०७

॥अथ सप्तमोऽध्यायः॥

श्रीभगवानुवाच— मय्यासक्तमनाः पार्थ ! योगं युञ्जन् मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

पूर्वोत्तराध्याययोः सङ्गतिं दर्शयति— योगिनामिति। प्रश्नबीजमुपन्यस्येति। कीदृशं वासुदेवस्य तव तत्त्वम्? कथं वा योगी वासुदेवगतान्तरात्मा स्यात्? इत्यर्जुनस्य प्रश्नद्वयं यथा स्यात् तथोक्त्वेत्यर्थः। न हि ‘तस्माद् योगी भवार्जुन’ इति श्लोकेनैव पूर्वाध्यायस्य समाप्तौ कृतायां दर्शितयोः प्रश्नयोरुत्थितिः स्यादिति भावः। एतेन ३तत्पदार्थस्य वासुदेवस्य तत्त्वनिर्धारणपरमिदं सप्तमा- ध्यायप्रभृतिकं मध्यमषट्कं गीताशास्त्रस्येति सूचितम्। स्वयमेवेति। अर्जुनेनापृष्टः सन्नेवेत्यर्थः। शिष्यप्रीत्यादिनेति भावः। ‘मदीयं तत्त्वमीदृशम् , योगी एवं मद्गतान्तरात्मा स्याद्’ इत्येतदंशद्वयं विवक्षुः वक्तुमिच्छुः भगवानुवाच— मयीत्यादिकम्। हे पार्थ! त्वं मय्यासक्तमनाः मदाश्रयःसन् योगं युञ्जन् असंशयं समग्रं मां यथा ज्ञास्यसि, तच्छृणु इत्यन्वयः। मयीत्यस्यार्थमाह— परमेश्वर इति। ननु अस्मत्पदस्य वक्तरि शक्तिः; वक्ता च कृष्णः सङ्घातविशेष एवेति कथं मयीति कृष्णोक्तपदस्य परमेश्वरार्थलाभ इति चेद्? उच्यते— कृष्णस्य सङ्घातविशेषेऽहमभिमानाभावात् , स्वस्वरूपचैतन्ये परमात्मन्येव अहम्बुद्धिसत्त्वाद् , अस्मच्छब्दस्य चात्र लाक्षणिकत्वादिति। न चैवमस्मदादिभिरपि ‘अहं परमात्मा’ इत्युच्येतेति वाच्यम् , इष्टापत्तेः। न च ‘अहं ब्रह्मास्मी’त्यत्राहम्पदस्य प्रतीचि लक्षणेति वाच्यम् , प्रत्यक्परयोरभेदात्। न च परः परोक्षः, प्रत्यगात्मा त्वपरोक्ष इति वाच्यम् , ‘यः साक्षादपरोक्षाद् ब्रह्म’ इति श्रुतेः परस्याप्यपरोक्षत्वात्। न च परः परमाकाशेऽस्ति, प्रत्यगात्मा तु हृदीति वाच्यम् , हृदयाकाशस्यैव परमाकाशत्वात्। ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इति गीतायाम् , अन्तर्यामिब्राह्मणेन च ईश्वरस्य हृदि स्थितिप्रतिपादनाच्च। न च - परस्यैव प्रत्यक्त्वे भ्रामणाद्यनुपपत्तिः, स्वस्य स्वभ्रामणाद्ययोगादिति - वाच्यम् , कार्यकरणसङ्घातस्यानात्मन एवात्ममायया भ्राम्यमाणत्वात्। अन्यथा प्रतीचः सति भ्रमणे विकारित्वादनित्यत्वापत्तेः। न च निर्विकारस्यात्मनः कथं भ्रामणादिविकारापत्तिरिति वाच्यम् , अविकारस्यैव अयस्कान्तोपलस्य लोहभ्रामणदर्शनात्। न ह्ययमात्मा स्वयमेवानात्मनो भ्रामयति कुलालश्चक्रमिव, किन्तु मायया। सा हि सर्वाघटितघटनाधुरन्धरा स्वाश्रयं प्रत्यगात्मानमविकुर्वती एव कार्यं निर्वहति, यथा इन्द्रजालमाया गगनमविकुर्वती एव तत्र गन्धर्वनगरं निर्माति, तद्वत्। तस्मात् कृष्णोक्तस्य अस्मच्छब्दस्य लक्षणया वृत्तिरात्मनि। आनन्दगिरिकृतव्याख्या कर्मसंन्यासात्मकसाधनप्रधानं त्वम्पदार्थप्रधानं च प्रथमषट्कं व्याख्याय, मध्यमषट्कमुपास्यनिष्ठं तत्पदार्थनिष्ठं च व्याख्यातुमारभ- माणः समनन्तराध्यायमवतारयति—योगिनामिति। अतीताध्यायान्ते - ‘मद्गतेनान्तरात्मना यो भजते मा’मिति प्रश्नबीजं प्रदर्श्य, कीदृशं भगवतस्तत्त्वम्? कथं वा १तद्गतान्तरात्मा स्याद्? इति अर्जुनस्य प्रश्नद्वये जाते, स्वयमेव भगवानपृष्टमेतद्२ वक्तुमिच्छन्नुक्तवानित्यर्थः। १. ‘मद्गतान्तरात्मा’ इति पा.। २. ‘भगवान् पृष्टमेतद्’ ‘अपृष्टमेव तद्’ इति पा.। प्रश्नद्वये जाते इत्यस्य भवितुं योग्ये सतीत्यर्थः। अतः अपृष्टमित्युत्तर- ग्रन्थाविरोधः। ३. ‘तत् त्वमसि’ इति महावाक्यघटकस्य तत्पदार्थस्येत्यर्थः। ‘योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥’ (भ.गी.६.४७) इति प्रश्नबीजमुपन्यस्य, स्वयमेव ‘ईदृशं मदीयं तत्त्वम् , एवं मद्गतान्तरात्मा स्याद्’ इत्येतद् विवक्षुर्भगवानुवाच—

[[३६०]]

मयीति। मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनो यस्य स मय्यासक्तमनाः, हे पार्थ ! योगं युञ्जन् मनःसमाधानं कुर्वन् , मदाश्रयः अहमेव परमेश्वर आश्रयो यस्य स मदाश्रयः। यो हि कश्चित् पुरुषार्थेन केनचिद् अर्थी भवति, स तत्साधनं कर्म अग्निहोत्रादि, तपो, दानं वा किञ्चिदाश्रयं प्रतिपद्यते। अयं तु योगी मामेवाश्रयं प्रतिपद्यते। हित्वाऽन्यत् साधनान्तरं मय्येवासक्तमना भवति। यस्त्वम् एवम्भूतः सन् असंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुण- सम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण ‘एवमेव भगवान्’ इति, तच्छृणु उच्यमानं मया॥१॥

यद्वा अभिधयैवेति ब्रूमः। रुद्रादित्यादिसङ्घातविशेषाणां जीवत्वमिव कृष्णसङ्घातविशेषस्येश्वरत्वात् कृष्णोक्तस्यास्मच्छब्दस्य परमेश्वर इत्यर्थ उचित एव। न च सङ्घातविशेषत्वे समाने सति कुतः कृष्ण एवेश्वरो न रुद्रादित्यादय इति वाच्यम् , कृष्णसङ्घातस्य मायामयत्वाद् , रुद्रादीनामस्मदादीनां च सङ्घातस्य कर्माधीनत्वादिति। तस्माच्छ्रीकृष्णदेहेन्द्रियाद्याकारपरिणतमायावच्छिन्नचैतन्यस्य परमेश्वरत्वं युक्तम् , देवमनुष्यादिदेहावच्छिन्नचैतन्यस्य जीवत्वमिवेति सङ्क्षेपः। कीदृशः परमेश्वर इत्यत आहवक्ष्यमाणेति। वक्ष्यमाणानि विशेषणानि प्रकृतिद्वयवत्त्वसर्वजगत्प्रभवत्वसर्वात्मत्वादीनि यस्य तस्मिन् तथोक्ते। अर्थी प्रयोजनवान् ; देवदत्तेन पुत्रवानितिवत् प्रयोगः। यत्किञ्चित्पुरुषार्थाकाङ्क्षीत्यर्थः। आश्रयमाधारं प्रतिपद्यते प्राप्नोति; आश्रयतीत्यर्थः। अयं त्विति तुशब्दो वैलक्षण्यार्थः। मामेवेति। आत्मानमेवेत्यर्थः। न तु तपोदानादिकमित्येवकारार्थः। अमुमेव विशदयति— हित्वाऽन्यदिति। यस्त्वमिति। यो योगी मय्यासक्तमना मदाश्रयश्च भवति, स एवेति शेषः। त्वम् एवम्भूतः सन् मय्यासक्तमना मदाश्रयश्च भवन् सन्नित्यर्थः। यद्वा यो मदाश्रयः सन् मय्यासक्तमना भवति, यो मय्यासक्तमनाः सन् मदाश्रयो भवतीति वा त्वम् एवम्भूतः सन्नित्यन्वयः। अथवा एवम्भूतो यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमना यस्त्वं स त्वं तथाविधः सन्निति। वस्तुतस्तु ‘यः’ इति प्रक्षिप्तमेव। असंशयमिति क्रियाविशेषणम्। तदेवाह— संशयमन्तरेणेति। निःसंशयं यथा तथेत्यर्थः। आत्मस्वरूपे सामग्र्यासामग्र्या- योगादाह— समस्तविभूतीत्यादि। समस्तैः- विभूतिर्विभवः; बलं शक्तिः; ऐश्वर्यम् , आदिपदाज्ज्ञानेच्छादिग्रहणम् , एतैर्गुणैः सम्पन्नम् ; तत्र बलं शरीरसामर्थ्यम् , शक्तिर्मनःसामर्थ्यमिति विवेकः। मामिति। मायाविनमीश्वरमित्यर्थः। शुद्धब्रह्मणि विभूत्याद्ययोगात्। ज्ञानस्याकारमाह— एवमेव भगवानिति। एवमेव भगवानिति यथा ज्ञास्यसीत्यन्वयः। तन्मयोच्यमानं शृणु। येन प्रकारेण मयोक्ते सति परमेश्वरस्य वक्ष्यमाणविशेषणत्वं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वम्। तत्रासक्तिर्मनसो विषयान्तरपरिहारेण१ तन्निष्ठत्वम्। मनसो भगवत्येवासक्तौ हेतुमाह— योगमिति। विषयान्तरपरिहारे हि २गोचरमालोच्यमाने भगवत्येव प्रतिष्ठितं भवतीत्यर्थः। तथापि स्वाश्रये पुरुषो मनः स्थापयति, नान्यत्रेत्याशङ्क्याह— मदाश्रय इति। योगिनो यदीश्वराश्रयत्वेन तस्मिन्नेवासक्तमनस्त्वमुपन्यस्तं तदुपपादयति—यो हीति। ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति—हित्वेति। अस्तु योगिनस्त्वदाश्रयप्रतिपत्त्या मनसस्त्वय्येवासक्तिः, तथापि मम किमायातमित्याशङ्क्य द्वितीयार्धं व्याचष्टे— यस्त्वमेवमिति। एवम्भूतो यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमना यस्त्वं, स त्वं तथाविधः सन् असंशयम् अविद्यमानः संशयो यत्र ज्ञाने तद् यथा स्यात् तथा मां समग्रं ज्ञास्यसीति सम्बन्धः। समग्रमित्यस्यार्थमाह— समस्तमिति। विभूतिर्नानाविधैश्वर्योपायसम्पत्तिः। बलं शरीरगतं सामर्थ्यम्। शक्तिर्मनोगतं प्रागल्भ्यम्। ऐश्वर्यमीशितव्यविषयमीशनसामर्थ्यम्। आदिशब्देन ज्ञानेच्छादयो गृह्यन्ते। असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति— संशयमिति। विना संशयं भगवत्तत्त्वपरिज्ञानमेव स्फोरयति— एवमेवेति। भगवत्तत्त्वे ज्ञातव्ये कथं मम ३ज्ञानमुदेष्यति? न हि त्वामृते तदुपदेष्टा कश्चिदस्तीत्याशङ्क्याह— तच्छृण्विति॥१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘परिहाण्या’ इति पा.। २. ‘गोचर आलोच्यमाने’ इत्यानन्दाश्रमसंस्करणे संपादकैरूहितः पाठः। ‘गोचरमालोच्य मनो भगवत्येव’ इत्यपि पाठः संभाव्यते। ३. ‘ज्ञानमुपदेक्ष्यति’ इति पा.।

[[३६१]]

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥२॥

त्वं माम् ‘एवमेव भगवान्’ इति ज्ञास्यसि तेन प्रकारेणाहं वच्मि, मयोच्यमानं तद्वचनं शृण्वित्यर्थः। यद्वा एवम्प्रकारेण त्वं मां ज्ञास्यसि तत्प्रकारवत् मयोच्यमानं शृण्वित्यर्थः। अथवा तदित्यव्ययं तथेत्यर्थे वर्तते। तथा शृण्वित्युक्ते किं शृण्वित्याकाङ्क्षाया जातत्वात् तत्पूरणार्थमाह भाष्यकारः— मयोच्यमानमिति। अर्थाद् वचनमिति लभ्यते, ज्ञानमिति वा। अत्र - ‘यथा येन ज्ञानेने’ति रामानुजः, तत् तु ‘प्रकारवचने थाल्’ इति पाणिनीयशासनविरुद्धत्वादुपेक्ष्यम्। मूलकर्तुः सत्यामेतद्विवक्षायां ‘येन ज्ञास्यसि तच्छृणु’ इत्येव ब्रूयात्॥१॥

ज्ञानमिति। किंविषयं ज्ञानम्? अत आह—तच्च मद्विषयमिति। ज्ञानं शास्त्रार्थपरिज्ञानम् , विज्ञानं तस्य स्वानुभवकरणमिति प्रागुक्तम्। ज्ञानस्य विज्ञानसाहित्यप्रतिपादनं च - ज्ञानस्यानुभवपर्यवसायित्वं, स्वानुभवसिद्धस्यैव ज्ञानस्य प्रामाण्यं चेत्येतद् द्योतयितुं कृतम्। एवं च स्वानुभवयुक्तं नाम स्वस्य सर्वज्ञेश्वरस्यानुभवसिद्धमित्यर्थः। तेन च वक्ष्यमाणज्ञानस्य परमप्रामाण्यं सिद्धं भवति। यथानुभवं तव शास्त्रार्थज्ञानं वक्ष्यामीति परमार्थः। यद्वा सविज्ञानं यथा तथेति क्रियाविशेषणम्। तथा च मदुक्तं ज्ञानं यथा तवानुभवारूढं भवेत् तथा ज्ञानं वक्ष्यामीत्यर्थः। अस्य च ज्ञानस्य ईश्वरविषयत्वादाह—मत्तत्त्वज्ञ इति। सर्वज्ञो भवतीति। ईश्वरतत्त्वस्यैवात्मत्वादीश्वरस्य च सर्वज्ञत्वादात्मवित् पुरुषः सर्वज्ञ एवेत्यर्थः। अथवा ममेश्वरस्य तत्त्वं प्रत्यगभिन्नं ब्रह्मैव, यस्तद् वेद स सर्वज्ञ एव, सर्वस्य ब्रह्मत्वादित्यभिप्रायः। एतेन - तत्त्वविदः कथं सर्वज्ञत्वम्? सर्वप्रपञ्चसाक्षात्काराभावादिति - निरस्तम् ; ब्रह्मज्ञानस्यैव सर्वज्ञानत्वात् , एकविज्ञानेन सर्वविज्ञानस्यैतदभिप्रायेणैव श्रुत्या प्रतिज्ञातत्वात् , घटपटादिसर्वप्रपञ्चज्ञानस्य निष्प्रयोजनत्वात् , प्रत्युत द्वैतज्ञानस्य बन्धहेतुत्वाच्चेति। अनेन श्लोकेन आत्मज्ञानमेव परमपुरुषार्थसाधनम् , तद्वानात्मैवेश्वरः इति सिद्धम्। यत्तु रामानुजः— विज्ञानं विविक्ताकारविषयं ज्ञानम् , यथा ‘अहं मद्व्यतिरिक्तात् समस्तचिदचिद्वस्तुजातान्निखिलहेय- प्रत्यनीकतया, अनवधिकातिशयासङ्ख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः’। तेन विविक्तविषयज्ञानेन सह मत्स्वरूप- विषयं ज्ञानं वक्ष्यामीति, तत् तुच्छम्। विविक्ताकारविषयज्ञानस्य विज्ञानत्वे अविविक्ताकारविषयज्ञानस्य अज्ञानत्वापत्तेः स्वरूप- विषयज्ञानस्य नैव ज्ञानत्वमुपपद्यते, ईश्वरस्वरूपस्य त्वदुक्तविधया विविक्तत्वेन ४तज्ज्ञानस्यापि विविक्तविषयज्ञानत्वेन विज्ञानत्वापत्तेः। १. ‘संयुक्तम्’ इति पा.। २. ‘नावशेषो’ इति पा.। ३. अयं ग्रन्थः उत्तरश्लोकावतरणिकायां रा.पाठे योजितः। ४. अविविक्ताकारेश्वरविषयज्ञानस्यापि वस्तुतो विविक्तेश्वरविषयज्ञानत्वादिति भावः। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या तच्च मद्विषयम्— ज्ञानमिति। ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभव१युक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्त्स्न्येन। तज्ज्ञानं विवक्षितं स्तौति श्रोतुरभिमुखीकरणाय। यज्ज्ञात्वा यज्ज्ञानं ज्ञात्वा नेह भूयः पुनरन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते २नावशिष्टं भवतीति। मत्तत्त्वज्ञो यः स सर्वज्ञो भवतीत्यर्थः। ३अतो विशिष्टफलत्वाद् दुर्लभं ज्ञानम्॥२॥

ज्ञास्यसीत्युक्त्या परोक्षज्ञानशङ्कायां तन्निवृत्त्यर्थं तदुक्तिप्रकारमेव विवृणोति— तच्चेति। इदम् अपरोक्षं ज्ञानं चैतन्यम्। तस्य सविज्ञानस्य प्रतिलम्भे किं स्यादित्याशङ्क्याह— यज्ज्ञात्वेति। इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते। तदेव सविज्ञानमिति विशेषणेन स्फुटयति। अनवशेषेण तद्वेदनफलोपन्यासेन श्रोतारं तच्छ्रवणप्रवणं करोति— तज्ज्ञानमिति। एकविज्ञानेन सर्वविज्ञानश्रुतिमाश्रित्यो- त्तरार्धतात्पर्यमाह— यज्ज्ञात्वेति। भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह अत इति॥२॥

[[अ. ७. श्लो. १-२]] [[३६२]]

१न च - ‘ईश्वरश्चिदचिद्वस्तुजाताद् विविक्तः’ इति ज्ञानं विज्ञानम् , ‘ईश्वरः सच्चिदानन्दमयः’ इत्यादिज्ञानं ज्ञानमिति - वाच्यम् , तथात्वे ज्ञानविज्ञानयोरन्योन्याश्रयदोषापत्तेरुभयस्याप्यसिद्धेः, ईश्वरस्य प्रपञ्चाद् विविक्तत्वविज्ञानं विना सच्चिदानन्दमयत्वज्ञानानुदयात् , सच्चिदानन्दमयत्वज्ञानं विना प्रपञ्चविविक्तत्वविज्ञानानुदयाच्च। ‘ईश्वरः सच्चिदानन्दरूपः, प्रपञ्चोऽनृतजडदुःखात्मकः’ इति ज्ञाने सति ‘ईश्वरः प्रपञ्चाद् विविक्तः’ इति विवेकस्योपदेशं विनैव सिद्धत्वेन सविज्ञानत्वविशेषणानर्थक्यप्रसङ्गात् , अविवेकस्याज्ञानत्वेन विवेक- ज्ञानरूपविज्ञानातिरिक्तज्ञानसद्भावस्याप्रमाणत्वाच्च, घटपटविवेकं विना ‘घटः’ इति ‘पटः’ इति च स्वरूपज्ञानस्यानुदयाच्च। ननु सर्वथाऽपि ‘घटः’ इति स्वरूपज्ञानाद् ‘घटः पटाद्भिन्नः’ इति विवेकज्ञानं भिन्नमेव, ज्ञाने घटमात्रस्यैव विषयत्वात् , विवेकज्ञाने घटपटयोस्तद्भेदस्य च विषयत्वात्। तथा ‘ईश्वरः’इति ज्ञानाद् ‘ईश्वरः सच्चिदानन्दरूपः’ इति ज्ञानाद्वा ‘ईश्वरः प्रपञ्चाद्भिन्नः’ इति विज्ञानस्य विवेकज्ञानरूपस्य वैलक्षण्यमवश्यमभ्युपेयमिति चेत् ; तर्ह्याकारभेदात् ज्ञानविज्ञानभेद इवाकारभेदात् ज्ञानभेदोऽपि स्यादेव - घटः पटः कुड्यं कुसूलमिति। न चेष्टापत्तिः, विषयभेदेऽपि विषयिणो ज्ञानस्याभेद इति सिद्धान्तात्। अन्यथा प्रतिविषयं ज्ञानमिव प्रतिज्ञानं ज्ञाताऽपि भिद्यत एव। तथात्वे एकस्मिन्नेव देहे नानाजीवसत्त्वप्रसङ्गः। न च - चैतन्यरूपज्ञानस्यैकत्वेऽपि बुद्धिवृत्ति- रूपज्ञानानामनेकत्वात् स्वत एव भेदः , वृत्तेः क्षणिकत्वात् , क्षणे क्षणे जायमानानां वृत्तीनामभेदस्य दुर्वचत्वादिति - वाच्यम् , वृत्तेः क्रियारूपाया जडत्वेनाज्ञानत्वाद् , वृत्तिप्रतिफलितचैतन्यस्यैव ज्ञानत्वात् तत्रापि। तस्माद् वृत्तिभेदेऽपि न ज्ञानभेदः। ज्ञानस्य नित्यत्वात् स्वप्रभत्वाच्च न जन्मादिकम् , किन्तु वृत्तेरेव। तदेव ज्ञानं चैतन्यात्मकमीश्वर इति सिद्धमीश्वरस्यात्मनो ज्ञानैकाकारत्वम्। ननु वृत्तावेव ज्ञानत्वमुपचारादुच्यते; सैव वृत्तिर्ज्ञानविज्ञानभेदभिन्ना; सा चेश्वरविषयेहोच्यते ‘सच्चिदानन्दरूप ईश्वरः’ इति, ‘ईश्वरः प्रपञ्चाद् विविक्तः’ इति च; इति चेत्, मैवम्। वृत्तिज्ञानं वृत्तिविज्ञानं चेति वृत्तिद्वैविध्यस्य क्वाप्यप्रसिद्धेः। त्वदुक्तवृत्ति- विज्ञानस्यापि वृत्तिज्ञानत्वात् , यथा ‘घटः’ इत्येतद् वृत्तिज्ञानं, तथा ‘घटः पटाद्भिन्नः’ इत्येतदपि वृत्तिज्ञानमेव हि। ननु घटादिप्रत्यक्षस्थलेऽन्तःकरणस्य चक्षुर्द्वारा विषयदेशं गतस्य विषयाकारेण यः परिणामः स वृत्तिरिति परिभाषितत्वाद् ‘घटः’ इत्यस्य वृत्तिज्ञानत्वेऽपि ‘घटः पटाद्भिन्नः’ इत्यस्य न वृत्तिज्ञानत्वम् , घटपटयोरप्रत्यक्षत्वेऽपि ‘घटः पटाद्भिन्नः’ इत्यस्य ज्ञानस्य जायमानत्वाद्घटपटरूपेणान्तःकरणपरिणामाभावात् , घटपटभेदाकारेणान्तःकरणस्य परिणामासम्भवाच्च। ततश्च ‘घटः पटाद् भिन्नः’ इतीदं विज्ञानमेव न वृत्तिज्ञानमिति चेन्न, एवमपि वृत्तिज्ञानचैतन्यज्ञानातिरिक्तविज्ञानस्याप्रसिद्धत्वात् , तत्कल्पनाया गौरव- [कर]त्वात् , सुखाद्याकारान्तःकरणपरिणामवद् घटपटभेदाकारान्तःकरणपरिणामस्य भवितव्यत्वाद् घटपटभेदज्ञानस्यापि वृत्तिज्ञान- त्वसम्भवात्। ननु भवतु नाम विज्ञानमपि वृत्तिज्ञानम् , तथापि घटपटज्ञानयोरिव ज्ञानविज्ञानयोर्दर्शितयोरस्त्याकारभेदाद्भेदः कल्पित इति चेत् , सत्यम् ; कल्पितोऽस्तु नाम भेदः, न तस्येह प्रयोजनम् , ईश्वरस्वरूपस्यैवेह वक्ष्यमाणत्वात् तावतैवेश्वरजगतोर्वैलक्षण्यसिद्धेः। प्रपञ्चवैलक्षण्यस्यैवेश्वरस्वरूपत्वाच्च। यः प्रपञ्चविलक्षणत्वेनेश्वरं न जानाति, स ईश्वरस्वरूपानभिज्ञ एव हि, ईश्वरस्वरूपस्य प्रपञ्चविलक्षणत्वात्। तस्मात् प्रपञ्चविलक्षणसच्चिदानन्दमयेश्वरस्वरूपज्ञानमेव ज्ञानमित्युच्यते, न तु प्रपञ्चविलक्षणेश्वरज्ञानस्य विज्ञानत्वं तदेकदेशस्य। अथ यदुक्तं चिदचिद्वस्तुवैलक्षण्यमीश्वरस्य, तत्राचिद्वैलक्षण्यसत्त्वेऽपीश्वरे चिद्वैलक्षण्यं नास्ति, चिद्रूपत्वादीश्वरस्य। न हि चिद्रूपश्चिद्विलक्षणो भवेत्। न च - किञ्चिज्ज्ञसावद्यजीववाची चिच्छब्दोऽत्र, तस्माच्च जीवात् सर्वज्ञो निरवद्य ईश्वरो विलक्षण एवेति - वाच्यम् , चैतन्यवाचिनश्चिच्छब्दस्य तादृशजीववाचित्वासम्भवात्। जीवेश्वरयोर्द्वयोरपि वस्तुतश्चिन्मात्रत्वात् , किञ्चिज्ज्ञत्वसर्वज्ञत्वादी- नामुपाधिधर्मत्वात्। उपाध्योर्घटमठयोर्भेदेऽप्युपहितस्याकाशस्यैकरूपत्ववद् मायाऽविद्ययोरुपाध्योर्भेदेऽपि चैतन्यस्यैकरूपत्वात्। तस्मान्न चिति किञ्चिज्ज्ञत्वादिजीवधर्माः [सर्वज्ञत्वादीश्वरधर्माः] वा भवितुमर्हन्ति, निर्धर्मकत्वाच्चितः। नापि चिन्मात्रे ईश्वरे कल्याणगुणसम्भवः, सत्त्वगुणविकारत्वात् कल्याणगुणानाम् , चैतन्यस्य च निर्गुणत्वात्। न च - भाष्यार्कप्रकाशः १. विविक्तत्वस्यापि ज्ञानविषयत्वविवक्षणान्नोक्तदोष इति शङ्कते—न चेति।

[[३६३]]

कथमित्युच्यते— मनुष्याणामिति। मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चिद् यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम्। तेषां यततामपि सिद्धानाम् , सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चिदेव हि मां वेत्ति तत्त्वतो यथावत्॥३॥

ज्ञानस्य दुर्लभत्वं प्रश्नपूर्वकं प्रकटयति— कथमित्यादिना। सहस्रशब्दस्य बहुवाचकत्वमुपेत्य व्याकरोति— अनेकेष्विति। सिद्धये सत्त्वशुद्धिद्वारा ज्ञानोत्पत्त्यर्थमित्यर्थः। सिद्ध्यर्थं यतमानानां कथं सिद्धत्वमित्याशङ्क्याह—सिद्धा एवेति। सर्वेषामेव तेषां ज्ञानोदयात् तस्य सुलभत्वमित्याशङ्क्याह— तेषामिति॥३॥

[आनन्दगिरिकृतव्याख्या]

सत्ताचित्यानन्दादिगुणानां सत्त्वात् कथं निर्गुणत्वं ब्रह्मण इति - वाच्यम् , ब्रह्मणोऽपृथग्भूतत्वात् तेषां सत्तादीनामेव ब्रह्मस्वरूपत्वात्। न च सद्रूपत्वं सत्तारूपत्वं च कथमेकस्येति वाच्यम् , नारायणस्य तद्रूपत्वतत्त्वरूपत्वयोर्भवताऽप्यभ्युपगतत्वात्। ‘तदैक्षत’ ‘तत्त्वं नारायणः परः’ इति श्रुतेश्च। तस्मात् तच्छब्दतत्त्वशब्दयोर्यथा ब्रह्मवाचकत्वम् , तद्वत् सच्छब्दसत्ताशब्दयोः चिच्छब्दचित्त्वशब्दयोश्च ब्रह्मवाचकत्वमेव, न तु धर्मधर्मिवाचकत्वम्। न च - निर्गुणे ब्रह्मणि निर्गुणत्वधर्मसत्त्वात् कथं निर्धर्मकत्वमिति - वाच्यम् , तथा सति निर्धर्मकत्वस्यापि धर्मरूपत्वेन निर्धर्मकत्वाभावस्यैव धर्माभावरूपत्वापत्तेः। न चेष्टापत्तिः, निर्धर्मकत्वाभावस्य धर्मस्वरूपत्वेन धर्माभावरूपत्वासम्भवात्। अथ यदि निर्धर्मकत्वं धर्माभाव इत्येव मतम् , तर्हि निर्गुणत्वमपि गुणाभाव इत्येवेष्यताम्। गुणस्यैव धर्मत्वाद् गुणाभावो हि धर्माभावः। तथा च निर्गुणब्रह्मणो निर्धर्मकत्वमव्याहतम्। किञ्च यन्निर्गुणे ब्रह्मणि वर्तमानं निर्गुणत्वं तद् ब्रह्मरूपमेव, सत्तादिवत्। अपि च निर्गुणत्वं हि गुणाभावः, स च ब्रह्मरूप एव, सर्वाभावस्यैव ब्रह्मरूपत्वात्। निष्प्रपञ्चं हि ब्रह्म। न च भावरूपस्य ब्रह्मणः कथमभावरूपत्वमिति वाच्यम् , अभावरूपस्य सर्वस्य यथा भावरूपत्वं, तथैव भावरूपस्य ब्रह्मणोऽभावरूपत्वम् , भावाभावविषये भ्रान्तत्वाल्लोकस्य। लोको हि कालत्रयेऽप्यविद्यमानत्वा- दभावरूपं जगद् भावं मन्यते, तद्विलक्षणं ब्रह्म अभावं मन्यते। तथा लोकैः सर्वाभावत्वेन व्यवह्रियमाणो भावपदार्थ एव ब्रह्म, सर्वत्वेन व्यवह्रियमाणोऽभावपदार्थ एव प्रपञ्चः। तस्माद् भाव एव सर्वाभावो ब्रह्मेति। न च कथं सर्वाभावस्य भावत्वमिति वाच्यम् , यथा घटाभावाभावस्य भावत्वं तथैवेति, सर्वस्याभावरूपत्वे सर्वाभावो ह्यभावाभावः। स च भाव एवेति भावः इत्यलं प्रसक्तानुप्रसक्तेन॥२॥

मनुष्याणामिति। अत इति। मत्तत्त्वज्ञानेन ज्ञातव्यपरिशेषाभावादित्यर्थः। अस्यैव फलितमाह— विशिष्टफलत्वादिति। सर्वोत्कृष्टफलप्रदत्वादित्यर्थः। मोक्षप्रदत्वादिति यावत्। मोक्षस्यैव सर्वोत्कृष्टफलत्वादिति भावः। सहस्रशब्दोऽत्र न सङ्ख्याविशेषवाची, किन्त्वनन्तवाचीत्याह—अनेकेष्विति। सिद्धये मोक्षार्थं यततीति योगाद्यनुष्ठानरूपं प्रयत्नं करोति। एवं मोक्षाय यतमानानां मध्ये कश्चिदेव कुशली मत्तत्त्वज्ञानपूर्वकं मुक्तो भवतीत्याह—यततामिति। सिद्धानामिति भाविनीं वृत्तिमाश्रित्य निर्देशः। सिद्धिं प्राप्तुमर्हाणामित्यर्थः। सिद्धा एवेति। ये यतन्ते ते सिद्धा एव मोक्षाय; मुक्तप्राया एवेत्यर्थः। औपचारिकोऽयं सिद्धशब्दः। एषां मुक्तप्रायत्वं च इह जन्मनि जन्मान्तरे वा अवश्यं मुक्तिलाभादिति भावः। यद्वा ये मोक्षाय यतन्ते, ते पुरुषा वस्तुतो नित्यमुक्तात्मरूपत्वात् सिद्धा एवेत्यर्थः। कश्चिदेवेति। यः कोऽपि धन्यः इत्यर्थः। न त्वेक एवेति नियमः, येन ‘कश्चिदेव, न द्वौ’ इति वेदान्तदेशिकेन शङ्करमतं दूष्येत, मृषारोपणप्रथमदेशिको हि वेदान्तदेशिकः। अनेन च कश्चिदेवेति वचनेन न सर्वसुलभमिदं ज्ञानम् , भाष्यार्कप्रकाशः मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३॥

[[अ. ७. श्लो. २-३]] [[३६४]]

किन्तु यस्य कस्यापि सुकृतिनः सुलभत्वाद् दुर्लभतरमेवेति सिद्धम्। इदमेव हि ज्ञानस्य दुर्लभतरत्वमवतारिकायामुक्तमाचार्यैः— ‘दुर्लभतरं ज्ञान’मिति१। यत्तु रामानुजः— मनुष्याः शास्त्राधिकारयोग्याः, तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते, सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तः सिद्धये यतते; मद्विदां सहस्रेषु कश्चिदेव तत्त्वतो यथावस्थितं मां वेत्ति। न कश्चिदित्यभिप्रायः। ‘स महात्मा सुदुर्लभः’ ‘मां तु वेद न कश्चन’ इति हि वक्ष्यते इति, तत् तुच्छम् ; देवादीनामपि शास्त्राधिकारयोग्यत्वस्य शारीरकसूत्रैः बादरायणेन व्यवस्थापितत्वात्२। ‘सिद्धये यतते’ इत्यस्य सिद्धिपर्यन्तं यतत इत्यर्थासिद्धेः, ‘सिद्धये यतते’ इति पदद्वयस्य आवृत्त्या वाक्यभेद- कल्पनस्यान्याय्यत्वात् , मां विदित्वा मत्तः इति पदत्रयस्य मूलाद् बहिः कल्पितत्वेनाप्रमाणत्वात् , सिद्धिपर्यन्तं यतमानानां मध्ये कश्चिदेव सिद्धये यतत इत्यस्य वाक्यस्यानन्वितत्वात् ; सिद्धिपर्यन्तं यतमान एव हि सिद्धये यतमानः। कश्चिन्मां वेत्तीत्यस्य न कश्चिन्मां वेत्तीत्यर्थोऽप्ययुक्तः, विरुद्धलक्षणाश्रयणस्याप्रमाणत्वात्। ‘मां तु वेद न कश्चन’ इति तु मद्भक्तं मच्छरणं विना कोऽपि मां न वेदेति विवक्षयोक्तत्वात्। अन्यथा येन केनापीश्वरतत्त्वस्य दुर्ज्ञेयत्वे ईश्वरतत्त्वं सम्प्रदायसिद्धं नैव भवेत्। तच्चानिष्टम् , ईश्वरतत्त्वस्यैव लोपप्रसङ्गात्। ‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्यादिनेश्वरतत्त्वस्य ज्ञेयत्वश्रवणाच्च। ‘तमेवं विदित्वाऽतिमृत्युमेति’ इति श्रुत्या ईश्वरतत्त्व- ज्ञानादेव मुक्तिप्रतिपादनात् , तस्य चागोचरत्वे मुक्तेरेवाप्रसिद्धेः मुक्त्यर्थं वेदान्तशास्त्रे न कस्यचित् प्रवृत्तिः। गृहस्थं संन्यासाश्रमे प्रवर्तयदिदं वेदान्तशास्त्रमनर्थकरमेव भवेत् , ३त्रिवर्गसाधकगृहस्थाश्रमत्यागात्। मोक्षस्य संन्यासाश्रमस्वीकारेणालाभाच्च। तस्मान्मां यः कोऽपि धन्यो वेत्तीत्येवाभिप्रायः, न तु न वेत्तीति। अथ यदुक्तं वेदान्तदेशिकेन— मनुष्यशब्दो न जातिविशेषाभिप्रायः, किन्तु सिद्ध्यर्थयतनयोग्यमात्राभिप्रायः इति, तदपि तुच्छम् , मुख्यार्थपरित्यागे कारणाभावात्। अर्जुनस्य मनुष्यत्वान्मनुष्याणां भवतामिदं ज्ञानं दुर्लभतरमित्येतावत एवार्थस्य भगवता विवक्षितत्वात्। देवादीनामेतज्ज्ञानदौर्लभ्यसौलभ्यश्रवणेनार्जुनस्य फलाभावात्। यच्च सिद्ध्यर्थयतनमात्रं प्रायेण सर्वसाधारणम् , अतः सिद्धिपर्यन्तमित्युक्तमिति, तच्चासत् , सिद्ध्यर्थयतनमात्रस्याप्यसर्व- साधारणत्वात्। न हि सर्वे सिद्ध्यर्थं यतमाना उपलभ्यन्ते। संसारप्रयतनमेव हि सर्वसाधारणम्। किञ्च य एव सिद्ध्यर्थं यतते, स एव सिद्धिपर्यन्तं यतते, मध्ये तद् यतनं नैव जहाति, दैवान्मरणसम्भवे तु जन्मान्तरेऽपि यतत एव। अथवा सिद्ध्यर्थं यतमानानां सहस्रेषु सिद्धिपर्यन्तं कश्चिद् यतत इति वक्तव्यम् , सिद्ध्यर्थं यतमानानां सर्वेषामपि सिद्धिपर्यन्तयतनासम्भवात् , यस्य कस्यचिदेव तत्सम्भवाच्च। तच्च नोक्तं मूलकर्त्रा। यदि रामानुजेन तदुच्यते तर्हि निर्मूलमेव तत्। यच्च ‘यततामपि सिद्धानां कश्चिन्मां वेत्ति’ ‘मद्वेदिषु न कश्चिन्मां तत्त्वतो वेत्ति’ इति वाक्यद्वयं विवक्षितमिति च, तत् तुच्छम् । तादृशविवक्षागमकपदाभावान्मूले। न हि ‘यततामपि सिद्धानां कश्चिन्मां वेत्ति, मद्विदां सहस्रेषु कश्चिन्मां तत्त्वतो वेत्ति’ इति मूले स्थितम्। तदेतत्कल्पनमपि निर्मूलमेव। किञ्च निर्मूलमप्यसङ्गतं च, यो मां वेत्ति स मां तत्त्वतो न वेत्ति, किन्तु अन्य एव सः यो मां तत्त्वतो वेत्तीति वचन- स्यायुक्तत्वात्। न हि य ईश्वरं तत्त्वतो न वेत्ति, स ईश्वरं वेत्तीत्युच्यते, यश्चेश्वरं तत्त्वतो वेत्ति, स ईश्वरं न वेत्तीत्युच्यते। न च - मां वेत्तीत्यनेन सामान्यत ईश्वरवेदनं, मां तत्त्वतो वेत्तीत्यनेन विशेषत ईश्वरवेदनं चाभिप्रेतमिति - वाच्यम् , निर्विशेषचिन्मात्रे ईश्वरे सामान्यविशेषभावकल्पनायोगात्। न च परोक्षापरोक्षत्वाभ्यां भेद इति वाच्यम् , ‘यत्साक्षादपरोक्षाद् ब्रह्म’ इति ईश्वरस्य नित्यापरोक्ष- ब्रह्मत्वात्। आत्मन एवेश्वरत्वाच्च। न ह्यात्मा कस्यचिदप्रत्यक्षः। न च ईश्वरस्वरूपस्वभावज्ञानाभ्यां तद्भेदोपपत्तिरिति वाच्यम् , यः ईश्वरस्वरूपं वेत्ति, स एवेश्वरस्वभावं वेत्ति, ईश्वरस्वरूपस्यैवेश्वरस्वभावत्वात्। न हि स्वरूपादन्यः स्वभावोऽस्ति। यस्तु स्वरूपादन्यः स्वभावः स मायैव, स्वरूपस्यैकस्यैव सत्यत्वात्। तस्माद् य ईश्वरं तत्त्वतो वेत्ति स एवेश्वरं वेत्ति, यश्चेश्वरं तत्त्वतो न वेत्ति स ईश्वरं नैव वेत्तीति स्थितम्॥३॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

१. ‘अतो विशिष्टफलत्वाद् दुर्लभतरं ज्ञानम् , कथमित्युच्यते—’ इति भाष्ये रा.पा.। २. देवताधिकरण इति शेषः। ३. त्रिवर्गः= धर्मकामार्थाः।

[[३६५]]

