादिशब्दसाहचर्यादहरादिशब्दानामप्यकालवाचित्वमेवोचितम् , न तु कालवाचित्वम्। तस्मादग्न्यादिशब्दाः देवतावाचका एव।देवताश्चेमाः अर्चिरादिमार्गे यथाक्रमं सन्ति योगिनमतिवाहयितुम्। सम्पिण्डितकरणग्रामत्वेन स्वतो गन्तुमशक्यम्। ननु अहरादयः कालवाचिन एव। न चोक्तदोषापत्तिः। यत्र प्रयाता योगिन एव ब्रह्मलोकादिकं गच्छन्ति, न त्वन्ये इति चेत् , मैवम् ; प्रणवोपासकानां योगिनां दक्षिणायने मृतानां चन्द्रलोकप्राप्तेर्भवितव्यत्वात्। अयोगिनां सोमयाजिनामुत्तरायणे दक्षिणायने वा मृतानां चन्द्रलोकप्राप्त्यसम्भवात्। न च कर्मयोगिनोऽपि योगिन एवेति वाच्यम् , तथा सति उत्तरायणे मृतानां कर्मयोगिनां तेषां चन्द्रलोकप्राप्त्यसम्भवात्। न चैवं भीष्मस्योत्तरायणकालावेक्षणं व्यर्थमिति वाच्यम् , न व्यर्थम् , लोकसङ्ग्रहार्थत्वात्। ‘सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले’ इति भागवताद् भीष्मस्य ब्रह्मसायुज्यं प्राप्तस्य उत्तरमार्गेणापि गमनासम्भवात्। न हि परिपूर्णब्रह्मभावापन्नस्य गत्यागती स्तः। ननु कोऽसौ लोकसङ्ग्रह इति चेद् , उच्यते—योगिनां स्वाधीनमरणत्वात् सर्वैरास्तिकैर्योगित्वेन भवितव्यम् , ते च योगिन उत्तरायणपुण्यकाल एव म्रियेरन् , उत्तरायणे मृतानां तेषां पुत्रैर्विधीयमानं श्राद्धादिकमप्युत्तरायण एव भवेत् तेन च तच्छ्राद्धादेः भाष्यार्कप्रकाशः अ. ८. श्लो. २३ ] १. ‘अन्यथा तदा’ इति स्यात्। २. विहिताचरणाः इति बहुव्रीहिः।
[[४४६]]
महाफलत्वं तत्कर्तुश्च महाफललाभ इति। अथवा प्रायेण पुण्यकाले मृतानामेव पुण्यलोकावाप्तिरित्येतत्प्रदर्शनार्थं भीष्मस्य तादृशाचरणम्। यद्वा स्वच्छन्दमरणो ऽहमिति दर्शयितुं लोकस्येति। ननु तत्त्वविदो गत्यागत्यभावात् कालापेक्षाऽभावेऽपि चन्द्रलोकं ब्रह्मलोकादिकं वा जिगमिषोरस्ति कालापेक्षा, पुण्यकाले मृतानामेव पुण्यलोकावाप्तिरिति चेत् , मैवम् ; शारीरकशास्त्रविरोधात्। तथाहि—‘तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया’(ब्र.सू. ४-२-१७) तस्य म्रियमाणस्य जीवस्य ओकः आयतनं हृदयं, तस्याग्रं नाडीमुखं, तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यं, तेन प्रकाशितद्वारः विद्यासामर्थ्यात् , विद्याशेषगत्यनुस्मृतियोगाच्च, हार्दानुगृहीतः हृदयालयेन सूपासितेन ब्रह्मणा हार्देनानुगृहीतः, शताधिकनाड्या मूर्धस्थानादेव विद्वान् निष्क्रामति, अन्ये तु स्थानान्तरेभ्यः। ‘शतं चैका च हृदयस्य नाड्यः, तासामूर्धानमभि निःसृतैका तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ती’ति श्रुतेः। अन्याः अन्येषामविदुषामुत्क्रमणे विष्वङ् नानाविधाः नाड्यो भवन्तीत्यर्थः। सुषुम्नाख्या नाडी हृदयान्निर्गता दक्षिणतालुकण्ठान्तस्तननासिकामध्यभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभि- रेकीकृता ब्रह्मलोकमार्गः सगुणब्रह्मोपासकस्य विदुष इति भावः। ‘रश्म्यनुसारी’ (ब्र.सू.४-२-१८) तस्माच्छताधिकया सुषुम्नाख्यनाड्या निष्क्रामन् पुरुषो रश्म्यनुसारी निष्क्रामति; सूर्य- रश्मिसम्बद्धत्वात् सुषुम्नानाड्याः इति तस्माच्छब्दार्थः। ‘निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च’ (ब्र.सू.४-२-१९) तत् किमविशेषेणैवाहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम्? आहोस्विदहन्येवेति संशयः; अहन्येवेति पूर्वपक्षः; तेन रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षाऽस्ति पूर्वपक्षे। इदमेवाह— निशि नेति। निशि मृतस्य सूर्यरश्म्यनुसारित्वं नेति चेन्न, नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात्। यावद्देहभावी हि नाडी- रश्मिसम्बन्धः। दर्शयति चैतमर्थं श्रुतिः– ‘अमुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्ना- दित्ये सृप्ताः’ इति। अमुष्मादादित्यात् प्रतायन्ते विस्तरेण निर्गच्छन्ति या रश्मयः ता आसु नाडीषु देहस्थासु सृप्ताः सम्बद्धा भवन्ति। आभ्यो नाडीभ्यो याः प्रतायन्ते ता अमुष्मिन्नादित्ये सृप्ता भवन्तीत्यर्थः। निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते, तापादि- कार्यदर्शनात्। स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम्। यदि तु रात्रौ प्रेतो विनैव रश्म्यनुसारेणोर्ध्व आक्रमेत रश्म्यनुसारानर्थक्यं स्यात् , न ह्येतद् विशिष्याभिधीयते—यो दिवा प्रैति स रश्मीनपेक्ष्योर्ध्व आक्रमते, यस्तु रात्रौ सोऽनपेक्ष्यैवेति। अथ तु विद्वानपि रात्रिप्रायणापराध- मात्रेण नोर्ध्व आक्रमेत, तर्हि पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् , मृत्युकालानियमात्। अथापि रात्रौ प्रेतोऽहरागमं निरीक्षेत, अहरागमेऽप्यस्य कदाचिद्रश्मिसम्बन्धानर्हं शरीरं स्यात् , पावकादिसम्पर्कात्। ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छति’ इति श्रुतिरनुदीक्षां दर्शयति। १क्षिप्येत् म्रियेत। तस्मादविशेषेणैवेदं रात्रिन्दिवं रश्म्यनुसारित्वम्। ‘अतश्चायनेऽपि दक्षिणे’ (ब्र.सू.४-२-२०) अत एव चोदीक्षानुपपत्तेः, विद्यायाः अपाक्षिकफलत्वाच्च, दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव ब्रह्मलोकम्। उत्तरायणमरणप्राशस्त्यप्रसिद्धेः, भीष्मस्य च प्रतीक्षादर्शनात् , ‘आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासा’निति च श्रुतेरपेक्षितव्यमुत्तरायणमितीयमाशङ्का सूत्रेणानेन परिहृता। षडुदङ् मासानेतीति श्रुत्यन्वयः। प्राशस्त्यप्रसिद्धि- रविद्वद्विषया। भीष्मस्य तु विदुषोऽप्युत्तरायणप्रतीक्षणमज्ञानामुत्तरायणे दैवान्मरणं चेत् प्रशस्तम् इत्यभिज्ञाभिवदनरूपाचारपरि- पालनार्थमिति। एतेनाविदुषामेवोत्तरायणमरणं परलोकसुखावहत्वेन प्रशस्तं, विदुषां तु दहराद्युपासकानां दक्षिणायनमरणमपि ब्रह्मलोकप्रापकमेव, अर्चिरादिमार्गस्यायनद्वयेऽप्यनावृतत्वादिति स्थितम्। श्रुतिरपि– ‘तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यम्’ इत्यर्चिरहरादीनां प्राप्यत्वेन भाष्यार्कप्रकाशः १. ‘सः- यावत् क्षिप्येन्मनः तावद् - आदित्यं गच्छति’। यावत् क्षिप्येत् मनः तावत् - यावता कालेन मनसः क्षेपः स्यात् तावता कालेन इति भाष्यम्। क्षिप्रत्वं तु विवक्षितम्। रामरायकविना तु ‘स यावत् क्षिप्येत् - मनस्तावदादित्यं गच्छति’ इत्येवं क्षिप्येदित्यस्य सः इत्यनेन संबन्धं स्वीकृत्य म्रियेतेत्यर्थवर्णनं कृतम् ।
[[४४७]]
इति व्यवहितेन सम्बन्धः। यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म, आवृत्तिं तद्विपरीतां चैव, योगिनः इति योगिनः कर्मिणश्चोच्यन्ते। कर्मिणस्तु गुणतः ‘कर्मयोगेन योगिनाम्’(भ.गी.३.३) इति विशेषणाद् योगिनः। यत्र काले प्रयाता मृता योगिनोऽनावृत्तिं यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ!॥२३॥
देवतारूपत्वमेव ब्रूते, न तु कालविशेषात्मकत्वम्। न ह्यह्नि मृतोऽह्नः शुक्लपक्षं, शुक्लपक्षाद् मासान् वा प्राप्नुयात्। श्रुत्यन्तरमपि – ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलोकं, स वरुणलोकं, स इन्द्रलोकं, स प्रजापतिलोकं, स ब्रह्मलोक’मिति। इमे चार्चिरादयो गन्तॄणां नेतारः इति ‘आतिवाहिकास्तल्लिङ्गा’दिति (ब्र.सू.४-३-४) सूत्रेणापि सिद्धान्तितम्। तस्माद् ब्रह्मलोकादिकं प्रेप्सोर्विदुषो नास्ति कालापेक्षा। अथवा योगिनः प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते, स्मार्ते चैते योगसाङ्ख्ये, न श्रौते, ‘योगिनः प्रति च स्मर्यते स्मार्ते चैते’ (ब्र.सू.४-२-११) सूत्रात्। तथा च यः श्रुत्युक्तो दहराद्युपासको विद्वान् , तस्य नास्ति कालनियमः। यस्तु स्मृत्युक्तः– ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥’ इत्युक्तनिष्कामकर्मानुष्ठानलक्षणो योगः, तद्वतः१, अकर्तृत्वानुभवरूपम् ‘इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्’ इति स्मृत्युक्तं यत् साङ्ख्यं, तद्वतः साङ्ख्ययोगिनश्च कालापेक्षाऽस्ति। अत एव ‘यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः’ इत्युक्तम् , न तु ‘यत्र मार्ग’ इति। तथा च प्रकृतश्लोकस्थ- योगिशब्दस्य निष्कामकर्मानुष्ठातृपरत्वमकर्तृत्वानुसन्धातृपरत्वं च वक्तव्यम् , न तु दहराद्युपासकपरत्वमिति सिद्धम्। वस्तुतस्तु नायमनुपदोक्तः पक्षः समीचीनः, श्रुतिस्मृत्योर्भिन्नार्थत्वस्यायुक्तत्वात् , ‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरा- यणम्’ ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ इति श्रौतयोरेव देवयानपितृयाणयोरत्र २स्मर्यमाणत्वात्। ‘यदा पुनः स्मृतावपि अग्न्याद्या देवता एवातिवाहिक्यो गृह्यन्ते, तदा न कश्चिद्विरोधः’ इति भाष्याच्च कालशब्दो मार्गपर एव। न च - कालशब्दो देवतापर इति भाष्यरत्नप्रभायां दृश्यत इति - वाच्यम् , मार्गस्यापि देवतामयत्वात्। यत्रार्चिरादिदेवताः आतिवाहिक्यः स एव हि मार्गः। तस्माद् यत्र काल इत्यस्य यस्मिन् मार्ग