०६

॥ अथ षष्ठोऽध्यायः॥

श्रीभगवानुवाच — अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

पञ्चमाध्यायानन्तरं षष्ठाध्यायकथने का वा सङ्गतिरिति शङ्कां निराकरिष्यमाणः वृत्तानुवादपुरस्सरम् अध्यायान्तरमवता- रयति—अतीतेति। पञ्चमाध्यायान्ते आत्मज्ञानं प्रत्यन्तरङ्गसाधनस्य ध्यानयोगस्य सूत्रभूताः श्लोकाः ‘स्पर्शान् कृत्वा बहिर्बाह्यान्’ इत्यादय उपदिष्टाः। तेषां विवरणस्थानीय एष षष्ठोऽध्यायः। तत्र प्रथमं तावद् यावद् ध्यानयोगारोहणासमर्थः गृहस्थः, तेन अधिकृतेन ध्यानयोगबहिरङ्गसाधनं कर्म शास्त्रविहितमनुष्ठेयम् ; यदा तु ध्यानयोगारोहणसमर्थो भवति तदा कर्मोपरम इति भावः। एतेन पञ्चमाध्यायानन्तरं षष्ठाध्यायकथने हेतुहेतुमद्भाव एव सङ्गतिरिति सूचितम्। ध्यानयोगारोहणसीमाकरणमिति। यावद् ध्यानयोगारोहणसामर्थ्यं तावदिति मर्यादाया विधानमित्यर्थः। यावता निश्चयेने- त्यर्थः। विहितं कर्म यावज्जीवं मरणपर्यन्तमित्यर्थः, अनुष्ठेयमेव, ‘यावज्जीवमग्निहोत्रं जुहुया’दिति श्रुतेरिति भावः। परिहरति— नेति। अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् अध्यायसम्बन्धमभिधाय ‘अनाश्रितः कर्मफलम्’ इत्यादिश्लोकस्यावान्तरतात्पर्यमाह— तत्र ध्यानयोगस्येति। समुच्चयवादी मर्यादाकरणमाक्षिपति— ननु किमर्थमिति। ‘यावज्जीवमग्निहोत्रं जुहोती’ति श्रुतेः, ‘वीरहा वा एष आनन्दगिरिकृतव्याख्या ध्यानयोगप्रस्तावानन्तरं तद्योग्यताहेतुकर्मणः स्तुतिं भगवानुक्तवानित्याह४— श्रीभगवानिति। पूर्वोत्तराध्याययोः सङ्गतिमभि- दधानो वृत्तमनूद्याध्यायान्तरमवतारयति— अतीतेति। सम्यग्दर्शनप्रकरणे ध्यानयोगस्य प्रसङ्गाभावं व्युदस्यति— सम्यगिति। संग्रह- विवरणयोरतीतानन्तराध्याययोर्युक्तं हेतुहेतुमत्त्वमिति भावः। अध्यायसम्बन्धमभिधाय, ‘अनाश्रितः कर्मफलम्’ इत्यादिश्लोकद्वयस्य तात्पर्यमाह— तत्रेति। कर्मयोगस्य संन्यासहेतोर्मर्यादां दर्शयितुम् , साङ्गं च योगं विचारयितुमध्याये प्रवृत्ते सतीति सप्तम्यर्थः। संन्यासिना कर्तव्यं कर्मेत्येवं प्रतिभासं व्युदस्यति— गृहस्थेनेति। ५कर्तव्यत्वं स्तुतियोग्यत्वम् अतःशब्दार्थः। समुच्चयवादी सीमाकरणमाक्षिपति— नन्विति। यावज्जीवश्रुतिवशाद् ध्यानारोहणसामर्थ्ये सत्यपि कर्मानुष्ठानस्य दुर्वारत्वादिति हेतुमाह— यावतेति। भार्यावियोगादिप्रतिबन्धाद् यावज्जीवश्रुतिचोदितकर्माननुष्ठानवद् , वैराग्यप्रतिबन्धादपि तदननुष्ठानसम्भवाद् , भगवतो विशेषवचनाच्च न यावज्जीवं कर्मानुष्ठानप्रसक्तिरिति परिहरति— न, आरुरुक्षोरिति। उक्तमेवार्थं व्यतिरेकद्वारेण विवृणोति— १अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः ‘स्पर्शान् कृत्वा बहिः’ (भ.गी.५.२७) इत्यादयः उपदिष्टाः। तेषां वृत्तिस्थानीयोऽयं षष्ठोऽध्याय आरभ्यते। तत्र ध्यानयोगस्य बहिरङ्गं कर्म २इति यावद् ध्यानयोगारोहणसमर्थः३, तावद् गृहस्थेनाधिकृतेन कर्तव्यं कर्मेत्यतः तत् स्तौति— अनाश्रित इति। ननु किमर्थं ध्यानयोगारोहणसीमाकरणम् , यावताऽनुष्ठेयमेव विहितं कर्म यावज्जीवम्? न ; ‘आरुरुक्षोर्मुने- १. अव्यवहितपूर्वाध्यायान्ते इत्यर्थः। पञ्चमाध्यायान्ते इति यावत्। एवमग्रेऽपि ज्ञेयम्। २. इतिशब्दो हेतौ। यावदिति अवधौ। ३. ‘ध्यानयोगारोहणासमर्थः’ इति पा.। ४. वेदव्यासः इति अत्र शेषः। ५. ‘कर्तव्यत्वस्तुतियोग्यत्वम्’ इति पा.। ‘कर्तव्यत्वेन स्तुतियोग्यत्वम्’ इति पाठो युक्तः।

[[३०५]]

‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते॥’ इति वक्ष्यति इहैवाध्याये भगवान्। योगमारुरुक्षोः कर्मणा सम्बन्धः, योगारूढस्य तु शमेन सर्वकर्मसंन्यासात्मकेन सम्बन्धः भगवदभिप्रेतः। ततश्च यावद् ध्यानयोगारोहणसमर्थः, तावत् कर्म कुर्यात् , सति तु योगारोहणे संन्यासमेव कुर्यादिति न यावज्जीवं कर्मकरणम्। ननूभयस्योभयं कर्तव्यत्वेनाभिमतं भगवत इति शङ्कते—आरुरुक्षोरिति। अभिप्रेतं स्याच्चेदित्यन्वयः। शङ्कां निराकरोति—आरुरुक्षोरिति। मुनेः आरुरुक्षुत्वमिति, आरूढत्वमिति च विशेषणं व्यर्थम् , मुनेः शमः कर्म च कर्तव्यमिति वचनादेव आरुरुक्षोरारूढस्य च मुनेरुभयकर्तव्यत्वसिद्धेः। ननु स्पष्टार्थं विशेषणम् , अत आह— विभागकरणं चेति। आरुरुक्षोः कर्म कारणमिति, आरूढस्य शमः कारणमिति च विभागकरणं व्यर्थम् , उभयेनोभयस्यापि कर्तव्यत्वात्। ननु योगमारुरुक्षोर्मुनेर्यत् कर्म, योगारूढस्य मुनेर्यश्च शमः, तदुभयम् अनारुरुक्षितयोगानाम् अनारूढयोगानां च कर्तव्यत्वेन भगवताऽभिप्रेतमिति शङ्कते— तत्रेत्यारभ्य चेदित्यन्तेन ग्रन्थेन। तत्रेत्यस्य व्यवहारभूमावित्यर्थः। अनारुरुक्षूणामनारूढानां चेति पदद्वयस्य मूले शेषः। योगमारुरुक्षोर्मुनेर्विहितं कर्म कारणमुच्यते, योगारूढस्य तस्य मुनेः शम एव शमश्च कारणमुच्यत इति पूर्वपक्षिमतानुसारेण श्लोकस्यान्वयः। परिहरति— नेति। कारणमाह— तस्यैवेति वचनादिति। यः पूर्वं योगमारुरुक्षुरभवत् स एवेदानीं योगमारूढो भवति। अत एव तस्यैवेति तत्पदेन पूर्वोक्तप्रकृतयोगारुरुक्षुग्रहणम्। ततश्च आरुरुक्षुत्वारूढत्वयोः कालभेदेनैकपुरुष- देवानां योऽग्निमुद्वासयते’ इति निन्दावचनाच्च यावज्जीवमनुष्ठेयमेव कर्मेत्यर्थः। यथा भार्या(दि)वियोगादिप्रतिबन्धवशाद् यावज्जीवश्रुतिचोदितस्याननुष्ठानं तथा वैराग्यप्रतिबन्धादप्यननुष्ठानं सम्भविष्यति। तथा सर्वज्ञस्य भगवतो विशेषवचनाद् न यावज्जीवमनुष्ठानप्राप्तिरित्याह— न, आरुरुक्षोरिति। उक्तमेव व्यतिरेकमुखेन विवृणोति— आरुरुक्षोः आरूढस्य चेत्यादिना। आरोढुमिच्छतीत्यारुरुक्षुरित्यत्र सकर्मिका आरोहणेच्छा विशेषणम् ,आरोहणं कृतवानित्यारूढ इत्यत्रेच्छाविषयभूतमारोहणं विशेषणम्। एवं शमकर्मविषययोर्भेदेन विशेषणमनुपपन्नं स्यादित्यर्थः। विशेषणस्याप्यन्यथाऽप्युपपत्तिं शङ्कते— तत्राश्रमिणामित्यादिना। यद्यारुरुक्षोः आरूढ अन्य एव, तदा तस्यैवेति प्रकृतपरामर्शो न स्यादित्याह— तस्यैवेति। पुनरपि योगशब्दप्रयोगाद् य एव योगमारुरुक्षुः स एव योगारूढ इति आरुरुक्षोरित्यादिना। आरोढुमिच्छतीत्यारुरुक्षुरित्यत्रारोहणेच्छा विशेषणम् , आरोहणं कृतवानित्यारूढः इत्यत्र पुनः इच्छाविषयभूत- मारोहणं विशेषणम्। एवं शमकर्मविषययोर्भेदेन विशेषणं मर्यादाकरणानङ्गीकरणे विरुद्धमापद्येत, तयोरेव विभागकरणं च भागवतं सीमानङ्गीकारे न युज्येतेत्यर्थः। विशेषणविभागकरणयोरन्यथोपपत्तिमाशङ्कते—तत्रेति। व्यवहारभूमिः सप्तम्यर्थः। षष्ठी निर्धारणे। भवत्वधिकारिणां त्रैविध्यम् , तथापि प्रकृते विशेषणादौ किमायातमित्याशङ्क्य , तृतीयापेक्षया तदुपपत्तिरित्याह— तानपेक्ष्येति। आरुरुक्षोरारूढस्य च भेदे तस्यैवेति प्रकृतपरामर्शानुपपत्तिरिति दूषयति— न, तस्येति। यद्यनारुरुक्षुं पुरुषमपेक्ष्य आरुरुक्षोरिति विशेषणम् , तस्य च कर्म आरोहणकारणम् ,

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

र्योगं कर्म कारणमुच्यते’(भ.गी.६.३) इति विशेषणात् , आरूढस्य च शमेनैव सम्बन्धकरणात्। आरुरुक्षोरारूढस्य च शमः कर्म चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात् , तदा ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति शमकर्मविषयभेदेन विशेषणं, विभागकरणं चानर्थकं स्यात्। तत्र - आश्रमिणां कश्चिद् योगमारुरुक्षुर्भवति, आरूढश्च कश्चित् , अन्ये नारुरुक्षवो न चारूढाः; तानपेक्ष्य ‘आरुरुक्षोः, आरूढस्य च’ इति विशेषणं विभागकरणं चोपपद्यत एवेति चेत् , न; ‘तस्यैव’ इति वचनात् ,

[[अ. ६. श्लो. १]] [[३०६]]

पुनर्योगग्रहणाच्च ‘योगारूढस्य’ इति, य आसीत् पूर्वं योगमारुरुक्षुः, तस्यैवारूढस्य शम एव १कर्तव्यः कारणं२ योगफलं प्रति उच्यत इति। अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः। योगविभ्रष्टवचनाच्च। गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठेऽध्याये, स योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं निष्ठत्वादाश्रमिणां मध्ये कश्चिदारुरुक्षुः कश्चिदारूढश्चेति पुरुषभेदवर्णनमयुक्तमिति भावः। कारणान्तरमाह— पुनरिति। योगारूढस्येति पुनर्योगग्रहणाच्चेत्यन्वयः। आरूढस्येत्येतावत एवोक्तौ योगमारुरुक्षोरित्यतो योगपदस्यात्राप्यनुवर्तनेन योगमारूढस्येतीष्टसिद्धौ व्यर्थं पुनर्योगपदग्रहणमित्यर्थः। न चेदं चोद्यं सिद्धान्तेऽपि समानमिति वाच्यम् , सिद्धान्ते पुनर्योगपदाभावे य एव योगमारुरुक्षुः स एवारूढ इत्युक्तौ, किमारूढः इत्याकाङ्क्षायां योगमिति वक्तुं न शक्यते, एकस्मिन्नेकदा आरुरुक्षुत्वारूढत्वयोः स्थित्ययोगात्। तथा च आसनादिकमारूढः इत्यापतेदिति। न च - यः पूर्वं योगमारुरुक्षुः स इदानीमारूढः, किमारूढः इति शङ्कायां सान्निध्याद् योगमेवेति - वाच्यम्। यः पूर्वं यत् कामितवान् स इदानीं तदेवाप्तवानित्यत्र नियामकाभावात्। पूर्वं काशीं जिगमिषुरिदानीं रामेश्वरं गतः इति दर्शनाच्च, पूर्वस्मिन्नहनि सोऽहं यज्ञं करिष्ये इति सङ्कल्पितवतः पुरुषस्य परस्मिन्नहनि वैराग्यात् कर्मसंन्यासस्य दर्शनाच्च। तस्माद् यः पूर्वं योगमारुरुक्षुः स इदानीं योगमारूढः इति पुनरवश्यं वक्तव्यो योगशब्दः। पूर्वपक्षिमते तु— योगमारुरुक्षोरारूढस्य च कर्म शमश्च कारणमित्येतावतैव योगमारूढस्येति सिध्यतीति व्यर्थमेव पुनर्योगग्रहणम्। शम एवेति। न तु कर्मेत्येवकारार्थः। ननु मूले शमः कारणमुच्यत इत्येवोक्तम् , न तु शमः कर्तव्य इति, अत आह— कारणमिति। हि यतः, शम इति शेषः, योगफलं प्रति कारणमुच्यते, ततः शमः कर्तव्य इति सिध्यतीत्यर्थः। योगफलं प्रति शमस्य साधनत्वाद् योगफलार्थिना शमः कर्तव्य इति मूलेन सूचितमिति भावः। योगफलं सम्यग्दर्शनमिति विवेकः। अत इति। योगारूढस्य कर्मकर्तव्यत्वाभावादित्यर्थः। कस्यचिदपि कर्मणो यावज्जीवं कर्तव्यत्वप्राप्तिर्नेत्यन्वयः। उक्तार्थे हेत्वन्तरमाह—योगविभ्रष्टवचनाच्चेति। ‘कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यती’ति, ‘शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते’ इति च योगभ्रष्टप्रतिपादनात्। संग्रहवाक्यमेव विवृणोति— गृहस्थस्येत्यादिना। अर्जुनेन योगभ्रष्टस्य नाश आशङ्कितः प्रत्यभिज्ञोदेतीत्याह— पुनर्योगग्रहणाच्चेति। इतश्च न यावज्जीवं कर्म कर्तव्यमित्याह—योगविभ्रष्टस्य संन्यासिनो वचनादिति। ननु गृहस्थ एव योगभ्रष्टशब्देन अनारूढं च पुरुषमपेक्ष्य आरूढस्येति विशेषणम् , तस्य च शमः संन्यासो योगफलप्राप्तौ कारणमिति विशेषणविभागकरणयोरुपपत्तिः, तदा आरुरुक्षोरारूढस्य च भिन्नत्वात् प्रकृतपरामर्शिनस्तच्छब्दस्यानुपपत्तेः न युक्तमित्थं विशेषणाद्युपपादनमित्यर्थः। किञ्च योगमारुरुक्षोः तदारोहणे कारणं कर्मेत्युक्त्वा पुनः ‘योगारूढस्ये’ति योगशब्दप्रयोगाद् यो योगं पूर्वमारुरुक्षुरासीत् तस्यैवापेक्षितं योगमारूढस्य तत्फलप्राप्तौ कर्मसंन्यासः शमशब्दवाच्यो हेतुत्वेन कर्तव्य इति वचनाद् , आरुरुक्षोरारूढस्य चाभिन्नत्वप्रत्यभिज्ञानाद् न तयोर्भिन्नत्वं शङ्कितुं शक्यमित्याह— पुनरिति। यत्तु यावज्जीवश्रुतिविरोधाद् योगारोहणसीमाकरणं कर्मणोऽनुचितमिति, तत्राह— अत इति। पूर्वोक्तरीत्या कर्मतत्त्यागयोर्विभागोपपत्तौ श्रुतेरन्यविषयत्वाद् योगमारूढस्य मुमुक्षोर्जिज्ञासमानस्य३ नित्यनैमित्तिककर्मस्वपि परित्यागसिद्धिरित्यर्थः। इतश्च यावज्जीवं कर्म कर्तव्यं न भवतीत्याह— योगेति। संन्यासिनो योगभ्रष्टस्य विनाशशङ्कावचनान्न यावज्जीवं कर्म कर्तव्यं प्रतिभातीत्यर्थः। ननु योगभ्रष्टशब्देन गृहस्थस्यैवाभिधानात् , तस्यैवास्मिन्नध्याये योगविधानाद् , योगारोहणयोग्यत्वे सत्यपि यावज्जीवं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘कर्तव्यम्’ इति पा.। २. ‘कारणं हि’ इति रा.पा.। ३. तत्त्वमिति शेषः। कर्मसु इति विषयसप्तमी।

[[३०७]]

प्राप्नोतीति तस्य नाशाशङ्काऽनुपपन्ना स्यात्१। अवश्यं हि कृतं कर्म काम्यं नित्यं वा, मोक्षस्य नित्यत्वादनारभ्यत्वे, स्वं फलमारभत एव। नित्यस्य च कर्मणो वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यमित्यवोचाम२, अन्यथा वेदस्यानर्थक् य- प्रसङ्गादिति। न च कर्मणि सत्युभयविभ्रष्टवचनमर्थवत् , कर्मणो विभ्रंशकारणानुपपत्तेः। ‘कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यती’ति। योगो ध्यानयोगस्तस्यैवेह प्रकृतत्वात्। तस्माद् भ्रष्टो योगभ्रष्टः, यस्य योगो विहितः स एव ततो भ्रंशमाप्तुमर्हति, न त्वन्यः। न हि शूद्रः कर्मभ्रष्टो भवेत् , किन्तु द्विज एव, तस्यैव कर्मविधानात्। तथा च यदि गृहस्थस्य ध्यानयोगो विहितस्तर्हि योगभ्रष्टस्य गृहस्थस्यार्जुनेन नाश आशङ्कितःस्यात् , तच्चानिष्टम् , ध्यानयोगाद् भ्रष्टोऽपि गृहस्थः पुनः कर्मणि स्थित्वा तत्फलं प्राप्नुयादेवेति। ननु नास्ति कर्मणां फलमिति वादिनं प्रत्याह— अवश्यमिति। अनारभ्यत्वे अकार्यत्वे। नित्यत्वाद- कार्यमेकं मोक्षरूपं फलं विहाय तदतिरिक्ताः धर्मार्थकामास्त्रयोऽपि कर्मभिरारभ्यन्त एव। ननु काम्यस्य कर्मणः कामप्रयुक्तत्वादस्तु फलवत्त्वम् , नित्यस्य तु तन्नास्ति, अकामप्रयुक्तत्वादित्यत आह—नित्यस्य चेति। अन्यथेति। नित्यस्य वेदमूलस्य६ कर्मणः फलाभाव इत्यर्थः। आनर्थक्यमिति। निष्फलनित्यकर्मविधानादिति भावः। एवं योगभ्रष्टस्यापि गृहस्थस्य फलप्रदकर्मसत्त्वात् ‘छिन्नाभ्रमिव नश्यती’त्येतन्नाशाशङ्का अनुचिताऽर्जुनस्येति प्रतिपाद्य, ‘कच्चिन्नोभयविभ्रष्टः’ इत्यंशमपि विवृणोति— न चेति। उभयविभ्रष्टत्वं नाम कर्मयोगध्यानयोगद्वयतो विभ्रंशः। नायं गृहस्थस्य घटते, तस्य कर्मसत्त्वादित्याह— कर्मणि सतीति। कर्माण्यसंन्यस्यैव ध्यानयोगे प्रवृत्तत्वाद् गृहस्थस्य यदा ध्यानयोगाद् भ्रंशस्तदा कर्मयोगे स प्रवर्तत एवेति कथमस्य कर्मयोगाद् भ्रंशः? न कथमपीति भावः। कस्मान्नोच्यते? षष्ठाध्याये योगोऽपि तस्यैव विहितः३ इत्याशङ्क्याह— गृहस्थ[स्य] चेदिति। ननु गृहस्थेनापि मुमुक्षुणा कृतं कर्म मोक्षादन्यत् फलं नारभते। अतः ‘छिन्नाभ्रमिव नश्यती’त्याशङ्का युक्तेत्याशङ्क्याह— अवश्यं हीति। कर्मणो हि निर्दोषात् [वेदात्] फलदायिनी शक्तिः स्वाभाविकी समधिगता। ब्रह्मात्मभावश्च स्वतःसिद्धत्वात् कर्मफलं [न] भवति। अतः अन्यत् फलमारभत एव कर्मेत्यर्थः। ननु मुमुक्षुर्विरक्तत्वात् काम्यं तावन्न करोति, नित्यं तु निष्फलमित्याशङ्क्याह— नित्यस्य चेति। इतश्च गृहस्थो योगभ्रष्टो नोच्यत इत्याह— न च कर्मणि सतीति। कर्म कर्तव्यमिति, नेत्याह— गृहस्थस्येति। ४तेनापि मुमुक्षुणा कृतस्य कर्मणो मोक्षातिरिक्तफलानारम्भकत्वाद् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यतीति शङ्का सावकाशेत्याशङ्क्याह— अवश्यं हीति। अपौरुषेयान्निर्दोषाद् वेदात् फलदायिनी कर्मणः स्वाभाविकी शक्तिरवगता। ब्रह्मभावस्य च स्वतःसिद्धत्वान्न कर्मफलत्वम्। अतो मोक्षातिरिक्तस्यैव फलस्य कर्म आरम्भकमिति कर्मिणि योगभ्रष्टेऽपि ५कर्मगतिं गच्छतीति निरवकाशा शङ्केत्यर्थः। ननु मुमुक्षुणा काम्यप्रतिषिद्धयोरकरणात् , कृतयोश्च नित्यनैमित्तिकयोरफलत्वात् कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वम्? तत्राह— नित्यस्य चेति। चकारेण नैमित्तिकं कर्मानुकृष्यते। वेदप्रमाणकत्वेऽपि नित्यनैमित्तिकयो- रफलत्वे दोषमाह— अन्यथेति। कर्मणोऽनुष्ठितस्य फलारम्भकत्वध्रौव्याद् गृहस्थो योगभ्रष्टोऽपि कर्मगतिं गच्छतीति न तस्य नाशाशङ्केति शेषः। इतोऽपि गृहस्थो योगभ्रष्टशब्दवाच्यो न भवतीत्याह— न चेति। ज्ञानं कर्म चेत्युभयम् , ततो विभ्रष्टोऽयं नश्यतीति वचनम् गृहस्थे कर्मणि सति नार्थवद् भवितुमलम् , तस्य कर्मनिष्ठस्य कर्मणो विभ्रंशे हेत्वभावात् , तत्फलस्यावश्यकत्वादित्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. उक्तनाशाशङ्कायाः कर्मरहिते संन्यासिन्येव सावकाशता वाच्या, नान्यत्र, ध्यानाद् भ्रंशेऽपि कर्मणः सत्त्वेन तत्फलावश्यंभावात्। ततश्च यावज्जीवं कर्मणः कर्तव्यत्वे संन्यासासंभवात् क्वोक्ताशङ्काऽवकाशमासादयेदित्युक्ताशङ्कैवानुपपन्ना सती यावज्जीवं कर्मणः कर्तव्यत्वाभावमाक्षिपेदिति भावः। २. द्र.भ.गी. ४-१८ पृ. २२४ । ३. कस्मान्नोच्यते इत्यनुषङ्गः। ४. नित्यकर्ममात्रकर्तरि मुमुक्षौ ध्यानभ्रष्टे उक्ताशङ्कायाः संभवेनान्यथोपपत्तिमाशङ्क्य परिहरतीत्युत्तरग्रन्थमवतारयति— तेनापीति। गृहस्थेनेत्यर्थः। ५. तस्यापि फलप्रापकनित्यादिकर्मणः सत्त्वात् स कर्मगतिं प्राप्नोत्येवेति तस्योभयविभ्रष्टत्वेन नाशाशङ्का निरवकाशा इति योजना। ६. वेदविहितस्येत्यर्थः।

[[अ. ६. श्लो. १]] [[३०८]]

कर्म कृतमीश्वरे संन्यस्येत्यतः १कर्तरि कर्म फलं नारभत इति चेत्? न, ईश्वरे २संन्यासस्याधिकतर- फलहेतुत्वोपपत्तेः। मोक्षायैवेति चेत्? स्वकर्मणां कृतानामीश्वरे संन्यासो मोक्षायैव, न फलान्तराय, योगसहितः; योगाच्च विभ्रष्ट इत्यतः तं प्रति नाशाशङ्का युक्तैवेति चेत्? न; ‘एकाकी यतचितात्मा निराशीरपरिग्रहः’ (भ.गी.६.१०), ननु कर्मणो विभ्रंशकारणमस्ति कर्मणामीश्वरार्पणात्मकमिति शङ्कते— कर्म कृतमिति। अतः ईश्वरार्पितत्वादित्यर्थः। कर्मेति कर्तृपदम्। नारभते न जनयतीत्यर्थः। यद्वा कर्मयोगं विहाय, ध्यानयोगे प्रवृत्तः तमपरिसमाप्यैव मृतो यो गृहस्थः स उभयभ्रष्ट इत्युच्यत इति पूर्वपक्षमभिप्रेत्याह— न चेति। कर्मणि सतीति। कर्मसंन्यासस्याकृतत्वादित्यर्थः। न च कर्मयोगाननुष्ठानमेव संन्यास इति वाच्यम् , शूद्रस्यापि संन्यासित्वा- पत्तेः। तस्माद् विधिपूर्वकः कर्मसंन्यास एव संन्यासः। स यस्यास्ति तस्य संन्यासिनः कर्म नास्ति। अन्यस्य त्वस्त्येवेति। ननु यदितः प्राक् गृहस्थेन कर्म कृतं तदीश्वरायार्पितमेवेति नास्ति गृहस्थस्यास्य कर्मेति शङ्कते— कर्म कृतमिति। अधिकतरेति अनीश्वरसमर्पितकर्मफलापेक्षयाऽत्यधिकेत्यर्थः। ननु मोक्षापेक्षया कर्माणीश्वरे समर्पितानि कर्मयोगिना। अतः तानि कर्माणि मोक्षेतरत् फलं जनयितुं नेशते। स च मोक्षः परिपक्वकर्मयोगसाध्यः। कर्मयोगपरिपाकश्च यावज्जीवमनभिसंहित- फलकर्मानुष्ठानादेव भवति, न तु मध्ये कर्मत्यागात्। तस्माद् यः कर्मयोगमनुतिष्ठन् तं विहाय ध्यानयोगमाश्रित्य तमप्यपरिसमाप्यैव मृतो गृहस्थः स कर्मयोगाद् ध्यानयोगाच्च भ्रष्ट इत्युभयभ्रष्ट एवेति शङ्कते— मोक्षायैवेति चेदिति। सङ्ग्रहवाक्यं विवृणोति— स्वकर्मणामिति। ४अत्र योगपदं कर्मयोगध्यानयोगोभयपरम् , योगद्वयसहितो योगद्वयाद् भ्रष्टश्चेत्यर्थः। अतः उभयभ्रष्टत्वादित्यर्थः। तं प्रतीति। एवमुभयभ्रष्टं गृहस्थं प्रतीत्यर्थः। परिहरति— नेति। ‘योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः’॥ इती[है]व वक्ष्यते। ईश्वरे समर्पणात् कर्तरि फलं नारभते कर्म। अतोऽस्ति भ्रंशकारणमित्याह— कर्म कृतमिति। ईश्वरे समर्पणं कर्मणो न भ्रंशकारणम् , राज्ञ आराधनबुद्ध्या वस्त्रादिसमर्पणस्याधिकफलहेतुत्वादित्याह— न, ईश्वरे न्यासस्येति। सत्यम् अधिकफलहेतुत्वम्। किन्तु तदेव मोक्षहेतुत्वमित्याह—मोक्षायैवेति। तदेव विवृणोति—सर्वक[स्वक]र्मणामिति। योगसहितो न्यासो मोक्षाय भवति। योगाच्च विभ्रष्टोऽयं गृहस्थ इति युक्तैव नाशाशङ्केत्यर्थः। ध्यानसहिते ईश्वरे[सहितमीश्वरे] कर्मसमर्पणं मोक्षायेत्यत्र प्रमाणाभावान्न गृहस्थो योगभ्रष्ट इत्याह— नेति। इतश्च न गृहस्थो योगभ्रष्ट इत्याह— एकाकीति। कृतस्य कर्मणो मुमुक्षुणा भगवति समर्पणात् कर्तरि फलानारम्भकत्वाद् अस्ति विभ्रंशकारणमिति शङ्कते— कर्मेति। राजाराधनबुद्ध्या धनधान्यादिसमर्पणस्याधिकफलहेतुत्वोपलम्भाद् ईश्वरे समर्पणं न भ्रंशकारणमिति दूषयति— नेत्यादिना। अधिक- फलहेतुत्वेऽपि मोक्षहेतुत्वमिष्यतामिति शङ्कते— मोक्षायेति। तदेव चोद्यं विवृणोति— स्वकर्मणामिति। सहकारिसामर्थ्यात् तस्य ३फलान्तरं प्रत्युपायत्वासिद्धिरिति हेतुं सूचयति— योगेति। ध्यानसहितस्य संन्यासस्य मोक्षौपयिकत्वे कुतो योगभ्रष्टमधिकृत्य नाशा- शङ्केत्याशङ्क्याह—योगाच्चेति। सहकार्यभावे सामग्र्यभावात् फलानुपपत्तेर्युक्ता नाशाशङ्केत्यर्थः। ध्यानसहितमीश्वरे कर्मसमर्पणं मोक्षायेत्यत्र प्रमाणाभावाद् गृहस्थो योगभ्रष्टशब्दवाच्यो न भवतीति दूषयति— नेति। गृहस्थस्य योगभ्रष्टशब्दवाच्यत्वाभावे हेत्वन्तरमाह—एकाकीति। न खल्वेतानि विशेषणानि गृहस्थसमवायीनि सम्भवन्ति। तेन तस्य ध्यानयोगविध्यभावान्न तं प्रति योग- भ्रष्टशब्दवचनमुचितमित्यर्थः। एकाकित्ववचनं गृहस्थस्यापि ध्यानकाले स्त्रीसहायत्वाभावाभिप्रायेण भविष्यतीत्याशङ्क्य , अग्निहोत्रादिवद् १. ‘कर्तुः’ इति पा.। २. ‘संन्यस्तस्य’ इति पा.। ३. ईश्वरे संन्यस्तस्य कर्मणो मोक्षातिरिक्तफलं प्रति कारणत्वासिद्धिरिति शङ्कितुराशयः। योगसहितः इति न्यास- विशेषणं, पूर्ववाक्यान्वितं चानन्दगिरिटीकानुसारेण। ४. ‘योगसहितः; योगाच्च विभ्रष्टः’ इत्यत्र योगसहितः इति पुरुषविशेषणं रामकविव्याख्यानुसारेण।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[३०९]]

‘ब्रह्मचारिव्रते स्थितः’(भ.गी.६.१४) इति च कर्मसंन्यासविधानात्। न चात्र ध्यानकाले स्त्रीसहायत्वाशङ्का येनैकाकित्वं विधीयते। न च गृहस्थस्य ‘निराशीरपरिग्रहः’ इत्यादिवचनमनुकूलम्। उभयविभ्रष्टप्रश्नानुपपत्तेश्च। एतच्छ्लोकोक्तानामेकाकित्वापरिग्रहत्वब्रह्मचर्याणां गृहस्थेऽसम्भवात् संन्यासिविषय एवायं ध्यानयोगो न गृहस्थविषय इत्यर्थः। ननु ‘एकाकी’त्यनेन संन्यासी नोच्यते, किन्तु गृहस्थ एव। सद्वितीयस्यापि तस्य ध्यानकाले स्त्रीवियोगेन एकाकित्व- मप्युपपद्यत इत्यत आह— न चेति। यदि ध्यानकाले स्त्रीसहायत्वशङ्का स्यात् तर्हि तन्निवृत्तये एकाकित्वविधानं सार्थकं स्यात् , न तु तदस्ति, न हि कर्मकाल इव ध्यानकाले गृहस्थेन स्त्रीसहायेन भाव्यमिति विधिरस्ति, तस्माद् नात्रैकाकिशब्दस्य स्त्रीसहायरहित इत्यर्थः, किन्तु संन्यासीत्येव। ननु ‘एकादाकिनिच्चासहाये’१ इति एकाकिशब्दस्य असहाय इत्यर्थः। तच्चासहायत्वं गृहस्थस्य ध्यानकाले आवश्यकमिति भवतु यथाकथञ्चिद् गृहस्थस्याप्यसहायत्वविधिः, अत आह— न च गृहस्थस्येति। कामपरिग्रहाभावादीनां गृहस्थे ऽसम्भवात् तत्साधारण्यादेकाकित्वमपि संन्यासिविषयमेवेत्यर्थः। पूर्वोक्तमेव कारणं पुनराह— उभयेति। ननु योगसहितस्य योगाच्च विभ्रष्टस्य गृहस्थस्योभयभ्रष्टत्वमुपपद्यत एवेति प्रागुक्तशङ्कायाः कः परिहारः, येनोभयविभ्रष्ट- प्रश्नानुपपत्तेश्चेति वक्तुं शक्यत इति चेत्? उच्यते— एकाकीत्यादिना संन्यासिन एव ध्यानयोगेऽधिकारस्य विहितत्वाद् गृहस्थस्य ध्यानयोगारोहणं नास्त्येव, येन कर्मयोगत्याग आशङ्क्येत गृहस्थस्य भ्रंशहेतुः। एवं गृहस्थस्य ध्यानयोगारोहणाभावादेव न कर्मयोगाद् भ्रंशः, नापि ध्यानयोगादिति नास्ति गृहस्थस्योभयभ्रष्टत्वप्रसक्तिः। संन्यासिनस्तु सोऽस्ति, कर्माणि संन्यस्य ध्यानयोगमधिष्ठितत्वेन कर्मफलभ्रंशाद् ध्यानयोगस्य चापक्वत्वेन ध्यानयोगभ्रंशाच्च। न हि कर्माणि संन्यस्य ध्यानयोगे प्रवृत्तः संन्यासी ध्यानयोगानुष्ठानस्या- शक्यत्वे तं विहाय पुनः कर्मसु प्रवर्तितुमर्हति। न च संन्यासिनोऽपि प्रागनुष्ठितकर्मफलसत्त्वात् कथमुभयभ्रंश इति वाच्यम् , सर्वकर्मसंन्यासेन पूर्वाचरितसर्वकर्मफलत्यागस्यापि कृतत्वात् , पूर्वाचरितकर्मफलभूतस्वर्गादिकामस्य संन्यासेऽनधिकारात् , इहामुत्र- फलभोगविरागस्य संन्यासहेतुत्वात् , ‘यदहरेव विरजेत्तदहरेव प्रव्रजेद्’ इति श्रुतेः, २न संन्यासिनो गृहस्थाश्रमसमयानुष्ठितयज्ञादि- कर्मफलसम्भवः। चित्तशुद्धिस्तु दृष्टफलमेवेति न तन्निराकर्तुं त्यक्तुं वा शक्यते। तस्मात् संन्यासिनः पूर्वाचरितकर्मवैफल्यात् , संन्यासाश्रमस्वीकारानन्तरं कर्मणामकर्तव्यत्वाच्च न कर्माणि सन्तीति कर्मभ्रंशस्तावत् सम्पन्नः। ध्यानयोगस्याप्यसाधितत्वेन तु योगभ्रंशश्च जायते। अत उभयभ्रष्टत्वं संन्यासिन एवोपपद्यत इति कृत्वा गृहस्थविषयोभयभ्रष्टप्रश्नानुपपत्तिर्दुर्वारैव। एतावता यावद् ध्यानयोगारोहणासामर्थ्यं तावद् गृहस्थेन कर्म कर्तव्यम् , सति तु सामर्थ्ये संन्यस्य ध्यानयोगः कर्तव्य इति नन्वेकाकित्ववचनं गृहस्थस्यापि ज्ञान[ध्यान]काले स्त्रीसहायत्वाभावाभिप्रायेण भविष्यतीत्याशङ्क्याह— न चात्रेति। अप्राप्तप्रतिषेधप्रसङ्गादग्निहोत्रादिवद् ध्यानस्य पत्नीसहायत्वाभावादित्यर्थः। विशेषणान्तरपर्यालोचनयाऽपि एकाकिशब्दो न गृहस्थपर इत्याह— न च गृहस्थस्येति। किञ्च यदि गृहस्थस्यैवैकाकित्वं विवक्षितम् , तदा तं प्रति उभयविभ्रष्टप्रश्नो न स्यादित्याह— उभयविभ्रष्टेति। ध्यानस्य पत्नीसाध्यत्वाभावाद् अप्राप्तप्रतिषेधान्मैवमित्याह— न चात्रेति। विशेषणान्तरपर्यालोचनयाऽपि नायमेकाकिशब्दो गृहस्थपरो भवितुमर्हतीत्याह— न चेति। किञ्च गृहस्थस्यैवैकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रत्युभयभ्रष्टप्रश्नो नोपपद्यत इत्याह—उभयेति। न हि गृहस्थं प्रत्युभयस्माद् ज्ञानात् कर्मणश्च विभ्रष्टत्वमुपेत्य प्रष्टुं युज्यते, तस्य ज्ञानाद् भ्रंशेऽपि कर्मणस्तदभावाद् , अनुष्ठीयमान- कर्मभ्रंशेऽपि प्रागनुष्ठितकर्मवशात् फलप्रतिलम्भात्। अतो यथोक्तप्रश्नालोचनया न गृहस्थं प्रति ध्यानविधानोपपत्तिरित्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. अनेन सूत्रेण व्युत्पादितस्येति शेषः। २. संन्यासिनां पूर्वाश्रमकृतकर्मफलाभावे प्रमाणमन्वेषणीयम्।

[[अ. ६. श्लो. १]] [[३१०]]

‘अनाश्रितः’ इत्यनेन कर्मिण एव संन्यासित्वं, योगित्वं चोक्तम् , प्रतिषिद्धं च निरग्नेरक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्? न ; ध्यानयोगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात्। न केवलं निरग्निरक्रिय एव संन्यासी योगी च ; किं तर्हि? कर्म्यपि कर्मफलासङ्गं संन्यस्य कर्मयोगमनुतिष्ठन् सत्त्वशुद्ध्यर्थं संन्यासी च योगी च भवतीति स्तूयते। न चैकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिः, चतुर्थाश्रमप्रतिषेधश्चोपपद्यते। न च प्रसिद्धं निरग्नेरक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगित्वं च संन्यासिन एव ध्यानयोगेऽधिकारः ज्ञानयोगवत् , न तु गृहस्थस्येति सिद्धम्। ननु ‘अनाश्रितः कर्मफल’मिति प्रकृतश्लोकेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तम्— ‘स संन्यासी च योगी चे’ति। अनग्नेरक्रियस्य च संन्यासित्वं योगित्वं च प्रतिषिद्धम्— ‘न निरग्निर्न चाक्रियः’ इति। तथा च यः कर्मयोगी गृहस्थः स एव संन्यासी, ध्यानयोगी च, न तु त्वदुक्तसंन्यासाश्रमी संन्यासी, योगी वा भवितुमर्हतीति गृहस्थस्य कर्मिण एव ध्यानयोगेऽधिकारः, न तु संन्यासिन इति भगवतो मतमित्याक्षिपति— कर्मिण एवेति। यद्वा संन्यास इति कश्चनाश्रमो नास्त्येव, किं तर्हि कर्मफलसंन्यासी गृहस्थ एव संन्यासीति भगवतो मतमित्याक्षिपति— कर्मिण एवेति। परिहरति— नेति। स्तुतिपरत्वादिति दर्शितवचनस्येत्यर्थः। फलाकाङ्क्षायाः संन्यासः त्यागः, तस्य स्तुतिः, तत्परत्वात्। स्तुतिप्रकारमेव दर्शयति— न केवलमित्यादिना स्तूयत इत्यन्तेन ग्रन्थेन। यः कर्मफलमनाश्रित्य कार्यं कर्म करोति, स च संन्यासी योगी च भवति, निरग्निरक्रिय एव संन्यासी योगी च नेति श्लोकस्यान्वयः। कर्मफलासङ्गं संन्यस्य त्यक्त्वा सत्त्वशुद्ध्यर्थं कर्मयोग- मनुतिष्ठन् कर्म्यपीति भाष्यान्वयः। ननु ‘संन्यासी च योगी चे’त्यनेन कर्मयोगिस्तुतिः, ‘न निरग्निर्न चाक्रियः’ इत्यनेन संन्यास- प्रतिषेधश्च भगवताऽभिप्रेत इत्यत आह— न चैकेनेति। १वाक्यभेदाभावात् तादृशाभिप्रायकल्पना नोपपद्यत इत्यर्थः। ननु श्लोकैकत्वेऽपि वाक्यस्य द्वित्वमस्त्येव। ‘अनाश्रितः’ इत्यारभ्य ‘योगी चे’त्यन्तमेकं वाक्यम्। ‘न निरग्निर्न चाक्रियः’ इति द्वितीयं वाक्यम्। अतो नात्रैकवाक्यत्वम्। यद्वा ‘यः कर्मफलमनाश्रित्य कार्यं कर्म करोति, स एव संन्यासी योगी चे’त्येव वाक्यम्। स एवेत्येवकारार्थविवरणम्— ‘न निरग्निर्न चाक्रियः’ इति, अतो न वाक्यद्वित्वम्। तथा च एकेनैव वाक्येन कर्मस्तुतिसंन्यासप्रतिषेधौ उपपद्येते एव, यथा ‘आत्मैव ह्यात्मनो बन्धु’रित्यत्र आत्मनो बन्धुत्वम् , अन्यस्याबन्धुत्वं चेति द्वयमेकेन वाक्येन बोध्यते, तद्वदित्यत्राह— न च प्रसिद्धमिति। प्रसिद्धं संन्यासित्वं योगित्वं च न च प्रतिषेधति भगवानित्यन्वयः। भगवता संन्यासस्य प्रतिषिद्धत्वाद् योगविभ्रष्टो गृहस्थ एवेत्याह— अनाश्रित इत्यनेनेति। न निषेधपरं भगवद्वाक्य- मित्याह— न, ध्यानयोगं प्रतीति। उभयपरत्वे वाक्यभेद इत्याह— न चैकेनेति। इतश्च न संन्यासाश्रमप्रतिषेधोऽभिप्रेतः इत्याह— न च प्रसिद्धमिति॥१॥

ननु भगवता संन्यासस्य प्रतिषिद्धत्वाद् गृहस्थस्यैव योगविधानात् तस्यैव योगभ्रष्टशब्दवाच्यत्वमिति शङ्कते— अनाश्रित इत्यनेनेति। भगवद्वाक्यं न प्रतिषेधपरमिति परिहरति— न, ध्यानेति। स्तुतिपरत्वमेव स्फोरयति— न केवलमिति। सत्त्वशुद्ध्यर्थ- मनुतिष्ठन्निति सम्बन्धः। वाक्यस्योभयपरत्वमाशङ्क्य वाक्यभेदप्रसङ्गान्मैवमित्याह— न चेति। इतोऽपि भगवतः संन्यासाश्रमप्रतिषेधो ऽभिप्रेतो न भवतीत्याह— न च प्रसिद्धमिति। तस्य प्रसिद्धं संन्यासित्वं योगित्वं चेति सम्बन्धः। प्रसिद्धत्वमेव व्याकरोति— श्रुतीति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. वाक्यैक्यादित्यर्थः। ‘न निरग्निर्न चाक्रियः’ इत्येतत् न स्वतन्त्रं भिन्नं वाक्यम्। किन्तु ‘स संन्यासी च योगी चेति पूर्ववाक्यशेषः। तस्य संन्यासप्रतिषेधार्थाभिप्राये हि वाक्यैक्यं नोपपद्येतेति भावः।

[[३११]]

प्रतिषेधति भगवान्। स्ववचनविरोधाच्च। ‘सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन्नास्ते’ (भ.गी.५.१३) ‘मौनी सन्तुष्टो येनकेनचित्। अनिकेतः स्थिरमतिः’(भ.गी.१२.१९) ‘विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः’ (भ.गी.२.७१) ‘सर्वारम्भपरित्यागी’ (भ.गी.१२.१६) इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि, तैर्विरुध्येत चतुर्थाश्रमप्रतिषेधः। तस्माद् मुनेर्योगमारुरुक्षोः प्रतिपन्नगार्हस्र्ह्यस्य अग्निहोत्रादि कर्म फलनिरपेक्ष- मनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं बुद्धिशुद्धिद्वारेण प्रतिपद्यत इति ‘स संन्यासी च योगी च’ इति स्तूयते। अनाश्रित इति। अनाश्रितः न आश्रितोऽनाश्रितः, किम्? कर्मफलम् १कर्मणः फलं कर्मफलं यत् तदनाश्रितः। कर्मफलतृष्णारहित इत्यर्थः। यो हि कर्मफले तृष्णावान् स कर्मफलमाश्रितो भवति, अयं तु तद्विपरीतः, अतोऽनाश्रितः कर्मफलम्। एवम्भूतः सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतमग्निहोत्रादिकं कर्म करोति निर्वर्तयति यः ननु श्रुत्याद्यपेक्षया सर्वज्ञस्य भगवतः सर्वस्वतन्त्रस्य प्रमाणत्वाच्छ्रुत्यादिविरुद्धमपि भगवान् ब्रूयादेव, तदेव भगवद्वचनमस्माकं प्रमाणमपीत्यत आह— स्ववचनविरोधाच्चेति। स्ववचनान्येवोदाहरति— सर्वकर्माणीत्यादिना। ‘यदहरेव विरजेत् तदहरेव प्रव्रजेदि’त्यादयः श्रुतयः। ‘यथोक्तान्यपि कर्माणि परिहाप्य द्विजोत्तमः’ इत्यादयः स्मृतयः। भागवतादिपुराणेषु च प्रसिद्धः संन्यासः। वस्तुतस्तु ‘सिंहो माणवकः’ इतिवत् ‘कर्मी संन्यासी’ति वचनं गौणं स्तुतिपरमित्यविवादम्। सा च स्तुतिः प्रसिद्धसिंहवत् प्रसिद्धसंन्यासिनः सत्त्व एव सम्भवति, न त्वत्यन्तासत्त्वे। न हि प्रसिद्धसिंहस्याभावे ‘सिंहो माणवकः’ इति वक्तुं शक्यते। सिंहवत् शौर्यधैर्यादिसम्पन्नो माणवकः इति हि तत्र विवक्षितं वक्त्रा। किञ्च आलङ्कारिकैः ‘नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुख’मिति प्रसिद्धसुधांश्वपह्नवपूर्वकं कामिनीमुखे सुधांशुत्वमारोप्यमाणं दृश्यते। तत्रापि सन्तमेव प्रसिद्धसुधांशुमपह्नुत्य ते मुखे सुधांशुत्वारोपं कृतवन्तः, न त्वत्यन्तासन्तम्२। तद्वदिहापि निरग्निर्न संन्यासी, किन्तु कर्म्येव संन्यासीति वचनेन प्रसिद्धे संन्यासिनि संन्यासित्व- मपह्नुत्य कर्मिणि तदारोपितमिति सिद्ध एव प्रसिद्धसंन्यासी। अपि च प्रसक्तस्यैव निषेधः, नाप्रसक्तस्येति नियमात् परमार्थसंन्यासिनः सुतरामभावे कथं तन्निषेध उपपद्यते? अतो नात्र चतुर्थाश्रमप्रतिषेधो भगवता विवक्षित इति कल्पयितुं शक्यं ब्रह्मणोऽपि। तस्मादिति। संन्यासिन एव ध्यानयोगाधिकारादित्यर्थः। मुनेरिति। मननशीलस्येत्यर्थः। न तु संन्यासिन इति, प्रतिपन्नगार्हस्र्ह्यस्येति विशेषणात्। अनुष्ठीयमानम् अग्निहोत्रादि कर्मेति शेषः। स इति। य एवं फलनिरपेक्षः शुद्ध्यर्थं कर्मयोगमनुतिष्ठति स इत्यर्थः। अथ श्लोकं व्याख्यातुमारभते— अनाश्रित इति। नञ्तत्पुरुषः। आश्रित इति कर्तरि क्तः। तेन कर्माकाङ्क्षा जातेत्याह— किमिति। किमनाश्रित इत्यर्थः। आकाङ्क्षां पूरयति— कर्मफलमिति। ननु कालान्तरभाविनः जन्मान्तरभाविनश्च कर्मफलस्य कथमा- श्रयणप्रसक्तिः येनानाश्रित इति तन्निषेधस्यार्थवत्त्वम्? अत आह— कर्मफलतृष्णेति। कर्मफले आशाराहित्यमेव तदनाश्रयणमुच्यत इत्यर्थः। कथं पुनराशाराहित्यमात्रेण फलानाश्रयणम्? अत आह— यो हीति। फलस्य कामप्रयुक्तत्वात् कामाभावे फलाभाव इत्यर्थः। इतोऽपि संन्यासाश्रमं भगवान् न प्रतिषेधतीत्याह— स्ववचनेति। विरोधमेव साधयति— सर्वकर्माणीत्यादिना। ‘अनाश्रितः’ इत्यादि- वाक्यस्य यथाश्रुतार्थत्वानुपपत्तेः स्तुतिपरत्वमुपपादितमुपसंहरति— तस्मादिति। कर्मफलसंन्यासित्वमत्र मुनिशब्दार्थः। स्तुतिपरं वाक्यमक्षरयोजनार्थमुदाहरति— अनाश्रित इति। कर्मफलेऽभिलाषो नास्तीत्येतावता कथं तदनाश्रितत्ववाचोयुक्तिरि- त्याशङ्क्य व्यतिरेकमुखेन विशदयति— यो हीति। ‘कार्य’मित्यादि व्याकरोति— एवम्भूतः सन्निति। कथं कर्मिणः संन्यासित्वं योगित्वं १. ‘कर्मणाम्’ इति पा.। २. सुधांशुमारोपितवन्तः इति शेषः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. ६. श्लो. १]] [[३१२]]

कश्चिद् ईदृशः कर्मी, स कर्म्यन्तरेभ्यो विशिष्यत इत्येवमर्थमाह— स संन्यासी च योगी चेति। संन्यासः परित्यागः, स यस्यास्ति स संन्यासी च ; योगी च योगश्चित्तसमाधानम् , स यस्यास्ति स योगी च इत्येवंगुणसम्पन्नोऽयं मन्तव्यः। न केवलं निरग्निरक्रिय एव संन्यासी योगी चेति मन्तव्यः। निर्गताः अग्नयः कर्माङ्गभूता यस्मात् स निरग्निः, अक्रियश्च अनग्निसाधना अप्यविद्यमानाः क्रियाः तपोदानादिका यस्यासौ अक्रियः॥१॥

तद्विपरीत इति तृष्णावत्पुरुषाद् विलक्षणः। कोऽयम्? अत आह—योऽनाश्रित इति। एवम्भूतःसन्निति। कर्मफलमनाश्रितःसन्नित्यर्थः। कार्यं कर्तुं योग्यं। किं तत्कार्यम्? अत आह— नित्यमिति। नित्यस्याकामप्रयुक्तत्वाच्छास्त्रैकमूलत्वाच्चेति भावः। न तु काम्यमित्याह— काम्यविपरीतमिति। काम्यस्य कामप्रयुक्तत्वात् तद्वैपरीत्यं नित्यस्येति भावः। ईदृश इति। फलनिरपेक्षं नित्यकर्मकर्तेत्यर्थः। कर्म्यन्तरेभ्य इति। फलसापेक्षं कर्माणि कुर्वद्भ् यः इत्यर्थः। विशिष्यते उत्कृष्टो भवति। न तु संन्यासिभ्यः, नापि ध्यानयोगिभ्य उत्कृष्टत्वमस्य, कर्मयोगोपेयत्वात् संन्यासध्यानयोगयोः। न हि क्वाप्युपायः उपेयाद् विशिष्यमाणो दृष्टः श्रुतो वेति भावः। स इति। कर्मयोगीत्यर्थः। परमार्थसंन्यासिवैलक्षण्यायाह— संन्यासः परित्याग इति। तथा परमार्थयोगिवैलक्षण्यायाह— योगश्चित्तसमाधानमिति। एवंगुणसम्पन्न इति। परित्यागचित्तसमाधानरूपगुणयुक्त इत्यर्थः। अयं भावः— यथा सिंहो माणवक इति गौणप्रयोगे सिंहशब्दस्य मुख्यार्थं केसरादिमदाकृतिविशेषं विहाय लक्षणया शौर्यधैर्यादिगुणयोगमर्थं वदन्ति बुधाः, माणवकः सिंहवच्छौर्यधैर्यादिगुणविशिष्ट इति, तद्वत् कर्मी योगी संन्यासी चेति वचनेऽपि योगिसंन्यासिशब्दयोः कर्मसंन्यासिध्यानयोगिरूपार्थौ विहाय लक्षणया कर्मी संन्यासिवद् योगिवच्च परित्यागचित्तसमाधानरूपगुण- विशिष्ट इत्यर्थो ग्राह्यो विद्वद्भिः। तथा च शौर्यधैर्यादिनिमित्तो यथा माणवके सिंहप्रत्ययः, तथा परित्यागनिमित्तश्चित्तसमाधाननिमित्तश्च कर्मिणि संन्यासिप्रत्ययो योगिप्रत्ययश्चेति। यथा संन्यासी कर्माणि परित्यजति, तथा कर्मी कर्मफलानि परित्यजतीति कर्मिसंन्यासिनोः परित्यागविषये सादृश्यम्। यथा योगी ब्रह्मणि चित्तं समाधत्ते, तथा कर्मी कर्मणि चित्तं समाधत्त इति कर्मियोगिनोः सादृश्यं चित्तसमाधाने। कर्मणि चित्तसमाधानं च ‘योगः कर्मसु कौशल’मित्यनेन प्रतिपादितं फलतृष्णाऽभावादिरूपम्। तस्मान्न मुख्यं संन्यासित्वं योगित्वं वा कर्मिणि सम्भवति, विरोधात् , किन्तु गौणमेव। विरोधश्च कर्मसंन्यासकर्मकरणयोः प्रसिद्ध एव। ध्यानयोगेऽप्यस्ति हि यज्ञादिविहितकर्मपरित्याग इति। यद्यपि संन्यासीत्यनेनैव योगीत्यपि सिद्धम् , संन्यासिन एव योगाधिकाराद् , योगिन एव संन्यासित्वात् , तथापि ज्ञानयोग- निष्ठः संन्यासीह संन्यासिशब्देन, ध्यानयोगनिष्ठः संन्यासी तु योगिशब्देनोच्यत इति वैलक्षण्यं बोध्यम्। किञ्च यदीह कर्मिणि मुख्यं संन्यासित्वं विधित्सितम् , तर्हि संन्यासियोगिशब्दयोरन्यतरेणैवालम् , परन्तु गौणं विधित्सितम् , संन्यासिनि तु गुणद्वयमस्ति परित्यागश्चित्तसमाधानं चेति। तदेव प्रवृत्तिनिमित्तीकृत्य संन्यासियोगिशब्दद्वयं तत्र प्रवर्तते। तस्यैव गुणद्वयस्य कर्मिण्यपि यथाकथञ्चित् सत्त्वेन कर्मिणि गौणं संन्यासित्वं विधित्सितमिति संन्यासी योगीति शब्दद्वयप्रयोगः सार्थकः। ननु निरग्निरित्यनेनैवाक्रियत्वस्य लाभाद् व्यर्थमक्रिय इति पदम्? अत आह— अनग्निसाधना इति। अग्निसहितक्रियाप्रतिषेधो निरग्निशब्देनोक्तः, अग्निरहितक्रियाप्रतिषेधायाक्रिय इति पदमावश्यकमित्यर्थः। साग्नयः क्रिया यज्ञादयः प्रसिद्धाः, निरग्नयः क्रियास्त्वप्रसिद्धा इति तद्बोधनायाह— तपोदानादिका इति। अविद्यमानाः क्रिया यस्यासावक्रिय इति सम्बन्धः। ‘नञोऽस्त्यर्थानां च, कर्मित्वविरोधादित्याशङ्क्याह— ईदृश इति। स्तुतेरत्र विवक्षितत्वान्नानुपपत्तिश्चोदनीयेति मन्वानः सन्नाह— इत्येवमिति। ‘न निरग्नि’रित्यादेरर्थमाह—न केवलमिति। अग्नयो गार्हपत्याहवनीयान्वाहार्यपचनप्रभृतयः१। नन्वनग्नित्वे सिद्धमक्रियत्वम् अग्निसाध्यत्वात् क्रियाणाम्। तथा च ‘न निरग्नि’रित्येतावतैवापेक्षितसिद्धेः ‘न चाक्रियः’ इत्यनर्थकमर्थपुनरुक्तेरिति, तत्राह—अनग्नीति ॥१॥

१. अन्वाहार्यपचनः दक्षिणाग्निः। प्रभृतिपदेन सभ्यावसथ्ययोः परिग्रहः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[३१३]]

१ननु च निरग्नेरक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् ; कथमिह साग्नेः सक्रियस्य संन्यासित्वं योगित्वं चाप्रसिद्धमुच्यते इति? नैष दोषः। कयाचिद् गुणवृत्त्योभयस्य सम्पिपादयिषितत्वात्। तत् कथम्? वाच्यो वा चोत्तरपदलोपः’ इति वार्तिकात् समास उत्तरपदलोपश्च। नन्वप्रसिद्धाभिधानमिदमयुक्तं भगवत इत्याशङ्क्य परिहरति— ननु चेत्यादिना। गुणवृत्त्येति लक्षणयेत्यर्थः। सम्पादयितुमिष्टं सम्पिपादयिषितं, तत्त्वात्। न वयं निरग्नेरक्रियस्य च संन्यासित्वं योगित्वं वा प्रतिषेधामः, नापि साग्नेः सक्रियस्य तदुभयं विदधामः, किन्तु यथोक्तकर्मयोगिनो लक्षणया संन्यासित्वं योगित्वं च ब्रूमः, संन्यासियोगिसादृश्यस्य परित्यागचित्तसमाधानरूपस्य कर्मिणि सत्त्वात्। अतो न श्रुतिस्मृत्यादिविरोधः। यत्तु रामानुजः— यः कर्म करोति स [संन्यासी च] ज्ञानयोगनिष्ठः,[योगी च] कर्मयोगनिष्ठश्च। सः [न] निरग्निः[केवलं] कर्मस्वप्रवृत्तो न भवति, [न च] अक्रियः केवलज्ञाननिष्ठश्च न भवति। ज्ञानयोगनिष्ठस्य तु केवलज्ञाननिष्ठैव, कर्मयोगनिष्ठस्य तूभयमस्तीत्यभिप्राय इति, तत्तुच्छम् ; यः कर्मी संन्यासी योगी च भवतीत्युक्तः, कथं स एव कर्मी निरग्निर्न भवति अक्रियश्च न भवतीति वक्तुं शक्यते? न ह्येकस्मिन्नेव कर्मिणि संन्यासित्वविधिः तत्प्रतिषेधश्चेति द्वयमुपपद्यते। निरग्न्यक्रियशब्दौ हि संन्यासिनं बोधयतः, तस्यैवाग्निक्रियाऽभावात्। न च - निरग्न्यक्रियशब्दौ कर्मस्वप्रवृत्तं ज्ञाननिष्ठं च बोधयतो, न तु संन्यासिनमिति - वाच्यम् , संन्यासिन एव तथात्वात्। न हि गृहस्थस्य कर्मसु प्रवृत्त्यभावः ज्ञाननिष्ठा च सम्भवतः। कर्मस्वप्रवृत्तिर्हि कर्मसंन्यासः, २स एव ज्ञाननिष्ठा च। न च गृहस्थस्यापि नास्तिकस्यातुरस्य वा कर्मस्वप्रवृत्तिरिति वाच्यम् , तादृशगृहस्थस्यात्र शास्त्रे प्रसक्त्यभावात्। कर्म करोतीति आस्तिकं शक्तमेव गृहस्थमुद्दिश्य ह्युच्यते। किञ्च ‘स संन्यासी च योगी च’ इति चकारेण संन्यासित्वयोगित्वसमुच्चयस्य कर्मिणि त्वदभिमतस्य सिद्धत्वेन ‘न निरग्निर्न चाक्रियः’ इति पुनरुक्तम्। ‘न केवलं कर्मस्वप्रवृत्तो, न केवलं ज्ञाननिष्ठश्चे’त्येतस्य ‘संन्यासी च योगी चे’त्यनेनैव सिद्धत्वादिति भावः। अपि च ‘न केवलं कर्मस्वप्रवृत्त’ इत्यनेन कर्मस्वप्रवृत्तश्चेत्येव लभ्यते, न तु कर्मसु प्रवृत्त इति। तथा च यः कर्म करोति स कर्मस्वप्रवृत्तो ज्ञाननिष्ठश्चेति सिद्धम् ; तच्च पुनरुक्तं कर्मस्वप्रवृत्तत्वस्य ज्ञाननिष्ठत्वस्य चैक्यात्। तथा यः कर्म करोति स संन्यासी योगी कर्मस्वप्रवृत्तो ज्ञाननिष्ठश्चेति त्वदभिमतयोजनया हि सिद्धम्। तत्र कर्मकरणसंन्यासयोः कर्मयोगकर्माप्रवृत्त्योः कर्मनिष्ठत्वज्ञाननिष्ठत्वयोश्च विरोधो बालस्यापि विदित एव। संन्यासीत्यस्य ज्ञाननिष्ठ इत्यर्थाश्रयणेऽपि कर्मकरणकर्माप्रवृत्त्योः कर्मयोगनिष्ठत्वज्ञानयोगनिष्ठत्वयोश्च विरोधः स्फुटः। ज्ञाननिष्ठो ज्ञाननिष्ठश्चेति कर्मस्वप्रवृत्तश्चेति शब्दतोऽर्थश्च पुनरुक्तम्। यः कर्म करोति स कर्मयोगीति सर्वैर्विदितमेवेति कृत्वा यः कर्म करोति स योगीत्युक्तिर्व्यर्था पुनरुक्ता च। यः कर्म करोति स न निरग्निर्न चाक्रियः, किन्तु साग्निः सक्रिय एवेति सर्वजनविदितत्वाद् न निरग्निर्न चाक्रियः इत्युक्तिर्व्यर्था पुनरुक्ता च। अथ[तथा] कर्मयोगनिष्ठस्योभयनिष्ठत्वमित्येतद् व्याहतम् , कर्मयोगनिष्ठस्य कर्मयोगनिष्ठत्वेन, ज्ञानयोगनिष्ठस्य ज्ञानयोग- निष्ठत्वेन, उभयनिष्ठस्योभयनिष्ठत्वेन च भाव्यत्वात् कर्मयोगनिष्ठस्य वा ज्ञानयोगनिष्ठस्य वा उभयनिष्ठत्वासम्भवात्। तथा एकस्य उत्तरश्लोकस्य तात्पर्यं दर्शयितुं व्यावर्त्यामाशङ्कां दर्शयति— ननु चेति। प्रसिद्धिं परित्यज्याप्रसिद्धिरुपादीयमाना प्रसिद्धिविरुद्धेति चोद्यं दूषयति— नैष दोष इति। उभयस्य साग्नौ सक्रिये च संन्यासित्वस्य योगित्वस्य चेत्यर्थः। गुणवृत्त्योभयसम्पादनं प्रश्नपूर्वकं प्रकट- यति— तत्कथमित्यादिना। सम्भवति मुख्ये संन्यासित्वादौ किमिति गौणमुभयमभीष्टमित्याशङ्क्य मुख्यस्य कर्मिण्यसम्भवाद् गौणमेव १. ननु चेत्यादि भाष्यं प्रथमश्लोकशेषतयैव व्याख्यातं भाष्यार्कप्रकाशकारेण। २. ‘सैव’ इति पाठः संभाव्यते। स इत्यनेन कर्मसंन्यासो वा परामृश्यते।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

उत्तरश्लोकस्य तात्पर्यं दर्शयितुमाशङ्कामाह— ननु च निरग्नेरित्यादिना। यदुक्तं संन्यासित्वं योगित्वं च गृहस्थस्य

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. ६. श्लो. २]] [[३१४]]

कर्मफलसङ्कल्पसंन्यासात् संन्यासित्वम् , योगाङ्गत्वेन च कर्मानुष्ठानात् कर्मफलसंकल्पस्य च चित्तविक्षेपहेतोः परित्यागाद् योगित्वं चेति गौणमुभयम् , न पुनर्मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतमित्येतमर्थं दर्शयितुमाह— यं संन्यासमिति। यं सर्वकर्मतत्फलपरित्यागलक्षणं १परमार्थसंन्यासमिति प्राहुः श्रुतिस्मृतिविदो२, योगं कर्मानुष्ठानलक्षणं तं परमार्थसंन्यासं विद्धि जानीहि , हे पाण्डव !। कर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थ- संन्यासेन कीदृशं सामान्यमङ्गीकृत्य तद्भाव उच्यत इत्यपेक्षायामिदमुच्यते। अस्ति हि परमार्थसंन्यासेन सादृश्यं कर्तृ- द्वारकं कर्मयोगस्य। यो हि परमार्थसंन्यासी स त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयं सङ्कल्पं प्रवृत्तिहेतुकाम- पुरुषस्य उभयनिष्ठत्वमपि नैव सम्भवति, ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मिति भगवतैव साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वस्यो- क्तत्वात् , स्थितिगतिवत् ज्ञानकर्मणोः परस्परं विरोधाच्च। प्रपञ्चितं चैतदधस्तात्। तस्मान्न कर्मयोगनिष्ठस्य ज्ञानयोगनिष्ठत्वमुभयनिष्ठत्वं वा स्वप्नेऽपि सम्भवति। यद्येवमसम्भावितार्थं ब्रूयाद् भगवांस्तर्हि सोऽप्यप्रमाणभूत एव स्यात्। अहो! रामानुजस्य पाण्डित्यम्। येन भगवत्यप्रमाणबुद्धिरापादिता॥१॥

४के प्राहुः? अत आह— श्रुतिस्मृतिवादा इति। श्रुतिस्मृतिवाक्यानीत्यर्थः। श्रुतीः स्मृतीश्च वदन्ति ये ते इति वा। श्रुतिस्मृतिविज्ञा इत्यर्थः। ननु कर्मसंन्यासकर्मानुष्ठानयोर्मिथो विरोधात् कथं कर्मसंन्यासस्य कर्मानुष्ठानरूपयोगत्वसम्भवः? इत्याक्षिपति— कर्मयोग- स्येति। आक्षेपं समाधत्ते— अस्ति हीत्यादिना। कर्मयोगस्य परमार्थसंन्यासेन कर्तृद्वारकं साम्यमस्ति हीत्यन्वयः। तदेव विवृणोति— यो हीत्यादिना। संन्यासिनि योगिनि च फलविषयसङ्कल्पत्यागरूपांशस्यैक्यात् कर्तृसाम्यप्रयुक्तं साम्यं संन्यासयोगयोरस्तीत्यर्थः। तत्रेयान् विशेषः— संन्यासी कर्मविषयं तत्फलविषयं च सङ्कल्पं संन्यस्यति; योगी तु न कर्मविषयम् , किन्तु तत्फल- विषयमेव, कर्मविषयसङ्कल्पस्यापि त्यागे कर्मानुष्ठानासम्भवादिति। अयमेव सङ्कल्पः कामस्य कारणम् , स च कामः कर्मसु प्रवृत्तेर्हेतुरित्याह— प्रवृत्तिहेतुकामकारणमिति। सङ्कल्पस्य स्तुतिसिद्ध्यर्थं तदिष्टमित्यभिप्रेत्याह— न पुनरिति। चित्तव्याकुलत्वहेतुकामनात्यागाच्चित्तसमाधानसिद्धेर्योगित्वं कर्मिणोऽपि युक्तम् , संन्यासित्वं तु तस्य विरुद्धमिति शङ्कमानं प्रति उक्तेऽर्थे श्लोकमवतारयति— इत्येतमिति। परमार्थसंन्यासं प्राहुरिति सम्बन्धः३। इति इत्थं संन्यासस्य प्रामाणिकाभ्युपगतत्वादिति इतिशब्दो योज्यः। योगं फलतृष्णां परित्यज्य समाहितचेतस्तयेति शेषः। यदुक्तं संन्यासित्वं योगित्वं च गृहस्थस्य गौणमिति, तदुत्तरार्धयोजनया प्रकटयितुमुत्तरार्धमुत्थापयति— कर्मयोगस्येति। कर्मयोगस्य परमार्थसंन्यासेन कर्तृद्वारकं साम्यमुक्तं व्यक्तीकरोति— यो हीति। त्यक्तानि सर्वाणि कर्माणि साधनानि च येन स तथोक्तस्तस्य भावस्तत्ता, तया

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव !। न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन॥२॥

१. ‘परमार्थसंन्यासं संन्यासमिति’ इति पा.। २. ‘श्रुतिस्मृतिवादाः’ इति रा.पा.। ३. तथा च द्वितीयोपपत्तिः। अन्यथा ‘संन्यास इति प्राहुः’ इति निपातेनाभिहित- त्वात् प्रथमा स्यात्। ४. इतः प्राक् ‘अत्रादौ किञ्चिद् व्याख्यानं भ्रष्टम्।’ इति रा. पुस्तके मुद्रितं दृश्यते।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

गौणमिति, तदुत्तरार्धयोजनया स्फुटीकर्तुमुत्तरार्धमवतारयति— कर्मयोगस्य प्रवृत्तिलक्षणस्येत्यादिना। कर्तृद्वारकं साम्य- मस्तीत्युक्तम् , तद् विवृणोति— यो हीति। त्यक्तानि सर्वाणि कर्माणि साधनानि च येन स तथोक्तः, तस्य भावः तत्ता, तया

[[३१५]]

कारणं संन्यस्यति। अयमपि कर्मयोगी कर्म कुर्वाण एव फलविषयं सङ्कल्पं संन्यस्यति इत्येतमर्थं १दर्शयन्नाह— न हि यस्माद् असंन्यस्तसङ्कल्पः, असंन्यस्तः अपरित्यक्तः फलविषयः सङ्कल्पः अभिसन्धिर्येन सोऽसंन्यस्तसङ्कल्पः कश्चन कश्चिदपि कर्मी योगी समाधानवान् भवति न सम्भवतीत्यर्थः। फलसङ्कल्पस्य चित्तविक्षेपहेतुत्वात्। तस्माद् यः कश्चन कर्मी संन्यस्तफलसङ्कल्पो भवेत् , स योगी समाधानवान् अविक्षिप्तचित्तो भवेत् । चित्तविक्षेपहेतोः फल- संकल्पस्य संन्यस्तत्वादित्यभिप्रायः। एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससामान्यमपेक्ष्य ‘यं संन्यासमिति प्राहुर्योगं तं २विद्धि पाण्डव’ इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वमुक्तम्॥२॥

विशेषणम्। कामकारणस्य सङ्कल्पस्यैव त्यागात् कामस्यानुदयः, ततश्च कर्मस्वप्रवृत्तिः संन्यासिन इति भावः। न च योगिनोऽपि सङ्कल्पत्यागात् कामानुदये कथं कर्मसु प्रवृत्तिरिति वाच्यम् ; फलविषयसङ्कल्पत्यागात् फलकामानुदयेऽपि योगिनः कर्मविषयसङ्कल्पत्यागाभावात् कर्मकामोदयेन कर्मसु प्रवृत्तिसिद्धेः। न च फलसङ्कल्पाभावे योगिनः कुतः कर्मसङ्कल्प इति वाच्यम् ; ईश्वरप्रीतिरूपे चित्तशुद्धिरूपे पापक्षयरूपे वा नित्यकर्मफले योगिनः कामसत्त्वात् , तस्य चेश्वरप्रीत्यादिरूपस्य फलस्य पुण्यपापान्यतरत्वाभावेन देवतिर्यगादिजन्मद्वारा अबन्धकत्वेन फलत्वाभावात्। न चैवं मोक्षस्यापि फलत्वाभाव इति वाच्यम् ; तस्येष्टत्वात्। न हि वयं नित्यसिद्धं सच्चिदानन्दब्रह्मरूपं मोक्षं फलं ब्रूमः। यज्जन्यं यच्च बन्धकं तदेव हि फलम्। अत एव नित्यकर्मणः फलाभाववचनमप्युपपद्यते। यद्वा यस्य कस्यापि फलस्य सङ्कल्पो मास्तु योगिनः, तथापि स कर्म करोत्येव, गृहस्थेनाधिकृतेन कर्म कर्तव्य- मित्येवंरूपेश्वराज्ञातिक्रमे नरकभयात्। अत एव प्रत्यवायपरिहारार्थानि नित्यकर्माणीति कर्मिणां राद्धान्तः। न च - प्रत्यवायपरिहार एव फलमित्यस्ति तत्सङ्कल्पात् फलसङ्कल्पो योगिन इति - वाच्यम् ; प्रत्यवायाभावस्य भावरूपफलत्वायोगात्। फलं हि स्वर्गादिकं पुत्रादिकं भावरूपमेवेष्यते। न च रोगाभावस्यारोग्यस्य फलत्वमस्तीति वाच्यम् ; अरोगस्य भाव आरोग्यं दृढगात्रत्वादिकम् , तद्धि भाव एवेति। अथवा ईश्वराज्ञारूपत्वान्मया कर्माणि कर्तव्यानि गृहस्थेनेत्येतावत्येव बुद्धिर्योगिनः, तावतैव कर्मानुष्ठानसम्भवात्। अतो न यस्य कस्यापि फलस्य सङ्कल्पप्रसक्तिरिति। न हीति। हि असंन्यस्तसङ्कल्पः कश्चन योगी न भवति। तस्मात् कर्मयोगिनः फलसङ्कल्पसंन्यासरूपसंन्यासवत्त्वेन संन्यासित्वं सिद्धमिति भावः। एतेनैकस्मिन्नेव कर्मणि चित्तविक्षेपहेतुफलसङ्कल्पत्यागाद् योगित्वं संन्यासित्वं चेत्युभयं सम्भवति लक्षणयेति सिद्धम्। सर्वकर्मविषयं तत्फलविषयं च सङ्कल्पं त्यजतीत्यर्थः। सङ्कल्पत्यागे तत्कार्यकामत्यागः, तत्त्यागे तज्जन्यप्रवृत्तित्यागश्च सिध्यती- त्यभिसन्धाय विशिनष्टि— प्रवृत्तीति। कर्मिण्यपि यथोक्तसङ्कल्पसंन्यासित्वमस्तीत्याह— अयमपीति। तदपरित्यागे व्याकुलचेतस्तया कर्मानुष्ठानस्यैव दुःशकत्वादित्यर्थः। उक्तमेव साम्यं व्यक्तीकुर्वन् व्यतिरेकं दर्शयति— इत्येतमिति। फलसङ्कल्पापरित्यागे किमिति समाधानवत्त्वाभावः? तत्राह— फलेति। व्यतिरेकमुखेनोक्तमर्थमन्वयमुखेनोपसंहरति— तस्मादिति। हिशब्दार्थस्य यस्मादित्युक्तस्य तस्मादित्यनेन सम्बन्धः। कर्मिणं प्रति यथोक्तविधौ हेतुहेतुमद्भावमभिप्रेत्य द्वितीयविधौ हेतुमाह— चित्तविक्षेपेति। पूर्वश्लोके पूर्वोत्तरार्धाभ्यामुक्तमनुवदति— एवमिति॥२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वकर्मविषयं तत्फलविषयं च [संकल्पं] त्यजतीत्यर्थः॥२॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘दर्शयिष्यन्’ इति पा.। २. योगं तं विद्धि। तच्छब्देन परमार्थसंन्यासो गृह्यते। निष्कामकर्मानुष्ठानलक्षणे कर्मयोगे तदभेदासंभवात् गौणोऽयं प्रयोगः स्तुत्यर्थः। स्तुतिश्च वक्ष्यमाणध्यानयोगोपायतया कर्मयोगे प्रवृत्तिसंपादकतयोपयुज्यते।

[[अ. ६. श्लो. २]] [[३१६]]

संन्यस्तसङ्कल्पस्य संन्यासित्वं तावत् प्रसिद्धम् ; अत्र च श्लोके असंन्यस्तसङ्कल्पस्यायोगित्वकथनेन संन्यस्तसङ्कल्पस्यैव योगित्वं प्रतिपादितम्। ततश्च संन्यासिनो योगिनश्च संन्यस्तसङ्कल्पत्वं समानधर्म इति सिद्धम्। एवं संन्यासियोगिनोः साम्यात् तद्द्वारा संन्यासयोगयोः साम्यमिति निष्कर्षः। वस्तुतस्तु सर्वकर्मतत्फलविषयसङ्कल्पसंन्यासाद् यथा सर्वकर्मसंन्याससिद्धिः संन्यासिनः, तथा सर्वकर्मफलविषयसङ्कल्प- संन्यासाद् योगसिद्धिर्योगिन इति संन्यासयोगयोः कारणद्वारा किमपि साम्यमस्त्येव। संकल्पसंन्यासप्रयुक्तत्वात् संन्यासयोगयोः, यथा मृज्जन्यत्वाद् घटशरावयोः साम्यम् , तद्वत्। यत्तु रामानुजः— संन्यासं ज्ञानयोगं योगं कर्मयोगं विद्धि , कर्मयोगान्तर्गतत्वादात्मयाथात्म्यज्ञानस्य। अनात्मन्यात्म- तादात्म्याभिमानः सङ्कल्पस्तदपरित्यागी कर्मयोगी न भवत्येवेति, तत्तुच्छम् ; योगान्तर्गतस्य ज्ञानस्य योगशब्दवाच्यत्वं तावद्विरुद्धम् ; पेटिकान्तर्गतस्य वस्त्रस्यापि पेटिकाशब्दवाच्यत्वापत्तेः। लक्षणाश्रयणं तु दुष्टम् , मुख्यार्थपरित्यागे कारणाभावात्। नापि कर्मयोगे ज्ञानयोगस्यान्तर्भावः, कर्मयोगोपेयत्वाज्ज्ञानयोगस्य। नाप्यात्मान्ये२ आत्माभिमानस्य सङ्कल्पत्वम् , किं तर्ह्यध्यासत्वमेव। तस्य परित्यागे कर्मयोगस्य स्वरूपासिद्धिरेव, अकर्तृत्वादात्मनः, अनात्मनां च जडत्वात्। न हि जडस्य घटादेः कर्तृत्वं दृष्टं लोके श्रुतं वा । किञ्च अहं कर्म कुर्यामिति सङ्कल्पमूलकत्वं कर्मणः सर्वसम्प्रतिपन्नम्। स चाहङ्कारेऽनात्मन्यात्माभिमानप्रयुक्तः, अहङ्कारस्यैव कर्तृत्वात् , आत्मनश्चाकर्तृत्वात्। तस्याप्यभिमानस्य परित्यागे कथं कर्मयोगसिद्धिः? अतो न कर्मयोगिनोऽध्यासनिवृत्तिरावश्यकी, किं तर्हि? देहातिरिक्तः कश्चिन्नित्य आत्माऽस्तीत्येतावत्येव बुद्धिस्तस्यावश्यकी। न च - अनात्मनां जडत्वादात्मनश्चाकर्तृत्वे विधिशास्त्रवैयर्थ्यात् , ‘कर्ता शास्त्रार्थवत्त्वा’दित्यधिकरणानुसाराच्च कर्तैवात्मेति - वाच्यम् ; शास्त्राणामविद्यावद्विषयत्वात् देहाद्यनात्मसङ्घाते आत्माभिमानिनः कर्तुः सत्त्वान्न शास्त्रवैयर्थ्यम् , नाप्यधिकरणविरोधः। ‘निष्कलं निष्क्रियं शान्त’मित्यादिश्रुतिविरोधादात्मा त्वकर्तैव। अन्यथा कर्तृत्वे सति भोक्तृत्वं स्यात् तदुभयसत्त्वे विकारित्वं स्यात् , तस्यापि सत्त्वेऽनित्यत्वं स्यात् ‘अजो नित्यः शाश्वतः’ इति ‘अविकार्योऽयमुच्यते’ इति गीताशास्त्रोक्तार्थ एवाप्रमाणः कल्पितः स्यात्। तस्मान्नास्त्यात्मनः कर्तृत्वमिति सिद्धान्तः। य एवमात्मानमकर्तारं वेत्ति कथं तस्य कर्म कुर्यामिति सङ्कल्पः, येन कर्मयोगप्रवृत्तिः। तस्मादज्ञ एव कर्मयोगी। ज्ञानार्थं हि स कर्मयोगे प्रवृत्तः। यदि प्रागेव ज्ञानी, तर्हि कुतस्तस्य कर्मयोगप्रवृत्तिः? कस्मान्न [कस्माच्च] कर्मयोगे ज्ञानस्यान्तर्भावः? उक्तमपीदं पुनःपुनर्मया वर्ण्यते प्रतिपत्तृप्रतिपत्तिदार्ड्याय॥२॥

वृत्तं कीर्तयन् आरुरुक्षोरिति श्लोकमवतारयति— ध्यानयोगस्येति। आरुरुक्षोरिति। योगमारुरुक्षोरित्यन्वयः। योगोऽत्र ध्यानयोगः, न तु कर्मयोगः, कर्मयोगमारुरुक्षोः कर्म कारणमिति वक्तुमयुक्तत्वात् , कर्मयोगारोहणस्यैव कर्मकरणरूपत्वात्। अयं हि भाष्यार्कप्रकाशः आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते॥३॥

[आनन्दगिरिकृतव्याख्या]

परमार्थसंन्यासस्य कर्मयोगान्तर्भावे कर्मयोगस्यैव सदा कर्तव्यत्वमापद्येत, तेनेतरस्यापि कृतत्वसिद्धेरित्याशङ्क्योक्तानुवादपूर्वक- मुत्तरश्लोकतात्पर्यमाह— ध्यानयोगस्येति। भाविन्या वृत्त्या मुनेः योगमारोढुमिच्छोः इष्यमाणस्य योगारोहणस्य कर्म हेतुश्चेद् , अपेक्षितं योगमारूढस्यापि तत्फलप्राप्तौ तदेव कारणं भविष्यति, तस्य कारणत्वे क्लृप्तशक्तित्वादित्याशङ्क्याह— १योगारूढस्येति। अनारूढस्ये- ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वा, अधुना कर्मयोगस्य १. श्लोकस्थप्रतीकधारणमिदम्। २. ‘आत्मान्यदेहादौ’ इति पाठः स्यात्।

[[३१७]]

ध्यानयोगमारोढुं केवलमिच्छति, न तु ध्यानयोगमारुह्य स्थातुं क्षमते; अत एवारुरुक्षुरित्युच्यते इत्यभिप्रेत्याह— अनारूढस्येत्यादि। ध्यानयोगस्य मनइन्द्रियजयप्रयुक्तत्वात् तज्जयस्य च दुष्करत्वादुक्तम्— असमर्थस्येति। दृष्टस्मृतसर्वविषयेभ्यो व्यावर्त्य केवलात्मनि मनः स्थापयितुमसमर्थस्येत्यर्थः। ननु संन्यासवाचिनो मुनिशब्दस्य कथमिह प्रयोगः? अत आह— कर्मफलसंन्यासिन इति। योगिनोऽपि कर्मफलसंन्यासित्वेन गौण्या वृत्त्या संन्यासित्वान्मुनिशब्दबोध्यत्वमस्तीति भावः। भविष्यत्संन्यासित्वाद् भाविनीं वृत्तिमाश्रित्य ओदनं पचतीतिवद् मुनिरिति निर्देश इति वा। कर्मकारकदेवतास्वरूपादिमननशीलत्वान्मुनिरिति वा वक्तुं शक्यते। प्रपञ्चस्य ब्रह्मेव, पुत्रस्य पितेव वा, मुनेः कर्म कारणमिति भ्रमव्युदासायाह— साधनमिति। कर्मरूपसाधनेन मुनिर्योगमारोढुं प्रभवति निःश्रेणिकया प्रासादं पुरुष इवेति भावः। एतेन ध्यानयोगारोहणसाधनत्वं कर्मणः सिद्धम्। तस्यैवेति। य एवं कर्मानुष्ठानद्वारा योगमारूढस्तस्यैवेत्यर्थः। शमः संन्यास इति यावत्। ननु कर्म योगस्य साधनमित्युक्तम् , शमः पुनः कस्य कारणम्? अत आह— योगारूढत्वस्येति। कर्मयोगो ध्यानारोहणसामर्थ्यमात्रं जनयति पुरुषस्य, ध्यानयोगारोहणं तु शमसाध्यमेवेत्यर्थः। यद्वा निःश्रेणिकया पुरुषः प्रासादमिव कर्मणा मुनिर्ध्यानयोगमारोहति केवलम्। आरुह्य तत्र चिरं स्थातुं तु मुनेः शम एव साधनम् , यथा प्रासादमारुह्य चिरं स्थातुमासनादिकं साधनं पुरुषस्य। एतेन योगे यश्चिरमवस्थितः स एव योगारूढः, न तु योगारोहणमात्रेणेति सिद्धम्। एतदनुसारेण योगारूढत्वस्येत्यस्य योगमारुह्य चिरमवस्थानस्येत्यर्थो वाच्यः। पूर्वस्मिन् मते तु यथाश्रुत एवार्थः। ननु कथमुपरमस्य योगारूढत्वसाधनत्वम्? अत आह— यावद्यावदिति। तथा सतीति चित्तसमाधाने सतीत्यर्थः। अयमाशयः— कर्मिणः फलसङ्कल्पत्यागेन चित्तविक्षेपाभावेऽपि कर्मकारकसामग्रीसम्पादनायासादिना मनइन्द्रियजयस्तस्य दुष्करः, ततस्तस्य चित्तसमाधानं दुर्लभमिति न कर्मी कथमपि योगारूढो भवितुमर्हति, किन्तु संन्यासिन एवायासाभावाद् इन्द्रियजयश्चित्तसमाधानं चेति संन्यास्येव योगारूढो भवितुमर्हति। अतः संन्यासिन एव ध्यानयोगेऽधिकारः, कर्मिणस्तु ध्यानयोगारोहणसामर्थ्याय कर्मयोग एवाधिकार इति। स्वोक्तार्थे प्रमाणमाह— नैतादृशमिति। ब्राह्मणस्य संन्यासिन इत्यर्थः। तस्यैव वक्ष्यमाणगुणयोगसम्भवात् ; एतादृशं वक्ष्यमाणवित्ततुल्यमित्यर्थः। वित्तं नास्ति। किं तद् वित्तम्? अत आह— यथेति। एकता सर्वत्रात्मैकत्वबुद्धिः, समता सर्वत्रात्म- त्येतस्यैवार्थं स्फुटयति— ध्यानेति। मुनित्वं कर्मफलसंन्यासिन्यौपचारिकमित्याह— कर्मफलेति। साधनं चित्तशुद्धिद्वारा ध्यानयोग- प्राप्तीच्छायामिति शेषः। तस्येति प्रकृतस्य कर्मिणो ग्रहणम्। एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते४। कस्यान्ययोगव्यवच्छेदेन शमो हेतुरिति, तत्राह— योगारूढत्वस्येति। सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति— यावद्यावदिति। सर्वकर्म- निवृत्तावायासाभावाद् वशीकृतेन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यतीत्यर्थः। सर्वकर्मोपरमस्य पुरुषार्थसाधनत्वे पौराणिकीं सम्मतिमाह— तथा चेति। एकता सर्वेषु भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वमिति प्रतिपत्तिः। समता तेष्वैवौपाधिकविशेषेऽपि स्वतो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ध्यानयोगसाधनत्वं दर्शयति— आरुरुक्षोरिति। आरुरुक्षोः आरोढुमिच्छतः अनारूढस्य ध्यानयोगेऽवस्थातुम् १अशक्तस्यैवेत्यर्थः। २कस्यारुरुक्षोः? मुनेः कर्मफलसंन्यासिन इत्यर्थः। किमारुरुक्षोः? योगम् ; कर्म कारणं साधन- मुच्यते। योगारूढस्य पुनस्तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनमुच्यत इत्यर्थः। यावद्यावत् कर्मभ्यः उपरमते३, तावत्तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते। तथा सति स झटिति योगारूढो भवति। तथा चोक्तं व्यासेन— ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। शीलं १. ‘असमर्थस्य’ इति रा. पा.। २. ‘तस्यारुरुक्षोः’इति, ‘कस्य? तस्यारुरुक्षोः’ इति च पा.। ३. द्र. टिप्पणी पृ. १०४। ४. तस्य शम एव योगारूढत्वस्य कारणमिति योजनेत्यर्थः।

[[अ. ६. श्लो. ३]] [[३१८]]

स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (म.भा.१२.१७५.३७) इति ॥३॥

अथेदानीं कदा योगारूढो भवतीत्युच्यते— यदेति। यदा समाधीयमानचित्तो योगी २हि इन्द्रियार्थेषु इन्द्रियाणामर्थाः शब्दादयस्तेषु इन्द्रियार्थेषु , कर्मसु च नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्ध्या नानुषज्जते अनुषङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः। सर्वसङ्कल्पसंन्यासी सर्वान् सङ्कल्पान् इहामुत्रार्थकामहेतून् संन्यसितुं समत्वबुद्धिः, सत्यता ब्रह्मात्मैकसत्यत्वबुद्धिः, शीलं सत्स्वभावः, स्थितिर्ब्रह्मनिष्ठा, दण्डनिधानं मनोवाक्कायानां दण्डकरणम्। तेषां दण्डो नाम नियमनम् ; स्वायत्तीकरणमिति यावत्। आर्जवं सर्वत्र ऋजुबुद्धिः, ततस्ततः ताभ्यस्ताभ्यः क्रियाभ्यः सर्वकर्मभ्य इत्यर्थः। उपरमः निवृत्तिश्च इत्येतत् सर्वं ब्राह्मणस्य वित्तम् , न तु कनकादिकम्। तद्धि अनात्मज्ञस्य वित्तम्। तस्य च लौकिकवित्तस्य वैदिकवित्तस्य चास्ति महदन्तरं यत् तेन तस्य संसारः, अनेन त्वस्य संसारनाश इति। अत उक्तम् - नैतादृशं वित्तमस्तीति। तस्मादुपरतिरेव योगारूढत्वं सम्पादयतीत्यनवद्यम्। योगोऽत्र वैराग्यम् ; तथा च यावद्वैराग्योदयं कर्म कार्यम् , विरक्तस्य तु संन्यास एव ज्ञानपरिपाकसाधनमिति मधुसूदनः। योगो ज्ञानयोगः, शमः समाधिरिति तु श्रीधरः। यत्तु रामानुजः— यावदात्मावलोकनरूपमोक्षावाप्ति कर्म कार्यमित्यर्थः इति, यच्च वेदान्तदेशिकः— शमः कर्मनिवृत्तिरेव, न तु पारिव्राज्यमिति, तदुभयं तुच्छम् , परमते आत्मावलोकनस्यामोक्षत्वात् , कर्मणा आत्मावलोकनासम्भवात् , आत्मावलोकनस्य वेदान्तविचारसाध्यत्वाद् अथवा समाधिसाध्यत्वात्। शमः कर्मनिवृत्तिर्न तु पारिव्राज्यमित्येतदयुक्तम् , गृहस्थस्य कर्मिणः कर्मनिवृत्त्य- सम्भवात् संन्यासिनः कर्मासम्भवाच्च कुतः कर्मनिवृत्तेरपारिव्राज्यम्। न च गृहस्थस्यापि ध्यानयोगारूढस्य कर्मनिवृत्तिरिति वाच्यम् ; गृहस्थस्य ध्यानयोगारूढत्वस्यैवासम्भवात्। तस्मात् कर्मसंन्यासं विना कर्मनिवृत्तिर्न सम्भवतीति शमः पारिव्राज्यमेव॥३॥

यदेति। हि यस्मादिति। यस्मात् कर्मसु विषयेषु चानुषङ्गाभावात् सर्वसङ्कल्पसंन्यासाच्च योगारूढो भवति पुरुषस्तस्माद् योगारूढत्वस्य शमः कारणमित्यर्थः। इन्द्रियाणामिति ग्राह्यग्राहकभावसम्बन्धे शेषे षष्ठी। इन्द्रियग्राह्येष्वर्थेष्वित्यर्थः। अर्थाः शब्दादयो विषयाः- अर्थ्यन्ते प्रार्थ्यन्ते संसारिभिरिति अर्थाः। ‘यदा हि चे’त्यत्रत्यस्य चकारस्य कर्मस्वित्यनेनान्वय इत्याह— कर्मसु चेति। चतुर्विधानि कर्माणि— तत्र नित्यानि अग्निहोत्रादीनि, नैमित्तिकानि दर्शादीनि, काम्यानि कारीरीष्ट्यादीनि, प्रतिषिद्धानि हिंसादीनि। एतेषु कुतो नानुषज्जते? इत्यत आह— प्रयोजनाभावबुद्ध्येति। विषयभोगसुखस्य कर्मफलस्य अल्पत्वास्थिरत्वसातिशयत्वदुःखो- निर्विशेषत्वधीः। सत्यता तेषामेव हितवचनम्। शीलं स्वभावसम्पत्तिः। स्थितिः स्थैर्यम्। दण्डनिधानम् अहिंसनम्। आर्जवम् अवक्रत्वम्। क्रियाभ्यः सर्वाभ्यः सकाशादुपरतिश्चेत्येतदुक्तं सर्वं यथा यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तं पुमर्थसाधनमस्ति। तस्मादेतदेवास्य निरतिशयं पुरुषार्थसाधनमित्यर्थः॥३॥

योगप्राप्तौ कारणकथनानन्तरं तत्प्राप्तिकालं दर्शयितुं श्लोकान्तरमवतारयति— अथेति। समाधानावस्था यदेच्युच्यते। अत एवोक्तम्— समाधीयमानचित्तो योगीति। शब्दादिषु कर्मसु चानुषङ्गस्य योगारोहणप्रतिबन्धकत्वात् तदभावस्य तदुपायत्वं प्रसिद्धमिति द्योतयितुं हीत्युक्तम्। सर्वेषामपि सङ्कल्पानां योगारोहणप्रतिबन्धकत्वमभिप्रेत्य सर्वसङ्कल्पसंन्यासीत्यत्र विवक्षितमर्थमाह— सर्वानिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यदा हि १नेन्द्रियार्थेषु न कर्मस्वनुषज्जते। सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते॥४॥

१. ‘यदा हि चेन्द्रियार्थेषु’ इति रा. पा.। यथाश्रुते— इन्द्रियार्थेषु नानुषज्जते, कर्मसु च नानुषज्जते इति योजना। २. ‘हि यस्मात्’ इति रा. पा.।

[[३१९]]

ननु सर्वसङ्कल्पाभावे भवतु कामाभावः। कथमेतावता सर्वकर्माभाव इत्याशङ्क्याह— सर्वकामपरित्यागे चेति। कर्मणां कामकार्यत्वादित्यर्थः। अत्र प्रमाणमाह— स यथेति। स पुरुषः यत्फलकामो भवति तत्साधनमनुष्ठेयतया बुद्धौ ध्यायतीति तत्क्रतुर्भवतीत्युच्यते। यच्चानुष्ठेयतया गृह्णाति, तदेव कर्म बहिरपि कुरुत इत्यर्थः॥४॥

शीलमस्येति स सर्वसङ्कल्पसंन्यासी, योगारूढः प्राप्तयोग इत्येतत् , तदा तस्मिन् काले उच्यते। सर्वसङ्कल्पसंन्यासी इति वचनात् सर्वांश्च कामान् सर्वाणि च कर्माणि १संन्यस्येदित्यर्थः। सङ्कल्पमूला हि सर्वे कामाः— ‘सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः’(मनु.२.३), ‘काम जानामि ते मूलं सङ्कल्पात् त्वं हि जायसे। न त्वां सङ्कल्पयिष्यामि तेन मे न भविष्यसि’(म.भा.१२.१७७.२५) इत्यादिस्मृतेः। सर्वकामपरित्यागे च सर्वकर्म- संन्यासः सिद्धो भवति, ‘स यथाकामो भवति तत्क्रतुर्भवति, यत्क्रतुर्भवति तत् कर्म कुरुते’ (बृ.उ.४.४.५) इत्यादिश्रुतिभ्यः, ‘यद्यद्धि कुरुते २कर्म तत्तत् कामस्य चेष्टितम्’ (मनु.२.४) इत्यादिस्मृतिभ्यश्च। न्यायाच्च। न हि दर्कत्वाद्यनुसन्धानेन तस्याप्रयोजनत्वान्नास्ति विषयजन्यं कर्मसाध्यं वा किञ्चिदपि प्रयोजनं विवेकिन इति भावः। ननु कर्मणां घटादिवत् स्वरूपाभावात् कथं तत्सङ्गः पुरुषस्य, येन तन्निवारणं सार्थकं स्याद्? अत आह— कर्तव्यताबुद्धिमिति। कर्माणि मया कर्तव्यानि इत्याकारकबुद्धिरेव कर्मसु सङ्गः। स्वरूपवत्सु विषयेषु तु साक्षादेव सङ्ग इति बोध्यम्। यद्वा विषयेषु कर्तव्यताबुद्धिः ग्राह्यताबुद्धिः सङ्ग इति। इहेति। इह मनुष्यलोके अर्थाः पशुपुत्रादयः, अमुत्र परलोके अर्थाः स्वर्गादयः। तेषु इहामुत्रार्थेषु कामास्तृष्णाः, तेषां हेतवः कारणानि, तान् । कामस्य सङ्कल्पप्रभवत्वात् कामहेतुत्वं सङ्कल्पस्येति भावः। शीलं स्वभावः, ताच्छील्ये णिनिः। संन्यासीति। योगमारूढो योगारूढः, ‘द्वितीये’ति ४योगविभागात् समासः। यावदर्थमाह— प्राप्तयोग इति। यो विषयकर्मसङ्गरहितः सर्वसङ्कल्पसंन्यासी च तेन ध्यानयोगः सम्यक् प्राप्त इत्यर्थः। उच्यते विद्वद्भिरिति शेषः, शास्त्रैरिति वा। नन्वत्र सङ्कल्पसंन्यास एवोक्तः, न तु कामसंन्यास इत्यत आह— सर्वेत्यादि। कारणस्य सङ्कल्पस्यैव त्यागे कुतः कार्यस्य कामस्य सत्त्वमिति भावः। सङ्कल्पमूला इति। सङ्कल्पो मूलः कारणं येषां ते सङ्कल्पमूलाः। हिशब्दः प्रसिद्धिं द्योतयति। तामेव प्रसिद्धिं दर्शयति— सङ्कल्पमूल इत्यादिना। एवं सङ्कल्पत्यागात् कामत्यागमुक्त्वा कामत्यागात् कर्मत्यागसिद्धिं वदति— सर्वेति। कथं काम- परित्यागे कर्मपरित्यागः? इत्यत्र श्रुत्यादीन् प्रमाणयति— सः कामी यथाकामः यत्पुरुषार्थकामः भवति, तत्क्रतुः तत्पुरुषार्थसाधना- नुष्ठानदृढनिश्चयो भवति; यत्क्रतुर्भवति यदनुष्ठानदृढनिश्चयो भवति, तत् कर्म कुरुते। न्यायाच्चेति। यो यत्कामः सः तत्साधकं कर्म कुरुते, तत्तत्कामहेतुत्वात् तत्तत्कर्मणः, यथा जलकामः कूपं गच्छतीत्यनुमानादित्यर्थः। न्यायमेव व्यतिरेकमुखेन द्रढयति—न हीति। सर्वसङ्कल्पसंन्यासेऽपि सर्वेषां कामानां कर्मणां च प्रतिबन्धकत्वसम्भवे कुतो योगप्राप्तिरित्याशङ्क्याह— सर्वेति। सर्वसङ्कल्प- परित्यागे यथोक्तविध्यनुष्ठानमयत्नसिद्धमिति मन्वानः सन्नाह— सङ्कल्पेति। मूलोन्मूलने च तत्कार्यनिवृत्तिरयत्न३लभ्येति भावः। तत्र प्रमाणमाह— सङ्कल्पमूल इति। तत्रान्वयव्यतिरेकावभिप्रेत्योक्तमुपपादयति— कामेति। सर्वसङ्कल्पाभावे कामाभाववत् कर्माभावस्य सिद्धत्वेऽपि कर्मणां कामकार्यत्वात् तन्निवृत्तिप्रयुक्तामपि निवृत्तिमुपन्यस्यति— सर्वकामेति। यदुक्तं कर्मणां कामकार्यत्वम् , तत्र श्रुतिस्मृती प्रमाणयति— स यथेति। स पुरुषः स्वरूपमजानन् यत्फलकामो भवति, तत्साधनमनुष्ठेयतया बुद्धौ धारयतीति तत्क्रतुर्भवति, यच्चानुष्ठेयतया गृह्णाति, तदेव कर्म बहिरपि करोतीति कामाधीनं कर्मोक्तमिति श्रुत्यर्थः। कामजन्यं कर्मेत्यन्वयव्यतिरेकसिद्धमिति द्योतयितुं स्मृतौ हिशब्दः। न्यायमेव दर्शयति— न हि सर्वसङ्कल्पेति। स्वापादावदर्शनादित्यर्थः। नित्यनैमित्तिककर्मानुष्ठानं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१.‘संन्यसेद्’ इति पा.। २.‘जन्तुः’ इति पा.। ३.‘अयत्नसुलभा’ इति पा.। ४.‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः’(पा.सू.२-१-२४) इति सूत्रे इति शेषः।

[[अ. ६. श्लो. ३-४]] [[३२०]]

सर्वसङ्कल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः। तस्मात् सर्वसङ्कल्पसंन्यासीति वचनात् सर्वान् कामान् , सर्वाणि कर्माणि च त्याजयति भगवान्॥४॥

यदैवं योगारूढः, तदा तेन आत्माऽऽत्मनोद्धृतो भवति १संसारादनर्थजातात्। अतः— उद्धरेदिति। उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानम् , २तत उद् ऊर्ध्वं हरेद् उद्धरेत् योगारूढतामापादयेदित्यर्थः। नात्मानम् स्पन्दितुं चलितुमपि। चलनसङ्कल्पाभावे चलनाभावादिति भावः। यद्वा चलनसङ्कल्पाभावे चलनकामाभावाच्चलनकामाभावे चलनाभावाच्चेति भावः। सङ्कल्पाभावे कर्माभाव इति व्यतिरेकव्याप्तिरनेन दर्शिता। सङ्कल्पसत्त्वे कर्मसत्त्वमित्यन्वयव्याप्तिस्तु श्रुत्यादिभिर्दर्शिता। अन्वयव्यतिरेकयोर्न्यायत्वं च शास्त्रप्रसिद्धम्। तथा च ‘न्यायाच्चे’त्यस्य अन्वयव्यतिरेकरूपन्यायादित्यप्यर्थो वाच्यः। अनुमानमप्येतन्न्यायाधीनसत्ताकमेव, व्याप्तिज्ञानस्यैव तत्रापि कारणत्वात् ; ३वह्निसत्त्वे धूमसत्त्वं, वह्न्यभावे धूमाभावः इत्यन्वयव्यतिरेकवशादेव हि पर्वते वह्निरनुमातुं शक्यते धूमवत्त्वलिङ्गेन इति। तस्मादिति। सङ्कल्पसंन्यासे कामसंन्यासपूर्वककर्मसंन्याससिद्धेरित्यर्थः। त्याजयतीति। योगानुष्ठात्रेति शेषः। अतः सर्वकर्म- संन्यास्येव योगारूढः, न तु गृहस्थ इति नास्ति गृहस्थस्य योगाधिकार इति भावः। यत्तु विषयाननुषङ्गाभ्यासरूपः कर्मयोग इति रामानुजः, तत्तुच्छम् ; कर्मानुष्ठानविषयाननुषङ्गयोर्मिथो विरुद्धत्वात् , इन्द्रियाणां हविरादिविषयानुषङ्गाभावे यज्ञादिकर्मानिष्पत्तेः॥४॥

उद्धरेदिति। आत्मा स्वयमात्मना स्वेन संसारानर्थव्रातादुद्धृतो भवति। यद्यप्यात्मनो निमज्जनमुद्धरणं चेति द्वयमसम्भवि, तथापि साभासबुद्धेः, बुद्धिप्रतिफलितचिदाभासस्य वा जीवस्य प्रमातुः कूटस्थात्मस्वरूपापरिज्ञानमूलकं यदासीत् संसारसागरे निमज्जनं तदिदानीं कूटस्थात्मस्वरूपज्ञानाद् विनश्यतीत्यभिप्रेत्येदमुक्तम्। अस्ति हि यावदात्मसाक्षात्कारं बन्धमुक्त्यादिः सर्वोऽपि व्यवहारः अविद्यावस्थायाम्। यथा जले चलति सति तत्प्रतिफलितः सूर्यबिम्बश्चलन्निव लक्ष्यते, तथा बुद्धौ संसरन्त्यां तत्प्रतिफलित- श्चिदाभासः संसरन्निव दृश्यतेऽज्ञानात् , ‘ध्यायतीव लेलायतीव’ इति श्रुतेः। तस्यां च बुद्ध्यां योगेन स्थिरीकृतायां सत्याम् , असंसार्यात्मस्वरूपसाक्षात्कारो जायते, यथा जले निश्चले सति निश्चलसूर्यप्रतिबिम्बसाक्षात्कारः। यत एवं ततो योगेन बुद्धिं स्थिरीकुर्यात् पुरुषः। ततश्चात्मा संसारव्रातादुद्धृतो भवतीत्यर्थः। उद्धरेदिति। अनिमग्नस्योद्धरणासम्भवादाह— संसारसागरे निमग्न[म्] इति। संसारसागरनिमग्नबुद्धितादात्म्याध्यासात् स्वयमप्यात्मा तत्र निमग्न इव स्थितः, न तु वस्तुतो निमग्न इति भावः। आत्मानं स्वं स्वतः स्वेन, सार्वविभक्तिकः तसिः। दूरनिरस्तमिति वक्तुमपिशब्दः। श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति— तस्मादिति॥४॥

योगारूढस्य किं स्यादित्याशङ्क्याह— यदैवमिति। योगारोहस्य दृष्टादृष्टोपायैरवश्यकर्तव्यतायै मुक्तिहेतुत्वं, तद्विपर्ययस्याधः- पतनहेतुत्वं च दर्शयति— अत इति। तत्र हेतुमाह— आत्मैव हीति। उद्धरणापेक्षामात्मनः सूचयति— संसारेति। संसारादूर्ध्वं हरणं कीदृगित्याशङ्क्याह— योगारूढतामिति। योगप्राप्तावनास्था तु न कर्तव्येत्याह— नात्मानमिति। योगप्राप्त्युपायश्चेन्नानुष्ठीयते, तदा योगाभावे संसारपरिहारासम्भवादात्मा अधो नीतः स्यादित्यर्थः। नन्वात्मानं संसारे निमग्नं तदीयो बन्धुः तस्मादुद्धरिष्यति, नेत्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ ५॥

१. ‘संसारानर्थव्रातात्’ इति पा.। २. ‘स्वतः’ इति रा. पा.। ३. वह्निसत्त्वे एव धूमसत्त्वम् इति एवकारः योजनीयः।

[[३२१]]

उदित्युपसर्गस्याव्ययस्य ऊर्ध्वार्थकत्वादाह— ऊर्ध्वं हरेदिति। नेदमूर्ध्वनयनं स्वर्गाद्यूर्ध्वलोकगमनम् , तस्यापि संसारमण्डलान्तः- पातित्वात्। नापि सत्यलोकगमनम् , तस्यापि मायिकत्वादित्यभिप्रेत्याह— योगारूढतामापादतेदिति। प्रमातुरात्मन आत्मस्वरूपा- वलोकननिष्ठत्वापादनमेवोर्ध्वनयनम्। तत एव संसारसागरोद्धरणरूपोर्ध्वगमनसम्भवादिति भावः। अवसादयेत् खेदयेत् , नाशयेदिति वा। तच्चाधोनयनरूपमेवेत्याह— अधो नयेदिति। संसारसागरे न पातयेदित्यर्थः। आत्मावलोकनाभावे संसारसागरपातादिति भावः। ननु कूपे पतितं तत उद्गन्तुमशक्तं यथोपरिस्थो रज्ज्वादिसाधनैरुद्धरति, तद्वत् संसारसागरे निमग्नं पुरुषमुद्धरेदेव कश्चिदन्यो गुर्वादिरीश्वरादिर्वा इत्यत आह— आत्मैवेति। महावाक्योपदेशमात्रमेव गुरुः करोति; चित्तशुद्धिरूपमनुग्रहमेवेश्वरः करोति; पुरुषस्तु वाक्यार्थमननं निदिध्यासनं च स्वयमेव कुर्यात्। एवं विचारेणात्मसाक्षात्कारानुदये गुरूक्तविधया प्राणायामादिरूपं योगं स्वय- मेवाभ्यसेत् ; विषयेभ्य इन्द्रियाणि मनश्च स्वयमेव निवर्तयेत् ; कूटस्थमात्मानं च स्वयमेव साक्षात्कुर्यात् , न त्वन्यपुरुषसहायसाध्यं किमप्यस्ति। यथा सुषुप्तिः स्वैकसाध्या तथा समाधिरपि स्वैकसाध्य एव। यत एवम् , तत आत्मैवात्मनो बन्धुरित्युच्यते, मुक्ति- प्रदत्वात्। यथा बन्धुः पुरुषस्य भोजनादिसत्कारदानेन सुखप्रदस्तद्वदिति भावः। आत्मा आत्मनो बन्धुरित्यनुक्त्वा आत्मैवात्मनो बन्धुरित्युक्तम् , तत्रावधारणार्थमाह— बन्धुरपीति। आत्मन आत्मैव बन्धुः, न त्वन्यः प्राकृतः पितृभ्रात्रादिः। ते हि मोक्षप्रतिकूलत्वाद् आत्मनो नैव बन्धवः। न हि पुरुषार्थप्रतिबन्धकस्य लोके बन्धुत्वं दृश्यते, द्रव्यापहारिणं द्रव्यागमप्रतिबन्धकं वा पुरुषं न हि लोको बन्धुं स्वस्य मन्यते, कं तर्हि? शत्रुमेव। मोक्षस्तु परमपुरुषार्थ इति सर्वास्तिकजनसम्मतम्। यस्तु तस्य प्रतिकूलः कथं स बन्धुर्भवेत्? अतो मोक्षरूपपरमपुरुषार्थप्रतिकूलाः पितृभ्रात्रादयः सर्वेऽपि नैव बन्धवः, किं तर्हि? शत्रव एव, पुरुषार्थप्रतिकूलत्वात्। कुतस्तेषां मोक्षप्रतिकूलत्वम्? अत आह— स्नेहादिबन्धनायतनत्वादिति। स्नेहशोकमोहादिबन्धनस्थानत्वादित्यर्थः। पित्रादिर्हि पुत्रादिं स्नेहादिना पाशस्थानीयेन दृढम् बध्नात्येव, न तु मोचयतीत्यर्थः। ‘मय्ययं स्नेहादिमान् यतस्ततोऽस्मिन् मया स्नेहादिमता भाव्यम् , कथं मय्यनुरागिणमिमं पुत्रादिजनं परित्यजेयम्? इमे वा मामनुरागिणं विहाय क्व गच्छेयुः?’ इत्येवं परस्परं स्नेहमयपाशेन निबद्धा बन्धवः परस्परं बन्धका एवेति भावः। एतेन मुमुक्षोः पितृपुत्रादिसर्वस्वजनपरित्यागरूपः संन्यासाश्रमस्वीकार आवश्यक इति सूचितम्। तस्मादिति। प्राकृतानां पित्रादीनां मोक्षप्रतिकूलत्वेनाबन्धुत्वादित्यर्थः। आत्मैवेति। योगारूढ आत्मैवेत्यर्थः। अन्यस्यात्मनः शत्रुत्वस्यानन्तरमेव वक्ष्यमाणत्वादिति भावः। न च पित्रादेरप्यात्मत्वात् कथं तस्याबन्धुत्वमिति वाच्यम् ; न ह्ययमात्मानं पित्रादिं मन्यते, किन्तु देहादिसङ्घातमेव, सङ्घातस्य चानात्मत्वं सर्वसम्मतम्। न ह्यात्मनि पित्रादिभेदोऽस्ति, येनायमात्मा मत्पिता, अयं मद्भ्रातेत्येवं प्रतीयात्। किं तर्हि? देहादिसङ्घाते पित्रादिभेदोऽस्ति। देहादिसङ्घातगताकारभेदाद्धि पिताऽयं भ्राताऽयमित्येवं प्रत्येति लोकः। आत्मैव रिपुरिति। असम्पादितयोग आत्मैवात्मनः शत्रुः। यस्मादयमात्मानं संसारसागरे निमज्जयति, यथा शत्रुः धनाद्यपहरणेन पुरुषं दुःखसागरे निमज्जयति, तद्वदिति। अत्राप्यवधारणार्थमाह— योऽन्य इति। अपकारित्वं शत्रोर्लक्षणम्। ननु पूर्ववाक्येन पित्रादिबन्धूनां मोक्षप्रतिकूलत्वाच्छत्रुत्वमिति व्यवस्थापितम् , सत्सु च तेषु शत्रुषु कथमात्मैव शत्रुरित्यवधारणं युक्तं स्याद्? आत्मैव हीति। कुतोऽवधारणम् , अन्यस्यापि प्रसिद्धस्य बन्धोः सम्भवात् , तत्राह— न हीति। अन्यो बन्धुः सन्नपि संसारमुक्तये न भवतीत्येतदुपपादयति— बन्धुरपीति। स्नेहादीत्यादिशब्दात् तदनुगुणप्रवृत्तिविषयत्वं गृह्यते। आत्मातिरिक्तस्यापि शत्रोरपकारिणः सुप्रसिद्धत्वाद् अवधारणमनुचितमित्याशङ्क्याह— योऽन्य इति॥५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अवसादयेत् नाधो नयेत् , नाधो गमयेत्। आत्मैव हि यस्मादात्मनो बन्धुः। न ह्यन्यः कश्चिद् बन्धुः संसारमुक्तये भवति। बन्धुरपि तावन्मोक्षं प्रति प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात्। तस्माद् युक्तमवधारणम् - आत्मैव ह्यात्मनो बन्धुरिति। आत्मैव रिपुः शत्रुः। योऽन्योऽपकारी बाह्यः शत्रुः सोऽप्यात्मप्रयुक्त एवेति युक्तमेवावधारणम् - आत्मैव रिपुरात्मनः - इति॥५॥

[[अ. ६. श्लो. ४-५]] [[३२२]]

आत्मैव बन्धुः, आत्मैव रिपुरात्मनः इत्युक्तम्। तत्र किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा आत्मनो रिपुरिति? उच्यते— बन्धुरिति। बन्धुरात्माऽऽत्मनस्तस्य। तस्यात्मनः स आत्मा बन्धुर्येनात्मना आत्मैव जितः, आत्मा कार्यकरणसङ्घातो येन जितो वशीकृतः। जितेन्द्रिय इत्यर्थः। अनात्मनस्तु अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत्। यथाऽनात्मा शत्रुरात्मनोऽपकारी, तथाऽऽत्माऽऽत्मनोऽपकारे वर्तेतेत्यर्थः॥६॥

अत आह—आत्मप्रयुक्त इति। यद्वा धनाद्यपहारिषु बाह्येषु शत्रुषु बहुषु सत्सु कथमात्मैवेत्यवधारणम्? अत आह—आत्मप्रयुक्त इति। अयं भावः— पितृपुत्रादिषु बन्धुषु क्षेत्रवित्ताद्यपहारिषु शत्रुषु वा नास्ति स्वतो बन्धुत्वं शत्रुत्वं वा। किं तर्हि? आत्मप्रयुक्तमेव तत्। ममायं पुत्रो ममेदं धनमित्यादिममकाराभावे, अहमनेन वर्धितोऽहमनेन नाशित इत्याद्यहङ्काराभावे कः कस्य कथं बन्धुर्भवेत्? कथं वा शत्रुर्भवेत्? न कथमपि। तथा च अहङ्कारममकाररूपात्माभिमानप्रयुक्तत्वाद् बन्धुत्वशत्रुत्वयोः बन्धुः शत्रुश्चात्मप्रयुक्त एवेति। एतेन पूर्ववाक्योक्तं बन्धुगतं मोक्षप्रतिकूलत्वरूपं शत्रुत्वम् , एतद्वाक्योक्तमर्थादिपुरुषार्थप्रतिकूलत्वरूपं शत्रुगतं शत्रुत्वं चात्मप्रयुक्तमेव, पित्रादिपिण्डेष्वात्मनः स्नेहाभावे, शत्रुहृतधनादिष्वात्मनो ममकाराभावे च पित्रादीनां मोक्षप्रतिकूलत्वस्य शत्रूणामर्थप्रतिकूलत्वस्य चासम्भवादिति सिद्धम्। अत एवोक्तम्— आत्मैव बन्धुरात्मैव रिपुरात्मन इति॥५॥

[बन्धुरिति।] येनात्मना आत्मैव जितः तस्यात्मनः स आत्मा बन्धुः, अनात्मनस्तु शत्रुत्वे आत्मैव शत्रुवद् वर्तेतेत्यन्वयः। जितेन्द्रियः आत्मैवात्मनो बन्धुः, अजितेन्द्रिय आत्मैवात्मनः शत्रुरिति पर्यवसन्नार्थः। किं लक्षणं यस्य स किंलक्षणः। तस्यात्मनः स आत्मेति। जितात्मन आत्मनः जितात्मा आत्मा इत्यर्थः। यो हि जितात्मा आत्मा स एव स्वस्य जितात्मनो बन्धुरिति यावत्। कथं स्वेनैवात्मना स्वयमात्मा जितो भवेदित्यत आत्मशब्दस्यार्थान्तरमाह— कार्यकरणसङ्घात इति। कार्यं देहः, करणानीन्द्रियाणि, तेषां सङ्घातः समूहः। इन्द्रियव्यापाराधीनत्वात् कायव्यापारस्य न कायजयस्य पृथग्वचनमित्यभिप्रेत्याह— जितेन्द्रिय इति। अत्रेन्द्रिय- शब्देन मनसोऽपि ग्रहणम् , वेदान्तमतैकदेशे मनसोऽपीन्द्रियत्वात्। अन्तरिन्द्रियमिति हि तस्य व्यवहारः। अनात्मनः अविद्यमा- [नात्म]न इति नार्थः, तस्यासम्भवात् , असङ्गतत्वाच्च, किन्तु अजितात्मनः इति। शाकपार्थिवादित्वाज्जितपदलोपः। अविद्यमान- पदस्यैवाजित इत्यर्थ इति वा, धातूनामनेकार्थत्वात्। ‘नञोऽस्त्यर्थाना’मिति विद्यमानपदलोपः। अस्वाधीनत्वाद् विरुद्ध आत्मा यस्य स अनात्मेति वा। नञो विरोधार्थकत्वात्। अजितेन्द्रियस्येत्यर्थः। आत्मैवेति। अजितेन्द्रियः स्वयमेवेत्यर्थः। शत्रुवद् वर्तनं नाम अपकारकरणमित्याह— यथेत्यादिना। अजितेन्द्रियस्यात्मापकारित्वं चात्मनः संसारसागरे पातनमेव। शत्रोरात्मापकारित्वं चात्मनो दुःखसागरे पातनम्। तस्मादजितेन्द्रियः सन् पुरुषो नात्मानमवसादयेत् शत्रुवत् , किन्तु जितेन्द्रियः सन्नात्मानमुद्धरेन्मित्रवदिति फलितार्थः॥ ६॥

उक्तमनूद्य प्रश्नपूर्वकं श्लोकान्तरमवतारयति— आत्मैवेत्यादिना। एकस्यैवात्मनो मिथो विरुद्धं बन्धुत्वं रिपुत्वं च, लक्षणभेद- मन्तरेणायुक्तमिति चोदिते वशीकृतसङ्घातस्यात्मानं प्रति बन्धुत्वम् , इतरस्य शत्रुत्वमित्यविरोधं दर्शयति— बन्धुरित्यादिना। वशीकृत- सङ्घातस्य विक्षेपाभावादात्मनि समाधानसम्भवादुपपन्नमात्मानं प्रति बन्धुत्वमिति साधयति— तस्येति। अवशीकृतसङ्घातस्य पुनर्विक्षे- पोपपत्तेरात्मनि समाधानायोगादात्मानं प्रति शत्रुभावे प्रसिद्धशत्रुवद् आत्मैव शत्रुत्वेन वर्तेतेत्युत्तरार्धं व्याकरोति— अनात्मन इति। दृष्टान्तं व्याचष्टे— यथेति। उक्तदृष्टान्तवशादवशीकृतसङ्घातः स्वस्य हितानाचरणादात्मानं प्रति शत्रुरेवेति दार्ष्टान्तिकमाह—तथेति॥६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥

[[३२३]]

जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा १मानापमानयोः॥७॥

जितात्मन इति। प्रशान्तस्येति। वाचिकमानसिककायिकसर्वव्यापारोपरमरूपं प्रकृष्टं शमं प्राप्तस्येत्यर्थः। समाहितः सम्यग् आहितः स्थितः, भवतीति शेषः। सम्यक्पदार्थमाह— साक्षादिति। प्रत्यक्षमित्यर्थः। केन रूपेण साक्षात्त्वम्? अत आह— आत्मभावेनेति। आहितशब्दार्थमाह— वर्तत इति। साक्षादात्मत्वेन प्रतिभातीति यावत्। यस्त्वजितात्मा स आत्मानं कूटस्थमविदित्वा प्रमातारमात्मानं मत्वा कूटस्थमीश्वरमन्यं परोक्षं मन्यते, अतो न तद् दृष्ट्या परमात्मन आत्मत्वेन वर्तनम्। यः पुनर्जितेन्द्रियः स आत्मानं कूटस्थमीश्वरं वेत्तीति तद् दृष्ट्या परमात्मन एवात्मत्वेन वर्तनमिति भावः। जितेन्द्रियस्यैव स्वात्मभूतपरमात्मसाक्षात्कारो न त्वजितेन्द्रियस्येति परमार्थः। अत्र जितात्मनः प्रशान्तस्य हृदि परमात्मा समाहित इत्यप्यन्वयः सम्भवति, अर्थस्तु पूर्वोक्त एव। शास्त्रोपदेशशम- दमादिसंस्कृतमनसः आत्मदर्शने करणत्वात् तादृशे समाहिते मनसि परमात्मा स्वयमात्मत्वेन स्फुरतीत्यर्थः। उक्तं हि हंसगुह्ये व्यासेन भागवते ‘यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतिसम्प्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः’ इति। जितेन्द्रियस्य मनस्युपरते हंसाख्यात्मस्फुरणं स्वत एव भवतीति श्लोकार्थः। यद्यपि ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती’ति सर्वस्यापि हृदि परमात्मा समाहित एव, तथापि न तु सर्वो वेत्ति, किन्तु प्राज्ञ एव। ततश्च यः परमात्मानं हृद्गतं न वेत्ति, परमात्मा तस्य हृदि अवर्तमान इव वर्तते। पारोक्ष्येण यस्तु वेत्ति तस्य हृदि साक्षादात्मत्वेन वर्तत एवेत्यभिप्रायेण ‘जितात्मनः प्रशान्तस्य परमात्मा समाहितः’ इत्युक्तं व्यासेन। शङ्करेण च तथैव भाषितम्— ‘साक्षादात्मभावेन वर्तत इत्यर्थः’ इति। साक्षादात्मत्वेन प्रतिभातीति पूर्वोक्तरीतौ तु न काऽपि शङ्केति बोध्यम्। किञ्चेति। जितेन्द्रियस्य योगिन इदमप्यावश्यकमिति भावः। सम इति मूले शेषः। जितेन्द्रिय इति, योगीति वा कर्तुरुभयत्र शेषः। समो हर्षविषादवर्जितः। साम्याभावे तु विकारप्रसङ्गेन जितेन्द्रियत्वं भज्येत, तेन च योगो नैव निष्पद्येत। तस्मात् समत्वं योग उच्यत इति प्रागुक्तः समत्वरूपो योगोऽपि ध्यानयोगिन आवश्यक इति भावः॥७॥

कथं संयतकार्यकरणस्य बन्धुरात्मेति? तत्राह— जितात्मन इति। जितकार्यकरणसङ्घातस्य प्रकर्षेणोपरतबाह्याभ्यन्तरकरणस्य परमात्मा विक्षेपेण पुनः पुनरनभिभूयमानो निरन्तरं चित्ते प्रथत इत्यर्थः। जितात्मानं संन्यस्तसमस्तकर्माणमधिकारिणं प्रदर्श्य योगाङ्गानि दर्शयति— शीतेति। समः स्यादित्यध्याहारः। पूर्वार्धं व्याचष्टे— जितेत्यादिना। न केवलं तस्य परमात्मा साक्षादात्मभावेन वर्तते, किन्तु शीतोष्णादिभिरपि नासौ चाल्यते तत्त्वज्ञानादित्युत्तरार्धं विभजते— किञ्चेति। तेषु समः स्यादिति सम्बन्धः॥७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

जितात्मन इति। जितात्मनः कार्यकरणादिसङ्घात आत्मा जितो येन स जितात्मा, तस्य जितात्मनः प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षादात्मभावेन वर्तत इत्यर्थः। किञ्च शीतोष्णसुखदुःखेषु तथा मानेऽपमाने च मानापमानयोः पूजापरिभवयोः २समः स्यात्॥७॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

कथं संयतकार्यकरणस्य बन्धुरात्मेत्याशङ्क्याह— जितात्मनः प्रशान्तस्येति। न केवलं तस्य परमात्मा साक्षादात्मभावेन वर्तते, शीतोष्णादिभिरप्यसौ तत्त्वज्ञानवान् न चाल्यत इत्याह— शीतोष्णसुखदुःखेषु तथा मानावमानयोः। कूटस्थ इत्युत्तरश्लोकेन सम्बन्धः॥७॥

१. ‘मानावमानयोः’ इति मूले भाष्ये च पा.। २. ‘समः स्यात्’ इति क्वचिन्न।

[[अ. ६. श्लो. ६-७]] [[३२४]]

ज्ञानेति। ज्ञानविज्ञानतृप्तात्मा, ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम् , विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानु- भवकरणम् , ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः सञ्जातालम्प्रत्यय आत्मा अन्तःकरणं यस्य स ज्ञानविज्ञानतृप्तात्मा कूटस्थः १अप्रकम्प्यो भवतीत्यर्थः। विजितेन्द्रियश्च। य ईदृशो युक्तः समाहित इति स उच्यते कथ्यते। स योगी समलोष्टाश्मकाञ्चनो लोष्टाश्मकाञ्चनानि समानि यस्य स समलोष्टाश्मकाञ्चनः॥८॥

किञ्च— सुहृदिति। सुहृदित्यादिश्लोकार्धमेकं पदम्। सुहृदिति प्रत्युपकारमनपेक्ष्योपकर्ता। मित्रं स्नेहवान्। ज्ञानेति। ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः पुरुषः युक्तः इत्युच्यते। योगीत्यादिकमुत्तरश्लोकान्वयि। तथैवेति। शास्त्रोक्तविधयैवेत्यर्थः। स्वानुभवकरणं स्वानुभवापादनम्। ज्ञानविज्ञानयोर्विषयपारोक्ष्यापरोक्ष्याभ्यां भेद इति भावः। अलम्प्रत्ययोऽलम्बुद्धिः, आत्मा मनः, बुद्धिर्वा। कूटवत् तिष्ठतीति कूटस्थः निर्विकारः, अप्रकम्पो निश्चल इति यावत्। यद्यपि वस्तुतः आत्मा कूटस्थ एव, तथापि बुद्धौ चलन्त्यामकूटस्थ इव प्रतिभातीति कूटस्थ इत्युक्तम्। बुद्धिचाञ्चल्याभावात् कूटस्थरूपेण प्रतिभातीत्यर्थः। निश्चलबुद्धिरिति कूटस्थशब्दस्य यावदर्थः। समाहितः चित्तसमाधानवान्। योगो हि चित्तसमाधानम्। उच्यते शास्त्रैः शास्त्रज्ञैरिति वा। न त्वनेवंविधस्य क्वापि कथमपि चित्तसमाधानं भवितुमर्हतीति भावः।२(॥८॥) सुहृदिति। समलोष्टाश्मकाञ्चनः सुहृदादिषु साधुषु पापेष्वपि च समबुद्धिर्योगी विशिष्यते। लोष्टं मृत्पिण्डः, अश्मा पाषाण उपलो मणिर्वा, काञ्चनं हेम एतानि यस्य समानि स समलोष्टाश्मकाञ्चनः। लोष्टादिषु न परित्याज्यताबुद्धिः, काञ्चने न स्वीकार्यताबुद्धिर्योगिन इत्यर्थः। लोष्टादिकमिव काञ्चनमपि परित्यजत्येव, न तु स्वीकरोतीति यावत् , द्रव्यसाध्यप्रयोजनाभावादस्य। इदं तु काञ्चने भ्रमराहित्यं दुष्करं योगिनः। यत उक्तम् ‘वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च। तासु तेष्वप्यनासक्तः साक्षाद् भर्गो नराकृतिः॥’ इति। तस्मात् काञ्चनं मलवत् परित्याज्यं योगिनः। चित्तसमाधानमेव विशिष्टफलं चेदिष्टम् , तर्हि कथम्भूतः समाहितो व्यवह्रियते? तत्राह— ज्ञानेति। परोक्षापरोक्षाभ्यां ज्ञानविज्ञानाभ्यां सञ्जातोऽलम्प्रत्ययो यस्मिन्नन्तःकरणे सः, अविक्रियो हर्षविषादकामक्रोधादिरहितो योगी युक्तः समाहित इति व्यवहारभागी भवतीति पादत्रयव्याख्यानेन दर्शयति— ज्ञानमित्यादिना। स च योगी परमहंसपरिव्राजकः सर्वत्रोपेक्षाबुद्धिः अनतिशय- वैराग्यभागीति कथयति— स योगीति॥८॥

योगारूढस्य प्रशस्तत्वमभ्युपेत्य योगस्याङ्गान्तरं दर्शयति— किञ्चेति। ‘पदच्छेदः पदार्थोक्ति’रिति व्याख्यानाङ्गं सम्पादयति—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥८॥

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥९॥

अरिः प्रत्यक्षमपकारकः, अप्रत्यक्षमप्रियो द्वेष्यः॥९॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘अप्रकम्पः’ इति रा. पा.। २. अत्र अष्टमश्लोकव्याख्यासमाप्तिः मुद्रितपुस्तके दृश्यते। परन्तु सुहृदितीति प्रतीकधारणोत्तरम् अष्टमश्लोकस्थस्य ‘योगी सम- लोष्टाश्मकाञ्चनः’ इत्यस्य नवमश्लोके ‘समबुद्धिर्विशिष्यते’ इत्यत्रान्वयप्रदर्शनात् , व्याख्यानाच्च अष्टमनवमयोः द्वयोः सह व्याख्यानं कृतमिति प्रतीयते। अथवा सुहृदितीति प्रतीकधारणं पश्चान्नेतव्यम्।

[[३२५]]

समबुद्धिरिति। समा अविकृता बुद्धिर्यस्य स समबुद्धिः, समः आत्मा तस्मिन् बुद्धिर्यस्य स समबुद्धिरिति वा, समदर्शीत्यर्थः। इदमेवाह—अव्याकृतबुद्धिरिति। अव्याकृतो निर्विकारः आत्मा, [तस्मिन् बुद्धिर्यस्य स इति,] अव्याकृता विकृतिरहिता बुद्धिर्यस्य स इति वा। बुद्धिमेवाभिनीय दर्शयति— कः कर्ता किं कर्मेति। आत्मनोऽविकारित्वादनात्मनोऽचेतनत्वान्नास्ति कर्ता। तथा आत्मान्यस्य सर्वस्यापि मृषात्वात् कर्मापि नास्ति। यद्वा ममाकर्तृत्वाद् देहादेरनात्मत्वान्नास्ति कर्मेत्यर्थः। विशिष्यत इति। न ज्ञानयोगिभ्यः, सर्वोत्तमत्वात् तेषाम्। न च कर्मयोगिभ्यः, कर्मयोग्यपेक्षया ध्यानयोगिन उत्कर्षस्य स्वतःसिद्धत्वेन वचनानर्हत्वात्। किन्तु स्वेतरध्यानयोगिभ्य एवेत्यभिप्रेत्याह— योगारूढानामिति। सर्वेषां मध्ये इत्यर्थः। सर्वत्र समबुद्धिमत्त्वात् समबुद्धेश्च ज्ञानयोग- प्रधानांशत्वाच्चेति भावः॥८,९॥

योगीति। योगी रहसि स्थितः एकाकी यतचित्तात्मा निराशीरपरिग्रहश्च सन्नात्मानं सततं युञ्जीत ध्यायीत। ध्यानशीलः आत्मानं युञ्जीत, चित्तं ब्रह्मणि समादध्याद्, ब्रह्मणि चित्तसमाधानं कुर्यात्। असहायः भार्यादिसहायरहितः। गृहस्थस्य गृह एव स्थितिः, न तु गिरिगुहादौ, भार्यासहितस्यैव गृहस्थस्य कर्मस्वधिकारो, न तु तद्रहितस्येति। यद्वा गृहस्थस्य भार्यादिसहायपरित्यागो ऽनुचितः, भार्यादित्यागस्य दोषावहत्वात् , ‘ऋतौ भार्यामुपेया’दित्यादिशास्त्रात्। अतो न गृहस्थस्यैकाकित्वं रहःस्थितत्वं वा सम्भवतीति कृत्वा एकाकी रहसि स्थित इति विशेषणात् संन्यासिलाभ इत्याह— रहसीति। न च - भार्यापरित्यागो गृहस्थस्येव संन्यासिनोऽपि दोषावह एव, ‘ऋतौ भार्यामुपेया’दिति शास्त्रविरोधादिति - वाच्यम् , ऋताविति शास्त्रस्य परिसङ्ख्याविधित्वेन ऋतुकाल इव तदितरकालेष्वपि भार्यागमनं यस्य नित्यप्राप्तं तं गृहस्थं प्रत्येव ऋतावेव भार्यामुपेयादिति विहितम् , न तु संन्यासिनं प्रति, तस्य भार्याया एवाभावेन तद्गमनस्याप्राप्तत्वात्। न चैतदर्थमपूर्वविधिरेव स इति सुहृदितीति। अरिर्नाम परोक्षमपकारकः, प्रत्यक्षमप्रियो द्वेष्य इति विभागः। समबुद्धिरिति व्याचष्टे— कः किमिति। प्रथमो हि प्रश्नो जातिगोत्रादिविषयः, द्वितीयो व्यापारविषयः। उक्तप्रकारेणाव्यापृतबुद्धित्वे३ सर्वोत्कर्षो वा सर्वपापविमोक्षो वा सिध्यतीत्याह— विशिष्यत इति। पाठद्वयेऽपि सिद्धमर्थं संगृह्य कथयति— योगारूढानामिति॥९॥

यथोक्तविशेषणवतो योगारूढेषूत्तमत्वे योगानुष्ठाने प्रयतितव्यमिति अङ्गाभिधानानन्तरं प्रधानमभिदधाति— अत एवमिति। आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योगस्य सूचयति— सततमिति। तस्यैव पञ्चाङ्गान्युपन्यस्यति— रहसीत्यादिना। सर्वदेति आदरदीर्घकालयोरुपलक्षणम्। प्रत्यगात्मानं व्यावर्तयति— अन्तःकरणमिति। गिरिगुहादावित्यादिशब्देन योगप्रतिबन्धकदुर्जनादि- विधुरो देशो गृह्यते। विशेषणद्वयस्य तात्पर्यमाह— रहसीति। योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शयति— यतेति। सति

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अरिः शत्रुः। उदासीनो न कस्यचित् पक्षं भजते। मध्यस्थो १यो विरुद्धयोरुभयोर्हितैषी। द्वेष्यः आत्मनोऽप्रियः। बन्धुः सम्बन्धीत्येतेषु साधुषु शास्त्रानुवर्तिषु , अपि च पापेषु प्रतिषिद्धकारिषु सर्वेष्वेतेषु समबुद्धिः कः किंकर्मा २इत्यव्यापृतबुद्धिरित्यर्थः। विशिष्यते। ‘विमुच्यते’ इति वा पाठान्तरम्। योगारूढानां सर्वेषामयमुत्तम इत्यर्थः॥९॥

अत एवमुत्तमफलप्राप्तये— योगीति। योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी असहायः। ‘रहसि स्थितः, एकाकी च’ इति विशेषणात् संन्यासं योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥१०॥

१. ‘यः’ इति क्वचिन्न। २. ‘अव्याकृतबुद्धिरिति’ इति रा. पा.। ३. ‘अव्यापृतबुद्धेः’ इति पा.।

[[अ. ६. श्लो. ८-१०]] [[३२६]]

वाच्यम् , गृहस्थे भार्यागमनस्य नित्यप्राप्तत्वेनापूर्वविधित्वाभावात्। संन्यासिनः सर्वपरित्यागस्य विधानाच्च ‘यदहरेव विरजेत्तदहरेव प्रव्रजे’दित्यादिशास्त्रेण। तस्मादेकाकित्वं रहःस्थितिश्चेति द्वयं संन्यासिन एव, न तु गृहस्थस्य। गृहे तिष्ठतीति गृहस्थः, गृहे भार्यया सह तिष्ठतीति गृहस्थ इति च व्युत्पत्तेः। संयतौ नियमितौ युक्ताहारविहारादिना स्वायत्तीकृतावित्यर्थः। परिग्रहः धनधान्यादिः। यद्यपि संन्यासिनोऽपरिग्राह्यमेव२, तथापि संन्यासोचितकाषायाम्बरादिपरिग्रहनिषेधायोक्तम् अपरिग्रहः इत्याह— संन्यासित्वेऽपीति। संन्यासिनो यः परिग्रहः आवश्यकः, तमपि त्यजेदित्यर्थः। एतेन दिगम्बरत्वं दण्डकमण्डलुराहित्यं च परमहंससंन्यासाश्रमलक्षणं सूचितम्। यद्वा संन्यासी भवन्नपि यः कश्चन देवालयादिधर्मकार्यार्थं धनादिपरिग्रहं सम्पादयेत् , तं प्रत्याह— अपरिग्रह इति। संन्यासिनो देवालयादिधर्मकार्यसाध्यप्रयोजनाभावात् संन्यासिनो मुमुक्षुत्वान्मोक्षस्याकार्यत्वात् किं मुमुक्षोः संन्यासिनो धर्मकार्यै- रधर्मकार्यैर्वा। तस्मात् संन्यासित्वेऽपि परिग्रहरहित एव स्याद् योगी। सति परिग्रहे तद्रक्षादिव्यग्रस्य चित्तस्य ब्रह्मणि समाधानालाभादिति भावः। यत्तु रामानुजः— योगी कर्मयोगनिष्ठः यतचित्तात्मा यतचित्तमनस्क इति, तत्तुच्छम् ; कर्मयोगिनो विजनस्थित्यसम्भवात्, कारकादिसापेक्षो हि कर्मयोगः। यतचित्त इत्यनेन यतमना इत्यनेन वा विवक्षितमनोजये सिद्धे यतचित्तमनस्क इति चित्तमनसोर्ग्रहणं पुनरुक्तम्॥१०॥

शुचाविति। प्राप्तयोगलक्षणं योगारूढलक्षणं च वक्तव्यम् , तत्फलादिकं च वक्तव्यमित्यतो हेतोरारभ्यते उत्तरग्रन्थ इति संन्यासित्वे किमित्यपरिग्रहग्रहणम् अर्थपुनरुक्तेरित्याशङ्क्य कौपीनाच्छादनादिष्वपि सक्तिनिवृत्त्यर्थमित्याह— संन्यासित्वेऽपीति॥१०॥

योगं योगाङ्गानि चोपदिश्योत्तरसन्दर्भस्य तात्पर्यमाह— अथेति। योगस्वरूपकतिपयतदङ्गप्रदर्शनानन्तर्यम् अथशब्दार्थः। विहारादीनामित्यादिशब्देन यथोक्तासनादिगतावान्तरभेदग्रहणम्। तत्फलादि चेत्यादिशब्देन योगफलं सम्यग्ज्ञानं च तत्फलं कैवल्यम् , ततो भ्रष्टस्यात्यन्तिकाविनष्टत्वमित्यादि गृह्यते। एवं समुदायतात्पर्ये दर्शिते, किमासीनः शयानस्तिष्ठन् गच्छन् कुर्वन् वा युञ्जीतेत्यपेक्षायाम् अनन्तरश्लोकतात्पर्यमाह— तत्रेति। निर्धारणे सप्तमी। प्रथमं योगानुष्ठानस्य प्रधानम् ‘आसीनः सम्भवात्’ इति न्यायादिति यावत्। विविक्तत्वं द्वेधा विभजते— स्वभावत इति। आसनस्यास्थैर्ये तत्रोपविश्य योगमनुतिष्ठतः समाधानायोगाद् योगासिद्धिरित्यभिसन्धाय विशिनष्टि— अचलमिति। आस्यतेऽस्मिन्निति व्युत्पत्तिमनुसृत्याह— आसनमिति। आत्मन इति परकीया- सनव्युदासार्थम्। पतनभयपरिहारार्थं नात्युच्चमित्युक्तम्। नाप्यतिनीचमिति भूतलपाषाणादिसंश्लेषे वातक्षोभाग्निमान्द्यादिसम्भावितदोष-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कृत्वेत्यर्थः। यतचित्तात्मा, चित्तम् अन्तःकरणम् , आत्मा देहश्च संयतौ यस्य स यतचित्तात्मा, निराशीः वीततृष्णो अपरिग्रहश्च परिग्रहरहित इत्यर्थः। संन्यासित्वेऽपि त्यक्तसर्वपरिग्रहः सन् युञ्जीतेत्यर्थः॥१०॥

अथेदानीं योगं युञ्जतः आसनाहारविहारादीनां योगसाधनत्वेन नियमो वक्तव्यः, प्राप्तयोगस्य लक्षणं तत्फलादि चेत्यत आरभ्यते। तत्रासनमेव तावत् प्रथममुच्यते— शुचाविति। शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मन आसनं नात्युच्छ्रितं नातीवोच्छ्रितं नाप्यतिनीचम् , तच्च शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं १चैलाजिनकुशोत्तरम्॥११॥

१. ‘चेलाजिन’ इति पा.। २. धनधान्यादीति शेषः। तच्च ‘संन्यासं कृत्वा’ इत्यनेनैव लब्धम् , अन्यथा संन्यासासिद्धेरिति शङ्का।

[[३२७]]

शेषः। शुचौ स्वभावतः शुद्धे , परिशुद्धे संस्कारतो विविक्ते विजने वा, निःसंसारे इत्यर्थः। संसारः पशुशिश्वादिः। शुचौ देशे नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं स्थिरमात्मन आसनं प्रतिष्ठाप्य इत्यन्वयः। आसनं दार्वादिमयं पीठम्। विपरीत इति। कुशाजिनचेलानीत्यर्थः। आसनस्योपरि कुशाः, तदुपर्यजिनं, तदुपरि चेलं चेति क्रमः। प्रतिष्ठाप्य स्थापयित्वा॥११॥

तत्रेति। तत्रासने उपविश्य यतचित्तेन्द्रियक्रियःसन् मन एकाग्रं कृत्वा आत्मविशुद्धये योगं युञ्ज्यात्। एकाग्रमिति। एकमग्रं चिन्तनीयमस्येत्येकाग्रम्। ‘एकाग्रमेकताने स्यादेकाग्रं चाप्यनाकुले’ इति विश्वः। एकतानं सावधानम् , आत्मैकध्यानपरमिति यावत्। इदं च मनसो विषयप्रत्याहारं विना न सम्भवतीत्यभिप्रेत्याह— सर्वविषयेभ्य उपसंहृत्येति। निवर्त्येत्यर्थः। आत्मविशुद्धये आत्मा नात्र कूटस्थः, तस्य सर्वपवित्रीकरणचणस्य स्वतः पवित्रतमस्य भवितव्यशुद्ध्यभावात्। किन्तु मन एवेत्याह— अन्तःकरणमिति। तस्य शुद्धिर्नाम रागादिदोषाभावः, प्रसन्नतेति यावत्॥१२॥

सममिति। कायशिरोग्रीवं सममचलं च धारयन् स्थिरो भूत्वा स्वं नासिकाग्रं सम्प्रेक्ष्येव दिशश्चानवलोकयन् सन् प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितश्च सन् , योगीति शेषः, मनः संयम्य मच्चित्तः युक्तः मत्परश्च सन् , आसने इति शेषः। आसीत इति श्लोकद्वयस्यान्वयः। ३कायशिरोग्रीवमिति समाहारत्वादेकत्वं क्लीबत्वं च। कायश्च शिरश्च ग्रीवा च तत्समाहारः कायशिरोग्रीवम्। कण्ठश्रोणिमध्यदेशोऽत्र कायः, ऊर्वादिकायस्यासनबन्धनेनैव समीकृतत्वादचलीकृतत्वाच्च। ग्रीवाग्रहणं स्पष्टार्थम् , शिरश्चलनं विना निरासार्थम्। चैलं वस्त्रम् ; अजिनं चर्म पशूनाम् , तच्च मृगस्य; कुशा दर्भाः, ते चोत्तरे यस्मिन् उपरिष्टादारभ्य तत् तथोक्तम्। प्रथमं चैलम् , ततोऽजिनम् , ततश्च कुशा इति २प्रतिपन्नपाठक्रममतिक्रम्य, आदौ कुशस्ततोऽजिनं ततश्चैलमिति क्रमं विवक्षित्वाऽऽह— विपरीतोऽत्रेति॥११॥

यथोक्तमासनं सम्पाद्य किं कर्तव्यमिति प्रश्नपूर्वकं कर्तव्यं तन्निर्दिशति— प्रतिष्ठाप्येति। योगं युञ्जानस्य इतिकर्तव्यताकलापं पृच्छति— कथमिति। सर्वेभ्यो विषयेभ्यः सकाशात् प्रत्याहृत्य मनसो यद् एकस्मिन्नेव ध्येये विषये समाधानम् , यत् चित्तस्येन्द्रियाणां च बाह्यक्रियाणां संयमनम् , तदुभयं कृत्वा योगमनुतिष्ठेदित्याह— सर्वेति। आसने यथोक्ते स्थित्वा यथोक्तया रीत्या योगानुष्ठानस्य प्रश्नपूर्वकं फलमाह— स किमर्थमित्यादिना॥१२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

चैलाजिनकुशोत्तरं चैलमजिनं कुशाश्चोत्तरे यस्मिन्नासने तदासनं चैलाजिनकुशोत्तरम्। पाठक्रमाद् विपरीतोऽत्र क्रमश्चैलादीनाम्॥११॥

प्रतिष्ठाप्य किम्? — तत्रेति। तत्र तस्मिन्नासन उपविश्य योगं युञ्ज्यात्। कथम्? सर्वविषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा, यतचित्तेन्द्रियक्रियः चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि, तेषां क्रियाः संयताः यस्य स यतचित्तेन्द्रियक्रियः। स किमर्थं योगं युञ्ज्यादित्याह— आत्मविशुद्धये अन्तःकरणस्य विशुद्ध्यर्थमित्येतत्॥१२॥

१बाह्यमासनमुक्तम्। अधुना शरीरधारणं कथमित्युच्यते— सममिति। समं कायशिरोग्रीवं कायश्च शिरश्च तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युञ्ज्याद् योगमात्मविशुद्धये॥१२॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥१३॥

१. ‘बाह्यसाधनमासनम्’ इति पा.। २. ‘प्रतिपन्नपाठक्रममापातिकं क्रममतिक्रम्य’ इति पा.। ३. प्राण्यङ्गत्वात् समाहारद्वन्द्वनियमः।

[[अ. ६. श्लो. १०-१३]] [[३२८]]

ग्रीवाचलनासम्भवात् , शिरसि समेऽचले च कृते सति ग्रीवायाः समत्वाचलत्वलाभाच्च। स्थिर इति। स्थैर्यमत्र बुद्धिगतं बोध्यम् , कायगतस्योक्तत्वात्। स्थिरबुद्धिरित्यर्थः। यद्वा कायशिरोग्रीवं सममचलं धारयन् अत एव स्थिर इति। अनेन च स्थिरपदेन चिरकालं कायाद्यचलनपूर्वकमासने स्थातुं क्षम इति व्यज्यते। दृष्टिसन्निपात इत्यस्य दृष्टेःसन्निपातो रूपादिविषयप्रवृत्तिराहित्यमित्यर्थः। स चेति। दृष्टिसन्निपात इत्यर्थः। अन्तःकरणस्य समाधानमपेक्षत इत्यन्तःकरणसमाधानापेक्षः अन्तःकरणसमाधानार्थ इत्यर्थः। तत्रैव नासाग्रसम्प्रेक्षण एव। स्वं स्वीयमित्यर्थः। स्वयमिति वा। ‘स्वो ज्ञातावात्मनि स्व’मिति आत्मार्थे क्लीबत्वात्२॥१३॥

प्रशान्तात्मेति। शान्तः प्रसन्नः। विगतभीरिति। निर्जनदेशस्थित्यादिप्रयुक्तभयरहितः, सर्वशून्यात्मावलोकनप्रयुक्तभयरहित १. ‘भिक्षान्नभुक्त्यादि’ इति, ‘भैक्षभुक्त्यादि’ इति च पा.। २. ‘स्वो ज्ञातौ, आत्मनि स्वं, त्रिष्वात्मीये, स्वोऽस्त्रियां धने’ (अमर. नानार्थ. २११) इति रामकविसंमता योजना। ‘स्वो ज्ञातौ आत्मनि, स्वं त्रिष्वात्मीये, स्वोऽस्त्रियां धने’ इति योजनायां तु नेदं युक्तम्। भाष्यार्कप्रकाशः प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः॥१४॥

ग्रीवा च कायशिरोग्रीवं तत् समं धारयन् अचलं च। समं धारयतश्चलनं सम्भवति , अतो विशिनष्टि— अचलमिति। स्थिरः स्थिरो भूत्वेत्यर्थः। स्वं नासिकाग्रं सम्प्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वेवेति इवशब्दो लुप्तो द्रष्टव्यः। न हि स्वनासिकाग्रसंप्रेक्षणमिह विधित्सितम्। किं तर्हि? चक्षुषोर्दृष्टिसन्निपातः। स चान्तःकरणसमाधानापेक्षो विवक्षितः। स्वनासिकाग्रसंप्रेक्षणमेव चेद् विवक्षितम् , मनस्तत्रैव समाधीयेत, नात्मनि। आत्मनि हि मनसः समाधानं वक्ष्यति— आत्मसंस्थं मनः कृत्वेति। तस्माद् इवशब्दलोपेनाक्ष्णोर्दृष्टिसन्निपात एव सम्प्रेक्ष्येत्युच्यते। दिशश्चानवलोकयन् दिशां चावलोकनमन्तराऽकुर्वन्नित्येतत्॥१३॥

किञ्च— प्रशान्तेति। प्रशान्तात्मा प्रकर्षेण शान्त आत्माऽन्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयो ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषा१भिक्षाभुक्त्यादि , तस्मिन् स्थितः तदनुष्ठाता आनन्दगिरिकृतव्याख्या उक्तमनूद्य, अनन्तरश्लोकस्यापुनरुक्तमर्थमाह— बाह्येति। समत्वम् ऋजुत्वम्। कायः शरीरमध्यम्। अचलमिति विशेषण- मवतार्य तस्य तात्पर्यमाह— सममिति। कार्यकरणयोर्विषयपारवश्यशून्यत्वम् अचलत्वं स्थैर्यम्। किमिति इवशब्दलोपोऽत्र कल्प्यते स्वनासिकाग्रसंप्रेक्षणमेव योगाङ्गत्वेनात्र विधित्सितं किं न स्यादित्याशङ्क्याह— न हीति। तर्हि किमत्र विवक्षितमिति प्रश्नपूर्वकमाह—किं तर्हीति। दृष्टिसंनिपातः दृष्टेः चक्षुषो रूपादिविषयप्रवृत्तिराहित्यम्। कथमसौ अनायासेन सिध्यति? तत्राह— स चेति। समाधानस्य प्राधान्येनात्र विवक्षितत्वाद् दृष्टेर्बहिर्विषयत्वेन तद्भङ्गप्रसङ्गात् तस्या विषयेभ्यो व्यावृत्त्याऽन्तरेव सन्निपातो विवक्षितो भातीत्यर्थः। तथापि कथं स्वनासिकाग्रसंप्रेक्षणमत्र श्रुतमविवक्षितमित्याशङ्क्याह— स्वनासिकेति। तत्रैव मनःसमाधाने का हानिरित्याशङ्क्य वाक्यशेषविरोधाद् मैवमित्याह— आत्मनि हीति। किं तर्हि सम्प्रेक्ष्येत्यादौ विवक्षितमित्याशङ्क्याह— तस्मादिति। दक्षिणेतरचक्षुषोर्या दृष्टिस्तस्या बाह्याद् विषयाद् वैमुख्येनान्तरेव सन्निपतनमत्र स्वकीयं नासिकाग्रं नासिकान्तं सम्प्रेक्ष्येति विवक्षितमित्यर्थः। तत्रैवोत्तरमपि विशेषणमनु- कूलमित्याह— दिशश्चेति। अनवलोकयन्नासीतेत्युत्तरत्र सम्बन्धः। अन्तराऽन्तरा दिशामवलोकनमपि योगप्रतिबन्धकमिति तत्प्रतिषेधः ॥१३॥

योगं युञ्जानस्य विशेषणान्तराणि दर्शयति— किञ्चेति। अन्तःकरणस्य प्रशान्ती रागद्वेषादिदोषराहित्यम् , तस्याश्च प्रकर्षो रागादिहेतोरपि निवृत्तिः। विगतभयत्वं सर्वकर्मपरित्यागे शास्त्रीयनिश्चयवशान्निःसन्दिग्धबुद्धित्वम्। भिक्षाभुक्त्यादीत्यादिशब्देन त्रिषवण-

[[३२९]]

इति वा। ‘अभये भयदर्शिनः’ इति निर्विकल्पसमाधेर्भयहेतुत्वमुक्तं हि गौडपादाचार्यैः। मनःसंयमनं नाम मनसो निर्वृत्तीकरणम् ; कामादिवृत्तिसत्त्वे मनश्चाञ्चल्यादिति भावः। मच्चित्तः आत्मनिष्ठमनाः इत्यर्थः। परमेश्वरस्यैवात्मत्वात्। ननु यो यच्चित्तः स तत्पर एव भवतीति मत्पर इति विशेषणं व्यर्थम् , अत आह— कश्चिदिति। परत्वेन उत्कृष्टत्वेन प्राप्यत्वेनेति वा। अयं योगी तु मत्परश्च मय्येव परत्वबुद्धिमान्॥१४॥

युञ्जन्निति। योगी नियतमानसः एवं सदा आत्मानं युञ्जन् मत्संस्थां निर्वाणपरमां शान्तिमधिगच्छति। आत्मानम् अन्तःकरणं युञ्जन् ब्रह्मणि समाहितं कुर्वन्नित्यर्थः। शान्तिम् उपरतिम् , सर्वकर्मसंन्यासमिति यावत्। निष्ठा पर्यवसानम् , फलमिति यावत्। मदधीनामिति। अकर्त्रात्मस्वभावभूतामित्यर्थः। एवं समाहितमनाः निर्व्यापारस्तूष्णीमात्मानमवलोकयन् वर्तत इत्यर्थः॥१५॥

स्नानशौचाचमनादि गृह्यते। विशेषणान्तरमाह—किञ्चेति। उपसंहृत्य योगनिष्ठो भवेदिति शेषः। मनोवृत्त्युपसंहारे ध्यानमपि न सिध्येत् , २तस्य तद्वृत्त्यावृत्तिरूपत्वादित्याशङ्क्याह— मच्चित्त इति। विषयान्तरविषयमनोवृत्त्युपसंहारेणात्मन्येव तन्नियमनाद् न ध्यानानुपपत्ति- रित्यर्थः। मच्चित्तत्वेनैव मत्परत्वस्य सिद्धत्वाद् ‘मत्परः’ इति पृथग्विशेषणमनर्थकमित्याशङ्क्याह— भवतीति। अन्तःकरणशुद्धिः योगस्यावान्तरफलम् ॥१४॥

सम्प्रति परमफलकथनपरत्वेनानन्तरश्लोकमादत्ते— अथेति। योगस्वरूपं, तदङ्गमासनद्वयं, तत्कर्तृविशेषणम् इत्यस्यार्थस्य प्रकथनानन्तरमिति अथशब्दार्थः। आत्मानं युञ्जन्निति सम्बन्धः। आत्मशब्दो मनोविषयः। यथोक्तो विधिः आसनादिः। ३उक्तविशेषण- त्रयद्योतनार्थं सदेत्युक्तम्। योगी ध्यायी संन्यासीत्यर्थः। मनःसंयमस्य योगं प्रत्यसाधारणत्वं दर्शयति— नियतेति। शान्तिशब्दितोपरतेः सर्वसंसारनिवृत्तिपर्यवसायित्वं ४मत्वा विशिनष्टि— निर्वाणेति। यथोक्तायाः मुक्तेर्ब्रह्मस्वरूपावस्थानाद् ५अनर्थान्तरत्वमाह— मत्संस्था- मिति। ६मदधीनां मदात्मिकामित्यर्थः॥१५॥

१. ‘सदा आत्मानं सर्वदा’ इति पा.। २.ध्यानस्य समानविषयकप्रत्ययावृत्तिरूपत्वादित्यर्थः। ३. उक्तं विशेषणत्रयम् आदरनैरन्तर्यदीर्घकालत्वरूपम्। ४. पूर्वं शान्तिं प्राप्यान्ते मुक्तो भवतीति यावत्। ५. मत्संस्थामित्यनेन मुक्तेर्ब्रह्मस्वरूपाभेदमाहेत्यर्थः। ६. ‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’(ब्र.सू. ३-२ -५) इति न्यायेन मोक्षस्येश्वरप्रसादलभ्यत्वात् तदधीनत्वमुक्तम्। फलितार्थमाह—मदात्मिकामिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

भवेदित्यर्थः। किञ्च मनः संयम्य मनसो वृत्तीरुपसंहृत्येतत्। मच्चित्तो मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितः सन् आसीत उपविशेत् मत्परः अहं परो यस्य सोऽयं मत्परः। भवति कश्चिद् रागी स्त्रीचित्तः, न तु स्त्रियमेव परत्वेन गृह्णाति, किं तर्हि? राजानं, महादेवं वा। अयं तु मच्चित्तो मत्परश्च॥१४॥

अथेदानीं योगफलमुच्यते— युञ्जन्निति। युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन १सदा आत्मानं योगी नियतमानसो नियतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाणपरमां निर्वाणं मोक्षः, तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा, तां निर्वाणपरमां मत्संस्थां मदधीनाम् अधिगच्छति प्राप्नोति॥१५॥

निर्वाणपर्यवसायिनीं चित्तस्योपरतिमेकाग्रतां लभत इत्यवान्तरफलं योगस्याह— शान्तिं निर्वाणपरमामिति। साऽपि ईश्वरानुग्रहात् भवतीत्याह— मत्संस्थामिति॥१५॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥१५॥

[[अ. ६. श्लो. १३-१५]] [[३३०]]

नेति। आत्मसम्मितमिति। आत्मनः स्वस्य सम्यक् मितं सम्मितम्, आत्मतृप्तये पर्याप्तमित्यर्थः। स्वजठरकोशाय पर्याप्तमिति वा। यदिति श्रुतेरयमर्थः— उ ह वेति प्रसिद्धौ। यदात्मसम्मितमन्नं तत् पुरुषं भोक्तारम् अवति रक्षति। तत् तं न हिनस्ति न नाशयति रोगादिजननद्वारेति भावः। यद्भूयः अपरिमितमन्नं तत् तं हिनस्ति; यत् कनीयः अल्पमप्यन्नं तद् नावति, किन्तु हिनस्त्येवेत्यर्थः। यस्मादिति। आत्मसम्मितान्न्यूनाधिकान्नयोररक्षकत्वात् प्रत्युत हिंसकत्वाच्चेत्यर्थः। अल्पान्नाशने शरीरधारणं न सम्भवति, अधिकान्नाशने शरीरादीनामात्मवश्यत्वं न सम्भवतीति भावः। व्यञ्जनानि घृतसूपादीनि। अर्धमिति। अन्नकोशस्येति शेषः। अयं श्लोकः ‘द्वौ भागौ पूरयेदन्नैः तोयेनैकं प्रपूरयेत्। मारुतस्य प्रचारार्थं चतुर्थमवशेषयेत्।’ इति प्रकारान्तरेणापि पठ्यते। अर्थस्त्वभिन्न एव। अन्नैरिति बहुत्वं व्यञ्जनापेक्षया। एतेन मिताशिन एव योगलाभ इति सिद्धम्। अतिस्वप्नशीलं[शीलस्य] अतिस्वप्नोऽत्यन्तनिद्रा शीलं यस्य स अतिस्वप्नशीलः, नक्तंदिवमपि निद्राण इत्यर्थः; तस्य। अतिनिद्रा अतिजागरणं च योगिना परित्याज्यमित्युत्तरार्धार्थः॥१६॥