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥४॥

भूमिरिति। प्ररोचनं रुच्युत्पादनम्। आहेति। स्वतत्त्वमिति शेषः। ईश्वरस्य स्वरूपं स्वभावश्च तावदुच्येते, तज्ज्ञानादीश्वर- ज्ञानसिद्धेः। प्रकृतिशब्दश्च स्वरूपस्वभावयोरुभयोरपि प्रयुज्यते। अत ईश्वरस्य स्वरूपमेका प्रकृतिः, स्वभावोऽन्या प्रकृतिः। तत्र प्रथममनात्मनि ज्ञाते सति पश्चादात्मज्ञानं सुलभमिति तावदनात्मभूतेश्वरस्वभावनामकप्रकृतिं लक्षयति— भूमिरिति। ‘अष्टौ प्रकृतयः’ इति श्रुतेः; ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः॥’ इति साङ्ख्यशास्त्राच्च मूलप्रकृतेः, महदहङ्कारपञ्चतन्मात्राणां च प्रकृतीनां विकृतीनां सप्तानां प्रकृतिपदवाच्यत्वम्। प्रकृतिः उपादानम् , ‘जनिकर्तुः प्रकृति’रिति पाणिनिसूत्रात्२। विकृतिः कार्यम्। अनादित्वात् सर्वजगदुपादानत्वाच्च मायायाः प्रकृतित्वम्। विकारषोडशककारणत्वान्मूलप्रकृतिकार्यत्वाच्च महदादिसप्तकस्य प्रकृतित्वं विकृतित्वं चेति। तत्र प्रकृतित्वांशग्रहणेन महदादीनां सप्तानां प्रकृतित्वेन व्यपदेशः। भूतपञ्चकमिन्द्रियदशकं, मनश्चेति विकारषोडशकम्। तस्य तु कार्यत्वमेव, न कारणत्वमिति कृत्वा नास्ति प्रकृतित्वेन व्यपदेशः। यद्यपि भौतिकान् देहान् प्रति भूतानां स्थूलानामप्यस्ति कारणत्वम्३ , तथापि देहानां तत्त्वेष्वप्रवेशात् तत्त्वानामेव परस्परकार्यकारणभावस्य तत्र विवक्षितत्वात्। षोडशकात् कस्यापि तत्त्वस्याप्रादुर्भावान्नास्ति प्रकृतित्वं षोडशकस्य। यद्धि प्रलयेऽपि न नश्यति, ४तदेव हि तत्त्वं साङ्ख्यानामभिमतम्। यद्वा प्राणादिवायुपञ्चकमिन्द्रियदशकं मनश्चेति विकारषोडशकमिति वेद्यम्। इदं सर्वमभिप्रेत्याह— भूमिरिति पृथिवीतन्मात्रमुच्यत इत्यादि। अपञ्चीकृतसूक्ष्मभूतानां तन्मात्रत्वेन व्यवहारः। एभ्य एव तन्मात्रेभ्यः पञ्चीकृतेभ्यः स्थूलभूतोत्पत्तिः। यान्यधुनोपलभ्यन्ते तानि स्थूलभूतानि। एतद्भूतोत्पत्तेः प्राक् स्थितानि तु तन्मात्राणीति विवेकः। शब्दस्पर्शरूपाणि तन्मात्राणीति केचित्। कुतः स्थूलानि विहाय तन्मात्राणां ग्रहणम्? अत आह— भिन्ना प्रकृतिरष्टधेति वचनादिति। स्थूलभूतानां प्रकृतित्वाभावादि- त्यर्थः। तथा मनसः प्रकृतित्वाभावान्मनःशब्दोऽत्र स्वकारणमहङ्कारं लक्षयतीत्याह— मन इति। मनोऽन्तःकरणम् , अहङ्कारस्तु ज्ञानार्थं प्रयत्नस्य, तद् द्वारा ज्ञानलाभस्य, तदुभयद्वारेण मुक्तेश्च दुर्लभत्वाभिधानस्य श्रोतृप्ररोचनं फलमिति मत्वाऽऽह— श्रोतारमिति। आत्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन् आदौ अपरां प्रकृतिमुपन्यस्यति— आहेति। भूमिशब्दस्य व्यवहारयोग्य- स्थूलपृथिवीविषयत्वं व्यावर्तयति— भूमिरितीति। तत्र हेतुमाह— भिन्नेति। प्रकृतिसमभिव्याहाराद् गन्धतन्मात्रं स्थूलपृथिवीप्रकृतिः १उत्तरविकारो भूमिरित्युच्यते, न विशेष इत्यर्थः। भूमिशब्दवद् अबादिशब्दानामपि सूक्ष्मभूतविषयत्वमाह— तथेति। तेषामपि प्रकृति-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

श्रोतारं प्ररोचनेनाभिमुखीकृत्याह— भूमिरिति। भूमिरिति पृथिवीतन्मात्रमुच्यते, न स्थूला, ‘भिन्ना प्रकृति- रष्टधा’ इति वचनात्। तथा अबादयोऽपि तन्मात्राण्येवोच्यन्ते। आपोऽनलो वायुः खम् । मनः इति मनसः कारणम् अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् पृथिवीतन्मात्रमिति। गन्धतन्मात्रमुच्यते, न स्थूला पञ्चात्मिका, तत्र हेतुमाह— भिन्ना प्रकृतिरिति। प्रकृतिः ईश्वरोपाधिर्माया, सैव सकलकार्याकारेण स्थिता। तत्राष्टधेति विशेषणात् सूक्ष्मरूपायाः ग्रहणं विवक्षितमित्यर्थः। उदकादिषु अतिदिशति— तथा अबादयोऽपीति। रसतन्मात्रा आपः। रूपतन्मात्रोऽनलः। स्पर्शतन्मात्रो वायुः। शब्दतन्मात्रं खम्। अ. ७. श्लो. ३-४ ] १. ‘भूमिरापः’ इत्यत्र पाठक्रमेण पूर्व उत्तरस्य विकारः। २. सूत्रे प्रकृतिपदमुपादानार्थकमिति भावः। ३. तत्त्वान्तरप्रकृतित्वमेवात्र प्रकृतित्वम्। पृथिव्यादिभ्यो जातानां देहादीनां पृथिव्यादित्वमेवेति न तत्त्वान्तरत्वम्। ४. वस्तुतस्तु एवं सति चतुर्विंशतितत्त्वसंख्यानानुपपत्तेः, सर्वेषां प्रलयेऽभावात् , इदं चिन्त्यम्। तत्त्वशब्दस्तु शास्त्रसिद्धप्रमेयपरतयाऽपि नेतुं शक्यः। भूतानां देहानां च स्थूलत्वेन्द्रियग्राह्यत्वयोः साम्यात् न तत्त्वान्तरता। पूर्वपूर्वतत्त्वापेक्षया हि उत्तरोत्तरं स्थूलीभवत् तत्त्वान्तरतामेति।

[[३६६]]

१. कार्यत्वाभावे सति प्रकृतित्वं विवक्षितम् , कारणत्वस्य कार्यप्रकृतिसाधारणत्वात्। २. द्र. ब्र.सू. १-१-५ इत्यादि। तत्कारणं तत्त्वान्तरमिति विवेकः। महत्तत्त्वं बुद्धिरित्याह— बुद्धिरितीति। मूलप्रकृतिरेवाहङ्कार इत्याह—अहङ्कार इति। अविद्या ऽहङ्कारवासना, तत्संयुक्तमव्यक्तं मूलप्रकृतिः अहङ्कार इत्युच्यते। कुतोऽस्याहङ्कारशब्दवाच्यतेत्यत्र दृष्टान्तमाह— यथेति। दार्ष्टान्तिकमाह— एवमिति। अहङ्कारवासना अविद्याऽस्मिन् अस्तीति अहङ्कारवासनावत्। मूलकारणम् आदिकारणमनादीत्यर्थः। मूलप्रकृतिरिति यावत्। अव्यक्तस्य अहङ्कारशब्दवाच्यत्वे हेत्वन्तरमाह—प्रवर्तकत्वादिति। अहङ्कारस्य प्रवर्तकत्वात् प्रवर्तकमव्यक्त- महङ्कारशब्दवाच्यमित्यर्थः। अहङ्कारस्य प्रवर्तकत्वमेव दर्शयति— अहङ्कार एवेति। सर्वस्य लोकस्य कर्मसु प्रवृत्तौ अहङ्कार एव कारणम् , अहमिदं कुर्यामित्यहङ्कारपूर्वकसङ्कल्पाभावे कर्मसु प्रवृत्त्यसम्भवात्। नन्वेवम् अहङ्कारस्य भवतु प्रवर्तकत्वम् , कथं पुनरव्यक्तस्येति चेद्? उच्यते—अज्ञानमूलकत्वादनात्मन्यात्माभिमानरूप- स्याहङ्कारस्य, अहङ्कारगतं तत्प्रवर्तकत्वमप्यज्ञानगतप्रवर्तकत्वमूलकमेव, कारणधर्मपूर्वकत्वात् कार्यधर्मस्येति। माया ह्यात्मस्वरूप- मावृत्य सर्वं सर्वत्र प्रेरयति। काऽसौ प्रकृतिः? अत आहमायेति। काऽसौ मायेत्यत आहशक्तिरिति। ईश्वरनिष्ठं जगज्जननादिसामर्थ्यमित्यर्थः। अष्टधा भिन्नेति। कार्यकारणरूपेणेति भावः। महदादीनां सप्तानां कार्यप्रकृतित्वान्मूलप्रकृतेः १कारणप्रकृतित्वाच्चेति बोध्यम्। ननु साङ्ख्यमतस्य २शारीरकशास्त्रे बादरायणेन प्रत्याख्यातत्वात् कथं तस्यैवेहोपन्यासः स्वयमेव इति चेद्? उच्यते— शारीरके भाष्यार्कप्रकाशः समानाधिकृतत्वाविशेषात् तन्मात्राणां पूर्वपूर्वप्रकृतीनामुत्तरोत्तरविकाराणां न विशेषत्वसिद्धिरित्यर्थः। मनःशब्दस्य सङ्कल्पविकल्पात्मक- करणविषयत्वमाशङ्क्याह— मन इतीति। न खल्वहङ्काराभावे सङ्कल्पविकल्पयोरसम्भवात् तदात्मकं मनः सम्भवतीत्यर्थः। निश्चयलक्षणा बुद्धिरित्यभ्युपगमाद् बुद्धिशब्दस्य निश्चयात्मककरणविषयत्वमाशङ्क्याह— बुद्धिरितीति। न हि हिरण्यगर्भसमष्टिबुद्धिरूपमन्तरेण व्यष्टिबुद्धिः सिध्यतीत्यर्थः। अहङ्कारस्याभिमानविशेषात्मकत्वेनान्तःकरणप्रभेदत्वं व्यावर्तयति— अहङ्कार इतीति। अविद्यासंयुक्तमिति। अविद्यात्मकमित्यर्थः। कथं मूलकारणस्याहङ्कारशब्दत्वमित्याशङ्क्योक्तमर्थं दृष्टान्तेन स्पष्टयति— यथेत्यादिना। मूलकारणस्याहङ्कार- शब्दत्वे हेतुमाह— प्रवर्तकत्वादिति। तस्य प्रवर्तकत्वं प्रपञ्चयति— अहङ्कार एवेति। सत्येवाहङ्कारे ममकारो भवति, तयोश्च भावे सर्वा प्रवृत्तिरिति प्रसिद्धमित्यर्थः। उक्तां प्रकृतिमुपसंहरति— इतीयमिति। इयमित्यपरोक्षा, साक्षिदृश्येति यावत्। ऐश्वरी तदाश्रया, तदैश्वर्योपाधिभूता। प्रक्रियते महदाद्याकारेणेति प्रकृतिः। त्रिगुणं जगदुपादानं प्रधानमिति मतं व्युदस्यति— मायेति। तस्याः तत्तत्कार्याकारेण परिणामयोग्यत्वं द्योतयति— शक्तिरिति। अष्टधेति। अष्टभिः प्रकारैरिति यावत् ॥४॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या अहङ्कारो गृह्यते। बुद्धिरिति अहङ्कारकारणं महत्तत्त्वम्। अहङ्कार इति अविद्यासंयुक्तमव्यक्तम्। यथा विषसंयुक्तमन्नं विषमुच्यते, एवमहङ्कारवासनावदव्यक्तं मूलकारणम् अहङ्कार इत्युच्यते, प्रवर्तकत्वादहङ्कारस्य। अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके। इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिरष्टधा भिन्ना भेदमागता॥४॥

‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त’ इति साङ्ख्यप्रक्रियया व्याचष्टे— मन इति मनस इत्यादिना। अहङ्कारा- न्वयव्यतिरेकवत्त्वाद् मनसोऽहङ्कारकार्यत्वमित्यर्थः। प्रथमजं सन्मात्रं महत्तत्त्वम् , तदहङ्कारस्य कारणं, ‘त्रिविधोऽयमहङ्कारो महत्तत्त्वाद्धि जायते’ इति स्मरणादित्यर्थः। ‘मनुष्योऽह’मित्यादि मिथ्याज्ञानमविद्या, तत्सहितमव्यक्तं मूलाज्ञानमविद्या- शब्देनोच्यते। कया वृत्त्या तदुच्यत इत्याशङ्क्याह— यथा विष(य)संयुक्तमिति। मनोबुद्धिशब्दयोरप्यहङ्कारशब्दादि[ब्दवद्] लक्षणैव द्रष्टव्या। कारणत्वगुणयोगाद् अहङ्कारशब्दस्याव्यक्ते गौणी वा वृत्तिरित्याह— प्रवर्तकत्वादिति॥४॥

[[३६७]]

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ! ययेदं धार्यते जगत्॥५॥

प्रकृत्यादीनां ब्रह्मणः पृथक्त्वं दूषितम् , न तु प्रकृत्यादीनां स्वरूपमेव निषिद्धम् , मायादिपदार्थानां तत्राप्यभ्युपगतत्वात्। न च महत्तत्वाहङ्कारतत्त्वानभ्युपगमः, बुद्धेरेव महत्तत्त्वत्वात्। एवमेव बुद्ध्याख्यमन्तःकरणं मनः इति, अहङ्कार इति च वृत्तिभेदाद् द्विधोच्यते—‘अहंवृत्तिरिदंवृत्तिरित्यन्तःकरणं द्विधा’ इति विद्यारण्यवचनात्। तत्राहंवृत्तिरहङ्कारः, इदंवृत्तिस्तु मनः। अन्तःकरण- परिणामत्वाद् वृत्तिद्वयात्मकमनोऽहङ्कारद्वयस्य महत्तत्त्वकार्यत्वेन व्यवहारः। तत्र च अहंवृत्तिपूर्वकत्वादिदंवृत्तेरहङ्कारकार्यत्वव्यपदेशो मनस इति। किञ्च साङ्ख्यमते मूलप्रकृतेरेव जगदुपादानत्वमुक्तम् , न ह्यात्मनः,‘न प्रकृतिर्न विकृतिः पुरुषः’ इत्यात्मन उपादानत्वनिषेधात्। इह तु ‘जन्माद्यस्य यतः’ इति पुरुषस्यैवोपादानत्वमुच्यते मायाद्वारेति। एवमादि बहुवैलक्षण्यं साङ्ख्याद्वैतयोरूह्यम्। तस्मान्नात्र साङ्ख्यमतोपन्यासः। अथवा ‘अदुष्टमन्यतो ग्राह्य’मिति न्यायात् साङ्ख्योक्तोऽप्यदुष्टोंऽशो ग्राह्य एव। तत्र च प्रकृत्यष्टकस्य दर्शितस्य ग्रहणं न दुष्टम् , श्रुतिसिद्धत्वादित्यतस्तदंश इह गृह्यते। ‘न प्रकृतिर्न विकृतिः पुरुषः’ इति तु न गृह्यते, श्रुतिविरोधात्। यद्यपि वस्तुतः पुरुषस्याप्रकृतित्वमविकृतित्वम् , तथापि मायाद्वारा तस्य प्रकृतित्वं श्रुत्युक्तमिति बोध्यम्। यत्तु रामानुजः—भूम्यादयः यथाश्रुति स्थूलभूताद्यर्थबोधका एवेति, तत्प्रत्युक्तम् , स्थूलभूतादीनां प्रकृतित्वाभावप्रतिपादनात्। यच्चोक्तं देशिकेन— ‘एषा हि पूर्वमेका पश्चादष्टधा परिणता’ इति, तदसत् , पञ्चभूतमनोबुद्ध्यहङ्कारात्मनैव परिणतेति वक्तुमशक्यत्वाद् , भूतपञ्चकप्राणपञ्चकेन्द्रियदशकविषयपञ्चकमनोबुद्ध्यहङ्कारात्मना अष्टाविंशतिधा परिणतेति वक्तव्यत्वात्। घटात्मना परिणतमृदतिरिक्तापरिणतमृद्वद् भूतादिरूपेण परिणतप्रकृत्यतिरिक्तापरिणतप्रकृतेः सत्त्वेन ‘पूर्वमेका पश्चादष्टधे’ति वक्तुमयुक्तत्वात्। ‘कार्यात्मना अष्टधा, कारणात्मना एके’ति च नवधा स्थितेति वक्तव्यत्वात्। न च कृत्स्नाऽपि प्रकृतिः कार्यात्मना परिणतैवेति वाच्यम् , ईश्वरोपाधेरव्याकृतस्यैवाभावप्रसङ्गात्। जीवस्य च कारणशरीरभूताज्ञानाभावप्रसङ्गात्। न चेष्टापत्तिः, सुषुप्तावज्ञानानुभवसत्त्वात्। व्यवहारकालेऽप्यहमज्ञ इत्यनुभवसिद्धाज्ञानस्य दुरपलापत्वाच्च, घटज्ञानेन तदज्ञाननिवृत्तिदर्शनाच्च। न च - अज्ञानं ज्ञानाभाव एव, न मायेति - वाच्यम् , अनादिभावत्वे सति ज्ञाननिवर्त्यत्वस्य मायालक्षणत्वादज्ञानस्य च तथात्वात् , ज्ञानाभाववानहमिति प्रतीत्यभावात् , अज्ञानवानहमिति प्रतीतिसत्त्वात् १भावरूपमेवाज्ञानम् , न त्वभावरूपमिति॥४॥

अपरेति। इयं पूर्वोक्ताष्टधा भिन्ना प्रकृतिरपरा। इतस्त्वन्यां जीवभूतां मे प्रकृतिं परां विद्धि। हे महाबाहो! ययेदं जगद् धार्यते। प्रकृतिशब्दार्थमाहममात्मभूतामिति। मत्स्वरूपभूतामित्यर्थः। पूर्वश्लोकोक्तप्रकृतिस्तु ईश्वरस्वभावभूतेति विवेकः। जीवभूतां जीवयति चेतयति देहमिति जीवः तद्रूपाम् , क्षेत्रं जानातीति क्षेत्रज्ञः; देहेन्द्रियाद्यनात्मपदार्थः सर्वोऽपि क्षेत्रमित्युच्यते, व्यक्ती- १. अज्ञानस्य भावरूपत्वं प्रत्यक्षानुमानश्रुत्यादिभिः विस्तरेण प्रपञ्चितं पञ्चपादिकाविवरणादौ द्रष्टव्यम्। भाष्यार्कप्रकाशः अपरेति। अपरा न परा, निकृष्टाऽशुद्धाऽनर्थकरी संसारबन्धनात्मिका इयम् । इतः अस्याः यथोक्तायाः तु आनन्दगिरिकृतव्याख्या अचेतनवर्गमेकीकर्तुं प्रकृतेरष्टधा परिणाममभिधाय, विकारावच्छिन्न[न्नं] कार्यकल्पं चेतनवर्गमेकीकर्तुं पुरुषस्य चैतन्यस्या- विद्याशक्त्यवच्छिन्नस्यापि प्रकृतित्वमुक्तां प्रकृतिमनूद्य दर्शयति—अपरेति। निकृष्टत्वं स्पष्टयति— अनर्थकरीति। अनर्थकरत्वमेव अस्याः प्रकृतेः हेयत्वं दर्शयति— अपरेयमिति। उपादेयज्ञानं दर्शयति— इतस्त्वन्यामिति। ज्ञातव्यजीवसद्भाव एव

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. ७. श्लो. ४-५]] [[३६८]]

अन्यां विशुद्धां प्रकृतिं ममात्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूताम् , हे महाबाहो ! यया प्रकृत्या इदं धार्यते जगद् अन्तःप्रविष्टया॥५॥

भविष्यत्ययमंशः त्रयोदशाध्याये, २आत्मा कूटस्थः, तल्लक्षणां तत्स्वरूपाम्। अनेन ईश्वरस्वरूपं जीव एवेति जीवेश्वराभेदः स्पष्टः। जीवति प्राणान् बिभर्ति अस्माद् देह इति जीवः। ‘जीव प्राणधारणे’ इति व्युत्पत्तिमाश्रित्याहप्राणधारणनिमित्तभूतामिति। देहस्य प्राणधारणे जीवो निमित्तभूत इत्यर्थः। ‘जीवापेतं वाव किल शरीरं म्रियते’ इति श्रुतेः। म्रियते प्राणत्यागं करोतीत्यर्थः। ‘मृङ् प्राणत्यागे’ इति धातुः। ननु पूर्णस्य जीवस्य कथमपगमनं येन शरीरस्य मरणं स्यादिति चेद् , उच्यते— परिपूर्णस्यापि जीवस्य बुद्ध्युपाधिवशाद् गमनादि सम्भवतीव, घटोपाधिवशादाकाशस्येव। ‘ध्यायतीव लेलायतीव’ इति श्रुतेः। यथा बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव, बुद्धौ चलन्त्यामात्मा चलतीव, तथा बुद्धावुत्क्रामन्त्यामात्मा उत्क्रामतीवेति भावः। एवं चैतन्यस्य प्राणधारणनिमित्तभूतत्वमपि बुद्ध्यवच्छिन्नत्वरूपेणैवेति बोध्यम्। कथम्भूतया धार्यते जगद्? अत आहअन्तःप्रविष्टयेति। अन्तर्यामिनारायणादिशब्दवाच्यकूटस्थसाक्षिप्रत्यगात्मरूपेण जीवो जगद् अन्तः प्रविश्य धारयतीत्यर्थः। यद्यपि ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति जीवस्य सर्वजगदन्तर्बहिर्व्याप्ति- रस्ति, तथापि बहिर्व्याप्य स्थितस्य तस्य न जगद्धारकत्वमित्यभिप्रेत्याहअन्तःप्रविष्टयेति। अन्तर्व्याप्य स्थितयेत्यर्थः। यथाश्रुतार्थे तु परिपूर्णस्य कथं प्रवेश इति चोद्येत। यद्वा परिपूर्णस्यापि बुद्ध्युपाधिवशात् प्रवेशः संभवत्येव, ‘तत्सृष्ट्वा तदेवानुप्राविश’दिति श्रुतेः। बुद्ध्यवच्छिन्नत्वाकारेण प्राविशदिति तदर्थः। इदं च स्थावरजङ्गमदेहापेक्षयोक्तम्। अचेतनेषु तु नापूर्वोऽस्ति कश्चनेश्वरस्य प्रवेशः। एवमन्तर्व्याप्य स्थितं चैतन्यं जीव इति, कूटस्थ इति, साक्षीति, आत्मेति च व्यवहरन्ति; बहिर्व्याप्य स्थितं तु ईश्वर इति, ब्रह्मेति च व्यवहरन्ति। अस्य चान्तर्बहिर्भावस्य चैतन्ये कल्पितत्वाद् वस्तुतो निष्प्रदेशमेकरूपमद्वैतमेव चैतन्यमिति न जीवेश्वरभेदाव- काशः। न च जीवस्य कथमचेतनान्तःस्थितिरिति वाच्यम् , चिदाभासलक्षणजीवस्यैव तदनुपपत्तिः, न तु प्रत्यगात्मलक्षणजीवस्य, ‘चेतनाचेतनभिदा कूटस्थात्मकृता न हि। किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम्॥’ इति वचनात्। यत्तु रामानुजः— ईश्वरस्याचेतनरूपा चेतनरूपा च प्रकृती द्वे स्तः; तत्र भोग्यभूता अचेतनप्रकृतिः भूमिरापः इति श्लोकेन दर्शिता; भोक्तृभूता तु चेतनप्रकृतिः सेहोच्यत इति, तत्तुच्छम् ; ‘अविकार्योऽयमुच्यते’ इति जीवस्य चेतनस्य ३भोक्तृत्वविकारनिषेधात् ; अहंवृत्तिरूपविज्ञानमयकोशात्मकबुद्धेरेव भोक्तृत्वात् , तस्याश्च वस्तुतो जडत्वेन भोक्तृभोग्यात्मकप्रकृतेरचेतनत्वात् , चेतनस्य च जीवस्याकर्तृत्वेनाप्यभोक्तृत्वात् , ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥’ इति, ‘न करोति न लिप्यते’ इति च जीवस्याकर्तृत्वस्येहैव प्रतिपादितत्वात् , ‘निष्कलं निष्क्रियं शान्तम्’ इत्यादिश्रुतेः, कर्तृबुद्धितादात्म्याध्यास- प्रयुक्तत्वाच्च जीवे कर्तृत्वभ्रमस्य, तदध्यासाभाववत्यां सुषुप्तौ जीवस्य कर्तृत्वादर्शनात् , अकर्तुर्भोक्तृत्वायोगात् , तथा सति सोमयाजिनो नास्तीत्याशङ्क्याह— ययेदं धार्यते जगदिति। चेतनाधिष्ठितमेवाचेतनं व्यवहारक्षमं रथादिवदित्यर्थः॥५॥

स्फोरयति— संसारेति। कथञ्चिदप्यनन्यत्वव्यावृत्त्यर्थः तुशब्दः। अन्याम् अत्यन्तविलक्षणामिति यावत्। अन्यत्वमेव स्पष्टयति— विशुद्धामिति। १प्रकृतिशब्दस्यात्र प्रयुक्तस्यार्थान्तरमाह— ममेति। प्रकृष्टत्वमेव भोक्तृत्वेन स्पष्टयति—जीवभूतामिति। प्रकृत्यन्तराद् अस्याः प्रकृतेरवान्तरविशेषमाह— ययेति। न हि जीवरहितं जगद् धारयितुं शक्यमित्याशयेनाह— अन्तरिति॥५॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘प्रकृतिशब्दस्यान्यप्रयुक्त’ इति पा.। २. क्षेत्रज्ञः आत्मा कूटस्थः इति संबन्धः। ३. विकारसामान्यनिषेधे हि भोक्तृत्वरूपो विकारोऽपि निषिद्धो भवति। जीवस्य भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह—अहंवृत्तीति। ‘इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते। परमार्थतस्तु नान्यतरस्यापि संभवति, अचेतनत्वात् सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य’(ब्र.सू. १.२.१२ ) इति भाष्यमिहानुसंधेयम्। तथा द्र.भ.गी. १३- २१।

[[३६९]]

एतदिति। एतद्योनीनि, एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इत्येवम् उपधारय जानीहि। यस्माद् मम प्रकृती योनिः कारणं सर्वभूतानाम् अतोऽहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः, प्रलयो विनाशस्तथा। प्रकृतिद्वयद्वारेणाहं सर्वज्ञः ईश्वरो जगतः कारणमित्यर्थः॥६॥

ऽन्यस्यैव स्वर्गफलभोगप्रसङ्गात् , त्वन्मतरीत्या अणुना जीवेन भोक्त्रा कृत्स्नस्य जगतोऽधार्यमाणत्वात्॥५॥

एतदिति। परापरे इति। क्षेत्रज्ञलक्षणा परा प्रकृतिः, क्षेत्रलक्षणा त्वपरेति विवेकः। इदम्प्रत्ययविषयः भूम्यादिः क्षेत्रम् , अहम्प्रत्ययविषयस्तु चिदात्मा क्षेत्रज्ञ इति विवेकः। न चाहङ्कारोऽप्यहम्प्रत्ययविषय इति वाच्यम् , ममाहङ्कार इति प्रतीत्या अहङ्कारस्य केवलाहम्प्रत्ययविषयत्वाभावात्। न च - ममात्मेति प्रतीत्या आत्माऽपि केवलाहम्प्रत्ययविषयो नेति - वाच्यम् , स्वरूपवाचित्वात् तत्रात्मशब्दस्य। न चाहम्प्रत्ययविषयत्वस्यापि सत्त्वादहङ्कारस्य पाक्षिकात्मत्वं स्यादिति वाच्यम् , अनात्मनः पाक्षिकात्मत्वस्या- सम्भवात् ; आत्मतादात्म्याध्यासप्रयुक्तत्वाच्च तदहम्प्रत्ययविषयत्वस्येति। योनी कारणे, उपादाने इति यावत्। न च - क्षेत्रज्ञस्य कथं भूतप्रकृतित्वम् , कार्यकारणयोः सालक्षण्यनियमात् , भूतानां जडत्वात् क्षेत्रज्ञस्य च चेतनत्वादिति - वाच्यम् , परिणामपक्षे एव कार्यकारणसालक्षण्यनियमः, न तु विवर्तपक्षे इति सिद्धान्तात्। मायाप्रकृतेर्भूतानां परिणाम्युपादानत्वेऽपि क्षेत्रज्ञप्रकृतेर्भूतानां विवर्ताधिष्ठानत्वात्। एवं जगद्रूपविवर्ताधिष्ठानत्वलक्षणोपादानत्वसम्भवात् प्रकृतिशब्दवाच्यत्वं क्षेत्रज्ञस्य। प्रकृतिर्ह्युपादानम्। तस्माद् रज्जुः सर्पस्येव, जीवः सर्वभूतानामुपादानमिति स्थितम्। स्वाभिन्नकार्य- जनिहेतुत्वमुपादानत्वमिति लक्षणात्। इदं विवर्ताधिष्ठाने परिणामिनि चानुगतं साधारणं लक्षणम्। तदेवं सर्वभूतानां चेतनविवर्तत्वात् चेतनयोनित्वम् , मायापरिणामत्वान्मायायोनित्वम् इत्यस्ति परापरप्रकृतिद्वययोनित्वम्। परिणामविवर्तलक्षणे तु— उपादानसमसत्ताककार्यापत्तिः परिणामः, तद्विषमसत्ताककार्यापत्तिः विवर्तः इति बोध्ये। एवं १व्यतिरिक्तात्माभिज्ञेन मुमुक्षुणा ध्येयस्येश्वरस्य कारणत्वादि स्वाभाविकं न भवतीत्याह— एतद्योनीनीति। सृष्टेर्जीवादृष्टनिबन्धनत्वाद् जीवस्य निमित्तत्वम् , मायायाश्च परिणामित्वाद् उपादानत्वं योनित्वम्। तदुभयोरीश्वरस्य सोपाधिकाकाराश्रयत्वमेवोपादानत्वमित्यर्थः। ॥ इति श्रीमद्भगवद्गीताभाष्यटिप्पणे सप्तमोऽध्यायः॥

उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयति— एतद्योनीनीति। प्रकृतिद्वयस्य जगत्कारणत्वे कथमीश्वरस्य २तदुपगतमित्या- शङ्क्याह— अहमिति। एतद्योनीनीत्युक्ते समनन्तरप्रकृतजीवभूतप्रकृतौ एतच्छब्दस्याव्यवधानात् प्रवृत्तिमाशङ्क्य व्याकरोति— एते इति। सर्वाणि चेतनाचेतनानि जनिमन्तीत्यर्थः। सर्वभूतकारणत्वेन प्रकृतिद्वयमङ्गीकृतं चेत् कथम् ‘अह’मित्याद्युक्तमित्याशङ्क्याह— यस्मादिति। मम प्रकृती परमेश्वरस्योपाधितया स्थिते इत्यर्थः। तर्हि प्रकृतिद्वयं कारणमीश्वरश्चेति जगतोऽनेकविधकारणाङ्गीकरणं स्यादित्याशङ्क्याह— प्रकृतीति। अपरप्रकृतेरचेतनत्वात् , परप्रकृतेश्चेतनत्वेऽपि किञ्चिज्ज्ञत्वाद् , ईश्वरस्यैव सर्वज्ञस्य सर्वकारणत्वं युक्तमित्याह— सर्वज्ञ इति॥६॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥६॥

१. ‘व्यतिरेकात्माभिज्ञेन’ इति पा.। २. तत् = जगत्कारणत्वम्।

[[अ. ७. श्लो. ५-६]] [[३७०]]

सत्ता च पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति त्रिविधा। तत्र आद्या ब्रह्मणि क्षेत्रज्ञे; द्वितीया जगति; तृतीया स्वप्नप्रपञ्चे रज्जुसर्पादौ चेति विवेकः। मृद्घटयोरिव मायाजगतोर्व्यावहारिकसत्तावत्त्वाद् उपादानसमसत्ताकं घटादिकमिव जगद्रूपं कार्यं परिणामः। रज्जुसर्पयोरिव व्यावहारिकप्रातिभासिकसत्ताकयोः, ब्रह्मजगतोः पारमार्थिकव्यावहारिकसत्ताकयोर्भिन्नसत्ताकत्वात् सर्परूपमिव जगद्रूपं कार्यं विवर्त इति बोध्यम्। सर्वाणि भूतानि कार्यकरणसङ्घातात्मकानि भौतिकानि, पृथिव्यादिमहाभूतानि च कार्यमात्रं सर्वमित्यर्थः। महदादिसप्तकमपि मूलप्रकृतिक्षेत्रज्ञयोनिकमेव, कार्यत्वात्। मूलप्रकृतिस्तु न कस्यचित् कार्यम् , अनादित्वात्। अत एव तस्या मूलप्रकृतित्वव्यपदेशः। मूलं कारणमित्यर्थः। क्षेत्रज्ञस्त्वजो नित्यः शाश्वत इत्यनादिरेव। ततश्च मूलप्रकृतिं क्षेत्रज्ञं विहाय सर्वं जगत् कार्यभूतमेवेति बोध्यम्। एवमनादिरपि मूलप्रकृतिः सान्तैव; नैयायिकाभिमतप्रागभाववत् ; न तु नित्या, क्षेत्रज्ञवत्। एवं क्षेत्रज्ञमूलप्रकृत्योः नित्यत्वानित्यत्वाभ्यां ज्ञानजाड्याभ्यां च महदस्ति वैलक्षण्यमिति सिद्धम्। ननु सर्वभूतानां क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वययोनित्वकथनात् कृत्स्नस्य जगतः प्रभवः प्रलयश्च तत्प्रकृतिद्वयमेव स्यान्न त्वीश्वर इति स्थिते कथम् ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ इत्युच्यते? अत आह— यस्मादिति। प्रकृतिरिति। स्वरूपं स्वभावश्चेत्यर्थः। मत्स्वरूपस्य चैतन्यस्य क्षेत्रज्ञस्य, मत्स्वभावस्य मायाया मूलप्रकृतेश्च सर्वजगदुपादानत्वादीश्वरोऽहं सर्वजगदुपादानं भवामीत्यर्थः। उपादानान्मृदादेर्घटादि कार्यं जायते, पुनरुपादान एव लीयते, घटस्य मृद्येव लयदर्शनात्। तथा चोपादानमेव कार्योत्पत्तिप्रलययोरधिष्ठानमित्यभिप्रायादाह— प्रभवः प्रलयस्तथेति। अहं स्वरूपस्वभावद्वारा जगदुपादानभूतः सर्वेश्वर इत्यर्थः। कृत्स्नस्य प्रत्यक्षानुमानागमप्रमाणसिद्धस्य सर्वस्येत्यर्थः। जगतः, जायत इति जं, गच्छतीति गमिति जगत्। ‘ह्रस्वस्य पिति कृती’ति तुक्। उत्पत्तिविनाशरूपावस्थावदित्यर्थः। अनित्यमिति यावत्। तस्य प्रभवः, प्रभवत्यस्मादिति प्रभवः उत्पत्तिस्थानम्। प्रलीयते ऽस्मिन्निति प्रलयः विनाशस्थानम्। भवामीति शेषः। उपादानत्वादिति भावः। भाष्ये उत्पत्तिविनाशशब्दावपि उत्पत्तिविनाशस्थानपरौ। अन्यथा जन्ममरणरूपधर्मपरत्वे अनन्वयप्रसङ्गात्। न हीश्वरो जगतो जन्मधर्मो मरणधर्मो वा भवेत्। जगतः कारणमिति सृष्टिस्थितिलयकारणमित्यर्थः। ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति’ इति श्रुतेरिति भावः। कृत्स्नजगदाकारपरिणतमायाधिष्ठानचैतन्यम् आत्मपरमार्थकूटस्थसाक्षिक्षेत्रज्ञेश्वरब्रह्मादिशब्दप्रतिपाद्यम् अहमेवेत्यत्र पर्यव- सन्नार्थः। अनेन जीवेश्वरभेदवादः समूलमुन्मूलितः। यत्तु रामानुजः— चेतनाचेतनप्रकृत्योर्द्वयोरपीश्वरयोनित्वमित्युवाच, तत्तुच्छम् ; ‘अजो नित्यः शाश्वतोऽयं पुराणः’ इतीश्वरात् सकाशाज्जीवस्य जन्मनिषेधात्। सति तु जन्मनि ‘जातस्य हि ध्रुवो मृत्यु’रिति जीवस्य विनाशप्रसङ्गात्। प्रकृतिपुरुषकालादीना- मनादित्वस्य भवताऽप्यभ्युपगतत्वेन, अजामित्यादिश्रुत्यनुसारेण च मायायाः अनादित्वेनेश्वरात् सकाशात् तस्या अपि जन्माभावात्। सति तु मायायाः जन्मनि मायोत्पत्तेः प्रागीश्वरस्यामायित्वप्रसङ्गात्। ‘मायिनं तु महेश्वर’मिति श्रुतिविरोधात् , निर्मायस्येश्वरस्य मायाजननसामर्थ्याभावेन मायायाः उत्पत्त्ययोगात् , ईश्वरसामर्थ्यस्यैव शक्तिरूपस्य मायापदवाच्यत्वात् , एतन्मायाजननसामर्थ्य- रूपमायान्तरसत्त्वे तन्मायाजननसामर्थ्यरूपमायान्तरस्यापि कल्पनीयत्वात् , तस्याः अपि तदन्यमायायाः इत्येवमनवस्थाप्रसङ्गात् , ईश्वरसामर्थ्यातिरिक्तमायानामकतत्त्वान्तरस्याप्रसिद्धत्वात् , साङ्ख्यमतस्य चावैदिकत्वेनाप्रमाणत्वात्। तस्मात् सिद्धं जीवस्येव मायायाः अप्यनादित्वमिति कथमेतद्योनित्वमीश्वरस्य? अत एव हि परमेश्वरात् सकाशाज्जीवा जायन्त इति दोषाद् भागवतमतं प्रत्याख्यातं भगवद्बादरायणेन शारीरकशास्त्रे। न च बुद्ध्युपाधिपरिच्छिन्नत्वरूपेण जीवस्य जन्म, तद्भङ्गरूपेण च नाशो मोक्षरूप इति वाच्यम् , उपाधिगतजन्मनाशाभ्यामुपहितस्य न सम्बन्धः इति सिद्धान्तः। अन्यथा आकाशस्यापि घटजन्मनाशाभ्यां जन्मनाशप्रसङ्गात् , बुद्धिपरिच्छिन्नस्यापि शरीरोपाधिजन्मनाशाभ्यां जन्मनाशप्रसङ्गात्। न चेष्टापत्तिः; ‘न हन्यते हन्यमाने शरीरे’ इतीहैवोक्तत्वात् , तत्त्वकथनावसरे औपाधिकातात्त्विकजन्मनाशकथनायोगाच्च। तस्माज्जीवस्य मायायाः वा नेश्वरयोनित्वम्। भाष्यार्कप्रकाशः

[[३७१]]