इत्येवार्थः। योगिनः ‘सर्वद्वाराणि संयम्ये’त्युक्तलक्षणयोगशालिनः; ध्यायिन इति यावत्। अमीषां धूमादिमार्गपथिकत्वाभावादाह— कर्मिणश्चेति। ननु योगिशब्दात् कथं कर्म्यर्थलाभः? अत आह— गुणत इति। गौण्या वृत्त्येत्यर्थः। गौण्या कर्मणि योगशब्दप्रवृत्तौ प्रयोगं प्रमाणयति—कर्मयोगेनेति। कर्मैव योगः कर्मयोगः। न हि कर्मयोगयोः सादृश्यं विना कर्मणि योगत्वरूपणं सम्भवति। मुख इव ३करे चन्द्रत्वरूपणाभावादिति भावः। चित्तशुद्धिहेतुत्वादिकं तु कर्मयोगयोः सादृश्यम्। तद्द्वारा कर्मियोगिनोरपि सादृश्यात् कर्मिणि योगिशब्दप्रयोगः। यद्वा कर्मिणि योगिशब्दप्रवृत्तौ गीतां प्रमाणयति – ‘कर्मयोगेन योगिना’मिति। योगिनामिति पदस्य तत्र हि कर्मिणामित्यर्थः। ४ध्यायिनीव कर्मिण्यपि चित्तसमाधानसत्त्वाद् योगिशब्दप्रयोग इति भावः। एतेन योगिनामेव देवयानेन ब्रह्मलोकप्राप्त्या अपुनरावृत्तिः; कर्मिणां तु पितृयाणेन चन्द्रलोकप्राप्त्या पुनरावृत्तिरेवेति सिद्धम्। यत्र काले प्रयाता योगिनोऽनावृत्तिं यान्ति तं कालम् , यत्र काले प्रयाता योगिन आवृत्तिं यान्ति तं कालं च वक्ष्यामि, हे भरतर्षभ! शृणु इत्यन्वयः। भरतर्षभेति सम्बोधनेन श्रोतुं योग्यत्वमस्त्यर्जुनस्येति सूच्यते॥२३॥
कर्मिणां च तन्त्रेणाभिधानमित्याह—योगिन इति। कथं कर्मिषु योगिशब्दो वर्ततामित्याशङ्क्यानुष्ठानगुणयोगादित्याह—कर्मिणस्त्विति। गुणतो योगिनः इति सम्बन्धः। तत्रैव वाक्योपक्रमस्यानुकूल्यमाह—कर्मयोगेनेति। अवशिष्टान्यक्षराणि व्याचक्षाणो वाक्यार्थमाह— यत्रेति। योगिनो ध्यायिनोऽत्र विवक्षिताः, आवृत्तावधिकृता योगिनः कर्मिण इति विभागः॥२३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. ८. श्लो. २३ ] १. कर्मयोगिनः इति यावत्। २. प्रत्यभिज्ञायमानत्वादित्यर्थः। ३. ‘मुखं चन्द्रः’ इतिवत् ‘करश्चन्द्रः’ इति नास्ति। तत्र करे चन्द्रसादृश्याभावाच्चन्द्रत्वरूपणाभाव इति भावः। ४. कर्मिणि योगिशब्दं वर्तयति—ध्यायिनीवेति।
[[४४८]]
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥२४॥
अग्निरिति। तत्रेत्यनेन यत्रेत्यस्याक्षेपः। यत्र अग्निः ज्योतिः अहः शुक्लः षण्मासा उत्तरायणं चास्तीति शेषः। तत्र प्रयाता ब्रह्मविदो जनाः ब्रह्म गच्छन्तीत्यन्वयः। यथाश्रुते अग्निदेवता ज्योतिर्देवता चेत्यर्थः। ननु कालशब्दस्य कालाभिमानिदेवतोपलक्षितमार्गपरत्वमुक्तमिति कृत्वा नास्मिन् मार्गे कालाभिमानिभिन्नदेवतासत्त्व- मुचितम्। यदि तथा भिन्नदेवतासत्त्वमपीष्यते, तर्हि कालशब्दस्य तादृशार्थवर्णनमनुचितमित्यत आह— भूयसामिति। भूयसां बहूनां कालाभिमानिदेवानां सत्त्वादिति शेषः, यत्र काले तं कालमिति निर्देशः। अस्मिन् मार्गे कालाभिमानिदेवतानां भूयसीनां सत्त्वादस्य मार्गस्य कालशब्देन व्यवहारः। अग्न्यादिरूपकालाभिमान्यल्पसङ्ख्याकदेवतावत्त्वेऽपि अहरादिरूपकालाभिमानिबहुसङ्ख्याकदेवतासत्त्वाद् अयं मार्गः काल इत्युच्यत इत्यर्थः। तत्र दृष्टान्तमाह— आम्रवणवदिति। यथा आमलक्याद्यल्पसङ्ख्याकवृक्षान्तरवदपि वनमाम्रबाहुल्यवत्त्वाद् आम्रवणमित्युच्यते, तद्वदित्यर्थः। ५‘प्रनिरन्त’रिति सूत्रेणात्र णत्वम्। ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैरुपादानसम्भवे किमिति देवताग्रहणमग्न्यादिशब्दैरित्याशङ्क्याह— मार्गभूता इति [मार्गभूतेति]। अयं न्याय इति। आतिवाहिककथनात्मको न्याय इत्यर्थः। उक्तं हि सूत्रभाष्ये—‘तथा च लोके प्रसिद्धेष्वप्यातियात्रिकेषु५ एवञ्जातीयक उपदेशो दृश्यते— गच्छ त्वमितो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्त’मिति। ननु प्रकृतश्लोकोक्ताः अग्न्यादयः किं मार्गचिह्नानि? उत भोगभूमयः? अथवा नेतारो गन्तॄणामिति संशयः। तत्र मार्ग- कालप्राधान्येन मार्गद्वयोपन्यासमुपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानमवतारयति—तं कालमिति। यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति—अथवेति। कथं तर्हि देवतानामतिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिष्यते? तत्राह—भूयसां त्विति। मार्गद्वयेऽपि कालाद्यभिमानिन्यो देवताः कालशब्देनोच्यन्ते। कालाभिमानिनीनां भूयस्त्वात् कालशब्देन सर्वासां देवतानाम् ४उपलक्ष्यत्वं विवक्षित्वा कालकथनमित्यर्थः। यथाऽऽम्राणां भूयस्त्वाद् विद्यमानेष्वपि द्रुमान्तरेषु आम्रैरेव वनं निर्दिश्यते, तद्वदित्युदाहरणमाह— आम्रेति। ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैरुपादानसम्भवे किमिति देवताग्रहणमित्याशङ्क्य ‘आतिवाहिकास्तल्लिङ्गा’दिति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तं कालमाह—अग्निर्ज्योतिरिति। अग्निः कालाभिमानिनी देवता। तथा ज्योतिः१ देवतैव कालाभिमानिनी। अथवा अग्निज्योतिषी यथाश्रुते एव देवते। २भूयसां तु निर्देशः— ‘यत्र काले, तं काल’मिति, आम्रवणवत्। तथा अहः देवता अहरभिमानिनी। शुक्लः शुक्लपक्षदेवता। षण्मासा उत्तरायणम्। तत्रापि देवतैव मार्गभूतेति स्थितोऽन्यत्र १. ‘ज्योतिरपि’ इति पा.। २. ‘भूयसा’ इति पा.। ३. अत्र— ‘मरं दृष्ट’मिति पाठो दृश्यते। ४. ‘उपलक्षणत्वं’ इति पा.। अत्र सृष्टिन्यायः(भूमन्यायः) सूच्यते। द्र. पू.मी. १-४-२७। ५. द्र पा.सू. ८-४-५। ५. ‘आतिवाहिकेषु’ इति पाठो भाष्ये दृश्यते। ‘यत्र काल’ इति कालोपक्रमात् कालाभिमानिनी देवता अग्निर्ज्योतिःशब्दाभ्यामभिधीयत इति परेषां व्याख्यानमनूद्य स्वाभिप्रायेण व्याचष्टे—अथवेति। अर्चिरादिमार्गस्थे एव देवते उच्येते। तस्याः अत्र प्रत्यभिज्ञानादित्यर्थः। कस्तर्हि [कथं तर्हि] कालवाचिनामहरादिशब्दानां निर्देश इत्याशङ्क्याह— भूयसां त्विति। यथा वृक्षान्तरसद्भावेऽपि बाहुल्याभिप्रायेण आम्रवणमिति प्रयोगः, तथा हि प्रायेणाहरादिकाल[काले] योगिनां ३मरणं दृष्टमिति कालनिर्देशः। न त्वयं विवक्षितः। ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छती’त्यप्रतिबन्धश्रवणादित्यर्थः। प्रेतानां सपिण्डी[संपिण्डित]करणत्वान्मूर्छितानामित्य-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[४४९]]
न्यायः१। तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो २ब्रह्मोपासनपरा जनाः। क्रमेणेति वाक्यशेषः। चिह्नानीति पूर्वपक्षः। तत्स्वरूपत्वादुपदेशस्य। यथा हि कश्चिल्लोके ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते— गच्छेतः त्वममुं गिरिं, ततो नदीं, ततो ग्रामं, ततो नगरं वा प्राप्स्यसीति, एवमिहाप्यर्चिषोऽहः अह्न आपूर्यमाणपक्षमिति। यद्वा भोगभूमय इति पूर्वपक्षः। तथा हि लोकशब्देनाग्न्यादीनुपनिबध्नाति—अग्निलोकमागच्छतीत्यादि। लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते— ‘मनुष्यलोकः पितृलोको देवलोकः’ इति च। ‘अहोरात्रेषु ते लोकेषु सज्जन्ते’ इत्यादि। तस्मान्नातिवाहिका अर्चिरादयः। अचेतनत्वादप्येतेषामाति- वाहिकत्वानुपपत्तिः। लोके हि चेतना एव पुरुषा राजनियुक्ता दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्ते— आहाचार्यः— ‘आतिवाहिकास्तल्लिङ्गाद्’ इति (ब्र.सू. ४-३-४) सूत्रम्। अर्चिरादिकाः आतिवाहिका एव, तल्लिङ्गात्। ‘चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयती’ति, अमानवस्यातिवाहिकत्वस्य सिद्धत्वात् तल्लिङ्गेनार्चिरादीनामप्यातिवाहिकत्वसिद्धिः। यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम्— अमानवः इति। ननु लिङ्गमात्रमगमकं न्यायाभावात् , नैष दोषः। ‘उभयव्यामोहात्तत्सिद्धेः’ (ब्र.सू. ४-३-५)। ये तावदर्चिरादिमार्गगास्ते देहवियोगात् सम्पिण्डितकरणग्रामाः इत्यस्वतन्त्राः, अर्चिरादीनामप्यचेतनत्वादस्वातन्त्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना एव देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते। लोके च मत्तमूर्छितादयः सम्पिण्डितकरणग्रामाः परप्रयुक्तवर्त्मानो भवन्ति। अनवस्थितत्वादपि अर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः। न हि रात्रौ प्रेतस्याहःस्वरूपाभिसम्भवः उपपद्यते। न च प्रतिपालन- मस्तीत्युक्तं पुरस्तात् , ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवितुमर्हति। अर्चिरादिशब्दता चैषामर्चिराद्यभिमानादुपपद्यते। सम्पिण्डित- करणग्रामत्वादेव गन्तॄणां न तत्रोपभोगः सम्भवति। लोकशब्दस्त्वनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते। अन्येषां तल्लोकवासिनां भोगभूमित्वात्। अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनाऽतिवाह्यते, वायुस्वामिकं लोकं प्राप्तो वायुनेत्येवं योजयितव्यमिति। अथार्चिरादिमार्गं व्याख्यास्यामः। वशीकृतप्राणाः योगिनः सन्निहितमृत्युं विदित्वा, निःश्रेणिकया प्रासादमिव, सुषुम्णया मूर्धानमधिरुह्य तं भित्त्वा सुषुम्णाग्रसम्बद्धसूर्यरश्मिषु प्रविश्य, तदनुसारेण तावदग्निलोकं गच्छन्ति। तत्रैवाग्निलोके ज्योतिर्देवताको ज्योतिर्लोक इति कश्चिदवान्तरलोकोऽस्ति, तं च गच्छन्ति, अग्निर्ज्योतिरिति द्वयोर्निर्देशात्। श्रुतौ तु ‘तेऽर्चिषमभिसम्भवन्ती’- त्यग्निलोक एक एवोक्तः ज्योतिर्लोकस्याग्निलोकेऽन्तर्भावाशयेन। एतेनाग्निरूपं ज्योतिरिति वेदान्तदेशिकोक्तं परास्तम्। तथा सत्यग्नेरेव ज्योतिष्ट्वेन ज्योतिःपदवैयर्थ्यात्। तेन चाग्निना ज्योतिषा वा अतिवाहिताःसन्तः अहर्लोकं गच्छन्ति; यस्य चाहरभिमानिदेवताविशेषः प्रभुः। तेन चातिवाहिताः शुक्ललोकं गच्छन्ति; यस्य शुक्लपक्षदेवताभिमानी प्रभुः। तेन चातिवाहितास्ततः उत्तरायणलोकं गच्छन्ति। तेन चातिवाहिताः संवत्सरलोकं गच्छन्ति। तेन चातिवाहिताः पुनर्देवलोकं गच्छन्ति। ततः तेन चातिवाहिता वायुलोकं गच्छन्ति। वायुनाऽतिवाहिता आदित्यलोकं गच्छन्ति। आदित्येनातिवाहिताश्चन्द्रमोलोकं गच्छन्ति। पितृयाणप्राप्यचन्द्रलोकादपरोऽयम्। अत एव ज्योतिःशास्त्रेषु चन्द्रादुपरि सूर्यः इति, ३भागवतादिषु सूर्यादुपरि चन्द्रः इति च द्वेधा निर्देशः सङ्गच्छते, चन्द्रद्वयसद्भावात्। तेन चन्द्रमसाऽतिवाहिता विद्युल्लोकम् , ततस्तु अमानवः पुरुषः कश्चन हिरण्यगर्भनियुक्तः एत्य विद्युल्लोकाद् वरुणलोकं, वरुण- लोकादिन्द्रलोकम् , इन्द्रलोकात् प्रजापतिलोकं , प्रजापतिलोकाद् ब्रह्मलोकं गमयति इति ब्रह्मलोको व्याख्यातः। अयमर्चिरादिमार्गः १. द्र.ब्र.सू. ४-३-४। २. ‘ब्रह्मोपासकाः ब्रह्मोपासनपरा’ इति पा.। ३. द्र. भाग. ५-२२-८। न्यायेनोत्तरमाह—इति स्थित इति। तेषामग्न्यादीनां समीपमिति सामीप्ये तत्रेति सप्तमी। ब्रह्म कार्योपाधिकं परं वा ब्रह्म परम्परया
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ना[तानामिवान्या]धीनगमनं वक्तव्यम्। अतः आतिवाहिकदेवता एवोच्यन्त इति। अयं न्यायः ‘आतिवाहिकास्तल्लिङ्गाद्’ इत्यधिकरणे स्थित इत्यर्थः। ननु ये साक्षाद् ब्रह्मविदः तेऽप्यर्चिरादिमार्गेणैव गच्छन्तीति किमिति क्रममुक्त्यभिप्रायेण
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[अ. ८. श्लो. २४]] [[४५०]]
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते॥२५॥
३उत्तरदिक्स्थत्वादुत्तरमार्गः। देवलोकविषयत्वाद् देवयानमिति चोच्यते। अत्रापि मार्गे ये ब्रह्मलोकं गतास्त एवापुनरावर्तिनः। ततोऽर्वाक्तनलोकगतास्तु पुनरावर्तिन एव। न चार्वाक्तनलोकाप्राप्तिरिति वाच्यम् , अग्निवाय्वाद्युपासकानामग्न्यादिलोकप्राप्तेः। अत एव हीन्द्रलोकं स्वर्गं गतानामपि पुनरावृत्तिः। तस्मान्नोत्तरमार्गप्राप्तिमात्रेण पुंसामपुनरावृत्तिः, किन्तु ब्रह्मलोकप्राप्तिवशादेवेति स्थितम्। ननु ब्रह्म ब्रह्मविदो गच्छन्तीत्यत्र यथाश्रुतं ब्रह्मविदः सायुज्यप्राप्तिरूपमर्थं विहाय ब्रह्मोपासनपराः क्रमेण ब्रह्म गच्छन्तीत्यर्थ- कल्पनमन्याय्यमित्यत आह— न हीति। सद्योमुक्तिभाजामिति। ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः ब्रह्मज्ञानमन्वेव तेषां मुक्तिरित्यर्थः। अथवा ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ सम्पत्स्ये’ इति श्रुतेः ज्ञानिनां देहपातमन्वेव मुक्तिरित्यर्थः। गतिरागतिर्वा नास्तीति। ‘तत्त्वविदः प्राणा नोत्क्रामन्ति, अत्रैव समवलीयन्ते’ इति श्रुतेः। न हि परिपूर्णस्य ब्रह्मणः क्वापि गमनं, कुतश्चिदागमनं वा सम्भवतीति भावः। न च - मुक्तोऽयं ब्रह्मविदेव, न ब्रह्मेति - वाच्यम् , ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः। एतेन जीवाणुत्ववादः परास्तो, जीवमध्यमपरिमाणत्ववादश्च। अणोर्जीवस्य पूर्णब्रह्मत्वायोगात् , मध्यमपरिमाणस्य जीवस्य नित्यब्रह्मत्वायोगाच्च। न च ब्रह्माप्यपूर्णमेवेति वाच्यम् , बृहत्यर्थानुगमात्। अपूर्णस्य न हि निरतिशयवृद्धिः। ब्रह्मशब्दस्य ब्रह्मणि प्रयोगे निरतिशयवृद्धिर्हि प्रवृत्तिनिमित्तम्। वृद्धिमात्रस्य प्रवृत्तिनिमित्तत्वे तु देहादिरपि ब्रह्म भवेदिति। अत्र ब्रह्मविदो जनाः ब्रह्म हिरण्यगर्भं गच्छन्तीत्यप्यर्थः प्रतिभाति, परन्तु साक्षाद् हिरण्यगर्भप्राप्त्ययोगात् ब्रह्मपदस्य ब्रह्मलोक इति लाक्षणिकार्थः कल्पनीयः स्यादिति तदुपेक्षितं भाष्यकारैः। ओमित्येकाक्षरं ब्रह्मेत्यादिना ब्रह्मोपासकस्य प्रकृतत्वान्मार्गस्य चास्य ब्रह्मोपासकपरत्वाद् ब्रह्मविदः इत्यस्य ब्रह्मोपासनपराः इत्युक्तम्। ब्रह्मबुद्ध्या प्रणवादिकं दहरादिकं वोपासमानाः४ इत्यर्थः। एतेन कर्मिणां क्रमेणापि ब्रह्मप्राप्त्यभावः सिद्धः, तेषां मार्गान्तरस्य वक्ष्यमाणत्वात्॥२४॥
धूम इति। यत्र ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ इत्येताः सन्ति तत्र मार्गे योगी गत्वा चान्द्रमसं ज्योतिः प्राप्य निवर्तते। षण्मासा दक्षिणायनमिति। षण्मासात्मको यो दक्षिणायनकालस्तदभिमानिदेवतेत्यर्थः। चान्द्रमसं चन्द्रलोकस्थम्। ज्योतिषो मुक्त्यालम्बनम्। अत एव क्रमेणेत्युक्तम्। निर्गुणमप्रपञ्चं ब्रह्मास्मीति विद्यावतो व्यवच्छिनत्ति—ब्रह्मोपासनेति। ननु ब्रह्मशब्दस्य मुख्यार्थत्वार्थं परब्रह्मविदामेवेयं गतिरुच्यते, न, २बादर्यधिकरणविरोधादित्याह—न हीति ॥२४॥
प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणमुपन्यस्यति—धूम इति। अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्यातिवाहिक-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
न हि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिरागतिर्वा क्वचिदस्ति, ‘न तस्य प्राणा उत्क्रामन्ति’(बृ.उ. ४.४.६) इति श्रुतेः। ब्रह्मसंलीनप्राणा एव ते। ब्रह्ममया ब्रह्मभूता एव ते। १(क्रमेण तु गच्छन्ति ब्रह्म ब्रह्मविदो जनाः)॥२४॥
धूम इति। धूमो रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी च देवता। तथा कृष्णः कृष्णपक्षदेवता। षण्मासा व्याख्यायत इत्याशङ्क्याह— न हि सद्योमुक्तिभाजामिति। विद्यासामर्थ्यात् कलाविलये सति गमनानुपपत्तेरित्यर्थः॥२४॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. कुण्डलितः पाठः क्वाचित्कः। २. ‘कार्यं बादरिरस्य गत्युपपत्तेः’ (ब्र.सू. ४-३-७) इत्यधिकरणे ब्रह्मोपासकानां कार्यब्रह्मप्रापणं व्यवस्थापितम्। ३. उत्तर- दिक्स्थत्वं मृग्यम्। ४. ‘उपासीनाः’ इति युक्तम्।
[[४५१]]
भोग्यत्वाभावादाह— फलमिति। इष्टं यागः, तत्राधिकारी इष्टाधिकारी, सोमयाजीत्यर्थः। फलितमाह— कर्मीति। अपिशब्दात् पूर्ताधि- कारिग्रहणम्। कर्मिशब्देनेष्टाधिकारिग्रहणात्। ये शास्त्रसिद्धं स्वस्ववर्णाश्रमविहितं यज्ञादिलक्षणं कर्म सकाममाचरितवन्तः ते, ये वा वापीकूपादिपुण्यकर्माणि कृतवन्तस्ते चैते उभे [उभये] अपि चन्द्रलोकं पितृयाणेन गत्वा, तत्र स्वकृतकर्मफलं भुक्त्वा पुनरिह जन्मने प्रति निवर्तन्त इति परमार्थः। ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्यादिश्रुतिरत्रानुसन्धेया॥२५॥
शुक्लेति। देवयानस्य शुक्लत्वे पितृयाणस्य कृष्णत्वे च हेतुमाह— ज्ञानेति। ब्रह्मलोकं प्राप्तानां सम्यग्दर्शनसम्भवाद् ब्रह्मलोक- प्रापकमार्गस्य ज्ञानप्रकाशकत्वमिति भावः। तदभावाद् ज्ञानप्रकाशनाभावात्। शुक्लस्य चन्द्रादितेजसः घटादिपदार्थप्रकाशकत्वं, नीलस्य तमसस्तदप्रकाशकत्वं च प्रसिद्धमिति प्रकाशकत्वगुणयोगाच्छुक्लत्वं देवयानस्य, तदभावात् कृष्णत्वं पितृयाणस्येति तत्त्वम्। शुक्लपक्षसम्बन्धात् कृष्णपक्षसम्बन्धाच्च देवयानपितृयाणयोस्ततच्छब्दवाच्यत्वमिति केचित्। तन्मन्दम् , सत्स्वहरादिषु शुक्ल- कृष्णयोरेव ग्रहणे हेत्वभावात्। आद्यमर्चिषम् अन्त्यं ब्रह्माणं वाऽवलम्ब्यैव वक्तव्यत्वात्। तथैवार्चिरादिमार्गो धूमादिमार्ग इति च प्रसिद्धत्वादिति। जगच्छब्दार्थमाह— ज्ञानकर्मणोरधिकृतानामिति। प्रपञ्चस्याग्रहणे हेतुमाह— नेति। पापिनां नारकगत्यन्तरसद्भावादिति भावः। कथं गत्योर्नित्यत्वम्? अत आह— संसारस्येति। यावद्व्यवहारं नित्यत्वादित्यर्थः। प्रवाहरूपेणानाद्यनन्तत्वमिति वा। पूर्वपूर्व- संसारादुत्तरोत्तरसंसार इति संसारो ह्ययमनादिरनन्तश्च। एतेन परमार्थतः स्वरूपतश्च संसारवद् गत्योरपि तदन्तरस्थयोर्न नित्यत्वमिति सिद्धम्। तत्र गतिद्वयमध्ये। याति पुरुषोऽधिकृत इति शेषः। भाष्यार्कप्रकाशः शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिम् अन्ययाऽऽवर्तते पुनः॥२६॥
देवताविषयत्वं धूमादिपदानां विभजते—धूमेत्यादिना। तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था। इष्टादीत्यादिशब्देन पूर्तदत्ते गृह्येते। ‘कृतात्ययेऽनुशयवानि’ति न्यायं सूचयति—तत्क्षयादिति।आरोहावरोहयोरभ्यासवाचिना पुनःशब्देन संसारस्यानादित्वं सूच्यते ॥२५॥
रात्र्यादौ मृतानां ब्रह्मविदामब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थमभिमानिदेवताग्रहणाय मार्गयोर्नित्यत्वमाह—शुक्लेति। ज्ञानप्रकाशकत्वाद् विद्याप्राप्यत्वाद् अर्चिरादिप्रकाशोपलक्षितत्वाच्च शुक्ला देवयानाख्या गतिः, तदभावात् ज्ञानप्रकाशकत्वाभावाद् धूमाद्यप्रकाशोपलक्षित- त्वादविद्याप्राप्यत्वाच्च कृष्णा पितृयाणलक्षणा गतिः। तयोर्गत्योः श्रुतिस्मृतिप्रसिद्ध्यर्थो हिशब्दः। जगच्छब्दस्य ज्ञानकर्माधिकृतविषयत्वेन सङ्कोचे हेतुमाह— न जगत इति। अन्यथा ज्ञानकर्मोपदेशानर्थक्यादित्यर्थः। तयोर्नित्यत्वे हेतुमाह— संसारस्येति। मार्गयो- दक्षिणायनमिति च पूर्ववद् देवतैव। तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् १इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयाद् २इह पुनः निवर्तते॥२५॥
शुक्लेति। शुक्लकृष्णे, शुक्ला च कृष्णा च शुक्लकृष्णे। ज्ञानप्रकाशकत्वाच्छुक्ला, तदभावात्कृष्णा। एते शुक्लकृष्णे हि गती, जगतः इत्यधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते गती सम्भवतः। शाश्वते नित्ये संसारस्य १. ‘इष्टाधिकारी’ इति रा.पा. । २. ‘इह पुनः’ इति क्वचिन्नास्ति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
गमनद्वयमुपन्यस्य यथावत् तदभिज्ञस्य फलं योगकर्तव्यतां चोपसंहरति श्लोकद्वयेन—शुक्लकृष्णे इत्यादिना॥२६॥
॥ इति श्रीभगवद्गीताभाष्यटिप्पणे अष्टमोऽध्यायः॥
[आनन्दगिरिकृतव्याख्या]
[[अ. ८. श्लो. २४-२६]] [[४५२]]
नित्यत्वाद् मते अभिप्रेते। तत्र एकया शुक्लया यात्यनावृत्तिम् , अन्यया इतरयाऽऽवर्तते पुनः भूयः॥२६॥
नैते इति। न एते यथोक्ते सृती मार्गौ, पार्थ ! जानन् ‘संसारायैका, अन्या मोक्षाय च१’ इति, योगी न मुह्यति कश्चन कश्चिदपि। तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन !॥२७॥
शृणु (तस्य) योगस्य माहात्म्यम्— वेदेष्विति। वेदेषु २सम्यगधीतेषु , यज्ञेषु च साद्गुण्येनानुष्ठितेषु , तपःसु च सुतप्तेषु , दानेषु च सम्यग्दत्तेषु , यदेतेषु पुण्यफलम् पुण्यस्य फलं पुण्यफलं प्रदिष्टं शास्त्रेण। अत्येति अतीत्य गच्छति र्यावत्संसारभावित्वे फलितमाह—तत्रेति। क्रममुक्तिः अनावृत्तिः। भूयो भोक्तव्यकर्मक्षये शेषकर्मवशादित्यर्थः ॥२६॥
गतेरुपास्यत्वाय तद्विज्ञानं स्तौति—नैते इति। योगस्य मोहापोहकत्वे फलितमाह—तस्मादिति। ज्ञानप्रकारमनुवदति— संसारायेति। मोक्षाय क्रममुक्त्यर्थमित्यर्थः। योगी ध्याननिष्ठो गतिमपि ध्यायन् नैव मुह्यति केवलं कर्म दक्षिणमार्गप्रापकं कर्तव्यत्वेन प्रत्येतीत्यर्थः। योगस्यापुनरावृत्तिफलत्वे नित्यकर्तव्यत्वं सिद्धमित्युपसंहरति—तस्मादिति॥२७॥
श्रद्धाविवृद्ध्यर्थं योगं स्तौति—शृण्विति। पवित्रपाणित्वप्राङ्मुखत्वादिसाहित्यमध्ययनस्य सम्यक्त्वम्। अङ्गोपाङ्गोपेतत्वमनुष्ठानस्य साद्गुण्यम्। तपसां सुतप्तत्वं मनोबुद्ध्याद्यैकाग्र्यपूर्वकत्वम्। दानस्य च सम्यक्त्वं देशकालपात्रानुगुणत्वम्। इदं विदित्वेत्यत्र इदंशब्दार्थमेव स्फुटयति—सप्तेति। यद्यपि ‘किं तद्ब्रह्म’ इत्यादौ, ‘अधियज्ञः कथं कोऽत्र’ इत्यत्र प्रश्नद्वयं प्रतिभासानुसारेण कैश्चिदुक्तम् , तथापि आनन्दगिरिकृतव्याख्या ननु ३तैत्तिरीयकश्रुतिप्रामाण्यात् धूमादिमार्गेण पितॄणामेव महिमानं गत्वा चन्द्रलोकं प्राप्तो यो दक्षिणायने मृतो विद्वान् सोऽपि ब्रह्मलोकं गत्वा नावर्तत एवेति कृत्वा कथमुक्तम् ‘अन्ययाऽऽवर्तते’ इति चेत् , नैष दोषः, अविद्वान् चन्द्रलोकं गतः आवर्तत इति तदर्थात्। विदुषश्चन्द्रलोकं गतस्यापि प्रारब्धावसाने देवयानेन पुनर्ब्रह्मलोकप्राप्तिः सम्भवत्येवेति॥२६॥
नेति। न मुह्यतीति। धूमादिमार्गेण चन्द्रलोकं गत्वा तत्र भोगान् भुञ्जीयेति, इन्द्रलोकादीन् देवयानेन गत्वा वा तत्र भोगान् भुञ्जीयेति मोहं नापद्यते। अशाश्वतत्वात् तद्भोगानां, पुनरावर्तित्वाच्च स्वस्य। ततश्च न कर्मस्विष्टापूर्तेषु प्रवर्तते। परन्तु मोक्षप्रदं ब्रह्मलोकं प्रणवाद्युपासनद्वारेण देवयानेन गन्तुमेव प्रवर्तत इत्यर्थः। तस्मादिति। यस्मान्मार्गद्वयज्ञो योगी न मुह्यति तस्मादित्यर्थः। स्वोपदेशेन सृतिद्वयं जानतोऽप्यर्जुनस्य चित्तसमाधानाभावे मोहः स्यादित्यत आह— योगयुक्तो भवार्जुनेति॥२७॥
वेदेष्विति। साक्षाद् वेदादिषु पुण्याभावादाह— सम्यगन्तेष्वित्यादीनि विशेषणानि। सम्यगन्ताः सम्यक्परिसमाप्ताः, तेषु। दानेष्विति। दानानि सुवर्णादीनि तेषु, सर्ववेदपारायणात् साद्गुण्येन यज्ञानुष्ठानात् तपःकरणात् पुण्यक्षेत्रेषु द्रव्यविनियोगाच्च यत्फलं भवति पुंसामिति शास्त्रेणोच्यत इत्यर्थः। योगी इदं विदित्वा तत्सर्वं फलजातमत्येति, ततोऽधिकं लभत इत्यर्थः। न केवलं वेदनमात्रात् किं तर्हि एतदनुष्ठानादेवेत्याह— उक्तमर्थमिति। सप्त प्रश्नाः—किं ब्रह्म? किमध्यात्मम्? किं कर्म? किमधिदैवम्? किमधिभूतम्? कोऽधियज्ञः? प्रयाणकाले कथं ज्ञेय ईश्वरः? इति। ऐश्वरम् ईश्वरस्येदं वैष्णवमित्यर्थः। स्थानं स्वरूपमित्यर्थः। आदौ सर्वस्य जगत आदौ भवति अस्ति प्रकाशत इति वा भवं, ‘सदेव सोम्येदमग्र आसी’दिति श्रुतेरिति भावः। कार्यस्य पश्चाद्भवत्वादाह— ब्रह्मेति। ईश्वरस्वरूपभूतं सच्चिदानन्दं ब्रह्म प्राप्नोतीत्यर्थः; मुक्तो भवतीति यावत् , सति सम्यग्दर्शने। साक्षात् तदभावे ब्रह्मलोकप्राप्तिद्वारेण वा सायुज्यं लभत इति भावः। भाष्यार्कप्रकाशः १. ‘च’ क्वचिन्न। २. ‘सम्यगन्तेषु’ इति रा.पा.। ३. ‘अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं सलोकतामाप्नोति’ इति श्रुतिरनुसंधेया। नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन !॥२७॥
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्।
[[४५३]]
यत्तु रामानुजः—परं स्थानं परं पदं वैकुण्ठमिति। तदयुक्तम् , वैकुण्ठस्य सत्यलोकावान्तरविशेषस्य सादित्वेनानादित्वा- भावाद् , आद्यम् अनादिमिति तेन व्याख्यातत्वाच्च। न च ‘तदक्षरे परमे व्योमन्’ इति श्रुतेः परमव्योमरूपवैकुण्ठलोकोऽनादिरिति वाच्यम् , ब्रह्मण एवाक्षरपरमव्योमत्वात्। भूताकाशातिरिक्तश्चिदाकाशो हि परमव्योम। स चाविनाशित्वादक्षरः। चित आकाशत्वं च निष्प्रपञ्चत्वरूपं, निर्लेपत्वादिरूपं वा। यदि त्वात्मातिरिक्तं परमव्योमेति किञ्चिद्वस्तु स्यात् तर्हि तन्निलयस्तदाधेय आत्मा ब्रह्म तन्न्यून एव स्यात् , आधेयस्य न्यूनत्वादाधारात्। तच्चायुक्तम् , निरतिशयत्वाद् ब्रह्मणः। न हि गुणत एव निरतिशय आत्मा, किन्तु स्वरूपतोऽपि। अन्यथा निरतिशयत्वस्यार्धजरतीयतापत्तेः। सर्वाधारस्य परस्य ब्रह्मणो व्योमाधेयत्वे सति सर्वाधारत्वभङ्गाच्च। परमव्योमान्तरस्य तस्य सर्वव्यापित्वाभावप्रसङ्गाच्च। तस्मात् सर्वव्यापिनः सर्वाधारस्य सर्वात्मनो विष्णोर्नास्ति किञ्चिन्नियतं स्थानं, यद् योगी प्रयायात्। सति तु तस्मिन् स्थाने विष्णुत्वस्यैव भङ्गप्रसङ्गादित्यलम्॥२८॥
अक्षरपरब्रह्मयोग इति। अक्षरस्याविनाशिनः परब्रह्मणः परमात्मनः योगः सम्बन्धो यस्मिन् स तथोक्तः। अक्षरपरब्रह्म- स्वरूपतत्प्राप्त्युपायादेरस्मिन्नध्याये प्रोक्तत्वात् । अमू अर्चिरादि[मार्ग]सङ्ग्रहश्लोकौ – अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। संवत्सरो देवलोको वायुलोकस्ततः परः॥
आदित्यश्चन्द्रमा विद्युल्लोकश्च वरुणालयः। इन्द्रः प्रजापतिर्ब्रह्मा विद्युतोऽमानवः पुमान्॥
अग्न्यादयश्चतुर्दश लोकाः। अग्न्यादिलोकेषु अग्न्यादयः मानवा एव पुरुषा आतिवाहिकाः, विद्युल्लोकादनन्तरेषु तु अमानवः पुरुषः आतिवाहिकः। अग्निर्ज्योतिरुभावप्येक एवार्चिर्लोक इति बोध्यम्। धूमो रात्रिः कृष्णपक्षः षण्मासा दक्षिणायनम्। १संवत्सरः पितृलोक आकाशश्चन्द्रमण्डलम्॥
इत्ययं धूमादिमार्गसङ्ग्रहश्लोकः। ॥इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः॥८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत् सर्वं फलजातम् इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेणोक्तमर्थं सम्यगवधार्यानुष्ठाय योगी परं प्रकृष्टमैश्वरं स्थानम् उपैति च प्रतिपद्यते, आद्यम् आदौ भवं, कारणं ब्रह्मेत्यर्थः॥२८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः॥८॥
प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात् प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियतत्वान्न सप्तेति विरुध्यते। न चेदं वेदनमापातिकं, किन्त्वनुष्ठानपर्यन्तमित्याह—सम्यगिति। प्रकृतो ध्याननिष्ठो योगीत्युच्यते। ऐश्वरं विष्णोः परमं पदम् , तदेव तिष्ठत्यस्मिन्नशेषमिति स्थानम्। योगानुष्ठानादशेषफलातिशायिमोक्षलक्षणं फलं क्रमेण लब्धुं शक्यमिति भावः। तदनेन सप्तप्रश्नप्रतिवचनेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः॥२८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने अष्टमोऽध्यायः॥८॥
१. धूमादिमार्गे संवत्सरस्य पाठः चिन्त्यः, ‘नैते संवत्सरमभि प्राप्नुवन्ति’ (छा.उ. ५-१०-३) इति श्रुतेः। अत्येति तत् सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥२८॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः॥८॥
अ. ८. श्लो. २६-२८ ] DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः