॥अथ पञ्चमोऽध्यायः॥
अर्जुन उवाच — संन्यासं कर्मणां कृष्ण ! पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
द्वितीयेऽध्याये कर्मयोगं ज्ञानयोगं च प्रतिपाद्य तत्र कर्मणो ज्ञानस्य श्रेयस्त्वमुपपादितं भगवता। अत एव तृतीये— ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन’ इत्यर्जुनेनोक्तम्। ततस्तृतीये ज्ञानयोगस्य साङ्ख्यविषयत्वात् कर्मयोगस्य च योगिविषयत्वाद् अर्जुनस्य चासाङ्ख्यत्वात् कर्मयोग एव कर्तव्य इति प्रतिपादितम्। चतुर्थे स्वयमेव भगवान् ज्ञानयोगं पुनः प्रशशंस। तदन्ते च ‘ज्ञानेन संशयं छित्त्वा योगमातिष्ठे’त्यर्जुनाय योग एवोपदिष्टः। एवं स्थिते अर्जुनः पृच्छति पञ्चमाध्याये— संन्यासमिति। ननु कर्मयोगज्ञानयोगयोर्द्वयोरपि निःश्रेयसहेतुत्वं भगवतोक्तम्। तत्र मुक्तिं प्रति साक्षात्साधनत्वं, कर्मयोगसाध्यत्वं च ज्ञानस्य प्रतिपादयन् , कर्मयोगस्य ज्ञानयोगद्वारा मुक्तिहेतुत्वं न तु साक्षादिति च प्रतिपादयन् , कर्मयोगाज्ज्ञानयोगमेव श्रेयांसं स्थापयामास भगवान्। अर्जुनस्य च ज्ञानयोगानधिकारित्वेन ‘कुरु कर्मैव तस्मात्त्वम्’ इति कर्मयोगमेव श्रेयस्करं प्रतिपादयामास। एवं स्थिते कथमर्जुनस्येह प्रश्नावकाशः, स्वस्य कर्मयोग एव श्रेयानिति, द्वयोर्ज्ञानयोग एव श्रेयानिति च स्फुटमुक्तत्वाद् भगवता, अर्जुनेन च सावधानं ज्ञातत्वात् तदर्थस्येति चेत्? उच्यते— नायमर्जुनस्य प्रश्नः कर्मयोगज्ञानयोगयोस्तारतम्यज्ञानार्थः; नापि कर्मज्ञानयोः; किं तर्हि? संन्यासकर्मयोगयोः। प्रश्नसामर्थ्याच्चास्य संन्यासस्य ज्ञानरहितसंन्यासत्वमवगम्यते। यद्यपि ‘न च संन्यसनादेव सिद्धिं समधिगच्छती’ति ज्ञानरहितसंन्यासस्य सिद्ध्यहेतुत्वमुक्तम्; ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति कर्मयोगस्य सिद्धिहेतुत्वं चोक्तं भगवता; तेन च संन्यासाज्ज्ञानहीनात् कर्मयोगः श्रेयानिति ज्ञातुं शक्यम् , तथापि विस्तरेण बुभुत्सया पृष्टमर्जुनेनेति बोध्यम्। ‘संन्यासं योगं च शंससी’त्यर्जुनेनोक्तम्। तत्र क्व संन्यास उक्तः? क्व वा योगः? इत्यत आह— कर्मणीत्यादि। अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् आद्यस्यार्जुनप्रश्नस्य वृत्तानुवादपूर्वकमभिप्रायं दर्शयितुमुपक्रमते— कर्मण्यकर्मेत्यादिना। ‘कर्मण्यकर्म’ इत्यादिना आनन्दगिरिकृतव्याख्या पूर्वोत्तराध्याययोः सम्बन्धमभिदधानो वृत्तानुवादपूर्वकमर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते— कर्मणीत्यादिना। इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारितेत्याह— स युक्त इति। ज्ञानवन्तं सर्वाणि कर्माणि लोकसंग्रहार्थं कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माणं कर्मप्रयुक्तबन्धविधुरं विवेकवन्तो वदन्तीति ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान् विवक्षितवानित्याह— ज्ञानाग्नीति। ‘निराशी’रित्यारभ्य शरीरस्थितिमात्रकारणं कर्म शरीरस्थितावपि सङ्गरहितः सन्नाचरन् धर्माधर्मफलभागी न भवतीत्यपि १पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवानित्याह— शारीरमिति। ‘यदृच्छे’त्यादावपि संन्यासः सूचितः, २तद्धर्मकलापोपदेशादित्याह— यदृच्छेति। ज्ञानस्य यज्ञत्वसम्पादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्येत्याह— ब्रह्मार्पणमिति। ज्ञानयज्ञस्तुत्यर्थं नानाविधान् यज्ञाननूद्य तेषां देहादिव्यापारजन्यत्ववचनेनात्मनो निर्व्यापारत्व- ‘कर्मण्यकर्म यः पश्येत्’ इत्यारभ्य ‘स युक्तः कृत्स्नकर्मकृत्’ (भ.गी.४.१८) ‘ज्ञानाग्निदग्धकर्माणम्’ (भ.गी.४. १८) ‘शारीरं केवलं कर्म कुर्वन्’ (भ.गी.४.२१) ‘यदृच्छालाभसन्तुष्टः’ (भ.गी.४.२२) ‘ब्रह्मार्पणं ब्रह्म हविः’ (भ. १. ‘पूर्वोत्तराभ्यामर्थाभ्यां’ इति पा.। ‘पूर्वोत्तराभ्यामर्धाभ्यां’ इति पा. संभाव्यते। २. ‘तद्धर्मफलायोपदेशाद्’ इति पा.।
[[२६०]]
गी.४.२४) ‘कर्मजान् विद्धि तान् सर्वान्’ (भ.गी.४.३२) ‘सर्वं कर्माखिलं पार्थ’ (भ.गी.४.३३) ‘ज्ञानाग्निः सर्व- कर्माणि’ (भ.गी.४.३७) ‘योगसंन्यस्तकर्माणम्’ (भ.गी.४.४१) १इत्यन्तैर्वचनैः सर्वकर्मसंन्यासमवोचद् भगवान्। ‘छित्त्वैनं संशयं योगमातिष्ठ’ (भ.गी.४.४२) इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणम् अनुतिष्ठेत्युक्तवान्। तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत् परस्परविरोधाद् एकेन सह कर्तुमशक्यत्वात् , कालभेदेन चानुष्ठानविधानाभावाद् अर्थादेतयोरन्यतरकर्तव्यताप्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मानुष्ठानकर्मसंन्यासयोः, तत् कर्तव्यम् , नेतरदित्येवं मन्यमानः प्रशस्यतरबुभुत्सया अर्जुन उवाच— संन्यासं कर्मणां कृष्णेत्यादिना। ननु चात्मविदो ज्ञानयोगेन निष्ठां २प्रतिपादयिष्यन् पूर्वोदाहृतैर्वचनैः भगवान् सर्वकर्मसंन्यासमवोचत् , न त्वनात्मज्ञस्य। अतश्च कर्मानुष्ठानकर्मसंन्यासयोर्भिन्नपुरुषविषयत्वाद् अन्यतरस्य प्रशस्यतरत्वबुभुत्सया ३प्रश्नो ऽनुपपन्नः। सत्यमेव त्वदभिप्रायेण प्रश्नो नोपपद्यते ; प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नो युज्यत एवेति वदामः। कथम्? कालभेदेनेति। ‘योगमादौ कृत्वा पश्चात् संन्यासं कुरु’ इत्यनुक्तत्वादित्यर्थः। शङ्कते— ननु चेति। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ !। ज्ञानयोगेन साङ्ख्यनां कर्मयोगेन योगिनाम्॥’ इति भिन्नपुरुषविषययोः ज्ञानकर्मणोरन्यतरस्य श्रेयस्करत्वज्ञानेन नार्जुनस्य किमपि फलम्; सत्यपि ज्ञानयोगस्य कर्मयोगस्य वा उत्कर्षे कर्मिणा ज्ञानस्य, ज्ञानिना कर्मणश्च कर्तुमशक्यत्वात् ; अतो व्यर्थोऽयं प्रश्न इति शङ्कितुराशयः। अङ्गीकृत्य परिहरति— सत्यमिति। न विज्ञानफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मसंन्यासेऽधिकारो ध्वनित इत्याह— कर्मजानिति। समस्तस्यैवावशेष- वर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसंन्यासः सूचित इत्याह— सर्वमिति। ‘तद्विद्धी’त्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादिं प्रदर्श्य प्राप्तेन ज्ञानेनातिशयमाहात्म्यवता सर्वकर्मणां निवृत्तिरेवेति वदता च ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवतेत्याह— ज्ञानाग्निरिति। ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात् कर्माणि संन्यस्य व्यवस्थितम् अप्रमत्तं वशीकृतकार्यकरण- सङ्घातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्तीत्यपि द्विविधः संन्यासो भगवतोक्त इत्याह— योगेति। ‘कर्मणी’त्यारभ्य ‘योग- संन्यस्तकर्माण’मित्यन्तैरुदाहृतैर्वचनैरुक्तं संन्यासमुपसंहरति—इत्यन्तैरिति। तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता चादरणीयत्वात् कर्मानुष्ठानमनादेयमापन्नमित्याशङ्क्य , उक्तमर्थान्तरमनुवदति— छित्त्वैनमिति। कर्मतत्त्यागयोरुक्तयोः एकेनैव पुरुषेणानुष्ठेयत्वसम्भवान्न विरोधोऽस्तीत्याशङ्क्य, युगपद्वा क्रमेण वाऽनुष्ठानमिति विकल्प्य, आद्यं दूषयति— उभयोश्चेति। द्वितीयं प्रत्याह— कालभेदेनेति। उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासम्भवे कथं कर्तव्यत्वसिद्धिरित्याशङ्क्याह— अर्थादिति। द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्यामनुष्ठाना- नुपपत्तेरित्यर्थः। अन्यतरस्य कर्तव्यत्वे कतरस्येति कुतो निर्णयः, द्वयोः सन्निधानाविशेषादित्याशङ्क्याह— यत्प्रशस्यतरमिति। भगवता कर्मणां संन्यासो योगश्चोक्तः; न च तयोः समुच्चित्यानुष्ठानम् ; तेनान्यतरस्य श्रेष्ठस्यानुष्ठेयत्वे तद्बुभुत्सया प्रश्नोपपत्तिरित्युपसंहरति— इत्येवमिति। नायं प्रष्टुरभिप्रायः, कर्मसंन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वाद् एकस्मिन् पुरुषे प्राप्त्यभावादिति शङ्कते— नन्विति। चोद्यमङ्गीकृत्य परिहरति— सत्यमेवेति। कीदृशस्तर्हि प्रष्टुरभिप्रायो येन प्रश्नप्रवृत्तिरिति पृच्छति— कथमिति। एकस्मिन् पुरुषे १. ‘इत्येतैः’ इति पा.। २. ‘प्रतिपिपादयिषन्’ इति पा.। ३.’अयं प्रश्नः’ इति पा.। आनन्दगिरि व्याख्या भाष्यार्कप्रकाशः भगवता संन्यासः उक्तः, कर्मयोगश्च; तयोरन्यतरश्रेष्ठत्वबुभुत्सया प्रश्नः’ इत्यभिप्रायो नोपपद्यते, कर्मसंन्यासकर्मयोगयो- र्भिन्नपुरुषानुष्ठेयत्वस्य प्रागुक्तत्वाद् एकस्मिन् पुरुषे प्राप्त्यसम्भवादित्याक्षिपति— ननु चात्मविद इत्यादिना। चोद्यमभ्युपगम्य
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[२६१]]
त्वदुक्तविधोऽर्जुनस्याभिप्रायः, किन्तु भिन्नविधः। तमेवार्जुनाभिप्रायं दर्शयति— पूर्वेति। प्राधान्यमन्तरेण प्राधान्यज्ञानं विनेत्यर्थः। अनयोरिदं प्रधानमिति ज्ञात्वैव प्रधाने ज्ञानयोगे कर्ता प्रवर्तते। एवं प्रधानत्वादेव संन्यासः कर्तव्यतया भगवता चतुर्थाध्यायेऽभिहितः। नन्वेवं कर्मयोगात् कर्मसंन्यासः प्रधान इत्यभिहितप्राय एवेति पुनः प्रश्नोऽनुपपन्न इत्यत आह— अनात्मविदपीति। अज्ञः प्राज्ञो वा सर्वोऽपि जनः प्रधानमेवानुतिष्ठासति, न त्वप्रधानमिति कृत्वा प्रधाने कर्मसंन्यासे अज्ञोऽपि प्रवर्तेतैव। तस्य चाज्ञस्य किं संन्यासः श्रेयान् उत कर्मयोग इति युज्यते प्रश्नोऽर्जुनस्येति भावः। ननु ‘ज्ञानयोगेन साङ्ख्याना’मिति प्राज्ञस्यैव संन्यासविधानात् कथमज्ञस्य पाक्षिक् यपि संन्यासे प्रवृत्तिः? अत आह— न पुनरिति। ‘कर्मसंन्यासस्यात्मवित्कर्तृकत्वमेव विवक्षितमिति तु न’ - एवं मन्वानस्या- र्जुनस्य प्रश्नो नानुपपन्न इति सम्बन्धः। यदि भगवता कर्मसंन्यास आत्मविद्विषय एव, न त्वज्ञविषय इति विवक्षितम् , तर्हि ‘न च समाधानमाह— सत्यमेवमेवेति। कीदृशस्तर्हि प्रष्टुरभिप्राय इत्याह— कथमिति। एकस्मिन् पुरुषे विद्यते उभयप्राप्तिरिति प्रष्टुरभिप्रायं दर्शयितुमुपक्रमते— पूर्वोदाहृतैरित्यादिना। यथा ‘स्वर्गकामो यजेते’ति स्वर्गकामोद्देशेन यागविधानम् , न तु स्वर्गकामस्यैव नान्यस्येत्यपि प्रतिपाद्यते, वाक्यभेदप्रसङ्गात् ; तथाऽत्रापि अनात्मवित्कर्तव्यसंन्यासः पक्षे प्राप्तो नोद्यते [ऽनूद्यते], वैराग्यमात्रेण अनात्मज्ञस्यापि संन्यासविधानात् , न त्वात्मवित्कर्तृकत्वमेव। तस्मात् संन्यासकर्मणोः(अपि) अविद्वत्कर्तृकत्वमप्यस्तीत्यर्जुनस्य मतमित्यर्थः। ततः किमित्याशङ्कायामाह— पूर्वोक्तेनेति। कर्मतत्त्यागयोरस्ति प्राप्तिरिति प्रष्टुरभिप्रायं प्रतिनिर्देष्टुं प्रारभते— पूर्वोदाहृतैरिति। यथा ‘स्वर्गकामो यजेत’ इति स्वर्गकामोद्देशेन यागो विधीयते, न तु तस्यैवाधिकारो नान्यस्येत्यपि प्रतिपाद्यते, वाक्यभेदप्रसङ्गात् ; तथाऽनात्मवित् कर्ता २संन्यासे पक्षे प्राप्तोऽनूद्यते, न त्वात्मवित्कर्तृकत्वमेव संन्यासस्य नियम्यते, वैराग्यमात्रेणाज्ञस्यापि संन्यासविधिदर्शनात्। तस्मात् कर्मतत्त्यागयोरविद्वत्कर्तृकत्वम- स्तीति मन्वानस्यार्जुनस्य प्रश्नः सम्भवतीति भावः। भवतु संन्यासस्य कर्तव्यत्वविवक्षा, तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्ति- रित्याशङ्क्याह— प्राधान्यमिति। तथापि कथमेकस्मिन् पुरुषे तयोरप्राप्तावुक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते? तत्राह—अनात्मविदपीति। आत्मविदो विद्यासामर्थ्यात् कर्मत्यागध्रौव्यवद् इतरस्यापि सति वैराग्ये तत्त्यागस्यावश्यकत्वात् तत्र कर्ताऽसौ प्राप्तोऽत्रानूद्यते। तथा च कर्मतत्त्यागयोरेकस्मिन्नविदुषि प्राप्तेर्व्यक्तत्वादुक्ताभिप्रायेण प्रश्नप्रवृत्तिरविरुद्धेत्यर्थः। संन्यासस्यात्मवित्कर्तृकत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्य, कर्त्रन्तरपर्युदासः संन्यासविधिश्चेत्यर्थभेदे वाक्यभेदप्रसङ्गान्मैवमित्याह— न पुनरिति। इतिशब्दो वाक्यभेदप्रसङ्गहेतु- द्योतनार्थः। ततः किमित्याशङ्क्य फलितमाह— एवमिति। कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्कर्तृकत्वमप्यस्तीत्येवं मन्वानस्यार्जुनस्य प्रशस्यतरविविदिषया प्रश्नो नानुपपन्न इति सम्बन्धः। तयोः समुच्चित्यानुष्ठानसम्भवे कथं प्रशस्यतरविविदिषेत्याशङ्क्याह— पूर्वोक्तेनेति। ‘उभयोश्चे’त्यादावुक्तप्रकारेण कर्मतत्त्यागयोर्मिथो विरोधान्न समुच्चित्यानुष्ठानं सावकाशमित्यर्थः। भवतु तर्हि यस्य कस्यचिदन्य- तरस्यानुष्ठेयत्वमिति कुत उक्ताभिप्रायेण प्रश्नप्रवृत्तिरित्याशङ्क्याह— अन्यतरस्येति। उभयप्राप्तौ समुच्चयानुपपत्तावन्यतरपरिग्रहे विशेष- स्यान्वेष्यत्वादुक्ताभिप्रायेण प्रश्नोपपत्तिरित्यर्थः। पूर्वोदाहृतैर्वचनैर्भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात् १प्राधान्यम् ; अन्तरेण च कर्तारं तस्य कर्तव्यत्वा- सम्भवाद् अनात्मविदपि कर्ता पक्षे प्राप्तोऽनूद्यत एव, न पुनः आत्मवित्कर्तृकत्वमेव संन्यासस्य विवक्षितमित्येवं मन्वानस्यार्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्पुरुषकर्तृकत्वमप्यस्तीति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधाद् अन्यतरस्य कर्तव्यत्वे प्राप्ते, प्रशस्यतरं च कर्तव्यम् , नेतरदिति प्रशस्यतरविविदिषया प्रश्नो नानुपपन्नः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘प्राधान्यमन्तरेण च कर्त्रा तस्य’ इति रा.पा.। अत्र पाठे आनन्दगिरीयव्याख्याऽपि अविरुद्धैव। २. ‘संन्यासपक्षे प्राप्तः’ इति मु.पा.।
[[अ. ५. श्लो. १]] [[२६२]]
संन्यसनादेव सिद्धिं समधिगच्छती’ति ज्ञानहीनसंन्यासास्तित्वं कथं बोध्येत? न हि ज्ञानहीनसंन्यासस्यैवाभावे ततः सिद्धिर्नास्तीति वक्तुं शक्यते। तस्मात् संन्यासस्याप्यनात्मविद्विषयत्वमस्तीत्यर्जुनस्याभिप्रायः। युक्तं चेदम् ; विद्वत्संन्यासस्येव विविदिषासंन्यासस्यापि शास्त्रसिद्धत्वात्। विविदिषुर्विद्यासिद्ध्यर्थं यज्ञादिकर्मयोगमिव पक्षे संन्यासमपि कुर्यादेव। तस्मादनात्मविदपि संन्यासे कर्ता पक्षे प्राप्त एवेति कृत्वा ‘किमज्ञस्य संन्यासः श्रेयानुत कर्मयोगः’ इति प्रश्न उचित एवार्जुनस्य। ननु संन्यासात् केवलात् सिद्धिर्नास्ति, ‘कर्मणैव संसिद्धिमास्थिताः’ इति च केवलसंन्यासात् कर्मयोगस्य प्राशस्त्यं प्रतिपादितमेवेति व्यर्थोऽयं प्रश्न इति चेत्? मैवम् ; संसिद्धिशब्दस्य चित्तशुद्ध्यर्थकत्वात् , सिद्धिशब्दस्य च मोक्षार्थकत्वात्। यथा केवलसंन्यासान्न मोक्षः, तथा कर्मयोगादपि नैव मोक्षः, यथा कर्मयोगाच्चित्तशुद्धिस्तथा केवलसंन्यासादपि स्यादेव चित्तशुद्धिः, अन्यथा विविदिषासंन्यासविधायकशास्त्रानर्थक्यप्रसङ्गात्। तस्मादज्ञकर्तृकयोः संन्यासकर्मयोगयोः समबलत्वमेव सिद्धमतीतग्रन्थे, न तु विषमबलत्वमिति कृत्वा तयोस्तारतम्यजिज्ञासया प्रश्नोऽयमुचित एवार्जुनस्य। न च - विस्तरेण बुभुत्सया पृष्टमिति स्ववचन- व्याघातस्तवेति - वाच्यम् ; प्रश्ने एकस्मिन्नप्यनेकाभिप्रायकल्पनस्य गुणत्वात्। ननु परहृदयस्याप्रत्यक्षत्वात् कथं त्वया विदितोऽर्जुनस्याभिप्रायः? इत्यत आह— प्रतिवचनेति। किं तत् प्रतिवचनम् , कथं वा तन्निरूपणमिति पृच्छति— कथमिति। तत्र प्रतिवचनं दर्शयति— संन्यासेति। ‘संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते॥’ इति श्लोकरूपं प्रतिवचनमित्यर्थः। तन्निरूपणं कथयति— एतदिति। प्रतिवचनवाक्यम् एतच्छब्दार्थः। एतन्निरूप्यं वस्तु दर्शयिष्यामः, तथाहीति शेषः। यद्वा एषः अर्जुनाभिप्रायो निरूप्यो यस्य तद् एतन्निरूप्यमिति प्रतिवचनविशेषणम्। निरूपणप्रकारं दर्शयति— किमनेनेत्यादिना। अनेन प्रतिवचनेन कर्मयोगस्य विशिष्टत्वमुच्यते किमित्यन्वयः। तदुभयमिति। निःश्रेयसकरत्वं कर्मयोगस्य संन्यासाद् विशिष्टत्वं चेत्यर्थः। विशिष्टत्वम् उत्कृष्टत्वम्। गुणदोषविवेकार्थं पृच्छति— किञ्चात इति। यदि कर्मयोगस्य विशिष्टत्वमुच्येत, अतः अस्मिन् पक्षे, किम् , दूषणमिति शेषः। यदि वा संन्यासकर्मयोगयोः इतश्चाविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयानित्यर्जुनस्याभिप्राय इत्याह— प्रतिवचनवाक्यार्थेति। किं तत् प्रतिवचनम् , किं वा तन्निरूपणमित्याह— कथमिति। प्रतिवचनं निरूपणं च— संन्यासेत्यादिना। तदुभयमिति। श्रेयस्करत्वं, कर्मयोगस्य श्रेष्ठत्वं चेत्यर्थः। पूर्ववादे गुणदोषं [ पूर्ववादी गुणं दोषं] च पृच्छति— किञ्चात इत्यादिना। इतश्चाविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयानिति प्रष्टुरभिप्रायो भातीत्याह— प्रतिवचनेति। किं तत् प्रतिवचनम् , कथं वा तन्निरूपणमिति पृच्छति— कथमिति। तत्र प्रतिवचनं दर्शयति— संन्यासेति। तन्निरूपणं कथयति— एतदिति। तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं चेत्यर्थः। गुणदोषविभागविवेकार्थं पृच्छति— किञ्चेति। अतोऽस्मिन्नाद्ये पक्षे किं दूषणम् , अस्मिन् वा द्वितीये पक्षे किं फलमिति प्रश्नार्थः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टुरभिप्राय एवमेवेति गम्यते। कथम्? ‘संन्यासकर्मयोगौ निःश्रेयसकरौ, तयोस्तु कर्मयोगो विशिष्यते’ इति प्रतिवचनम्। एतन्निरूप्यम् — किमनेनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः निश्रेयसकरत्वं प्रयोजनमुक्त्वा तयोरेव कुतश्चिद् विशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वमुच्यते? आहोस्विद् अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तदुभयमुच्यते? इति। किञ्चातः, यद्यात्मवित्कर्तृकयोः कर्मसंन्यास- कर्मयोगयोर्निःश्रेयसकरत्वम् , तयोस्तु कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वमुच्यते; यदि वाऽनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदुभयमुच्यत इति?
[[२६३]]
तदुभयमुच्येत, अतः अत्र पक्षे, किं च किं वा फलमिति प्रश्नार्थः। इतिशब्दः प्रश्नपरिसमाप्तौ। सिद्धान्ती समाधानं वच्मीति प्रतिजानाति— अत्रोच्यत इति। अत्र शङ्कायामित्यर्थः। प्रश्ने इति वा। तदीयाच्चेति। आत्मवित्कर्तृकादित्यर्थः। ज्ञानसहितादिति यावत्। कर्मयोगकर्मसंन्यासयोरनात्मवित्कर्तृकत्वं यथा सम्भवति, तथा न सम्भवत्येव आत्मवित्कर्तृकत्वमिति कृत्वा प्रथमपक्षे अनुपपत्तिर्दूषणम् , द्वितीयपक्षे उपपत्तिः फलमिति भावः। आत्मवित्कर्तृकयोः कर्मयोगकर्मसंन्यासयोरसम्भवं श्रुत्वा तदसहमानः पूर्वपक्षयति— अत्राहेत्यादिना। आहेत्यस्य पूर्वपक्षी इति कर्तुःशेषः। किमात्मवित्कर्तृकः संन्यासो नास्ति, यद्वा आत्मवित्कर्तृकः कर्मयोगो नास्तीति पूर्वपक्षस्य फलितार्थः। उत्तरमाह— अत्रोच्यत इत्यादिना। आत्मवित्कर्तृकः संन्यासोऽस्त्येव, किन्तु कर्मयोगो नास्तीत्यर्थः। तत्र हेतुमाह— आत्मविदो निवृत्तमिथ्याज्ञानत्वादिति। मिथ्याज्ञानम् कर्ताऽहम् , ममेदं कर्मेत्याद्याकारकं भ्रमज्ञानम् , मिथ्याभूतमज्ञानमिति वा। आत्मविदः कर्मयोगासम्भवं प्रति मिथ्याज्ञाननिवृत्तेः कुतो हेतुत्वम्? अत आह— विपर्ययेति। कर्मयोगस्य विपर्ययज्ञानमूल- त्वादित्यर्थः। मिथ्याज्ञानमूलः कर्मयोगः कथं पुनर्मिथ्याज्ञानरहितस्यात्मविदः सम्भवेदिति भावः। संग्रहवाक्यमेव विवृणोति— जन्मादीति। निष्क्रियमात्मानमात्मत्वेन यो वेत्ति, तस्यात्मविदः कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः। आत्मनो निष्क्रियत्वे हेतुमाह— जन्मादीति। आदिपदात् सत्तावृद्ध्यादिभावविकारपञ्चकग्रहणम्। लोके सविक्रियस्यैव वस्तुनः सक्रियत्वदर्शनात् निर्विकार- आद्यपक्षे सिद्धान्ती दोषमाह— अत्रोच्यत इत्यादिना। असम्भवं व्यतिरेकमुखेन प्रपञ्चयति— यद्यात्मविद इत्यादिना। एकासम्भवेऽप्युभयासम्भवस्य सम्भवात् पृच्छति— किमात्मविद इत्यादिना। सकारणं कर्मयोगस्यासम्भवमाह— अत्रोच्यत इत्यादिना। वस्तुसंग्रहवाक्यं विवृणोति— जन्मादिसर्वविक्रिये- तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति—अत्रेत्यादिना। तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति—यदीत्यादिना। निःश्रेयस- करत्वोक्तिरित्यत्र पारम्पर्येणेति द्रष्टव्यम्। विशिष्टत्वाभिधानमिति। प्रतियोगिनोऽसहायत्वादस्य च शुद्धिद्वारा ज्ञानार्थत्वादित्यर्थः। आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोरसंभवे दर्शिते चोदयति— अत्राहेति। चोदयिता निर्धारणार्थं विमृशति— किमित्यादिना। अन्यतरासम्भवेऽपि संदेहात् प्रश्नोऽवतरतीत्याह— यदा चेति। यस्य कस्यचिदन्यतरस्यासम्भवो भविष्यतीत्याशङ्क्य कारणमन्तरेणा- सम्भवो भवन् अतिप्रसङ्गी स्यादिति मन्वानः सन्नाह— असम्भव इति। आत्मविदः सकारणं कर्मयोगासम्भवं सिद्धान्ती दर्शयति— अत्रेति। संग्रहवाक्यं विवृण्वन्नात्मवित्त्वं विवृणोति— जन्मादीति। तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वम् , तदिदानीं व्यनक्ति— सम्यगिति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अत्रोच्यते— आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरसम्भवात् तयोर्निःश्रेयसकरत्ववचनम् , तदीयाच्च कर्म- संन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येतदुभयमनुपपन्नम्। १यद्यात्मविदः कर्मसंन्यासस्तत्प्रतिकूलश्च कर्मा- नुष्ठानलक्षणः कर्मयोगः सम्भवेताम् , तदा तयोर्निःश्रेयसकरत्वोक्तिः, कर्मयोगस्य च कर्मसंन्यासाद् विशिष्टत्वा- भिधानमित्येतदुभयमुपपद्येत। आत्मविदस्तु संन्यासकर्मयोगयोरसम्भवात् तयोर्निःश्रेयसकरत्वाभिधानम् , कर्म- संन्यासाच्च कर्मयोगो विशिष्यत इति चानुपपन्नम्। अत्राह— किमात्मविदः संन्यासकर्मयोगयोरुभयोरप्यसम्भवः? आहोस्विदन्यतरस्यासम्भवः? यदा चान्य- तरस्यासम्भवः, तदा किं कर्मसंन्यासस्य, उत कर्मयोगस्येति? असम्भवे कारणं च वक्तव्यमिति। अत्रोच्यते— आत्मविदो निवृत्तमिथ्याज्ञानत्वाद् विपर्ययज्ञानमूलस्य कर्मयोगस्यासम्भवः स्यात्। जन्मादि - १. ‘यद्यनात्मविदः’ इति मु. पा.।
[[अ. ५. श्लो. १]] [[२६४]]
स्यात्मनो निष्क्रियत्वमिति भावः। वैदिका योगिनश्च केचिन्निष्क्रियमात्मानमीश्वरत्वेन विदन्तीत्यत आह— आत्मत्वेनेति। एतेन आत्मेश्वरभेदवादिनोऽनात्मवित्त्वमेव, मिथ्याज्ञानवत्त्वादिति सिद्धम्। ननु स्वभिन्नस्येश्वरस्य कथमात्मत्वेन ग्रहणम्? अत आह— आत्मानमिति। ईश्वरो हि जीवस्यात्मैव, स्वरूपत्वात् , ‘स आत्मा तत्त्वमसी’ति श्रुतेश्चेति भावः। आत्मविदोऽपि मिथ्याज्ञानं किं न स्याद्? अत आह— सम्यगिति। सम्यग्दर्शनं तत्त्वज्ञानम् ‘निष्क्रियं सच्चिदानन्दं ब्रह्माहमस्मी’त्याकारकम् , तेन अपास्तं निरस्तं मिथ्याज्ञानं ‘कर्ताऽहं ब्राह्मणः’ इत्याद्याकारकमयथार्थज्ञानं, तन्मूलभूतमज्ञानं वा यस्य, तस्य तथोक्तस्य। नन्वेतादृशस्यात्मविदः कर्मसंन्यासोऽप्यनुपपन्न एवेत्यत आह— सर्वकर्मसंन्यासमुक्त्वेति। कस्मादस्य संन्यासः सम्भवतीत्यत आह— निष्क्रियेति। निष्क्रियो ह्यात्मा निष्क्रियात्मस्वरूपेणैव तिष्ठतीति कृत्वा तत्त्वविदो निष्क्रियात्मनः निष्क्रियात्मस्वरूपावस्थानलक्षणः कर्मसंन्यासः सम्भवत्येवेत्यर्थः। आत्मविदः कर्मसंन्यासस्येव कर्मयोगस्य कुतोऽसम्भवः? अत आह— तद्विपर्यय[परीत]स्येति। कर्मसंन्यास- विपरीतत्वात् कर्मयोगस्यात्मवित्कर्तृकत्वाभाव इत्यर्थः। कस्माद् विपरीतत्वमस्येत्यत आह— मिथ्येति। मिथ्याभूतमज्ञानं तत्प्रयुक्तोऽध्यासो वा मिथ्याज्ञानम् , तदेव मूलं कारणं यस्य, स चासौ कर्तृत्वाभिमानः पुरःसरः पूर्वो यस्य तस्य। सम्यग्ज्ञानमिथ्याज्ञानयोः तन्मूलकनिष्क्रियात्माभिमानकर्तृत्वाभिमानयोश्च संन्यासकर्मयोगकारणयोः परस्परं विपरीतत्वात् संन्यास- कर्मयोगयोश्च विपरीतत्वमिति भावः। न केवलं कारणद्वारैव, किन्तु स्वरूपतोऽपि तयोर्वैपरीत्यमित्याह— सक्रियेति। निष्क्रियात्म- स्वरूपावस्थानात् सक्रियात्मस्वरूपावस्थानं विपरीतमित्यर्थः। आत्मविदः कर्मयोगस्याभावः क्व प्रतिपाद्यते? अत आह— इहेति। तदर्थमाह— गीताशास्त्र इति। गीताशास्त्रेऽपि कुत्र प्रतिपाद्यतेऽत आह— तत्र तत्रेति। तेषु तेष्वित्यर्थः। तच्छब्दार्थमाह— आत्मेति। आत्मविदः कर्मयोगस्याभावे किं कारणम्? अत आह— सम्यगिति। सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोः कर्मसंन्यासकर्मयोगयोश्च विरोधात् सहानवस्थानलक्षणविरोधात्। न हि विरुद्धधर्मयोः सामानाधिकरण्यं क्वापि सम्भवतीति भावः। यद्वा सम्यग्ज्ञान- मिथ्याज्ञानयोः तत्कार्ययोर्भ्रमनिवृत्तिभ्रमसद्भावयोश्च मिथो विरोधात् कर्तृत्वादिभ्रममूलः कर्मयोगः निवृत्तभ्रमस्यात्मविदो न सम्भवतीति भावः। न चात्मवित्कर्तृकस्य कर्मयोगस्यैवासम्भवे कथं तत्त्वविदो जनकादेः कर्मसु प्रवृत्तिरिति वाच्यम् ; जनकादि- कर्तृकयज्ञादिकर्मणः आत्मवित्संन्यासिकर्तृकभिक्षाटनादिवद् वासुदेवकर्तृकसृष्ट्यादिवच्च कर्मत्वाभावस्य प्रागेव प्रतिपादितत्वात्। उपसंहरति— यस्मात् तस्मादिति। यस्मादात्मविदः कर्मयोगस्याभावो गीताशास्त्रे प्रतिपाद्यते, तस्मादित्यर्थः। गीताशास्त्रे आत्मविदः कर्मयोगाभावप्रतिपादनं तच्छब्दार्थः। त्यादिना। सर्वकर्मसंन्यासमुक्त्वा तद्विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इत्यन्वयः। विपर्ययज्ञानमूलस्येत्यादिनोक्तं प्रपञ्चयति— निष्क्रियेति। यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः। वैपरीत्यं स्फोरयन् कर्मयोगमेव विशिनष्टि— मिथ्याज्ञानेति। मिथ्या च तदज्ञानं चेत्यनाद्यनिर्वाच्यमज्ञानम् , तन्मूलः ‘अहं कर्ता’ इत्यात्मनि कर्तृत्वाभिमानः, तज्जन्यस्येति यावत्। यथोक्तं संन्यासमुक्त्वा यथोक्तकर्मयोगस्यासम्भवप्रतिपादने हेतुमाह— सम्यग्ज्ञानेति। कुत्र तदभावप्रतिपादनम्? तदाह— इहेति। उक्तं हेतुं कृत्वा आत्मज्ञस्य कर्मयोगासम्भवे फलितमाह— यस्मादिति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सर्वविक्रियारहितत्वेन निष्क्रियमात्मानम् आत्मत्वेन यो वेत्ति, तस्यात्मविदः सम्यग्दर्शनेनापास्तमिथ्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणं सर्वकर्मसंन्यासमुक्त्वा, तद्विपरीतस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्य इह १शास्त्रे तत्र तत्रात्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्या- ज्ञानतत्कार्यविरोधाद् अभावः प्रतिपाद्यते यस्मात् तस्मादात्मविदो निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो १. ‘गीताशास्त्रे’ इति पा.।
[[२६५]]
तत्र तत्रेति पूर्वं सामान्येनोक्तत्वात् तद्विशेषबुभुत्सया पृच्छति कश्चित्— केषु केष्विति। प्रतिपाद्यत इति भगवतेति शेषः। गीताशास्त्रे आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभाव एव प्रतिपादित इति नियन्तुं न शक्यते, कर्मयोगस्यापि प्रतिपादितत्वादिति शङ्कते— ननु चेति। कर्मयोगप्रतिपादनप्रकारमेव दर्शयति— तद्यथेत्यादिना। आत्मविदः कर्मयोगस्यासम्भवे पूर्वोक्तं हेतुं पुनरनुवदति हेत्वन्तरकथनार्थम्— सम्यग्ज्ञानेति। हेत्वन्तरमाह— ज्ञानेति। अनात्मवित्कर्तृककर्मयोगनिष्ठातः साङ्ख्यानां ज्ञानयोगनिष्ठायाः पृथक्करणादित्यन्वयः। साङ्ख्यानां साङ्ख्यकर्तृकाया इत्यर्थः। केन वाक्येन पृथक्करणम्? अत आह— ज्ञानयोगेनेति। ननु अनात्मवित्कर्तृककर्मयोगनिष्ठातः साङ्ख्यकर्तृकज्ञाननिष्ठायाः पृथक्करणेऽपि आत्मवित्कर्तृकसंन्यासस्य न पृथक्करणमित्यत आह— आत्मतत्त्वविदामिति, निष्क्रियात्मस्वरूपावस्थानलक्षणाया इति च। आत्मविद एव सांख्याः, सर्वकर्मसंन्यास एव ज्ञानयोगनिष्ठेति भावः। पुनरपि हेत्वन्तरमाह— कृतकृत्यत्वेनेति। आत्मविदः कर्मयोगसाध्यप्रयोजनान्तराभावात् कर्माभावः। प्रयोजनान्तराभावे आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनाच्चेदात्मविदः संन्यासः, तर्हि कर्मयोगोऽपि कस्मान्न सम्भवती- त्याह— ननु च कर्मेति। आत्मज्ञानसाधकत्वेनापि प्रकरणपाठोपपत्तौ ज्ञानादूर्ध्वं न्यायविरुद्धः कर्मयोगः कल्पयितुं न शक्यत इत्याह—अत्रोच्यत इत्यादिना। सम्यग्ज्ञानमिथ्याज्ञानयोस्तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोः परस्परविरोधात् कर्तृत्वा- दिभ्रममूलः कर्मयोगः सम्यग्ज्ञानादूर्ध्वं न सम्भवतीत्यर्थः। कर्मयोगासम्भवे हेत्वन्तराण्याह— ज्ञानयोगेनेत्यादिना। तदीयाच्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमित्यन्वयः। ‘इह शास्त्रे तत्र तत्रे’त्यादावुक्तमेव व्यक्तीकर्तुं पृच्छति— केषु केष्विति। तानेव प्रदेशान् दर्शयति— अत्रेति। आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनाद् आत्मविदः संन्यासो विवक्षितश्चेत् , तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति, प्रकरणाविशेषादिति शङ्कते—ननु चेति। आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमुदाहरति—तद्यथेति। प्रकरणादात्मविदोऽपि कर्मयोगस्य सम्भवे फलितमाह— अतश्चेति। आत्मज्ञानोपायत्वेनापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्पयितुमशक्यमिति परिहरति — अत्रोच्यत इति। सम्यग्ज्ञानमिथ्याज्ञानयोः, तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोर्मिथो विरोधात् कर्तृत्वादिभ्रममूलं कर्म सम्यग्ज्ञानादूर्ध्वं न सम्भवतीत्यर्थः। आत्मज्ञस्य कर्मयोगासम्भवे हेत्वन्तरमाह— ज्ञानयोगेनेति। इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमानित्याह— कृतकृत्यत्वेनेति। ज्ञानवतो नास्ति कर्मेत्यत्र कारणान्तरमाह— तस्येति। तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववद्
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
न सम्भवतीति युक्तमुक्तं स्यात्। केषु केषु पुनरात्मस्वरूपनिरूपणप्रदेशेष्वात्मविदः कर्माभावः प्रतिपाद्यत इति? अत्रोच्यते— ‘अविनाशि तु तद्विद्धि’ (भ.गी.२.१७) इति प्रकृत्य ‘य एनं वेत्ति हन्तारम्’ (भ.गी.२.१९) ‘वेदाविनाशिनं नित्यम्’(भ.गी.२.२१) इत्यादौ तत्र तत्रात्मविदः कर्माभाव उच्यते। ननु च कर्मयोगोऽप्यात्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यत एव। तद्यथा— ‘तस्माद् युध्यस्व भारत’ (भ.गी.२.१८) ‘स्वधर्ममपि चावेक्ष्य’ (भ.गी.२.३१) ‘कर्मण्येवाधिकारस्ते’ (भ.गी.२.४७) इत्यादौ। अतश्च कथमात्मविदः कर्मयोगस्यासम्भवः स्यादिति? अत्रोच्यते— सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् , ‘ज्ञानयोगेन सांख्यानाम्’ (भ.गी.३.३) इत्यनेन सांख्यानामात्मतत्त्वविदाम् अनात्मवित्कर्तृककर्मयोगनिष्ठातो निष्क्रियात्मस्वरूपा- वस्थानलक्षणाया ज्ञानयोगनिष्ठायाः पृथक्करणात् , कृतकृत्यत्वेनात्मविदः प्रयोजनान्तराभावात् , ‘तस्य कार्यं न
[[अ. ५. श्लो. १]] [[२६६]]
हेतुमाह— कृतकृत्यत्वेनेति। कृतं कृत्यं सर्वं येन स कृतकृत्यः, तद्भावेन, कर्तव्यशेषाभावेनेत्यर्थः। आत्मविदः कर्तव्यशेषाभावे प्रमाण- माह— तस्येति। आत्मवित् तच्छब्दार्थः। चकारेण कर्मयोगस्याकृतकृत्याज्ञविषयत्वं बोध्यते। अकृतकृत्याज्ञविषयत्वात् कर्मयोग- स्यात्मविदि असम्भव इति भावः। इतश्च पुनरात्मविदः कर्मासम्भव इत्याह— नेति। कर्मयोगस्यात्मज्ञानाङ्गत्वेन विधानात् प्रतिपन्नात्मज्ञानस्य कर्मयोगासम्भवः। केन वाक्येन तद्विधानम्? अत आह— न कर्मणामित्यादि। यथा अनात्मविदः कर्मयोगो विहितः, तथा आत्मविदः कर्मसंन्यासो विहितः इति आत्मविदः कर्मसंन्यासविधानाच्च कर्मासम्भव इत्याह— उत्पन्नेति। केन वाक्येनात्मविदः कर्माभाव उक्तः? इत्यत आह— योगारूढस्येति। कर्मसंन्यासविधानादित्यनुक्त्वा कर्मयोगाभाववचनादिति वचनेन कर्मसंन्यासो न विधिः[विहितः], किन्तु स्वाभाविक एवेति गम्यते, निष्क्रियत्वादात्मन इति भावः। इतश्चात्मविदः कर्मासम्भव इत्याह— शारीरमिति। शरीरस्थितिमात्रफलकभिक्षाटनादिकर्मव्यतिरिक्तकर्मनिवारणाद् आत्मविदः कर्मयोगासम्भवः। ननु यद्यात्मविदो भिक्षाटनादिकर्म सम्भवति, तर्हि स कर्म्येव स्याद्? अत आह— नैवेति। समाहितचेतास्तत्त्ववित् संन्यासी शरीरस्थितिमात्रफलकेष्वपि दर्शनश्रवणादिकर्मसु ‘अहं करोमी’ति कर्तृत्वाभिमानं न कुर्यादिति भगवदुपदेशादित्यर्थः। तत्त्ववित् संन्यासी पश्यन् शृण्वन्नपि ‘नाहं करोमी’ति यस्माद् मन्यते, तस्मादयं कर्मी नैव भवति, कर्तृत्वाभिमानपुरःसरं कर्मकर्तुरेव कर्मित्वादिति भावः। आत्मतत्त्वविदः कर्मयोगः स्वप्नेऽपि सम्भावयितुं न शक्यत इत्यन्वयः। तत्र हेतुगर्भं विशेषणद्वयमाह— सम्यगिति। सम्यग्दर्शनविरुद्धत्वान्मिथ्याज्ञानहेतुकत्वाच्चेत्यर्थः। सम्यग्दर्शनेन कर्मयोगमूलमिथ्याज्ञानस्य बाधात् कर्मयोगस्य जिज्ञासुनाऽपि तस्य त्याज्यत्वम् , ज्ञानप्राप्त्या तस्यापि पुरुषार्थसिद्धेरित्याशङ्क्य जिज्ञासोरस्ति कर्मयोगापेक्षेत्याह— न कर्मणामिति। स्वरूपोपकार्यङ्गमन्तरेणाङ्गिस्वरूपानिष्पत्तेः ज्ञानार्थिना कर्मयोगस्य शुद्ध्यादिद्वारा ज्ञानहेतोरादेयत्वमित्यर्थः। तर्हि ज्ञानवताऽपि ज्ञान- फलोपकारित्वेन कर्मयोगो मृग्यतामित्याशङ्क्याह— योगारूढस्येति। उत्पन्नसम्यग्ज्ञानस्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणो ऽसम्भवान्न तस्य शरीरस्थितिः। तदस्थितौ च कुतो जीवन्मुक्तिः? तदभावे च कस्योपदेष्टृत्वम्?, उपदेशाभावे च कुतो ज्ञानोदयः स्याद्? इत्याशङ्क्याह— शारीरमिति। विदुषोऽपि शरीरस्थितिरास्थिता चेत् , तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि स्यादित्याशङ्क्याह— नैवेति। तत्त्वविदित्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैवाकर्तव्यत्वोपदेशादिति सम्बन्धः। यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन् कर्तृत्वाभिमानोऽपि स्यादिति, तत्राह— शरीरेति। आत्मयाथात्म्यविदः तेष्वपि नाहं करोमीति प्रत्ययस्य ‘नैव किञ्चित् करोमी’त्यादौ अकर्तृ[अकर्तव्य]त्वोपदेशात् न कर्तृत्वाभिमानसंभावनेत्यर्थः। यथोक्तोपदेशानुसंधाना- भावे विदुषोऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यादित्याशङ्क्याह— आत्मतत्त्वेति। यद्यपि विद्वान् यथोक्तमुपदेशं कदाचिद् नानुसन्धत्ते, तथापि तत्त्वविद्याविरोधान्मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य सम्भावयितुमशक्यमित्यर्थः। आत्मवित्कर्तृकयोः संन्यास- कर्मयोगयोरयोगात् तयोः निश्रेयसकरत्वम् अन्यतरस्य विशिष्टत्वमित्येतदयुक्तमिति सिद्धत्वाद् द्वितीयं पक्षमङ्गीकरोति— यस्मादि-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विद्यते’ (भ.गी.३.१७) इति कर्तव्यान्तराभाववचनाच्च ‘न कर्मणामनारम्भात्’ (भ.गी.३.४) ‘संन्यासस्तु महाबाहो ! दुःखमाप्तुमयोगतः’(भ.गी.५.६) १इत्यादिना चात्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात् , ‘योगारूढस्य तस्यैव शमः कारणमुच्यते’(भ.गी.६.३) इत्यनेन चोत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात् ,‘शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्’(भ.गी. ४.२१) इति च शरीरस्थितिकारणातिरिक्तस्य कर्मणो निवारणात् ,‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्’ (भ.गी.५.८) इत्यनेन च शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदः करोमीति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्यत्वोपदेशाद् आत्मतत्त्वविदः सम्यग्दर्शनविरुद्धो मिथ्याज्ञान- १. ‘इत्यादिवचनाच्च’ इति पा.।
[[२६७]]
तद्विरुद्धत्वमिति भावः। तस्मादिति। आत्मवित्कर्तृककर्मयोगासम्भवादित्यर्थः। तदीयादिति। अनात्मवित्कर्तृकादित्यर्थः। कर्म- संन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमित्यन्वयः। किमयम् अनात्मवित्कर्तृकः कर्मसंन्यास आत्मवित्कर्तृकसंन्यास[स]लक्षण इत्यत आह— पूर्वोक्तेति। ज्ञानसाहित्यराहित्याभ्यामुभयोर्वैलक्षण्यमिति भावः। भेदमेव दर्शयति— सत्येवेति। कर्तृत्वविज्ञाने सतीत्यन्वयः। अज्ञकर्तृकसंन्यासे कर्ताऽहमिति विपरीतज्ञानमस्ति, अहं भिक्षामटामि, पश्यामीत्याद्यभिमानसत्त्वादज्ञस्य। तत्त्ववित्कर्तृकसंन्यासे तु नैवं कर्तृत्वविज्ञानमस्ति, नाहं करोमीति तत्त्वविन्निश्चयादिति भावः। भेदान्तरमाह— कर्मैकदेशविषयादिति। कर्मण एकदेश एव विषयो यस्य सः कर्मैकदेशविषयः, तस्मात्। अज्ञो हि यज्ञयागादिकं कर्मैकदेशमेव संन्यस्तवान् , न तु सर्वं कर्म। अज्ञसंन्यासिनः दण्डतर्पणस्नानभिक्षाटनादिकर्मसत्त्वात् , तेषु च स्वाचरितेषु कर्मसु कर्तृत्वाभिमानसत्त्वात्। प्राज्ञकर्तृकसंन्यासस्तु सर्वकर्मविषय एवेति द्वयोर्भेद इति भावः। भेदान्तरमाह— यमेति। प्राज्ञकर्तृकसंन्यासस्य न यमनियमादिसापेक्षा, प्राज्ञस्याकर्तृत्वेन यमादिकर्तृत्वाभावादिति भावः। यद्वा अज्ञकर्तृकात् संन्यासादज्ञकर्तृकः कर्मयोगः कुतो भवति विशिष्टः? अत आह— यमेति। दुरनुष्ठेयात् स्वनुष्ठेयो हि विशिष्यते। ‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम्। प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश॥
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ। व्रतोपवासौ मौनं च स्नानं च नियमा दश॥’ आदिपदादासनादिग्रहणम्। पूर्वोक्त इति। ननु कर्मयोगेन शुद्धसत्त्वस्य पश्चाज्जायमानः संन्यासः कथमुत्कृष्टो न भवतीत्याशङ्क्याह— पूर्वोक्तात्मविदिति। वैलक्षण्यमेवाह— सत्येव चेति। स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेशविषयात् संन्यासात् कर्मयोगस्य श्रेष्ठत्वाभिधानं ‘नैतादृशं ब्राह्मणस्यास्ति वित्तम्’ इत्यादिवचनविरुद्धमित्याशङ्क्याह— यमनियमादीति। प्रकृतं निगमयति— एवमिति। त्यादिना। तदीयाच्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमिति सम्बन्धः। ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानः तस्मादुत्कृष्यते, कथं तस्मात् कर्मयोगस्योत्कृष्टत्ववाचोयुक्तिर्युक्तेति? तत्राह— पूर्वोक्तेति। वैलक्षण्यमेव स्पष्टयति— सत्येवेति। स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेशविषयसंन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं ‘नैतादृशं ब्राह्मणस्यास्ति वित्तम्’ इत्यादिस्मृतिविरुद्धमित्याशङ्क्याह— यमनियमादीति। ‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम्। प्रीतिः प्रसादो माधुर्यम- क्रोधश्च यमा दश॥ दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ। व्रतोपवासौ मौनं च स्नानं च नियमा दश॥’ इत्युक्तैर्यमनियमैः, अन्यैश्चाश्रमधर्मैर्विशिष्टत्वेनानुष्ठातुमशक्यत्वाद् उक्तसंन्यासात् कर्मयोगस्य विशिष्टत्वोक्तिर्युक्तेत्यर्थः। ‘न हि कश्चिद्’ इति न्यायेन कर्मयोगस्येतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह—सुकरत्वेन चेति। प्रतिवचनवाक् यार्थालोचनात् सिद्धमर्थमुप- संहरति— इत्येवमिति। संन्यासकर्मयोगयोर्मिथोविरुद्धयोः समुच्चित्यानुष्ठातुमशक्ययोरन्यतरस्य कर्तव्यत्वे प्रशस्यतरस्य तद्भावात् , तद्भावस्य चानिर्धारितत्वात् , तन्निर्दिधारयिषया प्रश्नः स्यादिति प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथा पूर्वमुपदिष्टः, तथा प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धेत्यर्थः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
हेतुकः कर्मयोगः स्वप्नेऽपि न सम्भावयितुं शक्यते यस्मात् तस्माद् अनात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोः निःश्रेयसकरत्ववचनम् ; तदीयाच्च कर्मसंन्यासात् पूर्वोक्तात्मवित्कर्तृकसर्वकर्मसंन्यासविलक्षणात् सत्येव कर्तृत्व- विज्ञाने कर्मैकदेशविषयाद् यमनियमादिसहितत्वेन च १दुरनुष्ठेयत्वात् सुकरत्वेन च कर्मयोगस्य विशिष्टत्वाभिधान- मित्येवं प्रतिवचनवाक्यार्थनिरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायो निश्चीयत इति स्थितम्। १. ‘दुरनुष्ठेयात्’ इति पा.।
[[अ. ५. श्लो. १]] [[२६८]]
अविद्वत्कर्तृकयोः कर्मानुष्ठानकर्मसंन्यासयोर्मध्ये किं श्रेय इत्येवंरूप इति भावः। ननु आत्मवित्कर्तृकात् संन्यासाद् अनात्मवित्कर्तृकः कर्मयोगः श्रेयानिति भगवत्प्रतिवचनवाक्यार्थनिरूपणं सुकरमिति चेत्? मैवम् ; साक्षान्मोक्षहेतोः विद्वत्संन्यासात् परम्परया मोक्षहेतोरविद्वत्कर्मयोगस्य वैशिष्ट्यं स्वप्नेऽपि सम्भावयितुं न शक्यमिति हेतोः। एवंविधज्ञानेन फलाभावाच्च। प्रशस्यतरं हि कर्तव्यत्वार्थं जिज्ञासितम्। न ह्यात्मविदः प्रशस्यतरमपि कर्म सम्भवति। तस्माद् आत्मवित् पुरुषः निवृत्तमिथ्याज्ञानत्वात् कर्मयोगं नैवानुतिष्ठेत् , किन्तु संन्यासमेव विदध्यादिति न तत्र मया ज्ञातव्यः अंशोऽस्ति। किन्तु यस्त्वनात्मविन्मुमुक्षुः स कर्मयोगं कुर्याद्वा, उत कर्मसंन्यासम्? किं तदुभयोः प्रशस्यतरमिति जिज्ञासया पृच्छत्यर्जुन इति भावः। ननु ‘कर्मण्यकर्मे’त्यादिना यः कृष्णेन प्रोक्तः कर्मसंन्यासः स आत्मवित्कर्तृक एव, ज्ञानमार्गत्वात् तस्य। अतः कथं तस्यानात्मवित्कर्तृकत्वम्? येन अनात्मवित्कर्तृकसंन्यासकर्मयोगयोः प्रशस्यतरबुभुत्सा स्यादर्जुनस्येति चेत्? मैवम् ; यद्यपि कृष्णेन आत्मवित्कर्तृक एव संन्यास उक्तस्तथापि तत्रानात्मविदपि कर्ता पक्षे प्राप्त इति भाष्यकारैरुक्तत्वात् तस्यानात्मवित्कर्तृकत्वमप्यस्तीति। अयमाशयः— कर्मसंन्यासे सम्यग्दर्शनाद्धेतोः यथा आत्मवित् कर्ता प्राप्तः, तथा कर्मफलानित्यत्वादिदर्शनप्रयुक्त- वैराग्यादिना अनात्मविदपि कर्ता पक्षे प्राप्त एव। न च - ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मित्यात्मविदः संन्यासोऽनात्मविदः कर्मयोगश्च नियमितः कृष्णेनेति - वाच्यम् ; ‘आत्मवित् संन्यासमेव कुर्यादि’ति आत्मविदः संन्यासस्य नियमितत्वेऽपि ‘आत्मविदेव संन्यासं कुर्यादि’ति संन्यासस्यात्मवित्कर्तृकत्वस्यानियमितत्वात्। न च - एवं कर्मयोगस्याप्यनात्मवित्कर्तृकत्वं न नियमितमिति आत्मवित्कर्तृकत्वमपि कर्मयोगस्य सम्भवतीति - वाच्यम् ; सम्यग्दर्शनमिथ्याज्ञानतत्कार्यविरोधान्मिथ्याज्ञानमूलकर्मयोगस्य सम्यग्दर्शनवत्पुरुषकर्तृकत्वासम्भवात्। न चैवं सम्यग्दर्शनमूलस्य कर्मसंन्यासस्यापि कथं मिथ्याज्ञानवत्पुरुषकर्तृकत्वसम्भव इति वाच्यम् ; सर्वकर्मसंन्यासस्य सम्यग्दर्शनमूलकत्वेऽपि कर्मैकदेशविषयसंन्यासस्य अतन्मूलकत्वेनाज्ञकर्तृकत्वसम्भवात्। न च - सर्वकर्मसंन्यास इति कर्मैकदेशसंन्यास इति च द्विविधसंन्याससद्भावे प्रमाणं न पश्याम इति - वाच्यम् ; भाष्यकारवचनस्यैव प्रमाणत्वात्। कुटीचकादेः कर्मैकदेशसद्भावस्य, परमहंसस्यावधूतस्य सर्वकर्माभावस्य च शास्त्रे दर्शनाच्च। न च प्रमाणसद्भावेऽप्युपपत्तिसद्भावो नेति वाच्यम् ; एकस्मिन्नपि संन्यासे ज्ञानसाहित्यराहित्याभ्यां दर्शितद्वैविध्योपपत्तेः। तस्मात् सर्वकर्मसंन्यासात्मके ज्ञानसहितसंन्यासे विषये आत्मविदेव कर्ता, कर्मैकदेशसंन्यासात्मके ज्ञानरहितसंन्यासे अनात्मविदेव कर्तेति कृत्वा संन्याससामान्ये आत्मविद इवानात्मविदोऽपि कर्तुः प्राप्तिरस्त्येव। ननु ‘कर्मयोगेन योगिना’मिति ‘अनात्मवित् कर्मयोगमेव कुर्यादि’ति कृष्णेन नियमितत्वात् कथं तस्य संन्यासे पाक्षिक्यपि प्रवृत्तिरिति चेत्? मैवम् ; यमनियमादिपूर्वकध्यानयोगात्मककर्मयोगानुष्ठानयोग्यतासम्पादककर्मैकदेशसंन्यासस्यानात्मवित्कर्तृकस्य कर्मयोगोपायत्वेन कर्मयोगानतिरिक्तत्वात्। तस्माद् अनात्मवित् पुरुषः संन्यस्य ध्यानयोगमभ्यसेत् , असंन्यस्य यज्ञादिकं वा कुर्याद् इत्यज्ञस्य संन्यासे पाक्षिकप्रवृत्तिरस्त्येव। न चाविद्वत्कर्तृकसंन्याससद्भावे प्रमाणं नास्तीति वाच्यम् ; ‘न च संन्यसनादेवे’ति भगवद्वाक् यस्यैव प्रमाणत्वादिति। ननु -‘कर्मण्यकर्मे’त्यादिना दर्शितं ज्ञानं कर्मयोगोपकारकमेव, न तु संन्यासविषयम् , ‘तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिना ऽऽत्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥’ इत्यध्यायोपसंहारे कर्मानुष्ठानेऽपि संशयनिरासार्थं ज्ञानमावश्यकमिति प्रतिपादितम्। ‘न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥’ इति चोपक्रमे ज्ञानपूर्वकं कर्मानुष्ठेयमिति दर्शितम्। एवमुपक्रमोपसंहारैकरूप्यात् ‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥ त्यक्त्वा ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वान्नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्क्य विस्तरेणोक्तमेव सम्बन्धं पुनः
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[२६९]]
कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥’ ‘यज्ञायाचरतः कर्म समग्रं प्रविलीयते।’ ‘ज्ञानाग्निः सर्वकमाणि भस्मसात्कुरुतेऽर्जुन’ इति च मध्येऽपि ज्ञानपूर्वकं कर्मानुष्ठानस्य दर्शितत्वाच्च। आत्मवित्कर्तृकः कर्मयोगः सम्भवत्येव। वाक् यान्तरैरात्मविदः संन्यासोऽपि दर्शितः। अत एव ‘संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससी’त्युक्तमर्जुनेन। तथा च आत्मवित्कर्तृककर्मयोगसंन्यासयोस्तारतम्यबुभुत्सयैवायं प्रश्नोऽर्जुनस्येति युक्ततरम्। किञ्चाज्ञस्य कर्मसम्भवे सत्यपि विशिष्टकर्मयोगो न सम्भवति, कर्मयोगो हि कर्मसु फलाभिसन्ध्यादिपरित्यागप्रयुक्तः। स च त्याग आत्मज्ञानं विना नैव सम्भवति। अत एव हि ‘त्यक्त्वा कर्मफलासङ्ग’मिति श्लोकस्य प्रवृत्तिमार्गस्थात्मविद्विषयत्वं व्याख्यातं भाष्यकारैरपि। ‘ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षती’ति भगवत्प्रतिवचनादपि कर्मयोगस्यात्मवित्कर्तृकत्वमेव निश्चीयते। न हि ज्ञानं विना रागद्वेषक्षयः स्यात्। तस्मादात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोस्तारतम्यबुभुत्सया कृतोऽयं प्रश्नोऽर्जुनेनेति रामानुजादयः। अत्रोच्यते— यज्ज्ञानं कर्मयोगस्योपकारकम् , यत्तु ज्ञानं कर्मसंन्यासस्य, तदुभयं विविच्य त्वं न वेत्सि, येनेयमाशङ्काऽऽसीत् तव। ‘आत्मा नित्यः, ईश्वरार्थमहं कर्म करोमि, मा भून्मम क्षयिष्णु स्वर्गादिफलम् , इन्द्रियाणां विषयप्रावण्यं मया वारणीयम् , मनश्च स्ववशे स्थापयितव्यम् , शीतोष्णादिर्द्वन्द्वजातं सोढव्यम् , कर्मणः सिद्ध्यसिद्ध्योः समचित्तेन भाव्यम्’ इत्यादिज्ञानं कर्मयोगस्योप- कारकम्। कर्मसंन्यासस्य तु ‘आत्माऽविक्रियोऽकर्ताऽभोक्ता सच्चिदानन्दब्रह्मरूपः, कर्माणि देहाद्याश्रयाण्येव’ इत्यादिज्ञानम्। इदमेव सम्यग्दर्शनमित्युच्यते। यस्यैतज्ज्ञानं स एव आत्मविदित्युच्यते। अत आत्मवित्कर्तृकस्य कर्मयोगस्यासम्भव एव। यस्तु आत्म- वित्कर्तृकः कर्मयोगो दर्शितः— ‘त्यक्त्वा कर्मफलासङ्गम्’ इत्यादिना, स न कर्मयोगः, किन्त्वकर्मैव, लोकसंग्रहार्थत्वात् , निरभिमानपूर्वकत्वाच्च तस्येति बहुशः प्रपञ्चितम्। यत्तु ज्ञानासिना संशयं छित्वा योगमातिष्ठेत्युक्तं ज्ञानम् , तद्धि नात्मज्ञानम् , किन्तु शोकमोहादिदोषज्ञानमेव। तच्च कर्मयोगस्योपकारकम्। तथैव दर्शितं भाष्यकृद्भिः—शोकमोहादिदोषसम्यग्दर्शनमिति१। न त्वात्मदर्शनमित्युक्तम्। अथवा तत्त्वविदा मया लोकसंग्रहार्थं कर्म कर्तव्यं वा न वेत्याकारकं संशयं छित्त्वा जनकादिदृष्टान्तेन कर्म कुरु इति तदर्थः। तथा च ज्ञानं नाम तत्र ‘लोकसंग्रहार्थं विदुषाऽपि कर्म कर्तव्यं मया क्षत्रियेणे’त्याकारकं बोध्यम्। यद्वा ज्ञानमात्मतत्त्वज्ञानमेवास्तु , संशयः—किमहं ब्रह्म उत नेत्याद्याकारक एवास्तु , तथापि न क्षतिः, लोकसंग्रहार्थं कर्मकर्तव्यत्वोपदेशात्। सर्वथाऽपि कृतकृत्यस्याविक्रियब्रह्मरूपेणावस्थितस्य तत्त्वविदः कर्मासम्भव एव, किन्तु ब्रह्मरूपेणावस्थानलक्षणसर्वकर्म- संन्यासस्यैव सम्भव इति न कश्चिद् दोषः। न च - भगवता ‘कर्मण्यकर्मे’त्यादिना ज्ञानिकर्तृक एव संन्यासोऽभिहितः, अर्जुनस्तु तदविदित्वा पप्रच्छेति - वाच्यम् ; तथा सति कृष्णेन मयोक्तः संन्यासो ज्ञानिकर्तृक एव, न त्वज्ञानिकर्तृकः, स तु कर्मयोगाद् विशिष्ट एव, यस्त्वज्ञानिकर्तृकः संन्यासः स तु कर्मयोगादपकृष्ट इत्येव प्रतिवचनं ब्रूयात्२। तस्मात् शङ्करोक्तमेवापङ्कम्। संक्षेपविस्तराभ्यामुक्तोऽर्थो जिज्ञासोर्बुद्ध्यारूढो भवतीति न्यायाद् विस्तरेणोक्तमर्थं संक्षिप्याह— ज्यायसी चेदिति। इत्यत्रेति। गीताशास्त्रे तृतीयाध्याये इत्यर्थः। सहासम्भव इति। सहानुष्ठानासम्भव इत्यर्थः। युगपदेकपुरुषानुष्ठेयत्वासम्भव इति यावत्। यच्छ्रेय इति। ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुया’मिति पृष्टत्वादिति भावः। निर्णयं चकारेति। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
संक्षेपतो दर्शयति— ज्यायसी चेदिति। सांख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वान्न पुनः प्रश्नयोग्यत्वमित्यर्थः। इतोऽपि न तयोः १. ‘शोकमोहादिदोषहरं सम्यग्दर्शन’मिति भाष्ये पाठो दृश्यते। २. भगवानिति कर्तृपदमध्याहार्यम्। ‘ज्यायसी चेत् कर्मणस्ते’ (भ.गी.३.१) इत्यत्र ज्ञानकर्मणोः सहासम्भवे ‘यच्छ्रेय एतयोस्तन्मे ब्रूहि’ इत्येवं
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
विस्तरेणोक्तं सम्बन्धं पुनः सङ्क्षेपेणाह— ज्यायसी चेदित्यादिना। निर्णीतत्वात् सांख्ययोगयोर्न पुनः प्रश्नयोग्यत्व-
[[अ. ५. श्लो. १]] [[२७०]]
मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति श्लोकेनेति भावः। सांख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वान्नाद्य पुनः प्रश्नावकाश इत्यर्थः। हेत्वन्तरादपि नेत्याह— न चेति। इष्टमिति। अभिमतम् , भगवत इति शेषः। कर्मयोगस्य चेति । कर्मयोगस्य च सिद्धिसाधनत्वमिष्टमित्यन्वयः, सिद्धिसाधनत्वम् इष्टमिति पदद्वयस्यात्राप्यनुकर्षणात्। कस्मात् कर्मयोगस्य सिद्धिसाधनत्वमिष्टम्? अत आह— विधानादिति। ‘छित्त्वैनं संशयं योगमातिष्ठे’ति कर्मयोगस्य भगवता विहितत्वात् , निरर्थकस्य च विध्ययोगादिति भावः। एवं ज्ञानसहितसंन्यासस्य कर्मयोगस्य च सिद्धिसाधनत्वस्य भगवदिष्टत्वान्नाद्य सांख्ययोगयोर्विशेषबुभुत्सया पुनः प्रश्नावकाश इत्यर्थः। तर्हि केनाभिप्रायेण प्रश्नोपपत्तिः? अत आह— ज्ञानेति। ज्ञानरहित इति। अज्ञकर्तृक इत्यर्थः। अज्ञस्य किं संन्यासः श्रेयान्? किं वा कर्मयोगः श्रेयान्? इत्यभिप्रायेणार्जुनप्रश्न उपपद्यत इत्यर्थः। संन्यासमिति। हे कृष्ण! कर्मणां संन्यासम् , पुनः कर्मणां योगं च शंससि। एतयोर्यच्छ्रेयः सुनिश्चितं तदेकं मे ब्रूहीत्यन्वयः। काम्यानां निषिद्धानां च कर्मणां संन्यासं, ४विहितानां कर्मणां योगं चाहं शंसामीति न व्याघात इत्यभिप्रेत्याह५— शास्त्रीयाणामिति। शास्त्रेण विहितानां नित्यानां नैमित्तिकानां चेत्यर्थः। अनुष्ठानविशेषाः अग्निहोत्रादिक्रियाविशेषाः। शंसु स्तुताविति स्मरणात् स्तुतेरत्राभावात् कथनमात्रमेवाभिप्रेतमित्याह— कथयसीत्येतदिति। ‘कर्मण्यकर्म यः पश्येदि’त्यादिनेति भावः। योगं शंससीति। ‘योगमातिष्ठे’त्युक्तत्वादिति भावः। एवं कर्मसंन्यासकर्मानुष्ठानयोर्द्वयोरपि कर्तव्यत्वोपदेशादेकेन सह कर्तुमशक्यत्वाच्च ‘किं मया मित्यर्थः। इतश्च तयोः प्रश्नाविषयत्वमित्याह— न च संन्यसनादेवेति। एवकारविशेषणाद् ज्ञानसहितस्य संन्यासस्य सिद्धिसाधनत्वं भगवतोऽभिप्रेतम्। ‘छित्त्वैनं संशयं योगमातिष्ठ’ इति च कर्मयोगस्य विधानात् तस्यापि सिद्धिसाधनत्व- मिष्टम्। ततो निर्णीतत्वात् प्रश्नः तद्विषयो नोपपद्यत इत्यर्थः। केन तर्ह्यभिप्रायेण प्रश्न इत्याकाङ्क्षायामाह—(ज्ञानरहितं च) [ज्ञानरहित इति।] ॥१॥
प्रश्नविषयत्वमित्याह— न चेति। एवकारविशेषणाज्ज्ञानसहितसंन्यासस्य सिद्धिसाधनत्वं भगवतोऽभिमतम् ; ‘छित्त्वैनं संशयं योग- मातिष्ठ’ इति च कर्मयोगस्य विधानात् तस्यापि सिद्धिसाधनत्वमिष्टम् ; ततश्च निर्णीतत्वान्न प्रश्नस्तद्विषयः सिध्यतीत्यर्थः। केनाभिप्रायेण तर्हि प्रश्नः स्यादित्याशङ्क्य ज्ञानरहितसंन्यासात् कर्मयोगस्य प्रशस्यतरत्वबुभुत्सयेत्याह— ज्ञानरहित इति। प्रष्टुरभिप्रायमेवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति—संन्यासमिति। तर्हि द्वयं त्वयाऽनुष्ठेयमित्याशङ्क्य , तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदमिति निश्चित्य वक्तव्यमित्याह— यच्छ्रेय इति। काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषामित्याशङ्क्य ‘कर्मण्यकर्मे’त्यादौ ३विशेषादर्शनान्मैवमित्याह— शास्त्रीयाणामिति। अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः? नेत्याह— पुनरिति। तर्हि कर्मत्यागः, तद्योगश्चेत्युभयमाहर्तव्यमित्याशङ्क्य विरोधान्मैवमित्यभिप्रेत्याह— अत इति। द्वयोरेकेनानुष्ठाना-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
पृष्टोऽर्जुनेन भगवान् सांख्यानां संन्यासिनां ज्ञानयोगेन निष्ठा, पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार। ‘न च संन्यसनादेव केवलात् सिद्धिं समधिगच्छती’ति वचनाज्ज्ञानसहितस्य तस्य सिद्धिसाधनत्वमिष्टम् , कर्मयोगस्य च विधानात्। १ज्ञानरहितः संन्यासः श्रेयान् , किं वा कर्मयोगः श्रेयान्? इत्येतयोर्विशेषबुभुत्सयाऽर्जुन उवाच— संन्यासमिति। संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् २अनुष्ठानविशेषाणां शंससि प्रशंससि, कथयसीत्येतत्। पुनः योगं च तेषामेवानुष्ठानम् अवश्यकर्तव्यं शंससि। अतो मे कतरच्छ्रेयः इति संशयः— किं कर्मानुष्ठानं श्रेयः, किं वा १. ‘ज्ञानरहितस्य’ इति पा.। २. ‘अनुष्ठेयविशेषाणाम्’ इति पा.। ३. ‘विशेषदर्शनाद्’ इति पा.। ४. शास्त्रेण विहितानां नित्यानां नैमित्तिकानां चेत्यर्थः। सर्वकर्म- त्यागस्य कर्मानुष्ठानस्य च विरोधेऽपि काम्यनिषिद्धत्यागस्य नित्याद्यनुष्ठानस्य चाविरोधादिति भावः। ५. ‘इत्यत आह’ इति पाठः स्यात्।
[[२७१]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
कर्तव्य’मिति मम संशयो जात इत्याह— अत इति। किंशब्दाद् द्वयोर्निर्धारणे डतरच्प्रत्यये कतरदिति रूपं भवति। द्वयोर्मध्ये किं श्रेय इत्यर्थः। संशयमेवाभिनीय दर्शयति— किमिति। तद्धानमिति। कर्मत्याग इत्यर्थः। श्रेय इति। प्रशस्यस्य श्रादेशः। अतिशयेन प्रशस्यं श्रेयः। इदमेवाभिप्रेत्याह— प्रशस्यतरमिति। यद्यपि विहितत्वादुभयमपि प्रशस्यमेव, तथापि प्रशस्यतरबुभुत्सया पृच्छामीत्यर्थः। किं तव प्रशस्यतरज्ञानात् फलम्? तत्राह— प्रशस्यतरं चानुष्ठेयमिति। अतश्चेति। प्रशस्यतरस्यैवानुष्ठेयत्वादित्यर्थः। योगस्य प्रशस्यतरत्वं च श्रेयःप्रदत्वादेवेत्याह— श्रेयोऽवाप्तिरिति। निःश्रेयसप्राप्तिरित्यर्थः। योगद्वयमपि श्रेयोऽवापकत्वात् कर्तव्यमेवेत्यत्राह— सहैकेति। युगपदेकेन योगद्वयस्याप्यनुष्ठातुमशक्यत्वाद् नैकेनोभयं कर्तव्यमित्यर्थः। सर्वज्ञस्य तव यदभिप्रेतं तदेव मादृशेन कर्तव्यमित्याह— तवेति॥१॥
संन्यास इति। ३केवलादिति। ज्ञानसहितस्य संन्यासस्य साक्षान्मोक्षहेतुत्वेन कर्मयोगादुत्कृष्टत्वादिति भावः। विशिष्यते उत्कृष्टो भवति॥२॥
ज्ञेय इति। यो दुःखं तद्धेतुं वा न द्वेष्टि, सुखं तद्धेतुं वा न काङ्क्षति, स नित्यसंन्यासीति ज्ञेयः। हे महाबाहो! हि निर्द्वन्द्वः पुरुषः आनन्दगिरिकृतव्याख्या तद्धानमिति। प्रशस्यतरं चानुष्ठेयम्। अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः १कर्मसंन्यासकर्मानुष्ठानयोः, यदनुष्ठानात् श्रेयोऽवाप्तिर्मम स्यादिति मन्यसे, तद् एकम् अन्यतरत् सहैकपुरुषानुष्ठेयत्वासम्भवाद् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति॥१॥
स्वाभिप्रायमाचक्षाणो निर्णयाय श्रीभगवानुवाच—संन्यास इति। संन्यासः कर्मणां परित्यागः, कर्मयोगश्च तेषामनुष्ठानम् , तावुभावपि निःश्रेयसकरौ निःश्रेयसं मोक्षं कुर्वाते ज्ञानोत्पत्तिहेतुत्वेन। उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसंन्यासात् केवलात् कर्मयोगो विशिष्यते - इति कर्मयोगं स्तौति॥२॥
योगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते। तमेव संशयं विशदयति— किं कर्मेति। प्रशस्यतरबुभुत्सा किमर्थेत्याशङ्क्याह— प्रशस्यतरं चेति। तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह— अतश्चेति। तदेव प्रशस्यतरं विशिनष्टि— यदनुष्ठानादिति। तद् एकम् अन्यतरद् मे ब्रूहीति सम्बन्धः। उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते? तत्राह— सहेति। कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः॥१॥
प्रश्नमेवमुत्थाप्य प्रतिवचनमुत्थापयति— स्वाभिप्रायमिति। निर्णयाय तद्द्वारेण परस्य संशयनिवृत्त्यर्थमित्यर्थः। एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौकर्यमभिप्रेत्य प्रशस्यतरत्वमभिधित्सुर्भगवान् प्रतिवचनं किमुक्तवानित्याशङ्क्याह— संन्यास इति। उभयोरपि तुल्यत्वशङ्कां वारयति— तयोस्त्विति। कथं तर्हि २ज्ञानस्यैव मोक्षोपायत्वं विवक्ष्यते? तत्राह— ज्ञानोत्पत्तीति। तर्हि द्वयोरपि प्रशस्यत्वमप्रशस्यत्वं वा तुल्यमित्याशङ्क्याह— उभाविति। ज्ञानसहायस्य कर्मसंन्यासस्य कर्मयोगापेक्षया विशिष्टत्वविवक्षया विशिनष्टि— केवलादिति॥२॥
श्रीभगवानुवाच — संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते॥२॥
१. ‘कर्मसंन्यासकर्मयोगयोः’इति पा.। २. ‘तयोः’ इति पा.। संन्यासकर्मयोगयोरुभयोः निःश्रेयसकरत्वे ज्ञानस्यैव मोक्षोपायत्वं श्रुत्यादिप्रसिद्धं कथमिति शङ्कां तयोः ज्ञानोत्पत्तिद्वारा निःश्रेयसकरत्वविवक्षया परिहरतीत्यर्थः। ३. ज्ञानरहितादित्यर्थः।
[[अ. ५. श्लो. १-२]] [[२७२]]
कर्म हि बन्धकारणं प्रसिद्धम्। तत् कथं निःश्रेयसकरं स्यादिति शङ्कते— कस्मादिति। अकर्त्रात्मविज्ञानात् प्रागपि सर्वदाऽसौ संन्यासी ज्ञेयः, यो रागद्वेषौ क्वचिदपि न करोतीत्याह— इत्याहेति। यथाऽननुष्ठीयमानानि कर्माणि संन्यासिनं न निबध्नन्ति, कृतानि च वैराग्येन्द्रियसंयमादिना निवर्तन्ते, तथैवानभिसंहितफलानि नित्यनैमित्तिकानि योगिनमपि न निबध्नन्ति, निवर्तयन्ति च सञ्चितं दुरितमित्यभिप्रेत्याह— निर्द्वन्द्वो हीति। कर्मयोगिनो नित्यसंन्यासित्वज्ञानम् अन्यथाज्ञानत्वान्मिथ्याज्ञानमित्याशङ्क्याह— एवंविध इति। कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातुमुचितमित्यर्थः। रागद्वेषरहितस्यानायासेन बन्धप्रध्वंससिद्धेश्च युक्तं तस्य संन्यासित्व- मित्याह— निर्द्वन्द्व इति॥३॥
यदुक्तं संन्यासकर्मयोगयोर्निःश्रेयसकरत्वम् , तदाक्षिपति— संन्यासेति। तत्रोत्तरत्वेनोत्तरश्लोकमवतारयति— इति प्राप्त इति। विवेकिनस्तर्हि कथं वदन्तीत्याकाङ्क्षायामाह—एकमिति। संख्याम् आत्मसमीक्षामर्हतीति सांख्यः संन्यासः, योगस्तु कर्मयोगः, तावुभावपि पृथगित्यस्यार्थमाह—विरुद्धेति। शास्त्रार्थे विवेकशून्यत्वं बालत्वम्। उत्तरार्धमवतारयितुं भूमिकां करोति— पण्डितास्त्विति। ज्ञानिनो योगिनश्चेति शेषः। द्वयोरविरुद्धफलत्वमेव प्रश्नपूर्वकं प्रकटयति— कथमित्यादिना। एकं साधनमनुष्ठितवतो द्वयोरपि फलं भवतीति विरुद्धमित्याशङ्क्याह— उभयोरिति। सांख्ययोगयोः संन्यासकर्मानुष्ठानयोस्तत्त्वज्ञानद्वारा निःश्रेयसफलत्वान्न विरुद्धफलत्व- शङ्केत्यर्थः। आनन्दगिरिकृतव्याख्या कस्मादित्याह— ज्ञेय इति। ज्ञेयो ज्ञातव्यः स कर्मयोगी नित्यसंन्यासीति, यो न द्वेष्टि १किञ्चित् न काङ्क्षति दुःखं सुखं, तत्साधनं च। एवंविधो यः, कर्मणि वर्तमानोऽपि स नित्यसंन्यासीति ज्ञातव्य इत्यर्थः। निर्द्वन्द्वो द्वन्द्ववर्जितो हि यस्माद् महाबाहो! सुखं बन्धाद् अनायासेन प्रमुच्यते॥३॥
संन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेययोर्विरुद्धयोः फलेऽपि विरोधो युक्तः, न तूभयोर्निःश्रेयसकरत्वमेवेति प्राप्त इदमुच्यते— सांख्ययोगाविति। सांख्ययोगौ पृथग् विरुद्धभिन्नफलौ बालाः प्रवदन्ति, न पण्डिताः। पण्डितास्तु ज्ञानिन एकं फलमविरुद्धमिच्छन्ति। कथम्? एकमपि सांख्ययोगयोः सम्यगास्थितः सम्यगनुष्ठितवानित्यर्थः। उभयोर्विन्दते फलम्। उभयोस्तदेव हि निःश्रेयसं फलम्। अतो न फले विरोधोऽस्ति। भाष्यार्कप्रकाशः सुखं बन्धात् प्रमुच्यते। नित्यं सदा संन्यासोऽस्यास्तीति नित्यसंन्यासी। प्रसिद्धस्तु न सर्वदा संन्यासी, किन्त्वाश्रमस्वीकारानन्तरमेवेति भावः। एवं कर्मयोगिनो नित्यसंन्यासित्वादेव संन्यासाद् योगो विशिष्यते इत्युक्तम्। एतेन कर्मयोगिनाऽपि संन्यासिनेव रागद्वेषादि- द्वन्द्ववर्जितेन भाव्यमित्युपदेशः सूचितः। किं च सुखमित्यनेन च कर्मयोगस्य संन्यासाद् वैशिष्ट्यं सूचितम्। संन्यासे यमादीनां दुष्करत्वेन तस्य क्लेशावहत्वात्। प्रमुच्यत इति। परम्परयेति शेषः। ज्ञानोत्पत्तिद्वारेति यावत्॥३॥
सांख्येति। सांख्ययोगयोः शब्दतोऽर्थतश्च पार्थक्यसम्भवात् कथमपृथक्त्वम्? अत आह— विरुद्धेति। विरुद्धे अत एव भिन्ने फले ययोस्तौ तथोक्तौ। फलेऽभेदादपृथक्त्वमित्यर्थः। ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वो हि महाबाहो! सुखं बन्धात् प्रमुच्यते॥३॥
सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥४॥
१. ‘किञ्चित् न काङ्क्षति दुःखसुखे, तत्साधने च’ इति पा.।
[[२७३]]
ननु सांख्यशब्दस्य ज्ञानयोगाभिधायित्वात् प्रकृतसंन्यासस्य च ज्ञानहीनत्वात् कोऽयमप्रस्तुतप्रसङ्ग इति शङ्कते— नन्विति। अयमाशयः उत्तरपक्षस्य— यथा सांख्ययोगयोः साक्षात् क्रमेण च निःश्रेयससाधनत्वम् , तथा ज्ञानहीनसंन्यासकर्मयोगयोरपि परम्परया निःश्रेयससाधनत्वमेवेति नास्ति फलतो भेदस्तयोः, अनयोर्वा । य एव प्रकृतः संन्यासः स एव ज्ञानयुक्तो भवति सांख्यशब्दवाच्य इति न संन्यासादतिरिच्यते सांख्यम् , नापि योगात् कर्मयोग इति। ननु अर्जुनेन संन्यासस्य ज्ञानहीनसंन्यासत्वेनाभिप्रेतत्वेऽपि कर्मयोगस्य न ज्ञानशून्यत्वेनाभिप्रेतत्वं वक्तुं शक्यम् , ज्ञानशून्यकर्मानुष्ठानस्य कर्मयोगशब्दवाच्यत्वाभावात् , फलाभिसन्ध्यादिपूर्वककर्मानुष्ठानस्य च संसारहेतुत्वेन निःश्रेयसफलाभावात् , तादृशकर्माचरणस्य ज्ञानहीनसंन्यासाद् विशिष्टत्वस्य वक्तुमयुक्तत्वाच्च। एवं सति केवलं कर्मयोगमभिप्रेत्यार्जुनेन प्रश्नः कृतः तदुपायसमत्वबुद्धित्वादियुक्तः स एव योगशब्दवाच्य इति च भाष्यकारोक्तमसङ्गतम् , ‘ज्ञानोत्पत्तिहेतुत्वेन उभौ यद्यपि निःश्रेयसकरौ’ इति स्ववचनव्याघातश्चेति चेत्? मैवम् ; कर्मयोगोऽत्र कर्मानुष्ठानम् ; स च फलसङ्गादिवर्जित एवेति चित्तशुद्धिहेतुत्वेन निःश्रेयसफलक एव। अयमेव कर्मयोगः ‘सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते’ इति समत्वबुद्धिशमादिविशेषयुक्तःसन् योगशब्दवाच्य इति॥४॥
यदिति। सांख्यम् आत्मतत्त्वज्ञानम् , तद् येषामस्ति ते सांख्याः ज्ञानिनः। ज्ञानस्य च वेदान्तश्रवणाद्यधीनत्वात् , तत्र च संन्यासिनामेवाधिकारादाह—संन्यासिन[सिभिः] इति। योगः समत्वादिलक्षणः एषामस्तीति योगिनः। अर्शआद्यजन्तौ द्वावपि शब्दौ। स्वाभिप्रेतं च विशेषं संयोज्येत्युक्तम्। तमेव भगवतोऽभिप्रेतं दर्शयति— तावेव संन्यासकर्मयोगाविति॥४॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
भाष्यार्कप्रकाशः ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य सांख्ययोगयोः फलैकत्वं कथमिहाप्रकृतं ब्रवीति? नैष दोषः; यद्यपि अर्जुनेन संन्यासं कर्मयोगं च केवलमभिप्रेत्य प्रश्नः कृतः; भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददौ— सांख्ययोगाविति। तावेव संन्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ सांख्ययोगशब्दवाच्याविति भगवतो मतम्। अतो नाप्रकृतप्रक्रियेति॥४॥
एकस्यापि सम्यगनुष्ठानात् कथमुभयोः फलं विन्दत इत्युच्यते— यदिति। यत् सांख्यैः ज्ञाननिष्ठैः सांख्ययोगयोरेकफलत्ववचनं प्रकरणाननुगुणमिति शङ्कते— नन्विति। अप्रकृतत्वमसिद्धमिति परिहरति— नैष दोष इति। ‘संन्यासं कर्मणाम्’ इत्यादिना संन्यासं कर्मयोगं चाङ्गीकृत्य प्रश्ने, ‘संन्यासः कर्मयोगश्च’ इत्यादिना तथैव प्रतिवचने च, कथं सांख्ययोगयोरेकफलत्वमप्रकृतं न भवतीत्युच्यते? तत्राह— यद्यपीति। प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशेषानुप- पत्तिरित्याशङ्क्याह— भगवांस्त्विति। तदपरित्यागेनेत्यत्र तत्पदेन प्रष्ट्रा प्रतिनिर्दिष्टौ कर्मसंन्यासकर्मयोगावुच्येते। सांख्ययोगाविति शब्दान्तरवाच्यतया तयोरेव संन्यासकर्मयोगयोरत्यागेन स्वाभिप्रेतं च विशेषं संयोज्य भगवान् प्रतिवचनं ददाविति योजना। यदुक्तं ‘स्वाभिप्रेतं च विशेषं संयोज्य’ इति, तदेतद् व्यक्तीकरोति— तावेवेति। समबुद्धित्वादीत्यादिशब्देन ज्ञानोपायभूतः शमादिरादीयते। प्रकृतयोरेव संन्यासकर्मयोगयोरुपादाने फलितमाह— अत इति। ‘सांख्ययोगा’वित्यादिश्लोकव्याख्यानसमाप्तिः इतिशब्दार्थः॥४॥ प्रश्नपूर्वकं श्लोकान्तरमवतारयति— एकस्यापीति। केचिदेव तयोरेकफलत्वं पश्यन्तीत्याशङ्क्य , तेषामेव सम्यग्दर्शित्वम् , आनन्दगिरिकृतव्याख्या यत् सांख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्यति॥५॥
[[अ. ५. श्लो. ३-५]] [[२७४]]
एवं तर्हीति। सांख्यस्य साक्षान्मोक्षकारणत्वेन, योगस्य परम्परया मोक्षसाधनत्वेन चेति एवंशब्दार्थः। तर्हीति शङ्कार्थः। कथं तर्हि कथं वा ज्ञानहीनात् संन्यासात् कर्मयोग एव विशिष्यते? सुकरत्वादप्रमादत्वाच्च। सांख्यशब्दवाच्याज्ज्ञानसहितसंन्यासात्तु कर्मयोगो न विशिष्यते, किन्तु निकृष्यत एवेत्यर्थः। कर्मसंन्यासात् कर्मयोगो विशिष्यत इत्यत्र केवलसंन्यासकर्मयोगौ मया विवक्षितौ त्वत्प्रश्नानुगुण्याय। इह तु सांख्ययोगशब्दाभ्यां ज्ञानसहितसंन्यासकर्मयोगौ विवक्षितौ। यद्यपीदं त्वया न पृष्टं तथापि पृष्टादधिकस्यैव वक्तव्यत्वात् प्रियशिष्याय गुरुणा त इदमप्युक्तम्। ज्ञानसापेक्षः परमार्थसंन्यासः सांख्यशब्दार्थः। स एव परमार्थसंन्यास एव परमार्थयोगश्च भवति। एवं परमार्थतः संन्यास- योगयोः शब्दत एव भेदः, न त्वर्थतोऽपीति सिद्धम्। अथ यस्तु वैदिकः कर्मयोगः, स योग इति संन्यास इति चोपचर्यते, ‘ज्ञेयः स नित्यसंन्यासी’त्युक्तत्वात् इति। एतेन ‘एकं साङ्ख्यं च योगं च यः पश्यति स पश्यती’त्यस्य सांख्ययोगयोर्वस्तुत एकत्वादेकत्वज्ञानं सम्यग्ज्ञानमित्यर्थान्तरं च मूलस्य सिद्धम्। अत्रायं विवेकः— संन्यासयोगौ पारमार्थिकापारमार्थिकत्वभेदेन प्रत्येकं द्विविधौ। आत्मवित्कर्तृकः पारमार्थिकसंन्यासः, अनात्मवित्कर्तृकस्त्वन्यः। आत्मवित्कर्तृको लोकसंग्रहार्थः पारमार्थिको योगः, अनात्मवित्कर्तृकश्चित्तशुद्ध्यर्थस्त्वन्यः। तत्र यः पारमार्थिकः संन्यासः स पारमार्थिकयोगान्न भिद्यते, संन्यासिन इव योगिनोऽपि कर्तृत्वाद्यभिमानराहित्येन तत्कर्मणोऽकर्म- त्वस्योक्तत्वात्। अनात्मवित्कर्तृकृतौ संन्यासयोगौ च न भिद्येते, उभयोरनुष्ठात्रोः कर्तृत्वाद्यभिमानस्य सत्त्वाद्, यज्ञादीनामिव यमादीनामपि कर्मत्वाच्च। अत एव कर्मयोगेऽस्यान्तर्भावः समाधियोगस्य केवलसंन्यासिविषयस्येति। यद्वा पारमार्थिको ज्ञानहीनश्चेति संन्यासो द्विविधः। समत्वादिबुद्धियुक्तः केवलश्चेति कर्मयोगो द्विविधः। तत्र पारमार्थिकसंन्यासः सांख्यम् , समत्वादिबुद्धियुक्तः कर्मयोगः परमार्थयोग इति॥५॥
नेतरेषामित्याह—एकमिति।२तिष्ठत्यस्मिन् न च्यवते पुनरिति व्युत्पत्तिमाश्रित्याह— मोक्षाख्यमिति। योगशब्दार्थमाह— ज्ञानप्राप्तीति। ये हि जिज्ञासवः सर्वाणि कर्माणि भगवत्प्रीत्यर्थत्वेन तेषां फलाभिलाषमकृत्वा, ज्ञानप्राप्तौ बुद्धिशुद्धिद्वारेणोपायत्वेनानुतिष्ठन्ति, तेऽत्र योगा विवक्ष्यन्ते। अच्प्रत्ययस्य मत्वर्थत्वं गृहीत्वोक्तम्— योगिन इति। ‘सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतः, मायाविलासत्वात्। आत्मा त्वविक्रियोऽद्वितीयो वस्तुसन्’ इति ३प्रयोजकज्ञानं परमार्थज्ञानम्। तत्पूर्वकसंन्यासद्वारेण कर्मिभिरपि तदेव स्थानं प्राप्यमित्येकफलत्वं संन्यासकर्मयोगयोरविरुद्धमित्याह— तैरपीति। फलैकत्वे फलितमाह— अत इति॥५॥
यदि यथोक्तज्ञानपूर्वकसंन्यासद्वारा कर्मिणामपि श्रेयोऽवाप्तिरिष्टा, तर्हि संन्यासस्यैव श्रेयस्त्वं प्राप्तमिति चोदयति— एवं तर्हीति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् , तद् योगैरपि, ज्ञानप्राप्त्युपायत्वेनेश्वरे समर्प्य कर्माणि आत्मनः फलम् अनभिसन्धायानुतिष्ठन्ति ये, ते योगाः योगिनः, तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यत इत्यभिप्रायः। अत एकं सांख्यं च योगं च यः पश्यति फलैकत्वात् , स पश्यति सम्यक् पश्यतीत्यर्थः॥५॥१ एवं तर्हि योगात् संन्यास एव विशिष्यते। कथं तर्हीदमुक्तम्— ‘तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते’ १. रा.पाठे पञ्चमश्लोकसमाप्तिः ‘कथं तादर्थ्य’मित्यतःप्राग् भवति। २. स्थानशब्दस्येत्यादिः। ३. परमार्थज्ञानप्रयोजकत्वात् इदं ज्ञानमिह परमार्थज्ञानशब्देनोक्तम्। प्रपञ्चः सर्वोऽप्यवस्तुभूतो मायामात्र एव; आत्मा तु अविक्रियः एकः परमार्थः सन्निति प्रत्ययो ज्ञानं परमार्थज्ञानमित्युच्यते॥५॥
तत्पूर्वं संन्यासद्वारेण यदि गृहस्थानां श्रेयःप्राप्तिः, तर्हि संन्यास एव श्रेयानिति पूर्वोक्तं विस्मृत्य चोदयति— एवं
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[२७५]]
संन्यास इति। हे महाबाहो! संन्यासस्तु अयोगत आप्तुं दुःखम्। योगयुक्तो मुनिरचिरेण ब्रह्माधिगच्छति। दुःखमाप्तुमिति। दुर्लभ इत्यर्थः। मननाद् ध्यानात्। ननु कथं योगिनोऽचिराद् ब्रह्मप्राप्तिर्ज्ञाननिष्ठया व्यवधानादित्यत आह— ब्रह्म संन्यासमिति। कथं पारमार्थिकस्यापि संन्यासस्य ब्रह्मशब्दवाच्यतेत्यत्र हेतुमाह—परमात्मज्ञानलक्षणत्वादिति। परमात्मज्ञानं लक्षणं स्वरूपं यस्य तत्त्वात्। परमात्मज्ञानलक्षणे संन्यासे परमात्मवाचिब्रह्मशब्दप्रयोग औपचारिक इति भावः। एवं ब्रह्मशब्दस्य संन्यासे प्रयोगः श्रुतिसिद्ध इत्याह—न्यास इति। ब्रह्म ब्रह्मशब्दवाच्यः, न्यासः संन्यासः, परः सत्यादिसर्व- साधनोत्कृष्टः इति ब्रह्मा हिरण्यगर्भः हि यस्माद् , आहेति शेषः, तस्माद् न्यास एवावराणि तपांसि अत्यरेचयद् अतिचक्रामेत्यन्वयः। हिः प्रसिद्धाविति वा। ननु हिरण्यगर्भोक्त[त्व]मात्रेण कथं न्यासस्य सर्वातिशायित्वम्? अत आह— परो हि ब्रह्मेति। हि यस्माद् ब्रह्मा हिरण्यगर्भः परः सर्वोत्कृष्टः, आदिपुरुषत्वादिति भावः। यद्वा परः परमात्मरूप एव, न तु जीवः। यद्यप्यसौ हिरण्यगर्भो देहधारी, संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य ३प्रशस्यत्ववचनमनुचितमित्याह— कथं तर्हीति। पूर्वोक्तमेवाभिप्रायं स्मारयन् परिहरति— शृण्विति। कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम्। तदेव कारणं कथयति— त्वयेत्यादिना। केवलं विज्ञानरहितमिति यावत्। तयोरन्यतरः कः श्रेयानिति। इतिशब्दोऽध्याहर्तव्यः। त्वदीयं प्रश्नमनुसृत्य तदनुगुणं प्रतिवचनं ‘ज्ञानमनपेक्ष्य तद्रहितात् केवलादेव संन्यासाद् योगस्य विशिष्टत्व’मिति मयोक्तमित्याह— तदनुरूपमिति। ज्ञानापेक्षः संन्यासस्तर्हि कीदृगित्याशङ्क्याह— ज्ञानेति। तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते? तत्राह— यस्त्विति। तादर्थ्यात् परमार्थज्ञानशेषत्वादिति यावत्। तदेव तादर्थ्यं प्रश्नपूर्वकं प्रसाधयति— कथमित्यादिना। कर्मानुष्ठानाभावे बुद्धिशुद्ध्यभावात् परमार्थसंन्यासस्य सम्यग्ज्ञानात्मनो न प्राप्तिरिति व्यतिरेकमुपन्यस्य, अन्वयमुपन्यस्यति— योगेति। पारमार्थिकः सम्यग्ज्ञानात्मकः। सामग्र्यभावे कार्यप्राप्तिरयुक्तेति मत्वाऽऽह— दुःखमिति। योगयुक्तत्वं व्याचष्टे— वैदिकेनेति। ईश्वरस्वरूपस्य सविशेषस्येति शेषः। ब्रह्मेति व्याख्येयं पदमुपादाय व्याचष्टे— प्रकृत इति। तत्र ब्रह्मशब्दप्रयोगे हेतुमाह— परमात्मेति। लक्षणशब्दो गमकविषयः। संन्यासे ब्रह्मशब्दप्रयोगे तैत्तिरीयकश्रुतिं प्रमाणयति— न्यास इति। कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते? द्वयोरपि परत्वाविशेषादित्याह— ब्रह्म हीति। ब्रह्मशब्दस्य संन्यासविषयत्वे फलितं वाक् यार्थ-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इति? शृणु तत्र कारणम्। त्वया पृष्टं केवलं कर्मसंन्यासं कर्मयोगं चाभिप्रेत्य १तयोरन्यतरः कः श्रेयान्? (इति)। तदनुरूपं प्रतिवचनं मयोक्तम्— कर्मसंन्यासात् कर्मयोगो विशिष्यत इति, ज्ञानमनपेक्ष्य। ज्ञानापेक्षस्तु संन्यासः सांख्यमिति मयाऽभिप्रेतः। परमार्थयोगश्च स एव। यस्तु कर्मयोगो वैदिकः, स च तादर्थ्याद् योगः, संन्यास इति चोपचर्यते। कथं तादर्थ्यमित्युच्यते— संन्यास इति। संन्यासस्तु पारमार्थिकः, हे महाबाहो ! दुःखम् आप्तुं प्राप्तुम् अयोगतो योगेन विना। योगयुक्तो वैदिकेन कर्मयोगेनेश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तो मुनिः मननादीश्वरस्वरूपस्य मुनिः, ब्रह्म परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासो ब्रह्मोच्यते— ‘न्यास इति ब्रह्म, ब्रह्म२ हि परः’(द्र.म.ना.उ.७८) इति श्रुतेः। ब्रह्म परमार्थसंन्यासं परमात्मज्ञाननिष्ठालक्षणं नचिरेण क्षिप्रमेव १. ‘तयोर्यच्छ्रेयस्तन्मे ब्रूहीति’ इति पा.। २. भाष्ये ‘इति ब्रह्मा ब्रह्मा हि’ इति, टीकाप्रतीके च ‘ब्रह्मा हीति’ इति पा.। ३. ‘प्रशस्तत्व’ इति पा.। तर्हीति। पूर्वोक्तमेवाभिप्रायं स्मारयन् परिहरति— शृणु तत्र कारणमित्यादिना॥६॥
संन्यासस्तु महाबाहो ! दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[अ. ५. श्लो. ५-६]] [[२७६]]
तथापि पर इति वक्तुं शक्यते, तच्छिष्यत्वेन तत्समानज्ञानत्वात्। अत एव श्वेताश्वतरा आमनन्ति— ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति। इयं श्रुतिस्तैत्तिरीयकविद्यारण्यभाष्ये ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मे’त्येव दृश्यते। ‘न्यास एवोत्तमो मोक्षहेतुरिति ब्रह्मा हिरण्यगर्भो मन्यते’ इत्येवं विद्यारण्यैर्व्याख्याता च। तद्रीत्या तु न्यासे ब्रह्मशब्दप्रयोगं प्रति प्रमाणतया नेयं श्रुतिरुदाहर्तव्या। किन्तु , ‘मुक्तिहेतुत्वाच्चे’ति भाष्ये१ पूरणीयम्। संन्यासो मुक्तिहेतुत्वाच्च ब्रह्मेत्युच्यते। मुक्तेर्ब्रह्मस्वरूपत्वात् तद्धेतौ तत्पदप्रयोग औपचारिकः। नेत्रानन्दश्चन्द्र इतिवदिति भावः। ननु कथं न्यासस्यैव मोक्षहेतुत्वम् , सत्यतपःशमदमादीनां सत्त्वादिति शङ्कायाम् , न्यास एक एव मोक्षहेतुर्नान्य इत्यत्र श्रुतिं पठति— न्यास इति। इति भाष्यं व्याख्येयम्। श्रुतौ ‘ब्रह्मा हि परः परो हि ब्रह्मे’ति द्विरुक्तिः ‘तत्त्वमसि त्वं तदसी’तिवद् दार्ड्यायेति कैश्चिदुच्यते। ब्रह्मा न्यासो मोक्षहेतुरिति मन्यते, स च परो हि परमात्मरूपो हि, परो हि परमात्मैव ब्रह्मा हिरण्यगर्भ इति वक्तुं शक्यते’ इति विद्यारण्यस्वामिनः। ‘तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्युत्तरवाक्यं श्रुतेः। अवराणि न्यासापेक्षया अल्पानि तपांसि सत्य- दमादीनि। सत्यादीनां साक्षान्मोक्षहेतुत्वाभावात् , स्वर्गादिक्षयिष्णुपुरुषार्थहेतुत्वाच्च तेभ्यो न्यासस्य साक्षान्मोक्षहेतोरुत्कर्ष इति भावः। अत इति। योगस्य पारमार्थिकसंन्यासप्राप्त्युपायत्वादित्यर्थः। ननु संन्यासोऽपि केवलस्तादृश एवेति कथं कर्मयोगस्य विशिष्टत्वमिति चेत् , सत्यम् , तथापि योगयुक्तस्य पारमार्थिकसंन्यासप्राप्तिरचिरेणैव भवेद् , अन्यस्य तु चिरेणेति केवलसंन्यासापेक्षया कर्मयोगस्य चित्तशुद्धिं प्रत्यन्तरङ्गसाधनत्वमिति भावः। केवलसंन्यासिनः विषयप्रवृत्तिस्वभावस्य मनसः प्राणायामादिना स्ववशीकरणं चिरकालसाध्यम् , योगिनस्तु कामादित्यागात् सुलभमिति गूढाभिसन्धिः। अस्य श्लोकस्य योगयुक्तः पुमानचिरेणैव मुनिः संन्यासी भूत्वा ब्रह्म परमं पदमधिगच्छतीत्यप्यन्वयः सुवचः। योगादचिरादेव पारमार्थिकसंन्यासलाभस्ततो ब्रह्मप्राप्तिरित्यर्थः। न चिरेणेति नञर्थकनशब्देन सह समासः। न चिरेणेति पदद्वयमिति वा, चिरेण ब्रह्म नाधिगच्छति, किन्त्वचिरेणैवेत्यर्थः। अस्मिन् पक्षे चिरेणापि नाधिगच्छतीत्यपार्थप्रतीतिः स्यादिति समासपक्ष एवोचितः। ननु अयोगतः संन्यासो दुर्लभ इत्यनेनैव योगतः संन्यासः सुलभ इति सिद्धत्वाद् व्यर्थं श्लोकस्योत्तरार्धमिति चेत्? मैवम् ; यस्माद् योगिनः संन्यासः सुलभस्तस्मादयोगतः संन्यासो दुर्लभ इति हेतुहेतुमद्भावस्य पूर्वोत्तरार्धयोर्विवक्षितत्वात्। अत एव अयोगत इत्यस्य ‘योगेन विने’त्यर्थः उक्त आचार्यैर्न तु योगरहितस्येति। यस्मादयोगतः संन्यासो दुर्लभस्तस्माद् योगयुक्तः संन्यासं लभत इति वा हेतुहेतुमद्भावो बोध्यः। ननु योगयुक्त एव संन्यासमाप्नोति, न तु योगरहित इत्यनेन योगसाहित्यं संन्यासस्य सिद्धमिति चेत्? मैवम् ; कर्मानुष्ठानलक्षणयोगस्य कर्मसंन्यासलक्षणसंन्यासस्य च साहित्यासम्भवात् , तेजस्तिमिरवत्। न च - नायं कर्मत्यागलक्षणः संन्यासः, किन्तु पारमार्थिकः परमात्मज्ञानलक्षण इति - वाच्यम् ; परमात्मज्ञाननिष्ठालक्षणसंन्यासस्यैव सर्वकर्मत्यागरूपत्वात्। न ह्यज्ञः सर्वं कर्म त्यक्तुं शक्नुयात् , देहादितादात्म्याध्यासेन तस्य कर्ताऽहमिति विपरीतबुद्धिसत्त्वात्। तूष्णीं तिष्ठामीति विपरीत- बुद्धिविषयस्यापि तूष्णीम्भावस्य कर्मत्वस्य सिद्धान्तितत्वात्। तस्माद् येन योगो युक्तः स चित्तशुद्धिद्वारा ज्ञानं प्राप्य, योगं संन्यस्यैव पारमार्थिकसंन्यासमाप्नोतीति सर्वमनवद्यम्। यत्तु रामानुजः— कर्मयोगयुक्तस्यात्मप्राप्तिः सुलभा, ज्ञानयोगयुक्तस्य तु कष्टसाध्येति, तत्तुच्छम् , आत्मप्राप्तिः किं मुक्तिरुत अधिगच्छति प्राप्नोति। अतो मयोक्तम्— ‘कर्मयोगो विशिष्यते’ इति॥६॥
माह— ब्रह्मेत्यादिना। नद्याः स्रोतांसीव निम्नप्रवणानि, कर्मभिरतितरां परिपक्वकषायस्य करणानि सर्वतो व्यावृत्तानि निरस्ताशेषविशेष- कूटस्थप्रत्यगात्मान्वेषणप्रवणानि भवन्तीति। कर्मयोगस्य परमार्थसंन्यासप्राप्त्युपायत्वे फलितमाह— अत इति॥६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. भाष्ये परमात्मज्ञाननिष्ठालक्षणत्वात् इत्यस्यानन्तरं ‘मुक्तिहेतुत्वाच्च’ इति पूरणीयमित्यर्थः।
[[२७७]]
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥
ज्ञानम्? नाद्यः, कर्मणा मुक्त्ययोगात्। आत्मप्राप्तेर्मुक्तित्वेन त्वयाऽनभ्युपेतत्वाच्च। द्वितीये, यदात्मज्ञानं कर्मयोगसुप्रापं तद्योगस्यैव ज्ञानयोगत्वेन कथं ज्ञानयोगदुष्प्रापत्वं ज्ञानस्य? न च - ज्ञानयोगगतं ज्ञानं परोक्षम् , कर्मयोगप्राप्यं त्वपरोक्षमिति - वाच्यम् ; परोक्षज्ञानं विना अपरोक्षज्ञानालाभात् , तथापि ज्ञानयोगसुप्रापमेवापरोक्षज्ञानम्। कर्मयोगस्तु परोक्षज्ञानमुत्पाद्य तत एवापरोक्षं जनयेदिति बहिरङ्गसाधनमेवेत्यलम्॥ ६॥
योगेति। योगयुक्तः पुरुषः विशुद्धात्मा विजितात्मा जितेन्द्रियश्च भूत्वा सर्वभूतात्मभूतात्मा च भूत्वा कुर्वन्नपि न लिप्यते। योगिनो योगवशान्मनःशरीरेन्द्रियजयानन्तरमात्मतत्त्वज्ञानं जायते, स ततः कर्म कुर्वन्नपि न लिप्यत इत्यर्थः। सर्वभूतेति। यः स्वस्यात्मा प्रत्यक् चेतनः स एव सर्वभूतानामप्यात्मेति यो मन्यते स सर्वभूतात्मभूतात्मेत्युच्यते। इदं च ज्ञानं ब्रह्मात्माभेदज्ञानाद् भवति, न त्वन्यथा। ततश्च अहं ब्रह्मास्मीति सम्यग्दर्शनवान् सर्वभूतात्मभूतात्मेत्युच्यत इत्यभिप्रेत्याह— सम्यग्दर्शीत्यर्थ इति। तत्रैवेति। सम्यग्दर्शन एवेत्यर्थः। कर्मबन्ध एव कर्मलेप इत्याह— न कर्मभिर्बध्यत इति। कुतोऽस्य कर्तुरलेप इत्यत आह— न चेति। परमार्थत आत्मनोऽकर्तृत्वान्नायमात्मवित् कर्ता भवति, आत्मविद एवात्मत्वादिति भावः। यत्तु रामानुजः— सर्वभूतेति विशेषणेन ज्ञानैककारतया सर्वात्मनां साम्यमुच्यत इति, तत्तुच्छम् , मूलकारानभिप्रेतत्वा- दस्यार्थस्य। यदि मूलकर्तुः सोऽभिप्रायस्तर्हि ‘सर्वभूतात्मतुल्यात्मे’त्येव ब्रूयात्। किञ्च व्यर्थ एवायं सर्वात्मनां स्वरूपतौल्योपदेशः, सर्वदेहानां भौतिकत्वेन तुल्यत्वोपदेशवत्। नाप्यत्यन्तसाम्ये वक्तुं भेदोऽपि युज्यते, भेदकविशेषस्यैवाभावात्। यदि तूपाधितो भेद इति, तर्हि सिद्धमात्मैकत्वम् , घटाद्युपाधिभेदे सत्यप्याकाशैक्यवत्। किञ्च यदिदमात्मनः आकारत्वेनोच्यते ज्ञानम् , किं तच्चैतन्यम् अथवा वृत्तिः? न द्वितीयः, तस्य मनोजन्यत्वात्। आद्ये, चैतन्यस्य सर्वविशेषविलयसाक्षित्वं सुषुप्त्याद्यनुभवसिद्धम्। तस्य च निर्विशेषपरिपूर्णापरिच्छिन्नचैतन्यस्य कथं भेदसिद्धिः, भेदक- स्यैवाभावात्। अत एव हि ‘एकमेवाद्वितीयं ब्रह्मे’त्युपदिश्यते श्रुत्या। तस्मादलं भेदवादेन भयहेतुना ‘द्वितीयाद्वै भयं भवती’ति श्रुतेः॥७॥
नैवेति। तत्त्वविद् युक्तःसन् पश्यन् , शृण्वन् , स्पृशन् , जिघ्रन् , अश्नन् , गच्छन् , स्वपन् , श्वसन् , प्रलपन् , विसृजन् , ननु पारिव्राज्यं परिगृह्य श्रवणादि साधनमसकृदनुतिष्ठतो लब्धसम्यग्बोधस्यापि यथापूर्वं कर्माण्युपलभ्यन्ते; तानि च बन्धहेतवो भविष्यन्तीत्याशङ्क्य श्लोकान्तरमवतारयति— यदा पुनरिति। सम्यग्दर्शनप्राप्त्युपायत्वेन यदा पुनरयं पुरुषो योगयुक्तत्वादिविशेषणः सम्यग्दर्शी सम्पद्यते, तदा प्रातिभासिकीं प्रवृत्तिमनुसृत्य कुर्वन्नपि न लिप्यते इति योजना। योगेन नित्यनैमित्तिककर्मानुष्ठानेनेति यावत्। आदौ नित्याद्यनुष्ठानवतो रजस्तमोमलाभ्यामकलुषितं सत्त्वं सिध्यतीत्याह—विशुद्धेति। बुद्धिशुद्धौ कार्यकरणसङ्घातस्यापि स्वाधीनत्वं भवतीत्याह— विजितेति। तस्य यथोक्तविशेषणवतो जायते सम्यग्दर्शित्वमित्याह— सर्वभूतेति। सम्यग्दर्शिनस्तर्हि कर्मानुष्ठानं कुतस्त्यम्? तदनुष्ठाने वा कुतो बन्धविश्लेषसिद्धिरित्याशङ्क्याह— स तत्रेति। सम्यग्दर्शनं सप्तम्यर्थः॥७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन— योगेति। योगेन युक्तो योगयुक्तः विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो, जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा। सम्यग्दर्शीत्यर्थः। स तत्रैवं वर्तमानो लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते न कर्मभिर्बध्यत इत्यर्थः॥७॥
[[अ. ५. श्लो. ६-७]] [[२७८]]
गृह्णन् , उन्मिषन् , निमिषन्नपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्त इति धारयन् सन् ‘अहं किञ्चिन्न करोम्येव’ इति मन्येत इति श्लोकद्वयान्वयः। दर्शनं चक्षुरिन्द्रियकर्म, न त्वात्मनः। श्रवणं श्रोत्रेन्द्रियकर्म, स्पर्शनं त्वगिन्द्रियस्य कर्म, घ्राणं घ्राणेन्द्रियस्य कर्म, अशनं वक्त्रस्य, गमनं पादस्य, स्वपनमन्तःकरणस्य, अन्तःकरणोपरमस्यैव स्वापत्वात् , श्वसनं प्राणवायोः, प्रलपनं वागिन्द्रियस्य, विसर्जनं पायोः, ग्रहणं हस्तयोः, उन्मेषनिमेषौ पक्ष्मणोः-इति विवेकः॥८॥
इन्द्रियार्था विषया दर्शनादयः रूपादयो वा। कर्मस्वकर्मैव पश्यत इति। ‘कर्मण्यकर्म यः पश्येदि’त्युक्तरीत्येति भावः। सम्यग् यथावदात्मानं पश्यतीति सम्यग्दर्शी, तस्य। कुतोऽस्य कर्मस्वनधिकार इत्यत आह— कर्मण इति। तत्त्वविद् दृष्ट्या कर्मणामभावादेव कर्मस्वनधिकार इत्यर्थः। तत्रैव दृष्टान्तमाह— यथेति। मृगतृष्णिकायामुदकमिवात्मनि कर्म अज्ञानवशात् प्रतीतम्। ततस्तत्राज्ञः प्रवर्तते। यस्तु मृगतृष्णिकायामुदकाभावमिव आत्मनि कर्माभावं वेत्ति, स कथं तत्र प्रवर्तेत? न कथमपीत्यर्थः। एतेन यः ‘अहङ्करोमी’ति मन्यते, तस्यैव कर्माधिकार इति सिद्धम्। ननु दर्शनादिकर्माणि कुर्वन्नपि न करोमीति यो मन्यते, स हि मिथ्याज्ञानीति चेत्? मैवम् ; यथोक्तदर्श्येवायम् , आत्मदृष्ट्या कर्माभावात् , यानि कर्माणि कुर्वन्ति तेषां देहेन्द्रियादीनामनात्मत्वाच्च। ननु तर्हि कथं पश्यन्नित्यादिकमुक्तमिति चेत्? लोकदृष्ट्येति विद्धि। लोकदृष्ट्या कर्माणि कुर्वन्निव प्रतीयमानोऽपि वस्तुतो न करोतीत्यर्थः। उक्तं हि विश्वामित्रेणाध्यात्मरामायणे— ‘रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित्। कर्माण्यङ्गीकृत्य तैरस्य विदुषो बन्धो नास्तीत्युक्तम् । इदानीं वस्तुतस्तस्य कर्माण्येव न सन्तीत्याह— न चेति। लोकदृष्ट्या विदुषोऽपि कर्माणि सन्तीत्याशङ्क्य स्वदृष्ट्या तदभावमभिप्रेत्याह— नैवेति॥८॥
सार्धं समनन्तरश्लोकमाकाङ्क्षापूर्वकमुत्थापयति— कदेत्यादिना। चक्षुरादिज्ञानेन्द्रियैर्वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैरन्तः- करणचतुष्टयेन च तत्तच्चेष्टानिर्वर्तनावस्थायां तत्तदर्थेषु सर्वा प्रवृत्तिरिन्द्रियाणामेवेत्यनुसन्दधानो ‘नैव किञ्चित् करोमी’ति विद्वान् प्रतिपद्येत इत्यर्थः। यथोक्तस्य विदुषो विध्यभावेऽपि विद्यासामर्थ्यात् प्रतिपत्तिकर्मभूतं कर्मसंन्यासं फलात्मकमभिलषति२— यस्येति। अज्ञस्येव विदुषोऽपि कर्मसु प्रवृत्तिसम्भवात् कुतः संन्यासेऽधिकारः स्यादित्याशङ्क्याह— न हीति॥९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्। पश्यञ्शृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन् स्वपञ्श्वसन्॥८॥
प्रलपन् विसृजन् गृह्णन्नुन्मिषन् निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥
न चासौ परमार्थतः करोतीत्यतः— नैवेति। नैव किञ्चित् करोमीति युक्तः समाहितः सन् मन्येत चिन्तयेत् तत्त्वविद् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्। परमार्थदर्शीत्यर्थः॥८॥
कदा कथं वा तत्त्वमवधारयन् मन्येतेत्युच्यते— पश्यन्निति। मन्येतेति पूर्वेण सम्बन्धः। १यस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मस्वकर्मैव पश्यतः सम्यग्दर्शिनः तस्य सर्वकर्मसंन्यास एवाधिकारः, कर्मणोऽभावदर्शनात्। न हि मृगतृष्णिकायामुदकबुद्ध्या पानाय प्रवृत्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते॥९॥
१. ‘तस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मस्वकर्मैव पश्यतः सम्यग्दर्शिनः सर्वकर्मसंन्यास एवाधिकारः’ इति पा.। २. ‘अभिलपति’ इति पा.।
[[२७९]]
आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति’ इति। न च परमात्मविषयं तदिति वाच्यम् ; आत्मत्वात् परमात्मनः। न आत्मनोऽन्यः कश्चित् परमात्मा नामास्ति, ‘एकमेवाद्वितीयं ब्रह्मे’त्यादिश्रुतिविरोधात्॥९॥
ब्रह्मणीति। यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति, सः अम्भसा पद्मपत्रमिव पापेन न लिप्यते। ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्वविदि’त्यस्य ‘कर्माणि करोती’त्यस्य च एकपुरुषविषयत्वासम्भवादाह— यस्तु पुनरतत्त्वविदिति। आधाय न्यस्य, समर्प्येति यावत्। पापेन न लिप्यत इत्येवोक्तम् , न तु ब्रह्म प्राप्नोतीति। अत आह— केवलमिति। तस्येति। ईश्वरार्पणबुद्ध्या निःसङ्गं कृतस्येत्यर्थः। यत्तु रामानुजः— ब्रह्मणि इन्द्रियाकारेणावस्थितायां प्रकृतौ कर्माण्याधायेति, तत्तुच्छम् ; इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्नित्यनेन पौनरुक्त्यात्॥१०॥
कायेनेति। ‘कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेःस्वभावात्। करोमि यत्तत् सकलं परस्मै नारायणायेति समर्पयामी’ति सर्ववैदिकजनेन सन्ध्यावन्दनाद्यन्तेषु पठ्यमानस्य श्लोकस्य मूलभूतोऽयम्। सङ्कल्पविकल्पात्मकं मनः, अध्यवसाया- त्मिका बुद्धिरिति विवेकः। ममत्वबुद्धिशून्यैरिति। कर्तृगता ममत्वबुद्धिः करणेष्वारोपिता। अथवा ममत्वबुद्ध्यप्रयुक्तैरित्यर्थः। अत एवाह— ममत्ववर्जिता इति। तत्रैवेति। न तु साङ्ख्ये इत्येवकारार्थः॥११॥
युक्त इति। निष्ठायां ज्ञाननिष्ठायामित्यर्थः। ननु कथं ज्ञाननिष्ठाभवमोक्षस्य कर्मयोगेन सिद्धिरत आह— सत्त्वशुद्धीति। तर्हि विद्वानिवाविद्वानपि कर्मणि न प्रवर्तेत, पापोपहतिसम्भवादित्याशङ्क्याह— यस्त्विति। यथा भृत्यः स्वाम्यर्थं कर्माणि करोति, न स्वफलमपेक्षते, तथैव योऽविद्वान् मोक्षेऽपि सङ्गं त्यक्त्वा भगवदर्थमेव सर्वाणि कर्माणि करोति, न स २कर्मणा बध्यते। न हि पद्मपत्रमम्भसा सम्बध्यते, तद्वदित्यर्थः॥१०॥
अविदुषस्तर्हि कृतेन कर्मणा किं स्यादित्याशङ्क्याह— केवलमिति। अज्ञस्येश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धिफलमित्यत्रैव हेतुमाह— यस्मादिति। केवलशब्दस्य प्रत्येकं सम्बन्धे प्रयोजनमाह— सर्वव्यापारेष्विति। कर्मणश्चित्तशुद्धिफलत्वे तादर्थ्येन कर्मानुष्ठान-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥१०॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥११॥
यस्तु पुनरतत्त्ववित् प्रवृत्तश्च कर्मयोगे— ब्रह्मणीति। ब्रह्मणि ईश्वरे आधाय निक्षिप्य तदर्थं कर्म करोमीति, भृत्य इव स्वाम्यर्थम् , सर्वाणि कर्माणि मोक्षेऽपि फले सङ्गं त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न सम्बध्यते, पद्मपत्रमिव अम्भसा उदकेन॥१०॥
१केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात् । यस्मात्— कायेनेति। कायेन देहेन मनसा बुद्ध्या च केवलैः ममत्ववर्जितैः ‘ईश्वरायैव कर्म करोमि, न मम फलाय’ इति ममत्वबुद्धिशून्यैरिन्द्रियैरपि। केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते सर्वव्यापारेषु ममतावर्जनाय। योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धय इत्यर्थः। तस्मात् तत्रैव तवाधिकार इति कुरु कर्मैव॥११॥
१. ‘केवलं सत्त्वशुद्धिमात्रमेव फलं तस्य कर्मणः स्यात्’ इति पा.। २. ‘स्वकर्मणा’ इति पा.।
[[अ. ५. श्लो. ८-११]] [[२८०]]
कर्मयोगात् सत्त्वशुद्धिः, ततः परोक्षज्ञानप्राप्तिः, ततः सर्वकर्मसंन्यासः, ततोऽपरोक्षज्ञाननिष्ठा, ततो विदेहकैवल्यात्मको मोक्ष इत्यर्थः। वाक्यशेष इति। येनार्थः परिसमाप्यते पदेना[ध्या]हार्येण, स वाक्यशेष इत्युच्यते। असमाहित इति। फलाशाविक्षिप्तचित्त इत्यर्थः। कामकारः, कामस्य आशायाः कारः करणं कामकारः, तेन फलाशायुक्तत्वेनेत्यर्थः। निबध्यते कर्मभिर्जन्मादिरूपं संसारं प्राप्यत इत्यर्थः। किमनेन श्लोकेनोपदिष्टमर्जुनायेत्यत आह— अत इति। योगेन मुक्तिसत्त्वादयोगेन बन्धसत्त्वाच्चेत्यर्थः। त्वमिति मुक्तिकाम इत्यर्थः ॥१२॥
सर्वेति। युक्त इत्यनेन पूर्वश्लोकस्य योगिपरत्वनिश्चयात् , संन्यस्येत्यनेनास्य श्लोकस्य साङ्ख्यपरत्वनिश्चयाच्च सांख्ययोगयो- रुभयोरेकपुरुषाननुष्ठेयत्वादाह— यस्तु परमार्थदर्शी स इति। सर्वकर्माणि मनसा संन्यस्य वशी सन् , नैव कुर्वन् न कारयंश्च सन् नवद्वारे पुरे देहे सुखमास्ते। मनसेति न करणे तृतीया, कर्मत्यागं प्रति मनसोऽकरणत्वात् , अत आह— विवेकबुद्ध्येति। मनःशब्दोऽत्र स्ववृत्तिरूपविवेकज्ञानं लक्षणया बोधयतीति भावः। ततश्च हेतौ तृतीयेति बोध्यम्। मनःपूर्वकत्वाद् वाक्कायचेष्टयोस्ताभ्यामपि मनस मेव तव कर्तव्यमिति यस्मादित्यस्यापेक्षितं वदन् फलितमाह— तस्मादिति॥११॥
इतश्च सङ्गं त्यक्त्वा कर्मानुष्ठानं त्वया कर्तव्यमित्याह— यस्माच्चेति। युक्तः सन् फलं त्यक्त्वा कर्म कुर्वन् मोक्षाख्यां शान्तिं यस्मादाप्नोति तस्माच्च त्वया सङ्गं त्यक्त्वा कर्म कर्तव्यमिति योजना। विपक्षे दोषमाह— अयुक्त इति। युक्तत्वं व्याकरोति— ईश्वरायेति। फलं परित्यज्य कर्म कुर्वन्निति शेषः। नैष्ठिकी शान्तिरित्येतदेव विशदयति— सत्त्वेति। द्वितीयमर्धं विभजते— यस्त्विति। असमाधाने दोषादर्जुनस्य नियोगं दर्शयति— अतस्त्वमिति॥१२॥
तर्हि फले सक्तिं त्यक्त्वा सर्वैरपि कर्म कर्तव्यमिति कर्मसंन्यासस्य निरवकाशत्वमित्याशङ्क्य, अविदुषः सकाशाद् विदुषो विशेषं दर्शयति— यस्त्विति। सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति— आस्त इति। वृत्तिं लभमानोऽपि शरीरतापेनाध्यात्मिकादिना तप्यमानस्तिष्ठतीति चेत्? नेत्याह— सुखमिति। कार्यकरणसङ्घातपारवश्यं पर्युदस्यति— वशीति। आसनस्यापेक्षितमधिकरणं निर्दिशति — नवेति। देहसम्बन्धाभिमानाभासवत्त्वमाह— देहीति। मनसा सर्वकर्मसंन्यासेऽपि लोकसंग्रहार्थं बहिः सर्वं कर्म कर्तव्यमिति प्राप्तं प्रत्याह— नैवेति। तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि— नित्यमिति। तेषां परित्यागे हेतुमाह— तानीति। यदुक्तं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यस्माच्च—युक्त इति। युक्तः ‘ईश्वराय कर्माणि करोमि, न मम फलाये’त्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवाम् , सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः। यस्तु पुनः अयुक्तोऽसमाहितः कामकारेण करणं कारः, कामस्य कारः कामकारस्तेन कामकारेण। कामप्रेरिततयेत्यर्थः। ‘मम फलायेदं करोमि कर्म’ इत्येवं फले सक्तो निबध्यते। अतः त्वं युक्तो भवेत्यर्थः॥१२॥
यस्तु परमार्थदर्शी सः— सर्वेति। सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य, नित्यं, नैमित्तिकं, काम्यं, प्रतिषिद्धं च सर्वकर्माणि, तानि मनसा विवेकबुद्ध्या कर्मादावकर्मसंदर्शनेन सन्त्यज्येत्यर्थः। आस्ते तिष्ठति सुखं युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबध्यते॥१२॥
सर्वकर्माणि मनसा संन्यस्याऽऽस्ते सुखं वशी। नवद्वारे पुरे १देही नैव कुर्वन्न कारयन् ॥१३॥
१. ‘देहे’ इति पा.।
[[२८१]]
आयासो भवेदिति कृत्वा आह— त्यक्तवाङ्मनःकायचेष्ट इति। वाक् चेष्टा भाषणं, मनश्चेष्टा आलोचनं, कायचेष्टा गमनादिकम्। प्रसन्नं शान्तं चित्तं यस्य स प्रसन्नचित्तः। आत्मनोऽन्यत्र आत्मभिन्नेषु सर्वेषु बाह्येषु विषयेषु प्रयोजनं यस्य निवृत्तं स निवृत्तसर्वबाह्यप्रयोजनः। अथवा निवृत्तानि सर्वाणि बाह्यानि प्रयोजनानि यस्य स तथोक्तः। आत्मैकप्रयोजन इति यावत्। नव द्वाराणि यस्य तत् नवद्वारम् , तस्मिन् नवद्वारे। नव द्वाराण्याह— सप्तेति। आत्मनः पुरुषस्य शीर्षण्यानि शिरोगतानि उपलब्धिद्वाराणि शब्दादिज्ञानसाधनानि सप्त — श्रोत्रे, चक्षुषी, नासे, वक्त्रं चेति। अर्वाग् अधोभागे मूत्रपुरीषयोर्विसर्गः त्यागः अर्थः प्रयोजनं कार्यं वा ययोस्ते द्वे , द्वारे इति शेषः। मिलित्वा नव द्वाराणीति भावः। कथं शरीरस्य नवद्वारपुरत्वम् , तद्धि पत्तनधर्मः? अत आह— पुरमिव पुरमिति। गौणोऽयं प्रयोगः, सिंहो माणवक इतिवत् पुरे देहे इति। यथा पुरस्य नवद्वारत्वं तथा देहस्यापीति साम्यं स्फुटम्। कोऽस्य देहपत्तनस्य स्वामी अत आह— आत्मेति। आत्मा एक एव स्वामी यस्य तत् आत्मैकस्वामिकम्। ननु पुरे पौराःसन्ति, अत्र देहे तु के पुनः पौरस्थानीयाः? अत आह— तदर्थेत्यादि। तस्मै आत्मने इदं तदर्थं प्रयोजनं येषां तैस्तदर्थप्रयोजनैः अनेकेषां फलानां विज्ञानस्य, अनेकफलस्य विविधज्ञानस्येति वा, उत्पादकैः। इन्द्रियमनोबुद्धयः विषयाश्च तैरेव पौरेरधिष्ठितम्। ननु देहे सर्वं कर्म संन्यस्यास्ते इति विशेषणेन विशेषवचनेन किम्? इति शङ्कते— किमिति। कुतो विशेषणस्य वैयर्थ्यम्? अत आह— सर्व इति। यथा संन्यासी देहे आस्ते, तथा असंन्यास्यपि देहे एवास्ते। तत्रैवं सति देहे इति विशेषणमनर्थकमिति प्रश्नः। उत्तरमाह— यस्त्विति। कोऽसावज्ञः? अत आह— देहेति। देहेन्द्रियसङ्घातरूपमेवात्मानं पश्यति, न तु तद्भिन्नं यः सोऽयमज्ञः। आसे तिष्ठामि। कुतस्तथा मन्यते? अत आह— न हीति। यो देहमेवात्मानं मन्यते, स हि यत्र देहः आस्ते तत्रैवाहमास इति मन्यते, देहस्यैवात्मत्वात्। देहश्च भूम्यादिषु वर्तते, न तु देहे, आधाराधेयभावस्य द्विनिष्ठत्वेन एकस्यैव देहस्य आधारत्वमाधेयत्वं भाष्यार्कप्रकाशः १. ‘निवृत्तसर्वबाह्यप्रयोजनः’ इति पा.। २. ‘अवाग् द्वे’ इति पा.। ३. ‘देहे जीवनत्वाद्’ इति पा.। ४. ‘उपपादयति’ इति पा.। त्यक्तवाङ्मनःकायचेष्टो यतिः निरायासः प्रसन्नचित्तः, आत्मनोऽन्यत्र १निवृत्तबाह्यसर्वप्रयोजनः इति सुखमास्ते इत्युच्यते। वशी जितेन्द्रिय इत्यर्थः। क्व कथमास्ते? इत्याह— नवद्वारे पुरे। सप्त शीर्षण्यान्यात्मनः उपलब्धिद्वाराणि, २अर्वाग् द्वे मूत्रपुरीषविसर्गार्थे, तैः द्वारैर्नवद्वारं पुरमुच्यते शरीरम् , पुरमिव पुरम् आत्मैकस्वामिकं तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः पौरैरिवाधिष्ठितम्। तस्मिन् नवद्वारे पुरे देही सर्वं कर्म संन्यस्य आस्ते। किं विशेषणेन? सर्वो हि देही संन्यास्यसंन्यासी वा देह एवास्ते, तत्रानर्थकं विशेषणमिति। उच्यते— यस्त्वज्ञो देही देहेन्द्रियसङ्घातमात्रात्मदर्शी स सर्वोऽपि ‘गेहे भूमावासने वा आसे’ इति मन्यते। न हि आनन्दगिरिकृतव्याख्या सुखमास्त इति, तदुपपादयति— त्यक्तेति। जितेन्द्रियत्वं कायवशीकारस्याप्युपलक्षणम्। द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेकेति सप्त शीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि। अथापि कथं नवद्वारत्वम्? अधोगताभ्यां पायूपस्थाभ्यां सहेत्याह— अर्वागिति। शरीरस्य पुरसाम्यं स्वामिना पौरैश्चाधिष्ठितत्वेन दर्शयति— आत्मेत्यादिना। यद्यपि ३देहजीवनत्वाद् देहसम्बन्धाभिमानाभासवान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन् अविषीदन् व्यामोहादिरहितश्च तिष्ठतीति मत्वाऽऽह— तस्मिन्निति। विशेषणमाक्षिपति— किमिति। तदनुपपत्तिमेव ४दर्शयति— सर्वो हीति। सर्वसाधारणे देहावस्थाने संन्यस्य देहे तिष्ठति विद्वानिति विशेषणमकिञ्चित्करमिति फलितमाह— तत्रेति। विशेषणफलं दर्शयन्नुत्तरमाह—उच्यत इति। किमविवेकिनं प्रति विशेषणा- नर्थक्यं चोद्यते, किंवा विवेकिनं प्रतीति विकल्प्याऽऽद्यमङ्गीकरोति— यस्त्विति। अज्ञत्वं देहित्वे हेतुः। तदेव देहित्वं स्फुटयति— देहेति। सङ्घातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्यादिति चेत्? नेत्याह— न हीति। द्वितीयं दूषयति— देहादीति। गृहादिषु देहस्याव-
[[अ. ५. श्लो. १२-१३]] [[२८२]]
च न सम्भवतीति। तस्मात् प्राज्ञ एव देहे आसे इति मन्यते, न त्वज्ञः। ततश्च न सर्वसाधारण्येन देहिनो देहे आसनमिति कृत्वा अज्ञव्यावृत्त्यर्थम् , अज्ञाभिमतभूम्याद्यासनव्यावृत्त्यर्थं वा विशेषणस्यावश्यकत्वान्न वैयर्थ्यशङ्का। संन्यासश्च ज्ञान्येकाश्रय इति युक्तं संन्यासिनो देहे आसनमिति भावः। ननु त्यागस्य प्रसक्तिपूर्वकत्वाद् , आत्मनि कर्मणां प्रसक्तेरेवाभावात् कथं संन्यस्येत्युक्तम्? अत आह— परकर्मणामिति। देहेन्द्रियकर्माणि परकर्माणि, तान्यविद्यया आत्मन्यारोपितानीत्यज्ञानादात्मनि कर्मप्रसङ्गः। अतो विद्यया तत्संन्यासोपपत्तिः। केयं विद्येत्यत आह— विवेकज्ञानेनेति। आत्मानात्मविवेकज्ञानेनेत्यर्थः। ननु मनसा संन्यस्येति मूले उक्तम् , अत आह— मनसेति। मनःशब्दस्य विद्येत्येवार्थ इति भावः। ननु यस्तत्त्ववित् तस्य कथमतत्त्वविद इव देहे स्थितिरुपपद्यते, प्रत्युत देहत्यागाद् ब्रह्मणि स्थितिरेवोचितेत्यत आह— उत्पन्नेति। यथाऽनुत्पन्नविवेकः पुरुषः यावत्प्रारब्धावसानं देहमत्यजन्नेव गेहे आस्ते तथा विवेक्यपि प्रारब्धफलशेषसंस्कारानुवृत्त्या देहे एवास्ते। प्रारब्धं कर्मविशेषः, तत्फलं शरीरभोगादिः, तस्य शेषः तस्य संस्कारः, तस्यानुवृत्तिः तया यावत्प्रारब्धावसानं विवेक्यपि देहे आस्ते इत्यर्थः। यद्वा, ननु य आत्मवित् स हि सर्वत्र वर्तते, सर्वं चात्मनि तस्मिन् वर्तत इति कृत्वा आत्मवित् पुमान् देहे एवास इति नैव मन्येत, किन्तु सर्वत्रास इत्येव मन्येत, इत्यत आह— उत्पन्नेति। यावत्प्रारब्धावसानं विवेक्यपि देहे आस इति मन्यत इत्यर्थः। सर्वकर्मसंन्यासिनोऽपि प्रारब्धफलशेषसंस्कारानुवृत्त्या देह एवासनं सम्भवतीति शेष इत्यन्वयः। स्थानेनात्मावस्थानभ्रमव्यावृत्त्यर्थं ‘देहे विद्वानास्ते’ इति विशेषणमुपपद्यते, विवेकवतो देहेऽवस्थानप्रतिभाससम्भवादित्यर्थः। ननु विवेकिनो देहावस्थानप्रतिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् तत्त्यागेन कुतस्तस्य देहेऽवस्थानमुच्यते? तत्राह— परकर्मणां चेति। ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मात्मतां मन्यमानस्य कुतो देहेऽवस्थानमास्थातुं शक् यते? तत्राह— उत्पन्नेति। तत्र हेतुमाह— प्रारब्धेति। यद्धि प्रारब्धफलं धर्माधर्मात्मकं कर्म, तस्योपभुक्तस्य शेषादनुपभुक्ताद् देहादिसंस्कारोऽनुवर्तते, तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानमवस्थानविषयमुपपद्यते। अतो विवेकवतः संन्यासिनो देहेऽवस्थानव्यपदेशः सम्भवतीत्यर्थः। अविद्वत्प्रत्ययापेक्षया विशेषणासम्भवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणमर्थवदित्युपसंहरति— देह एवेति। देहे स्वावस्थानविषयो विद्वत्प्रत्ययः, तदविषयश्चाविद्वत्प्रत्ययः, तयोरेवं भेदे २विद्वत्प्रत्ययापेक्षया विशेषणमर्थवदित्युपसंहरन्नेव हेतुं विशदयति— विद्वदिति। आरोपितकर्तृत्वाद्यभावेऽपि स्वगतकर्तृत्वादि दुर्वारमित्याशङ्कामनूद्य दूषयति—यद्यपीत्यादिना। क्रियासु
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
देहमात्रात्मदर्शिनो गेह इव ‘देह आसे’ इति प्रत्ययः सम्भवति। देहादिसङ्घातव्यतिरिक्तात्मदर्शिनस्तु ‘देह आसे’ इति प्रत्ययः उपपद्यते। परकर्मणां च परस्मिन्नात्मन्यविद्ययाऽध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते। उत्पन्नविवेकज्ञानस्य सर्वकर्मसंन्यासिनोऽपि गेह इव देह एव नवद्वारे पुरे आसनं प्रारब्धफल१कर्म- संस्कारशेषानुवृत्त्या देह एव विशेषविज्ञानोत्पत्तेः देह एवास्त इत्यस्त्येव विशेषणफलं विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात्। यद्यपि कार्यकरणकर्माण्यविद्ययाऽऽत्मन्यध्यारोपितानि संन्यस्यास्त इत्युक्तम् , तथाप्यात्मसमवायि तु कर्तृत्वं १. ‘कर्म’ इति नास्ति रा.पा.। २. ‘विद्वत्प्रत्ययापेक्षत्वादुपपन्नं विशेषणमित्युक्तमेव’ इति पा.। गृहस्थादिव देहस्यावस्थानेनात्मावस्थानभ्रमव्यावृत्त्यर्थं देह आस्ते इति विशेषणमुपपद्यते विवेकिन इत्युक्तम्। संन्यासोऽपि तस्यैव विवेकिन उपपद्यत इत्याह— उत्पन्नविवेकस्येति।‘अहं ब्रह्मास्मी’ति विज्ञानमुत्पद्यमानं देह एवोत्पद्यते। अतो देहावस्थानमुपचर्यत इत्यर्थः॥१३॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[२८३]]
हेत्वन्तरमाह— देह एवेति। स्थूलसूक्ष्मकारणात्मना देहस्त्रिविधः। तत्र सूक्ष्मदेहस्य प्रधानाङ्गं मनः। तस्मिन् मनोमये देहे एव विशेषविज्ञानस्योत्पत्तेर्हेतोर्देह एवास्त इत्युक्तम्। विवेकी अन्तर्मुखत्वान्मनस्येवात्मानमनुसन्धत्त इति मनस्येवास्त इति भावः। यद्वा श्वादिदेहेषु विशेषविज्ञानाभावात् , मनुष्यदेहे एव तत्सद्भावात् , विशेषविज्ञानोत्पत्तिहेतावस्मिन् देहे वर्तमानोऽहं तत्त्वविदासमिति कृत्वा देह एवास इति तत्त्वविन्मन्यत इत्यर्थः। अथवा संस्कारानुवृत्त्या हेतुना देह एव विशेषविज्ञानस्य अवस्थानविषयज्ञानस्योत्पत्तेर्हेतोरित्येक एव हेतुर्विदुषो देह आसनस्य। फलसत्त्वे हेतुमाह— विद्वदिति। विदुषो ‘देह आसे’ इति प्रत्ययः, अविदुषस्तु ‘भूम्यादावासे’ इति प्रत्ययः इति विवेकः। एतावता श्लोकस्य पादत्रयं व्याख्यातम्। अथ तुरीयपादं व्याख्यातुमाक्षेपसङ्गतिमाह—यद्यपीति। अविद्ययाऽऽत्मन्यध्यस्तानां कर्मणां संन्यासो विद्ययोपपद्यत इत्युक्तम्। स संन्यासो न कर्मणां परित्यागरूपः, किन्तु नात्मनि कर्माणि सन्ति, देहेन्द्रियादिसङ्घात एवेत्यनुसन्धानमेव, विद्यया संन्यस्येत्युक्तत्वात्। ततश्च देहाद्याश्रयदर्शनादिकर्मसत्त्वात् तत्कर्तृत्वमात्मनि समवैति,१आत्मसमवेतस्यैव देहेन्द्रियसङ्घातस्य कर्मदर्शनात्। तथा अन्तर्यामिण आत्मनः सङ्घातप्रेरकत्वात् कारकत्वमप्यात्मनि समवैति, देहादीनां पारतन्त्य- दर्शनात्। तस्मादात्मा स्वयमकर्ताऽपि देहादिभिः कर्म करोति, अथवा कारयतीति कृत्वा कथं संन्यासिनः कर्माभाव इत्यत आह भगवान्— नैव कुर्वन्न कारयन्नितीत्यर्थः। स्वयं कुर्वन्तीति। देहादिभिः करणैरात्मा न कर्म करोति। देहादिभिः प्रयोज्यकर्तृभिर्वा न कर्म कारयतीत्यर्थः। न कर्ता नापि कारक आत्मेति यावत्। विद्यया सर्वकर्मसंन्यासादिति भावः। अत्र शङ्कते— किमिति। गच्छतो गतिरिव देहिनः स्वात्मसमवायि सद् यत् कर्तृत्वं कारयितृत्वं चास्ति, तत् संन्यासान्न भवतीति किमित्यन्वयः। आत्मसमवेतयोः कर्तृत्वकारकत्वयोः किं संन्यासान्निवृत्तिः? उत आत्मनि कर्तृत्वकारकत्वयोः समवेतत्वमेव नास्तीति? आद्ये, पृथिव्यां समवायसम्बन्धेन वर्तमानस्य गन्धस्य यथा पृथिवीनाशं विना न नाशः२, तथा आत्मसमवेतस्य कर्तृत्वादेरात्मनाशं विना न नाशः, तथा च विद्यया संन्यासेन वा नात्मसमवेतयोः कर्तृत्वकारकत्वयोर्निवृत्तिरुपपद्यते। ततो द्वितीयमाश्रित्योत्तरमाह— अत्रोच्यत इति। स्वत इति। समवायेनेत्यर्थः। न तु भ्रान्त्यैवेति भावः। कुतो नास्तीत्यत आह— अविकार्य इति। अविकार्ये आत्मनि कर्तृत्वादिविकारायोगादिति भावः। गीतावाक्ये प्रमाणत्वेनोपन्यस्य श्रुतिमुपन्यस्यति— ध्यायतीवेति। बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव प्रतिभाति, बुद्धौ चलन्त्यामात्मा लेलायति चलतीव इति। तस्माद् गच्छति पुरुषे कारयितृत्वं च स्यादित्याशङ्क्याह— नैव कुर्वन् स्वयं, न कार्यकरणानि कारयन् क्रियासु प्रवर्तयन्। किं यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्मसमवायि सत् संन्यासान्न सम्भवति, यथा गच्छतो गतिर्गमनव्यापारपरित्यागे न स्यात् , तद्वत् , किंवा स्वत एवात्मनो नास्तीति? अत्रोच्यते— नास्त्यात्मनः स्वतः कर्तृत्वं कारयितृत्वं च। उक्तं हि— ‘अविकार्योऽयमुच्यते’(भ.गी.२.२५) ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’(भ.गी.१३.३१) इति, ‘ध्यायतीव प्रवर्तयन्नास्त इति पूर्वेण सम्बन्धः। पूर्वस्यापि शतुरेवमेव सम्बन्धः। कर्तृत्वं कारयितृत्वं चात्मनो नेत्यत्र विचारयति— किमिति। यत् कर्तृत्वं कारयितृत्वं च तत् किं देहिनः स्वात्मसमवायि सदेव संन्यासान्न भवतीत्युच्यते, यथा गच्छतो देवदत्तस्य स्वगतैव गतिः तत्स्थित्या त्यागान्न भवति, अथ वा स्वारस्येन कर्तृत्वं कारयितृत्वं चात्मनो नास्तीति वक्तव्यम्। आद्ये सक्रियत्वम् , द्वितीये कूटस्थत्वमित्यर्थः। द्वितीयं पक्षमाश्रित्योत्तरमाह— अत्रेति। उक्तेऽर्थे वाक्योपक्रममनुकूलयति— उक्तं हीति। तत्रैव वाक्यशेषमपि संवादयति— शरीरस्थोऽपीति। स्मृत्युक्तेऽर्थे श्रुतिमपि दर्शयति— ध्यायतीवेति। उपाधिगतैव सर्वा विक्रिया, नात्मनि स्वतोऽस्तीत्यर्थः ॥१३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. आत्मसहितस्येत्यर्थः, ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति श्रुतेः। २. पाकेन नाशेऽपि गन्धान्तरमुत्पद्यत इति भावः।
[[अ. ५. श्लो. १३]] [[२८४]]
गतिरिव आत्मनि कर्तृत्वादिर्न समवैतीत्युपपद्यते कर्माभावः संन्यासिनः। यत्तु रामानुजः— कर्माणि देहे संन्यस्येति, तद् वेदाविनाशिनमिति श्लोकभाष्ये भाष्यकारैरेव प्रत्याख्यातम्— सम्पूर्वस्य न्यासस्य त्यागार्थकत्वेन निक्षेपार्थकत्वायोगादित्यादिना ॥१३ ॥
नेति। प्रभुः लोकस्य कर्तृत्वं न सृजति, कर्माणि न सृजति, कर्मफलसंयोगं न सृजति, स्वभावस्तु प्रवर्तते । प्रभुरीश्वर आत्मा, ईश्वरस्यैवात्मत्वात्। लोको देहेन्द्रियादिसङ्घातः, लोक्यते दृश्यते ज्ञायत इति लोक इति व्युत्पत्तेः। कर्तृत्वं न सृजति नोत्पादयति, ‘त्वमिदं कुर्वि’ति लोकं न प्रवर्तयति कर्मस्वित्यर्थः। लोकेन न कारयतीति यावत्। ‘नैव कुर्वन्न कारयन्नि’त्यस्यैवार्थस्य सुबोधत्वाय भङ्ग्यन्तरेणोपपादनमिदमिति न पुनरुक्तिः। प्रवर्तते कुर्वन् कारयंश्च सन्निति शेषः। लोकस्य कर्तृत्वादिकं सृजन् सन्निति वा । स्वभावस्यैवं प्रवृत्तत्वे प्रमाणमाह— दैवीति। ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति सप्तमाध्याये वक्ष्यते। अथवा स्वभावस्य मायात्वे प्रमाणमाह— दैवीति। देवस्य विष्णोरीश्वरस्यात्मनः स्वभावः, ‘दैवी’ति वक्ष्यमाणत्वादित्यर्थः। अत्र स्वभावः वासनेति रामानुजः, तत्तुच्छम् ; असङ्गस्यात्मनः प्रकृतिसंसर्गस्यैवासम्भवेन तत्कृतदेहाद्यात्माभिमानजनित- वासनाया दूरापास्तत्वात्। निर्धर्मकपरमानन्दबोधस्वरूपे आत्मनि देहाद्यात्माभिमानस्य तत्कृतवासनाया वा स्थातुमयुक्तत्वात् इति ॥१४॥
नादत्त इति। ‘स्वभावस्तु प्रवर्तते’ इति मायिकस्य कार्यस्योक्तत्वादाह— परमार्थतस्त्विति। तुशब्दो वैलक्षण्यार्थः। न पुनः लेलायतीव’(बृ.उ.४.३.७) इति श्रुतेः ॥१३॥
किञ्च— न कर्तृत्वमिति। न कर्तृत्वं स्वतः कुर्विति१, नापि कर्माणि २रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मा; नापि रथादि कृतवतस्तत्फलेन संयोगं न कर्मफलसंयोगम्। यदि किञ्चिदपि स्वतो न करोति न कारयति च देही, कस्तर्हि कुर्वन् कारयंश्च प्रवर्तत इत्युच्यते— स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्माया प्रवर्तते ‘दैवी हि’ (भ.गी.७.१४) इत्यादिना वक्ष्यमाणा॥१४॥
आत्मनो यदुक्तं कारयितृत्वं नास्तीति, तत् प्रपञ्चयति— नेत्यादिना। यद्यपि लोकस्य कर्तृत्वं न सृजतीति नास्ति कारयितृत्वम् , तथापि रथशकटादीनि कुर्वन् भवति कर्तेत्याशङ्क्याह— न कर्माणीति। तथापि भोजयितृत्वेन विक्रियावत्त्वं दुष्परिहरमित्याशङ्क्याह— न कर्मेति। कस्य तर्हि प्रवर्तकत्वम्? तदाह— स्वभावस्त्विति। कुरु इति कर्तृत्वं लोकस्य न सृजत्यात्मेति सम्बन्धः। रथादीनां कर्मत्वं साधयति— ईप्सितेति। आत्मनो देहादिस्वामित्वेन प्रभुत्वम्। रथादि कृतवतो लोकस्य रथादिफलेन सम्बन्धमपि न सृजत्यात्मेत्यात्मनो भोजयितृत्वं प्रत्याचष्टे— नापीति। चतुर्थपादं शङ्कोत्तरत्वेनावतारयति—यदीत्यादिना। स्वभाववादस्तर्हीत्याशङ्क्य व्याकरोति—अविद्या- लक्षणेति। प्रकृतेर्विद्याऽभावत्वं व्युदसितुं मायेत्युक्तम्। सा च सप्तमे वक्ष्यते। तेन ३प्रधानविलक्षणेत्याह— दैवी हीति॥१४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥१४॥
१. आत्मनः कर्तृत्वं कारयितृत्वं च स्वगतमेव सत् संन्यासे सति न भवति, अथवा नभसि तलमलिनतादिवद् वस्तुवृत्त्या तत्र नास्त्येवेति सन्देहापोहायाह—न कर्तृत्वमिति। न कर्तृत्वं, न कर्माणि, न कर्मफलसंयोगं सृजति इति क्रमेण आत्मनः कारयितृत्वं, कर्तृत्वं, भोजयितृत्वं च स्वाभाविकं व्यावर्त्यते। एवं भोक्तृत्व- निषेधोऽपि ज्ञेयः। द्र. मधुसूदनी। २. एतेन कर्मपदं ‘कर्तुरीप्सिततमं कर्म’ (पा.सू. १-४-४९) परिभाषितकर्मकारकपरतया व्याख्यातमिति स्पष्टम् । तेन कर्तृत्व- प्रतिषेधो लभ्यते। रथादीनि सृजन् हि कर्ता भवति। ३. सांख्याभिमतप्रधानेत्यर्थः।
[[२८५]]
स्वभावत इति तदर्थः। विभुः कस्यचित् पापं नादत्ते, कस्यचित् सुकृतं च नैवादत्ते। अज्ञानेन ज्ञानमावृतं तेन जन्तवो मुह्यन्ति। यो हि ब्रह्महत्यादिमहापातकापनुत्तये जन्मान्तरसंचितपापापनुत्तये वा भगवति भक्तिं तनोति, तस्य भक्तस्य पापं विभुरीश्वरः आत्मा नादत्ते। यश्चेश्वरार्पणबुद्ध्या यज्ञदानजपादिकर्माणि करोति, तस्य यज्ञादिकर्मजन्यं सुकृतमपि नादत्ते न स्वीकरोति, असङ्गस्यात्मनः पुण्यपापसम्बन्धाभावात्। सति तु पुण्यपापसम्बन्धे धर्माधर्मवश्यत्वेनेश्वरत्वस्यैव व्याघातात् इत्याह— नादत्ते न गृह्णातीत्यादि। प्रयुक्तं दत्तं समर्पितमिति यावत्।३ न च - भक्त्या ईश्वराय विष्णवे शिवायान्याय[यान्यस्मै] दैवताय वा सुकृतादिकं समर्पयन्ति, न त्वात्मन इति - वाच्यम् ‘आकाशात् पतितं तोयं यथा गच्छति सागरम्। सर्वदेवनमस्कारः केशवं प्रति गच्छती’ति स्मरणाच्छिवादिदेवतान्तरसमर्पितमपि सुकृतादिकमात्मानमेव प्राप्नोति। न च - केशवमिति विष्णुपर्यायदर्शनात् शिवादिदेवतान्तरसमर्पितस्य विष्णुगामित्वमेव, न त्वात्मगामित्वमिति - वाच्यम् ; विष्णोरेवात्मत्वात्। न च विष्णुरपि शिवादिवदनात्मैवेति वाच्यम् ; शिवादेरनात्मत्वस्यैवासिद्धेः। न च त्र्यक्षत्वादिधर्मविशिष्टानां शिवादीनां कथमात्मत्वमिति वाच्यम् ; चतुर्भुजत्वादिधर्मविशिष्टविष्णावपीदं चोद्यं समानम्। न चैवं शिवविष्ण्वादयः सर्वेऽप्यनात्मान एवेति वाच्यम् ; देहबुद्ध्या अनात्मत्वेऽपि अन्तर्यामिबुद्ध्या आत्मत्वात्। तस्माच्छिवादिबुद्ध्या समर्पितमपि सर्वं शिवादिदेहस्थितात्म- समर्पितमेव भवति। यस्तु शिवादिदेहस्थित आत्मा स एव भक्तदेहस्थितोऽपीति युक्तमुक्तमात्मने समर्पयन्तीति। अत एव आकाशात् पतितमिति स्मृतिश्च सङ्गच्छते, कथमन्यथा देहान्तरसमर्पितं वस्तु देहान्तरगामि भवेत् , येन शिवाद्यर्पितं वस्तु विष्ण्वर्पितं भवतीत्युच्येत। न च केशवपदं चतुर्भुजत्वादिविशिष्टविग्रहविशेषपरमिति वाच्यम् ; कः आत्मा, ‘को ब्रह्मात्मे’ति कोशात् , ईशः प्रभुः, वाति गच्छति जानातीति वः, वातेर्डः, द्रष्टेत्यर्थः। कश्चासावीशः केशः, केशश्चासौ वश्च केशव इति व्युत्पत्त्या आत्मपरत्वात् केशवशब्दस्य। न च ‘योगाद् रूढिर्बलीयसी’ति यौगिकाद् योगरूढोऽर्थ एव बलवानिति वाच्यम् ; बलवत्त्वेऽपि तस्यार्थस्येहानन्वयेनोपेक्ष्यत्वात्। ननु यद्ययमात्मा नादत्ते कस्यचित्पापं, न चैव सुकृतं, तर्हि ‘ईश्वरार्पणमस्तु’ इति कथं स्वानुष्ठितयागादिसुकृतस्येश्वरे प्रयोगो कर्तृत्वभोक्तृत्वैश्वर्याण्यात्मनोऽविद्याकृतानीत्युक्तम्। इदानीम् ईश्वरे संन्यस्तसमस्तव्यापारस्य तदेकशरणस्य दुरितं सुकृतं वा तदनुग्रहार्थं भगवानादत्ते, ‘मदेकशरणो मत्प्रीत्यर्थं कर्म कुर्वाणो दुष्कृताद्यपनोदनेनानुग्राह्यो मया’ इति प्रत्ययभाक्त्वादित्याशङ्क्य , सोऽपि परमार्थतो नास्यास्ति, अविक्रियत्वादित्याह— परमार्थतस्त्विति। कथं तर्हि भक्तानामनुग्राह्यत्वम् , ईश्वरस्यानुग्रहीतृत्वमिति प्रसिद्धिः? तत्राह—अज्ञानेनेति। पूर्वार्धगतान्यक्षराणि व्याख्याय, आकाङ्क्षापूर्वकमुत्तरार्धमवतार्य व्याचष्टे— किमर्थमित्यादिना॥१५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥१५॥
परमार्थतस्तु— नादत्त इति। नादत्ते १न गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः२। किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यत इत्याह— अज्ञानेनावृतं ज्ञानं विवेकविज्ञानम् , तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्येवं मोहं गच्छन्त्यविवेकिनः संसारिणो जन्तवः॥१५॥
अ. ५. श्लो. १३-१५ ] १. ‘न च गृह्णाति’ इति पा.। २. विभुः परमेश्वरः। ३. ननु तर्हि कथं वक्ष्यति ‘तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः’(भ.गी. ९-२६) इति? उच्यते— व्यवहारदृष्ट्या मुमुक्षोः सत्त्वशुद्ध्यर्थं साधनोपदेशपरत्वात् तस्य। इह तु परमार्थदृष्टिर्विवक्षिता। अत एव भाष्यम्—परमार्थतस्तु इति।
[[२८६]]
भक्तानाम्? कथं वेश्वरस्य पूजादिकम्? इति शङ्कते— किमर्थमिति। प्रयुज्यते समर्प्यते। अज्ञानम् अविद्या, न तु ज्ञानाभावः, तस्यावरणत्वायोगात्। आवरणं हि भावकार्यम् , यथा घटाद्यावरणं तमः भावरूपम् , तद्वत्। न च तमोऽपि तेजोऽभाव एवेति वाच्यम् ; तमसि तम इत्येव सर्वः प्रत्येति, न तु तेजोऽभाव इति कृत्वा सर्वलोकव्यवहारविरोधात्। आवृतं नाशितमित्यर्थः। अथवा ज्ञानं बुद्धिरित्यर्थः। आवृतं छादितं, मलेन दर्पणमिवेति भावः। तेन ज्ञानस्याज्ञानावृतत्वेन हेतुना करोम्यहं पूजादिकमिति शेषः। कारयाम्यहं पूजादिकं पुत्रादिनेति शेषः। भोक्ष्ये अहमन्नादिकमिति शेषः। भोजयामि अहमन्नादिकमतिथ्यादिनेति शेषः। अत्र मत्त ईश्वरोऽन्योऽस्ति, स मत्पापं नाशयति, मया दत्तमल्पमपि सुकृतं गृहीत्वा मम बहुफलं दास्यतीत्याकारकोऽपि मोहो ज्ञेयः। एतन्मोहप्रयुक्तत्वादेव कर्मणां कर्तृत्वस्य कारयितृत्वस्य च, ईश्वरादात्मनि भेदभ्रमे सत्येव कर्ताऽहं, कारकोऽहं, भोक्ताऽहम् , फलदाता त्वीश्वरः इत्यादिभ्रमसम्भवात्। तस्मादात्मानात्मविवेकशून्या एवैते य ईश्वरार्थमपि कर्माण्यनुतिष्ठन्तीत्याह— अविवेकिन इति। अत एवैते जन्ममरणादिलक्षणं संसारं प्राप्नुवन्तीत्याह— संसारिण इति। जायन्ते पुनः पुनरुत्पद्यन्ते अविवेकवशादिति जन्तव इति व्युत्पत्तेरिति भावः। यत्तु रामानुजः— नादत्ते नापनुदति। अज्ञानेन प्राचीनकर्मणाऽस्य ज्ञानम् आवृतं सङ्कुचितम्। तेन अज्ञानेनेति, तत्तुच्छम् , आदानस्य अपनोदनाभेदानौचित्यात् , आदानापनोदनयोर्भिन्नक्रियात्वात्। आदत्त इत्यस्यापनोदनार्थकत्वस्य व्याकरणकोशादि- विरुद्धत्वात् , आत्मज्ञानस्य सर्वपुण्यपापतूलाग्नित्वस्य ‘ज्ञानाग्निदग्धकर्माणमि’त्यनेनोक्तत्वादात्मनः सुखदुःखापनोदनासम्भवाच्च। तथा पुत्रादेः पापं दुःखं च नादत्त इत्यप्ययुक्तम् , पुत्रादेरात्मत्वादात्मनि च पापाद्ययोगात्। यदि पुत्रादिः सङ्घात इति मतं, तर्हि तस्य सङ्घातस्य आत्मसम्बन्धित्वमेव नास्तीति कथमुक्तं स्वसम्बन्धितयाऽभिमतस्य पुत्रादेरिति। ननु सङ्घातो न स्वसम्बन्धी, किन्तु तथाऽभिमत इति चेत्? नैतदपि युज्यते, स्वप्रभे निर्विशेषे आत्मन्यभिमानायोगात्। यस्तु ममायं पुत्रोऽहमन्यः पितेत्यभिमन्यते, स हि सङ्घात एव। न च सङ्घातस्याचेतनस्य कथमभिमान इति वाच्यम् ; तत्र चिदाभाससत्त्वात् , कथमन्यथा अन्तःकरणस्य केवलस्य सङ्कल्पादिव्यापार उपपद्येत? य एवं पुत्रादिकं स्वसम्बन्धिनं मन्यते स पुत्रादेर्दुःखं यथाशक्त्यपनुदत्येवेति कथमुक्तम्— नापनुदतीति। तथा रावणादिर्देहादिसङ्घातो रामादेः प्रतिकूलस्य देहादिसङ्घातस्य भार्यापहारादिना सुखमपनुनोदैवेति कथमुक्तं प्रतिकूल- तयाऽभिमतस्य सुखं नापनुदतीति। तथा अज्ञानशब्दस्य कर्मार्थकत्वमप्यनुपपन्नम् , अज्ञानकर्मणोः कार्यकारणभावेन भेदात्। यदि ज्ञानविरोधि कर्माज्ञानशब्देन विवक्षितं, तर्हि मूलकर्ता ‘कर्मणा’ [ ‘कर्मणा ह्यावृतं ज्ञानम्’ ] इत्येव ब्रूयात् , न त्वज्ञानेनेति। कर्मणो ज्ञानावरणत्वं चानुपपन्नमद्रव्यत्वात् कर्मणः, आवरणस्य च द्रव्यकार्यत्वात्। ननु कर्मणा ज्ञानस्यावरणं नाम कर्मणा हेतुना ज्ञानस्य सङ्कोच इत्यर्थः इति चेत्, मैवमपि , ज्ञानावरणरूपेण कर्मणेति त्वयोच्यमानत्वात्। न हि कर्मणो ज्ञानसङ्कोचनं स्वरूपं, किन्तु गुण एव। न च कर्मापि गुण एवेति वाच्यम् ; गुणकर्मणोर्भेदात्। न च पुण्यापुण्यसंस्काररूपमिदं कर्म गुण एवेति वाच्यम् ; तादृशस्य गुणस्य संस्काररूपत्वेन ज्ञानावरणरूपत्वाभावात्। किञ्च न कर्मणो ज्ञानविरोधित्वमपि युक्तम् , कर्मणो ज्ञानोपायत्वात्। न च यज्ज्ञानविरोधि कर्म तदेवेह गृह्यत इति वाच्यम् ; अज्ञानशब्दस्य ज्ञानविरोधिवस्तुमात्रोपस्थापनक्षमत्वेन ज्ञानविरोधिवस्तुविशेषाबोधकत्वात्। सति ज्ञानविरोधितया प्रत्यक्षे अज्ञाने मायाख्ये तद् विहायान्यार्थबोधनस्यासम्भवात्। न ह्यसुरशब्दो राक्षसान् विहायान्यान् बोधयितुमीष्टे। तस्मात् नञो विरोधार्थमभ्युपेत्य न ज्ञानमज्ञानं ज्ञानविरोधीत्यर्थस्य वचनेऽपि तादृशमज्ञानं मायैव भवितुमर्हति, तस्या एव तथात्वात्। न हि कर्म वा अन्यद्वा एकान्तेन ज्ञानविरोधि, यज्ञादिकर्मणां गुरुशास्त्रादिद्वैतस्य च ज्ञानोपायत्वेन ज्ञानाविरोधदर्शनात्। तथा तेनेत्यस्य प्रकृतवाक्यार्थपरामर्शं न्याय्यं विहाय अज्ञानेनेत्यर्थकल्पनं चान्याय्यम् , अज्ञानं ज्ञानावरणद्वारैव मोहयति, न तु साक्षादिति कृत्वा अज्ञानेन मुह्यन्तीति वचनं पुनरयुक्तम् ॥१५॥
ज्ञानेनेति। येषां तु तद् आत्मनोऽज्ञानं ज्ञानेन नाशितम् , यद्वा येषां तु तदज्ञानमात्मनो ज्ञानेन नाशितम् , अथवा येषां तु भाष्यार्कप्रकाशः
[[२८७]]
तदात्मनोऽज्ञानमात्मनो ज्ञानेन नाशितम् , तेषां ज्ञानमादित्यवत् तत्परं प्रकाशयति। आत्मनः स्वस्याज्ञानम् , स्वस्वरूपावरकमज्ञान- मित्यर्थः। स्वविवेकज्ञानावरकमिति वा। ज्ञानेन विद्यया, आत्मविषयज्ञानेनेत्यर्थः, नाशितम्। द्वितीययोजनायां तु , येषां तत् पूर्वोक्तम् अज्ञानम् , येन ज्ञानमावृतं तदित्यर्थः। आत्मनो ज्ञानेन ‘अहं ब्रह्मास्मी’त्याकारकस्वस्वरूपज्ञानेन, आत्मविषयज्ञानेनेति यावत् , नाशितम्। तृतीययोजनायां तु आत्मस्वरूपावरकमज्ञानमात्मस्वरूपज्ञानेन नाशितमिति, आत्मविषयज्ञानेनात्मविषयाज्ञानं नाशितमिति चार्थः। भाष्ये तृतीययोजनानुसारेणैवात्मशब्दस्यावृत्तिमभिप्रेत्योक्तम्— ‘विवेकज्ञानेनात्मविषयेण नाशितमात्मनो भवती’ति। तदज्ञानमिति कर्तृपदं पूर्वमेवोक्तम्। आत्मनस्तदज्ञानमित्यन्वयः। ज्ञायतेऽनेनेति ज्ञानम्। ज्ञेयं वस्तु चात्रात्मैव। सर्वमिति। साकल्येनेत्यर्थः। अथवा ज्ञेयं सर्वं वस्तु ब्रह्मैव, सर्वस्य ब्रह्मत्वात्। न च कथं ब्रह्मणः परमार्थतत्त्वस्य द्रष्टुर्ज्ञेयत्वमिति वाच्यम् ; अध्यस्तत्वाज्ज्ञेयत्वस्य तस्मिन् , परमार्थतस्तु ज्ञातृज्ञानतत्करणानामभावात् कथं ज्ञेयत्वं ब्रह्मणः स्यात्? ननु ज्ञानं तत् प्रकाशयतीत्ययुक्तम् , प्रकाशात्मकस्य ज्ञानस्य प्रकाशकत्वायोगात् , आत्मनैव सर्वस्य भास्यमानत्वाच्च, ‘तस्य भासा सर्वमिदं विभाती’ति श्रुतेः, ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्यात्मन एव ज्ञानस्वरूपत्वाच्चेति चेत् , मैवम् , सर्वावभासकचैतन्यरूपम- प्यात्मानमविद्याऽऽवृत्य वर्तते, अविद्यात्मनोरविरोधाद् , आत्मनैवाविद्यायाः भास्यमानत्वाच्च। तस्याश्चाविद्यायाः विद्यैव विरोधिनी, सैव विद्येह ज्ञानशब्देन विवक्षिता। सा तु बुद्धिवृत्तिरूपा, न तु प्रकाशरूपा। इयं बुद्धिवृत्तिर्विद्या आत्मावरकाविद्यां नाशयति। तत आत्मप्रकाशो जायत इति ब्रह्मवस्तुप्रकाशकत्वमुक्तं विद्यायाः१। तस्माच्चैतन्यभासितयैव बुद्धिवृत्त्या ज्ञानेन करणेन आत्मावरकाज्ञाननाशनद्वारा आत्मा प्रकाश्यते, घटावरकाज्ञाननाशनद्वारा घट इवेति न कश्चिद् दोषः। एतेन बुद्धिवृत्तिरूपं ज्ञानं न प्रकाशात्मकम् , किन्तु प्रकाशकरणात्मकमेव, प्रकाशात्मकं ज्ञानं तु चैतन्यमेवेति सिद्धम्।
यत्तु रामानुजः—
तेषामिति विनष्टाज्ञानानाम् , बहुत्वाभिधानादात्मस्वरूपबहुत्वम् , आदित्यदृष्टान्तेन च प्रभाप्रभावतोरिव ज्ञातृज्ञानयोरवस्थानम् , आत्मनो ज्ञानधर्मवत्त्वं च प्रतिपादितम्
इति, तत्तुच्छम् ,
‘तेन मुह्यन्ति जन्तवः’ इति पूर्वश्लोकोक्तजन्तूनामिह तत्पदेन परामर्शात्। जन्तवश्च भूतानि प्राणिन एव, न त्वात्मा, आत्मनो जन्तुत्वासम्भवात्। अजो ह्यात्मा। जायत इति जनिमांस्तु जन्तुः।
यदि जन्तव इत्यनेनापि आत्मान एव लक्षणया विवक्षिताः इत्युच्येत,
तर्हि महदनिष्टम् ,
यदात्मनः स्वप्रभस्यापि मोहः।
मोहादयो ह्य् अन्तःकरणधर्माः।
अथ यद्य् अन्तःकरणतादात्म्याभिमानाद् आत्मनो मोह इत्युच्यते,
तर्हीमे जन्तवो न निरुपाधिकात्मभूताः,
किन्तु सोपाधिका
ज्ञानेनेति।
ज्ञानेन तु येनाज्ञानेनावृता मुह्यन्ति जन्तवः
तद् अज्ञानं येषां जन्तूनां विवेकज्ञानेनात्मविषयेण नाशितम् आत्मनो भवति,
तेषां जन्तूनाम् आदित्यवद् यथा ऽऽदित्यः समस्तं रूपजातम् अवभासयति,
तद्वद् , ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति
तत् परं परमार्थतत्त्वम्॥१६॥
तर्हि सर्वेषाम् अनाद्य्-अज्ञानावृत-ज्ञानत्वाद्
व्यामोहापोहाभावाच् च
कुतः संसार-निवृत्तिर् इति?
तत्राह— ज्ञानेनेति।
सर्वम् इति पूर्णत्वम् उच्यते।
ज्ञेयस्यैव वस्तुनः तत्-परम् इति विशेषणम्।
तद् व्याचष्टे— परमार्थतत्त्वमिति ॥१६ ॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम्॥१६॥
अ. ५. श्लो. १५-१६ ] १. स्वप्रकाशस्यान्येन प्रकाशासंभवात् आवरणभङ्ग एव प्रकाशपदार्थः।
[[२८८]]
एवेति सिद्धम्।
अन्तःकरणाद्युपाधिकृतम् आत्म-बहुत्वम् अस्माकम् इष्टम् एव।
एवं “सोपाधिकानां जन्तूनाम् आत्मनां मोह” इत्य् उक्त्वा
तेषाम् इति तच्-छब्द-परामृष्टानां तज्-जन्तूनां
कथम् अकस्माद् उच्यते निरुपाधिकत्वम्?
न च - “विनष्टाज्ञानानाम् उपाधिगन्धाभाव” इति वाच्यम् ;
अज्ञान-विनाश-मात्रेण तत्-कार्य-भूतान्तः-करणाद्य्-उपाधि-स्वरूप-नाशाभावात्।
न च -
वस्तुत उपाध्य्-अभावाद्
अज्ञानाद् एवोपाधिसम्भवाद्
अज्ञान-नाशे कुत उपाध्यनाश
इति वाच्यम् ,
अस्य वचनस्य परमार्थ-विषयत्वाभावात्।
परमार्थतो ऽज्ञानस्यैवाभावात्
कथम् उच्येताज्ञानं ज्ञानेन नाशितम् इति।
‘न निरोधो न चोत्पत्तिर्
न बद्धो न च साधकः।
न मुमुक्षुर् न वै मुक्त
इत्येषा परमार्थता’
इति कैवल्योपनिषच्-छ्रुतेः।
तस्माद् उपाधि-भेदाद् एव तेषाम् इति बहुत्वसिद्धेः
आत्म-बहुत्व-कल्पनं गौरवाद् अप्रमाणत्वाच् चोपेक्ष्यम्।
तथा निर्धर्मकय् आत्मनि
ज्ञान-धर्म-कल्पनम् अप्य् अयुक्तम्।
वृत्ति-रूपं हीदं ज्ञानम् अन्तःकरणधर्मः,
न त्व् आत्म-धर्मः -
अन्तः-करण-क्षये वृत्त्य्-अ-दर्शनात्।??।्-।
न च ‘तस्य भासे’ति श्रुत्या
ज्ञानस्यात्म-धर्मत्वम् इति वाच्यम् ;
राहोः शिर इतिवद् औपचारिक-भेद-वादात्।
आत्मस्वरूप-भूत-ज्ञानेनेति तदर्थात्।
यद्य् आत्मा ज्ञानवान् स्यात् ,
तर्हि ज्ञानमान्तरं स्याद् आत्मनः,
पृथिव्या गन्ध इव।
तच् चानिष्टम् ,
आत्मनः सर्वान्तरत्वविरोधात्।
ननु [न च -] नात्मा सर्वान्तरः,
किन्तु परमात्मैव,
‘य आत्मानमन्तरो यमयती’ति श्रुतेर्
इति - वाच्यम् ;
आत्मानं प्रमातारं यः कूटस्थ आत्मा ऽन्तरो यमयतीति
तच्छ्रुत्य्-अर्थात्।
कूटस्थस्य साक्षिण आत्मनोऽन्यस्यादर्शनात्
‘साक्षी चेता’ इति श्रुत्या
परमात्मन एव साक्षित्व-वचनाच् च
नात्मनोऽन्यः परमात्मा, किन्त्वात्मैव।
न च -
‘कूटस्थोऽक्षर उच्यते,
उत्तमः पुरुषस्त्वन्यः’इति वक्ष्यत
इहैव कूटस्थात् परमात्मभेद
इति - वाच्यम् ;
तत्र कूटस्थ-शब्देन मायाया विवक्षितत्वात्,
उत्तमपुरुषस्य कूटस्थाद् अन्यत्वे
अकूटस्थत्वस्य सिद्धत्वात्। तद्ध्यनिष्टम् , अनित्यत्वापत्तेः।
न च -
ज्ञाता आत्मा कथं ज्ञानं स्याद् ,
अपि तु ज्ञानवान् एव
इति - वाच्यम् ;
त्वयाऽप्य् आत्मनो ज्ञानस्वरूपस्याभ्युपगतत्वात्,
निर्विशेष-ज्ञानस्य तार्किकादिभिर् अप्य् अभ्युपगतत्वात्(??)।
न च - “निर्विशेषज्ञाने कथं ज्ञातृत्वविशेष” इति वाच्यम् ; ज्ञातृत्वस्यापि कल्पितत्वात्।
अथवा ज्ञातृत्वस्य ज्ञानानन्यत्वादिति२॥१६॥
तद्बुद्धय इति। तच्छब्दार्थमाह— यदिति। ज्ञानप्रकाशितं परमार्थतत्त्वं ब्रह्म तच्छब्दार्थः। प्रकृतत्वादिति भावः। तस्मिन् बुद्धिर्येषां ते तद्बुद्धय इति समासः। गतेति तु फलितार्थकथनम् , स्थितेत्यर्थः। ननु तदात्मान इति व्यर्थम् , अज्ञस्यापि तदात्मत्वाव्यभिचारादिति चेत्? मैवम् ; यद्यप्यज्ञोऽपि तदात्मैव, तथापि स तथा न विदुषां विविदिषूणां चान्तरङ्गाणि विद्यापरिपाकसाधनानि उपदिदिक्षुरुत्तरश्लोकस्यापेक्षितं पूरयति— यत्परमिति। तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि बाह्यं विषयमपोह्य गता प्रवृत्ता श्रवणमनननिदिध्यासनैरसकृदनुष्ठितैर्बुद्धिः साक्षात्कारलक्षणा येषां ते तथेति प्रथमविशेषणं विभजते— तस्मिन्निति। तर्हि बोद्धा जीवो, बोद्धव्यं ब्रह्मेति जीवब्रह्मभेदाभ्युपगमः; नेत्याह— तदात्मान इति। कल्पितं बोद्धृबोद्धव्यत्वम् , वस्तुतस्तु न भेदोऽस्तीत्यङ्गीकृत्य व्याचष्टे— तदेवेति। ननु देहादावात्माभिमानमपनीय ब्रह्मण्येवाहमस्मीत्यवस्थानं तत्तदनुष्ठीयमानकर्मप्रतिबन्धान्न सिध्यतीत्याशङ्क्य विशेषणान्तरमादत्ते—तन्निष्ठा इति। तत्र निष्ठाशब्दार्थं दर्शयन् विवक्षितमर्थमाह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यत् परं ज्ञानप्रकाशितम्—तद्बुद्धय इति। १तस्मिन् गता बुद्धिर्येषां ते तद्बुद्धयः, तदात्मानः तदेव परं ब्रह्मात्मा येषां ते तदात्मानः, तन्निष्ठाः - निष्ठा अभिनिवेशस्तात्पर्यम् , सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्येवावस्थानं येषां तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥१७॥
१. ‘तस्मिन् ब्रह्मणि’ इति पा.। २. विशिष्टाद् भावप्रत्ययः विशेषणमभिधत्ते इति न्यायेन ज्ञातृत्वस्य ज्ञानरूपत्वादिति भावः।
[[२८९]]
जानाति, प्राज्ञस्तु जानाति, अत उच्यते तदात्मेति प्राज्ञः। ‘अहं ब्रह्मे’त्यात्मज्ञानवन्त इत्यर्थः। ब्रह्मण्येवेति। न कर्मादावित्येव- कारार्थः। परा गतिः परमं प्राप्यं। अपुनरावृत्तिं पुनरावृत्त्यभावं, मोक्षमिति यावत्। पुनरावृत्तिशब्दार्थमाह— पुनर्देहसम्बन्धमिति। यतीनां संन्यासिनामेव ब्रह्मनिष्ठादिसद्भावादाह— यतय इति। ननु तद्बुद्धय इत्यादीनि चत्वारि विशेषणानि एकार्थबोधकत्वात् पुनरुक्तानीति चेत्? मैवम् ; सूक्ष्मदृष्ट्या अर्थभेदसत्त्वात्। तथाहि— तद्बुद्धय इत्यनेन पारोक्ष्येण ब्रह्मज्ञानम् , तदात्मान इत्यनेन ब्रह्मात्मापरोक्षज्ञानम् , तन्निष्ठा इत्यनेन नैरन्तर्येण तत्स्वरूपानुसन्धानम् , तत्परायणा इत्यनेन तद्रतिश्चाभिहितमिति॥१७॥
विद्येति। कथमिति। कथं ते पण्डिता इत्याक्षेपः। समाधानमाह— तत्त्वं पश्यन्तीति। यतस्ते ज्ञाननाशितात्माज्ञानास्तत्त्वं पश्यन्ति, ततः पण्डिता इत्यर्थः। अयमेवार्थः श्लोकेनानेनोच्यत इत्याह— उच्यत इति। यद्वा ते पण्डितास्तत्त्वं कथं पश्यन्तीति प्रश्नः। तेषां पण्डितानां कीदृशं तत्त्वज्ञानमित्यर्थः। तस्योत्तरमनेनोच्यत इत्याह— उच्यत इति। पण्डिता ब्राह्मणादिषु समदर्शिनो भवन्तीत्यन्वयः। नन्वव्युत्पन्नस्य बालस्याप्यस्ति ब्राह्मणादिषु समदर्शित्वम् , ब्राह्मणत्वादिविवेकग्रहणसामर्थ्याभावाद् , अत आह— समं ब्रह्म निष्ठेत्यादिना। तथापि ४पुरुषार्थान्तरापेक्षाप्रतिबन्धात् कथं यथोक्ते ब्रह्मण्येवावस्थानं सेद्धुं ५पारयति? तत्राह— तत्परायणाश्चेति। यथोक्तानामधिकारिणां परमपुरुषार्थस्योक्तब्रह्मानतिरेकान्नान्यत्रासक्तिरिति तात्पर्यार्थमाह— केवलेति। ननु यथोक्तविशेषणवतां वर्तमान- देहपातेऽपि देहान्तरपरिग्रहव्यग्रतया कुतो यथोक्ते ब्रह्मण्यवस्थानमास्थातुं शक्यते? तत्राह— येषामिति। (ते गच्छन्तीति।) सति संसारकारणे दुरितादौ संसारप्रसरस्य दुर्वारत्वान्नापुनरावृत्तिसिद्धिरित्याशङ्क्याह— ज्ञानेति। उक्तविशेषणसम्पत्त्या दर्शितफलशालित्वम् आश्रमान्तरेषु असम्भावितमिति मन्वानो विशिनष्टि— यतय इति॥१७ ॥
यदपुनरावृत्तिसाधनं तत्त्वज्ञानं, तदेव प्रश्नद्वारेण विवृणोति— येषामित्यादिना। विद्या वेदार्थविज्ञानमित्यङ्गीकृत्य विनयं व्याचष्टे— विनय इति। उपशमो निरहङ्कारत्वम् अनौद्धत्यम्। पदार्थमेवमुक्त्वा वाक्यार्थं दर्शयति— विद्वानिति। गवीत्याद्यनूद्य वाक्यार्थं कथयति— विद्येति। हस्त्यादौ पण्डिताः समदर्शिन इत्युत्तरत्र सम्बन्धः। तत्र तत्र प्राणिभेदेषु तत्तद्गुणैस्तत्तन्निमित्तसंस्कारैश्च संस्पृष्टत्वसम्भवान्न ब्रह्मणः समत्वमित्याशङ्क्याह— सत्त्वादीति। तज्जैश्चेत्यत्र तच्छब्देन सत्त्वमेव गृह्यते। सात्त्विकसंस्कारैरिव राजस-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ते तन्निष्ठाः, तत्परायणाश्च तदेव परमयनं परा गतिर्येषां भवति ते तत्परायणाः, केवलात्मरतय इत्यर्थः। १येषां ज्ञानेन नाशितमात्मनोऽज्ञानं ते गच्छन्त्येवंविधाः अपुनरावृत्तिम् अपुनर्देहसम्बन्धं ज्ञाननिर्धूतकल्मषाः यथोक्तेन ज्ञानेन निर्धूतो नाशितः कल्मषः पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्मषाः यतय इत्यर्थः॥१७॥
येषां ज्ञानेन नाशितमात्मनोऽज्ञानम् , ते पण्डिताः कथं तत्त्वं पश्यन्तीत्युच्यते—विद्येति। विद्याविनयसम्पन्ने विद्या च विनयश्च विद्याविनयौ, २(विद्या आत्मनो बोधः,) विनय उपशमः, ताभ्यां विद्याविनयाभ्यां सम्पन्नो विद्याविनयसम्पन्नो विद्वान् विनीतश्च यो ब्राह्मणस्तस्मिन् ब्राह्मणे, गवि, हस्तिनि, शुनि चैव श्वपाके च पण्डिताः समदर्शिनः। विद्याविनयसम्पन्ने ३उत्तमे संस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि संस्कारहीनायाम् १. ‘येषां….अज्ञानम्’ इति पाठः क्वचिन्न। २. क्वचिन्न। ३. ‘उत्तमसंस्कारवति’ इति पा.। ४. ‘पुरुषार्थान्तरापेक्षात्प्रतिबन्धात्’ इति पा.। ५. ‘पारयन्ति’ इति पा.। विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥१८॥
[[अ. ५. श्लो. १७-१८]] [[२९०]]
द्रष्टुं शीलं येषां ते समदर्शिन इति। ननु ब्राह्मणादीनां वैषम्ये प्रत्यक्षसिद्धे कथं तत्र ब्रह्मणः समत्वम्? अत आह— सत्त्वादीति। सत्त्वादिगुणभेदात्तत्कृतसंस्कारभेदाच्च ब्राह्मणादिभेदो युक्तः। आत्मनस्तु तद्गुणादिस्पर्शाभावाद्भेदो न युक्त इत्यर्थः। कुतः स्पर्शाभावः? अत आह— अविक्रियमिति। सति तु गुणादिस्पर्शे आत्मनो विक्रिया स्यात् , तच्चानिष्टम् , ‘अविकार्योऽयमुच्यते’ इत्यादिप्रमाण- विरोधादिति भावः। नन्वविक्रियस्याप्यात्मनः प्रतिशरीरं भिन्नत्वात् कथं समत्वम्? अत आह— एकमिति। आत्मनः शरीरभेदप्रयुक्तो भेदो नास्ति, घटादिप्रयुक्तो भेद आकाशस्येवेति भावः। एवमेकत्वादेवास्याविक्रियत्वम् , अन्यथा सति सजातीयादिभेदे विकारित्वमेव स्याद् वृक्षादिवत्। भेदो हि विकारः। तस्माद् यः सर्वत्राप्येकमद्वितीयं ब्रह्मात्मानं पश्यति, स एव पण्डितः, न त्वन्यः। तच्च समदर्शित्वमेव पण्डितस्य तत्त्वज्ञानम् , न त्वन्यदिति॥१८॥
इहेति। ननु यदि ब्राह्मणादिषु सर्वत्राप्यात्मन एकत्वेन समबुद्धिः पण्डितस्य, तर्हि ब्राह्मणादिभिः समं गवादयोऽपि पूज्या एव, एवंविधस्यान्नभोजनं दोषावहं स्मृतिविरोधादित्याक्षिपति— नन्विति। अभोज्यं भोक्तुमयोग्यमन्नं येषां ते अभोज्यान्नाः। यद्दत्तान्नं शिष्टानामभोज्यं ते इत्यर्थः। अत एव ते पण्डिताः दोषवन्तः भवन्तीति शेषः। समेति स्मृतेरयमर्थः— कुलशीलविद्यादिभिस्तुल्यः समः, तद्विपरीतोऽसमः। विषमसमशब्दौ भावपरौ। समाहारद्वन्द्वः। पूजातः पूजायामासनपरिचरणादिकायां विषमसमे समेन सह पूजायां विषमे वैषम्ये, असमेन च समे साम्ये क्रियमाणे तदन्नमभोज्यमिति मिताक्षरा। ‘नित्यमभोज्य’मिति सूत्रादभोज्यपदस्यानुवृत्तिः, तत्प्रकरणस्थत्वादेतत्सूत्रस्य। अन्नलाभस्तु ‘पशुपाले’ति२ सूत्रगत-भोज्यान्नशब्दगतान्नशब्दानुवृत्तेरिति बोध्यम्। सूत्रस्यायमाशयः— यज्ञादौ विदुषां पूजासमये वेदविदो वेदविद्भिः समं, षडङ्गविदः षडङ्गविद्भिः समं, ब्रह्मविदो ब्रह्मविद्भिः समं, शास्त्रविदः शास्त्रविद्भिश्च समं पूजनीया यजमानेन। तत्र यदि वेदविदः षडङ्गविद्भिः समं, ब्रह्मविदो वेदविद्भिः समं, षडङ्गविदः शास्त्रविद्भिः समं पूज्यन्ते, तर्हि तद्यज्ञाद्यन्नमभोज्यं, समेन वेदविदा समं वेदविदोऽपूजितत्वादसमेन षडङ्गविदा समं वेदविदः पूजितत्वाच्च यजमानस्य सदोषत्वात् तद्द्वारा तदन्नमपि सदोषमेवेत्यभोज्यमिति। तस्मात् पण्डितेन न ब्राह्मणादिषु गवादिषु च समदृष्टिः कर्तव्येति पूर्वपक्षः। परिहरति— नेति। तथेत्यर्थः। ते ब्राह्मणादिषु समदर्शिनः पण्डिताः दोषवन्तो न भवन्ति। तत्र हेतुमाक्षिपति— कथमिति। संस्कारैरपि सर्वथैवासंस्पृष्टं ब्रह्मेत्याह— तथेति। राजसैरिव तामसैरपि संस्कारैर्ब्रह्मात्यन्तमेवास्पृष्टमित्याह— तथा तामसैरिति। ब्रह्मणो ऽद्वितीयत्वं कूटस्थत्वमसङ्गत्वं चोक्तेऽर्थे हेतुरिति मत्वा समशब्दार्थमाह— सममिति। समदर्शित्वमेव पाण्डित्यम्। तद् व्याचष्टे— ब्रह्मेति॥१८॥
सात्त्विकेषु राजसेषु तामसेषु च सत्त्वेषु समत्वदर्शनमनुचितमिति शङ्कते— नन्विति। सर्वत्र समदर्शिनस्तच्छब्देन परामृश्यन्ते। तेषां दोषवत्त्वादभोज्यान्नत्वमित्यत्र प्रमाणमाह— समासमाभ्यामिति। समानाम् अध्ययनादिभिः समानधर्मकाणां वस्त्रालङ्कारादिपूजया
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१अधमे च केवलतामसे हस्त्यादौ च, सत्त्वादिगुणैस्तज्जैश्च संस्कारैः, तथा राजसैः, तथा तामसैश्च संस्कारैः अत्यन्तमेवास्पृष्टं समम् एकमविक्रियं ब्रह्म तद् द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः॥१८॥
नन्वभोज्यान्नास्ते दोषवन्तः, ‘समासमाभ्यां विषमसमे पूजातः’ (गौ.ध.सू.२.८.२०) इति स्मृतेः। न ते इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥१९॥
१. ‘अत्यन्तमेव’ इति पा.। २. गौ.ध.सू.२.८.६ ।
[[२९१]]
प्रकृतश्लोकेन हेतुरुच्यत इत्याह— इहेति। येषां मनः साम्ये स्थितं तैरिहैव सर्गो जितः। इहैव जीवद्दशायामेवेत्यर्थः। तदेवाह— जीवद्भिरेवेति। किं तत्साम्यम्? अत आह— सर्वभूतेषु ब्रह्मणः समभाव इति। सर्वभूतेष्वप्येकमेव ब्रह्मास्तीत्येवंरूपे ब्रह्मसाम्ये इत्यर्थः। स्थितं दृढमवस्थितमित्यर्थः। ननु कस्माद् ब्रह्मसाम्यविद्भिरिहैव सर्गो जित इत्यत आह— निर्दोषमिति। हि यस्माद् ब्रह्म निर्दोषं समं चेति। ननु कुतो निर्दोषत्वं ब्रह्मणः सदोषश्वादिशरीरावस्थितस्य तत्संसर्गाद् दोषवत्त्वेन भाव्यत्वाच्चण्डालगृहस्थितब्राह्मणवदित्यत आह— यद्यपीति। तद्दोषैः श्वपाकादिदोषैः विभाव्यते ज्ञायते। श्वपाकादिसङ्घातस्य तदन्तर्गतात्मनश्चाविवेकान्मूढाः श्वपाकादीनात्मत्वेन प्रतिपद्य दुष्ट आत्मेति मन्यन्त इत्यर्थः। तथापीति। एवं मूढैर्विभावितत्वेऽपीत्यर्थः। तद्दोषैरस्पृष्टमिति । घटादिदोषैराकाश इवेति भावः। अध्यस्तसर्पदोषैः रज्जुवदिति वा। असङ्गस्य पुरुषस्य वस्तुतः शरीरसङ्गस्यैवाभावात् कुतः पुनस्तद्दोषप्रसङ्ग इति तत्त्वम्। ननु निर्दोषमपि ब्रह्म समं न भवति, गुणवत्त्वात् , प्रकृतिवदित्यत आह— नापीति। यथा प्रकृतिः स्वकीयसत्त्वादिगुणभेदाद् बहुविधा, न तथा ब्रह्म बहुविधम् , सगुणत्वाभावात्। चैतन्यात्मकस्य ब्रह्मणो निर्गुणत्वे गीतामेव प्रमाणयति— वक्ष्यति चेति। ब्रह्मणोऽनादित्वान्निर्गुणत्वाच्च इच्छादीनां न ब्रह्मधर्मत्वम् , किन्तु क्षेत्रधर्मत्वमेवेति त्रयोदशाध्याये— ‘अनादिमत्परं ब्रह्म न विषमे प्रतिपत्तिविशेषे क्रियमाणे सति, असमानां चासमानधर्मकाणां कस्यचिदेकवेदत्वम् अपरस्य द्विवेदत्वमित्यादिधर्मवतां प्रागुक्तया पूजया समे प्रतिपत्तिविशेषे, पूजयिता पुरुषविशेषं ज्ञात्वा प्रतिपत्तिमकुर्वन् धनाद् धर्माच्च हीयते। तेन सात्त्विके राजसतामसयोश्च समबुद्धिं कुर्वन् प्रत्यवैतीत्यर्थः। उत्तरत्वेनोत्तरश्लोकमवतारयति—न ते दोषवन्त इति। स्मृत्यवष्टम्भेन सर्वसत्त्वेषु समत्वदर्शिनां दोषवत्त्वमुक्तं १कथं नास्तीति प्रतिज्ञामात्रेण सिध्यतीति शङ्कते— कथमिति। स्मृतेर्गतिमग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति— इहैवेति। सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेणास्मिन्नेव देहे परिभूतजन्मनामशेषदोषराहित्ये हेतुमाह— निर्दोषं हीति। वर्तमानो देहः सप्तम्या परिगृह्यते। तानेव समदर्शिनो विशिनष्टि— येषामिति। ननु ब्रह्मणो निर्दोषत्वमसिद्धम् , दोषवत्सु श्वपाकादिषु तद्दोषै- र्दोषवत्त्वोपलम्भसम्भवात् , तत्राह— यद्यपीति। यस्मात् तन्निर्दोषं तस्मात् तस्मिन् ब्रह्मणि स्थितैर्निर्दोषैः सर्गो जित इति सम्बन्धः। ब्रह्मणो गुणभूयस्त्वादल्पीयान् दोषोऽपि स्यादित्याशङ्क्याह— नापीति। चेतनस्य स्वगुणविशेषविशिष्टत्वमनिष्टं निर्गुणत्वश्रवणादि- त्ययुक्तम् इच्छादीनां परिशेषादात्मधर्मत्वस्य कैश्चिन्निश्चितत्वादित्याशङ्क्याह— वक्ष्यति चेति। आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
दोषवन्तः। कथम्?— इहैवेति। इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जितो वशीकृतः सर्गो जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनोऽन्तःकरणम्। निर्दोषम् - यद्यपि दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैर्दोषवदिव विभाव्यते, तथापि तद्दोषैरसंस्पृष्टमिति निर्दोषं दोषवर्जितं हि यस्मात् , नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य। वक्ष्यति च भगवानिच्छादीनां क्षेत्रधर्मत्वम्— ‘अनादित्वान्निर्गुणत्वाद्’ (भ.गी.१३.३१) इति च। पूजातः समासमाभ्यां विषमसमे क्रियमाणे समानधर्माणां विषमपूजायाम् असमानधर्माणां च समपूजायां क्रियमाणायां धनाद् धर्माच्च हीयत इत्यर्थः। ननु दोषवन्तो जीवास्तदभिन्नं ब्रह्म कथं निर्दोषमित्याशङ्क्याह— यद्यपि दोषवत्स्विति। प्रतिबिम्बरूपेण दोषवदिव भाव्यमानमपि चैतन्यं बिम्बरूपेण सकलदोषास्पृष्टम्। ‘न लिप्यते लोकदुःखेन बाह्यः’ ‘शुद्धमपापविद्ध’मित्यादिश्रुतेरित्यर्थः। इदानीं समशब्दसूचितं प्रतिभासमानभोक्तृभेदस्य स्वरूपैक्यं व्याख्यातु- मुपक्रमते— नापि स्वगुणभेदभिन्नमिति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ. ५. श्लो. १८-१९ ] १. न ते दोषवन्त इति प्रतिज्ञामात्रेण उक्तं दोषवत्त्वं नास्तीति कथं सिध्यतीत्यन्वयः।
[[२९२]]
सत्तन्नासदुच्यते।’ ‘असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च।’ ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्।’ ‘इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥’ इति वक्ष्यमाणत्वादिति भावः। ननु माऽस्त्वात्मनो गुणतो भेदः, विशेषतस्तु भेदो भविष्यति। नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः, यैः परमाण्वादीनां मिथो भेदःसिध्यति - इति शङ्कायां, किमिमे विशेषा आत्मनि स्थित्वा आत्मानं भेदयन्ति? उत शरीरे स्थित्वेति विकल्प्य, तत्र निर्विशेषे आत्मनि विशेषस्थित्ययोगाच्छरीरे स्थित्वेति प्राप्ते परिहरति— नापीति। आत्मनो भेदका विशेषाः प्रतिशरीरं शरीरे शरीरे न सन्ति, शरीरस्यानित्यत्वाद् विशेषाणां नित्यद्रव्यवृत्तित्वाच्चेति भावः। ननु पृथिव्यादिपरमाण्वारब्धे शरीरे, तन्त्वारब्धे पटे तन्तव इव परमाणवः सन्ति, ते हि नित्यद्रव्याणि। अतस्तत्र विशेषाः सन्त्येवेत्यत आह— तेषां सत्त्वे प्रमाणाभावादिति। वेदान्तमते ब्रह्मभिन्नस्य सर्वस्याप्यनित्यत्वेन नित्यद्रव्यस्यैवाभावात् , गुणवत्त्वस्य द्रव्यलक्षणत्वेन निर्गुणे ब्रह्मणि द्रव्यत्वाभावाच्च, नित्यद्रव्यवृत्तित्वे सति व्यावर्तकत्वरूपलक्षणस्यासम्भवादप्रमाणैव विशेषकल्पना इति। विशेषाणामभ्युपगमेऽपि शरीराश्रयाणां तद्गतपरमाण्वाश्रयाणां वा तेषां शरीरभेदकत्वं परमाणुभेदकत्वं वा स्यात् , न त्वात्मभेदकत्वम् , अन्यगतविशेषस्यान्यभेदकत्वासम्भवात्। न हि घटगताः पृथिवीपरमाणुगता वा विशेषा आकाशं भेदयितुं क्षमन्त इति। तस्मान्नास्ति विशेषकृतोऽप्यात्मभेदः। तत इति। आत्मभेदप्रयोजकाभावादित्यर्थः। सममिति। सर्वत्रैकरूपमित्यर्थः। कुतः समत्वम्? आह— एकं चेति। सर्वत्राप्येकस्यैव ब्रह्मणः स्थितत्वात् समत्वमित्यर्थः। श्लोकतुरीयपादं व्याख्याति— तस्मादिति। यस्मात् तेषां मनः साम्ये स्थितं —अनादित्वादिति। चकारो वक्ष्यतीत्यनेन सम्बन्धार्थः। गुणदोषवशादात्मनो भेदाभावेऽपि भेदोऽन्त्यविशेषेभ्यो भविष्यतीत्यति[तीति] प्रसङ्गादाशङ्क्य दूषयति— नापीति। प्रतिशरीरमात्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वम् , तेषां च सत्त्वे प्रतिशरीरमात्मनो भेदसिद्धिरिति परस्पराश्रयत्वमभिप्रेत्य हेतुमाह— प्रतिशरीरमिति। आत्मनो भेदकाभावे फलितमाह— अत इति। समत्वमेव व्याकरोति— एकं चेति। ब्रह्मणो निर्विशेषत्वेनैकत्वाज्जीवानां च भेदकाभावेनैकत्वस्योक्तत्वाद् एकलक्षणत्वादेकत्वं जीवब्रह्मणोरेष्टव्यमित्याह— तस्मादिति। जीवब्रह्मणोरेकत्वे जीवानां ब्रह्मवन्निर्दोषत्वं सिध्यतीत्याह— तस्मान्नेति। तच्छब्दार्थमेव स्फोरयति— देहादीति। यदि सर्वसत्त्वेषु
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१नाप्यन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः। अतः समं ब्रह्मैकं च। तस्माद् अनेन चेदं निरस्तम्— यदाहुः वैशेषिकादयः आत्मा २दृष्टव्य[द्रव्य]त्वातिरिक्तापरजात्याधारः, अश्रावणविशेष- गुणाधिकरणत्वाद् घटवदिति। हेतोरसिद्धत्वात् , ज्ञेयानां ज्ञातृधर्मत्वानुपपत्तेरित्यर्थः। यच्च ते मन्यन्ते— अस्मदाद्यक्षगम्येषु खण्डमुण्डादिव्यावर्तकाः सामान्यविशेषाः गोत्वादयः, तथा योगिप्रत्यक्षगम्येष्वत्यन्तसलक्षणेषु नित्येष्वात्मादिषु व्यावर्तकाः अन्त्याः विशेषाः सन्तीति, तन्निराचष्टे— नाप्यन्त्या विशेषा इति। प्रतिशरीरमात्मव्यक्तिभेदे सिद्धे तदाश्रितान्त्यविशेष- सिद्धिः, तत्सिद्धौ च तद्बलाद् भेदसिद्धिरिति ३परस्पराश्रयादित्यर्थः। नन्वस्ति तावत् पण्डितमूर्खादिभेदेन जीवभेदप्रतीतिः। ततः तत्सिद्ध्यन्यथानुपपत्त्या तन्निर्वाहका अन्त्या विशेषाः कल्प्यन्त इत्याशङ्क्याह— तेषां सत्त्व इति। यथा दिगादीनामेकत्वेऽप्यौपाधिकः प्राच्यादिविभागः, तथा चितः स्वरूपैक्येऽपि सकलोऽपि विभागव्यवहारः औपाधिक एवोपपत्स्यते। लाघवं तु न्याय्यम्। ‘एको देवः सर्वभूतेषु गूढः’ इत्यादिश्रुतिविरोधः स्फुट एव। तस्मादन्त्यविशेषादिकल्पना व्यामोहायैवेति भावः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. द्र.ब्र.सू. २-३-५३। नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः - स च वैशेषिकसंमतोऽतिरिक्तः पदार्थः। २. आत्मभेदसाधकमिदमनुमानम्। द्रव्यत्वातिरिक्तापरजातिः आत्मत्वजातिरिष्टा। तदाश्रयत्वोपपत्तये आत्मभेदोऽङ्गीकर्तव्यः। द्र. प्रकटार्थे पृ. ७६४। ३. भेदसिद्ध्यर्थं भेदसिद्ध्यधीनसिद्धिकस्य विशेषस्य ज्ञातव्यत्वादिति भावः।
[[२९३]]
तस्मादित्यर्थः। यद्वा यस्मान्निर्दोषं समं ब्रह्म तस्मादित्यर्थः। ब्रह्मणो निर्दोषत्वादित्यर्थः। ब्रह्मण्येवेति। न तु दोषवत्पिण्डे इत्यर्थः। तस्मादिति। ब्रह्मण्येव स्थितत्वाद् ब्रह्मणश्च निर्दोषत्वादित्यर्थः। गन्धो लेशः। तान् पण्डितान् समदर्शिनः कुतो न स्पृशतीत्यत आह— देहादीति। येषां देहादिसङ्घाते दोषवति आत्माभिमानो नास्ति तेषां कथं सङ्घातगतदोषस्पर्श इत्यर्थः। अथ सूत्रस्य गतिं दर्शयति— देहादीति। ये सङ्घातमात्मत्वेनाभिमन्यन्ते तद्विषयं समासमाभ्यामिति सूत्रम् , न त्वात्मविद्विषयम्। ननु कथमिदं ज्ञायते? अत आह— पूजात इति। पूजायां विषये इत्युक्तत्वात् पूजायाश्च कर्मत्वात् कर्मविषयमेवेदं, न तु ज्ञानविषयमित्यर्थः। ननु कर्मणि कथमस्योपयोगः? अत आह— दृश्यत इति। पूजादानादौ कर्मणि ब्रह्मवित् षडङ्गविच्चतुर्वेदविदित्येवं गुणविशेषसम्बन्धरूपं तारतम्यकारणं दृश्यते। हिः प्रसिद्धौ। पूजायां प्राप्तायां कः प्रथमं पूज्य इति शङ्कायां ब्रह्मविदादौ पूज्य इति ब्रह्मवित्त्वरूपगुणविशेषसम्बन्धाद् ब्रह्मवित् प्रथमं पूज्यते, पश्चात्तु वेदविदित्येवमित्यर्थः। यस्तु ब्रह्मनिष्ठः तस्य पूजाप्रसक्तिरेव नास्ति, तस्य निर्गुणे निर्दोषे च ब्रह्मण्येव स्थितत्वादित्याह— ब्रह्म त्विति। गौतमस्मृतिगीताश्लोकयोर्विभिन्नविषयत्वान्न विरोध इत्युपसंहरति— कर्मविषयं चेति। एतेन पण्डितस्य जनकादेरपि ज्ञानविषय एव ब्राह्मणगवादिसमदर्शित्वम् , न तु पूजादिकर्मविषये इति लोकसंग्रहो दर्शितः। पूजादेः सङ्घातविषयत्वात् सङ्घातेषु च गुणदोषतारतम्यसत्त्वात्। ज्ञानस्य त्वात्मविषयत्वादात्मनश्चैकत्वादिति। अतो ज्ञानविषयेण ‘विद्याविनये’ति श्लोकेन न कोऽपि स्मृत्यादिसिद्धस्य लोकधर्मस्य भङ्गः, ‘ब्राह्मणं श्वपाकादिकं च समदृष्ट्या पूजयेदि’त्यनुक्तत्वात्। किन्तु ब्राह्मणे श्वपाकादौ च वर्तमानमात्मानं समं पश्येदित्युक्तत्वात्। भाष्यार्कप्रकाशः येभ्यो ददाति ते गुणवन्तः, द्रष्टव्यं तु ब्रह्म गुणदोषहीनमिति एको विषयविभाग उक्तः। इदानीं यो ददाति स कर्मी, यस्तु ब्रह्म पश्यति स संन्यासीति अपरं विषयविभागमाह— कर्मिविषयं चेति॥
॥इति गीताभाष्यटिप्पणे पञ्चमोऽध्यायः॥
ब्रह्मण्येव ते स्थिताः। तस्मान्न दोषगन्धमात्रमपि तान् स्पृशति, देहादिसङ्घातात्मदर्शनाभिमानाभावात् तेषाम्। देहादिसङ्घातात्मदर्शनाभिमानवद्विषयं तु तत् सूत्रम्— ‘समासमाभ्यां विषमसमे पूजातः’(गौ.ध.सू.२.८.२०) इति, पूजाविषयत्वविशेषणात्।१ दृश्यते हि ब्रह्मवित् षडङ्गवित् चतुर्वेदविदिति पूजादानादौ गुणविशेषसम्बन्धः कारणम् । ब्रह्म तु सर्वगुणदोषसम्बन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तम्। २कर्मिविषयं च समासमाभ्यामित्यादि। इदं आनन्दगिरिकृतव्याख्या समत्वदर्शनमदुष्टमिष्टम् , तर्हि कथं गौतमसूत्रमित्याशङ्क्याह— देहादिसङ्घातेति। सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह— पूजेति। यदि चतुर्वेदानामेव सतां पूजया वैषम्यम् , यदि वा चतुर्वेदानां षडङ्गविदां ब्रह्मविदां च पूजया साम्यम् , तदा तेषामुक्तपूजाविषयाणां केषाञ्चिन्मनोविकारसम्भवे कर्ता प्रत्यवैतीत्यविद्वद्विषयत्वं सूत्रस्य प्रतिभातीत्यर्थः। तत्रैव चानुभवमनुकूलत्वेनोदाहरति— दृश्यते हीति। देहादिसङ्घाताभिमानवतां गुणदोषसम्बन्धसम्भवात् तद्विषयं सूत्रमित्युक्तम्। इदानीं ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासम्बन्धाद् न तद्विषयं सूत्रमित्यभिप्रेत्याह— ब्रह्म त्विति। इतश्च नेदं सूत्रं ब्रह्मविद्विषयमित्याह— कर्मीति। तत्रैव पूजापरिभवसम्भवादित्यर्थः। ननु यत्र समत्वदर्शनं तत्रैव त्विदं सूत्रम् , न तु कर्मिण्यकर्मिणि वेति विभागोऽस्ति, तत्राह— इदं त्विति। समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह— सर्वकर्माणीति। आ अध्यायपरिसमाप्तेः ‘सर्वकर्माणी’त्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात् तद्विषयमिदं
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ. ५. श्लो. १९ ] १. ‘पूजाविषयत्वेन विशेषणात्’ इति पा.। २. ‘कर्मविषयं’ इति पा.।
[[२९४]]
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः॥२०॥
न चेदं समदर्शनं पूजोपयोगि, प्रत्युत सर्वद्वैतनिरासेन पूजानिर्मूलकमेव। सत्यां पूज्यपूजकपूजासाधनपूजारूपभेदबुद्धौ अद्वितीयब्रह्मबुद्धेरेवानुदयात् तदुदये सूर्योदये तमस इव भेदबुद्धेः सर्वात्मना नाशाच्च। तस्माद् युक्तमुक्तं पण्डिता ब्राह्मणादिषु समदर्शिन इति। न तु समपूजका इत्ययुक्तमुक्तं, येनाशङ्क्येत स्मृत्यादिविरोध इति। आ अध्यायपरिसमाप्तेरिति छेदः। यावदध्यायसमाप्तीत्यर्थः। अत्र ‘इहैव तैर्जितः सर्गः’ इत्येतज्जीवन्मुक्तिव्यवस्थापकं जीवद्भिरेव जन्मादिलक्षणः संसारो जित इति जीवतां संसारजयरूपमुक्तिप्रतिपादनात्। आत्मसु ज्ञानैकाकारतया साम्यमेवानुसन्दधाना मुक्ता एवेत्यर्थ इति रामानुजः, संसारो जित इति मुक्तप्रायास्त इत्यर्थ इति वेदान्तदेशिकश्चार्थाज्जीवन्मुक्तिमभ्युपगतवन्तावेव, गत्यभावात् , मूलस्यार्थान्तरपरिकल्पनेऽवकाशाभावाच्च। अतो योऽमीषां द्वैतिनां च जीवन्मुक्तिप्रतिक्षेपणोऽसमीचीनो वादः, सोऽनेन पराहत एव गीताविरोधात् , स्वाभ्युपगमविरोधाच्चेति ज्ञेयम्॥१९॥
नेति। स्थिरबुद्धिरसम्मूढो ब्रह्मणि स्थितो ब्रह्मवित् प्रियं प्राप्य न प्रहृष्येत् , अप्रियं प्राप्य नोद्विजेत्। यद्वा ब्रह्मवित् प्रियं प्राप्य न हृष्येत् , अप्रियं प्राप्य नोद्विजेत् , स्थिरबुद्धिरसम्मूढश्च स्यात् , एवंविधो ब्रह्मवित् ब्रह्मणि स्थित इत्युच्यत इत्यन्वयः। असम्भवादिति। ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेरिति भावः। निर्विचिकित्सा निःसंशया। सम्मोहः अनात्मस्वात्माभिमानः। ब्रह्मणि स्थितो ब्रह्मनिष्ठः। न तु कर्मनिष्ठ इत्याह— अकर्मकृदिति। कर्मकृन्न भवतीत्यकर्मकृत्। फलितार्थमाह— सर्वकर्मसंन्यासीति॥२०॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
१. ‘प्रियाप्रिये हर्षविषादौ कुर्वाते’ इति पा.। २. ‘तत्र तन्निरहङ्कारे’ इति पा.। तु सर्वकर्मसंन्यासिविषयं प्रस्तुतं ‘सर्वकर्माणि मनसा’ (भ.गी.५.१३) इत्यारभ्य आऽध्यायपरिसमाप्तेः॥१९॥
यस्माद् निर्दोषं समं ब्रह्मात्मा, तस्मात्— न प्रहृष्येदिति। न प्रहृष्येत् न प्रहर्षं कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा। नोद्विजेत् प्राप्य च अप्रियम् अनिष्टं लब्ध्वा। देहमात्रात्मदर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादस्थाने१। न केवलात्मदर्शिनः, तस्य प्रियाप्रियप्राप्त्यसम्भवात्। किञ्च सर्वभूतेष्वेकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा बुद्धिर्यस्य स स्थिरबुद्धिः, असम्मूढः सम्मोहवर्जितश्च स्याद् यथोक्तब्रह्मविद् ब्रह्मणि स्थितोऽकर्मकृत् सर्वकर्म- संन्यासीत्यर्थः॥२०॥
[आनन्दगिरिकृतव्याख्या]
समत्वदर्शनं गम्यते। २तत्र च निरहङ्कारे निरवकाशं सूत्रमित्यर्थः॥१९॥ नन्विष्टानिष्टप्राप्तिभ्यां हर्षविषादौ विद्वानपि कुर्वन् निर्दोषे ब्रह्मणि कथं स्थितिं लभेतेत्याशङ्क्य , आकाङ्क्षितं पूरयन्नुत्तरश्लोक- मुत्थापयति— यस्मादिति। आत्मज्ञाननिष्ठावतो विदुषो हर्षविषादनिमित्ताभावान्न तावुचितावित्याह— स्थिरबुद्धिरिति। ननु हर्षविषाद- निमित्तत्वं प्रियाप्रिययोः सिद्धमिति कथं तत्प्राप्त्या हर्षोद्वेगौ न कर्तव्याविति नियुज्यते? तत्राह— देहेति। विदुषोऽपि प्रियाप्रिय- प्राप्तिसामर्थ्यादेव हर्षविषादौ दुर्वारावित्याशङ्क्याह— न केवलेति। अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगान्न तन्निमित्तौ हर्षविषादावित्यर्थः। इतोऽपि विदुषो हर्षविषादावसम्भावितावित्याह— किञ्चेति। निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः, सम्मोहेन हर्षादिहेतुना रहितः, यथोक्ते सर्वदोषरहिते ब्रह्मण्यहमस्मीति विद्यावान् अशेषदोषशून्ये तस्मिन्नेव ब्रह्मणि स्थितस्तदनुरोधात् कर्माण्यमृष्यमाणो नैव हर्षविषादभागी भवितुमलमित्यर्थः॥२०॥
[[२९५]]
बाह्येति। ३यः बाह्यस्पर्शेष्वसक्तात्मा सन् आत्मनि सुखं विन्दति, ब्रह्मयोगयुक्तात्मा सः अक्षयं सुखमश्नुते। आत्मनि सुखमित्यस्यार्थमाह— आत्मनि यत्सुखं तदिति। आत्मानन्दमित्यर्थः। ननु आत्मन एव सुखत्वात् कथमात्मनि सुखमित्युक्तमिति चेत्? नैष दोषः। ‘आनन्दं ब्रह्मणो विद्वान्’ इतिवद् भेदस्य कल्पितत्वात्। ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्माः अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते’ इत्युक्तत्वाच्च। ननु यः आत्मसुखं विन्दति स आत्मैवेति कथमेकस्य आत्मनः प्राप्यप्राप्तृभाव इति चेत् , नैष दोषः। एक एवात्मा सुखरूपत्वेन प्राप्यः, अनुभवरूपत्वेन प्राप्ता चेति। यद्वा प्रमातृत्वेन प्राप्ता, ब्रह्मत्वेन प्राप्यश्चेति। अथवा यदात्मनः सुखस्वरूपेणावस्थानं तदेव सुखानुभव इतीह विवक्षितत्वान्न प्राप्यप्राप्तृभावप्रसक्तिः४। आत्मनि सुखं विन्दतीत्यनेन ‘आत्मरतिरात्मक्रीडः’ इति श्रुत्यर्थोऽभिप्रेतः। ब्रह्मयोग इति। ब्रह्म आत्मा। योगश्चित्त- समाधानम्। अक्षयमिति। आत्मसुखस्याक्षयत्वादिति भावः। तस्मादिति। ब्रह्मानुसन्धानस्याक्षयसुखत्वादित्यर्थः। बाह्यविषयप्रीतेः शब्दाद्यनुभवजन्यसुखात्। आत्मनि यदक्षयं सुखं तदर्थी पुरुषः। यः पुमान् ममाक्षयसुखलाभः स्यादिति वाञ्छति, स न बहिर्विषयेषु सज्जेत् , तत्र क्षणिकसुखसत्त्वात् , किन्तु आत्मस्वरूपानुसन्धान एव सज्जेत् , तत्रैवाक्षयसुखसत्त्वात्। विषयाणां क्षणिकत्वात् तत्सुखमपि क्षणिकम्। नित्यत्वादात्मनस्तत्सुखं च नित्यमिति बोध्यम्॥२१॥
शब्दादिविषयप्रीतिप्रतिबन्धान्न कस्यचिदपि ब्रह्मणि स्थितिः सिध्येदित्याशङ्क्याह— किञ्चेति। न केवलं पूर्वोक्तरीत्या ब्रह्मणि स्थितो हर्षविषादरहितः, किन्तु विधान्तरेणापीत्यर्थः। यावद्यावद् विषयेषु रागरूपमावरणं निवर्तते, २तावत्तावद् आत्मस्वरूपसुख- मभिव्यक्तं भवतीत्याह— बाह्येति। न केवलमसक्तात्मा शमवशादेव सुखं विन्दति, किन्तु ब्रह्मसमाधिना समाहितान्तःकरणः सुखमनन्तं प्राप्नोतीत्याह— स ब्रह्मेति। तत्र पूर्वार्धं व्याचष्टे— बाह्याश्चेति। समाधानाधीनसम्यग्ज्ञानद्वारा निरतिशयसुखप्राप्तिमुत्तरार्धव्याख्यानेन कथयति— ब्रह्मणीत्यादिना। शब्दादिविषयविमुखस्यानन्तसुखाप्तिसम्भवात् तदर्थिना प्रयत्नेन विषयवैमुख्यं कर्तव्यमिति शिष्यशिक्षार्थ- माह— तस्मादिति॥२१॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥२१॥
किञ्च ब्रह्मणि स्थितः— बाह्येति। बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः, स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु बाह्यस्पर्शेषु असक्तः आत्माऽन्तःकरणं यस्य सोऽयमसक्तात्मा विषयेषु प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं, तद् विन्दतीत्येतत्। स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्ब्रह्मयोगः, तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन् व्यापृतः आत्मा अन्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा सुखमक्षयम् अश्नुते १व्याप्नोति। तस्माद् बाह्यविषयप्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुखार्थीत्यर्थः॥२१॥
१. ‘प्राप्नोति’ इति पा.। २. विषयरागस्य आत्मसुखावरणत्वात् तन्निवृत्त्या आत्मस्वरूपसुखमभिव्यज्यते। अतो विषयानासक्तिरूपान्तःकरणोपशमयुक्तः तद्वशादेवात्मसुखाभिव्यक्तियुक्तो ब्रह्मयोगशब्दितसाक्षात्कारप्राप्त्या मूलाज्ञानलक्षणावरणनिवृत्तौ निरतिशयं सुखं प्राप्नोतीत्यर्थः। यावद्यावदित्यनेन— पूर्वं सुखाभिव्यक्तिः अभिव्यञ्जकस्य रागक्षयस्य तारतम्यात् तारतम्यवतीति सूचितम्। उक्तो हि अकामहतत्वकृतो विशेषः आनन्दस्य शतगुणोत्कर्षहेतुः तैत्तिरीयके बृहदारण्यके चेति। पश्चात्तु निःशेषावरणनिवृत्त्या स्वप्रकाशसुखस्फुरणस्य निरतिशयत्वमिति भावः। ‘यत् सुखं विन्दति तदेव सुखं निरतिशयं प्राप्नोती’ति यत्तच्छब्दाभ्यां आत्मस्वरूपसुखस्याभेदः उक्तो भवति। ३. मूले— ‘बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यः सुखम्’ इति रामकविदृष्टः पाठ इति भाति। ४. ‘ब्रह्मविदाप्नोति परम्’ इत्यादौ ब्रह्मभावापत्तेरेव तत्प्राप्तित्वेन व्यपदेशादिति भावः।
[[अ. ५. श्लो. १९-२१]] [[२९६]]
ये हीति। हि ये भोगाः संस्पर्शजाः ते दुःखयोनय एव, आद्यन्तवन्तश्च भवन्ति। तस्मात् , हे कौन्तेय! तेषु बुधो न रमते। संस्पर्शः सम्बन्धः। कयोरित्यत आह— विषयेन्द्रियेति। विषयस्य शब्दादेरिन्द्रियस्य श्रोत्रादेश्च संस्पर्शाः सम्बन्धाः, भोगा भुक्तयोऽनुभवा इति यावत्। दुःखानां योनयः कारणानि दुःखयोनयः। अविद्याकृतत्वादिति। भोगानामिति शेषः। अनात्मन्यात्माभि- मानः, अनात्मीये आत्मीयाभिमानश्चात्र अविद्येत्युच्यते। अविद्याकार्यत्वात् ५तत्र तदुपचारः। अहं शब्दं शृणोमि, ममायं शब्दः, ममेदं श्रोत्रमित्यादिभ्रमप्रयुक्तत्वाद् भोगा अविद्याकृता इत्युच्यन्ते। एतद्भोगवशादेवाध्यात्मिकादिदुःखप्राप्तिः पुरुषाणाम् , प्रतिकूलभोगस्य अनुकूलभोगाभावस्य च तापहेतुत्वात्। तन्निमित्तानीति बहुव्रीहिः। भोगनिमित्तानीत्यर्थः। ऐहिकलौकिकभोगस्य दुःखहेतुत्वानुभवेन पारलौकिकभोगस्यापि दुःखहेतुत्वमनुमीयत इत्याह— यथेति। पारलौकिको भोगो दुःखप्रदः, विषयेन्द्रियसंस्पर्शजन्यभोगत्वात् , ऐहिकलौकिकभोगवदित्यनुमानम्। न च कथमनुमानमात्रेण रम्भासम्भोगादिस्वर्गसुखस्य दुःखहेतुत्वमिति वाच्यम् ; ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ती’ति शास्त्रात् , क्षयिष्णुत्वदोषेण सातिशयत्वादिना च स्वर्गभोगोऽपि भयदुःखादिहेतुरेवेति। दुःखयोनय एवेत्यत्र एवकारस्यार्थमाह— एवशब्दादिति। न तु सुखयोनय इत्यर्थः। यद्वा गम्यत एव शब्दादित्येकं वाक्यम् , शब्दाद् आगमात् प्रमाणादित्यर्थः। किमेतज्ज्ञानस्य भोगाः दुःखयोनय एवेत्याकारकस्य फलम्? अत आह— इति बुद्ध्वेति। विषया एव मृगतृष्णिका, तस्याः सकाशात्। यथा मृगतृष्णिकायामुदकं नास्ति, तथा विषयेषु सुखं नास्तीति विषयेषु मृगतृष्णिकात्वरूपणम्। ‘न केवलम् दुःखयोनय एवे’त्यनन्तरं ‘किन्तु’ इति पूरणीयम्। आद्यन्तौ एषां स्त इति आद्यन्तवन्तः। विषयेन्द्रियसंयोगजन्यत्वाद् भोगानां विषयेन्द्रियसंयोग एव आदिः। विषयेन्द्रियवियोगनाश्यत्वाद् भोगानां तद्वियोग एव अन्तः। यथा चक्षुरिन्द्रियस्य कामिनीरूपसम्बन्धे पुरुषस्य भोगः, तत्सम्बन्धनाशे भोगनाश इति। अतः विषयेन्द्रियसंयोगवियोगप्रयुक्तजन्मनाशवत्त्वादित्यर्थः। सिद्धार्थमाह— भाष्यार्कप्रकाशः १. एवकारः क्वचिन्न। २. विषयवैमुख्य एवेत्यर्थः। ३. ‘संभूतेषु’ इति पा.। ४. ‘मानवमनुभवम्’ इति पा.। ५. उक्ताभिमाने । ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥२२॥
इतश्च निवर्तयेत्−ये हीति। ये हि यस्मात् संस्पर्शजा विषयेन्द्रियसंस्पर्शेभ्यो जाता भोगा भुक्तयो, दुःखयोनय एव तेऽविद्याकृतत्वात्। दृश्यन्ते ह्याध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव। यथेह लोके तथा परलोकेऽपीति गम्यत एवशब्दात्। न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद् ध्वा विषयमृगतृष्णिकायाः इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय १एव, आद्यन्तवन्तश्च, आदिर्विषयेन्द्रियसंयोगो भोगानाम् , अन्तश्च तद्वियोग एव, अतः आद्यन्तवन्तो आनन्दगिरिकृतव्याख्या २तत्रैव हेत्वन्तरपरत्वेनोत्तरश्लोकमुदाहरति— इतश्चेति। विषयेभ्यः सकाशादिन्द्रियाणीति शेषः। वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति—ये हीति। ननु विषयेन्द्रियसम्प्रयोग३सम्प्रसूतेषु भोगेषु जन्तूनामभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वमित्याशङ्क्य , अविवेकिनां तेष्वासङ्गेऽपि न विवेकिनामित्याह— आद्यन्तवन्त इति। यस्मादाधिव्याधिजरामरणादिसहितेभ्यः समागमनादिक्लेशरूप- भागिभ्यश्च विषयेन्द्रियसम्बन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते, तस्मात् ते दुःखहेतवो भवन्तीति योजना। अविद्याकार्यत्वाद् दुखानां कुतो भोगजन्यत्वमित्याशङ्क्य भोगानामविद्याप्रयुक्तत्वात् तन्निबन्धनत्वं दुःखानां युक्तमित्यभिप्रेत्याह— अविद्येति। भोगानां दुःखयोनित्वे ४मानमनुभवमुपन्यस्यति— दृश्यन्ते हीति। ऐहिकानां भोगानां दुःखनिमित्तत्वेऽपि नामुष्मिकाणां तथात्वमनुभवाभावादित्याशङ्क्या- वधारणसामर्थ्यसिद्धमर्थमाह— यथेति। पूर्वार्धस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह— नेत्यादिना। इतश्च विषयेभ्यः सकाशादिन्द्रियाणि निवर्तयितव्यानीत्याह— न केवलमिति। आद्यन्तवत्त्वे मध्यक्षणवर्तित्वेन क्षणभङ्गुरत्वादुपेक्षणीयत्वं भोगानां सिध्यति। अस्ति हि तेषां क्षणभङ्गुरत्वं क्षणिकविषयाकारमनोवृत्तिव्यङ्ग्यत्वादिति मन्वानः सन्नाह— अत इति। बुद्धिपूर्वकारिणां विवेकवतां भोगेषूपेक्षोपलब्धेश्च
[[२९७]]
अनित्या इति। तत्र हेतुमाह— मध्यमेति। विषयेन्द्रियसंयोगात्पूर्वक्षणे विषयेन्द्रियवियोगक्षणे च भोगाः न सन्ति, किन्तु विषयेन्द्रियसंयोगक्षण एवेत्यर्थः। एतेन विषयसुखस्य क्षणिकत्वं विवृतम्। बुध इति। न तर्कादिशास्त्रवेत्तेत्याह— विवेकेति। आत्मानात्मविवेकवानित्यर्थः। सति विवेके किं भवतीत्यत आह— अवगतेति। आत्मैव परमार्थतत्त्वम् अन्यत् सर्वं मृषैवेति जानातीत्यर्थः। य एवं वेत्ति स कथं नित्यसुखमात्मानं विहाय विषये सुखे क्षणिके रज्ज्येत? न कथमपीत्यर्थः। ये तु विषयेषु रतास्ते अतीव मूढा एव, न त्वल्पज्ञा अपीत्याह— अत्यन्तेति। आत्मानात्मविवेकशून्यत्वमत्यन्तमूढत्वम् , देहात्मभ्रमवत्त्वं वा। ननु ये विषयरतास्ते मूढा एवेत्यत्र को दृष्टान्त इत्यत आह— यथा पश्विति। प्रभृतिशब्दात् पक्षिसर्पादिग्रहणम्। तस्माद् बुधेनात्मरतिनैव भाव्यम्। योऽनात्मरतः सोऽबुध एव। इमे चात्मरतिविषयारती गृहस्थस्य दुष्करे। तस्य इन्द्रिय- दमनेऽनधिकारात्। अतः सर्वकर्मसंन्यास्येव बुधः, गृहस्थास्तु मूढा एव॥२२॥
शक्नोतीति। य इहैव शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति, स युक्तो नरः सुखी ।अयं चेति वक्ष्यमाणः कामक्रोधोद्भववेगरूप इत्यर्थः। ननु जीवन्नेवेत्यनेन मरणात् प्रागिति लब्धत्वात् पुनस्तद्वचनमनर्थकम्? अत आह— मरणसीमाकरणादिति। अनन्तानि निमित्तानि उत्पत्तिकारणानि अस्य सन्तीति अनन्तनिमित्तवान्। हिः प्रसिद्धौ, तावत् मरणपर्यन्तमित्यर्थः। न विस्रम्भणीयः, न विश्वसनीयः। कामक्रोधयोः स्वरूपे दर्शयति— काम इत्यादिना। इन्द्रियगोचरप्राप्ते ऽनित्याः, १मध्यक्षणभावित्वादित्यर्थः। कौन्तेय ! न तेषु भोगेषु रमते बुधो विवेकी अवगतपरमार्थतत्त्वः। अत्यन्त- मूढानामेव हि विषयेषु रतिर्दृश्यते, यथा पशुप्रभृतीनाम्॥२२॥
अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्तिहेतुर्दुर्निवार्यश्चेति तत्परिहारे यत्नाधिक्यं कर्तव्यमित्याह भगवान्— शक्नोतीति। शक्नोति उत्सहत इहैव जीवन्नेव यः २सोढुं प्रसहितुं प्राक् पूर्वं शरीरविमोक्षणाद् आ मरणात् — मरणसीमाकरणं जीवतोऽवश्यम्भावी हि कामक्रोधोद्भवो वेगः, अनन्तनिमित्तवान् हि स इति यावन्मरणं तावन्न विश्रम्भणीय इत्यर्थः। कामः इन्द्रियगोचरप्राप्त इष्टे विषये श्रूयमाणे स्मर्यमाणे वाऽनुभूते सुखहेतौ या गर्धिस्तृष्णा स तेषामाभासत्वं प्रतिभातीत्याह— न तेष्विति। प्रतीकोपादानमाद्यम् ; इदं पुनर्व्याख्यानमिति न पुनरुक्तिः। ननु केषाञ्चिद् भोगेष्वभिरुचि- रुपलभ्यते? तत्राह— अत्यन्तेति॥२२॥
उत्तरश्लोकस्य तात्पर्यमाह— अयं चेति। श्रेयोमार्गप्रतिपक्षत्वं कष्टतमत्वे हेतुः, तत्रैव हेत्वन्तरमाह— सर्वेति। प्रयत्नाधिक्यस्य कर्तव्यत्वे हेतुं सूचयति— दुर्निवार्य इति। प्रसिद्धं हि कामक्रोधोद्भवस्य वेगस्य दुर्निवारत्वं येन मातरमपि चाधिरोहति, पितरमपि हन्ति, तमवश्यं परिहर्तव्यं दर्शयति— शक्नोतीति। यथोक्तं वेगं बहिरनर्थरूपेण परिणामात् प्रागेव देहान्तरुत्पन्नं यः सोढुं क्षमते, तं स्तौति— स युक्त इति। ३मरणसीमाकरणस्य तात्पर्यमाह— मरणेति। प्रसिद्धौ हिशब्दः। तत्र हेतुमाह— अनन्तेति। व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवतीत्याशङ्क्याह— यावदिति। कामक्रोधोद्भवं वेगं व्याख्यातुम् आदौ कामं मनोविकारविशेषत्वेन व्याचष्टे— काम इति। कथमस्य मनोविकारविशेषत्वम्? तदाह— इन्द्रियेति। कामो गर्धिस्तृष्णेति पर्यायाः सन्तः शब्दा मनोविकारविशेषे पर्यवस्यन्तीत्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥२३॥
अ. ५. श्लो. २२-२३ ] १. ‘मध्यमक्षण’ इति पा.। २. ‘तीषसहलुभरुषरिषः’(पा.सू. ७-२-४२) इति इडागमविकल्पः। तेन ‘सोढुं’ ‘प्रसहितुम्’ इति द्वयमपि साधु। ३. इहैवेत्यस्य जीवन्नेवेत्यर्थविवरणादेव सिद्धे मरणसीमाकरणं व्यर्थमिति शङ्कां परिहरन् मरणसीमाकरणस्य तात्पर्यमाहेत्यर्थः।
[[२९८]]
इन्द्रियाणां गोचरं विषयं प्राप्ते, इन्द्रियगोचरतां प्राप्ते इत्यर्थः। इन्द्रियविषयभूते इति यावत्। सुखहेतौ अत एव इष्टे विषये स्त्रीपुत्रादौ या तृष्णा स कामः। विधेयप्राधान्यात् स इति पुंलिङ्गनिर्देशः। स च विषयः त्रिविधः— श्रूयमाणः, स्मर्यमाणः, अनुभूतश्चेति। यथा देशान्तरस्थितां कामिनीं श्रुत्वा तत्र सकामो भवति पुरुषः। तामेव मनसि स्मृत्वा स्मृत्वा च। स्मरणमिह चिन्तनम्। तामेव सन्निहितामनुभूय तत्र सकामो भवतीति। सति वक्तरि श्रवणम्। तस्मिन्नसति तु स्मरणमिति विवेकः। श्रूयमाणस्मर्यमाणानुभूयमानान्यतमेष्टविषयविषया तृष्णा कामः इत्युच्यत इति निष्कृष्टार्थः। तथा दृश्यमानश्रूयमाणस्मर्यमाणान्यतमानिष्टविषयविषयविद्वेषः क्रोधः। उद्भवतः आभ्यामित्युद्भवौ उपादानभूता- वित्यर्थः। कामक्रोधाभ्यामुद्भवः उत्पत्तिर्यस्य स कामक्रोधोद्भव इत्यपि समासो वक्तुमुचितः। नेत्रे च वदनं च नेत्रवदनम्। प्रहृष्टं च तन्नेत्रवदनं च प्रहृष्टनेत्रवदनम्। रोमाञ्चनं प्रहृष्टनेत्रवदनं च रोमाञ्चनप्रहृष्टनेत्रवदने लिङ्गे चिह्ने यस्य स रोमाञ्चनप्रहृष्टनेत्रवदनलिङ्गः अन्तःकरणस्य प्रक्षोभः प्रकृष्टं चलनं विकार इति यावत् , तद्रूपः। गात्रप्रकम्पः शरीरचलनं, प्रस्वेदो घर्मजलोद्गमः, सन्दष्टोष्ठपुटौ रक्तनेत्रे एतदादीनि लिङ्गानि यस्य स तथोक्तः। युक्तो योगी चित्तसमाधानवानित्यर्थः। सुखी चेहेति चकारात् परलोकेऽपीत्यर्थः। अयं श्लोको न केवलं संन्यासिविषयः, किन्तु योगिविषयोऽपि। सांख्ययोगयोर्द्वयोरपि श्रेयोमार्गत्वेन दर्शितवेगस्य तदुभयमार्गप्रतिपक्षित्वात् ॥२३॥
य इति। आक्रीडा विहारः इति यावत्। ज्योतिः दृष्टिरिति यावत्। अन्तरेवेत्येवकारान्न बहिर्विषयेष्वित्यर्थः। ब्रह्मनिर्वाणं ब्रह्मानन्दम्। ब्रह्मभूतः ब्रह्मतुल्य इति नार्थः, किन्तु ब्रह्मैव भवन् इत्यर्थः। आत्मन एव ब्रह्मत्वादिति भावः। अत्र योगीत्यनेन क्रोधश्च मनोविकारविशेषस्तद्वदित्याह— क्रोधश्चेति। तमेव क्रोधं स्पष्टयति— आत्मन इति। एवं कामक्रोधौ व्याख्याय तयोरुत्कट- त्वावस्थात्मनो वेगस्य ताभ्यामुत्पत्तिमुपन्यस्यति— ताविति। यथोक्तवेगावगमोपायमुपदिशति— रोमाञ्चनहृष्टनेत्रेत्यादिना। उभयविधवेगं यो जीवन्नेव सोढुं शक्नोति, तं पुरुषधौरेयत्वेन स्तौति— तमित्यादिना॥२३॥
ज्ञानस्यात्यन्तमन्तरङ्गम् ४आत्मनिष्ठत्वं दर्शयन् प्रकृतं ब्रह्मविदमेव विशिनष्टि— कथम्भूतश्चेति। यथाऽन्तरेव सुखम् , न बाह्यैर्विषयैः, तथाऽन्तरेव ज्योतिर्न श्रोत्रादिभिः। अतो विषयान्तरविज्ञानरहित इत्याह— तथेति। यथोक्तविशेषणसमाधिमाञ्जीवन्नेव मुक्तिमधिगच्छतीत्याह— स योगीति। आत्मन्यन्तःसुखमिति बाह्यविषयनिरपेक्षत्वं विवक्षितम्। अन्तरारामत्वं च स्त्र्यादिविषयापेक्षा- मन्तरेण क्रीडाप्रयुक्तफलभाक्त्वमभिमतम्। इन्द्रियादिजन्यप्रकाशशून्यत्वम् आत्मज्योतिष्ट्वमिष्टम्। यथोक्तविशेषणसम्पन्नः समाहितश्च
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥२४॥
कामः। क्रोधश्चात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः स क्रोधः, तौ कामक्रोधावुद्भवो१ यस्य वेगस्य स कामक्रोधोद्भवो वेगः। रोमाञ्चनप्रहृष्टनेत्रवदनादिलिङ्गोऽन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः, गात्रप्रकम्पप्रस्वेदसन्दष्टौष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः। तं कामक्रोधोद्भवं वेगं य उत्सहते (२प्रसहते) सोढुं प्रसहितुम् , स युक्तो योगी सुखी चेह लोके नरः॥२३॥
कथम्भूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतीत्याह भगवान्— य इति। योऽन्तःसुखः अन्तः आत्मनि सुखं यस्य सोऽन्तःसुखः, तथाऽन्तरेवात्मन्यारामः आरमणं क्रीडा यस्य सोऽन्तरारामः,३तथैवान्तरात्मैव ज्योतिः प्रकाशो यस्य १. ‘उद्भवौ’ इति पा.। २. कुण्डलितः पाठः क्वचिन्न। तत्स्थाने ‘जीवन्’ ‘जीवन्नेव’ इति पा.। ३. ‘तथैवान्तरेवात्मन्येव’ इति पा.। ४ . ‘आत्ममात्रनिरतत्वम्’ इति पा.।
[[२९९]]
कर्मयोगीति न भ्रमितव्यम् , तस्यात्मरत्याद्यभावात्। किं त्वात्मनि चित्तसमाधानवान् संन्यास्येवेह योगी ॥२४॥
लभन्त इति। क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते। ऋ गताविति धातोः ऋषिशब्दो निष्पन्नः। गत्यर्थानां ज्ञानार्थत्वादाह— ऋषयः सम्यग्दर्शिन इति। संन्यासिनामेव ज्ञाननिष्ठाधिकारादाह— संन्यासिन इति ॥२५॥
कामेति। कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिर्वाणमभितो वर्तते। अभित उभयत इति। देहत्यागात् प्रागनन्तरं चेत्यर्थः। ईश्वरे अर्पितः सर्वो भावो येन तेन पुरुषेण, ईश्वरे ब्रह्मण्याधाय क्रियमाणः कर्मयोगश्च सत्त्वशुद्ध्यादिक्रमेण मोक्षाय भवतीति शेषः। इति भगवान् पदेपदे प्रतिपदमब्रवीत् , वक्ष्यति चोत्तरत्र॥२६॥
जीवन्नेव ब्रह्मभावं प्राप्नोति। १ब्रह्मणि परिपूर्णे निर्वृतिं सर्वानर्थनिवृत्त्युपलक्षितां स्थितिम् अनतिशयानन्दाविर्भावलक्षणां प्राप्नोतीत्याह— य ईदृश इति॥२४॥
मुक्तिहेतोर्ज्ञानस्य साधनान्तरमाह— किञ्चेति। यज्ञादिनित्यकर्मानुष्ठानात् पापादिलक्षणं कल्मषं क्षीयते। ततश्च श्रवणाद्यावृत्तेः सम्यग्दर्शनं जायते। ततो मुक्तिरप्रयत्नेन भवतीत्याह— लभन्त इति। ज्ञानप्राप्त्युपायान्तरं दर्शयति— छिन्नेति। श्रवणादिना संशयनिरसनं, कार्यकरणनियमनं च, दयालुत्वेनाहिंसकत्वमित्येतदपि सम्यग्ज्ञानप्राप्तौ कारणमित्यर्थः। २अक्षरव्याख्यानं स्पष्टत्वान्न व्याख्यायते॥२५॥
पूर्वं कामक्रोधयोर्वेगः सोढव्यो दर्शितः। सम्प्रति तावेव त्याज्यावित्याह— किञ्चेति। ननु दर्शितविशेषणवतां मृतानामेव मोक्षो न तु जीवतामिति चेत्? नेत्याह— अभित इति। अस्मदादीनामपि तर्हि प्रभूतकामादिप्रभावविधुराणां किमिति मोक्षो न भवतीत्याशङ्क्य , ३सम्यग्दर्शनवैशेष्याभावादित्याह— विदितेति। उक्तेऽर्थे श्लोकाक्षराणामन्वयमाचष्टे— कामक्रोधेत्यादिना॥२६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥२५॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥२६॥
सोऽन्तर्ज्योतिरेव। य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभूतः सन् अधिगच्छति प्राप्नोति॥२४॥
किञ्च— लभन्त इति। लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः संन्यासिनः क्षीणकल्मषाः क्षीण- पापादिदोषाः छिन्नद्वैधाः छिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हित आनुकूल्ये रताः, अहिंसकाः इत्यर्थः॥२५॥
किञ्च—कामेति। कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानाम् अभितः उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते विदितात्मनां विदितो ज्ञातः आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनाम् , सम्यग्दर्शिनामित्यर्थः॥२६॥
अ. ५. श्लो. २३-२६ ] १. ‘ब्रह्मणि निर्वृतिं प्राप्नोति’ इत्यस्यार्थमाह—ब्रह्मणीति। २. भाष्यकृतां मूलाक्षरव्याख्यानमित्यर्थः। ३. अप्रतिबद्धात्मसाक्षात्कारः सम्यग्दर्शनविशेषः। तथा च परोक्षात्मज्ञानवत्त्वेऽपि तत्साक्षात्काराभावान्मोक्षाभावः। प्रतिबन्धक्षयेण साक्षात्कारे जाते तु जीवतामपि मुक्तिरेवेति भावः।
[[३००]]
स्पर्शानिति। अन्तरङ्गं साधनमिति शेषः। अनेन कर्मयोगस्य सम्यग्दर्शनं प्रति बहिरङ्गसाधनत्वं सूचितम्। ततश्च— ‘तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते’ इति वचनं कर्मयोगस्तुतिपरमेवेति सिद्धम्। यद्वा, ज्ञानहीनात् केवलकर्मत्यागमात्ररूपात् संन्यासात् कर्मयोगस्य विशिष्टत्वं तत्राभिप्रेतमिति। प्राणायामादियुक्तः केवलसंन्यासस्तु कर्मयोगादुत्कृष्ट एव, ज्ञानं प्रत्यन्तरङ्गत्वात्। अनेन च ध्यानयोगस्यान्तरङ्गत्ववचनेन, कर्मयोगो ध्यानयोगद्वारा सम्यग्दर्शनस्योपायभूतो, न तु साक्षादिति च व्यज्यते। वक्ष्यत्यमुमर्थं भगवान् भाष्यकार एव— ‘यावद्ध्यानयोगारोहणसमर्थः तावद् गृहस्थेन कर्म कर्तव्य’मित्यनुपदमेव। सूत्रस्थानीयान् सूत्रभूतान् सङ्क्षेपतोऽर्थप्रकाशकानिति यावत्। उपदिशति स्म उपदिदेश। ‘लट् स्मे’ इति स्मयोगे भूतार्थे लट्। ननु बाह्यान् स्पर्शान् बहिः कृत्वेति वचनं व्यर्थम् , बाह्यत्वेन तेषां बहिरेव सत्त्वादन्तःकर्तुमशक्यत्वेन तत्प्राप्तिं विना अन्तरकृत्वेति निषेधायोगाच्चेत्यत आह— श्रोत्रादीति। शब्दादिस्पर्शानां श्रोत्रादिद्वाराऽन्तःप्रवेशस्य सत्त्वात् तेषां बहिःकरणोपदेशः सफलः। तद्बहिःकरणं च तदचिन्तनमेव। तदेवं यो विषयान् न चिन्तयति, तेन विषया बहिः कृता एव भवन्ति। मनसा शब्दादिचिन्तने अकृते सति श्रोत्रादीनां विषयान्तःप्रवेशनसामर्थ्याभावात्। मनःपूर्विका हि इन्द्रियाणां प्रवृत्तिः। एवमिति। विषयाचिन्तनद्वारेत्यर्थः। ननु बाह्यस्य घटादेर्वस्तुनः श्रोत्रादिद्वाराऽप्यन्तःप्रवेशोऽनुचितः, असम्भवात्। न हि घटादि वस्तु अन्तः प्रविष्टं दृश्यत इति चेत् , मैवम् , अन्तःप्रवेशो नाम विषयस्य बुद्धेर्विषयात्मकत्वमेव । दृश्यते हि कामिनीविग्रहस्य चक्षुर्द्वारेणान्तःप्रवेशः। कथमन्यथा सकृद् दृष्टा नारी चक्षुषि मीलितेऽपि हृदि स्फुरेत् कामुकस्य? कथं वा चक्षुषा कामिनीदर्शनं विना कामिन्याः हृद्यस्फुरणम्? तस्माद् युक्तमुक्तं विषयाणामिन्द्रियद्वारा बुद्धिप्रवेश इति। मनःपूर्वकेन्द्रियविषयसंयोगे सति तन्मनस्तस्मिन् विषये दृढलग्नं सद् विषयाकारतां प्रतिपद्यत इतीदमेव विषयाणामन्तःप्रवेश इति भावः। मनसो विषयचिन्तनाभावे तु मनसि विषयाणामप्रवेश इत्ययमेव विषयबहिष्कार इति बोध्यम्। चक्षुरिति। दृष्टिमिति यावत्। भ्रुवोरन्तरे इति। यथा भ्रूमध्यभागो वीक्ष्येत चक्षुषा, तथा कृत्वेत्यर्थः। नासाभ्यन्तरचारिणौ नासिकामध्ये सञ्चरन्तौ प्राणापानौ वायू उच्छ्वासनिश्वासात्मकाविति भावः। कथमन्यथा ‘हृदि प्राणो गुदेऽपानः’ इत्युक्तलक्षण- वृत्तमनूद्योत्तरश्लोकत्रयस्य तात्पर्यार्थमाह— सम्यग्दर्शनेति। ईश्वरार्पितसर्वभावेनेति। भगवति परस्मिन्नीश्वरे समर्पितः सर्वेषां देहेन्द्रियमनसां भावश्चेष्टाविशेषो, न क्वचिदपि बहिस्तेषां व्यापारस्तेनेत्यर्थः। कर्मयोगस्य तत्फलस्य चाभिधानानन्तरमित्यथशब्दार्थः। स्वतो बाह्यानां विषयाणां कुतो बहिष्करणमित्याशङ्क्याह— श्रोत्रादीति। तेषां बहिष्करणं कीदृगित्याशङ्क्याह१— तानिति२। विषयप्रावण्यं परित्यज्य, चक्षुरपि भ्रुवोर्मध्ये विक्षेपपरिहारार्थं कृत्वा, प्राणापानौ च नासाभ्यन्तरचरणशीलौ समौ न्यूनाधिकवर्जितौ कुम्भकेन निरुद्धौ
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्योमुक्तिरुक्ता, कर्मयोगश्चेश्वरार्पितसर्वभावेनेश्वरे ब्रह्मण्याधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षायेति भगवान् पदे पदेऽब्रवीद् वक्ष्यति च। अथेदानीं ध्यानयोगं सम्य- ग्दर्शनस्यान्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानीयाञ्श्लोकानुपदिशति स्म— स्पर्शानिति। स्पर्शान् शब्दादीन् कृत्वा बहिर्बाह्यान् , श्रोत्रादिद्वारेणान्तर्बुद्धौ प्रवेशिताः शब्दादयो विषयास्तानचिन्तयतो बाह्याः बहिरेव कृता भवन्ति। तानेवं बहिः कृत्वा, चक्षुश्चैवान्तरे भ्रुवोः कृत्वेत्यनुषज्यते। तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा॥२७॥
स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यान्तरचारिणौ॥२७॥
१. तेषामचिन्तनमेव बहिष्करणमिति भावः। २. अत्र—॥२७॥श्लोकव्याख्यासमाप्तिः। ‘विषयप्रावण्यं परित्यज्य’ इत्यादिग्रन्थः उत्तरश्लोके मुद्रितो दृश्यते सर्वत्र।
[[३०१]]
प्राणापानयोः नासाभ्यन्तरचारित्वं स्यात्? एक एव वायुर्नासापुटेन निष्क्रामन् प्रविशंश्च प्राणोऽपानः इति चोच्यते। उच्छ्वासनिःश्वासयोः समीकरणं नाम न दीर्घमुच्छ्वसन् नापि निःश्वसन्नित्यर्थः। यद्वा नैवोच्छ्वसन् , नापि निःश्वसन्नित्यर्थः। कुम्भके स्थित इति यावत्॥२७॥
यतेति। यः सदा यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधो मुनिः स मुक्त एव। यद्वा यो मुनिः यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः सदा, वर्तत इति शेषः, स मुक्त एव। कथमस्य मुक्तत्वम्? अत आह— न तस्येति। मोक्षसाधनान्तरानुष्ठानराहित्यमेवास्य मुक्तत्वमित्यर्थः। एतस्मिन् ध्यानयोगे कृते सति ज्ञानप्राप्तिद्वारा मोक्षस्य भविष्यत्त्वान्नान्यो मोक्षोपायोऽनुष्ठेय इति भावः। न चास्य योगिनो ज्ञानमनुष्ठेयमिति वाच्यम् ; ज्ञानस्यानुष्ठेयत्वाभावात्। न च ‘श्रोतव्य’ इति ज्ञाने विधिः श्रूयत इति वाच्यम् ; तस्य विधिच्छायावचनत्वात्। न च सुतरां ज्ञाने विध्यभावे विधिच्छायावचनमपि व्यर्थमिति वाच्यम् ; स्वाभाविकविषयप्रवृत्तिविमुखीकरणार्थत्वाद् विधिच्छायावचनस्य। ननु ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मिति साङ्ख्यानां ज्ञानयोगो विहित इति चेत्? तत्र ज्ञानयोगस्य संन्यासार्थकत्वात्। यद्वा, ब्रह्मणि चित्तसमाधानार्थकत्वात्। उक्तं हि ‘ब्रह्मसंस्थोऽमृतत्वमेती’ति ब्रह्मसंस्थत्वं ज्ञानयोगात्मकं संन्यासिनो मोक्षकारणमिति श्रुत्या। तस्माद् ध्यानयोगिनो मोक्षाय कर्तव्यो नास्त्येव। किन्तु ज्ञातव्योऽस्ति। तदुत्तरश्लोकेन वक्ष्यते। न च ब्रह्मणि चित्तसमाधानं कर्तव्यमस्त्येवेति वाच्यम् ; तस्य ध्यानेनैव सिद्धत्वात्। न चैवं ध्यानयोगज्ञानयोगयोरेकत्वमिति वाच्यम् ; ब्रह्मणि चित्तसमाधानरूपांशे एकत्वेऽपि यत्र चित्तं समाहितं तद् ब्रह्मेति ज्ञानं ध्यानयोगिनो नास्ति, अन्यस्य त्वस्तीति वैलक्षण्यसत्त्वात्। अत एव समाहितचित्तेन ब्रह्मैकमेव ज्ञातव्यमिति वक्ष्यत्यनन्तरश्लोकेन ॥२८॥
भोक्तारमिति। यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा, योगीति शेषः, शान्तिमृच्छति। समाहित- कृत्वा॥२७॥
करणानि सर्वाण्येवं संयम्य प्राणायामपरो भूत्वा किं कुर्यादित्यपेक्षायामाह— यतेन्द्रियेति। इन्द्रियादिसंयमं कृत्वा मोक्षमेवापेक्षमाणो मननशीलः स्यादित्यर्थः। ज्ञानातिशयनिष्ठस्य सर्वदेच्छादिशून्यस्य संन्यासिनो मुक्तेरनायाससिद्धत्वान्न तस्य किञ्चिदपि कर्तव्यमस्तीत्याह—विगतेति। पूर्वार्धाक्षराणि व्याकरोति—यतेत्यादिना। द्वितीयार्धाक्षराणि व्याचष्टे— विगतेत्यादिना॥२८॥
अधिकारिणो यथोक्तस्य कर्तव्याभावे ज्ञातव्यमपि नास्तीत्याशङ्क्य परिहरति— एवमित्यादिना। प्रसिद्धं भोक्तारं व्यवच्छिनत्ति— सर्वलोकेति। ‘ततो ह्यस्य बन्धविपर्यया’विति न्यायेन सर्वफलदातृत्वं दर्शयति— सुहृदमिति। उक्तेश्वरज्ञाने फलं कथयति— ज्ञात्वेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यतेन्द्रियेति। यतेन्द्रियमनोबुद्धिः यतानि संयतानीन्द्रियाणि मनो बुद्धिश्च यस्य स यतेन्द्रियमनोबुद्धिः, मननाद् मुनिः संन्यासी१ मोक्षपरायणो मोक्ष एव परमयनं परा गतिर्यस्य सोऽयं मोक्षपरायणो मुनिर्भवेत्। विगतेच्छाभयक्रोध इच्छा च भयं च क्रोधश्चेच्छाभयक्रोधास्ते विगता यस्मात् स विगतेच्छाभयक्रोधः। य एवं वर्तते सदा संन्यासी मुक्त एव सः। न तस्य २मोक्षोऽन्यः कर्तव्योऽस्ति॥२८॥
एवं समाहितचित्तेन किं विज्ञेयमित्युच्यते— भोक्तारमिति। भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। १. एतदुत्तरम्— ‘मोक्षपरायण एवं देहसंस्थानो(नात्)’ इति अधिकः पाठः। २. ‘मोक्षायान्यः’ ‘मोक्षादन्यः’ इति पा.। ३. द्र. ब्र.सू.३-२-५।
[[अ. ५. श्लो. २७-२९]] [[३०२]]
चेत्तेनेति। पूर्वोक्तध्यानयोगिनेत्यर्थः। यज्ञानां तपसां च भोक्तारम्। कथं भोक्तृत्वम्? अत आह— कर्त्रिति। यो यज्ञानां तपसां च कर्ता, स एव तत्फलमैहिकामुष्मिकं च भुङ्क्ते इति, कर्तुरेव भोक्तृत्वादाह— कर्तृरूपेणेति। यजमानेन तपस्विना च हविरादिना यः पूज्यते देवः, स तद् हविरादिकं भुङ्क्ते इति देवानां भोक्तृत्वादाह— देवतारूपेणेति। महान्तमिति। यस्मादधिकः यस्य समानो वा नास्ति स महान् , तन्निरुपाधिकमिति वा ।कथमस्य कर्तृदेवतात्मकत्वम्? अत आह— सर्वभूतानां हृदयेशयमिति। हृदये शेत इति हृदयेशयः तम् , ‘शयवासवासिष्व[ष्वि’त्य]लुक्। कथमस्य सर्वलोकेश्वरत्वम्? अत आह— सर्वकर्मफलाध्यक्षमिति। सर्वेषां कर्मफलानामध्यक्षः प्रभुः तम्। अयमेक एव पुंसां स्वस्वकर्मानुगुणं फलप्रदः। तत्रेन्द्रादीनां वृथैवाभिमानः वयं फलप्रदा इति। अस्माकं च वृथैव भ्रमः इन्द्रादयः फलदा इति च। एवं सर्वकर्मफलदत्वादेवायं सर्वलोकमहाप्रभुः। कथमस्य सर्वभूतसुहृत्त्वम्? अत आह— सर्वप्रत्ययसाक्षिणमिति। सर्वेषां प्रत्ययानां बुद्धिवृत्तीनां साक्षिणं साक्षाद्द्रष्टारं प्रेरकमिति यावत्। अन्तर्यामिण एव साक्षित्वात्। अन्तः स्थित्वा तत्तदिन्द्रियद्वारा तत्तद्विषयानुभवमयमेव दिशति पुरुषस्येत्यर्थः। अत एवायं नारायण इत्याह— नारायणमिति। न रीयन्ते न क्षीयन्ते यावद्व्यवहारमिति नराः प्राणिनः, साभासबुद्धिशब्दवाच्या जीवा इत्यर्थः। यद्वा न रीयन्त इत्यराः, ते न भवन्तीति नाराः क्षयिष्णव इत्यर्थः। कार्यकरणसङ्घातात्मका जन्तवः इति यावत्। तेषां समूहो नारं, तदेव अयनं स्थानं यस्य स नारायणः, तदयति प्राप्नोति वा नारायणः, तं सर्वभूतहृदयेशयमित्यर्थः। नराणां जीवानामिमानि फलानि नाराणि, तेषामयनं प्राप्तिर्यस्मात् तं नारायणं सर्वकर्मफलाध्यक्षमित्यर्थः। नारस्य अयनं प्राप्तिरस्मात् फलानां यस्मात् तं नारायणमिति वा। अर्थस्तु स एव। नराणां जीवानामिमे नाराः प्रत्ययाः, तान् अयति वेत्तीति नारायणः, तं सर्वप्रत्ययसाक्षिणमित्यर्थः। नारं जीवसमूहमयति वेत्तीति वा नारायणः, तं सर्वजीवसाक्षिणमित्यर्थः। सर्वजीवसाक्षित्वादेव सर्वप्रत्ययसाक्षित्वं सिद्धं भवतीति बोध्यम्। मामिति। यज्ञेषु तपस्सु च द्विधा भोक्तृत्वं व्यनक्ति— कर्तृरूपेणेति। हिरण्यगर्भादिव्यवच्छेदार्थं विशिनष्टि— महान्तमिति। स्वपरिकरोपकारिणं राजानं व्यावर्तयति— प्रत्युपकारेति। ईश्वरस्य ताटस्र्ह्यं व्युदस्यति— सर्वभूतानामिति। तर्हि तत्र तत्र व्यवस्थितकर्मतत्फलसंसर्गित्वं स्यादित्याशङ्क्याह— सर्वकर्मेति। न च तस्य बुद्धितद्वृत्तिसम्बन्धोऽपि वस्तुतोऽस्तीत्याह— सर्वप्रत्ययेति। यथोक्तेश्वरपरिज्ञानफल- मभिदधाति— मां नारायणमिति। तदेवं कर्मयोगस्यामुख्यसंन्यासापेक्षया प्रशस्तत्वेऽपि ततो मुख्यसंन्यासस्याधिक्यात् तद्वतो बुद्धिशुद्ध्यादियुक्तस्य कामक्रोधोद्भवं वेगमिहैव सोढुं शक्तस्य शमदमादिमतो योगाधिकृतस्य त्वम्पदार्थाभिज्ञस्य परमात्मानं प्रत्यक्त्वेन जानतो मुक्तिरिति सिद्धम्॥२९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने पञ्चमोऽध्यायः॥५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
देवतारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमीश्वरं सर्वलोकमहेश्वरम् , सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतयोपकारिणं, सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसारोपरतिम् ऋच्छति प्राप्नोति॥२९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः॥५॥
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥२९॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः॥५॥
[[३०३]]
आत्मभूतमित्यर्थः। आत्मन एव नारायणत्वान्नारायणस्यैव कृष्णत्वाच्चेति भावः। अन्यथा नारायणस्यात्मभिन्नत्वे तज्ज्ञानेन संसारोपरतिर्न स्यात् पुंसाम्। अन्यज्ञानेनान्यसंसारनिवृत्त्ययोगात् , भिन्नात्मज्ञानस्य प्रत्युत भयहेतुत्वात् ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवती’ति श्रुतेः। शान्तिं मोक्षमित्यर्थः, तस्यैव संसारोपरमरूपत्वात्। ऋच्छति ऋ गताविति धातोः ‘पाघ्रे’ति ऋच्छादेश इति। एतेन ध्यानयोगिनोऽपि ब्रह्मात्मज्ञानादेव मोक्षः, न तु स्वत इति सिद्धम्। अत एव ‘तमेव विदित्वाऽतिमृत्युमेती’- त्यादिश्रुतिविरोधो न गीताशास्त्रस्य। यत्तु रामानुजः— मां ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थ इति, तत्तुच्छम् , मूले मां ज्ञात्वा शान्तिमृच्छतीति ज्ञानशान्तिप्राप्त्योर्मध्ये क्रिया(न)न्तरव्यवधानस्यानुक्तत्वात्। तत्कल्पनस्य चाप्रमाणत्वाद् दर्शितश्रुतिविरोधाच्च, ‘सर्वकर्माणि मनसे’त्यारभ्य संन्यासस्यैव प्रस्तुतत्वेन कर्मयोगस्यात्राप्रस्तुतत्वाच्च, ‘स्पर्शानि’त्यादिना च ध्यानयोगस्यैवोक्तत्वाच्च नात्र कर्मयोगस्यावकाशः। नापि कर्मयोगफलभूतचित्तशुद्धिलभ्यज्ञानप्राप्त्यनन्तरं पुनः कर्मयोगस्य कर्तव्यत्वप्रसक्तिः॥२९॥
इति बेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीमद्भगवद्गीताशाङ्करभाष्यार्कप्रकाशे पञ्चमोऽध्यायः॥५॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
अ. ५. श्लो. २९ ] DO NOT PRINT THIS P``A``G``E ॐ श्रीपरमात्मने नमः