या तु श्रुतिस्तेनोपन्यस्ता ‘महानव्यक्ते लीयते, अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकीभवति’ इति, तस्याः श्रुतेर्न स्वाभिप्रेतार्थबोधकत्वम्। किन्तु अव्यक्तत्वाक्षरत्वतमस्त्वानि प्रकृतेरवस्थाविशेषा एव। प्रकृतेश्चात्मनि लयोऽस्मदभ्युपगत एव। न च तदकार्यस्य तस्मिन् कथं लय इति वाच्यम् , अकार्यस्यापि प्रागभावस्य लयदर्शनात् , गगनाकार्यस्यापि मेघस्य गगने लयदर्शनात् , कार्पासजन्यस्यापि पटस्याग्नौ लयदर्शनात् कार्यस्यैव कारण एव लय इति न नियमः। नाप्यनया श्रुत्या मायायाः लय उच्यते, किन्तु ‘तमः परे देव एकी भवति’ इत्येकीभाव एव। स च ब्रह्मणः पृथक्कार्यकरणादिरूपेणानवस्थानमेव। न चात्राक्षरशब्दो जीववाचीति वाच्यम् , अक्षरमिति क्लीबस्य तस्य जीववाचित्वाभावात्। जीववाच्यक्षरशब्दो हि पुंलिङ्गः। न हि ‘अजो नित्यः शाश्वतः’ इति जीवं नित्यं ब्रुवाणा श्रुतिरेवेह जीवं विनाशिनं ब्रूयात् , स्ववचोव्याघातात्। न च - जीवस्य ब्रह्मण्यज्ञानद्वारा सुषुप्तौ लयो दृश्यते, श्रूयते च, ‘सति सम्पत्स्य[द्य] न विदुः सति सम्पत्स्या[द्या]महे’ इति श्रुतेः, अनुभवाच्च। ततश्च जीवस्याज्ञाने लयः, सजीवस्य चाज्ञानस्य तमसो ब्रह्मणि परमात्मनि लय इति - वाच्यम् , जीवस्य सुषुप्तौ ब्रह्मणि सम्पत्तिर्नाम ब्रह्मस्वरूपेणावस्थानमेव। ‘प्राज्ञेनात्मना सम्परिष्वज्य’ इति श्रुत्यन्तरात्। न च ब्रह्मणा जीवस्य सङ्गस्तत्राप्यभिप्रेत इति वाच्यम् , तथापि जीवस्य लयाभावात्। न हि नष्टस्य जीवस्य ब्रह्मणा सह सङ्गः स्यात् , विद्यमानपदार्थद्वयस्यैव परस्परसङ्गदर्शनात् , गगनकुसुमेन गगनस्य सङ्गादर्शनाच्च। तस्माज्जीवस्याविद्यकसंसारित्वरूपप्रहाण- पूर्वकब्रह्मस्वरूपस्थितिरेव सति सम्पत्तिः, वाक्यशेषात्। ‘सति सम्पत्स्या[द्या]महे’ इति, ‘न विदु’रिति हि वाक्यशेषः। नष्टानां जीवानां वेदनस्यैवाप्रसक्तेः कथमप्रसक्तस्य निषेधः। ‘न विदु’रिति ह्यज्ञानानुभवो जीवानाम्। अयं च बहुत्वनिर्देशः उपाध्यभिप्रायेण, न तु वस्तुतः, आत्मैकत्वात्। अथवा जीवोपाधेरन्तःकरणस्याज्ञाने लयस्तस्य च ब्रह्मणीत्यौपाधिक एव जीवस्य लयः श्रुत्या विवक्षितः, न तु वस्तुतः, अपरिच्छिन्नस्य पूर्णस्य नित्यस्य तस्य नाशायोगात् , जीवस्यैव वस्तुतो ब्रह्मत्वाच्च। न हि घटाकाशान्महाकाशो भिद्यते, येन बुद्ध्युपाधिकाज्जीवादीश्वरो भिद्येत। एवमुपाधिविलयादेव हि जीवस्य ब्रह्मस्वरूपेणावस्थानं सुषुप्तौ प्रलये मुक्तौ वा। तत्र सुषुप्तिप्रलययोर्जीवोपाधेर्वासनारूपेण वर्तमानत्वात् पुनरागतिः। मुक्तौ तु सर्वात्मना लयान्न पुनरावृत्तिरुपाधेरिति बोध्यम्। १इयं चोपाधिर्जीवेऽज्ञानकल्पितेति ज्ञानेन निवर्तत एव। अत एव ज्ञानात् केवलान्मुक्तिं ब्रुवन्ति श्रुतयः। अथ यदि त्वयाऽपि जीवस्योपाधिभङ्ग एव जीवस्य ब्रह्मणि लय इति विवक्ष्यते, तर्ह्यपसिद्धान्तस्तव, त्वन्मते सायुज्यस्यै- वाभावात्। यदि तु वास्तवो जीवस्य लयो विवक्ष्यते, तर्हि नित्यत्वश्रुतिविरोधः। यदि प्रलये जीवानां लयः, प्रपञ्चे पुनः तदन्येषां जीवानामुदयश्च, तर्हि कृतनाशाकृताभ्यागमप्रसङ्गः। स्रष्टुरीश्वरस्य च वैषम्यनैर्घृण्यदोषप्रसक्तेः। न च कर्मसापेक्षत्वात् तदप्रसक्तिरिति वाच्यम् , कर्तुरेवाभावे कुतः कर्मसत्त्वम्? जीवादृष्टं हि कर्मशब्दवाच्यम्। ‘न जायते म्रियते वा विपश्चि[कदाचि]न्नायं भूत्वा भविता वा न भूयः’ इति हि स्मृतं भगवतेहैव, २श्रुतं च तथा, व्याख्यातं च त्वया तथा; अतः स्ववचनविरोधोऽपि। या तु स्मृतिरनेनोपन्यस्ता ‘प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी। पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि॥’ इति, सा च न प्रकृतिपुरुषयोः प्रलये परमात्मनि वास्तवं लयं ब्रूते, विरोधात्। किन्तु प्रकृतिरकार्यक्षमा लीनेव वर्तत इति, पुरुषश्च बुद्धिपरिच्छिन्नो जीवोऽज्ञानतादात्म्याध्यासमापद्य लीन इव वर्तत इति च औपचारिकलयं ब्रूते। अन्यथा प्रलये मायायाः स्वरूपतः सर्वात्मना नाशे सति, जीवाः विनाऽपि यतनं मुच्यन्त एवेति मोक्षशास्त्रवैयर्थ्यम्। सर्वजीवमुक्तौ प्रपञ्चे पुनर्जीवान्तरसृष्टिप्रसङ्गः। न चेष्टापत्तिः, जीवस्य जन्मनाशहीनस्य जन्मनाशप्रसङ्गः, कृतहानाकृताभ्यागमदोषप्रसङ्गः, ईश्वरस्य च वैषम्यादिदोषप्रसङ्गः। प्रलये जीवनाशपक्षे चेमे दोषाः सम्भवन्ति हि। तस्माद् यथा सुप्तः पुरुषः ब्रह्मणि लीन इत्युच्यते, तथैव प्रलयेऽपीति न वास्तवो जीवस्य लयः। अन्यथा हि सतो जीवस्य नाशे असतो जीवस्य पुनरुत्पत्तौ च ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति गीतावचनमेव विरुद्ध्येत। असतः सत्ताऽयोगात् भाष्यार्कप्रकाशः अ. ७. श्लो. ६ ] १. अयमिति युक्तः पाठः। बुद्धिं विवक्षित्वा वा स्त्रीलिङ्गनिर्देशः। २. ‘न जायते म्रियते वा’ इति कठोपनिषदि श्रुतम्।

[[३७२]]

मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय !। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥७॥

रसोऽहमप्सु कौन्तेय ! प्रभाऽस्मि शशिसूर्ययोः। सतश्चासत्ताऽयोगादनुपपन्ना चेयं कल्पना। न चैवं कथं सतः प्रपञ्चस्यापि लय इति वाच्यम् , प्रपञ्चस्यासत्त्वात्। न च - कथमसतः प्रतीतिः शशशृङ्गादेरनुपलम्भादिति - वाच्यम् , असतो रज्जुसर्पादेरुपलभ्यमानत्वात्। असतोऽप्युपलभ्यमानत्वादेव प्रपञ्चस्य शुक्ति- रजतादिवन्मिथ्यात्वस्यास्माभिरुच्यमानत्वात्। यत् प्रतीयते बाध्यते च, तद्धि मिथ्या इन्द्रजालादिवत्। तस्मान्नित्यस्य जीवस्य प्रलये मुक्तौ वा न लयः, मायायाश्च प्रलये न लयः, किन्तु मुक्तावेव। प्रलये प्रकृतिपुरुषयोर्लयस्मरणं त्वौपचारिकमेव। एवं प्रकृतिपुरुषयोः प्रलये लयाभावादेव प्रपञ्चे नोत्पत्तिः। अतो नेश्वरयोनित्वं प्रकृतिपुरुषयोरिति स्थितम्॥६॥

मत्त इति। हे धनञ्जय! मत्तोऽन्यत् परतरं किञ्चिदपि नास्ति। ३मत्तोऽन्यत् किञ्चित् परतरं नास्तीति वा। सूत्रे मणिगणा इव मयीदं सर्वं प्रोतम्। यस्मात् तस्मादिति। यस्मादहं सर्वस्य जगतः प्रभवः, प्रलयश्च तस्मादित्यर्थः। अन्यशब्दसत्त्वादत्र परतरशब्दो नान्यपरः, पौनरुक्त्यात् , किन्तु कारणपर इत्याहकारणान्तरमिति। कारणस्य कार्यापेक्षयोत्कृष्टत्वात् परशब्दवाच्यत्वम् ।अतिशयेन परं परतरम् , प्रधानकारणमित्यर्थः। मृदादिकारणे घटादिकार्यस्यानुगतत्वदर्शनादाहमयि सर्वमिदं प्रोतमिति। मयि प्रत्यगभिन्ने ब्रह्मणि इदं प्रमेयं सर्वं जगत् प्रोतम्। दृष्टान्तमाह भाष्यकारःदीर्घपटतन्तुवदिति। यथैकस्यां४ दीर्घतन्तौ पटः प्रोतः, तद्वदित्यर्थः। घटाकारपरिणतमृदि घट इव जगदाकारपरिणतमायायां जगदनुगतम्। तादृशमायाधिष्ठानत्वादात्मनोऽपि जगदनुस्यूतत्वव्यवहार इति भावः। साक्षादन्तर्यामिण्यात्मन्यपीदं जगदनुगतम्। कथमित्यत्र दृष्टान्तमाह मूलकारःसूत्रे मणिगणा इवेति। यथा सूत्रे मणिगणाः प्रकर्षेण ग्रथितास्तथा आत्मनि जगदित्यर्थः। एवं दृष्टान्तद्वयसाधारण्यायैव प्रोतशब्दस्य अनुगतप्रग्रथितरूपार्थद्वयकथनं भाष्ये। एतेन अन्तःप्रविष्टेन सूत्रेण मणिगणा यथा धार्यन्ते, तथा अन्तःप्रविष्टजीवप्रकृत्या जगद् धार्यत इति दृष्टान्तः सूचितः॥७॥

रस इति। ननु सर्वं जगत् त्वय्येव कुतः प्रोतम्? किन्तु तत्कारणे[तत्तत्कारणे] तत्तत्कार्यं प्रोतम् , यथा मृदि घटः, तन्तुषु प्रधानात्परतोऽक्षरात् पुरुषवत् , परमात्मनोऽपि पराद् अन्यत्परं स्यादित्याशङ्क्य प्रकृतिद्वयद्वारा सर्वकारणत्वमीश्वरस्योक्तमुप- जीव्य परिहरति—यतस्तस्मादिति। ‘नान्यदस्ति पर’मित्यत्र हेतुमाह— मयीति। परतरशब्दार्थमाह— अन्यदिति२। स्वातन्त्यव्यावृत्त्य- र्थमन्तरशब्दः। निषेधफलं कथयति— अहमेवेति। सर्वजगत्कारणत्वेन सिद्धमर्थं द्वितीयार्धव्याख्यानेन विशदयति— यस्मादिति। अतो [यथा] दीर्घेषु तिर्यक्षु च पटघटितेषु तन्तुषु पटस्यानुगतिरवगम्यते, तद्वन्मय्येवानुगतं जगदित्याह— दीर्घेति। यथा च मणयः सूत्रेऽनुस्यूतास्तेनैव ध्रियन्ते, तदभावे विप्रकीर्यन्ते, तथा मयैवात्मभूतेन सर्वं व्याप्तं ततो निष्कृष्टं विनष्टमेव स्यादिति श्लोकोक्तं दृष्टान्तमाह— सूत्र इति॥७॥

अबादीनां रसादिषु प्रोतत्वप्रतीतेस्त्वय्येव सर्वं प्रोतमित्ययुक्तमिति मत्वा पृच्छति— केनेति। तत्रोत्तरमुत्तरग्रन्थेन दर्शयति—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यतस्तस्मात्— मत्त इति। मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किञ्चिद् नास्ति न विद्यते। अहमेव जगत्कारणमित्यर्थः। हे धनञ्जय ! यस्मादेवं तस्माद् मयि परमेश्वरे सर्वाणि भूतानि, सर्वमिदं जगत् प्रोतम् अनुस्यूतम् अनुगतम् अनुविद्धम्। ग्रथितमित्यर्थः। १दीर्घतन्तुषु पटवत् , सूत्रे च मणिगणा इव॥७॥

केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते— रस इति। रसोऽहम् अपां यः सारः स रसः। १.‘दीर्घपटतन्तुवदि’ति रा.पा.। २.अन्यत् कारणान्तरमित्येव परतरशब्दार्थो ज्ञेयः। ३.अत्र द्वितीययोजनायामुद्देश्यविधेयभेदः विशेषः। ४.पुंलिङ्गनिर्देशो युक्तः।

[[३७३]]

तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः। एवं सर्वत्र। यथाऽहमप्सु रसः, एवं प्रभाऽस्मि शशिसूर्ययोः। प्रणवः ओङ्कारः सर्ववेदेषु । तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः। तथा खे आकाशे शब्दः सारभूतः। तस्मिन् मयि खं प्रोतम्। तथा पौरुषं पुरुषस्य भावः पौरुषम् , यतः पुम्बुद्धिर्नृषु , तस्मिन् मयि पुरुषाः प्रोताः॥८॥

पुण्य इति। पुण्यः सुरभिर्गन्धः पृथिव्यां चाहम् , तस्मिन् मयि गन्धभूते पृथिवी प्रोता। पुण्यत्वं गन्धस्य स्व- भावत एव पृथिव्यां दर्शितम् , अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम्। अपुण्यत्वं तु गन्धादीनाम् अविद्याऽधर्माद्यपेक्षं पटश्चेति शङ्कायां तत्तद्धर्मविशिष्टे मय्येव तत्तत्कार्यं प्रोतमित्याहरस इति। शब्दादिपञ्चतन्मात्रेभ्यः खादिपञ्चभूतोत्पत्तिश्रवणात् स्वकारणेषु शब्दादिषु खादिभूतानि प्रोतानि। तानि च कारणभूतानि शब्दादिवस्तून्यहमेव, मज्जन्यत्वेन तेषां मदात्मकत्वात् , यथा घटः पृथिवीजन्यत्वात् पृथिव्यात्मकः। हे कौन्तेय! अहमप्सु रसोऽस्मि, खे शब्दोऽस्मि, पृथिव्यां पुण्यो गन्धोऽस्मि, विभावसौ तेजोऽस्मि। अनुक्तमपि वायौ स्पर्शोऽस्मीतीह ज्ञातव्यम्। कोऽसौ रसः? अत आहअपां यः सार इति। सारः स्थिरांशः, कार्यस्य कारणं स्थिरांशः। यथा घटस्य मृत्तिका, कुण्डलस्य कनकम् , तथाऽपां रसः सारः। एवं खादीनामपि शब्दादयः सारा इत्यूह्यम्। रसभूत इति। मायया रसाकारेण परिणते इत्यर्थः। मयि आत्मनीत्यर्थः। प्रभा चन्द्रिका, आतपश्च। चन्द्रिकारूपमातपरूपं च यत्तेजोऽस्ति शशिसूर्ययोस्तदहमेवेत्यर्थः। ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥’ इति वक्ष्यमाणत्वात्। तेजोऽतिरेकेण चन्द्रसूर्यरूपकार्याभावाच्चन्द्रसूर्यस्थिरांशस्तेज एवेत्यर्थः। एवमग्नेरपि। ओङ्कारस्य सर्ववेदादित्वात् स ओङ्कारोऽहमेव। पुरुषस्य भाव इति। वीर्यमिति यावत्। निर्वीर्यस्य क्लीबत्वात् पुंस्त्वहेतुर्वीर्यमेव। कारणभूते च वीर्ये कार्यभूताः पुरुषाः देहशब्दवाच्याः प्रोताः वीर्यमयत्वाद् देहानाम्। यद्यप्यत्र पुरुषशब्दः पुरुषदेहपरः, तथापि स्त्र्यादिदेहानामपि वीर्यकार्यत्वाविशेषाद् देहमात्रपरः। मूले तु — नृषु मनुष्येषु , पुरुषेष्विति यावत् , स्त्रीनपुंसकयोर्वीर्याभावात् , यत् पौरुषं वीर्यमस्ति स्थिरांशभूतं, तदहमस्मीत्यर्थः॥८॥

पुण्य इति। इदं पुण्यत्वविशेषणं रसादीनामपि देयमित्याह—उपलक्षणार्थमिति। पृथिव्यादिषु स्वाभाविकाः गन्धादयः पुण्याः; आगन्तुकास्त्वपुण्या इत्याह— अपुण्यत्वं त्विति। अविद्या चाधर्मश्चाविद्याधर्मौ, तदादीनपेक्षत इति तथोक्तम्। भूतविशेषसंसर्गो निमित्तं उच्यत इति। सारो मधुरः, हेतुरिति यावत्। रसोऽहमिति कथम्? तत्राह— तस्मिन्निति। अप्सु यो रसः सारस्तस्मिन् मयि मधुररसे कारणभूते प्रोताः आप इतिवदुत्तरत्र सर्वत्र व्याख्यानं कर्तव्यमित्याह— एवमिति। उक्तमर्थं दृष्टान्तं कृत्वा ‘प्रभाऽस्मी’त्यादि व्याचष्टे— यथेति। चन्द्रादित्ययोर्या प्रभा तद्भूते मयि तौ प्रोतावित्यर्थः। तत्र वाक्यार्थं कथयति— तस्मिन्निति। प्रणवभूते तस्मिन् वेदानां प्रोतत्ववद् आकाशे यः सारभूतः शब्दस्तद्रूपे परमेश्वरे प्रोतमाकाशमित्याह—तथेति। ‘पौरुषं नृषु’ इति भागं पूर्ववद् विभजते— तथेत्यादिना। पुरुषत्वमेव विशदयति— यत इति। पुंस्त्वसामान्यात्मके परस्मिन्नीश्वरे प्रोतास्तद्विशेषाः, तदुपादानत्वेन तत्स्वभावत्वादित्यर्थः॥८॥

‘मयि सर्वमिदं प्रोतम्’ इत्यस्यैव १परिपूरणार्थं प्रकारान्तरमाह— पुण्य इति। पृथिव्यां पुण्यशब्दितो यः सुरभिः गन्धः सोऽह- मस्मीत्यत्र वाक्यार्थं कथयति— तस्मिन्निति। कथं पृथिव्यां गन्धस्य पुण्यत्वम्? तत्राह— पुण्यत्वमिति। यत्तु पृथिव्यां गन्धस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥

अ. ७. श्लो. ७-९ ] १. ‘परिमाणार्थं’ इति पा.।

[[३७४]]

संसारिणां भूतविशेषसंसर्गनिमित्तं भवति। तेजश्च दीप्तिश्चास्मि विभावसौ अग्नौ। तथा जीवनं सर्वभूतेषु। येन जीवन्ति सर्वाणि भूतानि तद् जीवनम्। तपश्चास्मि तपस्विषु। तस्मिंस्तपसि मयि तपस्विनः प्रोताः॥९॥

बीजमिति। बीजं प्ररोहकारणं मां विद्धि सर्वभूतानाम् , हे पार्थ ! सनातनं चिरन्तनम्। किञ्च बुद्धिः विवेक- हेतुर्यस्य तत् तथोक्तम्। अविद्याधर्मादिप्रयुक्तभूतविशेषसंसर्गजन्या गन्धादयोऽपुण्या इत्यर्थः। यथा २पृथिवीजलसंयोगजन्यौ जल- गन्धपृथिवीरसौ, तद्वदिति भावः। अयं च पृथिवीजलसंयोगादिः संसारिणां भोगार्थमविद्याऽधर्मादिवशाद् भवतीत्याह—अविद्या ऽधर्माद्यपेक्षमिति। तत्र सर्वस्याविद्यकत्वादविद्यावशाद् भवतीति सिद्धमेव। अधर्मवशात् तु दुःखहेतुर्गन्धः कर्दमादिजन्यः। आदिपदाद् धर्मवशाज्जलचन्दनसंयोगादिजन्यसुगन्धोऽप्यागन्तुक इति बोध्यम्। एवं रसादिष्वपि। जीवन्त्यनेनेति जीवनम् अन्नमित्यर्थः, ‘अन्नाद्भूतानि जायन्ते। जातान्यन्नेन जीवन्ति, अन्नं प्रयन्त्यभिसंविशन्ति’ इति श्रुतेः। भूतानामन्नकार्यत्वात् सर्वमन्ने प्रतिष्ठितमित्यर्थः। अद्यत इत्यन्नं व्रीह्यादिमयं जलं च। एवं कारणे रसादौ कार्यस्य जलादेः प्रोतत्वमुक्त्वा, अथाकारणेऽपि तपसि तपस्विनां प्रोतत्वमाह तपश्चेति। ननु कथमकारणे तपसि तपस्विनां प्रोतत्वमिति चेद्? उच्यते— यथा कार्यं कारणाश्रयम् , एवं तपस्विनः तपआश्रया इति तपस्विनां तपसि प्रोतत्वमौपचारिकमिति। एवं ‘बुद्धिर्बुद्धिमतामस्मी’त्यादिष्वपि बोध्यम्। यद्वा पूर्वत्र रसजलादिष्वपि अयमेवाश्रया- श्रयिभावो बोध्यः। तथा च रसाद्याश्रयत्वाज्जलादीनां रसादिषु प्रोतत्वमिति। न च - गुणिनमाश्रित्य गुणो वर्तत इति गुण्येव गुणस्याश्रय इति गुणिन्येव गुणः प्रोतः, न तु गुणे गुणी प्रोत इति - वाच्यम् , गुणोऽस्यास्तीति गुणीति व्युत्पत्त्या गुणवत्त्वस्य गुणपूर्वकत्वाद् गुण एव गुण्याश्रय इति। गुणिनि गुणस्यैव प्रधानत्वात् प्रधानाश्रयत्वादप्रधानानां प्रधानभूतो गुण एवाप्रधानगुण्याश्रय इति। अत एव ‘अपां यः सारः’ इति, ‘आकाशे शब्दः सारभूतः’ इति च भाष्यम्। सारः प्रधान इत्यर्थात्। एवं तपःप्रधानत्वात् तपआश्रयत्वाच्च तपस्विनस्तपसि प्रोताः। तथा बुद्ध्याश्रयत्वाद् बुद्धिप्रधानत्वाच्च बुद्धिमन्तो बुद्धौ प्रोताः। बलाश्रयत्वाद् बलप्रधानत्वाच्च बलवन्तो बले प्रोता इत्याद्यूह्यम्। यद्वा कारणाभावे कार्याभाववद् , विशेषणाभावे विशिष्टाभावात् कारणे कार्यमिव, विशेषणे विशिष्टं प्रोतमिति वेद्यम्॥ ९॥

बीजमिति। हे पार्थ! मां सर्वभूतानां सनातनं बीजं विद्धि। बीजशब्दार्थमाहप्ररोहकारणमिति। प्ररोहः प्रादुर्भावः, तत्र कारणम्। यथा वृक्षाणां प्रादुर्भावे वटादिबीजजातं कारणम् , तद्वत् सर्वभूतप्रादुर्भावे अहमेव अनादिकारणमित्यर्थः। तथा च स्वाभाविकं पुण्यत्वं दर्शितं, तदबादिषु रसादेरपि स्वाभाविकपुण्यत्वस्योपलक्षणार्थमित्याह— पृथिव्यामिति। प्रथमोत्पन्नाः पञ्चापि गुणाः पुण्या एव, सिद्धादिभिरेव१ भोग्यत्वादिति भावः। कथं तर्हि गन्धादीनामपुण्यत्वप्रतिभानम्? तत्राह—अपुण्यत्वं त्विति। तदेव स्फुटयति—संसारिणामिति। गन्धादयः स्वकार्यैर्भूतैः सह परिणममानाः प्राणिनां पापादिवशादपुण्याः सम्पद्यन्त इत्यर्थः। यच्चाग्नेस्तेजः, तद्भूते मयि प्रोतोऽग्निरित्याह— तेज इति। जीवनभूते च मयि सर्वाणि भूतानि प्रोतानीत्याह— तथेति। जीवनशब्दार्थमाह— येनेति। अन्नरसेनामृताख्येनेत्यर्थः। ‘तपश्चास्मी’त्यादेस्तात्पर्यार्थमाह— तस्मिन्निति। चित्तैकाग्र्यमनाशकादि वा तपः, तदात्मनीश्वरे प्रोताः तपस्विनः। विशेषणाभावे विशिष्टस्य वस्तुनोऽभावादित्यर्थः॥९॥

ननु सर्वाणि भूतानि स्वकारणे प्रोतानि, कथं तेषां त्वयि प्रोतत्वम्? तत्राह—बीजमिति। बीजान्तरापेक्षयाऽनवस्थां वारयति—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

बीजं मां सर्वभूतानां विद्धि पार्थ ! सनातनम्। १. तेषां पापाभावादिति भावः। २. वैशेषिकनये तु पृथिव्यां विजातीयतेजःसंयोगरूपपाकजन्यः रसगन्धादिः। जलादौ गन्धप्रतीतिस्तु औपाधिकी। अत्र ‘चन्दना- गर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यम्’इति ईशावास्योपनिषद्भाष्यमनुसंधेयम्।

[[३७५]]

बीजत्वधर्मविशिष्टे मयि सर्वभूतानि प्रोतानीति फलितार्थः, प्रकरणानुरोधात्। न च ‘जीवनं सर्वभूतेषु’ इति पुनरुक्तिः, ईश्वरस्य जीवनभूतत्वबीजभूतत्वधर्मद्वयवशात् सर्वभूतप्रोतत्वस्य द्वेधोक्तिरित्यदोषात्। इदं च बीजमव्यक्तं मायैव, वृक्षस्थानीयं स्थूलं जगत् प्रति सूक्ष्मायाः मायाया एव बीजस्थानीयत्वात्। चिन्मात्रेश्वरे ‘अस्थूलमनणु’ इति श्रुत्या स्थूलत्वस्य सूक्ष्मत्वस्य च निषिद्धत्वात्। तदेवं मायाभूते मयि सर्वभूतानि प्रोतानीति सिद्धम्। न च ‘मयि सर्वमिदं प्रोत’मित्यस्य पुनरुक्तिरिति वाच्यम् , तस्यैव विवरणपरत्वादस्य। यद्वा ‘सूत्रे मणिगणा इव’ इति दृष्टान्तानुरोधान्मयि प्रत्यगात्मनीति तत्रार्थः। अत्र तु प्रकृत्यात्मक इति भेदात्। अथवा दीर्घपटतन्तुवदिति दृष्टान्तानुरोधान्मयीत्यस्य जगदाकारपरिणतमायाधिष्ठानब्रह्मचैतन्ये इति तत्रार्थः; अत्र तु मायाभूते मयीत्येवेति भेदात्। ‘मयि सर्व’मित्यनेन प्रत्यक्त्वेन ब्रह्मत्वेन वा सर्वजगदधिष्ठानत्वमीश्वरस्योक्तम् ; ‘जीवनं सर्वभूतेष्वि’त्यनेन तु अन्नत्वेन रूपेण; ‘बीजं मां सर्वभूताना’मित्यनेन तु मायात्वेन रूपेणेति विवेकः। ननु अन्नस्य ईश्वरविवर्तत्वाद् ईश्वराश्रितमायापरिणामत्वाद् वा ईश्वरस्यान्नात्मत्वमस्तु , कथं पुनर्मायात्मत्वम् , मायायाः अकार्यत्वाद् इति चेत्? उच्यते— ईश्वरातिरिक्तस्य सर्वस्यापीश्वरे अध्यस्तत्वान्मायाऽपीश्वरेऽध्यस्तैव; अन्यथा मायायाः अनध्यस्तत्वे सत्यत्वापत्तेः। न च - ईश्वरे जगदध्यस्तं मायया, सा तु केनाध्यस्तम्[स्ता]? न केनापि, अन्यस्याभावात् , भावे वा तस्याप्यध्यस्तस्याप्यन्योऽध्यासकर्ता स्यादित्यनवस्थादोष इति न मायायाः अध्यस्तत्वसिद्धिरिति - वाच्यम् , सा स्वयमेवाध्यस्तेति ‘माया चाविद्या च स्वयमेव भवति’ इति श्रुतेः। न चासम्भवः, श्रुतिप्रामाण्येन सर्वसम्भवात्। युक्त्या च ज्ञाननिवर्त्यमायायाः अध्यस्तत्वसिद्धेः। न ह्यनध्यस्तं सत्यं वस्तु ज्ञानान्निवर्तेत, अनिवर्त्यत्वस्यैव सत्यत्वस्वरूपत्वात्। धर्मिग्राहकमानेनाध्यस्तमाय- स्यैवेश्वरस्य सिद्धेः, ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतिसूचितेन जगज्जन्मादिलिङ्गकानुमानेन मायिन ईश्वरस्यैव सिद्धत्वात्। एवं मायायाः स्वयमेवाध्यस्तत्वादेवाकार्यत्वमनादित्वं च। ततश्च स्वाध्यस्तान्नात्मत्वमिव स्वाध्यस्तमायात्मत्वमपीश्वरस्य युक्तमेवेति न कश्चिद् दोषः। मायाया अनीश्वरात्मत्वे मायापरिणामस्यान्नस्याप्यनीश्वरात्मत्वप्रसङ्गात्। सनातनमिति। अनादीत्यर्थः। अस्मिन् वेदान्तमते दृग् दृश्यं चेति द्वावेव पदार्थौ; दृक् क्षेत्रज्ञ आत्मा, दृश्यं क्षेत्रम्। तत् त्रिविधम्— अव्याकृतम् ,१अमूर्तं, मूर्तं चेति। तत्राव्याकृतमव्यक्तमज्ञानं माया मूलप्रकृतिरीश्वरोपाधिः; सैवामूर्तस्याकाशादेर्मूर्तस्य पृथिव्यादिप्रपञ्चस्य च कारणत्वाद् बीजमित्युच्यते। यस्य कस्याप्यकार्यत्वात् सनातनमिति च। तच्चाव्याकृतमेकविधमेव। मूर्तामूर्ते तु दृश्यपृथिव्यादिप्रपञ्चात्मना बहुविधे कार्ये च। तत्र— मां मयि मत्तः इत्याद्यस्मच्छब्दप्रतिपाद्योऽत्र दृक्पदार्थ आत्मा; सनातनबीज- शब्दप्रतिपाद्यं तु अव्यक्तम् ; रसाबादिशब्दप्रतिपाद्यं तु मूर्तामूर्तात्मकं जगदिति विवेकः। एवं यद्यपि बीजशब्दादेवाव्याकृतपदार्थलाभः, तथापि तस्यानादित्वं स्फुटयितुं सनातनमिति विशेषणम्। यद्वा कारणमात्रवाची बीजशब्दः पृथिव्यादिकारणभूतजलादीनि, घटादिकारणभूतपृथिव्यादीनि, पुत्रादिदेहकारणभूत- पित्रादिदेहान् , वृक्षादिकारणभूतबीजादीनि चावान्तरकारणजातं ब्रूयादिति तद्व्यावृत्तये सनातनपदम्। न हि पृथिव्यादिष्वनादिकारण- भाष्यार्कप्रकाशः बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥

शक्तिरन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम् अस्मि। तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम्॥१०॥

[आनन्दगिरिकृतव्याख्या]

सनातनमिति।चैतन्यस्याभिव्यञ्जकं तत्त्वनिश्चयसामर्थ्यं बुद्धिः, तद्वतां या बुद्धिस्तद्भूते मयि सर्वे बुद्धिमन्तः प्रोता भवन्तीत्याह—किञ्चेति। प्रागल्भ्यवतां यत्प्रागल्भ्यं तद्भूते मयि तद्वन्तः प्रोता इत्याह—तेज इति। तद्धि प्रागल्भ्यं यत् पराभिभवसामर्थ्यं परैश्चाप्रधृष्यत्वम्॥१०॥

अ. ७. श्लो. ९-१० ] १. वायुराकाशं चामूर्तम् , पृथिव्यादित्रयं मूर्तम्।

[[३७६]]

त्वमस्ति। न चेश्वरे अनादिकारणत्वसत्त्वात् तत्रातिव्याप्तिरिति वाच्यम् , ईश्वरस्य निर्विशेषचिन्मात्रस्य वस्तुतः कारणत्वाभावात् , वस्तुतोऽनादिकारणत्वस्यैवात्र विवक्षितत्वात् , ईश्वरस्य च मायाद्वारैव जगत्कारणत्वादिति। सनातनं मां सर्वभूतानां बीजं विद्धीति वाऽन्वयः। सर्वभूतपदेन मूर्तामूर्तप्रपञ्चग्रहणात् तत्कारणस्याव्याकृतस्यैव बीजपदेन ग्रहणमिति। अत्र बीजमुपादानत्वम्२, सर्वेषां परिणामिद्रव्याणां स्वकार्यपरिणामसामर्थ्यमिति। यद्वा तत्तदवान्तरोपादानद्रव्यमिति वेदान्त- देशिकः; तदसत् ; धर्मिवाचिनो बीजशब्दस्योपादानत्वरूपधर्मवाचित्वासम्भवात् , सति मुख्यार्थसम्भवे लक्षणाया अनाश्रयणीयत्वात्। अवान्तरोपादानमित्यपि न युक्तम् , सर्वशब्दस्वारस्यभङ्गापत्तेः। बुद्धिशब्दो नात्रान्तःकरणपरः, सर्वेषामपि बुद्धिमत्त्वेन बुद्धिमतामिति विशिष्य वक्तुमयुक्तत्वात् ; किन्तु विवेकशक्तिपर इत्याह बुद्धिर्विवेकशक्तिरिति। सदसद्वस्तुविवेचनसामर्थ्यमित्यर्थः। कस्येयं शक्तिः? अत आहअन्तःकरणस्येति। बुद्धिमतामाश्रयभूता प्रधानभूता च बुद्धिरहमस्मीत्यर्थः॥१०॥

बलमिति। ओज इति। शरीरपाटवमित्यर्थः, इन्द्रियपाटवं वा, तदुभयं वा। असन्निकृष्टाः दूरस्थाः। रञ्जना आसक्तिः; सति बले स्त्र्यादिविषयेषु कामरागौ भवत इति तृष्णारागयोर्बलं कारणमित्युक्तम्। परमकारणं तु तयोरज्ञानमेव। ननु बलवतां बलमस्मि, भूतेषु कामोऽस्मि इत्येवालम् ; किमिति कामरागविवर्जितत्वग्रहणमिति चेत्? उच्यते— यथा संसार्यविद्याऽधर्माद्यपेक्षभूतविशेषसंसर्गनिमित्तापुण्यगन्धादिव्यावृत्तये गन्धादीनां पुण्यत्वविशेषणं कृतम् , तथैव संसार्यविद्याऽधर्मा- द्यपेक्षदुष्टबलकामव्यावृत्तये कामरागविवर्जितत्वधर्माविरुद्धत्वविशेषणकरणमिति। यद्यपि दुष्टा अदुष्टाश्च सर्वेऽपि भगवदात्मका एव, तथापि ग्राह्यत्वाय इहादुष्टानामेव भगवदात्मत्वमुक्तम्। अत एवोत्तरश्लोके सर्वस्यापि भगवदात्मत्वमुच्यते। एवमेवोत्तरत्रापि ‘वृक्षाणामहमश्वत्थः’ इत्यादिना तावदुत्कृष्टवस्तूनां स्वात्मत्वमुक्त्वा पश्चात् ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदि’ति सर्वस्यापि स्वात्मत्वं वक्ष्यति। एतेन च उदकादिषु वर्तमाना रसादयो भगवद्रूपे- णोपास्याः इति, तपोबुद्धितेजोबलकामाश्चाविरुद्धाः आत्मनि सम्पादयितव्याः३ इति च योगिन उपदेशः सूचितः॥११॥

१. ‘स’ इति क्वचिन्न। २. पूर्वं ‘रसोऽहमप्सु’ इत्यादिना प्रधान्येन धर्मनिर्देशात् प्रकरणाद् धर्मपरत्वं बीजशब्दस्येति तदाशयः। पूर्वत्र अप्सु इत्यादिसप्तमीनिर्देशात् तथात्वेऽपि ‘बीजं मां सर्वभूतानां विद्धि’ इत्यत्र तथा निर्देशाभावात् न धर्मपरत्वमिति समाधानमभिप्रेत्य दूषयति—धर्मीति। ३. विरुद्धास्ते वर्जनीयाः इति तात्पर्यम्। योगिन इति। ध्यानयोगिनः कर्मयोगिनश्चेत्यर्थः। भाष्यार्कप्रकाशः बलमिति। बलं सामर्थ्यम् ओजो बलवतामहम्। तच्च बलं कामरागविवर्जितम् , कामश्च रागश्च कामरागौ, कामः तृष्णा असन्निकृष्टेषु विषयेषु , रागो रञ्जना प्राप्तेषु विषयेषु , ताभ्यां कामरागाभ्यां विवर्जितं, देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि, न तु यत् संसारिणां तृष्णारागकारणम्। किञ्च धर्माविरुद्धो धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थोऽशनपानादिविषयः, स१ कामोऽस्मि, हे भरतर्षभ !॥११॥

बलं बलवतां चाहं कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ !॥११॥

यच्च बलवतां बलं तद्भूते मयि तेषां प्रोतत्वमित्याह— बलमिति। कामक्रोधादिपूर्वकस्यापि बलस्यानुमतिं वारयति— तच्चेति। कामरागयोरेकार्थत्वमाशङ्क्यार्थभेदमावेदयति— कामस्तृष्णेत्यादिना। विशेषणसामर्थ्यसिद्धं व्यावर्त्यं दर्शयति— न त्विति। शास्त्रार्था- विरुद्धकामभूते मयि तथाविधकामवतां भूतानां प्रोतत्वं विवक्षित्वाऽऽह— किञ्चेति। धर्माविरुद्धं काममुदाहरति— यथेति॥११॥

[आनन्दगिरिकृतव्याख्या]

[[३७७]]

ये चेति। सत्त्वादागताः सात्त्विकाः सत्त्वगुणाज्जाता इत्यर्थः। निर्वृत्ता निष्पन्ना जाता इति यावत्। रजस इमे राजसाः; तमस इमे तामसाः। यद्वा रजसा निर्वृत्ता राजसाः, तमसा निर्वृत्तास्तामसाः।‘तेन निर्वृत्तम्’ इत्यण्। के ते भावाः? अत आहये केचित् प्राणिन इति। कुतस्तेषां सात्त्विकत्वादिकम्? अत आहस्वकर्मवशादिति। स्वादृष्टप्रयुक्तसत्त्वादिगुणनिर्वृत्ता इत्यर्थः। एतेन पदार्थानां सात्त्विकत्वादिकं स्वकर्मप्रयुक्तमेव, न तु मत्प्रयुक्तमितीश्वरस्य वैषम्यादिदोषः परिहृतः। मत्त एवेति । ईश्वरात् सकाशादेवेत्यर्थः। ननु सत्त्वादिभ्यो जातानां भावानां कथमीश्वरजातत्वावधारणमिति चेत्? उच्यते— सत्त्वाद्याकारपरिणतमायावच्छिन्नत्वा- दीश्वरस्येति, ईश्वराधिष्ठितमायागुणभूतसत्त्वादिकार्यत्वाद् भावानामीश्वरकार्यत्वमिति वा। परमकारणजन्यस्य वस्तुनोऽवान्तरकारण- जन्यत्वव्यभिचारेऽपि अवान्तरकारणजन्यस्य वस्तुनः परमकारणजन्यत्वं नैव व्यभिचरति, यथा घटशकलानां मृत्तिकामयत्वम् , न तु शकलमयत्वं घटस्य, तद्वदिति भावः। मत्त एवेत्यवधारणेन च ये सत्त्वादयस्त्रयो गुणाः ते वस्तुतोऽहमेव; यथा रजतं वस्तुतः शुक्तिकैवेति गम्यते। मत्त इति पञ्चमी जनिकर्तुः प्रकृतिरपादानं स्याद् , अपादाने पञ्चमी स्यादिति व्याकरणात् प्रकृतिरूपापादाने विहितेति कृत्वा तदनुगुणं पदमिह योजयति— जायमानानिति। अन्यथा पञ्चम्यनुपपत्तेरिति भावः। समस्तानिति। भावानित्यर्थः। तत्र सात्त्विका भावा देवादयः, राजसा मनुष्यादयः, तामसास्तिर्यगादय इति विवेकः। ननु प्राणिनामीश्वरजातत्ववचनादप्राणिनामन्यजातत्वं प्रतिभातीति चेत् , मैवम् ; अनुपलब्धकर्तृकक्षित्यादिकार्यलिङ्गकानु- मानेनेश्वरस्य तर्कादिमते सिद्धत्वात्। तार्किकादयः अप्राणिक्षित्यादिभवकर्तारमीश्वरं मन्यन्त एवेति नाप्राणिनामीश्वराज्जातत्वमिह वक्तव्यम् , अन्यतःसिद्धत्वात्। किं तर्हि? देवदत्ताद् यज्ञदत्तो, यज्ञदत्ताद् विष्णुमित्रः इत्येवं प्राणिनामेव जन्म प्राणिनः सकाशाद् भवतीति लोकसिद्धतया तन्निरासकं शास्त्रसिद्धं प्राणिनामीश्वरात् सकाशाज्जन्मेहोच्यत इति। न च कथं वाङ्मात्रेण लोकसिद्धार्थपरित्याग इति वाच्यम् , भ्रमप्रमादादिदूषितलोकदृष्ट्यपेक्षया शास्त्रस्यैव बलवत्तरत्वात् , शास्त्राविरोधिलोकदृष्टेरेव प्रमाणत्वात्। अन्यथा सूर्योदयास्तमयचन्द्रक्षयग्रहणकलङ्कगगननैल्यप्रमुखानामपि लोकदृष्टिसिद्धानां सत्यत्वं स्यात् , शास्त्रं तु ‘यतो वा इमानि भूतानि जायन्ते’ इति प्राणिनामीश्वरादेव जन्मादिकं ब्रूते। नित्यस्यैकस्याविक्रियस्येश्वरस्यात्मनो नास्ति जन्मादि; देवदत्तादिदेहाकारपरिणतमायायाः सकाशाद् विष्णुदत्तादिदेहानां जन्म। न च मायापरिणामाद् देहात् कुतः पुनः परिणामोदय इति वाच्यम् , अन्नपरिणामस्यापि रक्तस्य क्षीराकारपरिणामदर्शनात् , मृत्परिणामाद् घटात् कपालपरिणामोदयदर्शनाद् , चिदानन्दयोरभिव्यञ्जकानां भावानामीश्वरात्मत्वाभिधानादन्येषामतदात्मत्वप्राप्तावुक्तम्—किञ्चेति। प्राणिनां त्रैविध्ये हेतुं दर्शयन् वाक्यार्थमाह— ये केचिदिति। तर्हि पितुरिव पुत्राधीनत्वं, त्वत्तो जायमानात् [जायमान]तदधीनत्वं तवापि स्यादिति विक्रियावत्त्व- दूष्यत्वप्रसक्तिरित्याशङ्क्याह— यद्यपीति। मम परमार्थत्वात् , तेषां कल्पितत्वान्न तद्गुणदोषौ मयि स्यातामित्यर्थः। तेषामपि तद्वदेव १स्वतन्त्रतासम्भवात् किमिति कल्पितत्वमित्याशङ्क्याह— ते पुनरिति। त्रिविधानां भावानां न स्वातन्त्यम् , ईश्वरकार्यत्वेन तदधीनत्वात्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्च— ये चैवेति। ये चैव सात्त्विकाः सत्त्वनिर्वृत्ता भावाः पदार्थाः, राजसाः रजोनिर्वृत्ताः, तामसाः तमो- निर्वृत्ताश्च ये केचित् प्राणिनां स्वकर्मवशाज्जायन्ते भावाः, तान् मत्त एव जायमानानित्येवं विद्धि सर्वान् समस्तानेव। यद्यपि ते मत्तो जायन्ते, तथापि न त्वहं तेषु तदधीनस्तद्वशः, यथा संसारिणः। ते पुनः मयि मद्वशा मदधीनाः॥१२॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि॥१२॥

१. स्वतन्त्रत्वं परमार्थत्वम्। कल्पितत्वं मिथ्यात्वम्।

[[अ. ७. श्लो. ११-१२]] [[३७८]]

त्रिभिर्गुणमयैर्भावैः एभिः सर्वमिदं जगत्। बीजपरिणामाद् वृक्षात् पुष्पादिपरिणामोदयदर्शनात् , मेघपरिणामाज्जलाद् बुद्बुदादिपरिणामोदयदर्शनात्। इहापि देहभुक्तान्नस्य रक्तात्मना रक्तस्य वीर्यात्मना वीर्यस्य च पिण्डात्मना परिणाम इति न कश्चिद् दोषः। ननु ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि’ इति पूर्वमुक्त्वा कथमधुना ‘न त्वहं तेषु ते मयि’ इति विरुद्धमुच्यत इत्यत आहतदधीन इति। अधीनपदस्यात्र शेषः। तस्य चावृत्तिः, वचनविपरिणामश्च। अहं तेष्वधीनो न। ते तु मय्यधीना इति। यथेति। यथा भावा मदधीनास्तथाऽहं न तदधीन इत्यर्थः। के ते भावाः? अत आहसंसारिण इति। संसरन्तीति संसारिणः; आत्मानात्मतादात्म्याध्यासवन्त इति भावः। न त्वात्मा, तस्य मम चैकत्वादित्येतदर्थं संसारिपदनिवेशः, आत्मनोऽसंसारित्वात्। न च कथमात्मान्यस्य जडस्य संसारित्वमिति वाच्यम् , आत्माभाससत्त्वाद् बुद्धौ। साभासबुद्धिर्हि जीवः संसारी। आभासः प्रतिबिम्बः, अन्यत्रान्यधर्मप्रतिफलनम्। तच्चाज्ञानाद् भवति। ननु पितुर्जातः पुत्रो यथा पितुर्वशे, पिता च पुत्रस्य वशेऽस्ति, तद्वत् त्वयाऽपि भूतवशे, भूतैश्च त्वद्वशे स्थातव्यमेवेति कुतस्तव भूतावशत्वम्? अत आहयद्यपीति। मत्तो जाता अपि त एव यद्वशे[मद्वशे] सन्ति, न त्वहं तद्वशे इत्यर्थः। स्वस्य सर्वेश्वरत्वात् प्राणिनां परतन्त्रत्वाच्चेति भावः। एवमपरतन्त्रत्वादेवेश्वरस्येश्वरत्वम्। लोके सर्वस्याप्यचेतनस्य चेतनवशत्वदर्शनादात्मनश्चेतनस्य वशे सर्वमचेतनं प्राणिजातं वर्तत इति बोध्यम्। न च बुद्धिश्चेतनैवेति वाच्यम् , आत्मधर्मप्रतिफलनप्रयुक्तत्वाद् बुद्धिगतचेतनत्वस्य। स्वतोऽचेतनैव बुद्धिः, मायापरिणामत्वान्मायायाश्च जडत्वादिति बोध्यम्। एतेन प्राणिशब्दवाच्याः संसारिणः कार्यकारणसङ्घातात्मकाः नात्मा, किन्तु तद्विलक्षणस्तदुपादानमीश्वर एवात्मेति सिद्धम् ॥१२॥

त्रिभिरिति श्लोकमवतारयति— एवमिति। एवं पूर्वोक्तरूपेण भूतं स्थितम् एवम्भूतं पूर्वोक्तविधमित्यर्थः। परमश्चासावीश्वरश्च परमेश्वरस्तं ब्रह्मविष्णुरुद्रेन्द्रादीश्वराणामीश्वरमित्यर्थः। निरुपाधिकेश्वरमिति वा। नित्यो विनाशरहितः; शुद्धो निरवद्यः; बुद्धः सर्वज्ञः; मुक्तः संसाररहितः; स्वः स्वासाधारणः भावो धर्मो यस्य तं तथोक्तम् ; नित्यं शुद्धं बुद्धं मुक्तं चेत्यर्थः। नित्यत्वादिधर्मवन्त- मित्यक्षरार्थः। निर्धर्मकेऽप्यात्मनि नित्यत्वादयो धर्माः कल्पिता व्यवहारार्थमिति बोध्यम्। तच्च कल्पनमनित्याशुद्धजडबद्ध- जगद्वैलक्षण्यार्थम्। यद्वा नित्यादिपदान्यनित्यवैलक्षण्याद्यर्थबोधकानि लक्षणया। तथा चानित्यत्वादिधर्मानात्मनि निरस्यन्ति नित्यादिपदानि; न तु नित्यत्वादिधर्मान् कल्पयन्तीति न कश्चिद् दोषः। कोऽसौ परमेश्वरः? अत आह— सर्वभूतात्मानमिति। पूर्वोक्तानां सर्वेषां भूतानामात्मभूतमित्यर्थः। नास्मिन् सत्त्वादिगुणाः सन्तीत्याहनिर्गुणमिति। गुणकार्याभावादिति भावः। न च मायाया गुणवत्त्वादात्मनश्च मायित्वाद् गुणवत्त्वमात्मन इति वाच्यम् , वस्तुतो निर्मायत्वादात्मनः, मायाया एव मिथ्यात्वेन तद्गुणानामपि मिथ्यात्वान्मिथ्यागुणैरात्मनि सगुणत्वस्यासम्भवाद् मिथ्या- मरीचिकोदकेन भूमेः पङ्किलत्ववदिति वा सिद्धान्तात्। मां जगत् प्राणिनः इत्यर्थः, नाभिजानाति। किमर्थं ज्ञानम्? अत आह तथा च कल्पितस्याधिष्ठानसत्ताप्रतीतिभ्यामेव तद्वत्त्वात् तन्मात्रत्वसिद्धिरित्यर्थः॥१२॥

सतीश्वरस्य स्वातन्त्ये नित्यशुद्धत्वादौ च कुतो जगतस्तदात्मकस्य संसारित्वमित्याशङ्क्य तदज्ञानादित्याह— एवम्भूतमपीति। यद्यप्रपञ्चोऽविक्रियश्च त्वं कस्मात् त्वामात्मभूतं स्वयम्प्रकाशं सर्वो जनस्तथा न जानातीति मत्वा शङ्कते— तच्चेति। श्लोकेनोत्तरमाह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एवम्भूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं १संसारदोषबीजप्रदाहकारणं मां नाभि- जानाति जगत् इत्यनुक्रोशं दर्शयति भगवान्। तच्च किन्निमित्तं जगतोऽज्ञानमित्युच्यते— त्रिभिरिति। त्रिभिः १. ‘संसारबीजदोषप्रदाहाये’ति रा.पा. भाति।

[[३७९]]

संसारबीजदोषप्रदाहायेति। संसारबीजभूता दोषाः अविद्यातत्कार्यरागद्वेषादयश्च, तेषां प्रकर्षेण दाहाय दहनार्थं, तूलानग्निनेव५ इति भावः। अनुक्रोशं दयाम्। कुतस्त्वां जगन्न जानातीत्याक्षिपति— तच्चेति। तस्य चाक्षेपस्य परिहारोऽनेन श्लोकेनोच्यत इत्याहउच्यते त्रिभिरितीति। इदं सर्वं जगत् एभिर्गुणमयैस्त्रिभिर्भावैःमोहितं सत् एभ्यः परमव्ययं मां नाभिजानाति। त्रिभिर्गुणमयैरिति। त्रिगुणमयैरित्यर्थः। सत्त्वादिगुणत्रयपरिणामभूतैरिति यावत्। रागद्वेषमोहादिप्रकारैः तदादिरूपैरित्यर्थः। रागः सात्त्विको राजसश्च, द्वेषो राजसः, मोहस्तु तामस इति विवेकः। आदिपदात्सुखदुःखादिग्रहणम्। अचेतनस्य मृदादेर्मोहासम्भवादाह प्राणिजातमिति। देवमनुष्यादि चेतनवर्गः इत्यर्थः। अविवेकतां विवेकराहित्यं, विवेक आत्मानात्मविवेकः, स न विद्यते येषां ते अविवेकाः, तेषां भावं, आपादितं प्रापितं, व्यति- रिक्तमन्यं, गुणविलक्षणं चेति। गुणगतलक्षणभिन्नलक्षणवन्तमित्यर्थः। चकारात् स्वरूपतः स्वभावतश्च गुणेभ्योऽत्यन्तभिन्नमित्यर्थः। तत्र स्वरूपतो भेदाय परमिति, स्वभावतो भेदाय गुणविलक्षणमिति च पदद्वयनिर्देशः।न व्येति विकारमापद्यत इत्यव्ययः। व्ययो विकारः, न तु परिक्षयमात्रम्। प्राणिनां रागद्वेषमोहादिभिरन्तःकरणस्यात्मानात्मविवेचनसामर्थ्ये नष्टे सति देहादिविलक्षणात्मज्ञानं न सम्भवतीति परमार्थः॥१३॥

दैवीति। सत्त्वादिगुणमयरागद्वेषादिमोहितमपि जगन्मायामोहितमेव मायागुणत्वात् सत्त्वादीनामित्यभिप्रेत्याह भाष्यकारः— कथं पुनरिति। देवस्येयं दैवी ताम् ; कोऽसौ देवः? अत आहवैष्णवीमिति। केयं विष्णुदेवसम्बन्धिनीत्यत आहमायामिति। काऽसौ मायेत्यत आहत्रिगुणात्मिकामिति। सत्त्वादिगुणत्रयस्वरूपाम्। कुत्रोक्तेयमत आहएतामिति। पूर्वश्लोकोक्तामित्यर्थः। अतिक्रामतीति जगदिति कर्तृशेषः। इति शङ्कायामुच्यते— दैवीति। दीव्यति स्वयं प्रकाशत इति देवः, ईष्टे शक्नोतीतीश्वरः, वेवेष्टि व्याप्नोतीति विष्णुः। कोऽसौ देवः ईश्वरो विष्णुश्चेत्यत आहममेति। आत्मन इत्यर्थः। स्वभावः जगन्मोहकत्वजगज्जन्मादि- उच्यत इति। एभ्यः परमित्यप्रपञ्चत्वमुच्यते। अव्ययमिति सर्वविक्रियाराहित्यम्॥१३॥

यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगाज्जगतो न कदाचिदपि तत्त्वबोधसमुदयसम्भावनेत्याशङ्कते— कथं पुनरिति। भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः सम्भवतीति परिहरति— उच्यत इति। कथं दुरत्ययत्वेन तदत्ययः स्यादिति, तत्राह— मामेवेति। प्रधानस्येव स्वातन्त्यं मायायाः व्युदस्यति३— देवस्येति। ४अस्वातन्त्ये मायात्वानुपपत्तिं हिशब्दद्योतितां हेतूकरोति— यस्मादिति। अनुभवसिद्धा सा नाकस्मादपलापमर्हतीत्याह— एषेति। जगतस्तत्त्वप्रतिपत्तिप्रतिबन्धभूता गुणाः सत्त्वादयः। ममेति

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥१३॥

दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥१४॥

गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैः भावैः पदार्थैः एभिर्यथोक्तैः सर्वमिदं प्राणिजातं जगद् मोहितम् अविवेकितामापादितं सत् नाभिजानाति माम् एभ्यो यथोक्तेभ्यो गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च, अव्ययं व्ययरहितम् , जन्मादिसर्वभावविकारवर्जितमित्यर्थः॥१३॥

कथं पुनर्दैवीमेतां त्रिगुणात्मिकां वैष्णवीं मायाम् १अतिक्रामन्तीत्युच्यते— दैवीति। दैवी देवस्य ममेश्वरस्य विष्णोः २स्वभूता हि यस्माद् एषा यथोक्ता गुणमयी मम माया, दुरत्यया दुःखेनात्ययोऽतिक्रमणं यस्याः सा दुरत्यया। १. ‘अतिक्रामति’ इति रा.पा.। २. ‘स्वभावभूता’ इति पा.। ३. देवस्य स्वामित्वोक्त्या मायायाः तदधीनत्वलाभादिति भावः। ४. ‘स्वातन्त्ये’ इति पा.। मायेति अभूतस्य कल्पितस्याख्या। कल्पितस्याधिष्ठानसत्ताभानाभ्यामेव तद्वत्त्वात् स्वातन्त्ये मायात्वमेवानुपपन्नमिति भावः। ५. दग्धुमिति शेषः।

[[अ. ७. श्लो. १३-१४]] [[३८०]]

तत्रैवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते, ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति, १संसारबन्धनान्मुच्यन्त इत्यर्थः॥१४॥

हेतुत्वादिः। गुणाः सत्त्वादयः २प्रकृतमुच्यन्ते यस्यां सा गुणमयी, त्रिगुणात्मिकेत्यर्थः। सत्त्वादिगुणत्रयस्वरूपेति यावत्। दुःखेनात्येतुं शक्या दुरत्यया, अत्येतुमशक्येत्यर्थः। ३तत्रेत्यध्याहारः। तदर्थमाहएवं सतीति। मायाया दुरत्ययत्वे सतीत्यर्थः। ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति वक्ष्यमाणत्वादाहसर्वधर्मान् परित्यज्येति। मामेवेति। यस्य मायया मोहिताः तं मायावन्तं मामेवेत्यर्थः। कस्त्वमत आहस्वात्मभूतमिति। स्वेषां भजमानानाम् आत्मभूतम् आत्मानमित्यर्थः। सर्वात्मना सर्वभावेन प्रपद्यन्ते भजन्ते, साक्षात्कुर्वन्तीति यावत्। आरोपितसर्वाधिष्ठानभूतरज्जुस्वरूपज्ञानाद् रज्जुसर्पभ्रमो यथा निवर्तते, तथा आरोपितदेहादिप्रपञ्चाधिष्ठानभूतात्मतत्त्वज्ञानाद् माया सकार्या निवर्तत इति परमार्थः। आत्मानात्मविवेकपूर्वकमात्मसाक्षात्कारे सति कुतः पुनरात्मानात्मनोरविवेकस्यावकाशः? अविवेकस्य चाभावे तदनुमेयमायायाः कथं सत्त्वम्? न कथमपीत्यर्थः। यद्यप्यात्मसाक्षात्कारमात्रेण देहपातं विना मायाकार्यप्रपञ्चनाशाभावेन मायायाः सत्त्वमनुमीयते, तथापि कृतात्मसाक्षा- त्कारस्य माया दग्धपटवन्निःसारा न बन्धहेतुरिति बोध्यम्। अत एव— ‘संसारबन्धनान्मुच्यन्ते’ इति भाषितमाचार्यैः। यद्वा मायाया आवरणशक्तिर्विक्षेपशक्तिरिति शक्तिद्वयमस्ति। तत्रावरणशक्त्या जीवानामात्मस्वरूपावरणं, तत्पूर्वकः संसारश्च भवति, विक्षेपशक्त्या सर्वप्रपञ्चोदयः; तत्रात्मसाक्षात्कारेणावरणशक्तिर्नश्यति; न तु विक्षेपशक्तिः, आत्मज्ञानविक्षेपशक्त्योरविरोधात्। घटसाक्षात्काराद्धि तद्विरोधिघटावरणमज्ञानमेव नश्यति। इमामेवावरणशक्तिमविद्येति व्यवहरन्ति केचित्। तदेवमात्मसाक्षात्कारेणाविद्याया नाशेऽपि मायायाः अनाशात् प्रपञ्चप्रतीतावपि न संसारः। तथा चाविद्याजनितात्मानात्माविवेकमूलकः संसारः विद्ययाऽऽत्मसाक्षात्काररूपया समूलो निवर्तते। यथा अन्धकारस्थ- स्थाणुपुरुषाविवेकमूलकः स्थाणुपुरुषसंशयः प्रदीपप्रभयाऽन्धकारे नष्टे सति समूलो निवर्तते, तद्वदिति श्लोकस्य परमार्थः। एतेन - देहादिप्रपञ्चो न पुरुषस्य बन्धहेतुः, येन देहादिनाशं विना पुरुषस्य संसारनिवृत्तिर्न स्यादित्यापत्तिर्दीयेत, किन्तु देहाद्यनात्मतादात्म्याध्यास एव। स त्वात्मज्ञानेनैव निवर्तते। अतो मुमुक्षुणाऽऽत्मज्ञानमेव सम्पाद्यं गुरुशुश्रूषावेदान्तश्रवणादिनेति - सिद्धम्। अनेन चात्मज्ञानेनात्मन्यारोपितोऽनात्मतादात्म्याध्यासो निवर्तते; अनात्मानस्तु देहादयः प्रारब्धावसाने निवर्तन्ते; तदेवम् आत्मज्ञानाज्जीवन्मुक्तिः, देहतत्त्वात्म[देहपातात्त्वात्म]ज्ञानपूर्वकाद् विदेहमुक्तिरिति सिद्धम्। वस्तुतस्तु आत्मनि कालत्रयेऽपि देहादिप्रपञ्चाभावाद् य आत्मानं साक्षात्करोति न तद्दृष्ट्या कोऽप्याविद्यको मायिको वा (ऽ) ज्ञानप्रपञ्चोऽर्थप्रपञ्चश्चेत्यात्मज्ञानात् सकार्याया मायाया निवृत्तिरिति बोध्यम्। अहङ्कारममकारादिरूपो(ऽ)ज्ञानप्रपञ्चो यस्यैव जीवसृष्टं द्वैतमिति व्यवहाराश्रयत्वम् , अर्थप्रपञ्चस्तु भूम्यादिरूपो यस्येश्वरसृष्ट- द्वैतमिति व्यवहाराश्रयत्वम्। तत्र जीव[सृष्ट]प्रपञ्च एव पुंसां बन्धकः; न त्वीश्वरसृष्टप्रपञ्च इति। अत्राह रामानुजीयः‘त्वदन्यः शरणं नास्ति त्वमेव शरणं मम। तस्मात् कारुण्यभावेन रक्ष रक्ष जनार्दन॥’ इत्येवं प्रागुक्तमेव मायायाः सम्बन्धमनूद्य विधित्सितं दुरत्ययत्वं विभजते— दुःखेनेति। ‘मामेवे’त्यादि व्याचष्टे— तत्रेति। तस्मिन् मायारूपे यथोक्तरीत्या दुरत्यये सतीति यावत्। मामेवेति एवकारेण मायाया वेद्यकोटिनिवेशाभावो विवक्ष्यते। सर्वात्मना कर्मानुष्ठानादिव्यग्रता- मन्तरेणेत्यर्थः। मायातिक्रमे मोहातिक्रमो भवतीति मत्वा विशिनष्टि— सर्वेति। मायातत्प्रयुक्तमोहयोरतिक्रमेऽपि कथं पुरुषार्थसिद्धि- रित्याशङ्क्याह— संसारेति॥१४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘ते संसारबन्धनान्मुच्यन्ते’ इति पा.। २. ‘तत्प्रकृतवचने मयट्’ इति सूत्रात् मयडिति भावः। ३. तत्र इति पदं भाष्यकारैरध्याहृत्य व्याख्यातमिति भावः।

[[३८१]]

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः॥१५॥

निश्चयरूपं प्रपत्तिमतम् इहोपदिश्यते भगवता। तत्र— १मामिति विष्णुः प्रपत्तव्य इति, एवेति न देवतान्तरं प्रपत्तव्यमिति, प्रपद्यन्त इति भक्तिज्ञानादिभ्यः प्रपत्तिरेव गरीयसी कर्तव्येति, बहुवचनेन जीवभेदः, मां प्रपद्यन्त इति प्रपत्तिक्रियाकर्तृकर्मणोर्जीवेश्वरयोर्भेदः, ‘मायामेतां तरन्ति ते’ इति प्रपन्नानामेव मोक्षलाभो मायानिवृत्तिपूर्वक इति च सिद्धम्। तदेवं स्वरसतः सिद्धमर्थं विहाय शाङ्करी कुकल्पना अनादरणीयेति। अत्रोच्यते—नेदं प्रपत्तिप्रकरणम् , ‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः’ इति प्रक्रम्य ‘ते ब्रह्म तद्विदुः कृत्स्नम्’ इत्युपसंहरिष्यमाणत्वात्। ‘प्रियो हि ज्ञानिनोऽत्यर्थ’मिति, ‘ज्ञानवान् मां प्रपद्यते’ इति च ज्ञानस्यैव मध्ये कीर्तितत्वादसकृत्। न च ज्ञानिन एव प्रपत्तिरुपदिश्यत इति वाच्यम् , ज्ञानिनः स्वात्मन एवेश्वरत्वेन स्वात्मातिरिक्तप्रपत्तव्येश्वराभावात्। उक्तं हि ‘सर्वभूतस्थमात्मानम्’ इत्यादिना ईश्वरस्यात्मत्वम्। ‘ज्ञानी त्वात्मैव मे मतम्’ इति भगवता चेहैवोक्तम्। ईश्वरस्य चान्तर्यामित्वाद् आत्मव्यतिरिक्तस्यान्तर्यामिणश्चादर्शनात् , आत्मेश्वरयोर्भेदे ईश्वरस्यासर्वात्मत्वप्रसङ्गात् , प्रपद्यन्त इति बहुवचनस्य उपाधिभेद- बोधकत्वात् , सोपाधिकस्यात्मनः प्रपत्तृत्वान्निरुपाधिकस्य तस्यैव प्रपत्तव्यत्वात् , मामित्यस्मच्छब्दस्य स्वभावादेवात्मपरत्वाद् आत्मनोऽन्यस्य दैवतस्यैवाभावात् , सर्वदेवशरीरोपहितात्मन एकत्वात् , विष्णोश्चात्मत्वाच्छरीरस्य चानात्मत्वेनाविष्णुत्वात् , मामित्यनेना[ना]त्मपरिग्रहे तु वसुदेवात्मजकृष्णशरीरस्यैव वक्तुः परिग्राह्यत्वात् , तस्य च नष्टस्य प्रपत्तेरधुनातनानां पूर्वकालिकानां च कर्तुमशक्यत्वादसम्भावितत्वाच्च, अनात्मोपासनया मायातरणासम्भवाच्च, मायायाश्चात्माश्रयाया आत्मसाक्षात्कारं विनाऽनिवृत्तेरिति।२ ३आत्मप्रपदनं च ‘तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः॥’ इत्युक्तलक्षण- ब्रह्माभ्यास एव, ब्रह्मण एवात्मत्वात्। अयं च ब्रह्माभ्यासो न धर्मान्तरसक्तस्य सुलभ इत्यत आहसर्वधर्मान् परित्यज्येति। अनेन चात्मप्रपत्तौ संन्यासिनामेवाधिकारो न तु गृहस्थानामिति सूचितम्। तस्यैव सर्वकर्मसंन्यासविधानेन सर्वधर्मपरि- त्यागसम्भवात्। न हि परित्यक्तसर्वधर्मो गृहस्थो भवितुमर्हति, सर्वधर्मकर्तृत्वस्यैव गृहस्थलक्षणत्वात्। न चायमंशो भाष्ये क्वाप्यनुक्त इति शङ्क्यम् , ज्ञाननिष्ठायाः संन्यास्येकविषयत्वस्य भाष्ये स्फुटमुक्तत्वादात्मप्रपत्तेश्च ज्ञाननिष्ठारूपत्वात्। ब्रह्मणि स्थितिर्हि ज्ञाननिष्ठा। ब्रह्म त्वात्मैव खलु। तस्माद् आत्मप्रपत्तिः ब्रह्मनिष्ठा ज्ञानयोग आत्मसमाधिरित्येतच्छब्दाः पर्याया एव, न त्वतिरिक्तार्थबोधकाः। तदेवं ये संन्यस्य मां प्रपद्यन्ते त एव मायां तरन्तीति बोधयितुमेव सर्वधर्मान् परित्यज्येति भाषितमाचार्यैः। ततश्च मायातरणात्मक- संसारनिवृत्तिकामैर्मायानिवर्तकात्मसाक्षात्कारायावश्यं संन्यासाश्रमः स्वीकर्तव्यो विवेकवद्भिरिति सिद्धम्। अत एव ज्ञानिनां संन्यास एवाधिकार इति, गृहस्थानां न ज्ञानयोगेऽधिकार इति चासकृदुक्तं भाष्यकारैः॥१४॥

नेति। दुष्कृतिनो मूढा नराधमाः मायया अपहृतज्ञाना अत एवासुरं भावमाश्रिताः सन्तः मां न प्रपद्यन्ते, जन्मान्तरदुष्कृत- वशान्मायया आत्मानात्मविवेकेऽपहृते सति देहादिष्वात्माभिमानग्रस्ताःसन्तः देहादिविलक्षण आत्मा नास्ति न भातीत्येवं ब्रुवाणाः शिश्नोदरपरायणाः ‘आड्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया’ इत्यादि वक्ष्यमाणासुरसम्पच्छालिनः संसरन्तीत्यर्थः॥१५॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

यदि त्वां प्रपन्ना मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे न प्रपद्यन्ते? इत्युच्यते— न मामिति। न मां आनन्दगिरिकृतव्याख्या भगवन्निष्ठायाः मायातिक्रमहेतुत्वे तदेकनिष्ठत्वमेव सर्वेषामुचितमिति पृच्छति— यदीति। पापकारित्वेनाविवेकभूयस्तया हिंसा- अ. ७. श्लो. १४-१५ ] १. ‘मामेव ये प्रपद्यन्ते’ इत्यत्र माम् इत्यस्मच्छब्देन विष्णुवाचिना विष्णुः प्रपत्तव्य इति सिध्यति। तथा एवकारेण विष्णुभिन्नदेवता व्यावर्त्यते। ‘ये प्रपद्यन्ते’ इति बहुवचनेन प्रपत्तॄणां जीवानां परस्परभेदः, ‘ये माम्’ इति कर्तृत्वेन कर्मत्वेन निर्देशात् जीवेश्वरभेदश्च सिध्यतीति तेषामाशयः। २.अत्र मायाजीवेश्वरस्वरूपतद्भेदा- दिनिरूपणं प्रतिबिम्बवादरीत्या मधुसूदन्याम् , अवच्छेदवादरीत्या भाष्योत्कर्षदीपिकायां च विस्तरेण कृतं द्रष्टव्यम्। ३. स्वाभिमतामात्मप्रपत्तिमाह—आत्मेति।

[[३८२]]

१परमेश्वरं दुष्कृतिनः पापकारिणो मूढाः प्रपद्यन्ते नराधमाः नराणां मध्येऽधमा निकृष्टाः, ते च मायया अपहृतज्ञानाः सम्मुषितज्ञानाः आसुरं भावं हिंसाऽनृतादिलक्षणम् आश्रिताः॥१५॥

ये पुनर्नरोत्तमाः पुण्यकर्माणः— चतुर्विधा इति। चतुर्विधाः चतुःप्रकारा भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्यकर्माणः, हे अर्जुन ! आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिनाऽभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोस्तत्त्वविच्च, हे भरतर्षभ !॥१६॥

चतुर्विधा इति। चतस्रो विधाः प्रकारा रीतयो तेषां ते चतुर्विधाः, सुकृतं जन्मान्तरार्जितं पुण्यकर्म येषामस्ति ते सुकृतिनः ‘अत इनिठनौ’ इति इनिप्रत्ययः। सुकृतिनां चातुर्विध्यमेव दर्शयति— आर्त इत्यादिना। आर्तिः पीडा दुःखमिति यावत्। आपन्नः आपदं प्राप्तः। अत एव‘विपदः सन्तु नः शश्वद् यासु सङ्कीर्त्यते हरिः’ इति भागवते कुन्ती प्राह। धनकाम इत्युपलक्षणं पुत्रादिकामानाम्। अमीषां चतुर्णां मध्ये ज्ञानी साक्षादात्मानं मत्वा वासुदेवं भजते, अन्ये त्रयस्त्वीश्वरं परोक्षं मत्वेति विवेकः। यद्यपि ज्ञान्येक एवात्मानमेव भजते, अन्ये त्वार्तादयः रोगादिनिवृत्त्यर्थं ज्ञानार्थं धनाद्यर्थं वा औषधादिकं कर्मयोगादिकं कृष्यादिकं वा सेवन्ते, देवतान्तराणि वा भजन्ते, वासुदेवं वा भजन्ते, न तु तत्र नियमः; तथापि आर्तादिषु सुकृतिनो वासुदेवं भजन्ते, अन्ये तु भेषजादिकमिति बोध्यम्। अत एव सुकृतिन इत्युक्तम्। यद्वा ये आर्तिहरणाद्यर्थं देवतान्तरादिकं भजन्ते तेऽपि वासुदेवमेव भजन्ते, वासुदेवस्य सर्वात्मत्वात्। ‘येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः, तेऽपि मामेव कौतेय! यजन्त्यविधिपूर्वकम्’ इति नवमाध्याये वक्ष्यमाणत्वात्। ऐश्वर्यादिमदमत्तास्तु दुष्कृतिनो न मां कथञ्चिदपि कथमपि भजन्त इति सूचयितुम् आर्तग्रहणम् अर्थार्थिग्रहणं च। अनेन श्लोकेन आर्तिनिवारणार्थं दारापत्यधनादिसिद्ध्यर्थं ज्ञानार्थं मोक्षार्थं च भगवानेक एव नृणां सेव्य इत्युपदिष्टम्। सोपाधिकं निरुपाधिकं वा यस्येश्वरभजनं नास्ति स नराधमः पापः शोच्य एवेति भावः। ननु ‘पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते’ इति शास्त्रात् पापफलस्य व्याधेः कथं सुकृत्याश्रयत्वम्? एवं दारिद्र्यप्रयुक्तस्य धनार्थित्वस्य वा कथं सुकृत्याश्रयत्वम् , दारिद्र्यस्य पापफलत्वादिति चेत् , मैवम् , मनुष्यजन्मनः पुण्यपापमिश्रफलत्वात् पापफलं व्याध्यादिकमनुभवन्नपि पुरुषः कृतपुण्य एव तन्निवृत्त्यर्थं भगवन्तं भजते; भगवद्भजनस्य सुकृतं विना दुर्लभत्वात्। न च धनिकस्यार्तस्य धनभोगेन सुकृतस्य क्षीणत्वादीश्वरभजनं न स्यादिति वाच्यम् , सुकृतकर्मणां विचित्रत्वेनानन्तत्वेन च धनभोगप्रदसुकृतकर्मणो धनभोगप्रदानेन क्षीणत्वेऽपीश्वरभजनप्रदसुकृतकर्मणोऽक्षीणत्वात्। तस्माच्चतुर्विधाः सुकृतिनः परोक्षमपरोक्षं ऽनृतादिभूयस्त्वाद् भूयसां जन्तूनां न भगवन्निष्ठत्वसिद्धिरित्याह— उच्यत इति। मौड्यं पापकारित्वे हेतुः, अत एव निकर्षः। सम्मुषितमिव तिरस्कृतं ज्ञानं स्वरूपचैतन्यमेषामिति ते तथा॥१५॥

केषां तर्हि तन्निष्ठता सुकरेति, तत्राह— ये पुनरिति। ते भजन्ते भगवन्तमिति शेषः। ये त्वां भजन्ते ते किं सर्वे मायां तरन्ति? नैव, प्रार्थनावैचित्र्यादित्याह—चतुर्विधा इति। आपन्नः तन्निवृत्तिमिच्छन्निति शेषः। तत्त्वविदिति। शाब्दज्ञानवान् आत्मतत्त्वसाक्षात्कार- मात्रार्थी मुमुक्षुरित्यर्थः॥१६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन !। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ !॥१६॥

१. ‘परमेश्वरं नारायणं’ इति पा.।

[[३८३]]

तेषामिति। तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वाद् नित्ययुक्तो भवति, एकभक्तिश्च, अन्यस्य भजनीयस्यादर्शनात्। अतः स एकभक्तिः विशिष्यते विशेषम् आधिक्यमापद्यते। अतिरिच्यत इत्यर्थः। प्रियो हि यस्माद् अहमात्मा ज्ञानिनः, अतस्तस्याहमत्यर्थं प्रियः। प्रसिद्धं हि लोके आत्मा प्रियो भवतीति। तस्माज्ज्ञानिनः १आत्मत्वाद् वासुदेवः प्रियो भवतीत्यर्थः। स च ज्ञानी मम वासुदेवस्यात्मैवेति ममात्यर्थं प्रियः॥१७॥

वाऽऽत्मानमीश्वरं भजन्त इति स्थितम्। भरतवंश्या राजानो भरताः, तेषामृषभः श्रेष्ठो भरतर्षभः, तत्सम्बुद्धिः। कृष्णार्जुनयोर्नरनारायणावतारत्वान्नरावतारस्यार्जुनस्य भरतर्षभत्वमिति भावः। शौर्यधैर्यादिसम्पन्नत्वादिति वा। अनेन च श्लोकेन शात्रवाभिभूतिरूपविपदं प्राप्तस्य तत्त्वजिज्ञासोः राज्यकामस्य च तव सुकृतिनो मद्भजनमवश्यं कर्तव्यम् । तच्च मद्भजनं तवानभिसंहितफलस्वधर्मयुद्धानुष्ठानरूपमेवेत्यर्जुनस्य उपदेशः सूच्यते॥१६॥

तेषामिति। ननु किमार्तादयश्चत्वारः समाः, उत तेषां मध्ये कश्चिद् विशिष्यते इत्यत आहतेषामिति। तेषां मध्य इत्यर्थः। नित्ययुक्तः सदाऽप्यात्मनि चित्तसमाधानवान् भवति; कुतः? तत्त्ववित्त्वादात्मयाथात्म्यवित्त्वादात्मत्वादेवेत्यर्थः। भज्यते सेव्यत इति भक्तिः; ‘भक्ति’रिति पाणिनिसूत्रात्। एक आत्मेत्यर्थः, भक्तिर्यस्य स एकभक्तिः। एकस्मिन्नात्मनि भक्तिः स्नेहविशेषो यस्य एकभक्तिरिति वा; आत्मैकभजनतत्पर इत्यर्थः। एवं ज्ञानी नित्ययुक्तत्वादेकभक्तित्वाच्च तेषां मध्ये विशिष्यते। अत इति। यस्मादहं ज्ञानिन आत्मा, तस्मादित्यर्थः। मम ज्ञानिन आत्मत्वादिति यावत्। अत्यर्थं भृशं आत्मा प्रियो भवतीति लोके प्रसिद्धम्। शास्त्रे च ‘आत्मनस्तु कामाय सर्वं प्रियं भवती’ति परमप्रेमास्पदत्वात् प्रियतमत्वमात्मनः प्रसिद्धम्। तस्माच्छब्दार्थं स्वयमेवाहज्ञानिन आत्मत्वादिति। ज्ञानिनो वासुदेवः प्रियो भवति आत्मत्वाद् वासुदेवस्येत्यन्वयः। स च ज्ञानी मम प्रिय इत्यत्र हेतुमाहआत्मैवेत्यत इति। आत्मैवेति हेतोरित्यर्थः। आत्मत्वादिति यावत्। यथा ज्ञानिन आत्मत्वाद् वासुदेवः प्रियः, तथा वासुदेवस्यात्मत्वाज्ज्ञानी प्रियः, ज्ञानिवासुदेवयोरेकात्मरूपत्वादिति भावः। हि यस्मान्नित्ययुक्त एकभक्तिर्ज्ञानी तेषां विशिष्यते तस्मादहं ज्ञानिनोऽत्यर्थं प्रियः; स च मम प्रिय इत्यन्वयः। ज्ञानी नित्ययुक्त एकभक्तिरत एव तेषां विशिष्यते। हि यस्मादहं ज्ञानिन आत्मा तस्मादहं ज्ञानिनोऽत्यर्थं प्रियः; स च ममात्मत्वात् प्रिय इति वा। ‘तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते’ अत एवेति शेषः। अहं ज्ञानिनोऽत्यर्थं प्रियः; स च मम प्रियो भवति। हिः प्रसिद्धौ इति वा। ‘तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते’ अहमात्मत्वादिति शेषः। ज्ञानिनोऽत्यर्थं प्रियः भवामि; स चात्मत्वान्मम प्रियो चतुर्विधानां तेषां सुकृतिनां भगवदभिमुखानां तुल्यत्वमाशङ्क्याह— तेषामिति। तस्य विशिष्यमाणत्वे हेतुमाह— प्रियो हीति। नित्ययुक्तत्वं भगवत्यात्मनि सदा समाहितचेतस्त्वम्। असारे संसारे भगवानेव सारः, सोऽहमस्मीत्येकस्मिन्नद्वितीये स्वस्मादत्यन्तमभिन्ने भगवति भक्तिः स्नेहविशेषोऽस्येति एकभक्तिः। तस्याधिक्ये हेतुं विवृणोति— प्रियो हीत्यादिना। भगवतो ज्ञानिनश्च परस्परं प्रेमास्पदत्वे प्रसिद्धिं प्रमाणयति— प्रसिद्धं हीति। आत्मनो ज्ञानिनं प्रति प्रियत्वेऽपि भगवतो वासुदेवस्य कथं तं प्रति प्रियत्वमित्याशङ्क्याह— तस्मादिति। अहं ज्ञानिनो निरुपाधिकप्रेमास्पदं, परमपुरुषार्थत्वेनात्मत्वेन च गृहीतत्वादित्यर्थः। ज्ञानिनोऽपि भगवन्तं प्रति प्रियत्वं प्रकटयति— स चेति ॥१७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥१७॥

अ. ७. श्लो. १५-१७ ] १. अत्र ‘तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा’(बृ.उ.१-४-८) इति श्रुतिरनुसंधेया।

[[३८४]]

भवतीति वा। न चात्मपदाध्याहारे नास्ति प्रमाणमिति वाच्यम् , ‘ज्ञानी त्वात्मैव मे मत’मिति वक्ष्यमाणवाक्यस्यैव प्रमाणत्वात्। यद्वा अहं ज्ञानिनोऽत्यर्थं प्रियः, स च मम प्रिय इत्येवात्रान्वयः। तत्र हेतुस्तु ‘ज्ञानी त्वात्मैव मे मत’मिति वक्ष्यते। अत एव ‘तत् कस्मादित्याहे’त्यवतारितं ‘ज्ञानी त्वात्मैवे’ति वाक्यं भाष्यकारैः। अत्रात्मत्वहेतूपन्यासस्तु वक्ष्यमाणश्लोकसिद्धार्थस्येहैव स्पष्टार्थमनुवाद इति बोध्यम्। यत्तु रामानुजः— ज्ञानिनो मदेकप्राप्यस्य मया योगो नित्यः, मय्येकस्मिन्नेव भक्तिः, अतः स एव विशिष्यते। अत्यर्थम् अत्यभिधेयम्। ज्ञानिनोऽहं यथा प्रियस्तथा सर्वज्ञेन सर्वशक्तिना मयाऽप्यभिधातुं न शक्यत इत्यर्थः इति, इतरयोस्तु यावत्स्वाभि- लषितप्राप्ति मया योगः; स्वाभिलषिते तत्साधनत्वेन च मयि भक्तिरिति च, तदसत् ; सति जीवस्येश्वरेण नित्ययोगे नित्यप्राप्त एवेश्वर इति कथं तस्य प्राप्यत्वम्? अप्राप्तस्य हि प्राप्यत्वं सम्भवति। कथं वा परोक्षेण परमपदवैकुण्ठनिलयेनेश्वरेण जीवानां नित्ययोगः? कथं परोक्षेणाऽन्तर्यामिणा वा? न हि त्वमेवं कुर्विति प्रेरकः कश्चिद् हृदये कस्यापि प्रत्यक्षः, किं त्वनुमेय एव, जीवपरतन्त्यादिलिङ्गात्। न च - ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ ‘आदित्यवर्णः’ इत्यादिश्रुत्या हृदि साकार ईश्वरोऽस्तीति - वाच्यम् , १निरवयवाणु- प्रायजीवान्तरपरमाणुभूतेश्वरस्य भवदभिमतस्य साकारत्वायोगात् , ‘अशब्दमस्पर्शमरूपमव्यय’मित्यादिश्रुतिविरोधाच्च, अङ्गुष्ठमात्र- त्वादेः कल्पितरूपत्वाच्च। न च कल्पितेश्वररूपेण नित्ययोगो विवक्षित इति वाच्यम् , वास्तवस्वरूपपरित्यागे कारणाभावात् , रूपं कल्पयित्वाऽहं भजनीयः इतीहेश्वरेणानुक्तत्वात् , तत्त्वकथनप्रकरणत्वाच्चास्य। तथा एकभक्तिशब्देनापि नात्मातिरिक्तपरोक्षेश्वरभक्तिरुच्यते। किं तर्हि? आत्मभक्तिरेव। वस्तुस्वरूपदर्शनं विना वस्तुनि प्रीत्यात्मकभक्त्ययोगात्। कल्पितार्चादिस्वरूपे त्वज्ञजनविषये ज्ञानिनः प्रीत्ययोगात्। ‘यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्। हित्वाऽर्चां भजते मौड्याद् भस्मन्येव जुहोति सः॥’ इति भागवते व्यासेन मौड्यादिति मूढजनविषयोऽर्चाभजनादिरिति दर्शितत्वात् , तत्त्वविद एव ज्ञानित्वात् , सच्चिदानन्दरूपस्य च तत्त्वत्वात्। अतो न ज्ञानिनः कल्पितेश्वराकारे प्रीतिरुपपद्यते। ‘अहं ज्ञानिनोऽभिधेयमतिक्रम्य प्रियः’ इति वाक्यस्यानन्वितत्वात् , अभिधेयमतिक्रम्येत्यस्माद् ‘अभिधातुं न शक्यते’ इत्य- र्थालाभात् , अभिधानमतिक्रम्येत्यस्मादेव तादृशार्थलाभसम्भवात् , प्रसिद्धभृशार्थपरित्यागे कारणाभावात् , विषयगतप्रियत्वस्यापी- यत्तारहितत्वेनेश्वरप्रियत्वस्येयत्तारहितत्ववचनस्यानर्थकत्वात् , विषयप्रियत्वं सातिशयमीश्वरप्रियत्वं तु निरतिशयमित्येव वक्तव्यत्वात् , ईश्वरस्य चानात्मत्वे निरतिशयप्रियत्वायोगात् , आत्मनो निरतिशयप्रियत्वस्य च श्रुत्यादिसिद्धत्वात् , आत्माभिलषितप्रदानादिनैव परोक्षेश्वरस्य प्रियत्वव्यवहार इति परोक्षेश्वरस्याप्यात्मशेषत्वात्। ‘स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः। न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः॥’ इति प्रह्लादस्य कृष्णस्मरण- जन्यानन्दस्तु आत्मानन्द एव, नातिरिक्तः, कृष्णस्यात्मत्वात्। साकारेश्वरध्यानजन्योऽप्यानन्दः चूतफलाद्यनुभवजन्यानन्दवद् आत्मानन्दप्रतिबिम्बानन्द एव, न त्वतिरिक्तः। तेन च प्रतिबिम्बानन्दापेक्षया मुख्यत्वं बिम्बानन्दस्यास्त्येवेति सातिशय एव प्रह्लादस्य कृष्णस्मरणजन्यानन्दः, यदि कृष्णः साकार ईश्वरः। एवम् ईश्वरस्मरणाद् भक्तस्य निरतिशयानन्दलाभेन प्रियतमत्वमीश्वरस्य यथा, तथा भक्तस्मरणादपीश्वरस्य निरतिशयानन्द- लाभेन प्रियतमत्वं भक्तस्येत्येतदपि अपहासास्पदम्। परिपूर्णानन्दस्येश्वरस्य भक्तस्मरणादधिकानन्दलाभ इति, तदभावे आनन्दनाश इति च कल्पनस्याप्रमाणत्वादयुक्तत्वाच्च, ईश्वरेणाप्यानन्दार्थं भक्तस्य स्मरणीयत्वापत्तेः, सर्वसेव्यस्यापीश्वरस्य स्वभक्तसेवकत्व- दोषापत्तेः। आर्तो जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधान् सुकृतिनः उपक्रम्य, ‘तत्र ज्ञानी विशिष्यत’ इत्युक्त्या ‘इतरेषु तेषु’ इति वक्तव्ये ‘इतरयोस्तु’ इति वचनमयुक्तम्। न चार्तस्यार्थार्थिनश्चैकाधिकारित्वादेकत्वमिति वाच्यम् , अनार्तस्यार्थार्थित्वादर्थानर्थिनः आर्तत्वाच्च। न च - व्याधिनिवृत्तिरूपं धनादिरूपं वा अर्थं प्रयोजनमर्थयते आर्तोऽर्थार्थी वेत्यस्त्युभयत्रार्थार्थित्वरूपमेकत्वमिति - वाच्यम् , तथा भाष्यार्कप्रकाशः १. निरवयवोऽणुप्रायश्च जीवः, तस्याप्यान्तरत्वेन परिमाणतः परमाणुभूत ईश्वर इत्यर्थः।

[[३८५]]

न तर्हि आर्तादयस्त्रयो वासुदेवस्य प्रियाः? न; किं तर्हि?— उदारा इति। उदारा उत्कृष्टाः सर्व एवैते, त्रयोऽपि मम प्रिया एवेत्यर्थः। न हि कश्चिद् मद्भक्तो मम वासुदेवस्याप्रियो भवति। ज्ञानी त्वत्यर्थं प्रियो भवतीति विशेषः। तत् कस्मादित्याह१— ज्ञानी त्वात्मैव, नान्यो मत्तः इति मे मम मतं निश्चयः। आस्थितः आरोढुं प्रवृत्तः स ज्ञानी हि यस्माद् ‘अहमेव भगवान् वासुदेवो नान्योऽस्मि’ इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः॥१८॥

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८॥

सति ज्ञानार्थित्वरूपमर्थार्थित्वं जिज्ञासावप्यस्तीति, आर्तजिज्ञास्वर्थार्थिनां त्रयाणामप्येकत्वापत्तेः। ज्ञानस्यापि प्रयोजनरूपार्थत्वा- विशेषात्। ‘आर्तो जिज्ञासुरर्थार्थी’ इति त्रयाणां पृथगुपदेशानर्थक्याच्च। ‘जिज्ञासुरर्थार्थी ज्ञानीति त्रिविधाः सुकृतिनो मां भजन्ते’ इति, ‘अर्थार्थी ज्ञानीति द्विविधाः’ इति वा वक्तव्यत्वापत्तेः। तस्माद् इतरयोस्त्विति वचनमयुक्तमेव॥१७॥

उदारा इति। ननु सर्वसमस्य वासुदेवस्य कुतो ज्ञान्येव प्रियः, इतरे त्रयो न प्रिया इति शङ्कायामाहन हीति। आर्तादयस्त्रयो वासुदेवस्य प्रिया न हीति न। किं तर्हि? किन्तु। सर्वशब्दः पूर्वोक्तत्रित्वपर इत्याहत्रयोऽपीति। उदारशब्दस्य फलितार्थमाहप्रिया एवेति। यथा राजभक्तो राज्ञः प्रियस्तद्वदिति भावः। तत् ज्ञानिनोऽत्यर्थं प्रियत्वमित्यर्थः। कस्माद्धेतोरित्यपेक्षायाम् आह भगवानिति शेषः। आत्मैव अहमेवेत्यर्थः। एवकारार्थमाहनान्य इति। पञ्चम्यास्तसिः मत्तः इति। ननु ‘विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥’ इति त्वदुक्तरीत्या तव सर्वसमस्य सर्वमप्यात्मैवेति कुतो ज्ञान्येवात्मा, नेतरे त्रयः? इत्यत आहआस्थितः स हीत्यादि। हि सः युक्तात्मा सन् मामेवानुत्तमां गतिमास्थितः। आस्थितः आरोढुं प्रवृत्त इत्यस्य फलितार्थमाहगन्तुं प्रवृत्त इति। युक्तः समाहित आत्मा मनो यस्य स युक्तात्मा। अस्यैव चित्तसमाधानस्याकारमाहअहमेवेत्यादि। स भगवान् वासुदेवोऽहमेव। अहं वासुदेवादन्यो नास्मि न भवामि। अहं ब्रह्मास्मीति महावाक्यार्थजन्यं ज्ञानमिदमिति भावः। गम्यते प्राप्यत इति गतिः, न विद्यते उत्तमा यस्याः सा अनुत्तमा सर्वोत्तमेत्यर्थः। परब्रह्मण आत्मन एव परमप्राप्यत्वादनुत्तमगतित्वमिति भावः। ‘ब्रह्मविदाप्नोति परम्’ इति, ‘ब्रह्मविद् ब्रह्मैव भवति’ इति च श्रुतेरिति भावः। अयमाशयः— यद्यप्यार्तादयः सर्वेऽप्यात्मभूता एव, तथापि यः अहं ब्रह्मास्मीति वेद, स एवाहम् , ‘ब्रह्मविद् ब्रह्मैव भवती’ति ज्ञानी चेदत्यर्थमीश्वरस्य प्रियो भवति, तर्हि विशेषणसामर्थ्यादितरेषामप्रियत्वं प्राप्तमिति शङ्कते— न तर्हीति। तेषां भगवन्तं प्रति प्रियत्वमत्र विवक्षितमित्याह— नेति। अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनमिति पृच्छति— किं तर्हीति। सर्वेषां भगवदभिमुखत्वा- दुत्कर्षेऽपि ज्ञानिनि तदतिरेकमङ्गीकृत्य विशेषणमित्याह— उदारा इति। किं तत्र प्रमाणमित्याशङ्क्येश्वरज्ञानमित्याह— मे मतमिति। ज्ञानी त्वात्मैवेत्यत्र हेतुमाह— आस्थित इति। सर्वशब्दस्य ज्ञानिव्यतिरिक्तविषयत्वमाह— त्रयोऽपीति। ज्ञानिव्यतिरिक्तानां भगवदभि- मुखत्वेऽपि ज्ञानाभावापराधान्न भगवत्प्रीतिविषयतेत्याशङ्क्याह— न हीति। कस्तर्हि ज्ञानवति विशेषः? तत्राह— ज्ञानी त्विति। तमेव विशेषं प्रश्नपूर्वकं प्रकटयति— तत्कस्मादित्यादिना। सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यादित्याशङ्क्य, आस्थितः इत्येतद् व्याकरोति— आरोढुमिति। आरोहे हेतुं सूचयति— स ज्ञानीति। आरोढुं प्रवृत्तत्वमेव स्फुटयति— मामेवेति॥१८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘इत्यत आह’ इति पा.।

[[अ. ७. श्लो. १७-१८]] [[३८६]]

श्रुतेः। यस्तु नाहं ब्रह्मेति वेद, स नैवाहम् , ब्रह्मविद आत्मत्वादब्रह्मविदोऽनात्मत्वाच्च। ब्रह्मविद्धि कूटस्थमात्मानं मन्यते, स च कूटस्थो ब्रह्मैव चिन्मात्रत्वात्। अब्रह्मवित्तु अकूटस्थं कर्तारं भोक्तारं च जीवमात्मानं मन्यते। स चाकूटस्थो न ब्रह्म, विकारित्वादकूटस्थस्य, ब्रह्मणश्चाविकारित्वात्। तथा च आर्तादिभिरात्मत्वेनाभिमतः संसारी जीवो नाहमित्यार्तादयो नाहम्। ज्ञानिना कूटस्थश्चिदात्मै- वात्मत्वेनाभिमत इति स चिदात्माऽहमेवेति ज्ञानी त्वहमेव। तस्मादार्तादयः संसारिणश्चिदाभासा मत्प्रिया एव। ज्ञानी तु चिदात्मा कूटस्थोऽहमेवेति स्थितम्। ननु अहमेव स भगवान् वासुदेवो नान्योऽस्मीत्ये(वा)[व] समाहितचित्तो ज्ञानी चिदात्मत्वात् परं ब्रह्म प्राप्त एवेति कथमुच्यते ‘परं ब्रह्म गन्तुं प्रवृत्तः’ इति चेत्? उच्यते— यः परं ब्रह्मात्मानं गतः स हि केवलानुभवानन्दरूपेणैवावतिष्ठते, न त्वहं ब्रह्मास्मीत्यनुसन्धत्ते, सर्वोपाधिलयेन तादृशानुसन्धानहेतोश्चित्तोपाधेरभावात्। तस्माद् यो ब्रह्मात्मनाऽवस्थास्यति स युक्तात्मा भवतीत्यभिप्रायाद् गन्तुं प्रवृत्त इत्युक्तम्। न च चिदात्मनो ज्ञानिनः कथं गन्तुं प्रवृत्तिरिति वाच्यम् , चिदात्माऽपि मायया बुद्ध्यादि- तादात्म्यं प्रतिपद्य संसारी भूत्वा शनैस्तत्तादात्म्यं विहाय कूटस्थात्मस्वरूपानुसन्धानेन स्वचिदात्मत्वं पुनः प्राप्तुं प्रवृत्त इव प्रतिभाति। सर्वस्य बन्धमुक्त्यादिव्यवहारस्य मायामयत्वाद् वस्तुतस्तदसिद्धेरस्माकमलङ्कार एवेति। १ननु त्रिगुणात्मिका देवेन विष्णुना क्रीडार्थं निर्मिता प्रकृतिर्माया। अस्या मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनामिव विचित्रकार्यकरत्वेन। यथा च ‘ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम्। आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्॥ तेन मायासहस्रं तच्छम्बरस्याशुगामिना। बालस्य रक्षता देहमेकैकश्येन सूदितम्॥’ इत्यादौ। अतो मायाशब्दो न मिथ्यार्थवाची। ऐन्द्रजालिकादिष्वपि केनचिन्मन्त्रौषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोगः। तथा मन्त्रौषधादिरेव च तत्र माया। सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात्। तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनौपचारिकः, मञ्चाः क्रोशन्तीति- वत्। अतः सत्यैव माया, ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर’मिति श्रुतेः। ‘त्वं हि लोकगतिर्देव न त्वां केचित् प्रजानते। ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्॥ योगनिद्रा महामाया’ इत्यादिप्रयोगाच्च। प्रकृतितत्त्वाभिमानिदेवता वा माया। उभयथाऽपि सत्यैव माया, न मिथ्येति कृत्वा कथं बन्धमुक्त्यादिव्यवहारस्य मिथ्यात्वम् , तद्धेतुमायाया वा? इति रामानुजीयपूर्वपक्षः। अत्रोच्यते— एषा गुणमयी पारमार्थिकी भगवन्मायैवेति मायायाः पारमार्थिकत्वं सत्यत्वं ब्रूते स्म रामानुजः। किमिदं मायानिष्ठं सत्यत्वम् ? अविनाशित्वरूपम् , यद्वा अर्थक्रियाकारिविचित्रकार्यजनकत्वरूपम्? नाद्यः, प्रकृतिपुरुषयोः परमात्मनि लयस्य त्वयैवोपन्यस्तत्वात्। ‘तस्मान्न विज्ञानमृतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज वस्तुजातम्।’ ‘सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्’, ‘अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते। तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम्॥ यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै। परिणामादिसम्भूतां तद्वस्तु नृप तच्च किम्’ इति पराशरेणोक्तमिति त्वयैवोदाहृतत्वात् , ‘नासतः’ इति श्लोकव्याख्यानावसरे नाशिद्रव्योपपादितस्य नाशित्वेन नाशिनो जगतः उपादानस्य प्रकृतेरपि नाशवत्त्वेन भाव्यत्वात् प्रकृतेः सत्यत्वे तदुपपादितस्य जगतोऽपि सत्यत्वप्रसङ्गात्। ‘ज्ञानं यथा सत्यमसत्यमन्यदि’त्यात्मनो ज्ञानाकारस्यैकस्यैव सत्यत्वम् , अन्यस्य प्रकृतित्वादेरज्ञानस्य चासत्यत्वं स्फुटमुक्तं हि पराशरेण। तस्मान्नास्ति मायायाः अविनाशित्वरूपं सत्यत्वं त्वन्मतेनापि। न द्वितीयः, अर्थक्रियाकारिकार्यजनकत्वस्य सत्यत्वे निद्राया अपि सत्यत्वप्रसङ्गात्। सा हि स्वाप्नप्रपञ्चं सृजति, माया यथा जाग्रत्प्रपञ्चम्। रज्जुसर्पभ्रमजनकाविद्याऽपि सत्या स्यादर्थक्रियाकारिकार्यजनकत्वात्। न च रज्जुसर्पादिर्नार्थक्रियाकारीति वाच्यम् , भ्रमकम्पादिकारित्वात्। भवतु वा प्रातिभासिकरजतस्य व्यावहारिकरजतवत् कटकाद्यर्थक्रियाकारित्वाभावः, न तावता व्यावहारिक- रजतस्य पारमार्थिकसत्यत्वम् , परमार्थतो रजतस्यैवाभावात्। न हि सुषुप्तावात्मनि रजतादिप्रपञ्चः प्रतिभाति। तस्माद् अर्थक्रियाकारि- विचित्रकार्यजनकत्वमात्रेण न मायायाः पारमार्थिकत्वम् , परमार्थतो मायायाः अभावात्। न हि विनाशि वस्तु परमार्थतोऽवतिष्ठते, परमार्थतोऽवस्थानविनाशयोर्विरुद्धत्वात्। यच्च विनाशि, वस्तुतस्तु तन्मिथ्यैव, यथा घटः, यथा वा रज्जुसर्पः। तस्माद् भाष्यार्कप्रकाशः १. अयं पूर्वपक्षः(७-१४) श्लोके रामानुजभाष्ये दृश्यते।

[[३८७]]

विनाशित्वान्मायाऽपि मिथ्यैव। अविनाशित्वमेव सत्यत्वप्रयोजकम् , नार्थक्रियाकारित्वादिकमिति सिद्धान्तात्। अथ यदीश्वरस्याविनाभूता शक्तिर्माया सत्यैव, ईश्वरवदित्युच्यते, तच्चासत् ; ‘जहात्येनां भुक्तभोगामजोऽन्यः’ इतीश्वरेण प्रकृतेः त्यक्तत्वश्रवणात्१। न ह्यविनाभूता त्यक्तुं शक्यते। नापि सत्येनेश्वरेण त्यक्ता माया सत्या भवितुमर्हति, मायायाः सत्यत्वे च ‘मायामेतां तरन्ति ते’ इति मायायास्तर्तव्यत्ववचनं च न सङ्गच्छते। न च - सत्यस्यापि नदीजलस्य बाहुभ्यां तरणवत् सत्याया अपि मायायाः प्रपदनेन तरणमुपपद्यत इति - वाच्यम् , नाशरहितत्वेन मायायाः पारायोगात् , पारप्राप्तेरेव तरणत्वात् , पारस्य च नाश- रूपत्वात्। न हि पारे नदीस्वरूपमस्ति। नदीस्वरूपाभावस्यैव पारत्वात् , तद्वन्मायाया अपि पारो नाश एव। न च - संसारमण्डले मायाऽस्ति, विष्णुपदे तु नास्ति, अतो मायातरणमुपपद्यत इति - वाच्यम् , सत्याया विष्णुपदेऽसत्त्वायोगात्। ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति ह्युक्तं भगवता। तथा विष्णुपदे अविद्यमानाया मायायाः सत्त्वं चायुक्तम्। अत एव माया मिथ्येत्युक्त- मस्माभिः। या हि सर्वत्र नास्ति सा मिथ्या, यथा घटः। व्यतिरेकेण यथा आत्मा। आत्मा हि सर्वत्रास्ति। अत एव तस्य न कदाचिद- प्यभावः। अत एव स सत्यः। उक्तं हि पराशरेणापि‘ज्ञानं सत्यमसत्यमन्यद्’ इति। तस्मान्माया विनाशित्वान्मिथ्यैव, न सत्या। विचित्रकार्यकरत्वेनास्याः मायाशब्दवाच्यत्वमित्येतदस्माकमिष्टमेव, ऐन्द्रजालिकशक्तेरपि विचित्रकार्यकारिण्या मायाशब्द- वाच्यत्वात्। सर्वस्यापि प्रपञ्चस्य मायामयत्वे राक्षसास्त्रादीनां मायामयत्वमस्माकमिष्टमेव। शम्बरस्य मायासहस्रमित्यत्रापि मायाशब्दो मिथ्यार्थ पर एव, चक्रनाश्यत्वलक्षणमिथ्यात्वस्य सत्त्वात्। किञ्चासुरकल्पिता मायाः प्रातिभासिक्य एव रज्जुसर्पादिवन्न पुनर्व्यावहारि- क्योऽपि, ऐन्द्रजालिकादयश्च प्रातिभासिक्य एव। यदुक्तम् ऐन्द्रजालिकमणिमन्त्रादिकल्पितार्थानां मिथ्यात्वेऽपि मणिमन्त्रादिरूपा माया सत्यैवेति, तदपहासास्पदम्। सर्वत्र शक्तेरेव मायापदवाच्यत्वादीश्वरशक्तिर्मायेति त्वयाऽप्यभ्युपगम्यत्वात् , मणिमन्त्रादिगतविचित्रशक्तेश्च मायायाः विचित्रकार्यानुमेयायाः सत्यत्वस्य दुर्वचत्वात् , मिथ्याकार्यजनकशक्तेरमिथ्यात्वस्यासम्भवात् , शक्तेः सत्यत्वे तत्कार्यस्यापि सत्यत्वापत्तेः, गन्धर्वनगरादि- कार्यानुमेयाया मणिमन्त्रादिशक्तेः कार्यकाल एव सत्त्वेन कार्यकालात् प्राक् पश्चाच्चाभावेन रज्जुसर्पस्येव प्रातिभासिकत्वसिद्धेः; प्रातिभासिकत्वस्यैव मिथ्यात्वात्। इन्द्रजालशक्तिमत्सु मणिमन्त्रादिषु मायाशब्दवाच्यत्वे सति ऐन्द्रजालिकेऽपि तद्वाच्यत्वप्रसङ्गात् , लोके तथा प्रसिद्ध्यभावात् , न ह्यैन्द्रजालिकं तन्मण्यादिकं वा लोको मायेति प्रपद्यते, किं तर्हि? इन्द्रजालमेव। मण्यादिकं तु मायासाधनमिति प्रत्येति। पिञ्छाभ्रमणमात्रेण ऐन्द्रजालिको गगने गन्धर्वनगरं निर्मातीत्युक्तौ पिञ्छाभ्रमणपदस्य मायेत्यर्थ इति न हि कोऽपि विवेकी ब्रूते, किं तर्हि? मायामयत्वाद् गन्धर्वनगरमेव मायेति वक्ति। पिञ्छाभ्रमणं तु तादृशमायाजननसाधनमिति। तथा च मणिमन्त्रादयो मायावत् पदार्था एव, न तु माया। मणिमन्त्रादिशक्तिस्तु माया। सा तु मणिमन्त्रादेः सकाशात् पृथक्सत्त्वासत्त्वाभ्यां दुर्निरूपेति मिथ्यैव। यत्तु अर्थस्य मिथ्यात्वेऽपि तद्विषयबुद्धिः पारमार्थिकीति, तदसत् , बुद्धेः पारमार्थिकत्वव्यावहारिकत्वप्रातिभासिकत्वानां विषयाधीनत्वात्। ब्रह्मेति बुद्धिः पारमार्थिकी, विषयस्य ब्रह्मणः पारमार्थिकत्वात्। घट इति बुद्धिर्व्यावहारिकी, विषयस्य घटस्य व्यावहारिकत्वात्। रज्जौ सर्प इति बुद्धिः प्रातिभासिकी, विषयस्य रज्जुसर्पस्य प्रातिभासिकत्वादिति सिद्धान्तात्। विषयस्यैव मिथ्यात्वे तद्विषयकविज्ञानस्य सत्यत्वं ह्ययुक्तम्। अन्यथा भ्रमप्रमाज्ञानयोरैक्यप्रसङ्गात्। न च भ्रान्तिज्ञानमपि स्वरूपतः सत्यमिति वाच्यम् , रज्जौ ‘अयं सर्पः’ इति ज्ञाने विषयस्य सर्पस्यासत्यत्वे ‘अयं सर्पः’ इति ज्ञानस्य कथं सत्यत्वम्? यत्तु विषयातिरिक्तं शुद्धं ज्ञानस्वरूपं, तदात्मैव; तस्य चोत्पादकं किमपि नास्ति, अजत्वादविक्रियत्वाच्चात्मनः; अतो न मिथ्यार्थविषयस्य ज्ञानस्य पारमार्थिकत्वम् , ‘तदभाववति तत्प्रकारकानुभवोऽयथार्थानुभवः’ इति न्यायशास्त्राच्च, विषयसत्यत्वासत्यत्वयोरेव ज्ञानसत्यत्वासत्यत्वप्रयोजकत्वस्य लोकतः सिद्धत्वाच्च। एवं मिथ्यार्थविषयज्ञानस्यापि सत्यत्वे ‘अग्निना सिञ्चेदि’ति वाक्यजन्यज्ञानस्यापि सत्यत्वापत्तेरप्रामाण्यमेव स्यात् सर्प[ज्ञान]स्य। तस्मादनिर्वचनीयेश्वरशक्तिरेव माया, इन्द्रजालशक्तिवत्। एवमनिर्वचनीयत्वादेव मायाकार्ये जगत्यपि मायात्व- भाष्यार्कप्रकाशः अ. ७. श्लो. १८ ] १. अस्मिन् मन्त्रे अजो जीवः, नेश्वरः। अतः ईश्वरेण मायायास्त्यक्तत्वे कथमिदं प्रमाणमिति चिन्त्यम्।

[[३८८]]

व्यवहारः।१(अनिर्वचनीयत्वं मिथ्यात्वस्य लक्षणम्।) न चैवम् ‘ऋते मायां विशालाक्षी’मित्यादिप्रयोगानिर्वाह इति वाच्यम् , मायावत्यां विशालाक्ष्यां मायाशब्दप्रयोगात्। अन्यथा लक्ष्म्याद्याकारपरिणतमायावच्छिन्नचैतन्ये कथं मायाशब्दप्रयोगः स्यात्? न हि लक्ष्म्यादयश्चैतन्यशून्यजडप्रकृतिरूपाः। न च प्रकृतिरपि चेतनैवेति वाच्यम् , ‘ईक्षतेर्नाशब्दम्’ इति प्रकृतेरचेतनत्वस्य शारीरकसूत्रे सिद्धान्तितत्वात्। लक्ष्मीपार्वत्यादीनां ब्रह्म- विष्ण्वादीनां वा शरीरगत एव स्त्रीत्वपुंस्त्वभेदो, न त्वात्मगत इति कथं लक्ष्म्यादीनां स्त्रीणां प्रकृतित्वं, ब्रह्मादीनां पुंसामीश्वरत्वं च? न कथमपि। जगन्नियमनादिकं तु विष्णोरिव लक्ष्म्या अपि सङ्गच्छत एवात्मत्वात्। अतो विष्णुरिव लक्ष्मीरपीश्वर एव, न माया। एवं ईश्वरत्वेन मायावत्त्वादेव लक्ष्म्यां मायाशब्दप्रयोगः। यदा तु लक्ष्म्या ईश्वरशक्तित्वेन परिग्रहस्तदा लक्ष्मीर्मायैव, न त्वीश्वरः, विवक्षाधीनत्वाच्छब्दप्रवृत्तेः। कथमन्यथा ‘तव पूर्वपरिग्रहा’मित्युच्येत पूर्वपरिग्रहत्वम्? लक्ष्म्या विष्णोरनपायिन्याः परिग्रहात्प्राग् विष्णोर्मायावित्वासिद्धेः। न च - प्रकृतिर्देहाद्याकारपरिणता, माया तु तदभिमानिदेवता लक्ष्मीरिति - वाच्यम् , देहाद्याकारपरिणतप्रकृतेरेव मायात्वात् , अग्न्यादीनां वागाद्यभिमानिदेवतात्वात् , विराट् पुरुषस्यैव कृत्स्नप्रपञ्चाभिमानिदेवतात्वात् , लक्ष्म्या एव विराट् पुरुषत्वे तल्लाभेऽपि मायात्वालाभात्। सति तु मायात्वे लक्ष्म्या अपि मिथ्यात्वापत्तेः। न हि निर्विशेषचैतन्यरूपा लक्ष्मीर्माया भवितुमर्हति, किन्तु मायाविन्येव, जगज्जननादिसामर्थ्यरूपमायायाः लक्ष्म्यामपि सत्त्वात्। तस्माल्लक्ष्म्याः शक्तिरेव माया, न तु लक्ष्मीः। सा च शक्तिः ‘निस्तत्त्वा कार्यगम्याऽस्य शक्तिर्मायाऽग्निशक्तिवद्’ इति पञ्चदश्युक्तरीत्या निस्तत्त्वा मिथ्यैव। तदेवं मायामयत्वाद् बन्धमुक्त्यादिव्यवहारस्य मिथ्यात्वं सुस्थितम्॥१८॥

बहूनामिति। पुरुषः बहूनां जन्मनामन्ते ‘वासुदेवः सर्व’मिति ज्ञानवान् सन् मां प्रपद्यते। यद्वा पुरुषः बहूनां जन्मनामन्ते ज्ञानवान् सन् वासुदेवः सर्वमिति मां प्रपद्यते। अथवा बहूनां जन्मनामन्ते ज्ञानवान् पुरुषः ‘वासुदेवः सर्व’मिति मां प्रपद्यते। स महात्मा सुदुर्लभः। पशुपक्ष्यादिबहुजन्मान्त इति भ्रान्तिवारणायाहज्ञानार्थसंस्काराश्रयाणामिति। आत्मसाक्षात्कारजनकयोगादि- सुकृतजन्यसंस्काराश्रयाणामित्यर्थः। अनेकेषु सहस्रेषु मनुष्यजन्मसु प्राग् योगी कर्मी वा भूत्वा वेदान्तविचारं वा कृत्वा ज्ञानार्थसंस्कारमुपचित्य इदानीं जन्मनि तत्संस्कारवशाद् वेदान्तविचारे प्रवृत्त्य ज्ञानं प्राप्तवानित्यर्थः। किं तज्ज्ञानम्? अत आह परिपाकेति। फलभूतमात्मसाक्षात्कारात्मकं ज्ञानं प्राप्त इत्यर्थः। आत्मैवेदं सर्वमित्याकारिकां ज्ञानस्य परां काष्ठां प्राप्त इति वा। प्रपद्यते निरन्तरं भजते, साक्षात्करोतीति वा। कथं प्रपद्यत इत्याक्षिपति— कथमिति। कथं ज्ञानवानिति वाऽऽक्षिपति— कथमिति। सर्वस्य भाष्यार्कप्रकाशः ज्ञानी पुनरपि स्तूयते— बहूनामिति। बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्त- परिपाकज्ञानो मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते। कथम्? वासुदेवः सर्वमिति। य एवं सर्वात्मानं मां बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९॥

[आनन्दगिरिकृतव्याख्या]

उत्तरश्लोकस्य गतार्थत्वं परिहरति— ज्ञानीति। ज्ञानार्थसंस्कारो वासना तत्तज्जन्मनि पुण्यकर्मानुष्ठानजनिता बुद्धिशुद्धिः, तदा- श्रयाणां तद्वताम् अनन्तानां जन्मनामिति यावत्। ज्ञानवत्त्वं प्राक्तनेष्वपि जन्मसु सम्भावितमित्याशङ्क्याह— प्राप्तेति। ज्ञानवतो भगवत्प्रतिपत्तिं प्रश्नद्वारा विवृणोति— कथमिति। यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति— य एवमिति। महत् सर्वोत्कृष्टमात्मशब्दितं १. अयं पाठः कुण्डलित एव दृष्टः। सदसद्विलक्षणत्वम् अनिर्वचनीयत्वम्। तद् मिथ्यात्वरूपमपि भवति। प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वादिरूपमपि मिथ्यात्वं निरुक्तं ग्रन्थकारैः। प्रकृते च अनिर्वचनीयत्वोक्त्या मिथ्यात्वमात्रं विवक्षितमिति कुण्डलितपाठार्थः।

[[३८९]]

वासुदेवत्वे स्वस्यापि वासुदेवत्वं सिद्धमिति भावः। यद्वा सर्वमप्यहमेव ममैव वासुदेवत्वात् , सर्वस्य च वासुदेवमयत्वादिति भावः। वसति सर्वभूतेष्विति वासुः, दीव्यति स्वयं प्रकाशत इति देवः, वासुश्चासौ देवो वासुदेव आत्मा, आत्मन एव सर्वान्तरत्वात् स्वयम्प्रभ (व)त्वाच्च। दीपादिप्रातिलोम्येनाञ्चति भासत इति प्रत्यक्। दीपादयो हि स्वात्मानमन्यांश्च परस्मै भासयन्ति। आत्मा तु स्वात्मानमन्यांश्च स्वस्मै भासयतीति दीपादिप्रातिलोम्यादात्मा प्रत्यक्छब्दवाच्यः। यद्वा प्रति सर्वमञ्चति, गच्छति, व्याप्नोति, जानातीति वा प्रत्यक्, सर्वव्यापी सर्वसाक्षी चेत्यर्थः। अतति सर्वं व्याप्नोतीत्यात्मा, उभयोः कर्मधारयः। प्रत्यगात्मा अहंशब्दलक्ष्यार्थः कूटस्थः; तच्छब्दलक्ष्यार्थस्तु परमात्मा; उभयोश्च चिन्मात्रत्वाद् एकत्वं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मी’त्यादिश्रुतिसिद्धम्। अत एव भाष्ये क्वचिद् वासुदेवं परमात्मानं, क्वचित् प्रत्यगात्मानं च प्रतिपादयति भाष्यकारः। प्रत्यगात्मपरमात्मशब्दयोरेकार्थवाचित्वाभिप्रायात्। स इति तच्छब्दार्थमाह— य इति। सर्वेषामात्मा सर्वात्मा तं सर्वभूतात्मभूतमित्यर्थः। नारायणं परमात्मानं वासुदेवम् एवम् उक्तरीत्या वासुदेवः सर्वमिति विधयेत्यर्थः। यः प्रपद्यते स इत्यर्थः। महात्मा समाभ्यधिकरहितः, समाभ्यधिकराहित्यं हि महत्त्वम् ; तच्चात्मनः स्वतःसिद्धमेव। आत्मान्यस्य सर्वस्य मिथ्यात्वेन तस्य समाभ्यधिकवस्तुरहितत्वात्। आत्माल्पं वस्तु तु जगदस्त्येव यावद्व्यवहारम्। व्यवहारेऽपि आत्मनः सम[म् अ]धिकं वा वस्तु नास्ति। आत्मन एकस्यैव चेतनत्वादीश्वरत्वाच्च। आत्मान्यस्य जगतोऽचेतनत्वात् परतन्त्रत्वाच्चेति भावः। अत उक्तम्—न तत्समोऽन्योऽस्त्यभ्यधिको वेति। ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेरिति भावः। न च ईश्वरपरा सा श्रुतिर्न ज्ञानिपरेति वाच्यम् , ज्ञानिन आत्मत्वादात्मन ईश्वरत्वाच्च सर्वासामपीश्वरपरश्रुतीनां ज्ञानिनि समन्वयलाभात्। यथा अज्ञानिनि जीवे सर्वजीवश्रुतिसमन्वयलाभः। नन्वज्ञस्य जीवत्वमनुभवसिद्धम् , प्राज्ञस्येश्वरत्वं तु नानुभवसिद्धम् , यस्मिन् कस्मिन्नपि ज्ञानिनि सर्वज्ञत्वसत्यकामत्वा- दीश्वरधर्माणामनुपलम्भादिति चेत् , उच्यते— सर्वं ब्रह्मेति ज्ञानमेव सर्वज्ञत्वम् , न तु सर्वप्रपञ्चद्रष्टृत्वम्। तथा सत्ये आत्मनि काम एव सत्यकामत्वम् , न त्वमोघतृष्णत्वम्। तच्च ज्ञानिनि दृश्यत एवेति। अथवा ये सर्वज्ञत्वादयो धर्मा भवद्भिरीश्वरे दृश्यन्ते, न ते धर्मा ईश्वरगताः, किन्तु मायागता एव। सच्चिदानन्दा एवेश्वरगतधर्माः। ते तु ज्ञानिन्यपि सन्तीति। यद्वा विष्ण्वादिशरीरोपाधिके आत्मनि ये सर्वज्ञत्वादिधर्माः सन्ति, ते ज्ञानिशरीरोपाधिकेऽप्यात्मनि सन्त्येव , आत्मन एकत्वात्। न चैवमज्ञानिशरीरोपाधिकेऽप्यात्मनि सन्तीति वाच्यम् , इष्टापत्तेः। परन्तु अज्ञ आत्मानं न वेत्तीत्यत उक्तम्— ज्ञानिशरीरोपाधिकेति। तथा च एकस्यैवात्मन ईश्वरस्य विष्ण्वादि- शरीरप्रदेशेषु सर्वज्ञत्वाद्युपलम्भः। अस्मदादिशरीरप्रदेशेषु किञ्चिज्ज्ञत्वाद्युपलम्भः। इयं च निष्प्रदेशे आत्मनि प्रदेशकल्पना मायिकैव [मायिक्येव]। यथा एकस्मिन्नेव गगने क्वचित् प्रदेशे बहुजलमेघोपलम्भः, क्वचिन्निर्जलमेघोपलम्भः४, तद्वत्। अतो न जीवेश्वर- भेदावकाशः सर्वज्ञत्वादिधर्मनिमित्तः कल्पयितुं शक्यते आत्मनि पूर्णे एकरूपे। वस्तुतस्तु हिरण्यगर्भचतुर्भुजत्रिलोचनषडाननगजाननलक्ष्मीपार्वतीसरस्वतीप्रभृतयः, इन्द्रयमवरुणादयः, आदित्यचन्द्राग्न्या- दयः, पितरो वसवः सिद्धसाध्यादयो, मनुष्याः, पशुपक्षिसरीसृपकीटादयः, व्रीहिवृक्षलतादयः, स्थावराश्च सर्वेऽपि प्राणिनः जीवा एव, ‘जीव प्राणधारणे’ इति धातोः प्राणित्वस्य प्राणधारणस्य जीवधर्मत्वात्। ‘अप्राणो ह्यमनाः शुभ्रः’ इति श्रुत्या ईश्वरस्याप्राणत्वाच्च। न चाप्राणाः पाषाणादय ईश्वर इति वाच्यम् , तेषां शुभ्रत्वभारूपत्वाद्यभावात्। हिरण्यगर्भादीनां जीवत्वस्य सूत्रभाष्यादिसिद्धत्वात्। वैभवमस्येति महात्मा। महात्मत्वे फलितमाहअत इति। तत्र वाक्योपक्रमानुकूल्यं कथयति— मनुष्याणामिति॥१९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

नारायणं १प्रतिपद्यते, स महात्मा - न तत्समोऽन्योऽस्ति, अधिको वा२, अतः सुदुर्लभः। ‘मनुष्याणां सहस्रेषु’ (भ.गी. ७.३) ३इति ह्युक्तम् ॥१९॥

१. ‘प्रपद्यते’ इति पा.। २. ‘न तत्समोऽन्योऽस्त्यभ्यधिको वा’ इति पा.। ३. ‘इत्युक्तम्’ इति पा.। ४. गगने प्रदेशभेदः कल्पितत्वेन संप्रतिपन्नः इति स दृष्टान्तः। तथा च एकस्मिन्नेवात्मनि विरुद्धत्वाभिमतानामपि सर्वज्ञत्वकिञ्चिज्ज्ञत्वादिधर्माणां नात्मभेदकत्वसंभव इति भावः। नैयायिका अपि आत्मविशेषगुणानां शरीरावच्छिन्नात्मप्रदेशे उत्पत्त्या ऽव्याप्यवृत्तित्वं वदन्तः अंशतोऽत्र संप्रतिपन्नाः।

[[अ. ७. श्लो. १८-१९]] [[३९०]]

‘हिरण्यगर्भः समवर्तताग्रे’ इति श्रुत्या हिरण्यगर्भस्यैव १प्रथमजीवस्योक्तत्वात्। चतुर्भुजादीनां सर्वेषां हिरण्यगर्भसन्ततिगतत्वात्। विराट् पुरुषस्यापि हिरण्यगर्भपुत्रत्वात्। हिरण्यगर्भश्च सत्यलोकस्वामी ब्रह्मा। ईश्वरो हि स्वयमविकारी सन् हिरण्यगर्भादिद्वारेण सृष्ट्यादिकं करोति। अत एव ‘धाता यथापूर्वमकल्पयद् इति हिरण्यगर्भस्य स्रष्टृत्वमुपपद्यते। एवं चतुर्भुजत्रिलोचनयोः रक्षकत्वनाशकत्वे। त्रयोऽपीमे सत्यलोकाधिपतय एवेति केचित्। एकस्यैव सत्यलोकस्य सत्यवैकुण्ठकैलासात्मना भेदादिति। यथा एकैव भूः भारतादिखण्डभेदभिन्ना। वैकुण्ठकैलासौ २सत्यादर्वाक्तनावित्यन्ये। अयमेव सत्यलोकः सगुणमुक्तिक्षेत्रमिति व्यवह्रियते। इमे ब्रह्मविष्णुरुद्रास्त्रयोऽपि स्वयम्भुव इति केचित्। हिरण्यगर्भ एव स्वयम्भूः, विष्णुरुद्रौ तत्पुत्राविति परे। विष्णुः स्वयम्भूः, ब्रह्मा तत्पुत्रः, रुद्रस्तु तत्पौत्र इत्यपरे। रुद्रः स्वयम्भूः, ब्रह्मविष्णू तत्पुत्रावित्यन्ये। स्वयंप्रभवत्वेऽपि मायाया इवैषामुत्पत्तिलक्षणो विकारोऽस्त्येव, स्वयं भवति जायत इति स्वयम्भूरिति व्युत्पत्तेः। मायामयत्वाच्च तद्विग्रहादीनाम्। ततश्च सर्वथा शरीरेन्द्रियप्राण- मनोभृत एते त्रयोऽपि कार्यत्वाज्जीवा एव। एक एव ह्यज ईश्वरः, अशरीरत्वात् तस्य जन्मायोगात्। सशरीराणां च जन्ममरणयो- रवर्जनीयत्वात् जन्ममरणादिविकारशालिनो ये ते जीवाः संसारिण एवेति सिद्धान्तात्। हिरण्यगर्भस्य द्विपरार्धावसायित्वेन नाशश्रवणात्। तस्मादर्वाक्तनानां ब्रह्मदिनप्रलयादिष्वेव नाशसम्भवात्। एवं हिरण्यगर्भस्यैव जन्ममृत्युग्रस्तत्वेन जीवत्वे तत्सृष्टानामिन्द्रादीनां देवानां, दक्षादीनां प्रजापतीनां, सनकादीनां परमहंसानां, नारदादीनामृषीणां, पितृसिद्धसाध्यादीनां, मनुष्यपशुपक्ष्यादीनां, वृक्षादीनां वा जन्ममृत्युग्रस्तानां जीवत्वे का विप्रतिपत्तिः? न काऽपीत्यर्थः। एवं रामकृष्णाद्यवताराश्च वैष्णवाः शरीरित्वेन जन्मजरामरणसुखदुःखादिविकारग्रस्तत्वाज्जीवा एव। विष्णोरेव शरीरित्वेन लक्ष्मीवियोगसंयोगादिसुखदुःखादिमत्त्वेन च जीवत्वे का पुनस्तदवताराणां जीवत्वे विप्रतिपत्ती रामकृष्णादीनाम्? तथा च जन्मादिविकारवत्त्वस्य जीवलिङ्गत्वात् , सशरीरस्य च जन्मादिविकारवत्त्वात् सशरीरा ब्रह्मविष्ण्वादयः सर्वेऽपि जीवा एव। अशरीर एक एवात्मा। एवं स्थिते जीवेश्वरविभागे ये सर्वज्ञत्वसर्वशक्तित्वोपलक्षितेश्वरत्वेन तवान्यस्य वा अभिमताः ब्रह्मविष्णुरुद्रादयः ते सर्वेऽपि जीवा एवेति कथं जीवस्यासर्वज्ञत्वासर्वशक्तित्वासम्भवः? कथं वा निर्विकारे ईश्वरे निर्धर्मके सर्वज्ञत्वादिसम्भवः? तस्मात् किञ्चिज्ज्ञत्वादिगुणवानिव सर्वज्ञत्वादिगुणवानपि जीव एवेश्वरः३। ब्रह्मादिष्वीश्वरत्वव्यवहारस्तु भूपालादिषु नृणामीश्वरत्वव्यवहारवत्। जीवोऽपि भूपालो यथा प्रजाः पालयन्नीश्वर इत्युच्यते, तथा ब्रह्मादिरपि लोकान् सृजन् , अवन् , हरंश्चेश्वर इत्युच्यते। न च - ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुत्या सृष्टिस्थितिलयानामीश्वरधर्मत्वमुक्तमिति - वाच्यम् , अस्मदादिशरीरसृष्टिस्थितिलयहेतुब्रह्मादि- जीवसृष्टिस्थितिलयहेतुत्वेन परमकारणत्वादीश्वरस्य जगत्सृष्ट्यादिव्यवहारः। यथा पुत्रदेहसृष्टिहेतुं पितृदेहं सृष्टवतः पितामहदेहस्य पुत्रदेहस्रष्टृत्वम् , तद्वत्। यथा वा भूखण्डपालकराजाधिराजस्य भूपालकत्वम् , तद्वत्। यथा प्रजापतिद्वारा हिरण्यगर्भस्य जगत्स्रष्टृत्वं तथा हिरण्यगर्भद्वारा जगत्स्रष्टृत्वमीश्वरस्येति बोध्यम्। हिरण्यगर्भाद्याकारपरिणतमायाधिष्ठानत्वाद्वा हिरण्यगर्भादिस्तम्बान्तजगदा- कारेण विवर्तमानत्वाद्वा। तस्माद् हिरण्यगर्भादिस्तम्बान्तयावच्छरीरिजातस्य सिद्धं जीवत्वम्। तत्र केषाञ्चित् सर्वज्ञत्वं केषाञ्चित् १. हिरण्यगर्भं प्रकृत्य ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इति स्मृतौ प्रथमशरीरित्वोक्तेरिति भावः। तस्य प्रथमत्वं जीवान्तरेभ्यः पूर्वमभिव्यक्तत्वं धर्मज्ञानाद्यतिशयवत्त्वं वा। इत्थमेव ‘ब्रह्मा देवानां प्रथमः संबभूव’ (मु.उ. १-१-१) इत्यत्र भाष्यकारैर्व्याख्यातम्। २. सत्यात् सत्यलोकादित्यर्थः। ३. वस्तुतो ज्ञानस्वरूपस्यात्मनः ज्ञातृत्वमौपाधिकमेव संभवति। ज्ञातृत्वं हि ज्ञानकर्तृत्वं ज्ञानवत्त्वपर्यवसितम्। सर्वज्ञ इति च सर्वविषय- ज्ञातृत्वमभिप्रेतम्। न च तत् ज्ञानस्वरूपे तस्मिन् अनौपाधिकमुपपद्यते। अत एव भाष्यकारैः गीताद्वितीयाध्याये विदुषो जीवस्यापि विद्वत्त्वमौपाधिकमेव निरूपितम्— ‘यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्याविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेक- विज्ञानेन बुद्धिवृत्त्या विद्ययाऽसत्यरूपयैव परमार्थतोऽविक्रिय एवात्मा विद्वानुच्यते।’(पृ.७८) इति। अतश्च निर्विकारे आत्मनि न मुख्यवृत्त्या सर्वज्ञत्वादिसम्भवः। परन्तु जीवस्यैव सर्वज्ञत्वसंभवाद् ब्रह्मविष्णुरुद्राणां जीवत्वोक्तिः एतदीया नान्येषां ग्रन्थकाराणामनुमता। अत एव ‘हिरण्यगर्भो नाम मूर्तित्रयादन्यः प्रथमो जीवः’ इति वेदान्तपरिभाषा। मूर्तित्रयादन्यः इति विशेषणात् ब्रह्मविष्णुरुद्रलक्षणमूर्त्यन्तर्भावेण जीवत्वं नाभिमतमिति गम्यते। भाष्यार्कप्रकाशः

[[३९१]]

किञ्चिज्ज्ञत्वं च तरतमभावेन सिद्धम्। अतो न ज्ञानिन्यात्मनीश्वरधर्मसर्वज्ञत्वाद्यसम्भवदोषः, सर्वज्ञत्वादीनामीश्वरधर्मत्वाभावात् , जीवधर्मत्वाच्च। बुद्धिधर्मा हि ते। साभासबुद्धयश्च जीवाः संसारिणः। न च ‘सर्वज्ञः सर्वविद्’ इति श्रुतिविरोधः, सर्वावभासकत्वलक्षण- सर्वज्ञत्वस्य तत्र विवक्षितत्वात्। अथवा क्षेत्रशब्दवाच्यं सर्वं जगद् आत्मैक एव जानातीति स क्षेत्रज्ञः सर्वज्ञ एव। य एनं क्षेत्रज्ञमात्मानं१ वेद स ज्ञान्यपि सर्वज्ञ एव। एवं क्षेत्रज्ञात्मवित्त्वादेव हिरण्यगर्भादीनां सर्वज्ञेश्वरत्वम्। न च हिरण्यगर्भादयो जीवा इति पूर्वोक्तविरोधः, कार्यकरण- सङ्घाताभिमानिदृष्ट्या तेषां जीवत्वम् , आत्मदृष्ट्या त्वीश्वरत्वमिति सिद्धान्तेनाविरोधात्। यं कार्यकरणसङ्घातं चतुर्मुखत्वचतुर्भुजत्व- त्रिलोचनत्वद्विभुजत्वचतुष्पात्त्वादिविशेषवन्तं त्वं ब्रह्मविष्णुरुद्रमनुष्यपश्वादिं मन्यसे, स सर्वोऽपि जीव एव, विकारित्वात्। यस्तु तस्य सर्वस्यान्तर आत्मा दृश्यस्य द्रष्टा क्षेत्रज्ञ आत्मा ईश्वरः, स चैक एवेति ज्ञानी ईश्वर एवात्मत्वात्। अज्ञास्तु जीवा एवानात्मत्वात्। कार्यकरणसङ्घातं हि ते अनात्मानमात्मानं मन्यन्ते। श्रुतयश्च हिरण्यगर्भादीन् क्वचिदीश्वरान् ब्रुवन्ति आत्मदृष्ट्या, क्वचिज्जीवान् ब्रुवन्ति सङ्घातदृष्ट्येति न विरोधः।२ नन्वेवं संसारिजीवस्यासंसार्यात्मनश्च भेदे सिद्धे कथमद्वैतसिद्धिरिति चेत्? उच्यते— यः सङ्घातमात्मानं मन्यते, स सङ्घाताभिमानी जीव एव वेदान्तश्रवणादिना ज्ञातविवेकःसन् सङ्घातातिरिक्तक्षेत्रज्ञमेवात्मानं मन्यते। ततश्च क्षेत्रज्ञः आत्मैव भवति। तथा च जीवस्यैव वस्तुतः क्षेत्रज्ञत्वादद्वैतसिद्धिः। ननु यः सङ्घातं क्षेत्रज्ञं वा आत्मानं मन्यते, स किमात्मा? उतान्यः? नाद्यः, आत्मनस्तथाविधमननासम्भवात्। नान्त्यः, अन्यस्य३ आत्मबुद्ध्ययोगात् क्षेत्रज्ञे। तद्योगे वा तद्बुद्धेर्भ्रान्तिरूपत्वादिति चेत् , मैवम् ; आत्मैव मायया प्राप्तजीवभावः सन्नात्मानं मायया सङ्घातं मन्यते, विद्यया त्वात्मानं क्षेत्रज्ञं कूटस्थमिति। यथा पुरुषः आत्मानं निद्रया हस्त्यादिरूपं मन्यते, प्रबोधेन तु यथापूर्वं मनुष्यम् , तद्वत्। न च कथमविकार्यात्मनः माययाऽपि विकारिजीवत्वमिति वाच्यम् , मायायां तर्काद्यसम्भवात्। रज्ज्वादेरपि मायया सर्पाद्याकारेण प्रतीयमानत्वात्। ४वस्तुतः आत्मनि जीवत्वासम्भवस्य चास्माकमलङ्कारत्वात्। तस्मादेक एवात्मा क्षेत्रज्ञ ईश्वरः मायया हिरण्यगर्भादिस्तम्बान्तशरीरिजीवभावमापन्नःसन् बद्ध इव, मुमुक्षुरिव, मोक्षाय यतमान इव प्रतिभाति; मुक्त इति च व्यवह्रियते; वस्तुतस्तु नात्मनि बद्धमुक्तादिव्यवहारः, ५‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥’ इति शास्त्रात्। य एवमात्मतत्त्ववित् स ज्ञानी सर्वज्ञ ईश्वर आत्मा नारायण एव। एवंविधश्च ज्ञानी दुर्लभ एवेत्याहअत इति। अनेकजन्मसञ्चितज्ञानार्थसंस्कारपरिपाकजन्यत्वादात्मज्ञानस्येत्यर्थः। स ज्ञानी सुष्ठु दुर्लभः प्राप्तुमशक्यः। अस्य दुर्लभत्वे पूर्वोक्तगीतावाक्यमेव प्रमाणयति— मनुष्याणामिति। अनेकसहस्रेष्वपि मनुष्येषु तत्त्वविदेकोऽपि लभ्येत वा, न वेति भावः। एवं ज्ञानिदौर्लभ्योक्त्या आत्मतत्त्वज्ञानस्य दुर्लभत्वं सिद्धम् । ६तेन च आत्मनो दुर्लभत्वं सिध्यति। इदं चात्मनो दुर्लभत्वम् ‘आश्चर्यवत् पश्यति कश्चिदेनम्’ इति प्रागेवोक्तम्। अहो भगवन्माया ! यतः सर्वात्मभूतत्वेन सर्वप्रत्यक्षं सर्वसुलभमपि कूटस्थचैतन्यमासीत् परोक्षं सुदुर्लभम् ; यतश्चात्म- न्यप्यनात्मभ्रमः, अनात्मन्यप्यात्मभ्रमो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां जीवानाम् !॥१९॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. ७. श्लो. १९ ] १. आत्मानमिति । स्वाभिन्नमिति यावत्। २. अत्र ‘हिरण्यगर्भस्तु उपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः। संसारित्वं तु क्वचिदेव दर्शयन्ति। जीवानामुपाधिगताशुद्धिबाहुल्यात् संसारित्वमेव प्रायशोऽभिलप्यते। व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः।’ (बृ.उ. १-४-६) इति भाष्यमनुसंधेयम्। ‘सोऽबिभेत्’ (बृ.उ.१-४-२) ‘स वै नैव रेमे’(बृ.उ.१-४-३) इत्यादि क्वाचित्वं हिरण्यगर्भस्य संसारित्वप्रदर्शनमिति बोध्यम्। ३. अन्यस्यानात्मनो जडत्वादिति भावः। समाधत्ते—मैवमिति। ४. परमार्थत इत्यर्थः। ५. निरोधः प्रलयः, विश्वस्येति शेषः। उत्पत्तिप्रलयादिमत्त्वेनाभिमतस्य द्वैतस्यापरमार्थत्वात् तदभावः, आरोपितस्य सर्पादेः उत्पत्तिप्रलयाद्यनुपलम्भादिति भावः। उत्पत्तिप्रलयादिप्रतीतिस्तु मायिकीत्यभिप्रेत्योक्तम्— इत्येषेति। अत्र निरोधाद्यभावः परमार्थ इति नार्थः, किन्तु कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरिक्तत्वात् सर्वकल्पनास्पदमद्वैतमेतच्छब्दपरामृष्टं परमार्थः इत्यर्थः। एतत्सूचनाय इतिशब्दः। एषेति स्त्रीत्वं तु परमार्थतेति विशेष्यानुरोधेन। भावार्थस्याविवक्षणात् स्वार्थे तल्प्रत्ययः। ६. आत्मलाभस्य तत्साक्षात्कारात्मकत्वात् तद्दौर्लभ्यमेवात्मनो दौर्लभ्यमिति भावः।

[[३९२]]

‘आत्मैव १सर्वं वासुदेवः’ इत्येवमप्रतिपत्तौ कारणमुच्यते— कामैरिति। कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतविवेकविज्ञानाः प्रपद्यन्तेऽन्यदेवताः प्राप्नुवन्ति वासुदेवादात्मनोऽन्या देवताः, तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमस्तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया आत्मीयया॥२०॥

किमिति तर्हि सर्वेषां प्रत्यग्भूते भगवति यथोक्तज्ञानं नोदेतीत्याशङ्क्य ‘न मा’मित्यत्रोक्तं हृदि निधाय ज्ञानानुदये हेत्वन्तरमाह— आत्मैवेति। कामैर्नानाविधैरपहृतविवेकविज्ञानस्य देवतान्तरनिष्ठत्वमेव प्रत्यग्भूतपरदेवताप्रतिपत्त्यभावे कारणमित्याह— कामैरिति। देवतान्तरनिष्ठत्वे हेतुमाह— तं तमिति। प्रसिद्धो नियमो जपोपवासप्रदक्षिणानमस्कारादिः। नियमविशेषाश्रयणे कारणमाह— प्रकृत्येति ॥२०॥

[आनन्दगिरिकृतव्याख्या]

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥२०॥

कामैरिति। ननु सर्वोऽपि ‘आत्मैव वासुदेवः सर्व’मिति कुतो न प्रतिपद्यत इत्याक्षिपति— आत्मैवेति। ‘वासुदेव आत्मैव सर्व’मित्येवम् अप्रतिपत्तौ प्रतिपत्त्यभावे, सर्वस्येति शेषः।अन्यदेवता इति। किमपेक्षयाऽन्यत्वम्? अत आह—आत्मनो वासुदेवादिति। देवता इत्येवालम् , मनुष्यपश्वादिवद् देवतानामप्यनात्मत्वात् , देवत्वादेः शरीरधर्मत्वात्। अन्यशब्दस्तु स्पष्टार्थः। आत्मनः सकाशाद् अनात्मानो देवा [देवताः] अन्या इति देवतानामनात्मतां स्फुटयितुमन्यशब्दप्रयोग इति भावः। यो यो यां यां देवतां जन्मान्तरे आराधितवान् तत्संस्कारवशादिह जन्मनि स स तां तां भजत इत्याह— प्रकृत्या नियताः स्वयेति। अत्र रामानुजः— प्रकृत्या पापवासनया नियता अन्यदेवताः विष्णुव्यतिरिक्तेन्द्रादिदेवताः आश्रित्यार्चयन्त इति। तदसत् , पापवासनया नियतानां देवताभजनायोगात् , देवतानाराधकानां नास्तिकानां पापिनां सत्त्वात् , विष्णुदेवाराधनवद् इन्द्ररुद्रादिदेवाराधनस्यापि पुण्यवासनाप्रयुक्तत्वात् , इन्द्रादिदेववद् विष्णुदेवस्यापि देवत्वजातिमत्त्वेन तदाराधकस्य रुद्रादिदेवा- राधकेभ्य उत्कर्षस्य दुर्वचत्वात्। यथा विष्णुविग्रहः शुद्धसत्त्वमयस्तथा शिवविग्रहोऽपि शुद्धसत्त्वमय एव। एवं ब्रह्मादिविग्रहा अपि सत्त्वमया एवेति वैष्णवशैवहैरण्यगर्भकौमारशाक्तेयादिप्रवादात् , नृसिंहाद्यवतारेषु विष्णोरपि तमोगुणदर्शनात् , दक्षिणामूर्त्याद्यवतारेषु शिवस्यापि सत्त्वगुणदर्शनात्। एकस्यैवेश्वरस्यात्मनः मायाविनः मायानिष्ठसत्त्वादिगुणभेदेन - स्रष्टृत्वविवक्षायां ब्रह्मेति, पालकत्वविवक्षायां विष्णुरिति, संहर्तृत्वविवक्षायां रुद्र इति च नामभिर्व्यवहारः, न तु ब्रह्मविष्णुरुद्राणां शरीरिणामीश्वरत्वम् , शरीरित्वेश्वरत्वयोर्विरुद्धत्वादिति सिद्धान्तेन विष्णुदेवस्य सत्त्वमयत्वं, ब्रह्मदेवस्य राजसत्वं, रुद्रदेवस्य तामसत्वं वा कल्पयितुमशक्यं हि । सर्वेषामपि देवानां सात्त्विकत्वात् , मनुष्याणां राजसत्वात् , वृक्षादीनां तामसत्वाच्च सत्त्वगुणोद्रेकं विना देवजन्मायोगात्। मलिनसत्त्वात्मिकाविद्या हि जीवोपाधिः, शुद्धसत्त्वात्मिका तु मायेश्वरोपाधिरिति स्थिते कथं मायोपाधिकयोर्ब्रह्मरुद्रयोः राजसतामसत्वे? कथं वा एकस्येश्वरस्य त्रित्वप्रसक्तिः? तस्मान्न ब्रह्मविष्णुरुद्रास्त्रयोऽपि शरीरिण ईश्वरभूताः, किं तर्हि? एकस्यैवेश्वरस्य ब्रह्मविष्णुरुद्रनामानि सृष्टिस्थितिसंहारप्रयुक्तानि। ततश्च अन्यदेवतापदेनैव विष्णुदेवोऽपीन्द्ररुद्रब्रह्मादिदेववद् गृह्यते, देवत्वात्। तस्य च विष्णुदेवस्यान्यत्वमात्मापेक्षयाऽस्ति, अनात्मत्वाद् देवस्य मनुष्यादिवत्। एवमात्मनोऽन्यान् विष्णुं रुद्रं ब्रह्माणमन्यं वा यो य उपास्ते स सर्वोऽपि तत्कामहृतज्ञान एव। यो निष्कामो मोक्षकामो वा स एक एवात्मानमुपास्ते प्रपद्यते वा। ये तु चित्तशुद्ध्यर्थं निष्कामा अपि १. ‘सर्वः’ इति पा.। भाष्यार्कप्रकाशः

[[३९३]]

तेषां च कामिनां— य इति। यो यः कामी यां यां देवतातनुं श्रद्धया संयुक्तो भक्तश्च सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि, ययैव पूर्वं प्रवृत्तः॥२१॥

विष्ण्वादीनुपासते ते तु मध्यस्था एव; न त्वज्ञानाः प्राज्ञा [न त्वज्ञाः, नापि प्राज्ञाः] इति बोध्यम्। साकारब्रह्मोपासनत्वात् तस्य। न च - ‘मोक्षमिच्छेज्जनार्दनाद्’ इति स्मरणाद् विष्णूपासनं मोक्षप्रदमिति - वाच्यम् , तत्र जनार्दनशब्दस्यात्मवाचित्वात्। अथवा चित्तशुद्धिद्वारा विष्णूपासनं ज्ञानप्रदत्वान्मोक्षप्रदमिति। एवं ‘ज्ञानं महेश्वरादिच्छेद्’इति महेश्वरोपासनस्यापि ज्ञानप्रदत्वमुक्तमेव। किं बहुना? निष्कामःसन् यं कमपि देवं सर्वेश्वरत्वेनोपास्ते चेत् तेन चित्तशुद्धिर्भवेदेव, न तु विष्णुमेवेत्यादिर्नियमः, निर्गुणब्रह्मणि कल्पितानां सर्वासां व्यक्तीनां सगुणब्रह्मत्वेन व्यपदेशात् , मायया शरीरेन्द्रियादियुक्तं ब्रह्म हि सगुणब्रह्म। इदं सगुणब्रह्मत्वं पाषाणदार्वादिष्वप्यस्ति। कथमन्यथा श्रीरङ्गनायकजगन्नाथस्वाम्यादीनां सगुणब्रह्मत्वम्? परन्त्वज्ञाः पाषाणादिकं सगुण- ब्रह्मेति न जानन्ति, किन्तु पाषाणत्वादिरूपेणैव प्रतिपद्यन्ते। अत एव ‘वासुदेवः सर्वमिति स महात्मा सुदुर्लभः’ इत्युक्तम्। न च निर्गुणब्रह्मविदेव महात्मेति वाच्यम् , निर्गुणब्रह्मविदेव सगुणब्रह्मविच्च। न हि निर्गुणत्वसगुणत्वयोर्भेदेऽपि ब्रह्मभेदः। निर्गुणमेकमेव ब्रह्म सर्वजगद्रूपेण सगुणं सत् परिणतं माययेति यो वेद स एव हि ब्रह्मवित्। स एव महात्मा। तस्मादिन्द्रादिदेववद् विष्णुदेवोऽप्यनात्मैव। अथवा विष्णुदेववदिन्द्रादिदेवोऽपि सगुणब्रह्मैवेति न रुद्रादिदेवोपासनापेक्षया विष्णुदेवोपासनस्य प्राशस्त्यम् , किन्तु सर्वदेवभजनापेक्षया आत्मभजनमेव प्रशस्तमिति स्थितम्॥२०॥

यो य इति। तेषां च कामिनां मध्ये। तनुं देवतामित्यर्थः, आत्मनि देवतात्वादिजात्यभावात् , शरीर एव तत्सत्त्वात्। अनेन च ये देवतोपासकास्ते अनृतजडदुःखात्मकशरीरोपासका एव, न त्वात्मोपासका इति स्पष्टम्। यो यो भक्तः यां यां तनुं श्रद्धया अर्चितुमि- च्छति तस्य तस्य तामेव श्रद्धामहमचलां विदधामि; तामेव तत्तद्देवताविषयामेवेत्यर्थः। अत्र रामानुजः— यां यामादित्यादिरूपामन्तर्यामिणो मम तनुमिति, ‘य आदित्ये तिष्ठन् यस्यादित्यः शरीर’मिति श्रुतेः— इत्याह। तदस्मन्मतरीत्या युक्तमपि स्वमतरीत्या विरुद्धमेव। तथाहि— चिदचिद्विशिष्टः सकलकल्याणगुणनिलयः दिव्यमङ्गलविग्रहो हि विष्णुः शङ्खचक्रादिदिव्यायुधधरः परमेश्वरस्तव मते, तस्य कथमन्तर्यामित्वम् ? कथं वा आदित्यादिशरीरवत्त्वम्? आदित्यादिशरीराणि हि तत्तदभिमानिजीवसम्बन्धीनि, तत्तच्छरीर- सम्बन्धादेवादित्यादीनां जीवत्वव्यवहारात्। जीवस्य च १शारीरकत्वस्य शारीरकसूत्रभाष्यादौ स्थापितत्वात्। न चादित्यादिशरीरेषु आदित्यादिजीवाः सन्ति, तेष्वीश्वरोऽस्तीति वाच्यम् , अणुपरिमाणेषु निरवयवेषु च जीवेषु दिव्यमङ्गल- विग्रहस्येश्वरस्य सत्त्वायोगात् , मध्यमपरिमाणस्य चिदचिद्विशिष्टस्य च चिदन्तःस्थित्ययोगात्। अस्मन्मतरीत्या तु सर्वात्मनः ईश्वरस्य सर्वमपि शरीरभूतमेवेति सर्वस्येश्वरतनुत्वोपपत्तिः। न चैवं सर्वस्यापीश्वरशरीरत्वे अशरीरेश्वरश्रुतिविरोध इति वाच्यम् , वस्तुतोऽशरीरस्यापीश्वरस्य मायया सशरीरत्वमिति सिद्धान्तात्। न च माययाऽप्यशरीरस्य कथं सशरीरत्वसम्भव इति वाच्यम् , मायायां सर्वसम्भवात् , असम्भावितसर्वार्थसम्भावनस्यैव मायात्वात्॥२१॥

तत्तद्देवताप्रसादात् कामिनामपि सर्वेश्वरे सर्वात्मके वासुदेवे क्रमेण भक्तिर्भविष्यतीत्याशङ्क्याह— तेषां चेति॥२१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥२१॥

अ. ७. श्लो. २०-२१ ] १ ‘अनुपपत्तेस्तु न शारीरः’ (१.२.३) ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’ ( १.२.२०) ब्रह्मसूत्रेषु शारीरपदस्य जीवरूपार्थे एव प्रयोगात्। परमते तु — जगच्छरीरकः परमात्मा शारीरः, ‘तस्यैष एव शारीर आत्मा’ इति श्रुतेः। तद्विषयकं शास्त्रं शारीरकमित्युच्यते। द्र. श्रुतप्रकाशिका १-१-१।

[[३९४]]

स तया श्रद्धया युक्तः तस्या राधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान्॥२२॥

स इति। मद्विहितया मया स्थिरीकृतयेत्यर्थः, न तु मयोत्पादितयेति, स्वभावत एवोत्पन्नत्वात्। देवतातन्वाः देवतारूपा- यास्तन्वा इत्यर्थः। देवतायाः कार्यकरणसङ्घाताभिमानीन्द्रादिजीवस्य तनुः शरीरम् , तस्या इति वा। चेष्टते करोति। (तस्याः सकाशात्) राधनम् आराधनम् , पूजामिति यावत्। स्वाभाविकश्रद्धया देवतामर्चितुमिच्छति; मत्स्थिरीकृतश्रद्धया तु देवतामर्चतीति विवेकः। विहितान् निर्मितान् , न तु दत्तानित्यर्थः। एतद्देवतोपासकस्य एतत्कामलाभ इति सव्यवस्थं निर्मितानित्यर्थः। एतेनेश्वरकृतां व्यवस्थामनतिक्रम्यैव तत्तद्देवतास्तं तं कामं तस्मै तस्मै सेवकाय दिशन्ति, न तु स्वातन्त्येणेति सर्वस्येश्वरपारतान्त्यं सूचितम्। स तया श्रद्धया युक्तःसन् तस्या राधनमीहते। मयैव विहितान् तान् कामान् ततो लभते च। हिशब्दस्य शेषपूरणेन वाक्यान्तरत्वं दर्शयति— हि यस्मादिति। यस्मात् ते कामा मयैवैतदर्थं विहितास्तस्मादेते तान् कामान् लभन्ते तत्तद्देवताद्वारेणेत्यर्थः। ४हिशब्दमात्रस्य वाक्यान्तरीकरणमस्वरसमित्यभिप्रेत्याह— हितानिति। हितप्रायानित्यर्थः। कामिभिर्हितत्वेनाभिप्रेतानिति यावत्। उपचरितम् आरोपितमित्यर्थः। गौणोऽयं कामेषु हितत्वव्यवहारो, न मुख्य इति भावः। तत्रोपपत्तिमाहन हीति। प्रिया एव कामाः, न तु हिताः, संसारबन्धहेतुत्वादिति भावः। हि तानिति पदच्छेदेऽपि हिशब्दस्य प्रसिद्ध्यर्थमुक्त्वा एकवाक्यान्वयः सुकर एव। परन्तु ईश्वरो देवतोपासकार्थं कामान् निर्मितवानिति कोऽपि न वेदेति तदर्थस्याप्रसिद्धत्वाद्धिशब्दस्यात्र प्रसिद्ध्यर्थकथनमनुपपन्नमिति भाष्यकारहृदयम्। मयैव विहितानिति पदाभावे तु उपासको देवतायाः सकाशात् कामान् लभत इत्येतावत उक्तौ हिशब्दस्य प्रसिद्ध्यर्थत्वमुपपद्यत एव, तदर्थस्य सर्वविदितत्वात्। रामानुजस्तु— तत्तद्देवताराधकस्यापि तत्तत्कर्मानुगुणः तत्तत्फलप्रदोऽहमेवेति व्याचख्यौ; तदपि युक्तमेव, तत्तत्फलप्रद- देवताकारपरिणतमायाधिष्ठानस्येश्वरस्य तत्तत्फलप्रदत्वमिति। वस्तुतः फलप्रदत्वं तु विरुद्धमेव निर्धर्मकत्वादात्मनः ॥२२॥

स्वभावतो जन्मान्तरीयसंस्कारवशादित्यर्थः। भगवद्विहितया स्थिरया श्रद्धया संस्काराधीनया देवताविशेषमाराधयतोऽपि भगवदनुग्रहादेव फलप्राप्तिरित्याह— यो यामिति। ईहते निर्वर्तयतीत्यर्थः। आराधितदेवताप्रसादात् फलप्राप्तौ किमीश्वरेणेत्याशङ्क्य तस्य सर्वज्ञस्य कर्मफलविभागाभिज्ञस्य तत्तद्देवताधिष्ठातृत्वात् तस्यैव फलदातृत्वमित्याह— सर्वज्ञेनेति। ‘एको बहूनां यो विदधाति कामान्’ इत्यादिश्रुतिमाश्रित्य२ ‘हि तान्’ इति पदद्वयं व्याचष्टे— यस्मादिति। हितानित्येकं पदमिति पक्षं प्रत्याह३— हितानिति। मुख्यत्वसम्भवे किमित्यौपचारिकत्वमित्याशङ्क्याह— न हीति ॥२२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स्वभावतो १यो यां देवतातनुं श्रद्धयाऽर्चितुमिच्छति— स तयेति। स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते। लभते च ततः तस्याः आराधिताया देवतातन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितांस्तान् , हि यस्मात् ते भगवता विहिताः कामाः, तस्मात् तान् अवश्यं लभते इत्यर्थः। हितानिति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् , न हि कामाः हिताः कस्यचित्॥२२॥

१. ‘यो यो या यामिति।’ इति पा.। २. फलमत उपपत्तेः (ब्र.सू. ३.२.३९)इति न्यायोऽप्यनुसंधेयः। ३. कामेषु वस्तुतोऽहितेषु औपचारिकहितत्वकल्पनाप्रयुक्तो ऽस्वरसोऽत्र पक्षेऽभिप्रेतः आनन्दगिर्याचार्याणाम्। ४. रामकवेस्तु पूर्वत्र वाक्यभेदः—यस्मात् ते भगवता विहिताः कामाः, तस्मात् तान् अवश्यं लभते—इति। उत्तरत्र तु तदैक्यमिति इति उत्तरमेव व्याख्यानमभिप्रेतम्।

[[३९५]]

अन्तवत्तु फलं तेषां तद् भवत्यल्पमेधसाम्। देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३॥

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। अन्तवदिति। अन्तवान् साधनव्यापारः कारकव्यापारो येषां ते अन्तवत्साधनव्यापाराः। अतः कामिनामन्तवत्साधनव्यापा- रत्वादित्यर्थः। अल्पमेधसां ‘नित्यमसिच्प्रजामेधयो’रित्यसिच्। यजन्ते पूजन्ते। यज देवपूजादिष्विति धातुपाठः। मद्भक्ता आत्म- सेविनः, मामात्मानमनादिमनन्तं सच्चिदानन्दमयमीश्वरं परब्रह्म यान्ति; मुच्यन्त इति यावत्। आयासो भजनश्रमः। इदं च देवयजनात्मभजनक्लेशसाम्यप्रतिपादनं स्थूलदृष्ट्यैव। सूक्ष्मदृष्ट्या तु अनेककारणोपसंहारपूर्वकदेवयजनमेवाति- क्लेशावहम्। आत्मयजनं तु सुलभमेव। ‘आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः’ इति प्रह्लादेनोक्तत्वाद् भागवते, कारकोपसंहारा- भावाच्च न कश्चिदपि क्लेशः। किन्तु विषयप्रवणस्य मनस आत्मन्यवस्थापनमेवेह क्लेशः। तच्चाविरक्तानां दुष्करमपि विरक्तानाम् अभ्यासवशेन सुकरमेव। विरक्तानां संन्यासिनामेव चात्मभजनेऽधिकार इति प्रागेवोक्तम्। तथा च देवयजने वाचिककायिकमानसिक- क्लेशास्त्रयः सन्ति, आत्मभजने तु मानसिकक्लेश एक एव। तस्मादात्मभजने देवयजनवन्नातीवायास इति बोध्यम्। अनन्तफलाय मोक्षायात्मसायुज्यायेति यावत्। कष्टतरमतिकष्टं वर्तते जनानामिति शेषः। अल्पमेधसां तेषां तु तत्फलमन्तवद् भवति। तुशब्दात्प्राज्ञानां निष्कामानां मद्भक्तानामनन्तं फलं भवतीति सूच्यते॥२३॥

अव्यक्तमिति। नन्वनन्तफलाय किमिति सर्वे परमात्मानमेव न प्रतिपद्यन्त इत्याक्षेपसङ्गतिं पूर्वोत्तरश्लोकयोर्दर्शयति— किन्निमित्तमिति। केन निमित्तेनेत्यर्थः। अबुद्धयः ममाव्ययमनुत्तमं परं भावमजानन्तः सन्तः मामव्यक्तं व्यक्तिमापन्नं मन्यन्ते। व्यक्तमिति भावे क्तः। व्यक्तिः प्रकाश इति यावत्। तन्न विद्यते यस्य तमव्यक्तम् ; प्रकाशोऽत्र ज्ञानम् ; तथा चाव्यक्तमज्ञातमिति फलितार्थः। व्यक्तिमापन्नं व्यक्तं, ज्ञातमिति यावत्। मन्यन्ते सम्भावयन्ति, उत्प्रेक्षन्त इति यावत्। ३नित्यप्रसिद्धं सदाऽप्यपरोक्ष- प्रेक्षापूर्वकारिणि कामानां हितत्वाभावे हेतुमाह— यस्मादिति। किञ्च ये कामिनस्ते न विवेकिनः। ततश्चाविवेकपूर्वकत्वात् कामानां कुतो हितत्वाशङ्केत्याह— अविवेकिन इति। कामानामनन्तफलत्वेन हितत्वमाशङ्क्याह— अत इति। तेषामविवेकपूर्वकत्वम् अतःशब्दार्थः। तुशब्दोऽवधारणार्थः। कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनामित्याशङ्क्य प्रज्ञामान्द्यादित्याह— अल्पेति। किं तर्हि साधनमनन्तफलायेत्याशङ्क्य भगवद्भक्तिरित्याह— मद्भक्ता इति। अक्षरार्थमुक्त्वा श्लोकस्य तात्पर्यार्थमाह— एवमिति। देवताप्राप्तौ चेति शेषः। ‘मामेवे’त्यादौ देवताविशेषं प्रपद्यन्तेऽन्तवत्फलायेति वक्तव्यम्। उक्तवैपरीत्ये कारणमविवेकातिरिक्तं नास्ती- त्यभिप्रेत्याह— अहो खल्विति॥२३॥

भगवद्भजनस्योत्तमफलत्वेऽपि प्राणिनां प्रायेण तन्निष्ठत्वाभावे प्रश्नपूर्वकं निमित्तं निवेदयति— किन्निमित्तमित्यादिना। अप्रकाशं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यस्माद् अन्तवत्साधनव्यापाराः अविवेकिनः कामिनश्च ते, अतः— अन्तवदिति। अन्तवद् विनाशि तु फलं तेषां तद् भवति अल्पमेधसाम् अल्पप्रज्ञानाम्। देवान् देवयजो यान्ति, देवान् १यजन्त इति देवयजः ते देवान् यान्ति, मद्भक्ता यान्ति मामपि। एवं समानेऽप्यायासे मामेव न प्रपद्यन्तेऽनन्तफलाय ।अहो खलु ! कष्टं२ वर्तन्त इत्यनुक्रोशं दर्शयति भगवान्॥२३॥

किन्निमित्तं मामेव न प्रपद्यन्त इत्युच्यते— अव्यक्तमिति। अव्यक्तम् अप्रकाशं व्यक्तिमापन्नं प्रकाशं गतम् १. ‘यजन्ति’ इति पा.। २. ‘कष्टतरं वर्तते’ इति पा.। ३. प्रतीकमिदं ३९८ पृष्ठे द्र.।

[[अ. ७. श्लो. २२-२४]] [[३९६]]

१. अस्मच्छब्दस्य ‘त्यदादीनि च’(पा.सू. १-१-७४) इति सूत्रेण वृद्धसंज्ञा। २. ‘ननु विषयिणः चिदेकरसस्य कुतो धर्माः ये विषयेऽध्यस्येरन्?’ इत्याक्षेपमुद्भाव्य पञ्चपादिकायामुक्तं समाधानमिदम्— ‘उच्यते—आनन्दः’ इत्यादि।(पृ. ४१) अत्र विवरणे— ‘अन्तःकरणवृत्त्युपाधौ नानेवावभासन्ते’ इति विवृतम्। वस्तुतो ऽभेदेऽपि भेदनिर्देशस्य औपचारिकत्वं तत्राभिप्रेतमिति भावः। ३. इयं कथा वाल्मीकिरामायणे उत्तरकाण्डे द्र.। (वा.रा. ७-५१ सर्गे) भाष्यार्कप्रकाशः मात्मत्वादिति भावः। परम् उत्कृष्टं भावं स्वरूपम् , सच्चिदानन्दात्मकं रूपमित्यर्थः। व्ययो नाशो, विकार इति वा। न विद्यते उत्तमो यस्मात् तम् अनुत्तमम्। मदीयं ममेदम् , १‘वृद्धाच्छः’। राहोः शिर इतिवद् भेदनिर्देश औपचारिकः, ईश्वरस्यैव सच्चिदानन्दरूपत्वेन सच्चिदानन्दानामीश्वरीयत्वायोगात्। अत एव हि— ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते’ इति प्रोक्तमार्यैः२। विषयानुभवः चैतन्यम् , नित्यत्वं सत्तेति विवेकः। आत्मैवेश्वरः इत्यविदित्वा परोक्षमीश्वरं वैकुण्ठादिगतं विष्ण्वादिकं मन्यमानाः, परोक्षो विष्णुरीश्वरोऽधुना श्रीकृष्णरूपेण भक्तानुग्रहार्थं दुष्टशिक्षणार्थं चावतीर्ण इति आत्मानात्मविवेकशून्या ईश्वरतत्त्वमविद्वांसो मूढा जना मन्यन्त इति निर्गलितार्थः। एतेनात्मपरमात्मभेदवादिनो द्वैतिनो विशिष्टाद्वैतिनश्च निरस्ताः। न च - सर्वेश्वरो विष्णुरजहत्स्वभाव एव वसुदेवसूनुरवतीर्णः इति ममैवं परं भावमजानन्तः प्राकृतराजसूनुसमानमितः पूर्वमनभिव्यक्तमिदानीं कर्मवशाज्जन्मविशेषं प्राप्य व्यक्तिमापन्नं मामबुद्धयो मन्यन्त इति रामानुजभाष्यात् कथमनेन श्लोकेन विशिष्टाद्वैतिनिरास इति - वाच्यम् , अयुक्तत्वात् तद्भाष्यस्य। तथाहि— कृष्णावतारस्येतः पूर्वमनभिव्यक्तत्वम् , इदानीं व्यक्तत्वं च सर्वविदितमेवेति कुतस्तज्ज्ञानस्याज्ञविषयत्ववर्णनम्? न हि त्रेतायुगे कृष्णावतारोऽस्ति; न वा कलियुगे, किन्तु द्वापरान्त एव। ततश्च तस्य पूर्वमव्यक्तत्वं मध्ये व्यक्तिमापन्नत्वं च सिद्धमेव। एवं तस्य व्ययोऽपि सिद्ध एव, द्वापरावसाने कृष्णावतारनाशेन कलियुगे तददर्शनात्। अतः कथमव्ययत्वं कृष्णावतारस्य? न च - लीलावशाद् व्यक्तिमापन्नं मां कर्मवशाद् व्यक्तिमापन्नं यतो मन्यन्ते ततस्ते अबुद्धय इति - वाच्यम् , मूले कर्मवशादिति पदाभावा(त्त)न्निर्मूलपदकल्पनस्य चाप्रमाणत्वात्। कल्पनेऽपि स्वेष्टासिद्धेः। तथाहि— भागवते विदुरमैत्रेयसंवादे भगवद्बादरायणेन कश्चित् प्रश्नोत्तरग्रन्थः कृतः; तं तावच्छृणु— ‘ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः। लीलया वाऽपि युज्येरन् निर्गुणस्य गुणाः क्रियाः॥

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषाऽन्यतः। स्वतस्तृप्तस्य च कथं निवृत्तस्य सदा स्वतः॥

अस्राक्षीद् भगवान् विश्वं गुणमय्याऽऽत्ममायया। तया संस्थापयत्येतद् भूयः प्रत्यभिधास्यति॥

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः। अविलुप्तावबोधात्मा स युज्येताजया कथम्॥

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः। अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः॥

एतस्मिन् मे मनो विद्वन् खिद्यते ज्ञानसङ्कटे। तन्मे पराणुद विभो कश्मलं मानसं महत्॥

स इत्थं चोदितः क्षत्त्रा तद्विजिज्ञासुना मुनिः। प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः॥

सेयं भगवतो माया यन्नयेन विरुद्ध्यते। ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्॥

यथार्थेन विना पुंसो मृषैवात्मविपर्ययः। प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिना॥

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः। दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः॥’ इति चिन्मात्रस्याविकारिणो निर्गुणस्येश्वरस्य कथं लीलयाऽपि गुणक्रियासम्बन्धः? देशकालादिभिरलुप्तज्ञानस्य तस्य कथं प्रकृतिसम्बन्धः? भगवतस्तस्य कथं दुर्भगत्वकर्मक्लेशौ भवतः इति प्रश्ननिष्कर्षः। मायया सर्वमप्युपपद्यते, यथा निद्रया जीवस्य स्वशिरश्छेदनादिकम् , यथा जलचलनवशाच्चन्द्रप्रतिबिम्बस्य चलनादिकम् , तद्वदात्मन्यसन्नप्यनात्मगुणो मायावशात् प्रतिभाती- त्युत्तरग्रन्थार्थः। एवं स्थिते निर्विशेषचिन्मात्रेश्वरस्य कथं लीलया वाऽपि जन्मादिसम्बन्धः? कथं वा कर्मवशात् तस्य जन्म नेत्यपि वक्तुं शक्यते? ३दैत्यहननार्थं भृगोर्भार्यां हत्वा तेन ‘अहमिव त्वमपि भार्यावियोगमनुभव’ इति दत्तशापःसन् विष्णुः तच्छापनिर्वहणार्थं

[[३९७]]

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

तत्पापक्षयार्थं च श्रीरामरूपेणावतीर्य सीतावियोगमनुबभूव हि१। तथा रामावतारे निगूढःसन् वालिनं हत्वा तत्पापफलभूतं किरातशरताडनकृतं शरीरवियोगं कृष्णावतारेऽनुबभूव हि२। तथा च जन्मान्तरार्जितसुकृतदुष्कृतप्रयुक्तसुखदुःखफलानुभवशालिनः कृष्णावतारादेः कथमकर्मप्रयुक्तत्वम्? कथं वा लीलया स्वदुःखप्रयोजककर्मकरणम्? न हि कोऽपि लीलयाऽग्नौ पतति। लीलाप्रयुक्ते वा कर्मप्रयुक्ते वा जन्मजरामरणसुखदुःखादिविकारजाते सति कथमीश्वरत्वमीश्वरस्य? निर्विकारो हीश्वरः, ‘अजो नित्यः’ इत्यादिश्रुतेः। तस्मादीश्वरस्य लीलया कर्मणा वा न कृष्णावतारपरिग्रहः सम्भवति। न च माययाऽपि न सम्भवतीति वाच्यम् , मायायां सर्वसम्भवात् , ईश्वरस्य न वस्तुतो जन्मादिविकारः, किन्तु मायया जन्मादियुक्त इवास्माकं प्रतिभातीति हि तदर्थः। तस्मान्नित्यशुद्धबुद्धसिद्धमुक्तस्वभावमात्मानमीश्वरं ये कृष्णात्मनाऽवतीर्णं परोक्षमीश्वरं मन्यन्ते, त एवाबुद्धयः। यद्यपि मायामयं कृष्णावतारं प्राकृतराजसूनुसमं ते[ये] मन्यन्ते, तेऽप्यबुद्धय एव। तथापि तदपेक्षयाऽप्यबुद्धयः पूर्वोक्ता इति बोध्यम्। आत्मानात्मविवेकशून्याः पूर्वोक्ताः, अनात्मस्वेव तारतम्यज्ञानशून्या एते इति भेदात्। ननु यथा राजसूनवः प्राकृता मायामयास्तथा कृष्णोऽपीति कथं कृष्ण एव मायामय इत्युच्यत इति चेत् , उच्यते— यथा व्यावहारिकसर्पस्यापि प्रातिभासिकसर्पवन्मायामयत्वे सत्यपि प्रातिभासिकसर्पमेव मायामयं ब्रुवन्ति लोकाः, तथा लोकदृष्ट्या कृष्णस्यैव मायामयत्वमिति। मायाकार्यभूतपरिणामत्वाद् भौतिकत्वेन प्राकृतत्वं राजसूनूनाम् , कृष्णशरीरस्य तु साक्षान्मायाकार्यत्वमेव, न तु भूतपरिणामत्वमित्यभौतिकत्वाद् अप्राकृतत्वेन मायामयत्वेन च व्यपदेशः। एवं च गगनगन्धर्वनगरादितुल्यः३ कृष्णावतारः। साक्षाद् गन्धर्वनगरादितुल्यास्तु प्राकृतराजसूनव इति सिद्धम्। गन्धर्व- नगरादीनामिन्द्रजालकल्पितानामिव मायाकल्पितस्य कृष्णावतारस्य प्रातिभासिकत्वेन मायामयत्वम्। एवमभौतिकत्वेन मायामयत्वादेव कृष्णावतारस्य गोवर्धनोद्धरणादिलोकातिगचेष्टासम्भवः। यथा वा निद्राजन्यस्य स्वाप्नगजादेः पर्वतोद्धरणादि- चेष्टासम्भवः। इयं च माया आत्मनः ईश्वरस्य स्वभाव एवेति बहुवारमुक्तम्। अत एव रामकृष्णादीनामीश्वरावतारत्वव्यवहारः। आत्ममाया- कार्यत्वाद् रामकृष्णादिशरीराणाम्। यद्यप्येक एवात्मा स्वमायया रामकृष्णादिरूपेणेव मनुष्यपश्वादिरूपेणापि परिणत एवेति रामकृष्णादीनामिव देवमनुष्य- पश्वादीनां सर्वेषामपीश्वरावतारत्वमेव सुवचम् , तथापि आत्मा साक्षात् स्वमायया रामकृष्णादिरूपेण परिणतः, महदहङ्कारभूतादिद्वारा तु मनुष्यादिरूपेण परिणत इति न मनुष्यादीनामीश्वरावतारत्वव्यवहारः। न च साक्षान्मायापरिणामस्य महत्तत्वस्येश्वरावतारत्व- व्यवहारापत्तिरिति वाच्यम् , इष्टापत्तेः। हिरण्यगर्भात्मकत्वाच्च महत्तत्त्वस्य। हिरण्यगर्भो हीश्वरस्य प्रथमावतारः। तस्यैव प्रथमत्वाज्जीवानाम्। तथा रुद्रमयस्याहङ्कारस्यापीश्वरावतारत्वमेव। तस्मादभौतिकत्वात् साक्षान्मायामया ईश्वरावताराः, अन्ये तु भौतिकत्वात् प्राकृता जीवावतारा इति स्थितम्। ननु दृश्यत्वजडत्वस्थूलत्वाद्यंशेष्वविशेषादेते देहा ईश्वरावताराः, एते पुनर्जीवानामिति कथं सुज्ञेयमिति चेत्? उच्यते— लोकातिगप्रभाववशादिति। येषु येषु देहेषु लोकातिगं चरित्रं दृश्यते ते ते ईश्वरदेहाः। यथा समुद्रपानहालाहलपानपर्वतोत्क्षेपण- दावानलकबलनसेतुनिर्माणस्तम्भोद्गमनभूम्युद्धरणवेदाहरणत्रिलोकाभिव्यापनादिलोकातिगकर्मभिः अगस्त्यशम्भुहनूमत्कृष्णदाशरथि- नरसिंहवराहमत्स्यवामनादीनामीश्वरावतारत्वम्। लोकसामान्यचरित्रास्तु जीवदेहाः, यथा मनुष्यादयः। अमुमेव भौतिकाभौतिकरूपजीवेश्वरदेहभेदमवलम्ब्य भौतिकदेहस्थमात्मानं जीव इति, अभौतिकदेहस्थमात्मानमीश्वर इति च व्यवहरन्ति। देहभेदाज्जीवांश्चानेकान् वदन्ति। ईश्वरं च देहभेदादेवानेकविधं ब्रुवन्ति। स्वस्वमतरीत्या तत्तद्देहावच्छिन्नमीश्वरं पृथक्पृथग् वदन्ति। अ. ७. श्लो. २४ ] १. प्रसिद्धेयं रामायणे कथा। २. किरातशरताडनं श्रीकृष्णस्य भागवतादौ प्रसिद्धम्। वालिवधप्रसङ्गस्य तत्र हेतुत्वं त्वन्वेषणीयम्। ३. मायया अवतारः प्रातिभासिकः इत्ययमेव स्वाशयः पूर्वं ‘संभवाम्यात्ममायया’ (भ.गी.४-६) इत्यत्रापि प्रकटितो रामकविना।

[[३९८]]

इदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तम् अबुद्धयः अविवेकिनः। परं भावं परमात्मस्वरूपम् अजानन्तो ऽविवेकिनः, ममाव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं भावमजानन्तो मन्यन्त इत्यर्थः॥२४॥

१तदीयमज्ञानं किन्निमित्तमित्युच्यते— नाहमिति। नाहं प्रकाशः सर्वस्य लोकस्य। केषाञ्चिदेव मद्भक्तानां प्रकाशोऽहमित्यभिप्रायः। योगमायासमावृतः योगो गुणानां युक्तिर्घटनम् , सैव माया योगमाया, तया योगमायया अयमेव जीवेश्वरव्यवहारः श्रुतिभिरप्यनूद्यते स्वमतमद्वैतं सिद्धान्तयितुम्। न हि पूर्वपक्षानुवादं विना सिद्धान्तः सुकरः। नैतावता जीवेश्वरविभागः श्रुत्यभिप्रेत इति भ्रमितव्यम् , अनुवादमात्रत्वात् तस्य। श्रुत्यभिमतमतं तु दर्शितमेव— आत्मैक एवेश्वर इति, तद्भिन्नाः सर्वेऽनात्मान इति, तत्र कल्पिता इति च। तथा च य एवमात्मानात्मविवेकशून्याः प्राकृताः ते हि रामकृष्णशङ्करागस्त्यहनूमदादींस्तत्तत्कार्यकरणसङ्घातविशेषात्मका- नीश्वरत्वेन प्रतिपद्यन्ते। ये तु विवेकिनः ते हि विध्वस्तनिखिलोपाधिकं निरस्ताशेषविशेषं सच्चिदानन्दं सर्वभूतान्तरस्थमात्मानमेकमेव ईश्वरं प्रतिपद्यन्ते इति सिद्धं ज्ञानिनामद्वैतम् , अज्ञानां च द्वैतम्। विशिष्टाद्वैतं तु सङ्कराणामेव, अश्रौतत्वाद् विशिष्टाद्वैतपदस्य। विशिष्टत्वाद्वैतत्वयोः सामानाधिकरण्यायोगाच्च। प्रतिपादितमिदं विस्तरेण मयैव सिद्धान्तबिन्दुव्याख्यानभूते सिद्धान्तसिन्धुनामके ग्रन्थे इत्यत इहोपरम्यते। तदेवम् अज्ञानसिद्धो द्वैतव्यवहारो मुमुक्षुभिर्नादरणीयः, द्वैतस्य भयहेतुत्वात् ‘द्वितीयाद्वै भयं भवती’ति श्रुतेः। अतश्चाभय- कामेनाद्वैतभाष्यमेव श्रोतव्यम् , तदर्थश्च मन्तव्यः, निदिध्यासितव्यः, ब्रह्मभूतत्वात् तदर्थस्य॥२४॥

नेति। कुत एवं परमात्मनस्तव स्वरूपं सर्वैरविदितमित्याक्षिपति— तदज्ञानं किन्निमित्तमिति। किं निमित्तं यस्य तत् किन्निमित्तम् ; केन निमित्तेन भवतीत्यर्थः। इत्यस्याक्षेपस्य समाधानमुच्यते— नाहमिति श्लोकेन। अहं सर्वस्य प्रकाशो न भवामि, अयं योगमायासमावृतो मूढो लोकः अजमव्ययं मां नाभिजानाति। प्रकाशत इति प्रकाशः प्रत्यक्ष इत्यर्थः। सर्वस्याप्यप्रकाश(क)त्वे तु ज्ञानमार्गसम्प्रदायस्यैवाप्रवृत्तिः स्यादत आह— केषाञ्चिदिति। ममात्मनो भक्ता मद्भक्ता आत्मरताः, तत्त्वविदः इति यावत्। आत्मतत्त्वविदामेव आत्मनि भक्तिः, यथा स्त्रीसौन्दर्यविदामेव स्त्रियां भक्तिः। सच्चिदानन्दलक्षणात्मस्वरूपवेदनाभावादेव लोकस्य नात्मरतिरिति भावः। गुरुशास्त्रादिना आत्मतत्त्वे ज्ञाते सति पुंसामात्मनि रतिर्भवति, तत आत्मसाक्षात्कारो जायते; एवंविधास्तु पुरुषाः सुदुर्लभा शरीरग्रहणात्पूर्वमिति शेषः। इदानीं लीलाविग्रहपरिग्रहावस्थायामित्यर्थः। प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तम् , नेत्याह— नित्येति। कथं तर्हि भगवन्तमागन्तुकप्रकाशं मन्यन्ते? तत्र अबुद्धयः इत्युत्तरम्। तद् विवृणोति— परमिति। ‘परम् अनुत्तम’मिति विशेषणद्वयं सोपाधिकनिरुपाधिकभावार्थम्॥२४॥

२अविवेकरूपमज्ञानं भगवन्निष्ठाप्रतिबन्धकमुक्तम्। तस्मिन्नपि निमित्तं प्रश्नपूर्वकमनाद्यज्ञानमुपन्यस्यति— तदीयमज्ञानमित्या- दिना। ‘त्रिभिर्गुणमयैः’ इत्यनौपाधिकरूपस्याप्रतिपत्तौ कारणमुक्तम् , अत्र तु सोपाधिकस्यापीति विशेषं गृहीत्वा व्याचष्टे— नाहमिति। तर्हि भगवद्भक्तिरनुपयुक्तेत्याशङ्क्याह— केषाञ्चिदिति। सर्वस्य लोकस्य न प्रकाशोऽहमित्यत्र हेतुमाह— योगेति३। अनाद्यनिर्वाच्या-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

परं भावमजानन्तो ममाव्ययमनुत्तमम्॥२४॥

नाहं प्रकाशः सर्वस्य योगमायासमावृतः। १. ‘तदज्ञानम्’ इति पा.। २. भ्रमरूपमज्ञानमित्यर्थः। ३. प्रकाशाभावे हेतुसमर्पकं योगमायासमावृतः इति भगवतो विशेषणम्। तच्च ‘यया योगमायया समावृतं माम्’ इत्यग्रिमश्लोकावतारिकानुगुणम्। रामकविमते तु लोकस्य विशेषणम्। ततश्चाग्रे ‘यया योगमायया समावृतो माम्’ (पृ ४००) इति पाठः स्यात्।

[[३९९]]

इति प्रागेवोक्तमत एवाह— केषाञ्चिदेवेति। अत्यल्पसंख्यानामेवेत्यर्थः। द्वित्रादीनामेवेति भावः। ननु केचिदेव त्वां जानन्ति , न तु सर्वे इत्यत्र को हेतुः? अत आह— योगमायेति। केषाञ्चिदेव शङ्करसनकनारदादीनां योगमाययाऽनावृतानामहं प्रकाशः, न तु सर्वस्य लोकस्य, योगमयासमावृतत्वात् सर्वस्येत्यर्थः। काऽसौ योगमायेत्यत आह— योग इति। गुणानां सत्त्वादीनां युक्तिर्योगः। युक्तिशब्दार्थमाह— घटनमिति। सैवेति। युक्तिरेवेत्यर्थः। योग एव माया योगमायेति समास इति भावः। ‘त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥’ इति पूर्वमेवोक्तं लोकस्य योगमायासमावरणप्रयुक्तमोहवत्त्वम्। सत्त्वादिगुणत्रयसंयोगवशाल्लोकस्य बुद्धिर्मोह- मापद्यते सुखदुःखनिद्रादिलक्षणम्। ततश्चैवं मूढो लोको मां नाभिजानाति; एवं गुणसंयोगमूढबुद्धित्वाल्लोकस्याहमप्रकाश इति भावः। १(योगमायाशब्दस्यार्थान्तरमाह— अथवा भगवत इति। चित्तस्य समाधानं समाधिः; प्रणिधानं चिन्तनं सङ्कल्प इति यावत्। ‘भगवतः सङ्कल्पः’ इत्येव पाठान्तरम्। तत्कृता माया अविवेकः। योगकृता माया योगमायेति मध्यमपदलोपसमासः। अथवा सः कृतो यया सा तत्कृता योगहेतुरित्यर्थः। योगहेतुर्माया योगमायेति समासः। स्वतो निर्विशेषस्य ब्रह्मणः मायायोगादेव सङ्कल्पः जगत्सर्गादिविषयः सम्भवति। अस्मिन् पक्षे माया नाम अज्ञानमेव भावरूपमिति।) लोकश्चात्र चिदाभास एव प्रमातृनामकः, न तु साक्षी प्रत्यगात्मा, साक्षिण एवावृतत्वे जगदान्ध्यप्रसङ्गात्। मामनात्मविलक्षणं स्वात्मभूतं परमात्माभिन्नं प्रत्यञ्चं नाभिजानाति। ननु यथा लोको योगमायासमावृतज्ञानः सन् त्वां न वेत्ति, तथा त्वमप्यात्मानं न वेत्सि किमित्यत आह— २ययेति। मम स्वाधीनमायत्वान्मायायाश्च मदीयत्वान्ममैव मायाप्रेरकत्वान्मत्परतन्त्रा मन्नियाम्या मद्दत्तशक्तिर्माया मां मोहयितुं न क्षमत इत्यर्थः। मदीया सतीति। मदीया भूत्वेत्यर्थः। तत्र दृष्टान्तमाह— यथेति। अन्यस्येति । ऐन्द्रजालिकादेरित्यर्थः। यथा ऐन्द्रजालिकप्रयुक्ता माया द्रष्टॄनेव मोहयति, न त्वैन्द्रजालिकम् , तद्वदित्यर्थः। एवं मायाऽमोहितत्वादेवेश्वरस्येश्वरत्वमिति भावः। अत्र लोकस्य योगमायासमावृतत्वं नाम घटादिवन्नाज्ञानविषयत्वम् , चैतन्यवन्नाज्ञानाश्रयत्वम् , किन्तु योगमायाप्रतिबद्ध- ज्ञानत्वमेव, परमेश्वरस्य ज्ञानं माया न प्रतिबध्नातीति वाक्यानुसारात्। व्यतिरेकदृष्टान्तो हि जीवस्येश्वरः। इदं च मायया प्रतिबद्धं ज्ञानं जीवस्य न स्वरूपचैतन्यम् , तस्यावरणे जगदान्ध्यप्रसङ्गात्। व्यापकस्य तस्य व्याप्यया माययाऽऽवृतत्वासम्भवान्मायाया अपि भासकत्वाच्च चैतन्यस्य। किं तर्हि? वृत्तिज्ञानमेव। मायया जीवावच्छेदकान्तःकरणस्य सत्यावृतत्वे वृत्तिज्ञानस्य प्रतिबन्धो भवति। अन्तःकरणे योगमायासञ्छन्ने सति अहं ब्रह्मास्मीति वृत्तिज्ञानं नोदेतीत्यर्थः। इदं च जीवावच्छेदकान्तःकरणगतं मायावृतत्वं जीवेऽध्यस्तमित्यभिप्रेत्योक्तम्—योगमायया समावृतो लोक इति। योग- मायासमावृतान्तःकरण इत्यर्थः। योगमायाप्रतिबद्धज्ञान इति फलितार्थकथनम्। अन्तःकरणावरणपूर्वकत्वाज्ज्ञानप्रतिबन्धस्य। न च ज्ञानमेव मायाऽऽवृतमिति किमिति नोच्यत इति वाच्यम् , उत्पन्नस्य ज्ञानस्य मायावरणासम्भवात्। अत एवोक्तम्— ज्ञानं न प्रतिबध्नातीति, न तु आवृणोतीत्युक्तम्। न च - ईश्वरस्यान्तःकरणाभावेन वृत्तिज्ञानस्यैवाभावात् कुत उक्तम्— परमेश्वरस्य ज्ञानं न भाष्यार्कप्रकाशः समावृतः सञ्छन्न इत्यर्थः। अत एव मूढो लोकोऽयं नाभिजानाति मामजमव्ययम् ॥२५॥

ज्ञानाच्छन्नत्वादेव मद्विषये लोकस्य मौड्यम्। ततश्च मदीयस्वरूपविवेकाभावान्मन्निष्ठत्वराहित्यमित्याह— अत एवेति॥२५॥

मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥२५॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. ७. श्लो. २४-२५ ] १. अत्र किञ्चिद् भाष्यवाक्यं रा.पाठानुसारेण लुप्तमिति प्रतीयते। तदेवं संभाव्यते—‘अथवा भगवतश्चित्तसमाधिर्योगः, तत्कृता माया योगमाया, तया योगमायया’ इति। आनन्दाश्रमपुस्तके तु पादटिप्पण्यामित्थं पाठान्तरं दृश्यते— ‘अथवा भगवतो यः संकल्पः स एव योगः, तद्वशवर्तिनी या माया तयाऽऽवृत इत्यर्थः। चित्तसमाधिर्वा योगः, तत्कृता माया योगमाया तया योगमायया’ इति। २. भाष्यमिदमुत्तरश्लोकावतरणिकागतं रा.पाठे पूर्वश्लोके स्थितम्।

[[४००]]

प्रतिबध्नाति मायेति, अप्रसक्तस्य निषेधो ह्यनर्थक इति - वाच्यम् , मायावृत्तिज्ञानसत्त्वादीश्वरस्य। न चेश्वरीयाऽपि माया कुत ईश्वरज्ञानं न प्रतिबध्नातीति वाच्यम् , ईश्वरावच्छेदकमायाया मायावरणाभावेन तदीयज्ञानस्य मायाप्रतिबन्धाभावात्। न हि माया स्वयमेव स्वमावृणुयात् , स्ववृत्तिं वा प्रतिबध्नीयात्। तस्मादीश्वरोपाधेरनावृतत्वादीश्वरस्य ब्रह्माहमस्मीति सदाऽपि ज्ञानमस्ति। जीवोपाधेरावृत- त्वाज्जीवस्य ज्ञानं प्रतिबद्धमिति सिद्धम्। ननु यदि जीवेश्वरयोः स्वरूपचैतन्यमनावृतम् , तर्हि तस्य कुतो न भानमिति चेत्? उक्तमेव जीवान्तःकरणस्यावृतत्वादिति। ननूक्तमेव, परन्तु तदयुक्तम् , अन्यस्यावरणमन्यस्याप्रकाश इति चेत् , नायं दोषः, चक्षुष आवरणे घटस्याप्रकाशदर्शनात्। न च घटो ऽप्यज्ञानावृत एवेति वाच्यम् , चक्षुषोऽन्तःकरणस्य वाऽङ्गुलिनाऽज्ञानेन वाऽऽवृतत्वे सति घटाप्रकाशसिद्धौ घटावारकज्ञानान्तराभ्युप- गमस्य व्यर्थत्वात्। तस्मान्न चैतन्यस्यावरणम्। ननु यद्येवं जीवेश्वरयोर्मायावृतत्वानावृतत्वाभ्यां भेदस्तर्हि कथमद्वैतसिद्धिरिति चेत्? उच्यते— यावद्व्यवहारं सत्यप्यौपाधिके भेदे परमार्थतश्चैतन्यैकरसत्वेन तयोरेकत्वाज्जीवेश्वरयोश्चैतन्यात्मना अद्वैतसिद्धिरिति॥२५॥

वेदेति। यत इति। यस्मादेवं पूर्वोक्तरीत्या परमेश्वरस्य ज्ञानं माययाऽप्रतिबद्धम् ; लोकस्य ज्ञानं तु मायया प्रतिबद्धम् , अतः एवं ममामायावृतत्वाल्लोकस्य च मायावृतत्वादित्यर्थः। हे अर्जुन! अहं समतीतानि वर्तमानानि भविष्याणि च भूतानि वेद, मां तु कश्चन न वेद। अहं त्विति तुशब्दो जीववैलक्ष- ण्यार्थः। प्रत्यगभिन्नः परमात्मा परमेश्वरोऽहंशब्दार्थः। न च मायावच्छिन्नचैतन्यस्य परमेश्वरस्य अन्तःकरणोपहितचैतन्यस्य प्रत्यगात्मनश्च कथमभेद इति वाच्यम् , मायावच्छि- न्नेश्वरस्य मायोपहितब्रह्मणश्चैक्यं तावत् सर्वविदितम् , अवच्छिन्नत्वोपहितत्वयोर्भेदेऽपि मायाया अभेदेनेश्वरब्रह्मणोरप्यभेदात्। एवं मायोपहितान्तःकरणोपहितयोः प्रत्यग्ब्रह्मणोरप्यभेद एव, उपाध्योर्भेदेऽप्युपहिताभेदात्। तथा मायावच्छिन्नान्तःकरणोपहितयोरप्यभेद एव, उपाध्योर्भेदेऽप्युपहिताभेदात्। यदेव चैतन्यं मायावच्छिन्नं मायोपहितं च तदेवान्तःकरणोपहितमपीति। न चैवम् अन्तःकरणा- वच्छिन्नं चैतन्यमपि तदेवेति जीवोऽपि प्रत्यगीश्वरब्रह्माभिन्न एवेति वाच्यम् , इष्टापत्तेः। तर्हि लोको मां न वेद अहं सर्वं वेदेति कुतो भेदेन निर्देशो जीवेश्वरयोरिति चेत्? उच्यते— उपाधिकृताज्ञत्वप्राज्ञत्व- संसारित्वासंसारित्वादिभेदादिति। न चैवं प्रत्यग्ब्रह्मणोरभेदेऽप्यस्ति प्रत्यगीश्वरयोर्भेद इति वाच्यम् , जीवस्येवेश्वरस्यापि स्वरूपत्वात् प्रत्यगात्मनः। न च ब्रह्मैवेश्वरस्य स्वरूपमिति वाच्यम् , प्रतीच एव ब्रह्मत्वात् , ब्रह्मणोऽन्तःकरणप्रदेशोपलभ्यमानत्वमात्रेण प्रत्यक्त्वस्योक्तत्वात्। तस्मात् प्रत्यगभिन्न एव परमेश्वरः। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या वेदाहं समतीतानि वर्तमानानि चार्जुन !। भविष्याणि च भूतानि मां तु वेद न कश्चन॥२६॥

यया योगमायया समावृतं मां लोको नाभिजानाति, नासौ योगमाया मदीया सती ममेश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति, यथाऽन्यस्यापि मायाविनो माया ज्ञानम् , तद्वत्। यत एवम् , अतः— वेदाहमिति। अहं तु वेद जाने मायया भगवानावृतश्चेत् तस्यापि लोकस्येव ज्ञानप्रतिबन्धः स्यादित्याशङ्क्याह— ययेति। न हीयं माया मायाविनो विज्ञानं प्रति- बध्नाति, मायात्वाल्लौकिकमायावत् , अथवा नेश्वरो मायाप्रतिबद्धज्ञानो मायावित्वाल्लौकिकमायाविवदित्यर्थः। भगवतो मायाप्रतिबद्ध- ज्ञानत्वाभावेन सर्वज्ञत्वमप्रतिबद्धं सिद्धमित्याह— यत इति। लोकस्य मायाप्रतिबद्धविज्ञानत्वादेव भगवदाभिमुख्यशून्यत्वमित्याह— मां

[[४०१]]

भविष्याणीति। भविष्यन्तीत्यर्थः। भूतानीति। प्राणिन इत्यर्थः। वेद जानामि; स्वरूपचैतन्येन मायावृत्त्या वेति भावः। सृष्टेः प्रागीश्वरस्य मायावृत्तिरूपेण सद्भावश्रवणात्। मां तु कश्चनाप्यविद्वान् प्राणी न वेद न जानाति। अविदुषामीश्वरस्यानात्मत्वेन परोक्षत्वादित्यभिप्रायः। न च - विद्वानिति किम् , सर्वोऽपि न वेदैवेति - वाच्यम् , सर्वस्याप्यनीश्वरत्वे शास्त्रप्रवृत्त्यनुपपत्तेः। न हीश्वरमविद्वांसः आचार्यव्यासादयः शुकादिभ्यः शिष्येभ्य ईश्वरतत्त्वमुपदिशेयुः। अत एवाह— मद्भक्तं मच्छरणमेकं मुक्त्वेति। आत्मभक्त आत्मैकशरणश्च स एक एव मां वेद, तस्यात्मतत्त्वज्ञत्वान्न ह्यात्मतत्त्वज्ञानं विना पुंसामात्मरत्यादिकं भवितुमर्हति। तस्य चात्मज्ञस्येश्वरोऽपरोक्ष एवात्मत्वादीश्वरस्य। यद्यपि विदुषामिवाविदुषामपीश्वर आत्मैव, तथाप्यविद्वांस ईश्वरमात्मानं न मन्यन्ते, किन्त्वन्यमेवेत्यत उक्तम्— विदुषामात्मैवेश्वरो, न त्वविदुषामिति। अविद्वांसो ह्यनात्मन्यन्तःकरणादावात्मबुद्धिं दधत इति तेषामन्तःकरणादिरेवात्मेति अन्तःकरणादिसङ्घाता एवाविद्वांसः प्राणिनः। विद्वांस्तु आत्मनीश्वरे एवात्मबुद्धिं धत्त इति विदुष ईश्वर एवात्मेति विद्वानात्मैवेश्वरः। न तु कार्यकरणसङ्घातरूपः प्राणी। तथा च विद्वानात्मैव मामात्मानं वेत्ति, न त्वन्यः कोऽपि प्राणीति युक्तमुक्तम्— मां तु वेद न कश्चनेति। सर्वाणि भूतानि अहमेव वेद, मामप्यहमेव वेद, किमपि भूतं मां न वेद, यो विद्वान् मां वेद स विद्वानात्माऽहमेवेति न ममान्यवेद्यत्वसम्भव इति फलितार्थः। ‘चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्’ ‘यन्मनसा न मनुते येनाहुर्मनो मतम्’ ‘विज्ञातारमरे केन विजानीयात्’ इति श्रुतिभ्यः ज्ञाता ऽऽत्मा केनापि न दृश्यते। दृश्यत्वे सति घटस्येवात्मनो जडत्वमिथ्यात्वादिप्रसक्तेः, दृग्रूपेणात्मना कार्यकरणसङ्घाताद्यात्मकसर्व- प्रपञ्चस्य भास्यमानत्वेनैव सर्वस्य दृश्यत्वात्। ‘तस्य भासा सर्वमिदं विभाती’ति श्रुतेः। प्रपञ्चावभासकादित्यादिज्योतिषामपि तेनैव भास्यमानत्वात् , तस्य चानन्यभास्यत्वात्। अत एव स्वयञ्ज्योतिष्ट्वप्रसिद्धिः, प्रत्यक्त्वप्रसिद्धिश्च। दीपादिप्रातिलोम्येन सर्वं जगदात्मानं चात्मने भासयतीति प्रत्यक्पदनिरुक्तेर्दर्शितत्वात्। अनन्यभास्यत्वे सति सर्वावभासकत्वस्य स्वयञ्ज्योतिर्लक्षणत्वात् , स्वयञ्ज्योतिषि दीपादौ दर्शितलक्षणसमन्वयात् , अनन्यभास्यत्वे सत्यात्मने सर्वावभासकत्वस्य प्रत्यक्स्वयञ्ज्योतिर्लक्षणत्वात्। अथवा अनन्यभास्यत्वे सति सर्वावभासकत्वमित्येव प्रत्यक्स्वयञ्ज्योतिर्लक्षणम्। दीपादीनां च चक्षुरादिभास्यत्वसत्त्वान्न तत्रातिव्याप्तिर्लक्षणस्य। प्रकृतश्लोकेन च मां तु वेद न कश्चनेत्यनेनानन्यभास्यत्वस्य, अहं सर्वं वेदेत्यनेन सर्वावभासकत्वस्य चोक्तत्वात् प्रत्यक्स्वयञ्ज्योतिर्लक्षणपर एवायं श्लोकः। ननु अनन्यभास्यत्वे सति सर्वावभासकत्वमित्येतदात्मनो लक्षणमसम्भवि, आत्मनि ‘दृश्यते त्वग्र्यया बुद्ध्या’ इति बुद्धिवेद्यत्व- श्रवणादिति चेत् , मैवम् ; विचारात्मिकया बुद्ध्या आत्मतत्त्वमीदृशमिति ज्ञानमात्रं जायते, न त्वात्मसाक्षात्कारः, तस्यानन्याधीन- त्वादिति। कथमन्यथा ‘विज्ञातारमरे केन विजानीयाद्’ इत्यादिश्रुतिविरोधनिरासः? अथवा जाग्रत्स्वप्नवद् विक्षेपशून्यायां, सुषुप्तिवद् लयशून्यायां च शान्तायामेकाग्रायां बुद्धौ१ पूर्वोक्तलक्षणः स्वयम्प्रभः आत्मा स्फुरतीति बुद्धिवेद्यत्वोपचारः आत्मनः इति बोध्यम्। १. असंप्रज्ञातसमाधाविति भावः। भाष्यार्कप्रकाशः त्विति। कालत्रयपरिच्छिन्नापरिच्छिन्नसमस्तवस्तुपरिज्ञाने प्रतिबन्धो नेश्वरस्यास्तीति द्योतनार्थः तुशब्दः। मां त्विति लोकस्य भगवत्तत्त्वविज्ञानप्रतिबन्धं द्योतयति। तर्हि त्वद्भक्तिर्विफलेत्याशङ्क्याह— मद्भक्तमिति। तर्हि सर्वोऽपि त्वद्भक्तिद्वारा त्वां ज्ञास्यति, नेत्याह— मत्तत्त्वेति। विवेकवतो मद्भजनम् , न तु विवेकशून्यस्य सर्वस्यापीत्यर्थः॥२६॥

[आनन्दगिरिकृतव्याख्या]

समतीतानि समतिक्रान्तानि भूतानि, तथा वर्तमानानि चार्जुन ! भविष्याणि च भूतानि वेदाहम्। मां तु वेद न कश्चन, मद्भक्तं मच्छरणमेकं मुक्त्वा। मत्तत्त्ववेदनाभावादेव न मां भजते॥२६॥

[[अ. ७. श्लो. २६]] [[४०२]]

इदं चैतच्छ्लोकोक्तमनन्यावभास्यत्वे सति सर्वावभासकत्वमात्मनो लक्षणं द्वैतादिमतेषु न सिध्यति , भिन्नयोर्जीवेश्वरयोः परस्परवेद्यत्वसत्त्वेनानन्यावभास्यत्वाभावात्। न चेश्वरावभास्यत्वस्य जीवे सत्त्वेन जीवे प्रकृतिलक्षणासम्भवेऽपीश्वरे जीवावभास्य- त्वाभावाल्लक्षणसङ्गतिरिति वाच्यम् , ‘तमेवं विदित्वाऽतिमृत्युमेती’त्यादिना जीवज्ञेयत्वसत्त्वादीश्वरे। ‘यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः’ इतीहैवोक्तत्वात्। मुक्तौ जीवानामीश्वरसाक्षात्कारसत्त्वाच्च। अस्मन्मते त्वात्मन एव वेदितृत्वाद् वेद्यत्वाच्च न लक्षणानुपपत्तिः, आत्मावभास्यत्वस्यान्यावभास्यत्वप्रतियोगित्वात्। आत्मा खल्वन्यप्रतियोगी; न ह्यन्यं यः कोऽप्यात्मत्वेन प्रत्येति। न चैकस्यैव कर्तृकर्मत्वं कथमिति वाच्यम् , मायया तदुपपत्तेः। न चास्त्यन्तर्यामिण ईश्वरस्य जीवानवभास्यत्वमिति वाच्यम् , सुतरामन्तर्यामिण ईश्वरस्य जीवप्रमाऽविषयत्वे अन्तर्यामिण एवासिद्धेः। ‘मां तु वेद न कश्चने’त्युक्तम् ; तस्य फलमाहमत्तत्त्वेति। आत्मज्ञानं विना आत्मभजनासम्भवादिति भावः। ननु अयं श्लोक ईश्वरपर एव, सर्वज्ञेश्वरश्रीकृष्णपरमात्मना अहमिति मामिति चोक्तत्वात्। अत एव अतीतानागतवर्तमान- सर्वभूतज्ञानरूपसर्वज्ञत्वोपपत्तिरिति चेत् , नेति केनोक्तम्? न च प्रत्यगात्मपर इति त्वयोक्तमिति वाच्यम् , प्रत्यगात्मा हीश्वरः। न च - अन्तःकरणावच्छिन्नः प्रत्यगात्मा, मायावच्छिन्नः परमात्मेश्वर इति - वाच्यम् , कृष्णस्यापि तच्छरीरान्तरान्तःकरणावच्छिन्नत्वेन प्रत्यगात्मत्वात्। न हि कृष्णशरीरेऽन्तःकरणाभावः, न वा तदवच्छिन्नप्रत्यगात्माभावः। कथमेवं प्रत्यगात्मनः कृष्णस्यापीश्वरत्वम्? यदि प्रत्यगात्मा जीवः स्यात्। न च - कृष्णशरीरगतान्तःकरणं साक्षान्मायापरिणामत्वान्मायैवेति - वाच्यम् , महत्तत्त्वात्मकस्या- स्मदन्तःकरणस्यापि साक्षान्मायापरिणामत्वेन मायात्वापत्तेः। न च शुद्धसत्त्वात्मकत्वात् कृष्णान्तःकरणं मायेति वाच्यम् , योगिचित्तस्यापि शुद्धसत्त्वमयत्वेन मायात्वापत्तेः। न च कृष्णस्य सर्वभूतसाक्षात्काररूपसर्वज्ञत्ववत्त्वादीश्वरत्वमिति वाच्यम् , वसिष्ठादियोगिनामपि जीवानां तद्वत्त्वेनेश्वरत्वापत्तेः। न च योगाद्यजन्यं सर्वज्ञत्वं कृष्णस्यास्तीति कृष्णः सर्वज्ञ ईश्वर इति वाच्यम् , तत्रापि कृष्णशरीरान्तरान्तःकरणावच्छिन्नप्रत्यगात्मन एव सर्वज्ञत्वेनेश्वरत्वात्। आत्माभासवशादेवान्तःकरणस्यापि ज्ञातृत्वलाभात्। न च - यदि कृष्णोऽपि प्रत्यगात्मा अस्मदादिवत् तर्ह्यसर्वज्ञ एव स्यात् ; न हि प्रत्यगात्मनामस्माकं सर्वज्ञत्वमनुभवसिद्धम् ; न ह्यनुभवसिद्धं प्रत्यगात्मनामसार्वज्ञ्यं शास्त्रशतेनापि निराकर्तुं शक्यते; तस्मात् सर्वज्ञः कृष्णः परमात्मैव, न प्रत्यगात्मेति - वाच्यम् , यदि प्रत्यगात्मनां किञ्चिज्ज्ञत्वं स्वाभाविकं स्यात् तर्हि सदैकरूपमेव स्यात् तत्किञ्चिज्ज्ञत्वं; न तु तथा दृश्यते। बालस्या- काराद्यक्षरापरिज्ञानात् , तस्यैव तरुणस्य वेदवेदाङ्गादिवित्त्वात् , तस्यैव वृद्धस्य पुनस्तद्विस्माराच्च। किञ्च सुषुप्तावपि तत् किञ्चिज्ज्ञत्वं दृश्येत, न तु दृश्यते। तस्मादन्तःकरणधर्म एव किञ्चिज्ज्ञत्वम्। अन्तःकरणं च सङ्कोचविकासादिकं प्राप्नोति। लीने चास्मिन्नन्तःकरणे सुषुप्तौ नास्ति किञ्चिज्ज्ञत्वोपलम्भः। एवमन्तःकरणे सति किञ्चिज्ज्ञत्वसत्त्वम् , तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां किञ्चिज्ज्ञत्व- स्यान्तःकरणधर्मत्वं स्थितम्। यथा किञ्चिज्ज्ञत्वं तथा सर्वज्ञत्वमप्यन्तःकरणधर्म एव। योगाभ्यासादिना योग्यन्तःकरणस्य विकसितस्य सर्वज्ञत्वसम्भवाद् वसिष्ठविश्वामित्राद्यन्तःकरणस्य सर्वज्ञत्वसर्वकर्तृत्वादिश्रवणात्। अन्तःकरणस्य चायं धर्मः केवलं जडस्य चित्प्रतिबिम्बसम्बन्धकृत एवेति तद्धर्म आरोप्यते चिति— ‘सर्वज्ञः आत्मा, किञ्चिज्ज्ञः आत्मा’ इति। वस्तुतस्तु आत्मनः अन्तःकरणादिसर्वावभासकत्वात् सर्वज्ञत्वम्। सर्वज्ञस्य किञ्चिज्ज्ञस्य वा अन्तःकरणस्य सर्वस्यापि साक्षी खल्वात्मा। तथा च सर्वज्ञान्तःकरणसाक्षित्वात् प्रत्यगात्मनि सर्वज्ञत्वोपचारः, किञ्चिज्ज्ञान्तःकरणसाक्षित्वात् किञ्चिज्ज्ञत्वोपचारश्च। न चैवमनन्यावभास्यत्वे सति सर्वावभासकत्वलक्षणस्य सर्वज्ञान्तःकरणेऽतिव्याप्तिरिति वाच्यम् , तस्य साक्षिभास्यत्वेनानन्य- भास्यत्वाभावात्। १सर्वावभासकत्वं स्वतः सर्वावभासकत्वमिति विवक्षितम्। तथा चान्तःकरणस्य चित्प्रतिफलनसामर्थ्यादेव भासकत्वम् , न तु स्वत इति न तत्रातिव्याप्तिरिति वा। भाष्यार्कप्रकाशः १. प्रकारान्तरेण सर्वज्ञान्तःकरणेऽतिव्याप्तिं वारयति—सर्वेति। ‘न तत्र सूर्यो भाति न चन्द्रतारकम्’ इत्यादिना आत्मनि अन्यावभास्यत्वं प्रतिषिध्य, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति स्वतः सर्वावभासकत्वमात्मन एव श्रुत्योक्तमिति बोध्यम्।

[[४०३]]

अनेन च सर्वज्ञान्तःकरणेनात्मनस्तादात्म्याध्यासात् सर्वज्ञः परात्मेति, किञ्चिज्ज्ञान्तःकरणेनात्मनस्तादात्म्याध्यासात् किञ्चिज्ज्ञः प्रत्यगात्मेति च भ्रान्ता व्यवहरन्ति। विवेकिनस्तु आत्मान्तःकरणयोस्तादात्म्याध्यासं निरस्य अन्तःकरणादिसर्वसाक्षित्वेन सर्वावभासकत्वात् प्रत्यगात्मानमेव सर्वज्ञमीश्वरं वदन्तीति स्थितम्। नन्वेवमीश्वरस्य कृष्णस्य स्वाभाविकानवधिकातिशयासङ्ख्येययोगविभववदन्तःकरणत्वात् सर्वज्ञत्वम् , अर्जुनादीनां तु तादृशान्तःकरणराहित्यादसर्वज्ञत्वमितीमं व्यवहारसिद्धमेव जीवेश्वरभेदमाश्रित्य ‘अहं सर्वाणि भूतानि वेद, मां तु न कश्चन’ इत्युक्तं कृष्णेन; न तु तत्त्वदृष्ट्या, तत्त्वत आत्मनि सर्वभूतज्ञानादिरूपान्तःकरणधर्मसर्वज्ञत्वाभावादिति चेत् , मैवम् ; तत्त्वकथनसमये शास्त्रदृष्टेरेव आश्रयणीयत्वेन लोकदृष्टेरनाश्रयणीयत्वात्। तादृशान्तःकरणादिसहितेश्वरस्य साकारस्य रामकृष्णादेः सर्वविदितत्वेन ‘मां तु वेद न कश्चन’ इति वचनस्यायुक्तत्वात्। न च प्रत्यगात्मनः परिच्छिन्नस्य सर्वभूतसाक्षात्कारो न सम्भवतीति वाच्यम् , प्रत्यगात्मनः परिच्छिन्नत्वे घटादिवदनित्यत्व- प्रसङ्गात्। ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’ इति वाक्यविरोधात्। परिपूर्ण एव प्रत्यगात्मा। स च सर्वगतत्वात् सर्वं वेदैव; तदन्यस्य सर्वस्यापि जडत्वात् स एवं सर्वं वेद ; तं तु कोऽपि न वेद तदाभासयुक्तमप्यन्तःकरणं तन्नैव भासयेत्। न हि सूर्यादिप्रतिबिम्बं सूर्यादिकं भासयति। इदं चान्तःकरणगतं वेत्तृत्वं तदन्तर्गतचिदाभासस्यैवेति चिद्धर्म एवायमिति न जडस्यान्तःकरणस्य वेत्तृत्वप्रसङ्गः। तस्मात् स्वतो नास्त्येवान्तःकरणस्य किञ्चिज्ज्ञत्वं, सर्वज्ञत्वं वा जडस्येति सिद्धमात्मन एव सर्वद्रष्टृत्वम्। ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुतिरप्यमुमेवार्थमाह; अतोऽस्मादात्मनः अन्यो द्रष्टा नास्तीति श्रुत्यर्थः। यदि श्रुतिगतस्य अतः इत्यस्य जीवोऽर्थः, तर्हि द्रष्टुरीश्वरस्य जीवादन्यस्य सिद्धत्वेन तदपलापः सम्भवति। यदि त्वीश्वरोऽर्थस्तर्हीश्वरादन्यस्य जीवस्य द्रष्टुरपलापः। अथवा जीवस्य दृश्यत्वेन जडत्वमनित्यत्वं चेति द्वैतिमते न श्रुत्युपपत्तिः। एवं श्रुतिविरुद्धत्वादेव तार्किकादिद्वैत- मतान्यप्रमाणानि। श्रुतेरेव प्रबलप्रमाणत्वात् , तदनुग्रहादेव स्मृतीनां प्रामाण्यात्। एवं प्रत्यगभिन्नपरमात्मन एकस्यैव सर्वद्रष्टृत्वं, तदन्यस्यान्तःकरणादिसर्वप्रपञ्चस्यापि दृश्यत्वमिति सिद्धम्। न च - भूतानि प्रत्यगात्मानः, अहंशब्दार्थस्तु परमात्मेति - वाच्यम् , कार्यकरणसङ्घाताभिमानिनस्तदात्मकाः साभासबुद्धयः प्राणिनो जीवा एवेह भूतानीति सिद्धान्तात्। भवन्तीति भूतानीति हि व्युत्पत्तिः। प्रत्यगात्मनोऽन्यत् सर्वमपि जगत् कार्यत्वेन भूतशब्द- वाच्यं हि। प्रत्यगात्मा तु ‘अजो नित्यः’ इति मन्त्रात् न कार्यभूतः। स एवेहाहंशब्दार्थः, तदन्यस्य परमात्मनोऽभावात्। स चैक एव, द्रष्ट्रन्तरनिषेधश्रवणात्। स एव सर्वज्ञः, क्षेत्रज्ञत्वात् सर्वस्य च क्षेत्रत्वात्। आभासोऽपि चित्कार्यत्वान्मिथ्यात्वाच्च क्षेत्रमेव बुद्ध्यादिवत्। आभासः सत्य एव चिद्रूपत्वात् , तस्य च चिद्भेदः कल्पित इति केचित्। तन्मते तु आभासोऽपि प्रत्यगात्मैवेति न तस्य क्षेत्रत्वम्। बुद्ध्यादय एव क्षेत्रम्। न च - चिच्चिदाभासयोः कथं प्रत्यगात्मत्वमिति - वाच्यम् , चिच्चिदाभासभेदस्य कल्पितत्वेन तदभेदस्य सिद्धत्वात्। एकैव चिद् उपाधिवशाद् बिम्बप्रतिबिम्बभावेन दृश्यते। यथा एकमेव मुखं दर्पणोपाधिवशादिति, बिम्बप्रतिबिम्बभावस्यौपाधिकत्वेनातात्त्विक- त्वादिति। अत्र च एकस्मिन्नेवाज्ञाने चित् प्रतिफलति; तत्र बिम्बभूता चिदीश्वरः; प्रतिबिम्बभूता तु जीव इति बिम्बप्रतिबिम्बभावेन जीवे- श्वरयोः कल्पितं भेदमाहुः। १एकस्मिन्नेवान्तःकरणे चित् प्रतिफलति। तत्र बिम्बभूता चित् कूटस्थः प्रत्यगात्मा, प्रतिबिम्बभूतस्तु जीव इति केचित्। अमुं च बिम्बभूतं प्रत्यगात्मानमीश्वरं वक्ष्यति कृष्ण एव— ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती’ति, प्रत्यग्रूपेण तिष्ठतीति तदर्थात्। सर्वथाऽपि बिम्बचैतन्यमीश्वरः, प्रतिबिम्बचैतन्यं जीवः। (श्लोकः) ‘त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं, प्रतिबिम्बालङ्कृतिविधिकुशला बिम्बालङ्कृतिमादधते॥ भवमरुभूमौ विरसायां त्वं चेतोभृङ्ग भ्रमसि वृथा, भज भज श्रीलक्ष्मीनरसिंहा- भाष्यार्कप्रकाशः अ. ७. श्लो. २६ ] १. एकजीववादे एकस्मिन्नेवाज्ञाने चित् प्रतिफलतीति पक्षः प्रसिद्धः। एकस्मिन्नेवान्तःकरणे इति तु चिन्त्यं भाति।

[[४०४]]

नघपदसरसिजमकरन्दम्॥’ इति शङ्कराचार्योक्तेश्च। अयं च प्रतिबिम्बो जीवः उपाधिभूतबुद्धिधर्मान् कर्तृत्वादीनात्मन्यध्यस्य संसरतीव, यथा सूर्यप्रतिबिम्बस्तज्जलचलना- च्चलतीव। बिम्बस्य तूपाधिसंयोगाभावादुपाधिसंयोगे सति प्रतिबिम्बस्यैवानुदयाद् नोपाधिधर्मसम्बन्धः इति प्रत्यगात्मेश्वरो निर्विकारः। प्रतिबिम्बोऽपि वस्तुतो बिम्बाभिन्नत्वादविकार एव, उपाधितादात्म्यभ्रमात्तु विकारीवेति सिद्धं जीवस्यास्य संसारित्वमीश्वराभेदश्च। अयं च प्रतिबिम्बः बुद्धितादात्म्याध्यासात् क्षेत्रत्वं, प्रत्यग्बिम्बतादात्म्यात्तु क्षेत्रज्ञत्वं च प्रतिपद्यत इति प्रतिबिम्बस्य भूतत्वेन प्रत्यक्त्वेन च निर्देशः सङ्गच्छते, विवक्षाभेदात्। तथा च यः प्रतिबिम्बः आत्मानं चिद्रूपं वेद स ज्ञानी प्रत्यगात्मैव; यस्तु प्रतिबिम्बः आत्मानं कर्तारं भोक्तारं च वेद बुद्धितादात्म्याध्यासात् सोऽविद्वान् जीव एव, न प्रत्यगात्मा, केवलप्रतिबिम्बस्य जीवत्वाभावेऽपि उपाधिधर्माध्यस्तप्रतिबिम्बस्य संसारित्वेन जीवत्वात्। अमुमेव जीवेश्वरविभागमाश्रित्य प्रवृत्तोऽयं श्लोकः— वेदाहमिति। बिम्बभूतः ईश्वरोऽहं प्रत्यगात्मा सर्वाणि वेद भूतानि। यः प्रतिबिम्बो बिम्बप्रतिबिम्बैक्यरूपं तत्त्वं वेत्ति स च प्रत्यगात्मैवेति सर्वाणि वेद भूतानि, मां च वेद स्वाभिन्नमात्मानम्। यस्तूपाधि- तादात्म्यमापन्नः प्रतिबिम्बः स सर्वाणि वेद [भूतानि], मां च न वेदेत्यर्थः। यः प्रतिबिम्बः एवं प्रत्यगात्मानं न वेद स किञ्चिज्ज्ञः; यस्तु प्रतिबिम्ब आत्मानं वेद स सर्वज्ञ इति सिद्धं बिम्बस्येव प्रतिबिम्बस्यापि सर्वज्ञत्वम्। बिम्बैक्येऽपीमे प्रतिबिम्बाः अनेका[केऽ] न्तःकरणानामनेकत्वात् , सूर्यैक्येऽपि तत्प्रतिबिम्बानेकत्ववत्। अत एवैकः ईश्वरः, जीवाः अनेके इति व्यवहारः। वस्तुतस्तु बिम्बप्रतिबिम्बैक्याज्जीवेश्वरयोरभेद एव। कृष्णश्च वसिष्ठादिवदस्मदादिवच्च प्रतिबिम्ब एव। परन्तु वसिष्ठादिवद् बिम्बतादात्म्यमापन्नः, न त्वस्मदादिवद् बुद्धितादात्म्यमापन्नः। अत एव बिम्बाभेदमात्मनि सिद्धवत्कृत्य सर्वेश्वरं सर्वज्ञं प्रत्यगात्मानम् ‘अह’मित्यात्मत्वेन व्यवहरति। एवं वामदेवोऽपि ‘अहं मनुरभव’मित्यादि प्रोवाच। प्रह्लादश्च ‘मत्तः सर्वमहं सर्वं मयि सर्वं सनातने’ इति। यस्तु बिम्बभूत ईश्वरः स शुद्धचैतन्यं ब्रह्मैव, तस्य नास्ति वक्तृत्वादिव्यवहारः, शरीराद्यभावात्। परन्तु सर्वं केवलं वेद , चैतन्यरूपत्वात्। ‘न तस्य कार्यं करणं च विद्यते’ ‘स सर्वज्ञः सर्वविदि’ति श्रुतेः। तस्मात् सिद्धं प्रत्यगात्मन ईश्वरस्य सर्वज्ञत्वम् अनन्यवेद्यत्वं च। न च ज्ञानिप्रतिबिम्बजीववेद्यत्वमस्तीति वाच्यम् , तस्य बिम्बानन्यत्वाज्ज्ञानिनः प्रतिबिम्बस्य। एतेनान्तःकरणादौ अहमभिमानी प्रतिबिम्बो जीवः किञ्चिज्ज्ञः परतन्त्रः संसारी, बिम्बस्तु सर्वज्ञ ईश्वरः प्रत्यगात्मेति औपाधिको जीवेश्वरभेदः, तत्प्रयुक्तः सर्वव्यवहारः, वस्तुतो जीवेश्वरैक्यादद्वैतं चेति सर्वमनवद्यं सिद्धम्। यथा मुखमेव दर्पणवशात् प्रतिमुखत्वेन प्रतीयते, तथा चैतन्यमेवोपाधिवशाज्जीवत्वेन प्रतीयते; न तु वस्तुतो जीवोऽस्ति, यथा प्रतिमुखं वस्तुतो नास्ति। तथा च ब्रह्मैव मायया प्राप्तजीवभावं सत् संसरति, विद्यया च विमुच्यत इव। १न तु मायाद्युपाधिषु नीरूपेषु ब्रह्मणो नीरूपस्य कश्चिदस्ति प्रतिबिम्बः, असम्भवात्। तदेवं परमार्थदृष्ट्या जीवस्यैव ब्रह्मत्वाज्जीव एव प्रत्यगात्मा सर्वज्ञश्च। तदन्यत् सर्वं जडं दृश्यं च। अत एवोक्तम्— सर्वमहं वेद , मां तु वेद न कश्चनेति। य एवमात्मानं न वेद स ब्रह्मापि जीवः किञ्चिज्ज्ञोऽज्ञ एव। स चोपाधिभेदादनेक एव, तस्यैवेह भूतशब्देन ग्रहणम्। अयं हि कार्यकरणसङ्घाते भूतशब्दवाच्येऽहमभिमानी। यश्चैवमात्मानं वेद स जीवोऽपि ब्रह्मैव, तस्य च पूर्णत्वादात्मन एकत्वं ब्रह्मणः। तस्मात् तत्त्वविद् दृष्ट्या एक एवात्मा सर्वज्ञ ईश्वरः। अतत्त्वविद् दृष्ट्या त्वीश्वराद्भिन्ना अनेके जीवाः संसारिणः। तदनुसारेण चायं श्लोकः, तत्त्वविदां सर्वज्ञ आत्माऽन्ये त्वनात्मानो जडाः प्राणिन इति वाक्यार्थम् , अतत्त्वविदां तु सर्वज्ञ ईश्वरो, जीवास्तु किञ्चिज्ज्ञाः, नेश्वरज्ञाः इति वाक्यार्थं २ च जनयतीति युक्तम्। यत्तु रामानुजः— मां कृष्णं कश्चनापीश्वरमवतीर्णं न वेदेति, तदसत् , ‘मां न वेदे’त्येव मूले स्थितत्वेन ‘ईश्वरमवतीर्ण’मिति भाष्यार्कप्रकाशः १.बिम्बप्रतिबिम्बभाववाचोयुक्त्या विवक्षितमंशं निरूप्यात्मनो मुख्यं प्रतिबिम्बं निराकरोति—न त्विति। प्रतिबिम्बत्वं नाम उपाधिप्रयुक्त-व्याप्यवृत्ति-स्वप्रतियोगिक- भेदवत्त्वेनोपाधिसंसृष्टतया प्रतिभातत्वम्। बिम्बत्वं तु तादृशभेदवत्त्वेनोपाध्यसंसृष्टतया प्रतीतत्वम्।(द्र.अद्वैतसिद्धान्तसारसंग्रहःपृ. ३७)। २.वाक्यार्थबोधमित्यर्थः।

[[४०५]]

केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विदन्तीत्यपेक्षायाम् इदमाह— इच्छेति। इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्चेच्छाद्वेषौ, ताभ्यां समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः, तेनेच्छाद्वेष- समुत्थेन। केनेति विशेषापेक्षायामिदमाह— द्वन्द्वमोहेनेति। द्वन्द्वनिमित्तो मोहो द्वन्द्वमोहः, तेन। तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देनाभिधीयेते। तत्र यदेच्छाद्वेषौ सुखदुःखतद्धेतुसम्प्राप्त्या लब्धात्मकौ भवतस्तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्म- मूलाद् बहिः कल्पनस्याप्रमाणत्वात्। ‘मां कृष्णं न वेदे’ति वर्णनं त्वयुक्तम् , कृष्णस्य सर्वतात्कालिकजनविदितत्वात्॥२६॥

इच्छेति। पूर्वस्मिन् श्लोकभाष्ये ‘मद्भक्तं मच्छरणमेकं मुक्त्वा मां कोऽपि न जानाती’त्युक्तम्। तत्र शङ्कते त्वदभक्तानां त्वदशरणानां च कार्यकरणसङ्घाताभिमानिनां जीवानां त्वत्तत्त्ववेदने कः प्रतिबन्ध इति— केनेत्यादिना। यद्यपि योगमायाप्रतिबन्ध इति प्रागुक्तम् , तथापि प्रतिबन्धान्तरं पृच्छति— पुनरिति। जायमानानीति। २कार्यकरणसङ्घाततादात्म्याध्यासाच्छरीरेषु जायमानेषु जीवा अपि जायमाना इव प्रतिभान्तीति भावः। सर्वभूतानीति कार्यकरणसङ्घाताभिमानिनश्चिदाभासाः, साभासबुद्धयः इति वा। मामात्मानं न विजानन्ति, शरीरादिकं तेऽपि विजानन्त्येवेति मामित्युक्तम्। उक्तं हि भागवते बादरायणेनैव‘३न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन्। गुणो यथा गुणिनोऽव्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि॥’ इति कार्यकरणसङ्घाताभिमानिनां जीवानामन्तर्यामी सङ्घातप्रवर्तकत्वात् सखा; तस्य च तादृशं सख्यं जीवो न वेत्ति। यथा शरीरादिकं जीवस्येति श्लोकार्थः। तथा च शरीरादिवेत्तृत्वादजडाः जीवाः किमिति स्वमात्मानमेवेश्वरं न जानन्तीत्याक्षेपार्थः। इच्छा इष्टविषयेषु रागः; द्वेषोऽनिष्टविषयेष्वप्रीतिः; समुत्तिष्ठति जायते। द्वन्द्वनिमित्तो द्वन्द्वजन्यः; द्वन्द्वं निमित्तं यस्य स इति बहुव्रीहेः। इच्छाद्वेषरूपद्वन्द्वनिमित्तमोहेनेत्यर्थः। तावेव पूर्वोक्तावेवेत्यर्थः। इच्छाद्वेषसमुत्थेनेत्यत्रोक्तावेवेति यावत्। प्रीतिरूपस्य रागस्य, द्वेषस्य चाप्रीतिरूपस्य परस्परविरोधादाहपरस्परविरुद्धाविति। तत्र दृष्टान्तमाह— शीतोष्णवदिति। सुखे सुखहेतु- स्रग्गन्धादौ चेच्छा जायते, दुःखे दुःखहेतुचोरसर्पादौ च द्वेषो जायते पुंसामिति कृत्वाऽऽह— सुखदुःखतद्धेतुविषयाविति। सुखदुःखे तद्धेतू च विषयावाश्रयौ ययोस्तौ तथोक्तौ। कालमनतिक्रम्य यथाकालम्। कालश्च कर्माधीन इति बोध्यम्। यस्य प्राणिनः यस्मिन् काले यथाप्रारब्धं यत्रेच्छा यत्र वा द्वेषो भवितव्यः४, तस्य तस्मिन् काले तत्तद्विषये रागो द्वेषो वा भवतीत्यर्थः। तत्र एवं स्थिते इत्यर्थः। यदा यस्मिन् काले लब्धात्मकौ लब्धसत्ताकौ भवतः, उत्पद्येते इत्यर्थः। तदा तौ सर्वभूतानां मोहं जनयतः इत्यन्वयः। तत्र द्वारमाह प्रज्ञाया इति। बुद्धिं रागद्वेषवशां विधायेत्यर्थः। मोहं विशिनष्टि— परमार्थेति। परमार्थः सत्यः आत्मा, तद्विषयस्य ज्ञानस्योत्पत्तेः भगवत्तत्त्वविज्ञानप्रतिबन्धकं मूलाज्ञानातिरिक्तं प्रश्नद्वारेणोदाहरति— केनेत्यादिना। पुनःशब्दात् प्रतिबन्धकान्तरविवक्षा गम्यते। अपरोक्षमवान्तरप्रतिबन्धकम् इदमा गृह्यते। विशेषमाकाङ्क्षापूर्वकं निक्षिपति— केनेति विशेषापेक्षायामिति। द्वन्द्वशब्देन गृहीत- योरपीच्छाद्वेषयोर्ग्रहणं द्वन्द्वशब्दार्थोपलक्षणार्थमित्यभिप्रेत्याह— तावेवेति। १तयोरपर्यायमेकत्रानुपपत्तिं गृहीत्वा विशिनष्टि— यथाकाल- मिति। न च तयोरनधिकरणं किञ्चिदपि भूतं संसारमण्डले सम्भवतीत्याह— सर्वभूतैरिति। तथापि कथं तयोर्मोहहेतुत्वमित्याशङ्क्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत !। सर्वभूतानि संमोहं सर्गे यान्ति परन्तप !॥२७॥

अ. ७. श्लो. २६-२७ ] १. तयोः इच्छाद्वेषयोः अपर्यायं यौगपद्येन। २. जीवानामौपाधिकं जायमानत्वं दर्शयति—कार्येति। ३. ‘पुरुषो वै विसख्युः’ इति रा.पुस्तके मु.पा.। ४. यत्रेच्छया यत्र वा द्वेषेण भवितव्यमिति पठितुं युक्तम्। कर्मानुरोधिनि रागद्वेषोत्पत्तियोग्यकाले इति यावत्।

[[४०६]]

तत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं मोहं जनयतः। न हीच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञान- मुत्पद्यते बहिरपि। किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः सम्मूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति। अतस्तेनेच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत! भरतान्वयज, सर्वभूतानि सम्मोहितानि सन्ति सम्मोहं सम्मूढतां सर्गे जन्मनि उत्पत्तिकाल इत्येतत् ; यान्ति गच्छन्ति, हे परन्तप ! मोहवशान्येव सर्वभूतानि जायमानानि जायन्त इत्यभिप्रायः। यत एवम् , अतस्तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि सम्मोहितानि मामात्मभूतं न जानन्ति। अत एवात्मभावेन मां न भजन्ते॥२७॥

के पुनरनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तस्त्वां विदित्वा यथाशास्त्रमात्मभावेन भजन्त इत्यपेक्षितमर्थं दर्शयितु- प्रतिबन्धकारणम्१। न तूत्पन्नज्ञानप्रतिबन्धको मोहः, किन्तु ज्ञानोत्पत्तेरेव प्रतिबन्धक इत्यर्थः। तदेव विशदयति— न हीत्यादिना। इच्छाद्वेषरूपदोषपरवशीकृतचित्तस्य बहिरपि भूतार्थविषयं ज्ञानं नोत्पद्यते हि। भूतार्थाः सिद्धार्थाः स्त्र्यादयः। सुभगायामपि स्त्रियां द्वेषे सति सुभगत्वज्ञानानुदयात्। दुर्भगायामपि रागे सति सुभगत्वज्ञानोदयाच्चेति भावः। बहिरपीत्यपिशब्दार्थमाहकिम्विति। बहवः प्रतिबन्धा यस्मिन् तस्मिन् बहुप्रतिबन्धे। बहुप्रतिबन्धे सतीति वा, प्रत्यगात्मविषयं ज्ञानम्। मूढस्य यथावस्थितबाह्यविषय- ज्ञानस्यैवानुदये यथावस्थितान्तरप्रत्यगात्मविषयज्ञानस्यानुदयः किं पुनर्वक्तव्य इत्यर्थः। सम्मोहं यान्तीत्यस्यार्थमाहसम्मोहितानि सन्तीति। सम्यङ्मोहितानि भवन्ति। कदा यान्तीत्यत आहसर्ग एवेति। मोहितान्येव जायन्ते, न तु जन्मानन्तरं मोहं यान्तीत्याहमोहवशान्येवेति। अतिबालस्यापि मात्रादौ रागस्यान्यत्रारागस्य च दर्शनादिति भावः। प्रज्ञानम् आत्मज्ञानम्। मोहस्य कार्यमाहमां न जानन्तीति। आत्मभावेन आत्मेति बुद्ध्या। केचिन्मूढा आत्मनोऽन्य ईश्वर इति दार्वादिरूपमीश्वरं भजन्ते, केचिदतिमूढा नास्तिका नैवेश्वरं भजन्त इत्यत उक्तम्— आत्मभावेनेति। हे भारत! हे परन्तप! सर्वभूतानि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन सर्गे सम्मोहं यान्तीत्यन्वयः। रागद्वेषपरवशचित्तः पुमान् सर्वदाऽपीष्टवस्तुसिद्धयेऽनिष्टवस्तुनाशाय च यतमानः, इष्टविषयप्राप्तिमनिष्टविषयनाशं च पुरुषार्थं मन्यमानः, तदुभयमेव कामयमानः, आत्मानात्मविवेकशून्यं कार्यकरणसङ्घाततादात्म्याभिमानेन मोहेनात्मानं कर्तारं भोक्तारं च मन्यमानः नात्मानमीश्वरं जानातीतीच्छा- द्वेषरूपद्वन्द्वमोह एवात्मज्ञाने प्रतिबन्धः। तन्नाशाय च रागद्वेषौ न कर्तव्यौ साधकेनेति प्रागेव प्रतिपादितम् , सूचितं चानेन ॥२७॥

येषामिति। पुण्यकर्मणां येषां जनानां तु पापमन्तगतं ते द्वन्द्वमोहनिर्मुक्ता दृढव्रताःसन्तः मां भजन्ते। अन्तं नाशं गतमन्तगतं तत्रेति। तयोराश्रयः सप्तम्यर्थः। उक्तमेवार्थं कैमुतिकन्यायेन प्रपञ्चयति— न हीति। पूर्वभागानुवादपूर्वकमुत्तरभागेन फलितमाह— अत इति। प्रत्यगात्मन्यहङ्कारादिप्रतिबन्धप्रभावतो ज्ञानोत्पत्तेरसम्भवोऽतःशब्दार्थः। कुलप्रसूत्यभिमानेन स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्धप्रतिविघातसामर्थ्यमिति द्योतनार्थम्— ‘भारत, परन्तपे’ति सम्बोधनद्वयम्। तत्त्वज्ञानप्रतिबन्धे प्रकृतमवान्तरकारणमुप- संहरति— मोहेति। जायमानभूतानां मोहपरतन्त्रत्वे फलितमाह— यत इति। भगवत्तत्त्ववेदनाभावे तन्निष्ठत्ववैधुर्यं फलतीत्याह— अत एवेति॥२७॥

यदि सर्वाणि भूतानि जन्म प्रतिपद्यमानानि सम्मूढानि सन्ति भगवत्तत्त्वपरिज्ञानशून्यानि भगवद्भजनपराङ्मुखानि, तर्हि शास्त्रानुरोधेन भगवद्भजनमुच्यमानमधिकार्यभावादनर्थकमापद्येतेति शङ्कते— के पुनरिति। अनेकेषु जन्मसु सुकृतवशादपाकृतदुरितानां

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। १. मोहः इति शेषः। उत्पन्ने तु तत्त्वज्ञाने निवर्तत एव मोह इति नोत्पन्नज्ञानप्रतिबन्धको मोहः इति भावः। ननूत्पत्तिप्रतिबन्धके तस्मिन् सति कथं ज्ञानोत्पत्तिरिति चेत् , उच्यते— विवेकवैराग्ययोः उत्तेजकत्वेन तत्सत्त्वे मोहस्य प्रतिबन्धाक्षमत्वादिति।

[[४०७]]

‘तद्विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती’ति श्रुत्या मुक्तिदशायामेव पुण्यपापयोः सर्वात्मना क्षय इत्यभिप्रेत्याह समाप्तप्रायमिति। यद्वा मनुष्यजन्महेतुभूतमिश्रकर्मणः प्रारब्धस्य यावद्देहपातमक्षीणत्वेऽपि तदन्यत् सर्वं पापं क्षीणमित्याहक्षीणं पापमिति। देवपूजादिष्विवात्र व्रताभावात् कथं दृढव्रतत्वम्? अत आहनिश्चितविज्ञाना इति। दृढं निश्चितं व्रतं ज्ञानं येषां ते। व्रततेर्गत्यर्थत्वात् ज्ञानार्थत्वम्। ज्ञानस्याकारं दर्शयति— एवमेवेति। सच्चिदानन्दलक्षणमेवेत्यर्थः। परमार्थतत्त्वम् आत्मतत्त्वम्। एवकारार्थमाहनान्यथेति। जन्मान्तरकृताद् इह जन्मनि कृताद्वा निष्कामकर्मणः यज्ञादिरूपाद् योगादिरूपाद्वा पुण्यशब्दिताच्चित्तशुद्धौ सत्यां रागादिदोषाः चित्ते पदं न लभन्ते; प्रत्युत चित्तादपयान्ति; ततश्चापैति मोहः; नष्टे च मोहे आत्मानात्मविवेको जायते; तत आत्मानं साक्षात्कृत्य तमेव भजन्ते, तत्रैव रमन्ते च जीवा इत्यर्थः॥२८॥

जरेति। एवमात्मभजनस्य मोक्ष एव फलमित्याहजरेति। जरामरणयोः [इति।] उपलक्षणमिदं जन्मादिविकाराणाम्। मोक्षः त्यागस्तस्मै। मयीश्वरे आत्मनि सम्यगाहितं स्थापितं चित्तं येषां ते मत्समाहितचित्ताः, प्रयतन्ते आत्मभजनरूपं प्रयत्नं कुर्वन्ति। तद्विदुरिति तच्छब्दाद् यच्छब्दलाभ इत्यभिप्रेत्याहयत्परं ब्रह्म तद्विदुरिति। ब्रह्मशब्दस्य प्रकृत्यादिपरत्वभ्रमव्युदासायाह भाष्यकारः— परं ब्रह्मेति। परं सर्वजगद्विलक्षणं सर्वोत्कृष्टं वा। अध्यात्मम् आत्मनीति विभक्त्यर्थेऽव्ययीभावः। सप्तम्यास्तु विषयत्वमर्थ इत्याहप्रत्यगात्मविषयमिति। किं तदात्मविषयं कृत्स्नं यद्विदुरित्युच्यते? अत आहवस्त्विति। तत्त्वमित्यर्थः। सच्चिदानन्दरूपं सर्वज्ञत्वसर्वान्तरत्वादिरूपं वा। कर्म यज्ञादिलक्षणम्। एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय श्रुत्या ब्रह्मणि विज्ञाते सर्वं विज्ञातं भवतीत्युक्तत्वात् , आत्मनश्च ब्रह्माभिन्नत्वात् , सर्वस्य च ब्रह्मकार्यत्वादात्मज्ञानाद् ब्रह्मज्ञानं सर्वज्ञानं च सम्भवति। जरामरणमोक्षश्च द्वन्द्वप्रयुक्तमोहविरहिणां ब्रह्मचर्यादिनियमवतां भगवद्भजनाधिकारित्वान्न शास्त्रविरोधोऽस्तीति परिहरति— उच्यत इति। तुशब्द- द्योत्यमर्थमाह— पुनरिति। १मुक्तेरर्वाक्त्वसिद्ध्यर्थं समाप्तप्रायमित्युक्तम्। प्रकृतोपयोगं पुण्यस्य कर्मणो दर्शयितुं विशिनष्टि— सत्त्वेति। २उभयविधशुद्धेर्द्वन्द्वनिमित्तमोहनिवृत्तिं फलमाह— ते द्वन्द्वेति। मोहनिवृत्तेर्भगवन्निष्ठापर्यन्तत्वमाह— भजन्त इति। तेषां नानापरिग्रहवतां भगवद्भजनप्रतिहतिमाशङ्क्याह— दृढेति॥२८॥

यथोक्तानामधिकारिणां भगवद्भजनफलं प्रश्नद्वारा दर्शयति— ते किमर्थमिति। जरामरणादिलक्षणो यो बन्धः तद्विश्लेषार्थं भगवद्भजनमित्यर्थः। सम्प्रति सगुणस्य सप्रपञ्चस्य मध्यमानुग्रहार्थं ध्येयत्वमाह— मामाश्रित्येति। जरादिसंसारनिवृत्त्यर्थं निर्गुणं निष्प्रपञ्चं मामुत्तमाधिकारिणो जानन्तीत्युक्तं ‘मामेव ये प्रपद्यन्ते’ इत्यादावित्याह— जरेति। मध्यमानधिकारिणः प्रत्याह— मामिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मुच्यते— येषामिति। येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्व- शुद्धिकारणं विद्यते ते पुण्यकर्माणस्तेषां पुण्यकर्मणाम् , ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ता भजन्ते मां परमात्मानं दृढव्रताः। एवमेव परमार्थतत्त्वं नान्यथेत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढव्रता उच्यन्ते॥२८॥

ते किमर्थं भजन्त इत्युच्यते— जरेति। जरामरणमोक्षाय जरामरणयोर्मोक्षार्थं मां परमेश्वरमाश्रित्य मत्समा- अ. ७. श्लो. २७-२९] १. ‘उक्तार्थमात्रसिद्ध्यर्थं’ इति पा। २. पापनिवृत्त्या पुण्यप्राप्त्या चेत्युभयविधा शुद्धिः। ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः॥२८॥

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद् विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥२९॥

[[४०८]]

पुरुषार्थः सिध्यतीत्यर्थः। नन्वात्मविदामपि शुकादीनां मरणश्रवणाद् वसिष्ठादीनां च जरादर्शनात् कथं जरामरणमोक्षः? स ह्यमृतपानविष्ण्वादिवरदान- प्रयुक्त एव देवानाम् , विभीषणमार्कण्डेयादीनां च जरामरणराहित्यदर्शनात् पुराणेष्विति चेत् , मैवम् ; देवादीनामपि ब्रह्मदिनप्रलये मरणसद्भावान्नामृतपानादिना मरणाभावः। परन्तु जरामरणधर्मवद्देहतादात्म्याभावादेव। न ह्यात्मनोऽजस्य नित्यस्याविकारस्य जन्मादिसम्भवः, येनात्मविदो जराद्यापत्तिः। आत्मविद्धि आत्मा। ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः, भविष्यतीत्यनुक्त्वा भवतीति वर्तमाननिर्देशाच्च। यस्तु शुकादीनां देहत्यागः स ह्यज्ञदृष्ट्यैव कल्पितः। यद्यात्मनः पूर्णस्यासङ्गस्य शरीरसंयोगोऽस्ति, तर्हीदानीं तद्वियोगो भवतु, न तु सोऽस्ति, विरोधात्। तस्माल्लोकदृष्ट्यैव शुकादीनां मुक्तिरपि। उक्तं हि प्रागेव बन्धमुक्त्यादिसर्वव्यवहारः आध्यासिक इति। इह त्वात्मविद आत्मज्ञानाज्जरामरणादिविकारवदनात्मतादात्म्याध्यासनिवृत्तिरेवोच्यते, न तु मोक्षः। आत्मनो नित्यमुक्तत्वात्। अथवा ज्ञानिनोऽपि प्रारब्धदेहधर्माणां जरामरणादीनामनुभवस्यावर्जनीयत्वादेतद्देहपरित्यागानन्तरमज्ञस्येव पुनर्देहसम्बन्धा- भावान्नास्ति पुनर्जरामरणप्रसक्तिरित्यभिप्रेत्योक्तम्— जरामरणमोक्षार्थमिति। पुनर्जन्मनिवृत्त्यर्थमिति यावत्। न च - ‘तत्त्वविदः प्राणा नोत्क्रामन्ती’ति श्रुतेः, प्राणोत्क्रमणस्यैव मरणत्वात् , कथं ज्ञानिनो मरणमिति - वाच्यम् , प्राणोत्क्रमणाभावेऽपि प्राणत्यागोऽस्त्येव, तत्त्ववित्प्राणादीनां वाय्वादिषु लयश्रवणात्। ‘मृङ् प्राणत्यागे’ इति मरणं वा प्राणत्यागः। न चैवमज्ञस्य सप्राणस्यैव लोकान्तरगमनात् कथं मरणमिति वाच्यम् , शरीरात्माभिमानिनोऽज्ञस्य शरीरप्राणवियोगरूपप्राणत्याग- सद्भावात्। यद्वा जरेत्युपलक्षणं रोगादीनाम् ; जरारोगादिप्रयुक्तस्य प्राणोत्क्रमणलक्षणस्य मरणस्य मोक्षार्थमित्यर्थः। तत्त्वविद एव हि प्राणोत्क्रमणासम्भवः। परिपूर्णस्य तस्य लोकान्तरगमनासम्भवात्। तस्मादात्मभजनस्य जरामरणमोक्षः, परब्रह्मादिज्ञानं च फलम् ॥२९॥

साधिभूतेति। ये मद्भक्ता अधिभूताधिदैवाधियज्ञसहितं मां विदुः, ते युक्तचेतसः, प्रयाणकालेऽपि मां विदुश्च, जीवद्दशायां दृढाभ्यासविषयस्यैव वस्तुनो मरणकालेऽपि स्मरणसम्भवात्। तथा च ‘याऽन्ते मतिः सा गति’रिति न्यायेनान्ते नारायणस्मरणसिद्ध्यर्थं जीवद्दशायां नारायणभजनमवश्यं कर्तव्यं विषयेषु सङ्गं त्यक्त्वा मुमुक्षुभिः। भरतो हि मृगसङ्गेनान्ते मृगं स्मरन् न मुक्तिं ययौ, अपि तु मृगजन्मैव। अतः परब्रह्मसायुज्यायान्ते नारायणस्मरणमावश्यकं पुंसाम्। तच्च नारायणस्मरणं नारायणनामोच्चारणमात्रं न, किं तर्हि? प्रत्यगात्मनो नारायणस्य यत्तत्त्वं सच्चिदानन्दलक्षणं तस्य स्मरणं सच्चिदानन्दं ब्रह्माहमस्मीति। तच्च विषयेषु रागद्वेषौ विहाय भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। हितचित्ताः सन्तो यतन्ति प्रयतन्ते ये, ते यद् ब्रह्म परं तद् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं वस्तु तद् विदुः, कर्म च अखिलं समस्तं विदुः॥२९॥

साधीति। साधिभूताधिदैवम् अधिभूतं चाधिदैवं चातिभूताधिदैवम् , १सह अधिभूताधिदैवेन वर्तते इति साधि- परमेश्वराश्रयणं नाम विषयविमुखत्वेन भगवदेकनिष्ठत्वमित्याह— मत्समाहितेति। प्रयतनं भगवन्निष्ठासिद्ध्यर्थं बहिरङ्गाणां यज्ञादीनाम् , अन्तरङ्गाणां च श्रवणादीनामनुष्ठानम्। प्रागुक्तं जगदुपादानं परं ब्रह्म। कथं ब्रह्म विदुरित्यपेक्षायां समस्ताध्यात्मवस्तुत्वेन सकलकर्मत्वेन च तद् विदुरित्याह— कृत्स्नमिति॥२९॥

न केवलं भगवन्निष्ठानां २सर्वाध्यात्मकर्मात्मकब्रह्मवित्त्वमेव, किन्त्वधिभूतादिसहितं तद्वेदित्वमपि सिध्यतीत्याह— साधिभूतेति। १. ‘तेन सह’ इति पा.। २. ‘सर्वाध्यात्मिक’ इति पा.।

[[४०९]]

प्रत्यगात्मनि मनसः समर्पणं विना न सम्भवतीत्यभिप्रेत्याहयुक्तचेतस इति। येषां तु सन्निपातादिना मरणकाले चित्तसमाधानं दुर्लभम् , ते हि पुनर्जन्म प्रतिपद्य पूर्वाभ्यासवशेन पुनरात्मभजने यतन्ते। सर्वथाऽप्यन्ते नारायणस्मरणं विना न मुक्तिरिति स्थितम्। ‘काश्यां तु मरणान्मुक्ति’रिति तु काश्यामन्तकाले शङ्करेण तारकमन्त्रे उपदिष्टे सति पुनर्जन्मनि तारकोपासनपूर्वकमात्मज्ञानं लब्ध्वा मुच्यते जन्तुरित्यभिप्रायगर्भं वाक्यम्। न च ज्ञानान्मुक्तिरिति श्रुतिविरोधः, अन्तकालोपलक्षितज्ञानान्मुक्तिरिति तदर्थात्। ज्ञानाज्जीवन्मुक्तिरिति वा। वस्तुतस्तु नित्यमुक्तस्यात्मनो न कोऽपि बन्धो मोक्षो वा। ज्ञानी त्वात्मैवेति न तस्यान्तकाले जीवद्दशायां वा किञ्चिदात्मस्मरणादिकं मुक्तये कर्तव्यमस्ति , ज्ञानादेव कृतकृत्यत्वात्। येषां तु नास्ति तादृशं निश्चयज्ञानं तेषामन्तकाले नारायणस्मरणं कर्तव्यमिति बोध्यम्॥३०॥

इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः॥७॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥३०॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः॥७॥

भूताधिदैवं च मां ये विदुः, साधियज्ञं च सहाधियज्ञेन साधियज्ञं ये विदुः, प्रयाणकालेऽपि मरणकालेऽपि च ते मां विदुः युक्तचेतसः समाहितचित्ताः इति॥३०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः॥७॥

अध्यात्मं, कर्म, अधिभूतम् , अधिदैवम् , अधियज्ञश्चेति पञ्चकमेतद् ब्रह्म ये विदुस्तेषां यथोक्तज्ञानवतां समाहितचेतसामापदवस्थायामपि भगवत्तत्त्वज्ञानमप्रतिहतं तिष्ठतीत्याह— प्रयाणेति। अपिचेति निपाताभ्यां तस्यामवस्थायां करणग्रामस्य व्यग्रतया ज्ञानासम्भवेऽपि मयि समाहितचित्तानामुक्तज्ञानवतां भगवत्तत्त्वज्ञानमयत्नलभ्यमिति द्योत्यते। १तदनेन सप्तमेनोत्तममधिकारिणं प्रति ज्ञेयं निरूपयता तदर्थमेव सर्वात्मकत्वादिकमुपदिशता प्रकृतिद्वयद्वारेण २सर्वकारणत्वादिति च वदता तत्पदवाच्यं तल्लक्ष्यं चोपक्षिप्तम्॥३०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशांकरभाष्यव्याख्याने सप्तमोऽध्यायः॥७॥

[आनन्दगिरिकृतव्याख्या]

अ. ७. श्लो. २९-३० ] १. अध्यायतात्पर्यं संगृह्णाति—तदनेनेति। २. ‘सर्वकारणत्वादि च’ इति पाठः स्यात्। DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः