॥अथ चतुर्थोऽध्यायः॥
श्रीभगवानुवाच— इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
योऽयमिति। अध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः संन्यासः, कर्मयोगरूपश्चोपाय इति योऽयं योगः, कर्मयोगरूपो ज्ञानयोग- रूपश्चाध्यायद्वयोक्तो यो योग इत्यर्थः। यस्मिन् उभयात्मके योगे प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च वेदार्थः परिसमाप्तः, सर्वास्वपि गीतासु भगवता विवक्षितः सोऽयमेव योगः। अतः योगस्योक्तत्वादित्यर्थः। वेदार्थं परिसमाप्तं मन्वानः तं वंशकथनेन सम्प्रदायकथनद्वारा स्तौति श्रीभगवान्—इममिति। योगमिति। कर्मज्ञानोभयात्मकं श्रेयःप्राप्त्युपायभूतं योगमित्यर्थः। अव्ययं न विद्यते व्ययः क्षयः बलस्य यस्मात् सोऽव्ययः, तमित्यभिप्रेत्याह— बलाधानायेति। मनोवाक्कायानां बलं वर्धयितुमित्यर्थः। ब्रह्मक्षत्रे ब्राह्मणक्षत्रियजाती। तयोरेव याजनादिना दण्डादिना च धर्मप्रतिष्ठापकत्वादिति भावः। आनन्दगिरिकृतव्याख्या पूर्वाभ्यामध्यायाभ्यां निष्ठाद्वयात्मनो योगस्य गीतत्वाद् , वेदार्थस्य च समाप्तत्वाद् , वक्तव्यशेषाभावाद् उक्तयोगस्य कृत्रिमत्व- शङ्कानिवृत्तये वंशकथनपूर्विकां स्तुतिं भगवानुक्तवानित्याह— श्रीभगवानिति। तदेतद् भगवद्वचनं वृत्तानुवादद्वारेण प्रस्तौति— योऽय- मिति। उक्तमेव योगं विभज्यानुवदति— ज्ञानेति। संन्यासेनेतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य कर्माख्यो योगो हेतुः। अतश्चो- पायोपेयभूतं निष्ठाद्वयं प्रतिष्ठापितमित्यर्थः। उक्ते योगद्वये प्रमाणमुपन्यस्यति— यस्मिन्निति। अथवा ज्ञानयोगस्य कर्मयोगोपायत्वमेव स्फुटयति— यस्मिन्निति। प्रवृत्त्या लक्ष्यते ज्ञायते कर्मयोगः, निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः। यद्यपि पूर्वस्मिन् अध्यायद्वये यथोक्तनिष्ठाद्वयं व्याख्यातम् , तथापि वक्ष्यमाणाध्यायेषु वक्तव्यान्तरमस्तीत्याशङ्क्याह— गीतासु चेति। कथं तर्हि समनन्तराध्यायस्य प्रवृत्तिः? अत आह—अत इति। वंशकथनं सम्प्रदायोपन्यासः। सम्प्रदायोपदेशश्च कृत्रिमत्वशङ्कानिवृत्त्या योगस्तुतौ पर्यवस्यति। गुरु- शिष्यपरम्परोपन्यासमेवानुक्रामति— इममिति। ‘इमम्’ इत्यस्य सन्निहितं विषयं दर्शयति— अध्यायेति। योगं ज्ञाननिष्ठालक्षणं कर्मयोगोपायलभ्यमित्यर्थः। स्वयमकृतार्थानां प्रयोजनव्यग्राणां परार्थप्रवृत्त्यसम्भवाद् , भगवतस्तथाविधप्रवृत्तिदर्शनात् कृतार्थता कल्पनीयेत्याह—विवस्वत इति। अव्ययवेदमूलत्वादव्ययत्वं योगस्य गमयितव्यम्। किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति? तदाह—जगदिति। कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानम्? तदाह—तेनेति। युक्ताः क्षत्रियाः इति शेषः। ब्रह्मशब्देन ब्राह्मणत्व- जातिरुच्यते। यद्यपि योगप्रवचनेन क्षत्रं रक्षितम् ; तेन च ब्राह्मणत्वम् ; तथापि कथं रक्षणीयं जगदशेषं रक्षितमित्याशङ्क्याह— ब्रह्मेति। १. ‘संन्यासः’ इति रा.पा.। २. वंशकथनेन विद्यायाः स्तुतिः बृहदारण्यके मधुकाण्डादौ दृष्टा।(बृ.उ.२.६, ४.६, ६.५)। ३. ‘ब्रह्मक्षत्रे’ इति पा.। योऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः १ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च ; गीतासु च सर्वास्वयमेव योगो विवक्षितो भगवता। अतः परिसमाप्तं वेदार्थं मन्वानः तं २वंशकथनेन स्तौति श्रीभगवान्—इममिति। इमम् अध्यायद्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहं जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय। तेन हि योगबलेन युक्ताः समर्था भवन्ति ३ब्रह्म परिरक्षितुम्। ब्रह्मक्षत्रे
[[१९७]]
परिपालिते जगत् परिपालयितुमलम्। अव्ययम् अव्ययफलत्वात्। न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति। स च विवस्वान् मनवे प्राह। मनुः इक्ष्वाकवे स्वपुत्रायादिराजाय अब्रवीत्॥१॥
एवमिति। एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयो राजानश्च त ऋषयश्च राजर्षयो विदुः इमं योगम्। स योगः १कालेन इह महता दीर्घेण नष्टो विच्छिन्नसम्प्रदायः संवृत्तः। हे परन्तप ! आत्मनो विपक्षभूताः परा इत्युच्यन्ते। तान् २शौर्यतेजोगभस्तिभिर्भानुरिव तापयतीति परन्तपः, शत्रुतापनः इत्यर्थः॥२॥
दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य, लोकं चापुरुषार्थसम्बन्धिनम् — स एवायमिति। स एवायं अव्यय[पद]स्यार्थान्तरमाह—अव्ययफलत्वादिति। अव्ययमस्यास्तीत्यव्ययः, तम् इत्यर्शआद्यजन्त इति भावः। अव्यय- फलत्वपद६घटिताव्ययशब्दार्थमाह— न हीति। न व्येति न विपर्ययं प्राप्नोतीत्यव्ययं मोक्षाख्यं फलम्। मोक्षस्य अविक्रियब्रह्मरूपत्वा- दिति भावः। यद्वा अव्ययशब्दस्यायमेक एवार्थः। किमर्थं त्वं प्रोक्तवान् विवस्वते योगम्? इत्याकाङ्क्षापूरणाय बलाधानायेत्युक्तमिति व्याख्येयं भाष्यम्॥१॥
एवमिति। परम्परा गुरुशिष्यसम्प्रदायः। नष्ट इति। सम्प्रदायविच्छेदाददर्शनं गत इत्यर्थः। तेजोभिः प्रतापैः॥२॥
स इति। दुर्बलान् अजितेन्द्रियान् प्राप्य नष्टं योगमुपलभ्य ज्ञात्वा अपुरुषार्थसम्बन्धिनं पुरुषार्थविधुरं लोकं च उपलभ्य, स ताभ्यां हि कर्मफलभूतं जगद् अनुष्ठानद्वारा रक्षितुं शक्यमित्यर्थः। योगस्याव्ययत्वे हेत्वन्तरमाह— अव्ययफलत्वादिति। ननु कर्मफलवद् उक्तयोगफलस्यापि साध्यत्वेन क्षयिष्णुत्वमनुमीयते, नेत्याह— न हीति। ३अपुनरावृत्तिश्रुतिप्रतिहतमनुमानं न प्रमाणीभवतीति भावः। भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यतीत्याशङ्क्याह— स चेति। स्वपुत्रायेत्युभयत्र४ सम्बध्यते। आदिराजायेतीक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशिष्ट्यमुच्यते॥१॥
यथोक्ते योगे परम्परागते विशिष्टजनसम्मतिमुदाहरति— एवमिति। तस्य कथं सम्प्रति वक्तव्यत्वम्? तदाह— स कालेनेति। पूर्वार्धं व्याकरोति— एवमित्यादिना। ५ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सूक्ष्मार्थनिरीक्षणक्षमत्वम् ऋषित्वम्। इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते। परन्तपेति सम्बोधनं विभजते— आत्मन इति॥२॥
किमिति वर्तमाने काले प्रकृतो योगः सम्प्रदायरहितोऽभूदित्याशङ्क्याधिकार्यभावादित्याह— दुर्बलानिति। तदेव दौर्बल्यं प्रकृतो- पयोगित्वेन व्याकरोति— अजितेन्द्रियानिति। यद्यपि कामक्रोधादिप्रधानान् पुरुषान् प्रतिलभ्य कामक्रोधादिभिरभिभूयमानो योगो नष्टो विच्छिन्नसम्प्रदायः सञ्जातः, तथापि योगादृते पुरुषार्थो लोकस्य लभ्यते चेत् किमनेन योगोपदेशेनेत्याशङ्क्य, यथोक्तयोगाभावे परमपुरु- षार्थाप्राप्तेर्मैवमित्याह— लोकं चेति। पूर्वो योगो विच्छिन्नसम्प्रदायः, अधुना त्वन्यो योगो मदर्थमुच्यते भगवतेत्याशङ्क्याह— स एवेति। एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप ! ॥२॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘इह लोके कालेन महता’ इति पा.। २. ‘शौर्यतेजोभिर्गभस्तिभिः’ इति पा.। ३. ‘न स पुनरावर्तते’ इति श्रुत्या मोक्षनित्यत्वबोधिकया बाधितमित्यर्थः। ४. ‘विवस्वान् स्वपुत्राय मनवे, मनुः स्वपुत्रायेक्ष्वाकवे’ इति संबन्धः इत्यर्थः। ५. राजर्षय इति पदे राजत्वम् ऋषित्वं च व्याचष्टे—ऐश्वर्येति। ६. ‘घटके’ति युक्तम्। अ. ४. श्लो. १-३
[[१९८]]
एवायं पुरातनो योगोऽद्य मया ते प्रोक्तः। ननु किमिति मह्यमेवोक्तवानसीत्यत आह—भक्तोऽसि म इति। ननु भक्ता अपि बहवः सन्त्येवेत्यत आह—सखा चेति। ननु कुतो भक्ताय सख्य एवैतद् वक्तव्यम्? अत आह— रहस्यमिति। एतदिति क्लीबत्वादाह— योगो ज्ञानमिति। अतीव रहस्यत्वादमुं योगं नाभक्ताय ब्रूयात् , नाप्यसखायेत्यर्थः॥३॥
अपरमिति। चोद्यमिवेति। इवशब्दादर्जुनः कृष्णं परमेश्वरं वेदैवेति सूच्यते। अथवा ‘अजो नित्यः शाश्वतोऽयं पुराणः’ इति भगवदुपदेशादनादिमात्मानं वेदैवार्जुन इति सूच्यते। अर्वागिति। नूतनमित्यर्थः। जन्मनोऽधिकरणाकाङ्क्षां पूरयति— वसुदेवस्य गृह इति। अथवा अर्वाक्छब्दार्थमाह—वसुदेवस्य गृह इति। विजानीयामिति। ननु मयोक्तं त्वया श्रुतमेवेत्यत आह— अविरुद्धार्थतयेति। अविरुद्धार्थं त्वदुक्तमिति कथं प्रत्ययं भजेयमित्यर्थः। अर्वाक्तनस्य तव सर्गादावभावादिति भावः॥४॥
बहूनीति। यदर्थ इति। मूर्खप्रत्यायनार्थ इत्यर्थः। श्रीकृष्णं भगवन्तं सर्वे मूर्खा अपि जानीयुरिति बुद्ध्या अर्जुनेन पृष्टत्वा- कस्माद् अन्यस्मै यस्मै कस्मैचित् पुरातनो योगो नोक्तो भगवता? इत्याशङ्क्याह— भक्तोऽसीति। उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह— रहस्यं हीति। अनादिवेदमूलत्वाद् योगस्य पुरातनत्वम्। भक्तिः शरणबुद्ध्या प्रीतिः, तया युक्तो निजरूपमपेक्ष्य२ भक्तो विवक्षितः। समानवयाः स्निग्धः सहायः सखेत्युच्यते। एतदिति कथं योगो विशेष्यते? तत्राह— ज्ञानमिति॥३॥
भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति— भगवतेति। परिहारार्थम् भगवतो मनुष्यवदवस्थितस्यानीश्वर- त्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येति शेषः। भगवतो निजरूपमुपेत्य नेदं चोद्यम् , किन्तु लीलाविग्रहं गृहीत्वेति वक्तुं चोद्यमिवे- त्युक्तम्। एतच्छब्दार्थमेव स्फुटयति— यस्त्वमिति॥४॥
भगवत्यज्ञानाद्[अज्ञानां] मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति— या वासुदेव इति। अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भगवद्वचनमित्याशङ्क्य प्रश्नप्रतिवचनयोरेकार्थत्वमाह— यदर्थो हीति। यस्य शङ्कितस्य विरोधस्य ३परिहारार्थो यस्य प्रश्नः, तमेव
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चासीति। रहस्यं हि यस्माद् एतदुत्तमम्। योगो ज्ञानमित्यर्थः॥३॥
भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कस्यचिद् बुद्धिरिति, परिहारार्थं चोद्यमिव कुर्वन्नर्जुन उवाच— अपरमिति। अपरम् अर्वाग् वसुदेवगृहे भवतो जन्म। परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथमेतद् विजानीयाम् अविरुद्धार्थतया, यस्त्वमेवादौ प्रोक्तवान् इमं योगम् , स एव १त्वम् इदानीं मह्यं प्रोक्तवानसीति ॥४॥
या वासुदेवेऽनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् , तां परिहरन् श्रीभगवानुवाच, यदर्थो ह्यर्जुनस्य प्रश्नः— अर्जुन उवाच— अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद् विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥
श्रीभगवानुवाच— बहूनि मे व्यतीतानि जन्मानि तव चार्जुन !। १. ‘त्वम्’ इति क्वचिन्न। २. ऐश्वररूपमपेक्ष्यार्जुनस्य भक्तत्वम् , लीलाविग्रहमपेक्ष्य तु सखित्वमिति भावः।‘अवेक्ष्य’ इति पा.। ३.‘परिहारार्थस्तस्य प्रश्नः’ इति पा.।
[[१९९]]
दस्यार्थस्येति भावः। ननु त्वमिवाहमपि जन्ममरणादिमानेव, तत् कुतस्त्वं वेत्थ, नाहं वेद्मि? इत्यत आह— धर्माधर्मेति। जीवाः प्रकृतिपरतन्त्रत्वात् प्रतिबद्धबुद्धयः किञ्चिज्ज्ञाः, ईश्वरस्तु प्रकृत्यवश्यत्वादप्रतिबद्धबुद्धिः सर्वज्ञ इति। नित्यः शाश्वतः, शुद्धो निर्मलः, बुद्धः प्राज्ञः, मुक्तश्च स्वभावो यस्य सः। न विद्यते आवरणं यस्याः सा अनावरणा, [अनावरणा] ज्ञानशक्तिर्यस्य सः। एकस्या- प्यात्मनः प्रकृतिकृतोऽस्ति जीवेश्वरभेदो मठाद्युपाधिकृत इवाकाशभेदः। अजस्याप्यात्मनः शरीरसम्बन्धकृतानि सन्ति जन्मानि चेति न काचिदिहानुपपत्तिः॥ ५॥
अजोऽपीति। ननु अजस्यापि जीवस्य धर्माधर्मसंस्कारवशाज्जन्मनाशौ भवतां नाम, धर्माधर्मकृतत्वाच्छरीरसंयोगवियोगयोः। ईश्वरस्य तु नित्यमुक्तस्य कथं धर्माधर्मसद्भावो येन जन्मादिकं स्यादिति शङ्कायामयं श्लोकः प्रवृत्त इत्याह— कथमिति। अजोऽपीति। पुण्यापुण्यकर्माधीनशरीरसंयोगरहितोऽपीत्यर्थः।‘आत्मा यत्ने धृतौ बुद्धौ स्वभावे परमात्मनी’ति कोशादाह—स्वभाव इति। भूताना- मीशनं च ‘भीषाऽस्माद्वातः पवते’ इत्यादिश्रुतिसिद्धम्। ईशनं नियमनम्। विष्णोः परमात्मन इमां वैष्णवीम् । त्रयो गुणाः सत्त्वादयः आत्मा स्वरूपं यस्यास्तां त्रिगुणात्मिकाम्। स्वमात्मानं प्रत्यग्रूपम्। ननु प्रकृतिमधिष्ठायापि कथमजस्य जन्म? इत्यत आह— परिहारं वक्तुं भगवद्वचनमित्यर्थः। अतीतानेकजन्मवत्त्वं ममैव नासाधारणम् , किन्तु सर्वप्राणिसाधारणमित्याह— तव चेति। तानि प्रमाणाभावान्न प्रतिभान्तीत्याशङ्क्याह— तानीति। ईश्वरस्यानावृतज्ञानत्वादित्यर्थः। किमिति तर्हि तानि मम न प्रतीयन्ते? तवावृत- ज्ञानत्वादित्याह— न त्वमिति। परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह— परन्तपेति। अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह— धर्मेति। आदिशब्देन रागलोभादयो गृह्यन्ते। ईश्वरस्यातीतानागत- वर्तमानसर्वार्थविषयज्ञानवत्त्वे हेतुमाह— अहमिति॥५॥
ईश्वरस्य कारणाभावाज्जन्मैवायुक्तम् , अतीतानेकजन्मवत्त्वं तु दूरोत्सारितमिति शङ्कते— कथमिति। वस्तुतो जन्माभावेऽपि मायावशाज्जन्म सम्भवतीत्युत्तरमाह— उच्यत इति। पारमार्थिकजन्मायोगे कारणं पूर्वार्धेनानूद्य प्रातिभासिकजन्मसम्भवे कारणमाह— प्रकृतिमिति। प्रकृतिशब्दस्य स्वरूपविषयत्वं २प्रत्यादेष्टुम् आत्ममाययेत्युक्तम्। वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति— अजोऽपीत्यादिना। प्रातिभासिकजन्मसम्भवे कारणकथनपरमुत्तरार्धं विभजते—प्रकृतिमित्यादिना। प्रकृतिशब्दस्य स्वरूपशब्दपर्यायत्वं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
बहूनीति। बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि, तव च हेऽर्जुन ! तान्यहं वेद जाने सर्वाणि। न त्वं वेत्थ न जानीषे, धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात् । अहं पुनर्नित्यशुद्धबुद्धमुक्तस्वभावत्वाद् अनावरणज्ञानशक्तिरिति वेदाहम्१ , हे परन्तप !॥ ५॥
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्मेति? उच्यते— अजोऽपीति। अजोऽपि जन्मरहितोऽपि सन् तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोऽपि सन् , तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलो ऽपि सन् , प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगद् वर्तते, यया मोहितं सत् स्वमात्मानं तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ! ॥५॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥
१. अत्र पुनरयम् अहंशब्दोऽन्वयप्रदर्शनार्थः। एवमग्रेऽपि भाष्यशैली वेदितव्या। २. निराकर्तुमित्यर्थः। तथा च प्रकृतिशब्देन आत्ममायाशब्देन चैक एवार्थ उच्यते। प्रकृतिशब्देन कारणत्वं, मायाशब्देनापारमार्थिकत्वं चोक्तमिति ध्येयम्। द्र. उपोद्घातः पृ. ९.
[[अ. ४. श्लो. ३-६]] [[२००]]
आत्ममाययेति। आत्मनो मम मायया इन्द्रजालतुल्यया विचित्रशक्त्येत्यर्थः। व्यतिरेकमाह— न परमार्थतो लोकवदिति। यथा लोकः परमार्थतः सम्भवति न तथेत्यर्थः। ननु प्रकृतिमाययोरेकार्थत्वात् ‘प्रकृतिमधिष्ठाय मायया सम्भवामी’त्ययुक्तमुक्तं मूलकर्त्रा। ‘न परमार्थतो लोकवद्’ इति भाष्यकर्त्राऽप्ययुक्तमुक्तम् , परमार्थतो लोकस्यैवाभावादिति चेत्? मैवम् ; अविद्यामात्रं प्रकृतिः, दोषसहकृताऽविद्या तु माया। अविद्योपादानकं कार्यं व्यावहारिकत्वात् परमार्थतो जातमित्युक्तम् , मायोपादानकं तु प्रातिभासिकत्वात् न परमार्थत इति। यथा अविद्याजन्यः सर्पः सत्यसर्पो, मायामयस्तु रज्जुसर्पो मिथ्यासर्पः; यथा वा जाग्रत्प्रपञ्चोऽविद्याजन्यः सत्यप्रपञ्चः, स्वप्नप्रपञ्चो मायामयो मिथ्याप्रपञ्चः; तद्वज्जीवानां शरीरसंयोगोऽविद्याजन्यः, ईश्वरस्य तु मायामय इत्यदोषात्। प्रकृतिमधिष्ठायेति वचनं तु जीवानामिव नास्याविद्यामयः शरीरसंयोगः, अविद्याया एतत्परतन्त्रत्वादेतस्य शरीरसंयोगं कर्तुं न क्षमत इति बोधनार्थम्। अविद्या हि जीवान् स्ववशीकृत्य तेषां स्वजन्यशरीरसंयोगं विधत्ते। नात्र कूटस्थ आत्मा जीवशब्देन विवक्षितः; किन्तु साभासबुद्धिरेव विज्ञानात्मा जीव इति। कूटस्थ आत्मा हीश्वरादभिन्नः, तत्त्वमस्यादिश्रुतेः। जीवस्य वास्तवं रूपं कूटस्थ आत्मैव; व्यावहारिकं तु साभासबुद्धिरिति विवेकः। यद्वा त्रिगुणात्मिका माया प्रकृतिः, इन्द्रजालशक्तितुल्या तु मायेति विवेकः। तथा च प्रकृतिकार्यं जीवानां देहेन्द्रियादिकं व्यावहारिकम् , मायाकार्यमीश्वरस्य देहेन्द्रियादिकं तु ऐन्द्रजालिकगन्धर्वनगरवत् प्रातिभासिकम्। अत एव ‘न परमार्थतो लोकवद्’ इति भाषितमाचार्यैः। अत्र परमार्थतः इत्यस्य व्यवहारतः इत्यर्थः, न तु वस्तुतः इति, वस्तुतो लोकस्यैवाभावात्। अत्रेदं बोध्यम्— व्यावहारिकसत् , पारमार्थिकसत् , प्रातिभासिकसत् , अत्यन्तासच्चेति चतुर्विधं पदार्थजातम्। तत्र व्यावहारिकसत् जाग्रद्दशायामदुष्टप्रमाणैरनुभूयमानं जगत् मनुष्यपशुपक्ष्यादिकं भूम्यादिभूतात्मकं च। पारमार्थिकसत् एकमेवाद्वितीयं ब्रह्म। प्रातिभासिकसत् स्वप्नेन्द्रजालरज्जुसर्पादिकं यद्दुष्टप्रमाणैर्गृह्यते प्रतिभानसमयमात्रवर्ति। अत्यन्तासत्तु वन्ध्यापुत्रशशशृङ्गादिकं, प्रतीतितोऽपि तस्याभावात्। तदुक्तम्— ‘वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते’ इति। एवं स्थिते ईश्वरावतारा रामकृष्णादयः नात्यन्तासन्तः, प्रतीतितः सत्त्वात् ; न पारमार्थिकसन्तः, परमार्थदशायामभावात् ; नापि व्यावहारिकसन्तः, अतर्कितजन्मादीनां तेषां व्यावहारिकत्वासम्भवात्। अतः ३प्रातिभासिकसत्त्वमवशिष्टं तेषाम्। युक्तं च तद्, अविचारितरमणीयत्वाद्, गन्धर्वनगरादिवत्। न हि—चतुर्भुजः शङ्खचक्रादिमान् किरीटादिभूषितः सर्वज्ञः शिशुः कस्याश्चिदासीदिति वारयति— मायामिति। तस्याः स्वातन्त्यं निराकृत्य भगवदधीनत्वमाह— ममेति। १तस्याश्चाधिकरणद्वारेणानवच्छिन्नत्वं सूचयति— वैष्णवीमिति। मायाशब्दस्यापि २प्रज्ञानामसु पाठाद् विज्ञानशक्तिविषयत्वमाशङ्क्याह— त्रिगुणात्मिकामिति। तस्यां कार्यलिङ्गकमनुमानं सूचयति— यस्या इति। जगतो मायावशवर्तित्वमेव स्फुटयति— ययेति। यथा लोके कश्चिज्जातो देहवानालक्ष्यते, एवमहमपि मायामाश्रित्य तया स्ववशया सम्भवामि जन्मव्यवहारमनुभवामि, तेन मायामयमीश्वरस्य जन्मेत्याह— तां प्रकृतिमित्यादिना। सम्भवामीत्युक्तमेव विभजते— देहवानिति। अस्मदादेरिव तवापि परमार्थत्वाभिमानो जन्मादिविषये स्यादित्याशङ्क्य , प्रागुक्तस्वरूप- परिज्ञानवत्त्वाद् ईश्वरस्य, मैवमित्याह— न परमार्थत इति। आवृतज्ञानवतो लोकस्य जन्मादिविषये परमार्थत्वाभिमानः सम्भवतीत्याह — लोकवदिति॥६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
वासुदेवं न जानाति, तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवानिव भवामि, जात इव, आत्ममायया आत्मनो मायया, न परमार्थतो लोकवत्॥६॥
१. परमात्मा व्यापकत्वाद् विष्णुः। तदाश्रिता माया वैष्णवी। मायायाः व्यापकत्वं सूचयतीदं पदमिति भावः। २. माया प्रज्ञा वयुनमिति पठन्ति। ३. अन्ये तु ईश्वरीयलीलाविग्रहस्य व्यवहारदशाऽबाध्यत्वेन व्यावहारिकसत्तामभिप्रयन्ति। द्र.न्यायरक्षामणिः१.१.२०।
[[२०१]]
केनचिदुक्ते कोऽपि सम्प्रतीयात् - सत्योऽयं वृत्तान्त इति। तथा स्तम्भान्नरसिंहोभयाकृतिः पुरुष आविरासीदित्युक्तेऽपि। यद्धि विचाराक्षमं, तत् खल्विन्द्रजालवन्मिथ्या। यद्यपि सिद्धान्ते व्यावहारिकं जगदपि विचाराक्षममेव, ‘एतस्मात् किमिवेन्द्रजालमपरं यद् गर्भवासस्थितं रेतश्चेतति हस्तमस्तकपदप्रोद्भूतनानाङ्कुरम्’ इति, तथापि रेतोबीजमृदादेः सकाशाद् देहवृक्षघटादिजन्मनः सर्वानुभवसिद्धत्वान्न तत्र कस्यचिदपि आश्चर्यलेशः, अप्रमाणबुद्धिर्वा। ततः तद् विचारक्षममित्युच्यते यल्लौकिकानामाश्चर्याविषयभूतम्। यत्तु तदाश्चर्यविषयभूतं तद् विचाराक्षमं मिथ्येत्युच्यते, यथा गन्धर्वनगरादिकमिति। तस्मादिन्द्रजालवद् विचित्रहेतुरीश्वरशक्तिर्माया, सर्वसाधारणा तु प्रकृतिरिति। अथवा प्रकृतिर्माया चेत्येकमेव वस्तु, वशीकृतप्रकृतिरहं प्रकृत्यैव सम्भवामि, न तु धर्माधर्मादिनेत्येतदर्थमात्ममाययेत्युक्तम्। यो हि धर्माधर्मादिसंस्कारसचिवप्रकृतिजन्यो मनुष्यादिः, स परमार्थतो जात इत्युच्यते। यस्तु केवलमायाजन्यो रामकृष्णादिः, स परमार्थतो न जात इति, जात इवेत्युच्यते। यथा अज्ञस्य सकामं कर्म वस्तुतः कर्मैव। प्राज्ञस्य तु निष्कामं तत् कर्म न वस्तुतः कर्म; किन्तु कर्मेवाभाति, अबन्धकत्वात्। तथा प्राज्ञस्येश्वरस्याबन्धकत्वाद् रामकृष्णादिदेहधारणलक्षणं जन्म न वस्तुतो जन्म; किन्तु जन्मेव प्रतिभाति, अबन्धकत्वात्। अज्ञस्य जीवस्य तु मनुष्यादिदेहधारणलक्षणं जन्म वस्तुतो जन्मैव, बन्धकत्वादित्यभिप्रायः। द्वैतिनश्च ईश्वरस्य न कर्माधीनं जन्म, किन्तु लीलयैवेत्याहुः। सा च लीला मायातोऽनतिरिक्तैव, मायामयत्वाल्लीलायाः। न हि वस्तुतो निर्विशेषे ईश्वरे लीला सम्भवेदित्यलम्। एतेन जीवपदवाच्यायाः प्रकृतिपरतन्त्रायाः साभासबुद्धेर्यथा प्रकृतिजन्यशरीरसंयोगात्मकं जन्मास्ति, तथा ईश्वरपदवाच्यस्य प्रकृत्यपरतन्त्रस्य कूटस्थस्यात्मनो नास्ति प्रकृतिजन्यशरीरसंयोगात्मकं जन्म, किन्तु मायामयमेव तदिति पर्यवसन्नः श्लोकार्थः। ननु ईश्वरशरीरस्य प्रातिभासिकत्वेन मायामयत्वम् , जीवशरीराणां व्यावहारिकत्वेन प्रकृतिमयत्वमिति विवेको दुष्करः, यावद्व्यवहारमर्जुनशरीरवत् कृष्णशरीरस्यापि वर्तमानत्वादिति चेत्? मैवम् ; कृष्णशरीरस्यानेकविधत्वेन दृश्यमानत्वात् कदाचिद- दृश्यमानत्वाच्च मायामयत्वम् , यथा रज्जुसर्पस्य कदाचिद् दण्डादिरूपेण दृश्यमानत्वात् कदाचिददर्शनाच्च मायामयत्वम् , तद्वत्। तस्मादर्जुनादिवन्नास्ति परमार्थतो जन्म कृष्णस्येति कृष्णस्य नित्याजेश्वरत्वं युक्तम्। यत्तु रामानुजः—नेदं कृष्णस्य जन्म इन्द्रजालादिवन्मिथ्या, किन्तु सत्यमेव, प्रकृतिं स्वभावमधिष्ठायाजहदेव आत्ममायया सङ्कल्पज्ञानेन सम्भवामि। ईश्वरस्य स्वस्वरूपं च ‘आदित्यवर्णं’ ‘हिरण्यवर्णं’ ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद्’ इत्यादिश्रुति- सिद्धमिति; तत्तुच्छम् ; ‘सच्चिदानन्दं ब्रह्म’ ‘निष्कलं निष्क्रियं शान्तम्’ ‘अशब्दमस्पर्शमरूपमव्यय’मित्यादिश्रुत्या ईश्वरस्य नीरूपत्व- स्वभावसिद्धेः, हिरण्यवर्णत्वादिरूपस्य उपासनार्थं कल्पितत्वेन इन्द्रजालवन्मायामयत्वसिद्धेश्च, ईश्वरस्य सविग्रहत्वे सर्वान्तरत्व- साक्षित्वाद्यसिद्धेश्च, दृश्यत्वेन घटादिवदनित्यत्वप्रसङ्गाच्च, सङ्कल्पेनाप्यजस्य जन्मायोगाच्च, असङ्गपुरुषस्येश्वरस्य वस्तुतः शरीरसङ्गा- योगाच्च मिथ्यैवायं कृष्णावतारः॥६॥
यदा यदेति। हे भारत! यदा यदा धर्मस्य ग्लानिर्भवति, अधर्मस्याभ्युत्थानं भवति, तदा तदा आत्मानं सृजामि। आत्मानं मां यद् ईश्वरस्य मायानिबन्धनं जन्मेत्युक्तम् , तस्य प्रश्नपूर्वकं कालं कथयति— तच्चेत्यादिना। चातुर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि— वर्णेति। वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते ज्ञायते धर्मस्तस्येति यावत्।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तच्च जन्म कदा, किमर्थं चेत्युच्यते— यदेति। यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य यदा यदा हि धर्मस्य ग्लानिर्भवति भारत !। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥७॥
[[अ. ४. श्लो. ६-७]] [[२०२]]
सृजामि आविर्भावयामि। कथमात्मनोऽजस्य जन्म? इत्यत आह— माययेति॥७॥
परित्राणायेति। साधूनां परित्राणाय, दुष्कृतां विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे अहं सम्भवामि। साधूनां सन्मार्गस्थानां देवर्ष्यादीनाम्। यत्तु रामानुजः—विष्णुविरहासहानां वैष्णवाग्रेसराणामिति, तदतीव तुच्छम् ; किं ज्ञानिनो वैष्णवाग्रेसराः? उताज्ञानिनः? आद्ये ‘वासुदेवः सर्वमिति स महात्मा सुदुर्लभः’ इत्युक्तरीत्या सर्वं ब्रह्मेति, ‘सर्वगत्वादनन्तस्य स एवाहमवस्थितः। मत्तः सर्वमहं सर्वं मयि सर्वं सनातने’१ इति प्रह्लादोक्तरीत्या ‘ब्रह्माहमस्मी’ति च येषां ज्ञानमस्ति त एवाद्वैतिनो वैष्णवाग्रेसराः। तेषां कथं विष्णुविरहप्रसङ्गः। विष्णोरेव स्वात्मत्वात् सदाऽपि विष्ण्वभिन्नात्मानन्दानुभवव्यग्रत्वाच्च। न द्वितीयः, विष्णुमजानतां वैष्णवत्वासम्भ- वात् । ये विष्णुं जानन्तस्तत्र भक्तिं तन्वन्ति ते हि वैष्णवाः, ‘विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते’ इति शास्त्रात्। न च ‘न चलति निजवर्णधर्मतो यः स्थिरमनसं तमवेहि विष्णुभक्त’मिति वचनात् स्ववर्णाश्रमधर्मस्थो वैष्णव इति वाच्यम् , तस्य योगित्वाद् योगिन एव वैष्णवत्वे ज्ञानिनोऽवैष्णवत्वापत्तेः। ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति वक्ष्यमाणगीताविरोधाच्च। न हि विष्णुप्रियो ज्ञानी वैष्णवो न भवतीति वक्तुं शक्यम्। भवतु वा योगिनोऽपि ज्ञानशून्यस्य वैष्णवत्वम्; कथं पुनस्तस्य भगवद्विरहासहत्वम्? भगवत्स्वरूपस्वभावादिज्ञानस्यैवाभावात्। न च तप्तशङ्खचक्रचिह्नधारिणश्छिद्रोर्ध्वपुण्ड्रधरा अर्चापूजका द्विजा वैष्णवा इति वाच्यम् ; तापादीनां वेदविरुद्धाचारत्वेन, एवंविधदुराचारवतां दुष्कृतां विनाशायैव भगवदवताराविर्भावाच्च नामी वैष्णवाः। तापादीनां द्विजेतरविषयत्वं तु मामके शूद्रधर्मदर्पणाख्ये ग्रन्थे विस्तरतो द्रष्टव्यम्। तस्मात् साधुपददर्शनमात्रेण नेह वैष्णवजनाडम्बरः प्रसक्तुमर्हति ॥८॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति, भारत ! अभ्युत्थानम् उद्भवोऽधर्मस्य, तदा तदाऽऽत्मानं सृजाम्यहं मायया ॥७॥
किमर्थम्? — परित्राणायेति। परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम् , विनाशाय च दुष्कृतां पाप- कारिणाम् , किञ्च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं धर्मसंस्थापनम् , तदर्थं सम्भवामि युगे युगे प्रतियुगम् ॥८॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥८॥
१. वि.पु. १.१९.८५। आनन्दगिरिकृतव्याख्या धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह— प्राणिनामिति। न च यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह— भारतेति। न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुः, अपि तु तेषामधर्मप्रवृत्तिरपीत्याह— अभ्युत्थानमिति। यदा यदेति पूर्वेण सम्बन्धः॥७॥
यथोक्ते काले कृतकृत्यस्य भगवतो मायाकृते जन्मनि प्रश्नपूर्वकं प्रयोजनमाह— किमर्थमित्यादिना। यथा साधूनां रक्षणम् , असाधूनां निग्रहश्च भगवदवतारफलम् , तथा फलान्तरमपि तस्यास्तीत्याह— किञ्चेति। धर्मे हि स्थापिते जगदेव स्थापितं भवति। अन्यथा भिन्नमर्यादं जगदसङ्गतमापद्येतेत्यर्थः॥८॥
मायामयमीश्वरस्य जन्म न वास्तवम् , तस्यैव च जगत्परिपालनं कर्म नान्यस्येति जानतः श्रेयोवाप्तिं दर्शयन् विपक्षे प्रत्यवायं
[[२०३]]
जन्मेति। एवं यः मे जन्म दिव्यं कर्म च तत्त्वतो वेत्ति, हे अर्जुन! सः देहं त्यक्त्वा पुनः जन्म नैति; मामेति। मायारूपं मिथ्याभूतमित्यर्थः। ईश्वरस्येदं ऐश्वरम्। पुनर्जन्म नैति, मामेतीत्यस्य फलितमाह— स मुच्यत इति। अजो नित्यः शुद्धो बुद्धो मुक्त आत्मा स्वतो न जायते, किन्तु माययैव, तस्य चेष्टितं च न प्राकृतम् , किं त्वप्राकृतं लोकातीतमेवेति यो वेद स मुच्यत इत्यर्थः। ननु ईश्वरजन्मकर्मज्ञानात् कथं जीवस्य मुक्तिरिति चेद्? उच्यते— ईश्वरो हि जीवस्य स्वस्वरूपम्। तस्मादीश्वरतत्त्वज्ञाने सति जीवतत्त्वं ज्ञातमेवेति भवति मुक्तिरिति। यत्तु रामानुजः— मज्जन्मकर्मणी ज्ञात्वा निष्पापो भूत्वा मामाश्रित्य मदेकप्रियो मच्चित्तो मामेव प्राप्नोतीत्याह; तदप्रमाणम् , मूलाद् बहिर्बहूनां पदार्थानां कल्पितत्वान्मदाश्रयणादीनाम्॥९॥
वीतेति। वीतरागभयक्रोधाः मामुपाश्रिताः ज्ञानतपसा पूताः बहवो मन्मयाः मद्भावमागताः, रागभयादित्यागपूर्वकं केवल- ज्ञानयोगमाश्रित्य तत एव परिशुद्धा अनेके ब्रह्मविदो मोक्षं प्राप्ता इत्यर्थः। केवलज्ञाननिष्ठा इति। इतरतपोनैरपेक्ष्येण ज्ञानयोगनिष्ठा इत्यर्थः। ननु किमत्र ज्ञापकम्? अत आह— लिङ्गमिति। ‘ज्ञानतपसा पूताः’ इति विशेषणमेव लिङ्गं ज्ञापकम्। ज्ञानमेव तपो ज्ञानतप सूचयति— तज्जन्मेत्यादिना। यथोक्तं मायामयं कल्पितमिति यावत्। वेदनस्य यथावत्त्वम् - वेद्यस्य जन्मादेरुक्तरूपानतिवर्तित्वम्। यदि पुनर्भगवतो वास्तवं जन्म, साधुजनपरिपालनादि चान्यस्यैव कर्म क्षत्रियस्येति विवक्ष्येत, तदा तत्त्वापरिज्ञानप्रयुक्तो जन्मादिः संसारो दुर्वारः स्यादिति भावः॥९॥
सम्प्रति प्रस्तुतमोक्षमार्गस्य नूतनत्वेनाव्यवस्थितत्वमाशङ्क्य परिहरति— नैष इति। मन्मयत्वस्य मद्भावगमनेनापौनरुक्त्यं दर्शयति— ब्रह्मविद इति। आत्मनो भिन्नत्वेन भिन्नाभिन्नत्वेन वा २ब्रह्मणो वेदनं व्यावर्तयति— ईश्वरेति। अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे— मामेवेति। तदुपाश्रयत्वमेव विशदयति— केवलेति। मामुपाश्रिताः इति केवलज्ञाननिष्ठत्वमुक्त्वा ‘ज्ञानतपसा पूताः’ इति किमर्थं पुनरुच्यते? तत्राह— इतरेति॥१०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत् — जन्मेति। जन्म मायारूपं, कर्म च साधुपरित्राणादि मे मम दिव्यम् अप्राकृतमैश्वरम् एवं यथोक्तं यो वेत्ति तत्त्वतः तत्त्वेन यथावत् , त्यक्त्वा देहमिमं पुनर्जन्म पुनरुत्पत्तिं नैति न प्राप्नोति, माम् एति आगच्छति, स मुच्यते, हे अर्जुन !॥९॥
नैष मोक्षमार्ग इदानीं प्रवृत्तः, किं तर्हि? पूर्वमपि — वीतरागेति। वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीता विगता येभ्यस्ते वीतरागभयक्रोधाः, मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनो मामेव च परमेश्वरम् उपाश्रिताः, केवलज्ञाननिष्ठा इत्यर्थः। बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपः, तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तो मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः। १इतरतपोनिरपेक्षज्ञाननिष्ठाः इत्यस्य लिङ्गम्— ‘ज्ञानतपसा’ इति विशेषणम्॥१०॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति, मामेति सोऽर्जुन ! ॥९॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः। बहवो ज्ञानतपसा पूता मद्भावमागताः ॥१०॥
१. ‘इतरतपोनिरपेक्षा ज्ञाननिष्ठेत्यस्य’ इति पा.। २. ‘ब्रह्मणि’ इति पा.। अ. ४. श्लो. ७-१०]
[[२०४]]
इति हि समासः। तत्रैवकारेण तपोऽन्तरव्यवच्छेद इति भावः। यद्वा ज्ञाने तपस्त्वारोपणात् तपोऽन्तरव्यवच्छेदः। सति त्वितरतपसि किमिति ज्ञाने तपस्त्वारोपणपूर्वकं कृत्रिमतपसो ज्ञानस्योपादानम्? न हि ज्ञानं वस्तुतस्तपः इति॥१०॥
य इति। तमिति श्रुतेरयमर्थः—तम् ईश्वरं यथा यथा येन येन प्रकारेण, यं यमर्थमभिसन्धायेति यावत्। उपासते पुरुषाः, तं तमेव फलम् अर्थं लभते प्राप्नुवन्तीति। ४वचनव्यत्ययश्छान्दसः। सर्वावस्थस्येति। सर्वप्रकारमवस्थितस्येत्यर्थः। ब्रह्मादिस्थावरान्त- रूपेण, सच्चिदानन्दरूपेण च स्थितस्येति यावत्। मायया वस्तुतश्चेति भावः। मम वर्त्मानुवर्तन्ते मदुक्तमार्गानुष्ठानद्वारा मामेव भजन्ते इत्यर्थः। ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् ,२प्रागुक्तविशेषणवैयर्थ्यम् ; यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत् , तर्हि तस्य रागादिमत्त्वादनीश्वरत्वापत्तिरिति शङ्कते— तव तर्हीति। ये मुमुक्षवस्तेभ्यो मोक्षमीश्वरो ज्ञानसम्पादनद्वारा प्रयच्छति, फलान्तरार्थिभ्यस्तु तत्तदुपायानुष्ठानेन तत्तदेव ददातीति नास्य रागद्वेषाविति परिहरति— उच्यत इति। मुमुक्षूणामीश्वरानुसारित्वेऽपि फलान्तरार्थिनां कुतः तदनुसारित्वमित्याशङ्क्य , ‘फलमत उपपत्ते’रिति न्यायेन तत्फलस्येश्वरायत्तत्वात् तदनुवर्तित्वमावश्यकमित्याह—ममेति।३भगवद्भजन- भागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते? तत्राह— तेषामिति। अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न स्यादित्याशङ्क्यापर्यायेण तदनुपपत्तिं साधयति— न हीति। मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति अनुग्रहविभागं फलितमाह— अत इति। फलप्रदानेनानुगृह्णामीति सम्बन्धः। नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वाभावे, सति च मुमुक्षुत्वे, कथं तेष्वनुग्रहः स्यादिति? तत्राह— ये यथोक्तेति। ज्ञानप्रदानेन भजामीत्युत्तरत्र सम्बन्धः। सन्ति केचित् त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्षमाणाः, तेष्वनुग्रहप्रकारं प्रकटयति— ये ज्ञानिन इति। केचिदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवार्तिमपहर्तुमनुवर्तन्ते, तेषु भगवतोऽनुग्रहविशेषं दर्शयति— तथेति। पूर्वार्धव्याख्यानमुपसंहरति— इत्येवमिति। भगवतोऽनुग्रहे निमित्तान्तरं निवारयति— न पुनरिति। फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्यकमित्युत्तरार्धं विभजते— सर्वथाऽपीति। सर्वावस्थत्वं तेन तेनात्मना परस्यैवेश्वरस्यावस्थानम्। मार्गो ज्ञानकर्मलक्षणः। मनुष्यग्रहणादितरेषामीश्वरमार्गानुवर्तित्वपर्युदासः स्यादित्याशङ्क्याह— यत्फलेति। सर्वप्रकारैः मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः॥११॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. एतदनन्तरम् — ‘तं यथा यथोपासते तं तमेव फलं लभते’ इति श्रुतेः’ इति अधिकः पाठः रा.पा.। २. ‘ज्ञानतपसा पूताः’ इति विशेषणम्। ३. ‘भगवद्वचन- भागिनाम्’ इति पा.। ४. उदाहृतश्रुतौ ‘उपासते’ इति बहुवचनानुरोधेन ‘लभते’ इति एकवचनं बहुवचनार्थे इति भावः। ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ ! सर्वशः ॥११॥
तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्चिदेवात्मभावं प्रयच्छसि, न सर्वेभ्य इति। उच्यते— ये यथेति। ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते, तान् तथैव तत्फलदानेन भजामि अनुगृह्णाम्यहमित्येतत्। तेषां मोक्षं प्रत्यनर्थित्वात्। न ह्येकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति। अतो ये फलार्थिनस्तान् फलप्रदानेन, ये यथोक्तकारिणस्त्वफलार्थिनो मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनो मुमुक्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन - इत्येवं यथा प्रपद्यन्ते ये, तांस्तथैव भजामीत्यर्थः१। न पुना रागद्वेषनिमित्तं मोहनिमित्तं वा कञ्चिद् भजामि। सर्वथाऽपि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गमनुवर्तन्ते मनुष्याः। यत्फलार्थितया यस्मिन् कर्मण्यधिकृता ये प्रयतन्ते, ते मनुष्या अत्र उच्यन्ते । हे पार्थ ! सर्वशः सर्वप्रकारैः॥११॥
[[२०५]]
यत्तु रामानुजः— मम वर्त्म मत्स्वभावमनुवर्तन्ते अनुभूयानुवर्तन्त इति; तत्तुच्छम् , वर्त्मनः स्वभावार्थाभावात्। अनुभूयेति पदाभावाच्च। मनुष्याणां सर्वप्रकारैर्भगवत्स्वभावानुभवस्य दुष्करत्वाच्च॥११॥
काङ्क्षन्त इति। अथेति श्रुतेरयमर्थः। यः अन्याम् इन्द्रादिदेवताम् ‘असावन्यः, अहमन्योऽस्मी’त्युपास्ते - ‘कर्मफलदाता इन्द्रः, तद्भोक्ता त्वह’मिति भेदबुद्ध्योपास्ते इत्यर्थः। सः न वेद - अज्ञ इत्यर्थः। तत्र दृष्टान्तमाह— यथा पशुरिति। यथा पशुर्मनुष्याणां भोग्यः, एवं स कर्मी देवानां भोग्य इति देवपशुरेवेत्यर्थः। भिन्नदेवतेति। वासुदेवस्य सर्वात्मत्वात् स्वात्माभिन्नदेवतात्वम् , न त्विन्द्रादीनाम् , तेषामसर्वात्मत्वात्। दर्शितं चैतद् भागवते व्यासेनैव – ‘एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदा- भिमानाः। नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासी’दिति। तथा च इन्द्रादयः भिन्नदेवताः, वासुदेव एक एवाभिन्नदेवतेति बोध्यम्। वस्तुतस्तु वासुदेवो नाम न कश्चित् कार्यकरणसङ्घातविशेषे अहमित्यभिमानवान् पुरुषः इन्द्रादिवत् , किन्तु नित्यशुद्धबुद्ध आत्मैवेति कथमात्मनो भिन्नदेवतात्वमिति ज्ञेयम्। हिशब्दः प्रसिद्धिद्योतकः। तामेव प्रसिद्धिमाह— शास्त्राधिकारादिति। यदि तवेश्वरस्य रागादिदोषाभावात्१ सर्वप्राणिष्वनुजिघृक्षायां तुल्यायां, सर्वफलप्रदानसमर्थे च त्वयि सति, ‘वासुदेवः सर्व’मिति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात् त्वामेव सर्वे न २प्रतिपद्यन्त इति? शृणु तत्र कारणम् — काङ्क्षन्त इति। काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तो यजन्त इह अस्मिन् लोके देवताः इन्द्राग्न्याद्याः; ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्’ (बृ.उ. १.४.१०) इति श्रुतेः। तेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्माद् मानुषे लोके ; मनुष्यलोके हि शास्त्राधिकारः३। ‘क्षिप्रं हि मानुषे लोके’ इति विशेषणाद् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान्। मानुषे लोके अनुग्राह्याणां ज्ञानकर्मानुरोधेन भगवता तेष्वनुग्रहविधानात् तस्य रागद्वेषौ यदि न भवतस्तर्हि तस्य रागाद्यभावादेव सर्वेषु प्राणिष्वनुग्रहेच्छा तुल्या प्राप्ता। न च - तस्यां सत्यामेव फलस्याल्पीयसः सम्पादने सामर्थ्यम् , न तु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदाने शक्तिरिति - युक्तम् , अप्रतिहतज्ञानेच्छाक्रियाशक्तिमतस्तव सर्वफलप्रदानसामर्थ्यात्। तथा च यथोक्तानुजिघृक्षायां सत्यां त्वयि च यथोक्तसामर्थ्यवति सति सर्वे फल्गुफलादभ्युदयाद् विमुखा मोक्षमेवापेक्षमाणाः ज्ञानेन त्वामेव किमिति न प्रतिपद्येरन्निति चोदयति— यदीति। मोक्षापेक्षाऽभावात् तदुपायभूतज्ञानादपि वैमुख्याद् भगवत्प्राप्त्यभावे हेतुमभिदधानः समाधत्ते—शृण्विति। कर्मफलसिद्धि- मिच्छता किमिति मानुषे लोके देवतापूजनमिष्यते? तत्राह—क्षिप्रं हीति। कर्मफलसम्पत्त्यर्थिनां यष्टृयष्टव्यविभागदर्शिनां तद्दर्शने कारणम् आत्माज्ञानमित्यत्र बृहदारण्यकश्रुतिमुदाहरति—अथेति। अविद्याप्रकरणोपक्रमार्थम् अथेत्युक्तम्। उपासनं भेददर्शनम्। इत्यनूद्य, ४कारणम् आत्माज्ञानं तत्रेति दर्शयति— नेति। यथाऽस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागादिभिरुप- करोतीत्याह— यथेति। किमिति ते फलाकाङ्क्षिणो भिन्नदेवतायाजिनो ज्ञानमार्गं नापेक्षन्ते? तत्रोत्तरार्धमुत्तरत्वेन योजयति— तेषामित्यादिना। यस्माद् यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशेषे झटिति सिध्यति, तस्मात् तेषां मोक्षमार्गादस्ति वैमुख्यमित्यर्थः। मानुषलोकविशेषणं किमर्थमित्याशङ्क्याह— मनुष्यलोके हीति। लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्तीत्याशङ्क्य क्षिप्र- विशेषणस्य तात्पर्यमाह— क्षिप्रमिति। क्वचित् कर्मफलसिद्धिरविलम्बेन भवति, अन्यत्र तु विलम्बेनेति विभागे को हेतुरित्याशङ्क्य ,
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥
१.‘रागद्वेषाभावात्’इति, ‘यदि…दोषाभावस्तदा’ इति च पा.। २.‘प्रपद्यन्ते’ इति पा.। ३.‘शास्त्राधिकारात्’ इति रा.पा.। ४. तत्र कारणम् आत्माज्ञानमित्यन्वयः।
[[अ. ४. श्लो. ११-१२]] [[२०६]]
मानुषे लोके भूलोके, तत्रापि मनुष्याणाम्, तेष्वपि त्रैवर्णिकानामेव शास्त्राधिकारः। शास्त्रस्य च फलवत्त्वाच्छास्त्राधिकारिणामेव फलसिद्धिरिति भावः। ननु मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवतीति कोऽर्थः क्षिप्रपदनिर्देशेनेत्यत आह— अन्येष्वपीति। अन्येषु लोकेषु कर्मजा सिद्धिश्चिराय भवतीत्यर्थः। ननु अन्येषु लोकेषु कर्माधिकारस्यैवाभावात् कथं कर्मसिद्धिरिति चेद्? उच्यते— इहानुष्ठितानामेव विविधानां कर्मणां फलान्यपि विविधानि पुत्रपशुस्वर्गादिरूपाणि भवन्ति, तत्र पशुपुत्रादिरूपा ऐहिककर्मसिद्धिः क्षिप्रं भवति, स्वर्गादिरूपा आमुष्मिककर्म- सिद्धिस्तु चिराय भवतीति कर्माधिकाराभावेऽपि स्वर्गलोकादिषु कर्मसिद्धयः सन्त्येवेति। कर्मसिद्धयः कर्मफलानि॥१२॥
चातुर्वर्ण्यमिति। मया चातुर्वर्ण्यं गुणकर्मविभागशः सृष्टम्। तस्य कर्तारमपि माम् अकर्तारमव्ययं विद्धि। चतुर्वर्णशब्दात् स्वार्थे ष्यञ् , चातुर्वर्ण्यम्। सत्त्वम् उपसर्जनमप्रधानं यस्य स सत्त्वोपसर्जनः, तस्य। शुश्रूषा त्रैवर्णिकसेवा। यतः सर्वज्ञोऽहं गुणकर्म- विभागपूर्वकं चातुर्वर्ण्यं सृष्टवांस्ततो मनुष्या ममैव वर्त्मानुवर्तन्ते, स्वस्वविहितवर्णाश्रमधर्मानुष्ठानद्वारा तद्विधायकं मामेव सेवन्त १वर्णाश्रमादिकर्माधिकार इति विशेषः। तेषां च २वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति; कर्मजा कर्मणो जाता॥१२॥
मानुषे एव लोके वर्णाश्रमादिकर्माधिकारो, नान्येषु लोकेष्विति नियमः किन्निमित्त इति? अथवा ‘वर्णाश्रमा- दिप्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वशः’ इत्युक्तम् ; कस्मात्पुनः कारणान्नियमेन तवैव वर्त्मानुवर्तन्ते, नान्यस्येति? उच्यते— चातुर्वर्ण्यमिति। चातुर्वर्ण्यं चत्वार एव वर्णाश्चातुर्वर्ण्यम् , मया ईश्वरेण सृष्टम् उत्पादितम् , ‘ब्राह्मणोऽस्य मुखमासीत्’(तै.आ.३.१२) इत्यादिश्रुतेः। गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च। गुणाः सत्त्वरजस्तमांसि। तत्र - सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य शमो दमस्तप इत्यादीनि कर्माणि, ३सत्त्वोपसर्जन- रजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तमउपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रूषैव कर्म - इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टमित्यर्थः। तच्चेदं सामग्रीभावाभावाभ्यामित्याह— मानुष इति। मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युप- संहरति— तेषामिति॥१२॥
मनुष्यलोके चातुर्वर्ण्यं चातुराश्रम्यमित्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति— मानुष एवेति। आदिशब्देनावस्था- विशेषा विवक्ष्यन्ते। प्रकारान्तरेण वृत्तानुवादपूर्वकं चोद्यमुत्थापयति—अथवेत्यादिना। प्रश्नद्वयं परिहरति—उच्यत इति। तर्हि तव कर्तृत्वभोक्तृत्वसम्भवाद् अस्मदादितुल्यत्वेनानीश्वरत्वमित्याशङ्क्याह— तस्येति। ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैषम्यनिर्वाहकं कथयति— गुणेति। गुणविभागेन कर्मविभागः, तेन चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्पष्टयति— तत्रेत्यादिना। प्रश्नद्वयप्रतिविधानं प्रकृत- मुपसंहरति— तच्चेदमिति। मनुष्यलोके परं वर्णाश्रमादिपूर्वके कर्मण्यधिकारस्तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु , तत्र वर्णाद्यभावात्। ईश्वरमेव चातुर्वर्ण्याश्रमादिविभागभागिनोऽधिकारिणोऽनुवर्तन्ते, तेनैव वर्णादेस्तद्व्यापारस्य च सृष्टत्वात् तदनुवर्तनस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३॥
१. ‘वर्णाश्रमादिकर्माणीति विशेषः’ इति पा.। २. ‘वर्णाश्रमाद्यधिकारिणां कर्मिणां’‘वर्णाश्रमाद्यधिकारिणां कर्मणा’ इति च पा.। ३. ‘सत्त्वोपसर्जनस्य’ इति रा.पा.।
[[२०७]]