आहारादीत्यादिशब्देन विहारजागरितादि चोच्यते। आत्मसम्मितमन्नपरिमाणम् अष्टग्रासादि। आहारनियमे शतपथश्रुतिं प्रमाणयति— यदु ह वा इति। तदन्नं भुज्यमानं ‘यदु ह वा’ इति प्रसिद्ध्याऽनूदितम् अवति अनुष्ठानयोग्यतामापाद्यानुष्ठानद्वारेण भोक्तारं रक्षति, न पुनस्तदन्नमस्यानर्थाय भवतीत्यर्थः। यत्पुनरात्मसम्मिताद् भूयोऽधिकतरं शास्त्रमतिक्रम्य भुज्यते, तदात्मानं हिनस्ति भोक्तुरनर्थाय भवति। यच्चान्नं कनीयोऽल्पतरं शास्त्रनिश्चयाभावादद्यते, तदन्नमनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते। तस्माद् अत्यधिकमत्यल्पं चान्नं योगमारुरुक्षता त्याज्यमित्यर्थः। श्रुतिसिद्धमर्थं निगमयति— तस्मादिति। नेत्यादेर्व्याख्यानान्तरमाह— अथवेति। किं तदन्नपरिमाणं योगशास्त्रोक्तं यदधिकं न्यूनं वाऽभ्यवहरतो योगानुपपत्तिरि- त्याशङ्क्याह— उक्तं हीति। ‘पूरयेदशनेनार्धं तृतीयमुदकेन तु। वायोः सञ्चरणार्थं तु चतुर्थमवशेषयेत्॥’ इति वाक्यमादिशब्दार्थः। यथा अत्यन्तमश्नतोऽनश्नतश्च योगो न सम्भवति, तथाऽत्यन्तं स्वपतो जाग्रतश्च न योगः सम्भवतीत्याह— तथेति॥१६॥

१. ‘कनीयो न तदवति’ इति पा.। २. ‘अर्धमशनस्य सव्यञ्जनस्य’ इति पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इदानीं योगिनः आहारादिनियम उच्यते— नात्यश्नत इति। नात्यश्नतः आत्मसम्मितमन्नपरिमाणम् अतीत्य अश्नतोऽत्यश्नतो न योगोऽस्ति। न चैकान्तमनश्नतो योगोऽस्ति, ‘यदु ह वा आत्मसम्मितमन्नं तदवति, तन्न हिनस्ति, यद्भूयो हिनस्ति तद् , यत् १कनीयोऽन्नं न तदवति’(श.ब्रा.९.२.१.२) इति श्रुतेः। तस्माद् योगी नात्मसम्मितादन्नाद् अधिकं न्यूनं वाऽश्नीयात्। अथवा योगिनो योगशास्त्रे परिपठितादन्नपरिमाणाद् अतिमात्रमश्नतो योगो नास्ति। उक्तं हि— २‘अर्धं सव्यञ्जनान्नस्य तृतीयमुदकस्य च। वायोः सञ्चरणार्थं तु चतुर्थमवशेषयेत्’ इत्यादि परिमाणम्। तथा न चातिस्वप्नशीलस्य योगो भवति, नैव चातिमात्रं जाग्रतो योगो भवति च, अर्जुन !॥१६॥

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः। न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन !॥१६॥

करेवकारश्च [उकारो हकारो वाकारश्च] प्रसिद्धिद्योतका निपातौ[निपाताः] । यद् आत्मसम्मितं स्वोदरपरिमितम् अन्नं तद् अवति रक्षतीत्यर्थः। अर्धस्येति?। सव्यञ्जनेन गध? मुदकमुदस्य [सव्यञ्जनेनान्नेनार्धमुदरस्य] पूरयेदित्यर्थः॥१६॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[३३१]]

युक्तेति। आह्रियते भुज्यते। पादक्रमः पादविक्षेपः; सञ्चार इति यावत्। न ७केवलमाहाररहितो गमनरहितश्च स्यात् , नाप्यतिमात्रमाहारवान् सञ्चारवान् वा स्यादित्यर्थः। कर्मसु स्नानादिषु चेष्टा व्यापारः। अवबोधो जागरणम्॥१७॥

यदेति। मनसः केवलात्मस्थितिलाभे सति तदात्मानन्दानुभवव्यग्रतया तन्मनो न बाह्यविषयानुभवसुखमपेक्षते, तुच्छत्वादस्य। अतः सर्वकामेषु निःस्पृहत्वं जायते। य एवंविधो योगी स युक्तः इत्युच्यते विद्वद्भिः, शास्त्रेण वा॥१८॥

आहारनिद्रादिनियमविरहिणो योगव्यतिरेकमुक्त्वा तन्नियमवतो योगान्वयमन्वाचष्टे— कथं पुनरित्यादिना। अन्नस्य नियतत्वम् ‘अर्धमशनस्ये’त्यादि , विहारस्य नियतत्वं ‘योजनान्न परं गच्छेदि’त्यादि , कर्मसु चेष्टायाः नियतत्वं वाङ्नियमादि। रात्रौ प्रथमतो दश- घटिकापरिमिते काले जागरणं, मध्यतः स्वपनं, पुनरपि दशघटिकापरिमिते जागरणमिति स्वप्नावबोधयोर्नियतकालत्वम्। एवं प्रयतमानस्य योगिनो ४भवतो योगस्य फलमाह— दुःखहेति। सर्वाणीत्याध्यात्मिकादिभेदभिन्नानीत्यर्थः। यथोक्तयोगमन्तरेणापि स्वप्नादौ दुःखनिवृत्तिरस्तीति विशिनष्टि— सर्वेति। विशुद्धविज्ञानद्वारेति शेषः॥१७॥

सफलस्य साङ्गस्य योगस्योक्त्यनन्तरं ‘यदा ही’त्यादावुक्तकालानुवादेन ५युक्तं लक्षयितुम् अनन्तरश्लोकप्रवृत्तिं दर्शयति— अथाधुनेति। विशेषेण संयतत्वमेव सङ्क्षिपति— एकाग्रतामिति। आत्मन्येवेत्येवकारार्थं कथयति— हित्वेति। केवलत्वम् अद्वितीयत्वम्। तस्यात्मस्थितिं विवृणोति— स्वात्मनीति। चित्तस्य हि ६कल्पितस्यात्मैव तत्त्वम्। तत्पुनरन्यतः सर्वतो निवारितम् अधिष्ठाने निमग्नं तिष्ठतीति भावः। तस्यामवस्थायां सर्वेभ्यो विषयेभ्यो व्यावृत्ततृष्णो युक्तो व्यवह्रियत इत्याह— निःस्पृह इति॥१८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कथं पुनर्योगो भवतीत्युच्यते— युक्तेति। युक्ताहारविहारस्य आह्रियत इत्याहारः अन्नम् , विहरणं विहारः १पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु२ तस्य, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्चावबोधश्च तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा। सर्वसंसारदुःखक्षयकृद् योगो भवतीत्यर्थः॥१७॥

अथाधुना कदा युक्तो भवतीत्युच्यते— यदेति। यदा विनियतं विशेषेण नियतं संयतम् , एकाग्रतामापन्नं चित्तं, हित्वा ३बाह्यचिन्ताम् आत्मन्येव केवलेऽवतिष्ठते। स्वात्मनि स्थितिं लभत इत्यर्थः। निःस्पृहः सर्वकामेभ्यो निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्युच्यते तदा तस्मिन् काले॥१८॥

तस्य योगिनः समाहितं यच्चित्तम् , तस्योपमोच्यते— यथेति। यथा दीपः प्रदीपो निवातस्थो निवाते युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥१७॥

यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥१८॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। अ. ६. श्लो. १६-१९ ] १. क्रमु पादविक्षेपे। क्रमः, पादाभ्यां संचरणमित्यर्थः। २. सापेक्षत्वेऽपि गमकत्वात् समासः। ३. ‘बाह्यार्थचिन्ताम्’ इति पा.। ४. षष्ठ्यन्तमिदं योगविशेषणम्। योगिनो भवति यो योगः तस्येत्यन्वयः। ५.युक्तः प्राप्तयोगः। ६.कल्पितस्येति। आत्मनीति शेषः। ७.अत्यन्तमाहाररहितः, सर्वथा गमनरहितश्च न स्यादित्यर्थः।

[[३३२]]

यथेति। निवातस्थो दीपो यथा नेङ्गते, सा यतचित्तस्यात्मनो योगं युञ्जतो योगिनः उपमा स्मृता। उपमोच्यते उपमानमुच्यत इत्यर्थः। यथेति। यः इत्यर्थः। सेति विधेयप्राधान्यात् स्त्रीत्वम् , स इत्यर्थः। दीप इति यावत्। यो दीपो निवातस्थो नेङ्गते स दीपो योगिनः उपमा स्मृता, निवातस्थो निश्चलदीपो योगिनः उपमानभूतः इत्यर्थः। कैः स्मृतेत्यत आह— योगज्ञैरिति। योगिन एव स्वानुभवानुसारेण स्वस्योपमानं निवातस्थदीपमुक्तवन्तः इत्यर्थः। ‘योगं युञ्जतः’ इति पाकं पचति, वाचं वदतीत्यादिवन्निर्देशः। यद्वा योगशब्दसान्निध्यबलाद् युञ्जत इत्यस्य अनुष्ठानसामान्यमेवार्थः, न तु योगानुष्ठानविशेषः, पौनरुक्त्यात्। अत एवाह—अनुतिष्ठत इति। आत्मनो योगं युञ्जतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः। आत्माऽत्र मनः, तस्यैव समाधेयत्वात् , बुद्धिरिति वा, न तु प्रत्यक्, तस्य समाधानाद्ययोगात्। अथवा आत्मा प्रत्यगेव, विषयविषयिभावसम्बन्धे शेषे षष्ठी। आत्मनो योगम् आत्मविषयकं योगमित्यर्थः। योगः चित्तसमाधानम्। पूर्वोक्तार्थे तु समाधान- मात्रमेवार्थः। आत्मविषयकचित्तसमाधानं नाम आत्मनि चित्तसमाधानम् , तद् युञ्जतोऽनुतिष्ठत इति। आत्मनि चित्तं समाहितवत इत्यर्थः। आत्मनि समाहितचित्तस्येति यावत्। आत्मनो मनसः इति मते तु— मनसो योगं समाधानं, १प्रकरणादात्मन्येवेति बोध्यम्। यथा निवातस्थो दीपः न चलति तथा आत्मयोगे स्थितो योगी न चलतीति परमार्थः। न च - योगिनः आत्मत्वेन आत्मनश्चाचलत्वेन चलनस्य प्रसक्तिरेव नास्तीति कुतो निषेध इति - वाच्यम् ; बुद्धिचाञ्चल्यप्रयुक्तस्यारोपितचलनस्यात्मनि प्रसक्तत्वेन तन्निषेधसम्भवात्। यद्वा २यतचित्तस्य योगं युञ्जतो योगिनः आत्मनः चित्तस्य सोपमेत्यन्वयः। एवं च निवातस्थितदीपवदात्मस्थितं योगिनश्चित्तं न चलतीति पर्यवसन्नार्थः। अयमेव निर्विकल्पसमाधिः, यत्र निर्वृत्तिकस्य मनसः आत्मस्वरूपे ३लीनवदवस्थानम्। ४श्लोकस्य योजनान्तरमुच्यते— यतचित्तस्यात्मनो योगं युञ्जतो योगिनश्चित्तं नेङ्गत इत्यस्मिन्नर्थे यथा निवातस्थो दीपो नेङ्गते सा एषोऽर्थः उपमा दृष्टान्तो योगज्ञैः स्मृतेति। यथा निवातस्थो दीपो नेङ्गते तथा योगिनः आत्मस्थं चित्तं नेङ्गते इति वाक्यार्थद्वयस्य दृष्टान्तदार्ष्टान्तिकभाव इत्यर्थः। आत्मस्थयोगिचित्तं निवातस्थदीपवन्न चलतीत्येव पर्यवसन्नार्थः। ५अन्याऽपि योजना प्रदर्श्यते— यथा सम्यक् निवातस्थः, निवाते सम्यगवस्थापित इत्यर्थः, दीपो नेङ्गते सा निवातस्थो निश्चलः स दीप इत्यर्थः। अन्यत् पूर्ववत्॥१९॥ उपमा योगिनश्चित्तस्थैर्यस्योदाहरणमित्यर्थः। उपमाशब्दस्य प्रदीपविषयत्वसिद्ध्यर्थं करणव्युत्पत्तिं दर्शयति— उपमीयत इति। योगिनो यथोक्तविशेषणवतः, चित्तस्थैर्यस्येति शेषः॥१९॥

द्विविधः समाधिः - सम्प्रज्ञातोऽसम्प्रज्ञातश्च। ध्येयैकाकारसत्त्ववृत्तिर्भेदेन कथञ्चिज्ज्ञायमाना सम्प्रज्ञातः समाधिः। कथमपि पृथगज्ञायमाना सैव सत्त्ववृत्तिरसम्प्रज्ञातः समाधिः। तत्र सामान्येन समाधिलक्षणमभिधाय, असम्प्रज्ञातस्य समाधेरधुना लक्षणं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

वातवर्जिते देशे स्थितो नेङ्गते न चलति, सा उपमा उपमीयतेऽनयेत्युपमा योगज्ञैश्चित्तप्रचारदर्शिभिः स्मृता चिन्तिता। योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगमनुतिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः॥१९॥

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥१९॥

१. आत्मशब्दस्य मनःपरत्वे आत्मविषयकत्वं समाधानस्य प्रकरणाल्लभ्यमित्यर्थः। २. पूर्वस्मिन् व्याख्याने योगिनः उपमा निवातस्थदीपः। अस्मिंस्तु पक्षे योगिनश्चित्तस्योपमा निवातस्थदीपः। उपमेयसमर्पकम् आत्मपदं मनःपरम्। वैयधिकरण्येनान्वयः— योगिनो य आत्मा तस्येति। ३. लीनवदिति। न तु सुषुप्ताविव मनो लीयतेऽसंप्रज्ञातसमाधौ। तदुक्तम्— ‘लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते’(मा.का.३-३५) इति। ४. पूर्वस्मिन् कल्पे दीपः उपमा, अस्मिंस्तु ‘निवातस्थो दीपो नेङ्गते’ इति वाक्यार्थः उपमा ‘योगिनः आत्मस्थं चित्तं नेङ्गते’ इति वाक्यार्थस्य। पूर्वं यथाशब्दे थाल्प्रत्ययार्थमविवक्षित्वा यः इत्यर्थः स्वीकृतः, अस्मिंस्तु न तथा । ५. अस्यां योजनायां यथाशब्दस्य सम्यक् इति विवरणम्। निवातस्थनिश्चलदीपः विशिष्टः सेत्यनेन परामृष्टः।

[[३३३]]

यत्रेति। प्रदीपकल्पं सदिति चित्तविशेषणम्। उपरमते निर्व्यापारं भवति, सर्वतः सर्वविषयेभ्यः। उपलभमानः अनुभवन् । ज्योतिर्ज्ञानम्॥२०॥

सुखमिति। यत्तत् प्रसिद्धमित्यर्थः। यद्वा यत् तत् इति पदद्वयम्। यदात्यन्तिकमतीन्द्रियं बुद्धिग्राह्यं च तत् सुखं यत्र वेत्तीत्यन्वयः। बुद्धिग्राह्यमिति। ‘दृश्यते त्वग्र्यया बुद्ध्ये’ति श्रुतेरिति भावः। यद्यपि विषयसुखमपि बुद्ध्यैव गृह्यते, तथापीन्द्रियद्वारा गृह्यते। विषयेन्द्रियसंयोगाभावे विषयसुखस्यैवानुदयेन कुतः पुनस्तत्प्रत्यक्षम्? केवलाया बुद्धेरित्याह— इन्द्रियनिरपेक्षयेति। कुत इन्द्रियनिरपेक्षत्वम्? अत आह— अतीन्द्रियमिति। इन्द्रियगोचरं हि वस्तु बुद्ध्या तत्सापेक्षया गृह्यते, इदं त्विन्द्रियातीतमिति नात्र बुद्धेरिन्द्रियापेक्षेति भावः। ननु विषयसुखमपि मानसिकत्वेनातीन्द्रियमेव, मनो हि तव मते नेन्द्रियम् , अत आह— अविषयजनितमिति। विषयेन्द्रियसंयोगजं सुखमतीन्द्रियं न भवति, इन्द्रियपरतन्त्रत्वादिति भावः। ईदृशमुक्तलक्षणं सुखम् आत्मस्वरूपभूतमानन्दम्। अयं योगीत्यर्थः। तस्मात् तत्त्वतः तत्त्वादात्मस्वरूपादित्यर्थः। न चलतीत्यस्यार्थमाह—[न] प्रच्यवत विवक्षन्नाह— एवमिति। काले समाध्युपलक्षिते। एवकारस्तुष्यतीत्यनेन सम्बध्यते। चकारस्य सम्बन्धमाह— यस्मिंश्चेति। कालस्तु पूर्ववत्। कर्मकारकत्वेन निर्दिष्टमात्मानं तत्पदार्थत्वेन व्याचष्टे— परमिति। आत्मनीत्यस्य त्वम्पदार्थविषयत्वमाह— स्व एवेति। परमात्मानं प्रतीच्येव तद्भावेनापरोक्षीकुर्वन् अतुष्टिहेत्वभावात् तुष्यत्येवेत्यर्थः। तस्मिन् काले योगसिद्धिर्भवतीति शेषः॥२०॥

योगसिद्धिकालं प्रकारान्तरेण प्रकटयति— किञ्चेति। बुद्धिशब्दः स्वानुभवविषयः। इन्द्रियनिरपेक्षस्वानुभवगम्यत्वोक्तेरतीन्द्रिय- मिति पुनरुक्तमित्याशङ्क्याह— अविषयेति। पदच्छेदः— न चेत्यादि। अपेक्षितपूरणम्— आत्मस्वरूप इति। तस्मात् तत्त्वतः इति

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत् — यत्रेति। यत्र यस्मिन् काल उपरमते चित्तमुपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन, यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेनान्तःकरणेन आत्मानं परं १चैतन्यज्योतिःस्वरूपं पश्यन् उपलभमानः स्वे एवात्मनि तुष्यति तुष्टिं भजते॥२०॥

किञ्च— सुखमिति। सुखम् आत्यन्तिकम् अत्यन्तमेव भवतीत्यात्यन्तिकम्। अनन्तमित्यर्थः। यत्तद् बुद्धिग्राह्यं बुद्ध्यैवेन्द्रियनिरपेक्षया गृह्यत इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् , अविषयजनितमित्यर्थः। वेत्ति तदीदृशं सुखमनुभवति यत्र यस्मिन् काले, २न च एव, अयं विद्वानात्मस्वरूपे स्थितः, तस्माद् नैव चलति तत्त्वतः तत्त्वस्वरूपान्न प्रच्यवते इत्यर्थः ॥२१॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥२०॥

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥२१॥

१. ‘चैतन्यं ज्योतिःस्वरूपम्’ इति पा.। २. व्याख्यानाङ्गपदच्छेदप्रदर्शनमिदम्। द्र. आनन्दगिरिव्याख्या।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

यत्रोपरमत इत्यादि। यच्छब्दस्य तं विद्यादिति व्यवहितेन सम्बन्धः। किमर्थं पुनरनुसन्धानेन योगस्य कर्तव्यतोच्यत

[[अ. ६. श्लो. १९-२१]] [[३३४]]

इति। नैव भ्रश्यतीत्यर्थः। योगिन आत्मस्वरूपाच्चित्तस्य भ्रंशः साक्षादेव सम्भवति, विदुषस्तु अनात्मतादात्म्याध्यासद्वारेति विवेकः॥२१॥

यमिति। यं लब्ध्वा ततोऽधिकमपरं लाभं न च मन्यते, यस्मिन् स्थितो गुरुणा दुःखेनापि न विचाल्यते। लभ्यत इति लाभः प्राप्यं वस्तु॥२२॥

तमिति। तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात्। स योगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः। दुःखसंयोगवियोगः दुःखसंयोगाभावः, दुःखासंयोग इति यावत्। ननु वियोगस्य कथं योगसंज्ञेत्यत आह— विपरीतलक्षणेनेति। विरुद्धलक्षणयेत्यर्थः।यद्वा योगेऽप्यस्मिन् दुःखसंयोगाभावरूपविपरीतलक्षणसत्त्वाद् योगमेवामुं दुःखसंयोगवियोगं विद्यात्। अस्मिंश्च पक्षे योगसंज्ञितं तं दुःखसंयोगवियोगं विद्यादित्यन्वयः। ननु यत्तच्छब्दार्थयोरैक्येन भाव्यत्वात् ‘यत्रोपरमते’ ‘यत्र चैवात्मना’ ‘वेत्ति यत्र न चैवायम्’ इत्येषु स्थलेषु यच्छब्दस्य कालार्थ उक्तः, ‘यं लब्ध्वा’ ‘यस्मिन् स्थितः’ इत्यत्र च आत्मार्थ उक्तः, ‘तं विद्या’दिति तच्छब्दस्य तु योगार्थ उक्त इति कथमिदमुप- पद्यते यत्तदोर्भिन्नार्थत्वमिति चेद्? उच्यते— तं तत्कालोपलक्षितं तदात्मविषयकं च योगमित्यर्थाददोष इति। ननु रामानुजभाष्यरीत्या यच्छब्दपञ्चकस्य योगार्थ एव वाच्यः, तथा च सति तं योगमिति स्वरसतः सिध्यति सम्बन्धः। नैवेत्येवकारसम्बन्धोक्तिः। चकारः सप्तम्या सम्बन्धनीयः१। यत्रेति पूर्ववत् सम्बन्धः॥२१॥

प्रकारान्तरेण प्रकृतं योगं विशिनष्टि— किञ्चेति। ‘आत्मलाभान्न परं विद्यते’ इति स्मृत्या व्याचष्टे— यमात्मलाभमिति। लाभान्तरं पुरुषार्थभूतम् ; ततः तस्मादात्मलाभादिति यावत्। तं विद्यादित्युत्तरत्र सम्बन्धः। यस्मिन्नित्याद्यवतारयति— किञ्चेति। अपरिपक्वयोगो यथा दर्शितेन दुःखेन प्रच्याव्यते, न चैवं विचाल्यते यस्मिन् स्थितो योगी, तं योगं विद्यादिति पूर्ववत्॥२२॥

‘तं विद्यादि’त्यादि अपेक्षितं पूरयन्नवतारयति— यत्रेति। तमित्यात्मावस्थाविशेषं परामृशति। दुःखसंयोगस्य वियोगो वियोग- संज्ञितो युज्यते, स कथं योगसंज्ञितः स्यादित्याशङ्क्याह— विपरीतेति। इयं हि योगावस्था समुत्खातनिखिलदुःखभेदेति दुःखसंयोगाभावो योगसंज्ञामर्हतीत्यर्थः। उपसंहृते योगफले किमिति पुनर्योगस्य कर्तव्यत्वमुच्यते? तत्राह— योगफलमिति। प्रकारान्तरेण योगस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्च—यमिति। यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम् अन्यं लाभं लाभान्तरं ततो ऽधिकमस्तीति न मन्यते न चिन्तयति। किञ्च यस्मिन्नात्मतत्त्वे स्थितो दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महताऽपि न विचाल्यते॥२२॥

‘यत्रोपरमते’ इत्याद्यारभ्य यावद्भिर्विशेषणैर्विशिष्ट आत्मावस्थाविशेषो योग उक्तः— तमिति। तं विद्याद् विजानीयाद् दुःखसंयोगवियोगं दुःखैः संयोगो दुःखसंयोगस्तेन वियोगो दुःखसंयोगवियोगस्तं दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन विद्याद् विजानीयादित्यर्थः। योगफलमुपसंहृत्य पुनरन्वारम्भेण योगस्य यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते॥२२॥

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥२३॥

१. यस्मिंश्च काले इत्येवं संबन्ध इति भावः।

[[३३५]]

यत्तदोरेकार्थत्वम् , इदानीं तु तच्छब्दस्य लक्षणाश्रयणं दुष्टमिति चेत् , मैवम् ; यत्र योगे योगसेवया चित्तं निरुद्धमिति वाक्यस्य पुनरुक्तिदोषग्रस्तत्वात्। ‘योगश्चित्तवृत्तिनिरोधः’ इति पतञ्जलिना ३भाषितम्। इह च ‘योगश्चित्तसमाधानम्’ इत्युक्तम्। तथा च चित्तं निरुद्धमित्यस्य योग इत्यस्य चैकार्थ्यात् पुनरुक्तिः; योगे योगसेवयेति पुनरुक्तिर्विदितैव। किञ्च चित्तनिरोधरूपस्य योगस्य चित्तनिरोधाधिकरणत्वमसम्भवि। उक्तं हि— योगे चित्तं निरुद्धमित्यधिकरणत्वं योगस्य। एकस्यैव योगस्याधिकरणत्वं, योगसेवयेति हेतुत्वं च विरुद्धम्। तस्माच्चित्तनिरोधे चित्तनिरोधसेवया चित्तनिरोध इति वाक्यार्थस्य दुष्टत्वं सर्वविदितम्। तथा यत्र योगे आत्मानमात्मना पश्यन्नित्यप्ययुक्तम् , मनसा आत्मदर्शनस्यैव योगत्वात्। योगो हि आत्मनि चित्तसमाधानम्। तथा च योगस्यैव योगाधिकरणत्वमिहापि विरुद्धम्। यं योगं लब्ध्वा ततोऽधिकमपरं लाभं न मन्यत इत्यप्ययुक्तम् , योगप्राप्यस्य योगादधिकस्य मोक्षलाभस्य योग्याकाङ्क्षितस्य सत्त्वात्। अस्मन्मते तु आत्मस्वरूपस्यैव मोक्षत्वान्न मोक्षस्याधिक्यमपरत्वं वा स्यादात्मन इति नैष दोषः। यस्मिन् स्थित इत्यस्य योगे स्थित इत्यप्ययुक्तम् , योगस्य चित्तसमाधानात्मकस्य क्रियारूपस्य पुरुषाधिकरणत्वासम्भवात्। न च स्थित इत्यस्य व्यापृत इत्यर्थ इति वाच्यम् ; तदर्थस्य लाक्षणिकत्वेनाभिधेयत्वाभावात्। ष्ठा गतिनिवृत्ताविति हि धात्वर्थः स्मर्यते इति। यच्च— उपरमते अतिशयेन रमते इति रामानुजः, तच्च तुच्छम् , उपोपसर्गसङ्गतरमधातोरुपरत्यर्थस्यैव दर्शनात् , अर्थान्तरवर्णस्य च क्लिष्टत्वात् , उपरमेद् उपरत उपरम्येत्यादौ त्वयाऽप्यस्मदुक्तार्थस्यैव स्वीकृतत्वात्। उपसंहृते योगफले किमिति योगस्य पुनः कर्तव्यत्वमुच्यते? तत्राह— योगफलमिति। आत्मसुखानुभवः आत्मतुष्टिरात्म- लाभः दुःखसंयोगवियोगश्चेत्येतानि योगफलानि। फलमिति तु जात्येकवचनम्। प्रकारान्तरेण योगस्य कर्तव्यत्वोपदेशारम्भो ऽत्रान्वारम्भः। किमर्थं तद्वचनम्? अत आह— निश्चयेति। निश्चयानिर्वेदौ योगस्य साधनभूतौ। अतस्तावस्य योगारम्भे कर्तव्यावित्यर्थः। स इत्यस्यार्थमाह— यथोक्तेति। यथोक्तानि फलानि यस्य स यथोक्तफलो योगः। ध्यानयोगः निश्चयेन योक्तव्यः। केन योक्तव्य इति करणाकाङ्क्षां पूरयति— अनिर्विण्णचेतसेति। न निर्विण्णमनिर्विण्णम् , निर्वेदरहितमित्यर्थः। तच्च तच्चेतः इति कर्मधारयः, तेन। कर्ता तु योगसाधकः पुरुष इति बोध्यम्। साधकेन अनिर्विण्णचेतसा निश्चयेन स योगो योक्तव्य इत्यन्वयः। अनिर्विण्णं चेतो यस्य तेनेति बहुव्रीहिसमासेऽपि यद्यपि कर्तृलाभः, तथापि करणस्य चेतसः प्राधान्येन निर्देशो न स्यात्। तद्धि करणं प्राधान्येन ज्ञेयम्। कर्ता तु वचनं विनाऽपि सिध्यत्येवेति कर्मधारयसमास उक्तः। योगसिद्ध्यादिषु संशये, योगानुष्ठाने निर्वेदे च सति योगो न सिध्येत् , अतस्तौ द्वौ न कर्तव्याविति फलितार्थः॥२३॥

कर्तव्यत्वोपदेशारम्भोऽत्र अन्वारम्भः। योगं युञ्जानः तत्क्षणादुक्तां संसिद्धिमलभमानः संशयानो निवर्तेतेति १तन्निवृत्त्यर्थं पुनः कर्तव्यत्वोपदेशोऽर्थवानिति मत्वाऽऽह— निश्चयेति। तयोः साधनत्वविधानमेवाक्षरयोजनया साधयति— स यथेति। इह जन्मनि जन्मान्तरे वा सेत्स्यतीत्यध्यवसायः२। योक्तव्यः कर्तव्यः॥२३॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कर्तव्यतोच्यते निश्चयानिर्वेदयोर्योगसाधनत्वविधानार्थम्। स यथोक्तफलो योगो निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णमनिर्विण्णम् , किं तत् ? चेतः, तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः॥२३॥

इत्याशङ्क्याह— निश्चयानिर्वेदयोरिति। शास्त्रानुसारिणाऽऽचार्येणोपदिष्टे विश्वासो निश्चयः। अनिर्वेदः अनुद्विग्नचित्तता, तयोरित्यर्थः॥२३॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

अ. ६. श्लो. २२-२३ ] १. निवृत्तिनिवृत्त्यर्थमित्यर्थः। २. अत्र मधुसूदन्याम्— ‘उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना। मनसो निग्रहस्तद्वद्भवेदपरिखेदतः॥’ इति गौडपादाचार्यवचनोप- न्यासपूर्वकमनिर्वेदस्य साधनत्वं विशदीकृतं तत्रैव द्र.। ३. सूत्रितमित्यर्थः।

[[३३६]]

सङ्कल्पेति। प्रभवत्यस्मादिति प्रभवः कारणम्। सङ्कल्पात् प्रभवन्तीति सङ्कल्पप्रभवा इत्यपि वक्तुं शक्यम्। कामाः विषयाभिलाषाः। अशेषतो निःशेषेण। सति कामशेषे तेन लेपः स्यादिति फलितमाह— निर्लेपेनेति। कामानां सङ्कल्पप्रभवत्वविशेषणं तु कामत्यागः सङ्कल्पत्यागात् सुकर इति द्योतयितुम्। तेन सर्वसङ्कल्पत्यागपूर्वकं सर्वकामपरित्यागं कृत्वेति सिध्यति। समन्ततः सर्वविषयेभ्य इत्यर्थः। विनियम्य निवर्त्य। मनोविनियमने इन्द्रियविनियमनम् अप्रयत्नत एव सिध्यति, मनोव्यापारपूर्वकत्वा- दिन्द्रियव्यापारस्येति भावः। यत्तु रामानुजः— काम्यन्त इति कामा विषयाः। ते द्विविधाः- स्पर्शजाः सङ्कल्पजाश्चेति। तत्र स्पर्शजाः शीतोष्णादयः स्वरूपतस्त्यक्तुं न शक्याः; सङ्कल्पजास्तु पुत्रमित्रादयः स्वरूपेणैव त्यक्तुं शक्याः; अत एवाशेषतः सङ्कल्पजाः कामास्त्याज्या इति, तन्मन्दम्। किमत्र स्पर्शो नाम त्वगिन्द्रियग्राह्यो गुणः? यद्वा विषयेन्द्रियसम्बन्धः? आद्ये - शीतोष्णभेदभिन्नस्य स्पर्शस्यैव विषयत्वेन स्पर्शजत्वं शीतोष्णादेर्न सम्भवति। किञ्च यथा असङ्कल्पजस्पर्शविषयसत्त्वम् , तथा असङ्कल्पजशब्दादिविषयसत्त्वमपीति न विषयद्वैविध्यसिद्धिः। दरीस्थितेन जलस्थितेन वा योगिना शीतस्पर्शस्य उष्णस्पर्शस्य च स्वरूपतस्त्यक्तुं शक्यत्वान्न तयोः स्वरूपतोऽत्याज्यत्वसिद्धिः। द्वितीये - विषयेन्द्रियसम्बन्धरूपस्पर्शोद्भवा विषया इत्ययुक्तम् , विषयोत्पत्तेः प्रागेव विषयेन्द्रिय- सम्बन्धस्य कारणत्वेन वर्तमानत्वेन विषयोत्पत्तेः प्रागेव विषयसिद्धेः, इन्द्रियसंसृष्टविषयाद् विषयोत्पत्तिरिति स्वस्मात् स्वोत्पत्तिप्रसङ्गाच्च, विषयोत्पत्तेः प्राग्विषयेन्द्रियसम्बन्धायोगाच्च। तस्मात् स्पर्शजा भोगा एव, न तु विषयाः। स्पर्शास्तु विषया एव, स्पृश्यन्त इति स्पर्शा इति ‘मात्रास्पर्शास्तु कौन्तेये’त्यत्र निरुक्तत्वात्। तथा पुत्रक्षेत्रादयो विषयाश्च न स्वसङ्कल्पजाः, किन्त्वीश्वरसङ्कल्पजा एव ‘तदैक्षत बहु स्यां प्रजायेये’ति सङ्कल्प्य ‘तत्सृष्ट्वा तदेवानुप्राविशत् , सच्च त्यच्चाभवदिति, तत्तेज ऐक्षत, तत्तेजः सृष्ट्वा’ इत्यादिना ईश्वरस्य जगत्स्रष्टृत्वस्योक्तत्वाद् वेदेन। इमे चेश्वरसङ्कल्पजा विषया अपि सर्वे न स्वरूपतस्त्यक्तुं शक्याः, न हि सार्वभौमेण राज्ञा भूरूपो विषयस्त्यक्तुं शक्यः, सर्व- स्या अपि भूमेः स्वीयक्षेत्रत्वात्। परन्तु तत्र स्वीयत्वाभिमान एव त्यक्तुं शक्यते। स एव हि जीवसङ्कल्पसृष्टः प्रपञ्चः जीवस्य बन्धकश्च। न हि स्तनादिमत्स्रीपिण्डे भार्यात्वरूपभोग्यत्वबुद्ध्यभावे, मृन्मये क्षेत्रे स्वीयत्वबुद्ध्यभावे च तदुभयं पुरुषं बध्नीयात् , स हि जीवसङ्कल्पसम्भवः स्वीयत्वाद्यभिमानरूपः काममयः प्रपञ्चः योगिना सर्वात्मना त्याज्यः योगविरोधात्। अत एवोक्तम् ‘सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः’ इति। ईश्वरसङ्कल्पसृष्टो विषयप्रपञ्चस्तु चेलाजिनकुशासनादिरूपो योगिनः साधनभूत एवेति न तस्य सर्वस्यापि त्याग उचितः, शक्यश्च। तस्मात् कामा अत्र विषयाभिलाषा एव, न तु विषयाः॥२४॥

इतश्च योगस्य कर्तव्यत्वमिति प्रतिजानीते— किञ्चेति। केन क्रमेण कर्तव्यत्वमित्यपेक्षायामाह— सङ्कल्पेति। सङ्कल्पः शोभना- ध्यासः। सर्वानित्युक्त्वा पुनरशेषत इति पुनरुक्तिरित्याशङ्क्याह— निर्लेपेनेति। यथा शेषो न भवति तथा सर्वेषां कामानां शोभनाध्यासा- धीनानां त्यागस्य योगानुष्ठानशेषत्ववद् विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्तव्यमित्याह— किञ्चेति॥२४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्च— सङ्कल्पेति। सङ्कल्पप्रभवान् सङ्कल्पः प्रभवो येषां कामानां ते सङ्कल्पप्रभवाः कामास्तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतो निर्लेपेन। किञ्च मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात्॥२४॥

सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥२४॥

[[३३७]]

शनैरिति। शनैःशनैरिति २नित्यार्थे द्विर्भावः। धृतिगृहीतया बुद्ध्या मनः आत्मसंस्थं कृत्वा शनैःशनैरुपरमेत् , किञ्चिदपि न चिन्तयेत् , उपरमेदित्यस्यैव व्याख्यानभूतं तुरीयपादम्३। ननु मनसः कथमात्मनि स्थितिः? ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे’त्युक्तलक्षणे भूमात्मनि निर्विशेषे चिन्मात्रे अद्वितीयब्रह्मणि निरवकाशे परमार्थसत्ये मनसो व्यावहारिकसत्यस्य जडस्य द्वितीयवस्तुनः स्थित्ययोगात् । सत्यामात्मनि मनसः स्थितौ तेन मनसा सद्वितीयः स्यात् खल्वात्मा, सविशेषश्च जडसंसृष्टश्च। अत एव हि ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह’ इति श्रुतिर्मनसोऽप्यविषयत्वं वक्त्यात्मनः। न च सर्वभूतानि चात्मनीति सर्वस्यापि जगत आत्मन्येव स्थितत्वस्य वक्ष्यमाणत्वेन मनोमात्रस्यात्मनि स्थितौ को व्याघात इति वाच्यम् ; आत्मनि सर्वभूतस्थितेरविद्याकृतत्वात्। अविद्याकृतानि हि सर्वाणि भूतानि न परमार्थसत्यानि। अन्यथा ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतिव्याकोपः स्यात्। न च तथैवात्मनि मनसः स्थितिरप्यविद्याकृतैवेति वाच्यम् ; तदभिप्रायवर्णनस्येहानुपयुक्तत्वात्। न ह्यात्मनि मनो रज्जौ सर्पवदविद्यया कल्पितं वर्तत इत्यभिप्रायेण ‘आत्मसंस्थं मनः कृत्वे’त्युक्तम्, तथा सति कृत्वेत्यस्य वैयर्थ्यापत्तेः, करणात् प्रागपि तत्रैव सत्त्वात्। वस्तुविषयेभ्यो मनो निवर्त्य आत्मन्येव स्थापयेदिति ह्युच्यते। इदं च स्थापनं नाविद्याकार्यम् , किन्तु विद्याकार्यमेव। तस्मात् कथमात्मनि मनः स्थापयितुं शक्यते योगिना विदुषा वेति, अत आह— आत्मैवेति। पेटिकायां वस्त्रस्येवात्मनि मनसः स्थापनं नेह विवक्षितम् , किन्तु आत्मतत्त्वानुसन्धानमेव मनस आत्मनि स्थापनमिति विवक्षितम्। आत्मतत्त्वं च ‘इदं सर्वं यदयमात्मा, सर्वं खल्विदं ब्रह्म, नान्यत्किञ्चन मिषदि’त्यादिश्रुतिभ्यः ‘सर्वमात्मैव, आत्मनोऽन्यत्किञ्चिदपि नास्ती’त्येवंरूपमिति ज्ञायते इति। ननु ‘न ततोऽन्यत् किञ्चिदस्ती’ति सर्वाभावत्वं युक्तम् , अद्वितीयत्वाद् भूमात्मनः। सच्चिदानन्दस्वरूपस्यात्मनस्तु सर्वात्मक- त्वमयुक्तम् , सर्वस्य अनृतजडदुःखात्मकत्वात् प्रपञ्चस्य। अतः कथम् ‘आत्मैव सर्व’मिति ज्ञानं यथार्थज्ञानं भवितुमर्हतीति चेत् , उच्यते— रज्जौ सर्पस्येवात्मन्येव सर्वस्य मायया कल्पितत्वेन भ्रान्त्या प्रतीयमानमिदं सर्वं वस्तुत आत्मैव, यथा रज्जौ भ्रमेण प्रतीयमानः सर्पो वस्तुतो रज्जुरेवेति। तस्माद् रज्जोः सर्पात्मत्वमिव, स्थाणोः पुरुषात्मत्वमिव, गगनस्य नीलात्मकत्वमिवात्मनः सर्वात्मकत्वं युक्तमेवेति। शनैरिति। शनैःशनैः, न सहसा उपरमेद् उपरतिं कुर्यात्। कया? बुद्ध्या। किंविशिष्टया? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया, धैर्येण युक्तयेत्यर्थः। आत्मसंस्थम् आत्मनि संस्थितम् ‘आत्मैव सर्वम् , न ततोऽन्यत् कामत्यागद्वारेणेन्द्रियाणि प्रत्याहृत्य किं कुर्यादिति शङ्कितारं प्रत्याह— शनैः शनैरिति। सहसा विषयेभ्यः सकाशादुपरमे मनसो न स्वास्र्ह्यं सम्भवतीत्यभिप्रेत्याह— न सहसेति। तत्र साधनं धैर्ययुक्ता बुद्धिरित्याह— कयेत्यादिना। १भूम्यादीरव्याकृतपर्यन्ताः प्रकृतीरष्ट पूर्वपूर्वत्र धारणं कृत्वोत्तरोत्तरक्रमेण प्रविलापयेदिति भावः। अव्यक्तमात्मनि प्रविलाप्यात्ममात्रनिष्ठं मनो विधाय चिन्तयितव्याभावाद् अतिस्वस्थो भवेदित्याह—आत्मेति। तत्र संस्थितिमेव मनसो विवृणोति—आत्मैवेति। योगविधिमुपक्रम्य किमिद-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥२५॥

१. एताः प्रकृतयः ‘भूमिरापोऽनलो वायुः खम्’ इति श्लोकोक्ताः ज्ञेयाः। पूर्वपूर्वस्य कार्यस्योत्तरोत्तरस्मन् कारणे प्रविलापनं कारणातिरिक्ततया तदभावचिन्तनम्। अव्याकृतस्य तु अधिष्ठाने आत्मनि प्रविलापनम्। अत्र मधुसूदन्याम्— ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि॥’ [क.उ. १.३.१३] इति श्रुतिमुदाहृत्य वागादीन्द्रियवृत्तिनिरोधक्रमेण भूमिकाचतुष्टयं परिकल्प्य मनसः आत्मसंस्थता विस्तरेण निरूपिता तत्रैव द्रष्टव्या। २. ‘नित्यवीप्सयोः’(पा.सू. ८-१-४) इति सूत्रेणेति भावः। तत्र नित्यत्वं पौनःपुन्यम्। नात्र वीप्सेति भावः। ३. ‘न किञ्चिदपि चिन्तयेत्’ इति पादः उपरमेदित्यस्यैव व्याख्यानभूतः इत्यर्थः। पादः इति युक्तम्।

[[अ. ६. श्लो. २४-२५]] [[३३८]]

न किञ्चिदपि चिन्तयेदिति। आत्मनोऽन्यस्य कस्यचिदपि वस्तुनोऽभावात् किञ्चिदपि न चिन्तयेत् , किन्त्वात्मानमेव चिन्तयेत् , इयमेवात्मैकचिन्ता उपरतिरित्युच्यते, सर्वव्यापारोपरमरूपत्वात्। एष इति। उपरम इत्यर्थः। आत्मैकचिन्तनमिति यावत्॥२५॥

यत इति श्लोकमवतारयति— तत्रेति। योगारम्भे इत्यर्थः। चञ्चलमस्थिरं मनः यतो यतो निःसरति[निश्चरति] ततस्तत एतन्नियम्यात्मन्येव वशं नयेत्। यतोयतः ततस्ततः इति च वीप्सार्थे द्विर्भावः। निमित्तादिति। मनसो निःसरणक्रियां प्रति हेतुभूतादित्यर्थः। मनो हि शब्दाद्यर्थः[शब्दाद्यर्थं ग्रहीतुं?] श्रोत्रादिद्वारा बहिर्निर्गच्छति। स्वाभाविकदोषादिति। मनसः प्रवृत्तिस्वभाव- त्वादित्यर्थः। अग्नेरौष्ण्यादिवद् मनसः प्रवृत्तिरेव स्वभावः, न तु निवृत्तिरिति भावः। स्वाभाविकः स्वभावसिद्धः। स चासौ दोषः प्रवृत्तिरूपः स्वाभाविकदोषः, तस्मादित्यक्षरार्थः। सङ्कल्पविकल्पात्मकस्य मनसः प्रवृत्तिरेव स्वभावः, प्रवृत्तेः सङ्कल्पविकल्पपूर्वक- त्वादिति रहस्यम्। स्वाभाविकदोषो रागादिरिति वा। कथं नियमनम्? अत आह— तत्तदिति। निमित्तभूतानां शब्दादीनां तेषां तेषां विषयाणां याथात्म्यं मृषात्वरूपम् , तस्य निरूपणेन हेतुना। अभावीकृत्य तत्तन्निमित्तान्यभावरूपाणि कृत्वा - मृषैवायं शब्दादिप्रत्ययः, न तु वस्तुतः शब्दादयः सन्ति - आत्मान्यस्य सर्वस्य मिथ्यात्वादित्येवं विवेकज्ञानेन मनसः शब्दादिषु प्रवृत्तिं वारयित्वेत्यर्थः। एवं मनसः शब्दादिसकाशान्निवर्तने तत्तद्याथात्म्यरूपणमेकं हेतुमुक्त्वा अन्यमाह— वैराग्यभावनया चेति। क्षयिष्णुत्वात् सातिशयत्वाद् दुःखोदर्कत्वाच्च न विषयेषु सक्तव्यमित्येवं विषयवैराग्यमुत्पाद्येत्यर्थः। वैराग्यस्य विरागत्वस्य भावना चिन्तनं तयेत्यक्षरार्थः। आत्मन्येवेति। न तु विषयेष्वित्येवकारार्थः। मनसो विषयपारवश्यं वारयित्वा स्वाधीनतां सम्पादयेदित्यर्थः। एवं पूर्वोक्तप्रकारेण मनसो विषयप्रवृत्तिवारणपूर्वकमात्मप्रावण्यापादनेनेत्यर्थः। प्रशाम्यति प्रकर्षेणोपशमं प्राप्नोति। आत्मन्येव लयं प्राप्नोतीत्यर्थः। ‘प्रशान्तमनस’मित्युत्तरश्लोके मनः प्रशान्तेर्वक्ष्यमाणत्वादिह तदानुगुण्येन भाष्ये वाक्यशेष उक्त इति बोध्यम्॥२६॥

मुक्तमित्याशङ्क्याह— एष इति। यन्मनसो नैश्चल्यमिति शेषः॥२५॥

ननु मनसः शब्दादिनिमित्तानुरोधेन रागद्वेषवशादत्यन्तचञ्चलस्यास्थिरस्य तत्र तत्र स्वभावेन प्रवृत्तस्य कुतो नैश्चल्यं नैश्चिन्त्यं चेति, तत्राह— तत्रेति। योगप्रारम्भः सप्तम्यर्थः। एवंशब्देन मनसैवेत्यादिरुक्तप्रकारो गृह्यते। स्वाभाविको दोषो मिथ्याज्ञानाधीनो रागादिः। शब्दादेर्मनसो नियमनं कथमित्याशङ्क्याह— तत्तन्निमित्तमिति। याथात्म्यनिरूपणं क्षयिष्णुत्वदुःखसंमिश्रत्वाद्यालोचनम्। तेन तत्र तत्र वैराग्यभावनया तत्तदाभासीकृत्य ततस्ततो नियम्यैतन्मन इति सम्बन्धः। मनोवशीकरणेनोपशमे किं स्यादित्याशङ्क्याह— एवमिति। योगाभ्यासो विषयविवेकद्वारा मनोनिग्रहाद्यावृत्तिः॥२६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्चिदस्ती’त्येवमात्मसंस्थं मनः कृत्वा, न किञ्चिदपि चिन्तयेत्। एष योगस्य परमो १विधिः॥२५॥

तत्रैवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी— यत इति। यतो यतः यस्माद्यस्माद् निमित्ताच्छब्दादेः निश्चरति निर्गच्छति २स्वाभाविकदोषाद् मनः चञ्चलम् अत्यर्थं चलम् , अत एवास्थिरम् , ततस्ततः तस्मात्तस्माच्छब्दादेः निमित्ताद् नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेनाभासीकृत्य३ वैराग्यभावनया च एतद् मनः आत्मन्येव वशं नयेद् आत्मवश्यतामापादयेत्। एवं योगाभ्यासबलाद् योगिनः आत्मन्येव प्रशाम्यति मनः४॥२६॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥२६॥

१. ‘अवधिः’ इति पा.। २. ‘स्वभावदोषात्’ इति पा.। ३. ‘अभावीकृत्य’ इति रा. पा.। ४. अत्र मधुसूदन्याम्— उपायेन निगृह्णीयात् इत्यादीनि गौडपादाचार्य- वचनान्युदाहृत्य मनोवशीकरणप्रकारो विस्तरेण निरूपितः तत्रैव द्रष्टव्यः।

[[३३९]]

प्रशान्तेति। प्रशान्तमनसं शान्तरजसं ब्रह्मभूतमकल्मषमेनं योगिनमुत्तमं सुखमुपैति हि। प्रशान्तमनसम् आत्मनि लीनहृदयम् अत एव शान्तरजसं शान्तं नष्टं रजः मोहादिक्लेशः यस्य तम्। रजो धूलिर्यथा गगनमावृत्य तदप्रकाशजनकं वर्तते तद्वन्मोहादिक्लेश आत्मानमावृत्य तदप्रकाशको वर्तत इति गौण्या वृत्त्या रजःशब्दप्रयोगो मोहादिक्लेशे। यद्वा रजो रजोगुणः, तत्कार्यमोहादौ तत्त्वेन व्यपदेश उपचारादिति। अथवा रजः मोहादिक्लेशहेतुभूतरजोगुणः। उपलक्षणमिदं सत्त्वतमसोरपि। ध्वस्तसत्त्वरजस्तमोगुणमित्यर्थः। अत एव ब्रह्मभूतं ब्रह्मणा तुल्यम् ; नित्यसमासः। तौल्यं च मुक्तत्वरूपम्। यथा ब्रह्म नित्यमुक्तं तथा अयं योगी जीवन्मुक्त इति। अत एवाह— जीवन्मुक्तमिति। ब्रह्माभिन्ने आत्मनि ब्रह्मतुल्यत्ववचनमस्वरसमित्यर्थान्तरमाह— ब्रह्मैवेति। सर्वं ब्रह्मेति निश्चयज्ञानवन्तमित्यर्थः। यस्य सर्वं ब्रह्मैवेति निश्चयः स स्वयमपि ब्रह्मैव। ततश्च ब्रह्मभूतं ब्रह्मैव भूतमित्यर्थः, ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः। अत एव अकल्मषं धर्माधर्मसंस्कारवर्जितम्। अधर्मवद् धर्मस्यापि बन्धकत्वात् कल्मषत्वम्। भाष्ये आदिपदाद् धर्मग्रहणम्। न हि ब्रह्मणि धर्माधर्मसंस्काराः सन्तीति भावः। एनं योगिनमुत्तमं सुखमात्मानन्दः स्वयमेवोपैति। हिः प्रसिद्धौ। मनोलये सुषुप्त्यादौ स्वरूपसुखाविर्भावः प्रसिद्ध इत्यर्थः॥२७॥

युञ्जन्निति। योगी एवं सदा आत्मानं युञ्जन् विगतकल्मषःसन् , सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते। आत्मानं मनः युञ्जन् ब्रह्मणि समादधानः; आत्मानं कूटस्थं युञ्जन् पश्यन्निति वा। योगोऽस्यास्तीति योगी। योगान्तरायसत्त्वे कथं योगसत्त्वमित्यभि- प्रेत्याह— योगान्तरायवर्जित इति। अन्तरायाः विघ्नाः। यद्वा आत्मानं युञ्जन्नित्यनेनैव योगिलाभाद् योगिपदं व्यर्थमित्यभिप्रेत्याह— योगी योगान्तरायवर्जित इति। सदेति ।विघ्नाभावात् सर्वदा विगतपाप इति। पुण्यस्यापि पापत्वाद् विगतपुण्यपाप इत्यर्थः। पूर्वश्लोके सुखं योगिनमुपैतीत्युक्तम्। इदानीं तु योगी सुखमुपैतीति। अतः पूर्वश्लोकार्थस्यैव भङ्ग्यन्तरेण कथनमिदम् , न प्रशान्तम् आत्मन्येव प्रलीनमिति यावत्। मनस्तद्वृत्त्योरभावे स्वरूपभूतसुखाविर्भावस्य स्वापादौ प्रसिद्धिं द्योतयितुं हिशब्दः। मोहादिक्लेशप्रतिबन्धाद् योगिनि यथोक्तसुखाप्राप्तिमाशङ्क्य मनोविलयमुपेत्य परिहरति—शान्तेति। तस्यास्मदादिविलक्षणत्वमाह— ब्रह्मभूतमिति। अस्मदादेरपि स्वतो ब्रह्मभूतत्वेन तुल्यं जीवन्मुक्तत्वमित्याशङ्क्याह— ब्रह्मैवेति। धर्माधर्मप्रतिबन्धादयुक्ता यथोक्तसुख- प्राप्तिरित्याशङ्क्योक्तम्— अकल्मषमिति॥२७॥

उत्तमं सुखं योगिनो भवतीत्युक्तम् , तदेव स्फुटयति— युञ्जन्निति। क्रमो यथोक्तो ‘मनसैवेन्द्रियग्राम’मित्यादिः। योगान्तरायो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

प्रशान्तेति। प्रशान्तमनसं १प्रशान्तं मनो यस्य स प्रशान्तमनास्तं प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमं निरतिशयम् उपैति उपगच्छति। शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमित्यर्थः। ब्रह्मभूतं जीवन्मुक्तं ‘ब्रह्मैव सर्व’मित्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषम् २धर्माधर्मादिवर्जितम्॥२७॥

युञ्जन्निति। युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा आत्मानं, विगतकल्मषो विगतपापः सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तद् ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत १. ‘प्रकर्षेण शान्तं’ इति पा.। २. ‘अधर्मादिवर्जितम्’ इति पा.। प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥२७॥

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥२८॥

[[अ. ६. श्लो. २५-२८]] [[३४०]]

त्वन्यार्थस्य। यद्वा पूर्वश्लोके जीवन्मुक्तिदशानुभाव्यसुखलाभ उक्तः, इह तु विदेहमुक्तिदशानुभाव्यसुखलाभ इति विवेकः। अथवा पूर्वश्लोके योगदशानुभाव्य आत्मानन्द उक्तः, इह तु ब्रह्मानन्द इति। न च कथं ध्यानयोगान्मोक्षसुखलाभ इति वाच्यम् ; ध्यानयोगाज्ज्ञानलाभद्वारा मोक्षसुखलाभात् , ज्ञानलाभस्य चोत्तरश्लोके वक्ष्यमाणत्वात्। श्लोकद्वयमपीदं जीवन्मुक्तिसुखपरमेवेति पक्षे तु नैतच्चोद्यस्यावकाशः, संसारोपरमरूपजीवन्मुक्तिसुखस्य ज्ञानिन इव योगिनोऽपि योगदशायामनुभाव्यत्वात्॥२८॥

सर्वेति। उत्कृष्टं फलमिति। एतेन पूर्वश्लोकोक्तं सुखं योगस्य न परमं फलम् , किन्त्ववान्तरफलमेवेति सूचितम्। आत्मानन्दानुभवशालिनोऽपि योगिनो ज्ञानाभावे पुनरुत्पत्तिप्रसङ्गात् , स्वानुभूयमानात्मानन्दस्यात्मत्वेन ज्ञानं विना तस्य कृत- कृत्यत्वाभावाच्च। तस्माद् यथा व्यवायस्य तात्कालिकसुखलाभोऽवान्तरफलं, पुत्रोत्पत्तिः प्रधानफलम् , तद्वद् योगस्य तात्कालिक- सुखलाभोऽवान्तरफलं, ज्ञानोत्पत्तिरेव प्रधानफलमिति। कीदृशं ज्ञानं योगस्य फलम्? अत आह— ब्रह्मात्मैकत्वदर्शनमिति। अहं ब्रह्मास्मीति ज्ञानमित्यर्थः। न ह्यस्माज्ज्ञानादन्यं[न्यः] सर्वसंसारविच्छेदे हेतुरस्तीत्याह— सर्वेति। अज्ञानकार्यस्य संसारस्य सम्यग्ज्ञानं विना न हि निवृत्तिः। अज्ञानकृतात्मानात्मतादात्म्याध्यासप्रयुक्तः स्थूलोऽहं, काणोऽहं, सुख्यहं, दुःख्यहमित्यादिसंसारः, अज्ञानकृत एव ईश्वराद्भिन्नोऽहं, ममेश्वरः शास्तेत्यादिसंसारश्च , अहं सच्चिदानन्दरूप आत्मा, न तु देहादिसङ्घातरूपः; अहं ब्रह्मैव, न तु तद्भिन्नः; ईश्वरश्च ब्रह्मैव, न तु तद्भिन्नः, चैतन्यरूपत्वात् ; एवं चाहमीश्वरादभिन्न एवेत्याकारकब्रह्मात्मैक्यज्ञानं विना नैव निवर्तते। न रागद्वेषादिः। सदा आत्मानं युञ्जन्निति सम्बन्धः। पापपदमुपलक्षणं पुण्यस्यापि। संस्पर्शः तादात्म्यमैकरस्यम्। उत्कर्षो विषयासंस्पर्शः ॥२८॥

योगमनुतिष्ठतो ब्रह्मभूतस्य सर्वानर्थनिवृत्तिनिरतिशयसुखप्राप्तिलक्षणो द्विविधो मोक्षो हेतुना केन स्यादिति शङ्कमानं प्रत्याह— इदानीमिति। स्वमात्मानमीक्षते इति सम्बन्धः। सर्वभूतान्यपि तद्विशेषणत्वेन पश्यति चेन्न शुद्धवस्तुज्ञानमिति ३नाविद्यानिवृत्तिरित्या- शङ्क्याह— सर्वभूतानीति। उक्ते दर्शने चित्तसमाधानमुपायं दर्शयति— योगेति। विषमेषु उपाधिषु। तदनुरोधाद् विषममेव दर्शनं तदुपदर्शितदर्शनप्रतिबन्धकं प्रत्युदस्यति— सर्वत्रेति॥२९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इत्यत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति॥२८॥

इदानीं योगस्य २यत् फलं ब्रह्मैकत्वदर्शनं सर्वसंसारविच्छेदकारणं, तत् प्रदर्श्यते— सर्वेति। सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वमात्मानं, सर्वभूतानि चात्मनि, ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि आत्मन्येकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्रसमदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य सः सर्वत्रसमदर्शनः॥२९॥

सर्वभूतात्मदर्शने हेतुः—सर्वत्र समदर्शनम्। यद् ब्रह्म[बिम्ब]भूतं ब्रह्म स्वस्य स्वरूपत्वेनावगतम् , तस्यैव सर्वत्र प्रतिबिम्बितत्वात् सर्वभूतस्थत्वम्। तत्परतन्त्रमायाधीनत्वात् सर्वस्य विभागस्यात्मन्येव सर्वाणि भूतानि वर्तन्त इत्यर्थः।२९। सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते योगयुक्तात्मा १सर्वत्रसमदर्शनः॥२९॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१.सर्वत्रेति भिन्नं पदं पा.। २.‘यदुत्कृष्टं निरतिशयं फलं ब्रह्मात्मैकत्वदर्शनम्’ इति रा.पा.। ३ .योगफलं सर्वभूतविशिष्टात्मसाक्षात्कारश्चेत् तस्य शुद्धात्मविषयका- ज्ञानसमानविषयकत्वाभावात् न तन्निवर्तकतेति शङ्का। आत्मनि सर्वभूतान्येकत्वं गतानीत्यतः तत्साक्षात्कारस्य सर्वभूतविषयकत्वाभावात् तन्निवर्तकता युक्तेति।

[[३४१]]

हि रज्जावारोपितः सर्पो रज्जुज्ञानं विना निवर्तते, येनात्मन्यारोपितः संसारः आत्मज्ञानं विना निवर्तेत। तस्माद् ब्रह्मात्मैकत्वज्ञानमेव संसारच्छेदकारणम् , न तु कर्मणाऽपि समुच्चयः, कर्मज्ञानयोः समुच्चयानुपपत्तेः, कर्मसंसारयोरविरोधाच्चेत्यसकृदुक्तं प्राक्। पुरुषः इति शेषः। योगयुक्तात्मा सन् , सर्वत्रसमदर्शनो भूत्वा, सर्वभूतस्थमात्मानं सर्वभूतानि आत्मनि च ईक्षते इत्यन्वयः। आत्मन्येकतां गतानि आत्माभेदं प्राप्तानि, यथा सर्पो रज्जावैक्यं गच्छति, तद्वत्। कार्यकारणसङ्घात इह भूतशब्देन विवक्षितः। ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ती’ति श्रुत्या भूतानां स्वोपादाने आत्मनि लयस्योक्तत्वात्। कार्यस्य घटादेः कारणे मृदादौ लयदर्शनात्। कार्यस्य कारणे लयो नाम कारणाभेदेनावस्थानमेव, न त्वन्यदिति सिद्धान्ताद् आत्मनि सर्वभूतलय एव सर्वभूतानामात्मन्येकत्वप्राप्तिरिति भावः। न च कथं प्रलयात् प्रागात्मनि सर्वभूतलय इति वाच्यम् , प्रलयेऽपि सूक्ष्मभूतसत्त्वात्। न प्रलये सर्वभूतानामात्मनि लयः, तथा सति ज्ञानं विनैव प्रलये सर्वमुक्तिप्रसङ्गात्। किन्तु परमार्थदशायामात्यन्तिकप्रलये मोक्षरूपे एव सर्वभूतलयः। प्रलयो हि चतुर्विधः— नित्यः, नैमित्तिकः, १महान् , आत्यन्तिकश्चेति। तत्र सुषुप्तिर्नित्यप्रलयः; ब्रह्मणो निशायां नैमित्तिकप्रलयः; ब्रह्मणश्चतुर्मुखस्य द्विपरार्धावसाने महाप्रलयः; मोक्ष आत्यन्तिकप्रलयः। आत्मस्वरूपश्च मोक्ष एवेत्यात्मस्वरूपे सर्वभूतलय उचित एव। एतेन - यः सर्वेषु भूतेषु वर्तते स आत्माऽहमेव, इमानि तु सर्वाणि भूतानि कालत्रयेऽपि मयि न सन्त्येवेति समदर्शी विद्वानीक्षते, पश्यति, जानातीत्यर्थः इति - सिद्धम्। ब्रह्मात्मनोरेकत्वमेव विषयो यस्मिन् तद् ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं विषयीत्यर्थः। ज्ञानस्य विषयित्वं, ज्ञेयस्य विषयत्वं च न्यायमतप्रसिद्धं च। इदं च ज्ञानम् ‘अहं ब्रह्मास्मी’त्याकारकवृत्तिरूपम् , न तु चैतन्यरूपम् , तस्य निर्विशेषत्वेन निर्विषयत्वात्। यत्तु रामानुजः— सर्वभूतसमानाकारं स्वात्मानं, स्वात्मसमानाकाराणि सर्वभूतानि च पश्यतीति, तत्तुच्छम् ; सर्वभूतस्थमिति आत्मनीति च सर्वभूतानामात्मनश्चाधिकरणत्वस्योक्तत्वात्। सर्वेषु भूतेषु तिष्ठतीति सर्वभूतस्थ इति हि समासः। अनेन च समासेन भूतानामधिकरणत्वं स्फुटमुक्तम्। आत्मनीति च अधिकरणे सप्तमी। आत्मनोऽधिकरणत्वं च स्फुटमुक्तम्। तदेवं स्फुटमुक्तस्या- धिकरणत्वस्य त्यागोऽप्रमाणमेव। न च कथमेकस्यैवात्मन आधारत्वमाधेयत्वं चेत्युभयं सम्पद्यत इति वाच्यम् ; आकाशे घटस्य, घटे आकाशस्य च सत्त्वदर्शनात् , एवमेवात्मनि भूतानां, भूतेषु चात्मनः सत्त्वानुमानस्य सुकरत्वात् ; ‘सर्वान्तरः सर्वाधारः’ इत्यादिशास्त्राच्च। जागरावस्थायां देहेष्वात्मसत्त्वस्य, स्वप्ने आत्मनि रथादिप्रपञ्चसत्त्वस्य च सर्वानुभवसिद्धत्वाच्च। न हि स्वप्ने आत्मातिरिक्तं रथाद्यधिकरणं किञ्चिदस्ति। तस्मात् ‘सर्वभूतस्थमात्मान’मित्यस्य सर्वभूतसमानाकारमात्मानमिति, ‘सर्वभूतानि चात्मनी’त्यस्य स्वात्मसमानाकाराणि सर्वभूतानीति चार्थः स्वमताभिनिवेशकल्पितो मूलविरुद्ध इति स्वस्यापि विदितमेव रामानुजस्य। किञ्च यदा सर्वभूतसमानाकारत्वं स्वात्मन उक्तम् , तदैव स्वात्मसमानाकारत्वं सर्वभूतानां सिद्धमेवेति पुनस्तद्वचनं व्यर्थमेव। अपि च भूतशब्दः महाभूतेषु प्राणिषु कार्येषु च प्रयुज्यते, न त्वात्मनि, भूतत्वाभावात् तस्य। न च प्राण्येवात्मेति वाच्यम् ; आत्मनः प्राणादिसम्बन्धाभावात्। न च प्राणोपाधिकत्वादात्मा प्राण्येवेति वाच्यम् , घटोपाधिकत्वादाकाशो घटीति वाच्यत्वापत्तेः। उपाधेरपरमार्थत्वात् परमार्थात्मतत्त्वस्य चेहोपदिश्यमानत्वात्। यद्यात्मनां बहुत्वं जात्येकत्वं च स्यात् तर्हि घटानामिवात्मनामपि परस्परसाम्यमज्ञेनापि विदितमेवेति व्यर्थोऽयमुपदेशः। नापि तेन किञ्चिदपि फलम्। तस्माद् यदि भूतशब्द आत्मवाची, तर्हि आत्मन एवात्मस्थत्वमसम्भवि। यदि भूतशब्दो देहादिसङ्घातवाची, तर्हि तस्यात्मसमानाकारत्वमसम्भवि। देहादेर्जडत्वाद् आत्मनश्च चेतनत्वात्। अतस्तुच्छं रामानुजभाष्यम्॥२९॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. ६. श्लो. २८-२९ ] १. महाप्रलयः। अयमेव प्राकृतप्रलयः इत्युच्यते द्र. वेदान्तपरिभाषा विषयपरिच्छेदः। एतेषु आत्यन्तिकप्रलये एव सर्वभूतानामात्मनि लयः। स एव निरवशेषः। ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते चासां नामरूपे, पुरुष इत्येवं प्रोच्यते, स एषोऽकलोऽमृतो भवति’ (प्र.उ. ६.५) श्रुतेः, ‘अविभागो वचनात्’ (ब्र.सू. ४-२-१६) इति सूत्राच्च। अन्यत्र तु मायोपहितब्रह्मणि लयः। स च सावशेषः।

[[३४२]]

उक्तस्यैकत्वज्ञानस्य ४फलविकल्पत्वशङ्कां शिथिलयति— एतस्येति। तत्रैकत्वदर्शनमनुवदति— यो मामिति। तत्फलमिदानी- मुपन्यस्यति— तस्येति। ज्ञानानुवादभागं विभजते— यो मामिति। तत्फलोक्तिभागं व्याचष्टे— तस्यैवमिति। अनेकत्वदर्शिनोऽपीश्वरो नित्यत्वान्न प्रणश्यतीत्याशङ्क्याह— नेति। अहं परमानन्दो न तं प्रति परोक्षीभवामीत्यर्थः। ‘स चे’त्यादि व्याचष्टे— विद्वानिति। विद्वानि- वाविद्वानपीश्वरस्य न नश्यतीत्याशङ्क्योक्तम्— नेत्यादिना। अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वादविद्यया नष्टप्रायतेत्यर्थः। ईश्वरस्य विदुषश्च परस्परमपरोक्षत्वे हेतुमाह— तस्य चेति। आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वम्? तत्राह— स्वात्मेति। विद्वदीश्वरयो- रेकत्वानुवादेन विद्याफलं विवृणोति— यस्माच्चेति। तस्मादेकत्वदर्शनार्थं प्रयतितव्यमिति शेषः॥३०॥

[आनन्दगिरिकृतव्याख्या]

य इति। ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनीक्षते’ इत्यस्यैवानुवादः ‘यो मां पश्यति सर्वत्र सर्वं च मयि पश्यती’ति। एतस्यात्मैकत्वदर्शनस्य फलं तु— ‘तस्याहं न प्रणश्यामि स च मे न प्रणश्यती’ति— इति विवेकः। मामिति। प्रत्यगभिन्नं परमात्मानमित्यर्थः। यः पूर्वश्लोके ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनीक्षते’ इत्युक्तः स एवायं सर्वत्र परमात्मानं सर्वं च परमात्मनि पश्यतीत्यनूदितः, स्वात्मन एव परमात्मत्वाद् , आत्मदर्शनमेव परमात्मदर्शनमिति हेतोः। आत्मैकत्वदर्शिन इति। सर्वत्रापीश्वराभिन्न आत्मैक एवास्तीति ज्ञानशालिन इत्यर्थः। ईश्वरपारोक्ष्याभावः फलमित्याह— न प्रणश्यामीति। कृतप्रत्यगभिन्नब्रह्मात्मसाक्षात्कारस्य न पुनरीश्वरपारोक्ष्यं, यथैतादृशज्ञानप्राप्तेः प्रागीश्वरपारोक्ष्यम् , तद्वदिति भावः। सति त्वीश्वरपारोक्ष्ये ईश्वरात् स्वस्य भयं संसारश्च स्यात् , ‘भीषाऽस्माद्वातः पवते’ इति ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवती’त्यादिश्रुतिभ्यः। अत ईश्वरपारोक्ष्याभाव उत्कृष्टं फलमेव, मोक्षरूपत्वात्। फलान्तरमाह— स च मे न प्रणश्यतीति। ईश्वरस्यापि स्वयं परोक्षो न भवति, वाञ्छति हि भृत्यादिः सर्वदाऽपि राजपारोक्ष्याभावं स्वस्य, स्वपारोक्ष्याभावं राज्ञश्च। कामुकश्च स्वस्य कामिनीपारोक्ष्याभावं, कामिन्याश्च स्वपारोक्ष्याभावं, तद्वद् विद्वानपि स्वस्येश्वरपारोक्ष्याभावमीश्वरस्य च स्वपारोक्ष्याभावं वाञ्छतीति तदुभयं तस्य सिध्यतीति भावः। ईश्वरस्य स्वपारोक्ष्याभावे स्वस्य चेश्वरपारोक्ष्याभावे हेतुमाह— तस्य चेति। ईश्वरस्य विदुषश्च एकात्मत्वादित्यर्थः। नन्वात्मत्वेऽपि कथं पारोक्ष्याभाव इत्यत आह— स्वात्मेति। प्रकाशः प्रत्यक्षः। एवकारान्न तु कदाचिदप्यप्रकाश इत्यर्थः। न हि स्वस्य स्वाप्रत्यक्षत्वमिति भावः। ननु तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीति आत्मपरमात्मनोर्भेद एवोपदिष्टो भगवता- ‘तस्याह’मिति, ‘स च मे’ इति, न हि तदहंशब्दयोरेकार्थत्वमिति चेत्? मैवम् , ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनी’ति य एव धर्म आत्मन उक्तः सर्वभूतस्थत्वसर्वभूतान्तरत्वरूपः स एव ‘यो मां पश्यति सर्वत्र सर्वं च मयि पश्यती’ति परमात्मनोऽप्युक्तः। न हि धर्मभेदं विना धर्मिभेदः सम्भवति, धर्मभेदस्यैव धर्मिभेदप्रयोजकत्वात्। तथा च ‘सर्वभूतस्थ’मिति, ‘यो मा’मिति च वाक्यद्वयेनात्मपरमात्मैकत्वं प्रतिपाद्य, कथं पुनः ‘तस्याह’मिति वाक्यद्वयेन आत्मपरमात्मभेदं प्रतिपादयेत् सर्वज्ञो भगवान्। एतस्यात्मैकत्वदर्शनस्य फलमुच्यते— यो मामिति। यो मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु , सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्य एवमात्मैकत्वदर्शिनः अहमीश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि। स च मे न प्रणश्यति, स च विद्वान् मम वासुदेवस्य न प्रणश्यति न १परोक्षो भवति। तस्य च मम चैकात्मत्वात्। स्वात्मा हि नामात्मनः २प्रिय एव [प्रकाश एव] भवति। ३यस्माच्चाहमेव सर्वात्मैकत्वदर्शी॥३०॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

१. ‘परोक्षीभवति’ इति पा.। २. ‘प्रकाश एव’ इति पा.। ३. इदं वाक्यं भाष्यार्कप्रकाशे उत्तरश्लोकशेषतया योजितम्। ४. ‘फलविकलत्वशङ्कां’ इति पाठः स्यात्। यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥३०॥

[[३४३]]

न च - सर्वभूतस्थितात्मस्थितत्वात् परमात्मनः सर्वभूतस्थितिः, सर्वभूताश्रयत्वात् परमात्मनि सर्वभूतस्थितिश्चोच्यते; पर्यङ्ककशिपुशायिनः पुरुषस्य पर्यङ्कशायित्वं, देहाश्रयपीठाश्रयभूमेर्देहाश्रयत्वं च यथोच्यते, तद्वदिति - वाच्यम् , यदि तथा आत्मनि परमात्माऽस्ति, परमात्मन्यात्माऽस्तीति च विवक्षा व्यासमुनेः, तर्हि ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनी’त्यनन्तरम् ‘ईक्षते मयि चात्मानं तमात्मनि च मामपी’त्येव ब्रूयाद् ऋजुमार्गेण, न तु वक्रमार्गेण, वक्रमार्गाश्रयणस्य निष्फलत्वात् प्रतिपत्तृक्लेशकरत्वाच्च। यः कोऽपि त्वादृशो हि महानुभावः ‘यो मां पश्यति सर्वत्रे’त्यस्य सर्वत्र स्थिते आत्मनि स्थितं मां यः पश्यतीत्यर्थं जानीयात्। निरवयवे निरवकाशे आत्मवस्तुनि कथं परमात्मस्थित्यवकाशः? आत्मनो निरवयवत्वं सम्प्रतिपन्नम्। न च निरवकाशत्वे विप्रतिपत्तव्यम् , सावयवस्यैव सावकाशत्वं, न तु निरवयवस्येति सिद्धान्तात्। न हि निरवयवः परमाणुः सावकाशः। न चैवं कथं निरवयवे ब्रह्मणि जगत्स्थित्यवकाश इति वाच्यम् , तदनवकाशस्यैवास्माकमिष्टत्वात्। न हि वयं सद्वितीयं ब्रह्म ब्रूमः, येन जगतो ब्रह्मणि स्थितिरस्माकमिष्टा स्यात्। रज्जौ सर्पवद् ब्रह्मणि जगद् मायया प्रतिभाति, न तु वस्तुत इत्यसकृदुक्तं हि। एतेन निरवयवे निरवकाशे परमात्मन्यात्मस्थितिश्च प्रत्युक्ता। परमात्मन्यप्यात्मसत्त्वे आत्मन एव परमात्मान्तरत्वेन त्वदुदाहृतान्तर्यामिब्राह्मणविरोधात्। सर्वान्तरः खलु परमात्मा। न च - परमात्मन्यात्मा माययाऽस्तीति - वाच्यम् , आत्मनो नित्यशुद्धबुद्धमुक्तस्वभावस्य मायिकत्वासम्भवात्। देहादेरसत्त्वमात्मनश्च सत्त्वं ‘नासतो विद्यते भावः’ इत्यादिना त्वयाऽप्यभ्युपेतम्। असत्त्वमेव हि मायिकत्वम्। सतो नाशायोगाद् मायिकस्य चावर्जनीयनाशत्वात्। अविनाशस्वभावः सत्त्वम् , विनाशस्वभावस्त्वसत्त्वमिति त्वयैवोक्तत्वात्। तस्मात् सन्नात्मा न मायिकः, येन मायया तस्यात्मनः परमात्मनि स्थितिः स्याज्जगत इव। तदेवमात्मनि परमात्मनः, परमात्मनि चात्मनः स्थित्ययोगात् ‘सर्वभूतस्थमात्मान’मित्यनेन, ‘यो मां पश्यति सर्वत्रे’त्यनेन च आत्माभिन्नस्य परमात्मनः, परमात्माभिन्नस्य चात्मनः सर्वत्र स्थितिरुक्ता। न तु भिन्नात्मन इति सिद्धेऽद्वैते कथं ‘तस्याह’मिति ‘स च मे’ इति च भेद उच्यते भगवता आत्मेश्वरयोः। ननु भवतु पूर्ववाक्यविरोधः, तथापि ‘तस्याह’मिति ‘स च म’ इति च प्रसिद्धस्य आत्मेश्वरभेदस्य कथमपलाप इति चेत् , उच्यते— श्रोतुरर्जुनस्य जीवेश्वरभेदबुद्ध्या विशिष्टत्वात् तं प्रति तथा ‘तस्याहं’ ‘स च म’ इत्युपदेशः। लोकसिद्धजीवेश्वरभेदानुवादमात्रं ‘तस्याहं’ ‘स च म’ इति, न तु तत्त्वनिर्णयरूपमिति। तथा च य ईश्वरत्वेन लोकस्याभिमतः परोक्षश्च परमात्मा स तत्त्वविदो न परोक्षः। यश्च जीवत्वेन लोकस्याभिमतस्तत्त्ववित् स च नेश्वरस्य परोक्ष इति ‘तस्याहं न प्रणश्यामि स च मे न प्रणश्यती’त्यस्यार्थः। एवमापरोक्ष्ये हेतुर्भाष्यकृता दर्शितः— आत्मैकत्वादिति। जीवेश्वरयोश्चैतन्यात्मना एकत्वान्न तत्रापरोक्ष्याभावशङ्केति भावः। यद्यपि ‘तस्याहं न प्रणश्यामी’त्यनेनैवेष्टं सिध्यति, तथापि दार्ड्याय ‘स च मे’ इत्यप्युक्तम्। यत्तु रामानुजः— यः सर्वत्रात्मवस्तुनि च मां पश्यति, मयि सर्वमात्मवस्तु च पश्यतीति, तत्तुच्छम् ; आत्मवस्तुनीति आत्मवस्त्विति च मूलाद् बहिः पदद्वयस्य कल्पनाया अप्रमाणत्वात्। अर्थासम्भवस्तु दर्शित एव॥३०॥

सर्वेति। य एकत्वमास्थितःसन् सर्वभूतस्थितं मां भजति स योगी सर्वथा वर्तमानोऽपि मयि वर्तते। अत्र पूर्ववाक्यं पूर्वोक्तसम्यग्दर्शनानुवादपरम् , द्वितीयं तु तत्फलप्रदर्शनपरमिति विवेकः। यस्मादिति। यस्मात् सर्वात्मैकत्वदर्शी विद्वानहमेव, न तु पूर्वार्धेनानूद्योत्तरार्धेन फलविधिरिति मत्वाऽऽह—इत्येतदिति। रागादिरहितस्य यमनियमादिसंस्कारवतः स्वैरप्रवृत्त्यसम्भवेऽपि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इत्येतत् पूर्वश्लोकार्थं सम्यग्दर्शनमनूद्य तत्फलं मोक्षो १विधीयते— २सर्वेति। सर्वथा सर्वप्रकारैर्वर्तमानोऽपि सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। १. ‘अभिधीयते’ इति पा.। २. इदं प्रतीकग्रहणं क्वचिन्न।

[[अ. ६. श्लो. ३०-३१]] [[३४४]]

मत्तोऽन्य इत्येवकारार्थः। तस्मात् स मय्येव वर्तत इत्याह सर्वेति श्लोकेन भगवान्। ‘सर्वभूतस्थ’मिति, ‘यो मां पश्यति सर्वत्रे’ति च पूर्वोक्तश्लोकद्वयार्थभूतं सम्यग्दर्शनमनेन श्लोकेनानूद्य तत्फलं मोक्षो विधीयत इत्यन्वयः। तत्र ‘सर्वभूतस्थितं यो मां भजत्येकत्व- मास्थित’ इत्येतद् व्याख्यातप्रायमिति न तस्य भाष्यं कृतम्। एकत्वं स्वात्माभेदमित्यर्थः। आस्थितः प्राप्तः। भजति प्राप्नोति, पश्यतीति यावत्। सेवाया द्वैतिविषयाया अद्वैतात्मन्ययोगात्। सर्वथेति। ज्ञानोत्पत्तिपर्यन्तमेव शास्त्रनियमः, न तु पश्चात्। ततश्च यथेच्छं यथाप्रारब्धमुत्पन्नसम्यग्दर्शनो वर्तेतैव; न तु तस्य कोऽपि शास्त्रनिर्बन्धः। शास्त्रस्याविद्यावद्विषयत्वाद् विदुषोऽविद्याया विद्यया नाशितत्वाच्चेति भावः। मयि मदीये इत्यर्थः। तमेवाह— वैष्णवे इति। विष्णोर्व्यापकस्य परमात्मनो मम सम्बन्धिनि परमे उत्कृष्टे पदे स्वरूपे सच्चिदानन्दलक्षणे वर्तते। यद्वा ‘तद्विष्णोः परमं पद’मित्युक्तलक्षणे वैष्णवपरमपदशब्दाभिधेये मयीत्यर्थः। स्वस्वरूपस्य स्वाभिन्नत्वाद् यद्वैष्णवं स्वस्वरूपं परमपदशब्दाभिधेयं तत् साक्षाद्विष्णुरेव, न तु विष्णोरन्यत् , निर्धर्मकपरमानन्दबोधस्वरूपे विष्ण्वात्मनि धर्मधर्मिभावकल्पनायोगादिति भावः। स्वस्वरूपे वर्तनं च विदुषः स्वस्वरूपेणावस्थानमेव; न त्वाधाराधेयभावरूपम् , स्वस्य स्वरूपस्य च आधाराधेयभावायोगात्। स्वमेव हि स्वरूपम्। इदमेव स्वस्वरूपेणावस्थानं मुक्तिः, ब्रह्मभावापत्तेर्मोक्षत्वाद् ब्रह्मभावस्य च ब्रह्माभिन्ने आत्मनि कालत्रयेऽपि सत्त्वादित्यभिप्रेत्याह— नित्यमुक्त एव स इति। ईश्वरस्य नित्यमुक्तत्वं सर्वसम्मतम् , जीवस्य नित्यमुक्तत्वं तु सम्यग्दर्शिन एव सम्मतम् , तस्यैव जीवेश्वराभेदज्ञानात्। अत उक्तम्— स एव नित्यमुक्त इति। सम्यग्दर्श्येव नित्यमुक्तः, अन्ये भेदवादिनस्तु न मुक्ताः, किन्तु बद्धा एव, भीतिग्रस्तत्वादिति भावः। ननु कथमस्य सम्यग्दर्शिनोऽपि नित्यमुक्तत्वम् , देहादिबन्धसत्त्वात्? अत आह— नेति। नास्य मोक्षप्रतिबन्धकं किञ्चिदपि वस्त्वस्ति। ब्रह्मात्मैकत्वज्ञानेन सूर्यस्थानीयेन तमःस्थानीयस्याज्ञानस्य पिशाचादिस्थानीयदेहादिकार्यसहितस्य समूलं नाशितत्वादिति भावः। अतो यावत्प्रारब्धं देहादिसत्त्वेऽपि विदुषो न तेन कश्चिद् बन्धः, दग्धपटवद् देहादेस्तस्याबन्धकत्वात्। यद्वा धर्माधर्मादिसंस्काररूपप्रतिबन्धकसत्त्वात् कथं सम्यग्दर्शनमात्रेण मोक्षलाभस्तत्त्वविद इत्यत आह— नेति। विद्यया धर्माधर्मादिसंस्काराणां नाशितत्वान्न तत्प्रतिबन्ध इत्यर्थः। यत्तु रामानुजः— मयि वर्तते मत्साम्यमेव पश्यतीत्यर्थः इति, तत्तुच्छम् ; तत्पदाभ्यां तदर्थालाभस्य सर्वविदितत्वात्। आत्मपरमात्मनोर्द्वयोर्वस्तुनोर्दर्शने सति रत्नदर्पणयोरिव तत्साम्यं सुबोधं स्यात् , न तु तदस्ति। न हि समाधौ अन्यत्र वा द्वयोर्दर्शनं सम्भवति, किन्त्वात्मन एकस्यैव, अनुभवमात्रस्यैव समाधौ परिशेषात् , अनुभवरूपत्वाच्चात्मनः। यदि चतुर्भुजत्वादिमत्पिण्डः परमात्मा, द्विभुजत्वादिमत्पिण्डो जीवात्मा च स्यात् , तर्हि बुद्धिद्वयं स्यात् , तत्रापि न साम्यस्यास्त्यवकाशः, ईश्वरविग्रहस्या- प्राकृतत्वाज्जीवविग्रहस्य च प्राकृतत्वात्। यदि तु स्वभिन्नः परमात्मा स्वेन दृष्टः स्यात् तर्हि परमात्मनो ज्ञेयत्वं स्यात्। तद्धि न सहते श्रुतिः ‘साक्षी चेता केवलो निर्गुणश्चे’त्यादिः; ‘नान्योऽतोऽस्ति द्रष्टे’ति च परमात्मनो ज्ञातृत्वमेव ब्रूते श्रुतिः, न तु ज्ञेयत्वम्। सति च ज्ञेयत्वे घटादिवज्जड एव स्यात् परमात्मा अनित्यश्च। तदेवम् आत्मपरमात्मरूपवस्तुद्वयदर्शनासम्भवान्नास्ति तत्साम्यस्यावकाशः ॥३१॥

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥३१॥

तामङ्गीकृत्य ज्ञानं स्तौति—सर्वथेति। प्रतिभासतोऽपि यथेष्टचेष्टाङ्गीकारे कुतो ज्ञानवतो नित्यमुक्तत्वम् , प्रातीतिकदुराचारप्रतिबन्धा- दित्याशङ्क्याह— न मोक्षमिति॥३१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते। नित्यमुक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यत इत्यर्थः॥३१॥

[[३४५]]

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन !। सुखं वा यदि वा दुःखं स योगी परमो मतः॥३२॥

आत्मेति। हे अर्जुन! यः आत्मौपम्येन सर्वत्र सुखं वा यदि वा दुःखं समं पश्यति, स योगी परमो मत इत्यन्वयः। ननु यदि विदुषो मोक्षं प्रति न कश्चित् प्रतिबन्धस्तर्हि विद्वान् यथेष्टमाचरेदिति पक्षे विद्वान् हिंसामपि कुर्यादेवेत्यत आह— किञ्चान्यदिति। आत्मा स्वयमेवोपमा उपमानम् आत्मोपमा, तस्या भाव आत्मौपम्यम् ; स्वसादृश्यं तेनात्मौपम्येन; स्वदृष्टान्तेनेति यावत्। सुखं वा सुखं च समं तुल्यं पश्यति, यदि वा यच्च, यद्वेत्यर्थः; दुःखं समं पश्यति। कथं सुखदुःखयोः सर्वत्रात्मौपम्येन समदर्शनम्? अत आह— यथेति। यथा मम सुखमिष्टमनुकूलं तथा सर्वप्राणिनामपि सुखमिष्टम् , यथा वा मम दुःखमनिष्टं प्रतिकूलं तथा सर्वप्राणिनामपि दुःखमनिष्टम् इत्येवमात्मौपम्येन सर्वभूतेषु सुखदुःखे अनुकूलप्रतिकूले तुल्यतया समं पश्यतीत्यन्वयः। सममित्यस्यार्थः तुल्यतयेति। साम्येनेत्यर्थः। किमेतद्दर्शनेन फलम्? अत आह— न कस्यचिदिति। यथा स्वस्य प्रतिकूलं दुःखकरं तथैव सर्वस्यापीति यो वेत्ति, स कथं परस्य प्रतिकूलमाचरेत्? न कथमपीत्यर्थः। तस्यापि फलितार्थमाह— अहिंसक इति। ननु अज्ञोऽपि यथा स्त्रीगमनं स्वस्य सुखं तथा परस्यापि सुखमेव, यथा शस्त्रपातः स्वस्य दुःखं तथा परस्यापि दुःखमेवेति जानात्येव। कथमन्यथा स्वमित्रस्य परस्य जारस्त्रियमर्पयेत्? कथं वा स्वशत्रोः परस्य शस्त्रपातं कुर्याद् वपुषि? तस्माद् व्यर्थोऽयमुपदेश इति चेत् , मैवम् ; अत एव खलु न कस्यचित् प्रतिकूलमाचरतीति भाषितमाचार्यैः। यो हि स्वस्येव परस्यापि स्त्रीगमनं सुखमिति, तदपहरणं दुःखमिति च मन्यते, स कथं परस्त्रीहरणरूपं परस्य प्रतिकूलमाचरेत्? यस्तु परस्त्रीहरणरूपं परस्य प्रतिकूलमाचरति, स हि स्वस्त्रीहरणतुल्यं परस्त्रीहरणं नैव मन्यते, किन्तु परस्त्रीहरणं स्वस्य सुखमित्येव मन्यते। अथवा आत्मौपम्येन सर्वत्र समं सुखं दुःखं वा पश्यन् यः परस्य प्रतिकूलं नाचरति, स योगी परम इत्येव भगवद्वाक्यमिति ब्रूमः। तत्र च परस्य प्रतिकूलं नाचरतीति तु वाक्यशेष इति। एवं च अहिंसकत्वमनेन श्लोकेन योगिनः परमसाधनमित्युक्तम्। तस्य चाहिंसकत्वस्य सर्वत्रात्मौपम्येन सुखदुःखसमदर्शनं कारणमिति च। अत एव ‘य एवमहिंसक’ इति भाष्यकारैरहिंसकत्वमेवानूदितम्। न केवलमहिंसकत्वमात्रमेव योगिन उत्कर्षावहम् , स्वैराचरणस्याप्रतिबन्धकत्वकथनात् परपीडनस्य योगिनः सम्यग्दर्शनं प्रत्यप्रतिबन्धकत्वप्रसक्तावुक्तम्— किञ्चेति। अन्यदपि किञ्चिदुच्यते परमयोगिनो निर्देशद्वारा योगमाहात्म्यमित्यर्थः। उपमैव औपम्यम् , आत्मा च तदौपम्यं च, तेन सर्वभूतेषु यः समं पश्यतीत्युक्तम्२। तदेव समदर्शनं प्रश्नपूर्वकं विवृणोति— किमित्यादिना। विकल्पार्थत्वं वारयति— वाशब्द इति। उपदर्शितसम- दर्शनफलमभिलपति— न कस्यचिदिति। किमपेक्षया तस्य परमत्वम्? तत्राह— सर्वेति॥३२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्चान्यत्— आत्मेति। आत्मौपम्येन आत्मा स्वयमेवोपमीयते अनया इत्युपमा, तस्या उपमाया भावः१ औपम्यम् , तेनात्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति योऽर्जुन ! स च किं समं पश्यतीत्युच्यते— यथा मम सुखमिष्टं तथा सर्वप्राणिनां सुखमनुकूलम्। वाशब्दः चार्थे। यदि वा यच्च दुःखं मम प्रतिकूलमनिष्टं यथा तथा सर्वप्राणिनां दुःखमनिष्टं प्रतिकूलम् इत्येवमात्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित् प्रतिकूलमाचरति, अहिंसक इत्यर्थः। य एवमहिंसकः सम्यग्दर्शननिष्ठः स योगी परम उत्कृष्टो मतः अभिप्रेतः सर्वयोगिनां मध्ये॥३२॥

१. टीकानुसारेण तु स्वार्थे ष्यञिति ज्ञायते। २. ‘पश्यतीत्युक्ते तदेव’ इति पा.।

[[अ. ६. श्लो. ३१-३२]] [[३४६]]

किन्तु सम्यग्दर्शनपूर्वकं तत्। अन्यथा अज्ञोऽप्यहिंसक उत्कृष्टः स्यादित्याह— सम्यग्दर्शननिष्ठ इति। ब्रह्मात्मैकत्वदर्शननिष्ठ इत्यर्थः। एतेन ब्रह्मात्मैकत्वदर्शनसम्पन्नस्यापि योगिनो भूतदया आवश्यकीति सूचितम्। यत्तु रामानुजः— परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थ इति, तत्तुच्छम् ; अर्थस्य साधुत्वेऽपि एतदर्थबोधकशब्दाभावान्मूले। आत्मन एव मूले उपमात्वेन ग्रहणात्। परपुत्रजन्ममरणादिनाऽपि स्वस्य सम्बन्धो नास्तीत्येतदंशस्य दुर्वचत्वात्। परस्य शत्रोः पुत्रजन्मना तन्मरणेन च स्वस्य वैमनस्यसन्तोषरूपविकारदर्शनात् , परस्य स्वेतरस्य २भावादेः पुत्रजन्मतन्मरणाभ्यां स्वस्य सुखदुःखविकारदर्शनाच्च, तेन च विकारदर्शनेन तत्सम्बन्धस्यानुमीयमानत्वात्। न हि सम्बन्धं विना कार्योदयः। शत्रुपुत्रजन्ममरणादिवत् स्वपुत्रजन्ममरणादिकं द्रष्टव्यमित्यनेन स्वपुत्रजन्ममरणयोरपि दुःखसुखयोः कर्तव्यत्वापत्तेः। स्वबन्धुपुत्रजन्ममरणादिवदिति स्वीकारे ३उपदेशानर्थक्यापत्तेः। अज्ञोऽपि हि स्वबन्धुपुत्रोदयादाविव स्वपुत्रोदयादौ सुखादिकं भजत्येव। तस्मान्नात्र स्वपुत्रजन्ममरणादेः परपुत्रजन्ममरणादिसाम्यमनेनोच्यत इति वक्तुं शक्यते। न च - परोऽत्र शत्रुमित्राभ्यामन्य उदासीनः, तत्पुत्रजन्मतन्मरणादिना न स्वस्य कोऽपि विकार इति - वाच्यम् , सर्वसमस्य भूतदयादिशालिनः पुरुषस्य परपुत्रमरणस्यापि दुःखावहत्वात्। अन्यथा नैर्घृण्यस्यापि गुणत्वापत्तेः। तस्मात् स्वस्य यथा पुत्रजन्म सुखम् , तन्मरणं च दुःखम् , तद्वत् परस्यापीति बुद्ध्वा यः परस्य पुत्रद्रोहाद्यनिष्टं नाचरति, स योगी परम इत्येव श्लोकार्थः॥३२॥

य इति। साम्येन समत्वेनोपलक्षित इति शेषः। सर्वत्र समदर्शनरूपो योग इत्यर्थः। चञ्चलत्वादिति। कस्येत्यत आह— मनस इति। मनसश्चञ्चलत्वादेतस्य स्थिरां स्थितिमहं न पश्यामीत्यन्वयः॥३३॥

चञ्चलमिति। हिः प्रसिद्धौ। विलेखनं छेदनम्। कर्षति भिनत्ति भक्तपापादिदोषमिति कृष्णः आत्मा, आत्मचिन्तनाद्धि सर्वपापक्षयः। ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः। तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते॥’ इति निरुक्त्यन्तरम्। भवतीति भूः। भू सत्तायाम्। परमानन्दसद्रूप इत्यर्थः। सच्चिदानन्दरूपत्वादात्मन इति भावः। भाष्यार्कप्रकाशः अर्जुन उवाच— योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन !। एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥३३॥

चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद् दृढम्। १. ‘समदर्शनलक्षणस्य’ रा.पा.। २. ‘भावो विद्वान्’ इत्यमरः। यद्वा आन्ध्रभाषानुरोधेनायं शब्दः प्रयुक्तः स्यात्। ३. उपदेशं विनैव सिद्धत्वादिति भावः। एतस्य यथोक्तस्य १सम्यग्दर्शनलक्षणस्य योगस्य दुःखसम्पाद्यतामालक्ष्य, शुश्रूषुः ध्रुवं तत्प्राप्त्युपायम् , अर्जुन उवाच— योऽयमिति। योऽयं योगस्त्वया प्रोक्तः साम्येन समत्वेन, हे मधुसूदन ! एतस्य योगस्य अहं न पश्यामि नोपलभे चञ्चलत्वान्मनसः। किम् ? स्थिराम् अचलां स्थितिम् ॥३३॥

प्रसिद्धमेतत्— चञ्चलमिति। चञ्चलं हि मनः। कृष्णेति कृषतेर्विलेखनार्थस्य रूपम् , भक्तजनपापादिदोष- आनन्दगिरिकृतव्याख्या मनश्चञ्चलमस्थिरमित्युपश्रुत्य निर्विशेषे चित्तस्थैर्यं दुःशकमिति मन्वानः तदुपायबुभुत्सया पृच्छतीति प्रश्नमुत्थापयति— एतस्येति। तत्प्राप्त्युपायं शुश्रूषुरिति सम्बन्धः॥३३॥

मनसश्चञ्चलत्वेऽपि तन्निग्रहद्वारा योगस्थैर्यं सम्पाद्यतामित्याशङ्क्याह— प्रसिद्धमिति। कृष्णपदपरिनिष्पत्तिप्रकारं सूचयति— कृष्णेतीति। कथं कर्षकत्वमाप्तकामस्य भगवतः सम्भवतीत्याशङ्क्याह— भक्तेति। ऐहिकामुष्मिकसर्वसम्पदामाकर्षणशीलत्वाच्चेति

[[३४७]]

१तन्तुनाभ ऊर्णनाभः कीटविशेषः; स हि तन्तून् यथा अविच्छेदेन सृजति वयति, दृढं कीटान्तरांस्तत्र बध्नाति, तद्वन्मनोऽपि सङ्कल्पविकल्पादीनविच्छेदेन सृजति, तैः पुरुषं बध्नाति च दृढमिति भावः। एतेन दृढमित्यस्य दृढबन्धकमित्यर्थः सिद्धः। ‘तन्तुनाग’ इति पाठे वरुणपाशाख्यस्तोयचरः पदार्थस्तन्तुनागः।स ह्यतिदृढत्वादच्छेद्य इति बोध्यम्। वायोरिवेत्यत्रत्यस्य इवशब्दस्य औपम्यवाचित्वमयुक्तम् , उत्कृष्टस्य मनस अपकृष्टेन वायुना औपम्यायोगात्। उपमानस्य हि चन्द्रादेरुत्कृष्टतया भाव्यं मुखादेरुपमेयात्। वेगवत्तादिषु मनसो वाय्वपेक्षया उत्कृष्टत्वं प्रसिद्धम्। तस्माद् अव्ययानामनेकार्थत्वाद् इवशब्दस्यात्र अप्यर्थकत्वमित्यभिप्रेत्याह— वायोरपीति। सुष्ठु दुष्करः सुदुष्करः, तं सुदुष्करम्। हे कृष्ण! मनः चञ्चलं प्रमाथि बलवद् दृढं च भवति। अहं वायोरिव तस्य निग्रहं सुदुष्करं मन्ये इत्यन्वयः। दुःखेन कर्तुं शक्यो दुष्करः; कर्तुमशक्य इत्यर्थः। ईष(द्व)दिति खर् [खल्]२॥३४॥

असंशयमिति। असंशयमित्यर्थाभावेऽव्ययीभाव इत्यभिप्रेत्याह— नास्ति संशय इति। कुत्रासंशयम्? अत आह— मनो दुर्निग्रहं चलमित्यत्रेति। त्वदुक्तार्थे न कश्चित् संशयः; चञ्चलं हि मन इति त्वदुक्तार्थः सत्य एवेत्यर्थः। तुशब्दार्थमाह— किं त्विति। कस्यां चिच्चित्तभूमौ चित्तस्य समानप्रत्ययावृत्तिरभ्यासः; चित्तस्य भूमिः स्थलम् , विषय इति यावत्। विष्णुमूर्त्यादिरूप इति भावः। समानप्रत्ययाः एकाकारज्ञानानि, तेषामावृत्तिः; यथा प्रणवोपासकानां प्रणवश्चित्तभूमिः। ॐ ब्रह्म, प्रणवो ब्रह्मेति वा असकृच्चिन्तनं समानप्रत्ययावृत्तिः। यथा वा विष्णुमूर्त्युपासकानां विष्णुमूर्तिश्चित्तभूमिः, तद्विषयाः समानप्रत्ययाः विष्णुमूर्तिर्ब्रह्म, विष्णुमूर्तिर्ब्रह्म द्रष्टव्यम्। प्रमथ्नाति क्षोभयति। तदेव क्षोभकत्वं प्रकटयति— विक्षिपतीति। दुर्निवारत्वम् अभिप्रेताद् विषयादाक्रष्टुमशक्यत्वम्। विशेषणान्तरमाह— किञ्चेति। अच्छेद्यत्वं विशेषणान्तरमाह— किञ्च दृढमिति। तन्तुनागो वरुणपाशशब्दितो जलचारी पदार्थोऽत्यन्त- दृढतया छेत्तुमशक्यत्वेन प्रसिद्धो विवक्षितः। वायोरित्युक्तं व्यनक्ति— यथेति॥३४॥

प्रश्नमङ्गीकृत्य प्रतिवचनमुत्थापयति— श्रीभगवानिति। कुत्र संशयराहित्यम्? तत्राह— मन इति। कथं तर्हि मनोनिरोधो भवति? तत्राह— किन्त्विति। अभ्यासस्वरूपं सामान्येन निदर्शयति— अभ्यासो नामेति। कस्यांचित् चित्तभूमावित्यविशेषितो ध्येयो विषयो निर्दिश्यते। समानप्रत्ययावृत्तिः विजातीयप्रत्ययानन्तरितेति शेषः। चित्तस्येति षष्ठी प्रत्ययस्य तद्विकारत्वद्योतनार्था।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कर्षणात् कृष्णः। तस्य संबुद्धिः - हे कृष्ण ! हि यस्मात् मनः चञ्चलम् , न केवलमत्यर्थं चञ्चलम् , प्रमाथि च प्रमथनशीलं प्रमथ्नाति शरीरमिन्द्रियाणि च विक्षिपति, परवशीकरोति। किञ्च बलवत् प्रबलम् , न केनचिन्नियन्तुं शक् यम् , दुर्निवारत्वात्। किञ्च दृढं तन्तुनागवदच्छेद्यम् , तस्य एवम्भूतस्य मनसोऽहं निग्रहं निरोधं मन्ये वायोरिव, यथा वायोर्दुष्करो निग्रहः, ततोऽपि मनसो दुष्करं मन्ये इत्यभिप्रायः॥३४॥

श्रीभगवानुवाच - एवमेतद् यथा ब्रवीषि— असंशयमिति। असंशयं नास्ति संशयो मनो दुर्निग्रहं चलमित्यत्र हे महाबाहो ! किं तु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्यांचित् समानप्रत्ययावृत्तिश्चित्तस्य। वैराग्येण वैराग्यं तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥३४॥

श्रीभगवानुवाच— असंशयं महाबाहो ! मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते॥३५॥

१. भाष्ये ‘तन्तुनाभवत्’ इति रा.पा.। २. ‘ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ (पा.सू.३-३-१२६) इति सूत्रेण खल् प्रत्ययः। अ. ६. श्लो. ३३-३५ ] आक

[[३४८]]

इत्याकारकाः, तेषामावृत्तिः। यथा वा आत्मोपासकानामात्मा चित्तभूमिः। तद्विषयाश्चित्तस्य समानप्रत्ययाः अहं ब्रह्मास्मि, अहं ब्रह्मास्मीत्येवंरूपा बुद्धिवृत्तयः, तेषामावृत्तिरिति। दोषाः क्षयिष्णुत्वसातिशयत्वदुःखोदर्कत्वादयः, तेषां दर्शनाभ्यासाद् असकृद्दर्शनादि- त्यर्थः। जातमिति शेषः। वैतृष्ण्यं विगता तृष्णा विषयाभिलाषो यस्य स वितृष्णः तद्भावो वैतृष्ण्यम् , तृष्णाऽभाव इत्यर्थः। गृह्यते। किं गृह्यते? अत आह— चित्तस्य प्रचार इति। चित्तप्रचारस्याकारमाह— विक्षेपरूप इति। विक्षेपश्चलनं; विषयेषु प्रवृत्तिरित्यर्थः। विषयसङ्कल्पविकल्पादिरूपा क्रियेति यावत्। चित्तविक्षेपनिरोधे सति चित्तनिरोधो जातप्राय इत्याह— एवं तन्मनो गृह्यत इति। तन्मनः चञ्चलं मन इत्यर्थः। हे महाबाहो! चलं मनो दुर्निग्रहमित्यसंशयम्। तु , तदिति शेषः। हे कौन्तेय! अभ्यासेन वैराग्येण च गृह्यते, पुरुषेणेति शेषः। चञ्चलमपि मनः अभ्यासवैराग्याभ्यां साधनाभ्यां चित्तविक्षेपनिरोधद्वारा पुरुषेण निरुद्धं भवतीत्यर्थः। सङ्कल्पविकल्पादिक्रियास्वभावस्य मनसः सहसा निर्व्यापारीकरणस्याशक्यत्वात् प्रणवाद्यालम्बनचिन्तनात्मकक्रियायां तन्मनः प्रवर्त्य विषयदोषदृष्ट्या विषयचिन्तनाद् निवर्त्य च शनैःशनैः स्वाधीनं कुर्यात् स्वभावदुष्टं वाजिनमिव कुशल इत्यभिप्रायः॥३५॥

असंयतेति। असंयतोऽनियतः; अस्वाधीन इत्यर्थः। दुःखेन प्राप्तुं शक्यो दुष्प्रापः, प्राप्तुमशक्य इत्यर्थः। मे मतिः मम मतम्। भूयोऽपीति। इतः प्राक् मनसः स्वायत्तीकरणे प्रयत्नस्य कृतत्वाद् भूयोऽपीत्युक्तम्। अनेन जितेऽपि मनसि न विश्वासः कर्तव्यः, किन्तु सर्वदापि तज्जय एव कृतावधानेन भवितव्यम् , अन्यथा स्वाभाविकदोषस्य पुनरप्यापातप्रसङ्गान्मनस इति सूचितम्। उपायः साधनानुष्ठानम्। तच्चोक्तं निश्चयानिर्वेदसमदर्शनादिकम्॥३६॥

वैराग्यस्वरूपं निरूपयति— वैराग्यमिति। तेषु वैतृष्ण्यं वैराग्यं नामेति सम्बन्धः। तत्र हेतुं सूचयति— दोषेति। विषयेषु तृष्णाविषयेषु दोषदर्शनमभ्यस्यते। तेन वैतृष्ण्यं जायते। निगृह्यमाणं निर्दिशति— विक्षेपेति। तस्मिन्१ गृहीते निरुद्धे । मनोनिरोधेऽस्य किं स्यादित्यपेक्षायामाह—एवमिति। अभ्यासहेतुकवैराग्यद्वारा चित्तप्रचारनिरोधे निरुद्धवृत्तिकं मनो विषयविमुखमन्तर्निष्ठं भवतीत्यर्थः ॥३५॥ संयतात्मनो योगप्राप्तिः सुलभेत्युक्त्वा व्यतिरेकं दर्शयति— यः पुनरिति। व्यतिरेकोपन्यासपरं पूर्वार्धमनूद्य व्याकरोति— असंयतेति। पूर्वोक्तान्वयव्याख्यानपरमुत्तरार्धं व्याचष्टे— यस्त्वित्यादिना। अन्तःकरणस्य स्ववशत्वे सिद्धेऽपि वैराग्यादावास्थावता भवितव्यमित्याह— यततेति। उपायो वैराग्यादिपूर्वको मनोनिरोधः॥३६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासाद् वैतृष्ण्यम् , तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारश्चित्तस्य। एवं तन्मनो गृह्यते निगृह्यते, निरुध्यत इत्यर्थः॥३५॥

यः पुनरसंयतात्मा, तेन— असंयतात्मनेति। असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःखेन प्राप्यत इति मे मतिः। यस्तु पुनर्वश्यात्मा अभ्यासवैराग्याभ्यां वश्यत्वमापादित आत्मा मनो यस्य सोऽयं वश्यात्मा, तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्योऽवाप्तुं योगः उपायतो यथोक्तादुपायात्॥३६॥

असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥३६॥

१. तस्मिन् चित्तप्रचारे निरुद्धे मनोनिरोधः भवतीति शेषः।

[[३४९]]

तत्र योगाभ्यासाङ्गीकरणेन १इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि; योगसिद्धिफलं च मोक्ष- साधनं सम्यग्दर्शनं न प्राप्तमिति, योगी योगमार्गाद् मरणकाले चलितचित्त इति तस्य नाशमाशङ्क्यार्जुन उवाच— अयतिरिति। अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या चोपेतो योगाद् अन्तकाले(ऽपि)च चलितं मानसं मनो यस्य स चलितमानसो भ्रष्टस्मृतिः, सोऽप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनम् , कां गतिं, हे कृष्ण ! गच्छति?॥३७॥

कच्चिदिति। कच्चित् किं नोभयविभ्रष्टः कर्ममार्गाद् योगमार्गाच्च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति, किंवा न अयतिरिति। योगाभ्यासकरणेनेति। असंन्यासिनो योगमार्गानधिकारादिति भावः। योगमार्गाद् ध्यानमार्गात्। मरणकाल इति। तदानीं कफवातदोषवशादिति भावः। चलितं विक्षिप्तं चित्तं यस्य सः। न हि म्रियमाणस्य चित्तसमाधानं सुकरमिति भावः। नाशमिति। कर्मतत्फलसंन्यासादैहिकामुष्मिकभोगभ्रंशः, योगस्य चासमाप्तत्वान्मोक्षाद् भ्रंश इत्युभयभ्रंशरूपो नाश इति भावः। गृहस्थस्य कर्मफलभ्रंशरूपनाशासम्भवात् , मोक्षभ्रंशमात्रेण नाशस्य दुर्वचत्वान्नायं गृहस्थविषयः प्रश्नः, किन्तु संन्यासिविषय एवेति प्रागेव व्यवस्थापितमाचार्यैः। अयतिः श्रद्धयोपेतः योगाच्चलितमानसः संन्यासीति शेषः, प्रकरणात्। योगसंसिद्धिमप्राप्य हे कृष्ण! कां गतिं गच्छति। यतत इति यतिः, न यतिरयतिः अयतमानः। यावदर्थमाह— अप्रयत्नवानिति। यद्वा गतिरितिवद् यतिरिति भावप्रत्ययान्तः। न विद्यते यतिः प्रयत्नो यस्य सोऽयतिः अप्रयत्नः। प्रयत्नोऽस्यास्तीति प्रयत्नवान् स न भवतीत्यप्रयत्नवानिति भाष्ये विग्रहः। आफलोदयं प्रयत्नरहित इत्यर्थः। सुतरामप्रयत्नत्वे योगाच्चलितमानस इति वक्तुमयुक्तत्वात्। श्रद्धाऽत्र योगमार्गविषयिण्येव प्रकरणादित्याह— योगमार्ग इति। विषयसप्तमी। आस्तिक्यबुद्धिः अस्ति दिष्टम् (इति) मतिर्यस्य स आस्तिकः, तद्भाव आस्तिक्यं तद्बुद्धिः। योगप्राप्यमोक्षादौ अस्तित्वबुद्धिरित्यर्थः। गम्यते प्राप्यत इति गतिः। भ्रष्टेनानेन किं प्राप्यत इत्यर्थः॥३७॥

कच्चिदिति। हे महाबाहो! पूर्वश्लोकोक्तो योगी अप्रतिष्ठः, ब्रह्मणः पथि विमूढःसन् , अत एव उभयभ्रष्टःसन् , छिन्नाभ्रमिव न प्रश्नान्तरमुत्थापयति— तत्रेत्यादिना। मनोनिरोधस्य दुःखसाध्यत्वमाशङ्क्य परिहृते सति प्रष्टा पुनरवकाशं प्रतिलभ्योवाचेति सम्बन्धः। लोकद्वयप्रापककर्मसम्भवे कुतो योगिनो नाशाशङ्केत्याशङ्क्याह— योगाभ्यासेति। तथापि योगानुष्ठानपरिपाकपरिप्रापितसम्य- ग्दर्शनसामर्थ्यान्मोक्षोपपत्तौ कुतस्तस्य नाशाशङ्केति चेद्? मैवम् ; अनेकान्तरायवत्त्वाद् योगस्येह जन्मनि प्रायेण संसिद्धेरसिद्धिरि- त्यभिसन्धायाह— योगसिद्धीति। अभ्युदयनिःश्रेयसबहिर्भावो नाशः। योगमार्गे तत्फलस्य सम्यग्दर्शनस्यादर्शनादिति शेषः। तर्हि ततो बहिर्मुखत्वमेवात्यन्तिकं संवृत्तमित्याशङ्क्याह— श्रद्धयेति। तर्हि योगमार्गमाश्रयते, नेत्याह— योगादिति। मरणकाले व्याकुलेन्द्रियस्य ज्ञानसाधनानुष्ठानावकाशाभावाद् युक्तं ततश्चलितमानसत्वमित्याशङ्क्याह— भ्रष्टेति। गम्यत इति गतिः पुरुषार्थः। सामान्यप्रश्नमन्तर्भाव्य विशेषप्रश्नो द्रष्टव्यः॥३७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘परलोकेहलोक’ इति पा.। अर्जुन उवाच— अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण ! गच्छति॥३७॥

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।

[[अ. ६. श्लो. ३५-३८]] [[३५०]]

नश्यति अप्रतिष्ठो निराश्रयो हे महाबाहो ! विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे॥३८॥

एतदिति। १एतन्मे मम संशयं कृष्ण! छेत्तुम् अपनेतुम् अर्हस्यशेषतः। त्वदन्यः त्वत्तोऽन्य ऋषिर्देवो वा छेत्ता नाशयिता संशयस्यास्य न हि यस्माद् उपपद्यते न सम्भवति, अतस्त्वमेव छेत्तुमर्हसीत्यर्थः॥३९॥

नश्यति कच्चित्? संन्यासस्वीकारात् कर्ममार्गभ्रंशः, योगस्यासमाप्तत्वाद् योगमार्गाद् भ्रंश इत्युभयभ्रंशवान् उभयभ्रष्टः। छिन्नाभ्रं वायुना विशकलितो मेघः। तद्धि निराश्रयं गगन एव नश्यति, न तु पर्वतादिकं स्वस्थानं प्राप्नोति, नापि समुद्रं गम्यस्थानम् , किन्तु मध्य एव नश्यति, अत उभयभ्रष्टमेव तत्। स्वस्थानत्यागाद् गन्तव्यस्थानाप्राप्तेश्च; तद्वदयमपीति भावः। असङ्गस्य ब्रह्मणः कथं मार्गसङ्गित्वम्? अत आह— ब्रह्मप्राप्तिमार्ग इति। मोक्षमार्ग इत्यर्थः। अभ्युदयमार्गं विहाय मोक्षमार्गं प्रविष्टः कालाद्यभावात् तत्र निरालम्बनं विमोहं च प्राप्तःसन्नयं योगी न नश्यति किमित्यर्थः। नश्यति किमिति प्रष्टव्ये न नश्यति किमिति प्रश्नः तादृशयोगिनो नाशाभावः स्वस्येष्ट इति सूचयितुम्। छिन्नाभ्रमिवेति तु व्यतिरेकदृष्टान्तः। यथा छिन्नाभ्रं नश्यति, तथाऽयं न नश्यति किमिति। अत्र छिन्नाभ्रं पूर्वस्माद् बृहतो मेघाच्छिन्नः शकलः। परं बृहन्मेघमप्राप्य पूर्वं बृहन्मेघं च त्यक्त्वा मध्ये यथा नश्यति, तद्वदिति केचित्। यत्तु रामानुजः— यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्यप्रतिष्ठः। प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात् पथः प्रच्युतः, अत उभयभ्रष्ट इति, तत्तुच्छम् ; स्वर्गादिसाधनभूतस्यापि फलाभिसन्धिरहितस्यानुष्ठितस्य कर्मणः चित्तशुद्धिदुरितक्षयादिरूपमहाफलसत्त्वात् , ईश्वरार्थमनुष्ठितस्यापि कर्मणो महाफलसत्त्वात् , स्वर्गाद्यसाधननित्यकर्मफलसत्त्वाच्च न गृहस्थस्य योगमार्गाश्रयणमात्रेण कर्मपथभ्रंशः। तस्मान्न गृहस्थं प्रत्युभयभ्रष्टप्रश्नोपपत्तिः। प्रतिपादितं चैतदध्यायारम्भ एव श्रीमच्छङ्करभगवत्पादाचार्यैः॥३८॥

एतमिति। एतं पूर्वोक्तं संन्यासिनोऽप्रतिष्ठितयोगस्योभयभ्रष्टत्वप्रयुक्तनाशसत्त्वासत्त्वरूपमित्यर्थः। ईश्वरादन्यत्वं द्विपात्पश्वादि- ष्वप्यस्ति, परन्तु तेषु दर्शितसंशयच्छेदनसामर्थ्यशङ्काया एवासम्भव इत्यभिप्रेत्याह— ऋषिर्देवो वेति। ऋषिः मन्त्रद्रष्टा वसिष्ठादिः। देवो ब्रह्मादिः। सामान्यतःसंशयच्छेदनसामर्थ्यशाल्यपि ऋषिर्देवो वा नास्य संशयस्य छेदने प्रभवतीति मन्येऽहमित्यर्थः। अत इति। प्रश्नमेव विवृणोति— कच्चिदिति। प्रशस्तप्रश्नार्थत्वं कच्चिदित्यस्याङ्गीकृत्य व्याचष्टे— किमिति। उभयविभ्रष्टत्वं स्पष्टयति— कर्मेत्यादिना। वायुना छिन्नं विशकलितमभ्रं यथा नश्यति, तद्वदित्याह— छिन्नेति। नाशाशङ्कानिमित्तमाह— निराश्रय इति। कर्ममार्गरूपावष्टम्भाभावेऽपि ज्ञानमार्गावष्टम्भस्तस्य भविष्यतीत्याशङ्क्याह— विमूढः सन्निति। न हि कर्मिणं प्रतीयमाशङ्का युक्ता, फलाभिलाषं त्यक्त्वेश्वरे समर्प्यासमर्प्य वा कर्मानुतिष्ठतो निरुपचारेण तद्भ्रंशवचनासम्भवात्। सर्वकर्मसंन्यासिनस्तु विहितानां त्यागाज्ज्ञानोपायाच्च विच्युतेरनर्थप्राप्तिशङ्का युक्तेति भावः॥३८॥

यथोपदर्शितसंशयापकरणार्थमर्जुनो भगवन्तं प्रेरयन्नाह— एतदिति। मत्तोऽन्यः कश्चिद् ऋषिर्वा देवो वा त्वदीयं संशयं छेत्स्यतीत्याशङ्क्याह— त्वदन्य इति। अन्यस्य संशयच्छेत्तुरभावे फलितमाह— अत इति॥३९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अप्रतिष्ठो महाबाहो ! विमूढो ब्रह्मणः पथि॥३८॥

एतन्मे संशयं कृष्ण ! छेत्तुमर्हस्यशेषतः। त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते॥३९॥

१. ‘एतं’ इति मूले , भाष्ये च रा.पा.।

[[३५१]]

पार्थेति। हे पार्थ! नैवेह लोके, नामुत्र परस्मिन् वा लोके विनाशस्तस्य विद्यते नास्ति। नाशो नाम पूर्वस्माद् हीनजन्मप्राप्तिः। स योगभ्रष्टस्य नास्ति। न हि यस्मात् कल्याणकृच्छुभकृत् कश्चिद् दुर्गतिं कुत्सितां गतिम्— हे तात! तनोत्यात्मानं पुत्ररूपेणेति पिता तात उच्यते; पितैव पुत्र इति पुत्रोऽपि तात उच्यते; शिष्योऽपि १पुत्रतुल्यः उच्यते; —२गच्छति ॥४०॥

किं त्वस्य भवति?— प्राप्येति। योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् यस्मादन्यः प्रकृतसंशयच्छेत्ता नास्ति तस्मादित्यर्थः। तवैव सर्वज्ञत्वादिति भावः॥३९॥

पार्थेति। ऐहलौकिकतिर्यगादिहीनजन्मप्राप्तिरूपः, पारलौकिकनारक्यादिहीनजन्मप्राप्तिरूपो वा नाशो नास्ति योगभ्रष्टस्ये- त्यर्थः। कल्याणकृतो दुर्गतिप्राप्त्यसम्भवः सर्वविदित एव। योगो हि परं कल्याणम्। तस्माद् योगकृतो नास्ति दुर्गतिप्राप्तिरिति द्वितीयवाक्यार्थः। हे तात ! हे शिष्य ! कथं शिष्ये तातशब्दप्रयोगः? अत आह— तनोतीत्यादि। आत्मानं पुत्ररूपेण तनोति विस्तारयति, उत्पादयतीति यावत् , तातः। ‘अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे’ इति श्रुतेः पितृभुक्तान्नपरिणामरूपवीर्यमयत्वाच्च पुत्रस्य। न च कथमात्मनो जन्यत्वं जनकत्वं वेति वाच्यम् , पितृदेहात् पुत्रदेहो जायत इति कार्यकारणसङ्घातरूपयोरेव पितृपुत्रयोरिह ग्रहणात्। एवं पितुस्तातशब्दवाच्यत्वमुत्पाद्य[वाच्यत्वं व्युत्पाद्य] पुत्रस्यापि तद् व्युत्पादयति— पितैवेति। ‘आत्मा वै पुत्रनामासी’ति श्रुतेरिति भावः। अथ शिष्यस्य तत्त्वं प्रतिपादयति— शिष्योऽपीति। ‘वंशो द्वेधा विद्यया जन्मना चे’ति शास्त्रात् पिता पुत्रं जन्मना जनयति; आचार्यस्तु शिष्यं विद्यया जनयति। तथा च विद्यया जन्यजनकभावः शिष्याचार्ययोरस्तीति गुरुः पिता, शिष्यस्तु पुत्रः। दर्शितरीत्या यथा पुत्रस्तातः, तथा शिष्योऽपि तात एवेत्यभिप्रेत्याह— शिष्योऽपि पुत्रवदिति। अपुत्रोऽपीति। पुत्रसदृशः शिष्यो ऽपीत्यर्थः। नञ(र्थ)स्तत्सादृश्यस्याप्यर्थत्वात्। न च पुत्रादन्योऽपुत्र इति तदन्यत्वमत्र नञर्थ इति वाच्यम् , तथा सति पुत्रादन्यस्य घटस्याप्यपुत्रत्वापत्तेः। न चेष्टापत्तिः, अपुत्रस्य घटस्य तातपदवाच्यत्वापत्तेः। ‘शिष्योऽपि पुत्र उच्यते’ इत्येतावन्मात्रमेव केषुचित् पुस्तकेषु पाठान्तरं दृश्यते॥४०॥

योगिनो नाशाशङ्कां परिहरन्नुत्तरमाह— श्रीभगवानिति। यदुक्तमुभयभ्रष्टो योगी नश्यतीति, तत्राह— पार्थेति। तत्र हेतुमाह— नैवेति। योगिनो मार्गद्वयाद् विभ्रष्टस्यैहिको नाशः शिष्टगर्हालक्षणो न भवतीति श्रद्धादेः सद्भावात्। तथापि कथमामुष्मिकनाशशून्यत्व- मित्याशङ्क्य तद्रूपनिरूपणपूर्वकं तदभावं प्रतिजानीते— नाशो नामेति। तत्र हेतुभागं विभजते— न हीत्यादिना। उभयभ्रष्टस्यापि श्रद्धेन्द्रियसंयमादेः सामिकृतश्रवणादेश्च भावादुपपन्नं शुभकृत्त्वम्। तातेति कथं पुत्रस्थानीयः शिष्यः सम्बोध्यते? पितुरेव तातशब्दत्वादित्याशङ्क्याह— तनोतीति। तेन पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनमविरुद्धमित्यर्थः। न गच्छति कुत्सितां गतिम् , कल्याणकारित्वादिति नाशाभावः॥४०॥

योगभ्रष्टस्य लोकद्वयेऽपि नाशाभावे किं भवतीति पृच्छति— किं त्विति। तत्र श्लोकेनोत्तरमाह— प्राप्येति। कथं संन्यासीति

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

श्रीभगवानुवाच— पार्थ ! नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत् कश्चिद् दुर्गतिं तात ! गच्छति॥४०॥

१. ‘शिष्योऽपि पुत्रवदिति अपुत्रोऽपि तात उच्यते।’ इति रा. पा.। ‘शिष्योऽपि पुत्र उच्यते’ इति पा.। २. ‘यतो न गच्छति’ इति पा.।

[[अ. ६. श्लो. ३८-४०]] [[३५२]]

१. मानुषसंवत्सरापेक्षया ब्राह्मसंवत्सरस्य परिमाणतः आधिक्यं विलक्षणत्वम्। तच्च ‘सहस्रयुगपर्यन्तम्’ (भ.गी. ८-१७) इत्यादिना दर्शितम्। अश्वमेधादियाजिनां लोकान् , तत्र च उषित्वा वासमनुभूय शाश्वतीः नित्याः समाः संवत्सरान् , तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टोऽभिजायते ॥४१॥

अथवेति। अथवा श्रीमतां कुलादन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम्। एतद्धि जन्म यद् दरिद्राणां योगिनां कुले दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष्य, लोके जन्म यदीदृशं यथोक्तविशेषणे प्राप्येति। योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते। कोऽसौ योगभ्रष्टः? अत आह— योगमार्गे प्रवृत्तः संन्यासीति। योगमार्गे प्रवृत्तिं विना ततो भ्रंशायोगात्। असंन्यासिनो योगमार्गेऽधिकाराभावाच्चेति भावः। इदमेव सूचयति— सामर्थ्यादिति। योगभ्रष्टपदग्रहणबलादित्यर्थः। पुण्यम् अश्वमेधयागादिरूपं धर्मं कृतवन्त इति पुण्यकृतः। पुण्यं कुर्वन्तीति तु [न] विग्रहः। तेषां लोकानिति। यान् लोकान् ते गच्छन्ति तानित्यर्थः। नित्या इति। अनेका इत्यर्थः। अविनाशित्वरूपनित्यत्वासम्भवात् संवत्सराणाम्। कदा जायते? अत आह— तद्भोगक्षय इति। प्रारब्धक्षयं विना देवादिशरीरपाता- सम्भवादिति भावः। वेदविहितकर्माननुष्ठातृषु शुचित्वासम्भवादाह— यथोक्तकारिणामिति। उक्तमनतिक्रम्य यथोक्तं कर्तुं शीलं येषां ते यथोक्तकारिणः; वेदविहितानुष्ठातार इत्यर्थः; तेषाम्। विभूतिः सम्पत्। अभिजायते अवश्यं जायते॥४१॥

अथवेति। अथवेति पक्षान्तरात् पूर्वं श्रीमत्कुलजन्मपक्षस्योक्तत्वादिदानीं तद्भिन्नदरिद्रकुलजन्मपक्ष उच्यत इत्याह— श्रीमतां कुलादन्यस्मिन्निति। योगिनां कर्मयोगिनां दरिद्राणां कुले वंशे। ननु श्रीमतां कुले जन्मैव श्लाघ्यम् , न तु दरिद्राणां योगिनामिति मन्वानमालक्ष्यार्जुनमाह— एतद्धीति। एतच्छब्दार्थमाह— दरिद्राणां योगिनां कुले जन्मेति। अयोगिनां दरिद्राणां कुले जन्मनः पापहेतुत्वाद् , योगिनामपि धनिकानां कुले जन्मनो मदहेतुत्वाच्च दरिद्राणां योगिनामित्युक्तम्। दुःखेन लब्धुं शक्यं दुर्लभम् ; अतिशयेन दुर्लभं दुर्लभतरम् ; दुःखेनापि लब्धुमशक्यमित्यर्थः। किमपेक्षयेत्यत आह— पूर्वमपेक्ष्येति। शुचीनां श्रीमतां गेहे जन्मापेक्ष्येत्यर्थः। विशेष्यते? तत्राह— सामर्थ्यादिति। कर्मणि व्यापृतस्य कर्मिणो योगमार्गप्रवृत्त्यनुपपत्तेः, तत्प्रवृत्तावपि फलाभिलाषविकलस्येश्वरे समर्पितसर्वकर्मणस्तद्भ्रंशाशङ्कानवकाशादित्यर्थः। समानां नित्यत्वं मानुषसमाविलक्षणत्वम्१। वैराग्याभावविवक्षया विभूतिमतां गृहे जन्मेति विशेष्यते॥४१॥

श्रद्धावैराग्यादिकल्याणाधिक्ये पक्षान्तरमाह— अथवेति। योगिनामिति कर्मिणां ग्रहणं मा भूदिति विशिनष्टि— धीमतामिति। ब्रह्मविद्यावतां शुचीनां दरिद्राणां कुले जन्म दुर्लभादपि दुर्लभम् , प्रमादकारणाभावादित्याह— एतद्धीति। किमपेक्ष्यास्य जन्मनो दुःखलभ्यादपि दुःखलभ्यतरत्वम्? तदाह— पूर्वमिति। यद्यपि विभूतिमतामपि शुचीनां गृहे जन्म दुःखलभ्यम् , तथापि तदपेक्षयेदं जन्म

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

पूर्वमपेक्ष्येति। जिज्ञासुत्वावस्थयोः[स्थायाः] पूर्वमनादौ संसारे बहूनीश्वरसूकरादि[नि श्वसूकरादि]जन्मानि बभूवुः। तदपेक्षया दुर्लभतरमित्यर्थः ॥४२॥

॥इति श्रीमद्भगवद्गीताभाष्यटिप्पणे षष्ठोऽध्यायः॥

प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥४१॥

अथवा योगिनामेव कुले भवति धीमताम्।

[[३५३]]

कुले॥४२॥

यस्मात्— तत्रेति। तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम्। यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृतात् संस्काराद् भूयो बहुतरं संसिद्धौ संसिद्धिनिमित्तम् , हे कुरुनन्दन !॥४३॥

तत्तु शुचीनां श्रीमतां गेहे जन्म दरिद्रयोगिकुलजन्मेतरजन्मापेक्षया उत्कृष्टमेवेति बोध्यम्। यथोक्तविशेषण इति। दरिद्रत्वयोगित्वरूप- विशेषणद्वयविशिष्टे इत्यर्थः। यदीदृशं जन्म तदेतज्जन्म लोके दुर्लभतरं हीत्यन्वयः। हिः प्रसिद्धौ॥४२॥

तत्रेति। दरिद्रयोगिकुलजन्मनः कुतः प्राशस्त्यं श्रीमच्छुचिकुलजन्मापेक्षयेत्यत आह— तत्रेति। ननु दरिद्रयोगिकुले जातस्य योगभ्रष्टस्य पौर्वदेहिकबुद्धिसंयोगलाभः; श्रीमच्छुचिकुले जातस्य तस्यैव तल्लाभो नेति कुत उच्यत इति चेत् , उच्यते— दारिद्र्यानुभवेन पूर्वजन्मार्जितं पापमेव क्षीयते, न तु सुकृतम् , दारिद्र्यानुभवस्यासुकृतफलत्वात् , ‘भिक्षिता शतमखीसुकृतं यत् तत्परिश्रमविदः स्वविभूतौ’ इति श्रीहर्षेण इन्द्रैश्वर्यस्य शतमखीसुकृतजन्यत्वस्योक्तत्वात्। ऐहिकैश्वर्यस्यापि सुकृतपरिपाकरूपत्वस्य ‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’ इत्यनेनैवोक्तत्वात्। तस्माद् यैः सम्पदनुभूयते तैः पूर्वसुकृतक्षय एव सम्पाद्यते। अत एव ‘पूर्वपुण्यविभवव्ययलब्धाः सम्पदो विपद एव विमृष्टाः’ इति श्रीहर्षः सम्पदां पूर्वपुण्यक्षयकारित्वेन विपद्रूपत्व- मेवावोचत्। तदेवं सम्पदनुभवेन पूर्वार्जितयोगसुकृतस्य क्षीणत्वान्नास्ति श्रीमच्छुचिकुलजातस्य पौर्वदैहिकबुद्धिसंयोगलाभः। दरिद्रयोगिकुलजातस्य तु दारिद्र्यानुभवेन योगसुकृतस्याक्षीणत्वात् तद्बलेन पौर्वदैहिकबुद्धिसंयोगलाभः। तस्माद् यस्य योगसुकृतं सम्पदनुभवेन क्षीणम् , सोऽपकृष्ट एव दरिद्रयोगिकुलजातापेक्षया, अस्य योगसुकृताङ्कुरस्याक्षीणस्य पुनः प्रयत्नेनाभिवृद्धिं ३गमिष्य- माणत्वात्। तस्मात् सम्पदनुभवनाशितयोगाङ्कुराच्छ्रीमच्छुचिकुलजन्मनः दारिद्र्यानुभवानाशितवर्धितयोगाङ्कुरं दरिद्रयोगिकुलजन्मैव परमोत्तमम्। तं पूर्वजन्मसम्पादितं संयोगं सम्बन्धम्। बुद्धिश्चित्तसमाधानरूपो योगः, तद्विषयं ज्ञानं वा। आत्मविषया बुद्धिरिति वा। पौर्वदैहिकम् , अनुशतिकादित्वादुभयपदवृद्धिः। संसिद्धाविति विषयसप्तमी। संसिद्धिर्मोक्षः, सम्यग्दर्शनं वा॥४३॥

दुःखलभ्यतरं यदीदृशं शुचीनां दरिद्राणां विद्यावतामिति विशेषणोपेते कुले लोके जन्म व[ल]क्ष्यमाणमित्यर्थः॥४२॥

यदुत्तमतरं जन्मोक्तं तस्योत्तमत्वे हेत्वन्तरमाह— यस्मादिति। बुद्ध्येति। आत्मविषययेति शेषः। पूर्वस्मिन् देहे भवं तत्रानुष्ठित- साधनविशेषयुक्तमित्यर्थः। तर्हि यथोक्तजन्मनि साधनानुष्ठानमन्तरेणैव बुद्धिसम्बन्धः स्यादित्याशङ्क्याह— यतते चेति। प्रयत्नः श्रवणाद्यनुष्ठानविषयः२॥४३॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥४२॥

तत्र तं बुद्धिसंयोगं लभते १पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन !॥४३॥

१. ‘पौर्वदैहिकम्’ इति मूले भाष्ये च पा.। २. विवृतमिदं मधुसूदन्याम्—ततः तल्लाभानन्तरं भूयोऽधिकं लब्धायाः भूमेरग्रिमां भूमिं सम्पादयितुं संसिद्धौ संसिद्धिर्मोक्षः, तन्निमित्तं यतते च प्रयत्नं करोति च। यावन्मोक्षं भूमिकां सम्पादयतीत्यर्थः। तत्र च नित्यानित्यवस्तुविवेकपूर्वकादिहामुत्रार्थभोगवैराग्याच्छमदम- श्रद्धातितिक्षासर्वकर्मसंन्यासादिपुरस्सरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका। साधनचतुष्टयसम्पदिति यावत्। ततो गुरुमुपसृत्य वेदान्तवाक्यविचारणात्मिका द्वितीया भूमिका। श्रवणमननसंपदिति यावत्। ततः श्रवणमननपरिनिष्पन्नस्य तत्त्वज्ञानस्य निर्विचिकित्सतारूपा तनुमानसा नाम तृतीया भूमिका। निदिध्यासन- सम्पदिति यावत्। चतुर्थी भूमिका तु तत्त्वसाक्षात्कार एव । पञ्चमषष्ठसप्तमभूमयस्तु जीवन्मुक्तेरवान्तरभेदा इति । ३. आत्मनेपदं चिन्त्यम्।

[[अ. ६. श्लो. ४१-४३]] [[३५४]]

पूर्वेति। अवशोऽपि सः तेनैव पूर्वाभ्यासेन ह्रियते। योगस्य जिज्ञासुरपि शब्दब्रह्मातिवर्तते। सः दरिद्रयोगिकुले जात इत्यर्थः। इदमेवाह— योगभ्रष्ट इति। पूर्वाभ्यासेन ह्रियत इति सामान्यत उक्तांशे विशेषमाह—तेनेति। योगभ्रष्टेनेत्यर्थः। तेन कर्म न कृतं चेदित्यन्वयः। कीदृशं कर्मेत्यत आह— बलवत्तरमिति। किमपेक्षयेत्यत आह— योगाभ्यासेति। किंलक्षणं कर्म, अत आह— अधर्मादीति। आदिपदाद् धर्मग्रहणम्। धर्माधर्मापेक्षया योगसंस्कारो बलवत्तरः स्याच्चेदित्यर्थः। तदेति। तर्हीत्यर्थः। ह्रियत इति योगाभ्यासं प्रति नीयत इत्यर्थः। पुनर्योगमार्गे प्रवर्त्यत इति यावत्। विपक्षे किं भवेदित्यत आह— अधर्मश्चेदिति। धर्मस्याप्युपलक्षणमिदम्। अधर्मादिलक्षणं योगसंस्कारापेक्षया बलवत्तरं कर्म तेन कृतं चेत् तर्हि तेन कर्मणा योगजोऽपि संस्कारोऽभिभूयत एव। न च अधर्मेण बलवत्तरेण योगसंस्कारस्याभिभवोऽस्तु नाम, कुतः पुनर्धर्मेणेति वाच्यम् , अधर्मवद् धर्मस्यापि योगप्रतिबन्धकत्वाभ्युपगमात्। अधर्मजन्यद्वन्द्वरोगादेरिव धर्मजन्यबलसम्पदादेरपि चित्तविक्षेपहेतुत्वेन योगप्रतिबन्धकत्वमिति। न च योगसंस्कारोऽपि धर्मसंस्कार एव, योगस्य धर्मत्वादिति वाच्यम् , ‘अशुक्लकृष्णं कर्म योगिनः, त्रिविधमितरेषाम्’ इति सूत्राच्छुक्ल- कृष्णमिश्रपदवाच्यधर्माधर्मतदुभयात्मककर्मभिन्नमेव योगिनः कर्मादृष्टाख्यमशुक्लकृष्णमिति धर्माधर्मसंस्कारभिन्न एव योगसंस्कारः। ननु अधर्मादिलक्षणकर्मणा योगसंस्कारस्याभिभव इति किम् , नाश इत्येव वक्तव्यम् , अत आह— नेति। दीर्घकालस्थस्यापि तस्य योगसंस्कारस्य नाशो नास्तीत्यन्वयः। कालान्तरेणापि योगसंस्कारः स्वकार्यं योगलक्षणमारभत एव, न तु सर्वात्मना नश्यतीत्यर्थः। तस्मान्न सर्वथा योगसंस्कारस्य वैफल्यमिति भावः। अत इति। सर्वथा योगसंस्कारस्य नाशाभावादित्यर्थः। जिज्ञासुरपीति। न तु ज्ञातयोगस्वरूपोऽपीत्यपेरर्थः। किमुत ज्ञातयोगस्वरूप इति यावत्। शब्दब्रह्म शब्दो वेदः, तद्रूपं ब्रह्म शब्दब्रह्म। लक्षणया वेदोक्तकर्मानुष्ठानफलमित्यर्थः। अतिक्रम्य वर्तते अतिवर्तते। फलितार्थमाह— अपाकरिष्यतीति। निरसिष्यतीत्यर्थः। वेदोक्तकर्मा- नुष्ठानजन्यं फलं तुच्छीकृत्य तद् विहाय महत्तरमेव फलं प्राप्स्यतीति भावः। तन्निष्ठः योगनिष्ठः। जिज्ञासुरपीत्यपिशब्दार्थं स्वयमेव स्फुटीकरोति— किमुतेत्यादिना। यत्तु रामानुजः— शब्दब्रह्म देवमनुष्यादिशब्दप्रतिपाद्यप्रकृतिरिति, तत्तुच्छम् ; ब्रह्मशब्देनैव प्रकृत्यर्थलाभे शब्दपदवैयर्थ्यात्। न च शब्दाभिलापयोगं ब्रह्मैवाभिधीयते प्रकृतिरिति, अन्यत्तु परब्रह्मेति वाच्यम् , परब्रह्मरूपशब्दाभिलापयोग्यब्रह्मत्वस्य परब्रह्मण्यपि यदि पूर्वसंस्कारोऽस्येच्छामुपनयन् २प्रवर्तयति, तथा चाप्रवृत्तिरनिच्छया स्यादित्याशङ्क्याह— पूर्वेति। स हि योगभ्रष्टः समनन्तरजन्मकृतसंस्कारवशाद् उत्तरस्मिञ्जन्मनि अनिच्छन्नपि योगं प्रत्येवाकृष्टो भवतीत्यर्थः। तत्र कैमुतिकन्यायं सूचयति— जिज्ञासुरिति। पूर्वार्धं विभजते— यः पूर्वेति। तस्मान्नेच्छया तस्य प्रवृत्तिरिति शेषः। योगभ्रष्टस्याधर्मादिप्रतिबन्धेऽपि तर्हि पूर्वाभ्यास- वशाद् बुद्धिसम्बन्धः स्यादित्याशङ्क्याह— नेत्यादिना। यदि योगभ्रष्टेन योगाभ्यासजनितसंस्कारप्राबल्यात् प्रबलमधर्मप्रभेदरूपं कर्म न कृतं स्यात् , तदा तेन संस्कारेण वशीकृतः सन्निच्छादिरहितोऽपि बुद्धिसम्बन्धभाग् भवतीत्यर्थः। विपक्षे योगसंस्कारस्याभिभूतत्वाद् न कार्यारम्भकत्वमित्याह—अधर्मश्चेदिति। योगजसंस्कारस्याधर्माभिभूतस्य कार्यमकृत्वैवाभिभावकप्राबल्ये प्रणाशः स्यादित्याशङ्क्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कथं पूर्वदेहबुद्धिसंयोग इति? तदुच्यते— पूर्वेति। यः पूर्वजन्मनि कृतोऽभ्यासः स पूर्वाभ्यासः, तेनैव बलवता ह्रियते १संसिद्धौ, हि यस्माद् अवशोऽपि स योगभ्रष्टः, न कृतं चेद् योगाभ्यासजात् संस्काराद् बलवत्तरमधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते। अधर्मश्चेद् बलवत्तरः कृतस्तेन योगजोऽपि संस्कारोऽभिभूयत एव। पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥४४॥

१. संसिद्धौ इति क्वचिन्न। २. ‘न प्रवर्तयति, तथा च प्रवृत्तिरनिच्छया’ इति पा.।

[[३५५]]

तत्क्षये तु योगजः संस्कारः स्वयमेव कार्यमारभते, न दीर्घकालस्थस्यापि विनाशस्तस्यास्तीत्यर्थः। १जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन्नपि योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः सामर्थ्यात् , सोऽपि शब्दब्रह्म वेदोक्त- कर्मानुष्ठानफलम् अतिवर्तते अतिक्रामति, अपाकरिष्यति; किमुत २बुद्ध् वा यो योगं तन्निष्ठोऽभ्यासं कुर्यात्॥४४॥

सत्त्वात्। न च देवमनुष्यादिशब्दाभिलापयोग्यं ब्रह्मात्र विवक्षितमिति वाच्यम् , देवमनुष्यादिविशेषशब्दाभावान्मूले। किञ्च शब्दशब्दस्य शब्दाभिलापयोग्यार्थलाभोऽपि न लक्षणां विना निर्वोढुं शक्यते। अतोऽस्मन्मत इव तव मतेऽपि लक्षणा स्वीकृतैव। अथ योगं जिज्ञासुना प्रकृतिः कथमतिवर्त्येत? न कथमपि। प्रकृत्यतीतो हि तव मते परमात्मैव, तदधीनत्वात् प्रकृतेः। मुक्ताश्च भगवदनुग्रहादेव मायां तरन्ति, न तु स्वतः, न हि योगं जिज्ञासुः परमात्मा, नापि मुक्तः, किन्तु बद्धजीव एव; कथमस्य प्रकृत्यतिवर्तनम्? न च - स च योगं जिज्ञासुर्योगं ज्ञात्वा योगमनुष्ठाय प्रकृतिमतिवर्तत इत्यभिप्रायाज्जिज्ञासुरित्युक्तमिति - वाच्यम् , जिज्ञासुरपीत्यपिशब्देन ज्ञातयोगयोगानुष्ठातृभ्यां जिज्ञासोः पृथक्करणात् , अन्यथाऽपिशब्दवैयर्थ्यप्रसङ्गात्। अपि च अनुष्ठितयोगस्यापि न योगानुष्ठानमात्रेण प्रकृत्यतिवर्तनम् , किन्तु तज्जन्यसम्यग्दर्शनेनैव। ततश्च ज्ञानिन एव प्रकृत्यतिवृत्तिर्न तु योगिन इति सिद्धे किं पुनर्जिज्ञासितयोगस्येति। यच्चोक्तमत्र ‘ज्ञानानन्दमयस्त्वात्मा शेषोऽस्य परमात्मनः’ इति वेदान्तदेशिकः; तच्च तुच्छम् ; ज्ञानानन्दमय इति मयटः किं प्राचुर्यमर्थः? यद्वा विकारः? अथ वा स्वार्थः? नाद्यः, आनन्दप्राचुर्ये दुःखाल्पत्वप्रतीतेः। न द्वितीयः, निर्विकारत्वादात्मनः, अकार्यत्वाच्च। नान्त्यः, वैयर्थ्यात्। वैलक्षण्यार्थकस्तुशब्दोऽप्ययुक्तः; किमिदं वैलक्षण्यं परमात्मापेक्षया? उत अनात्मापेक्षया? नाद्यः, परमात्मनस्तव मते आनन्दमयत्वाज्ज्ञानस्वरूपत्वाच्च। ‘आनन्दमयोऽभ्यासा’दिति सूत्रे आनन्दमय ईश्वर इति हि त्वयोक्तम्। कथं ज्ञानानन्दमयः परमात्मा तादृशादेवात्मनो भिन्नः स्यात्? अस्मन्मतेऽपि आनन्दरूपत्वादुभयोर्न भेदः। न द्वितीयः, विज्ञानमयानन्दमयकोशयो- रनात्मनोर्ज्ञानानन्दमयादात्मनः वैलक्षण्यस्य दुरुपपादत्वात्। न च विज्ञानमयकोशो जीवः, आनन्दमयकोश ईश्वरश्चेति वाच्यम् , विज्ञानमयमात्मानमुपसङ्क्रम्येति विज्ञानमयस्यानन्दे लयश्रवणात् , जीवस्य नित्यत्वाच्च। एवमानन्दमयस्याप्यानन्दे लयसम्भवेन तस्येश्वरत्वायोगाच्च। कोशवदात्मस्वरूपावरकत्वेन विज्ञानमयस्यानन्दमयस्य च कोशत्वव्यवहारादात्मनश्च कोशान्तरत्वात्। एवं विज्ञानानन्दमयकोशयोरान्तरस्य ज्ञानानन्दरूपस्यात्मनो न परमात्मशेषत्वम् , अनन्यशेषत्वादात्मनः, सर्वं प्रति शेषित्वाच्च। आत्मभिन्नत्वे तु ईश्वरस्याप्यात्मशेषत्वापत्तेः, प्रपञ्चवत्। न हि ज्ञानानन्दरूपादात्मनो भिन्न ईश्वरो ज्ञानानन्दरूपो भवितुमर्हति। तथा सति भेदायोगात्। न च घटाद् घटस्येव मृन्मयान्मृन्मयस्य, ज्ञानानन्दरूपादात्मनो ज्ञानानन्दरूप ईश्वरो भिन्न इति वाच्यम् , घटयोर्भेदं प्रत्याकारभेदस्य प्रयोजकस्य सत्त्वात्। जीवेश्वरयोस्तु ज्ञानैकाकारत्वेन भेदप्रयोजकाकारान्तरासत्त्वात्। न च - स्वरूपतो भेदाभावोऽपि धर्मतः सोऽस्ति; आत्मनः किञ्चिज्ज्ञत्वात् परमात्मनश्च सर्वज्ञत्वादिति - वाच्यम् , किञ्चिज्ज्ञत्वसर्वज्ञत्वयो- रुपाधिधर्मत्वेनात्मधर्मत्वाभावात् , औपाधिकभेदस्य चातात्त्विकत्वात्। तस्मान्नास्त्यात्मनः परमात्माऽन्यः शेषी, किन्त्वात्मैव सर्वस्य तत्क्षये त्विति। कालव्यवधानान्निवृत्तिं शङ्कित्वोक्तम्—नेति। तृणजलायुकादृष्टान्तश्रुत्या संस्कारस्य दीर्घतायाः समधिगतत्वादिति भावः। कैमुतिकन्यायोक्तिपरमुत्तरार्धं विभजते— जिज्ञासुरपीत्यादिना। अत्रापि संन्यासीति विशेषणं पूर्ववदवधेयमित्याह— सामर्थ्यादिति। न हि कर्मी कर्ममार्गे प्रवृत्तस्ततो भ्रष्टः शङ्कितुं शक्यते। अतः संन्यासी पूर्वोक्तैर्विशेषणैर्विशिष्टो योगभ्रष्टोऽभीष्टः। सोऽपि वैदिकं कर्म तत्फलं चातिवर्तते, किमुत योगं बुद्ध्वा तन्निष्ठः सदा अभ्यासं कुर्वन् कर्म तत्फलं चातिवर्तत इति वक्तव्यमिति योजना। योगनिष्ठस्य कर्मतत्फलातिवर्तनं ततोऽधिकफलावाप्तिर्विवक्ष्यते॥४४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘अतो जिज्ञासुरपि’ इति रा. पा.। २. ‘बुद्ध् वा योगं तन्निष्ठोऽभ्यासं कुर्वन्’ इति पा.।

[[अ. ६. श्लो. ४४]] [[३५६]]

शेषी॥४४॥

प्रयत्नादिति। ननु यतमान इत्यनेनैवालम् , कः पुनः प्रयत्नादित्यस्यार्थः, प्रत्युत पुनरुक्तिः? अत आह— अधिकमिति। तत्र योगमार्गे इत्यर्थः। पापस्य सम्यक् शुद्धिर्नामाभावः। तेन संशुद्धं निरस्तमित्यर्थः। संसिद्धः सम्यक् चित्तशुद्धिलक्षणसिद्धिं प्राप्त इत्यर्थः। उपचित्य वर्धयित्वा। यथा अनेकदिनेषु अनेकरूपिकाः सम्पाद्य धनी भवति कुशलस्तद्वदनेकजन्मसु अनेकयोगसंस्कारान् सम्पाद्य तत्समवायेन संसिद्धिं भजते योगीत्यर्थः। ततः संसिद्धिलाभानन्तरं ज्ञानप्राप्तिद्वारा मुक्तो भवतीत्याह— समुत्पन्नेति। परां गतिं मोक्षम्॥४५॥

तपस्विभ्य इति। कथं नित्यमुक्तेभ्यः ज्ञानिभ्यः योगिनः आधिक्यम्? अत आह— ज्ञानमत्र शास्त्रार्थपाण्डित्यमिति। न तु ब्रह्मात्मैक्यज्ञानमित्यर्थः। मुक्तिं प्रति ज्ञानस्य साक्षात्साधनत्वात् , ज्ञानसाधनयोगस्य परम्परासाधनत्वाच्चेति भावः। तस्मादिति। यस्माद् ध्यानयोगी तपस्व्याद्यधिकस्तस्मादित्यर्थः। आधिक्यस्यैव सर्वैराकाङ्क्ष्यमाणत्वादिति भावः। ननु क्षत्रियस्याज्ञस्य ते कर्मयोग एवाधिकार इति ‘कुरु कर्मैव तस्मात्त्वम् , कर्मण्येवाधिकारस्ते’ इत्यादिना भगवता पूर्वमर्जुनं प्रत्युपदिष्टम्। इदानीं तु योगी भवेत्युच्यते। ध्यानयोगश्च संन्यासिन एव, न तु गृहस्थस्येति सिद्धान्तितम्। क्षत्रियस्य नास्ति संन्यासाधिकार इति स्थापितम्। अतः कथमुच्यते योगी भवार्जुनेति चेत्? नैष दोषः; युद्धादिरूपं कर्मयोगमनुष्ठाय, ततः संन्यस्य योगी भवार्जुनेति श्रीकृष्णतात्पर्यात्। न च क्षत्रियस्य संन्यासेऽनधिकार इति वाच्यम् ; शिखायज्ञोपवीतत्यागादिरूपसमन्त्रकमुख्यसंन्यासे क्षत्रियस्यानधिकारेऽपि दारापत्यादिसर्वपरिग्रहपरित्यागरूपामुख्यसंन्यासेऽधिकारोऽस्त्येव, मुचुकुन्दादीनां क्षत्रियाणां सर्वपरिग्रह- परित्यागपूर्वकं कस्मिंश्चिद् विजने देशे ध्यानयोगावस्थितत्वस्य पुराणादिष्ववगमाद् , एतादृशसंन्यासस्यैव क्षत्रियस्य विहितत्वेन विध्यतिक्रमदोषाभावाच्च। न चैवं संन्यासिन एव ध्यानयोगेऽधिकारे कथमसंन्यासिनां वसिष्ठादीनां ध्यानयोगित्वमिति वाच्यम् ; लोकातीतचरितानां तेषामिहोदाहरणस्यायुक्तत्वात्। तत्त्वविदो हि ते यथाप्रारब्धं यथा कथञ्चिद् वर्तन्ते। प्रपञ्चितं चैतदधस्ताद् बहुशः। भाष्यार्कप्रकाशः कुतश्च योगित्वं श्रेय इति— प्रयत्नादिति। प्रयत्नाद् यतमानः अधिकं यतमान इत्यर्थः; तत्र योगी विद्वान् संशुद्धकिल्बिषो १विशुद्धकिल्बिषः संशुद्धपापः अनेकेषु जन्मसु किञ्चित्किञ्चित् संस्कारजातमुपचित्य तेनोपचितेना- नेकजन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः, २ततः समुत्पन्नसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम्॥४५॥

यस्मादेवं तस्मात्— तपस्विभ्य इति। तपस्विभ्योऽधिको योगी, ज्ञानिभ्योऽपि; ज्ञानमत्र शास्त्रार्थपाण्डित्यम् ; प्रयत्नाद् यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥४५॥

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। आनन्दगिरिकृतव्याख्या योगनिष्ठस्य श्रेष्ठत्वे हेत्वन्तरं वक्तुमुत्तरश्लोकमवतारयति— कुतश्चेति। मृदुप्रयत्नोऽपि क्रमेण मोक्ष्यते चेद् अधिकप्रयत्नस्य क्लेशहेतोरकिञ्चित्करत्वमित्याशङ्क्य हेत्वन्तरमेव प्रकटयति— प्रयत्नादिति। तत्र योगविषये प्रयत्नातिरेके सतीत्यर्थः। ततः सञ्चितसंस्कार- समुदायादिति यावत्। समुत्पन्नसम्यग्दर्शनवशात् प्रकृष्टा गतिः संन्यासिना लभ्यते। तेन शीघ्रं मुक्तिमिच्छन्नधिकप्रयत्नो भवेद् , अल्पप्रयत्नस्तु चिरेणैव मुक्तिभागित्यर्थः॥४५॥

सम्यग्ज्ञानद्वारा मोक्षहेतुत्वं योगस्योक्तमनूद्य योगिनः सर्वाधिकत्वमाह—यस्मादिति। योगस्य सर्वस्मादुत्कर्षादवश्यकर्तव्य- त्वाय योगिनः सर्वाधिक्यं साधयति— तपस्विभ्य इति। योगिनो ज्ञानिनश्च पर्यायत्वात् कथं तस्य ज्ञानिभ्योऽधिकत्वमित्याशङ्क्याह— १. ‘विशुद्धकिल्बिषः’ इति क्वचिन्न। २. ‘ततो लब्धसम्यग्दर्शनः’ इति पा.।

[[३५७]]

तस्माद् युक्तमुक्तं भगवता— योगी भवार्जुनेति॥४६॥

योगिनामिति। यः श्रद्धावान् सन् मद्गतेनान्तरात्मना मां भजते, स मे सर्वेषां योगिनां मध्ये युक्ततमो मतः। योगः क्वापि ध्येये वस्तुनि चित्तसमाधानम् ; स च ध्येयनानात्वान्नानाविध इति तद्वन्तोऽपि नानाविधा एवेत्याह— योगिनामपि सर्वेषामिति। सर्वेषामित्यस्यार्थमाह— रुद्रादित्यादिपरायणानामिति। रुद्रादित्यादयः परमयनं प्राप्यं येषां तेषां तथोक्तानां रुद्रादित्याद्युपासकाना- मित्यर्थः। यो यमुपास्ते स तमुपैतीति न्यायात्। ‘रुद्रादित्यादिध्यानपराणा’मिति पाठान्तरम्। आदिपदेन विराड्ढिरण्यगर्भेन्द्रादिदेवानां परमेश्वरस्य च ग्रहणम्। वासुदेव इति। परमेश्वर इत्यर्थः। वसति जगत्ययमिति, वसन्ति जगन्त्यस्मिन्निति [वा] वासुः; स चासौ देवः स्वप्रकाशो वासुदेव इति व्युत्पत्तेः। मामिति। सगुणं निर्गुणं वा परमात्मानमित्यर्थः। सेवत इति। सोऽहमस्मीति बुद्ध्या प्रत्यगभेदेन चिन्तयतीत्यर्थः। ममेति। सर्वज्ञस्य ममेत्यर्थः। एतेन सर्वज्ञेश्वरेण यदभिप्रेतं तत् तथैव भवतीति भगवदभिप्रेतार्थस्य सत्यत्वं सूच्यते। रुद्रादित्यादीनां जीवत्वात् तदुपासनाया भिन्नोपासनत्वाद् वासुदेवस्य च परमात्मत्वात् तदुपासनाया अभिन्नोपासनत्वाच्च वासुदेवपरो योगी रुद्रादित्यादिपरयोग्यपेक्षया परमोत्कृष्ट इति भावः। ननु अन्तःकरणमायावच्छिन्नयोः प्रत्यक्परयोर्भिन्नत्वात् तदभेदचिन्तनम् अन्नादेर्ब्रह्माभेदचिन्तनमिव काल्पनिकमेवेति चेत् , मैवम् ; यदेव मायावच्छिन्नं चैतन्यं तदेवान्तःकरणावच्छिन्नमिति प्रत्यक्परयोरभेदस्य वास्तवत्वात्। घटमठाद्युपाधिभिराकाशस्येव मायान्तःकरणाभ्यां चैतन्यस्य भेदाभावाच्च। न च प्रत्यक्परयोः परिच्छिन्नत्वपूर्णत्वप्रयुक्तोऽस्ति विशेष इति वाच्यम् , ययो[तयो]- रौपाधिकत्वेनातात्त्विकत्वाद् , वस्तुतश्चैतन्ये मायान्तःकरणयोरभावाच्च। ‘एकमेवाद्वितीयं ब्रह्म’ इति हि श्रूयते। अन्यथा प्रतीचः परिच्छिन्नत्वाभ्युपगमे घटादिवदनित्यत्वजडत्वादिकं स्यात्। तच्चानिष्टम् ; ‘अजो नित्यः’ इत्यादिशास्त्रात्। न च प्रत्यगात्मा जीव एव, जीवेश्वरयोरस्ति हस्तिमशकयोरिव महदन्तरमिति वाच्यम् , ‘जीव प्राणधारणे’ इत्यनुशासनात् प्राणधारिण एव जीवाः; प्रत्यगात्मा तु अप्राण एव, ‘अप्राणो ह्यमनाः शुभ्रः’ इति श्रुतेः। तस्माद् देवमनुष्यादिभेदभिन्नकार्यकरणसङ्घातविशेषेषु अहंममाभिमानिनश्चिदाभासा एव जीवाः; अमीषां च प्रतीचि कूटस्थे ज्ञानमिति। योगिनः सर्वाधिकत्वे फलितमाह— तस्मादिति॥४६॥

ननु आदित्यो विराडात्मा सूत्रं कारणमक्षरमित्येतेषामुपासकाः भूयांसो गम्यन्ते। तेषां कतमः श्रेयानिष्यते? तत्राह— योगिनामिति। यो भगवन्तं सगुणं निर्गुणं वा यथोक्तेन चेतसा श्रद्धधानः सन्ननवरतमनुसन्धत्ते, स युक्तानां मध्येऽतिशयेन युक्तः श्रेयान्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तद्वद्भ्योऽपि मतो ज्ञातः अधिकः श्रेष्ठ इति, कर्मिभ्यः अग्निहोत्रादि कर्म, तद्वद्भ्योऽधिको योगी विशिष्टो यस्मात् तस्माद् योगी भवार्जुन !॥४६॥

योगिनामिति। योगिनामपि सर्वेषां १रुद्रादित्यादिध्यानपराणां मध्ये, मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो मां स मे मम युक्ततमः अतिशयेन युक्तो मतः अभिप्रेत इति ॥४७॥

कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन !॥४६॥

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥४७॥

१. ‘रुद्रादित्यादिपरायणानाम्’ इति पा.।

[[अ. ६. श्लो. ४५-४७]] [[३५८]]

कल्पितत्वेन वस्तुतः प्रत्यगात्मत्वमेव, रज्जौ कल्पितस्य सर्पस्य वस्तुतो रज्ज्वात्मत्ववत्। अत एव तत्त्वमस्यादिश्रुतयः जीवेश्वरयोरभेदं ब्रुवन्ति लक्षणया। तथाहि—अन्तःकरणविशिष्टचैतन्यं संसारिजीवशब्दाभिधेयं त्वम्पदस्य वाच्यार्थः। अन्तःकरणोपहितं निःसंसारं प्रत्यक्चैतन्यं लक्ष्यार्थः। मायाविशिष्टचैतन्यं जगत्कर्तृ ईश्वराख्यं तत्पदस्य वाच्यार्थः। मायोपहितं परं ब्रह्माख्यं चैतन्यं लक्ष्यार्थः। असिपदस्यैक्यमर्थः। वाच्यार्थयोरैक्यानुपपत्त्या लक्ष्यार्थयोस्तदुच्यते; यदेव चैतन्यं मायोपहितं तदेवान्तःकरणोपहितम् , तदेव मायोपहितं चेति; मायान्तःकरणोपाधिभेदेऽप्युपहिताभेदात् ; तथा च तत्त्वमसीत्यस्य वाक्यस्य अखण्डं ब्रह्मैव लक्ष्यार्थः। एवमनेन प्रथमषट्केन त्वम्पदार्थो निर्धारितः; संसारिणश्चिदाभासस्य कूटस्थे कल्पितस्य स्वस्य रूपं प्रत्यक्चैतन्यमेव निर्धर्मकपरमानन्दबोधरूपमिति॥४७॥

॥इति बेल्लङ्कोण्डोपनामकरामकविकृते श्रीमच्छाङ्करभगवद्गीताभाष्यार्कप्रकाशे षष्ठोऽध्यायः॥

*** समाप्तं प्रथमषट्कम् श्रीहयग्रीवार्पणमस्तु ईश्वरस्याभिप्रेतः। न हि तदीयोऽभिप्रायोऽन्यथा भवितुमर्हतीत्यर्थः। तदनेनाध्यायेन कर्मयोगस्य संन्यासहेतोर्मर्यादां दर्शयता साङ्गं च योगं विवृण्वता मनोनिग्रहोपायोपदेशेन योगभ्रष्टस्यात्यन्तिक- नाशशङ्कावकाशं शिथिलयता त्वम्पदार्थाभिज्ञस्य ज्ञाननिष्ठत्वोक्त्या वाक्यार्थज्ञानान्मुक्तिरिति साधितम्॥४७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षष्ठोऽध्यायः॥६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये आत्मसंयमयोगो (ध्यानयोगो) नाम षष्ठोऽध्यायः॥६॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः॥ ६॥

ॐ श्रीपरमात्मने नमः