इत्यर्थः। मनुष्यलोके चातुर्वर्ण्यस्य गुणकर्मविभागवतः सत्त्वादिहैव कर्माधिकारः। अन्येषु लोकेषु तु चातुर्वर्ण्याभावान्न कर्माधिकार इत्यन्योऽर्थः, द्वेधा अवतारिकायाः कृतत्वाद् भाष्यकारैरस्य श्लोकस्य। सर्गादेरित्यादिपदात् स्थितिलययोर्ग्रहणम्। कर्मणः क्रियायाः। यः यत्कर्मकर्ता स तत्फलेन युक्तो भवति, यथा कृषीवलः सस्येनेति व्याप्तिसत्त्वाच्चातुर्वर्ण्यसृष्ट्यादिकर्मकर्ता त्वमपि तत्फलेन युज्यस एव। भवतु , को दोषः? तत्राह— न त्वं नित्यमुक्त इति। कर्मफलबद्धस्य कथं मुक्तत्वमिति भावः। नन्वीश्वरस्य मम किं मुक्त्येत्यत आह— नित्येश्वर इति। बद्धस्यानीश्वरत्वं लोकन्यायेनापि सिद्धमिति भावः। अस्मिन् प्रश्ने प्रतिजानाति—उच्यत इति। किमुच्यते? तदाह— यद्यपीत्यादिना। संव्यवहारः एकीकृत्य व्यवहारः, तादात्म्याध्यास इति यावत्। माययैव सृष्ट्यादीनि कर्माणि क्रियन्ते, न त्वीश्वरेण, तस्याक्रियत्वात्। मायातादात्म्याध्यासात्तु कर्तृत्वमारोप्यतेऽज्ञैरीश्वरे इति भावः। इदमेवोक्तं विश्वामित्रेण अध्यात्म- रामायणे— ‘रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित्। आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति॥’ इति। कथं कर्तुरकर्तृत्वम्? अत आह— परमार्थत इति। वस्तुतोऽकर्ताऽप्यहं मायया कर्तेव प्रतीये इत्यर्थः। अत एवेति। वस्तुतोऽकर्तृत्वादेवेत्यर्थः। यः संसरति स व्येतीत्युच्यते, संसारस्यैव विकारत्वादित्यभिप्रायादाह— अव्ययमसंसारिणमिति। निर्विकारमित्यर्थः॥१३॥
नेति। लिम्पन्ति बध्नन्तीत्यर्थः। केन प्रकारेणेत्यत आह—देहाद्यारम्भकत्वेनेति। आदिपदादिन्द्रियादिग्रहणम् , विषयादिग्रहणं वा। न कर्मभिर्मम जन्मवृद्ध्यादिरूपसंसारात्मको लेपोऽस्तीत्यर्थः। तत्र हेतुमाह— अहङ्काराभावादिति। कर्ताऽहमिति विपरीत- युक्तत्वादित्यर्थः। तस्येत्यादिद्वितीयभागापोह्यं चोद्यमनुद्रवति—हन्तेति। यदि चातुर्वर्ण्यादिकर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतः, तर्हि तद्विषयसृष्ट्यादेः, तन्निष्ठव्यापारस्य च धर्मादेर्निर्वर्तकत्वात् , १तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसङ्गात् नित्य- मुक्तत्वादि ते न स्यादित्यर्थः। मायया कर्तृत्वं, परमार्थतश्चाकर्तृत्वमित्यभ्युपगमान्नित्यमुक्तत्वादि सिध्यतीत्युत्तरमाह—उच्यत इति। मायावृत्त्यादिसंव्यवहारेण चातुर्वर्ण्यादेः तत्कर्मणश्च यद्यपि कर्ताऽहम् , तथापि तथाविधं मां परमार्थतोऽकर्तारं विद्धीति योजना। अकर्तृत्वादेवाभोक्तृत्वसिद्धिरित्याह— अत एवेति॥१३॥
ईश्वरस्य कर्तृत्वभोक्तृत्वयोर्वस्तुतोऽभावे कर्मतत्फलसम्बन्धवैधुर्यं फलतीत्याह— येषां त्विति। कर्मतत्फलसंस्पर्शशून्यमीश्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति— न मामिति। तानि कर्माणीति। येषां कर्मणामहं कर्ता तवाभिमतस्तानीति यावत्। देहेन्द्रिया- द्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे तस्य तत्करणावस्थायामहङ्काराभावं हेतुं करोति— अहङ्काराभावादिति। कर्मफल- तृष्णाभावाच्चेश्वरं कर्माणि न लिम्पन्तीत्याह— न चेति। उक्तमेव प्रपञ्चयति— येषां त्विति। तदभावात् कर्मसु अहं कर्ता इत्यभिमानस्य,
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
चातुर्वर्ण्यं नान्येषु लोकेषु। अतो मानुषे लोके इति विशेषणम्। हन्त तर्हि चातुर्वर्ण्यसर्गादेः कर्मणः कर्तृत्वात् तत्फलेन युज्यसे; अतो न त्वं नित्यमुक्तो नित्येश्वरश्चेति। उच्यते। यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतो विद्धि अकर्तारम्। अत एव अव्ययम् असंसारिणं च मां विद्धि॥१३॥
येषां तु कर्मणां कर्तारं मां मन्यसे, परमार्थतः तेषामकर्तैवाहम् , यतः— नेति। न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेन, अहङ्काराभावात्। न च तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णा। येषां तु संसारिणाम् अहं न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४॥
१. ‘शास्त्रफलं प्रयोक्तरि’(जै.सू. ३.७.१८) इति न्यायादिति भावः।
[[अ. ४. श्लो. १२-१४]] [[२०८]]
ज्ञानाभावादित्यर्थः। ननु भगवतः कृष्णस्य नास्ति कर्मलेपः, नास्ति कर्मफलस्पृहेति ज्ञानमात्रात् कथमन्येषामस्मदादीनां मुक्तिः? अत आह— मामात्मत्वेनेति। ‘यः कर्मलेपरहितः कर्मफलतृष्णारहितश्चेश्वरः स एवाहम् , अहमेव स ईश्वरः’ इति मदभिन्नमात्मानम् आत्माभिन्नं च मां यो वेत्ति -एवमीश्वरात्मदर्शिनः कीदृशी बुद्धिर्भवतीत्यत आह— नाहं कर्ता न मे कर्मफले स्पृहेति। ममैवेश्वरत्वादीश्वरस्यैवात्मत्वाच्च ‘नाहं कर्ता न मे कर्मफले स्पृहा’ इति यो जानातीत्यर्थः। स पुरुषः कर्मभिर्न बध्यते। तस्यापि कर्माणि नित्यानि नैमित्तिकानि काम्यानि निषिद्धानि वा तदाचरितकर्माणि देहाद्यारम्भकाणि न भवन्ति। फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वादिति भावः। एतेन फलाभिसन्ध्यहङ्कारयोः सत्त्व एव कर्मणां बन्धकत्वम् , न तु तदभावे इति सिद्धान्तितम्॥१४॥
एवमिति। एवंशब्दार्थमाह—नाहं कर्ता न मे कर्मफले स्पृहेतीति। पूर्वैरित्यस्यार्थमाह— अतिक्रान्तैरिति। प्राचीनैः अतीतैरित्यर्थः। कर्मैवेत्येवकारव्यावर्त्यार्थमाह—न तूष्णीमासनम् , नापि संन्यास इति। तूष्णीमासनं तूष्णीं स्थितिः, अकरणमिति यावत्। संन्यासः आश्रमविशेषः। तस्माच्छब्दार्थमाह—पूर्वैरप्यनुष्ठितत्वादिति। के ते पूर्वे? अत आह— जनकादिभिरिति। पूर्वतरं पूर्वमेवेत्यर्थः। तरप्प्रत्ययार्थमाह— नाधुना कृतमिति। कृतशब्दार्थमाह— निर्वर्तितमिति। पूर्वैरपि मुमुक्षुभिरेवं ज्ञात्वा कर्म कृतम्। तस्मात् पूर्वैः पूर्वतरं कृतं कर्मैव त्वं कुरु इत्यन्वयः। किमर्थं कर्म कर्तव्यम्? अत आह—[यद्यज्ञ इति।] यदि अज्ञः, तर्ह्यात्मशुद्ध्यर्थं चित्तशुद्धये कर्म कुरु, यदि तत्त्ववित् , तर्हि लोकसंग्रहार्थं कर्म कुर्विति॥१५॥
तत्फलेषु स्पृहायाश्चाभावादित्यर्थः। ईश्वरस्य कर्मनिर्लेपेऽपि क्षेत्रज्ञस्य किमायातमित्याशङ्क्योत्तरार्धं व्याचष्टे— इत्येवमिति। अभिज्ञानप्रकारमभिनयति— नाहमिति। ज्ञानफलं कथयति— स कर्मभिरिति। कर्मासम्बन्धं विदुषि विशदयति— तस्यापीति ॥१४॥
तव कर्मतत्फलसम्बन्धाभावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणेत्याशङ्क्य कर्मणि कर्तृत्वाभिमानं तत्फले स्पृहां चाकृत्वा मुमुक्षुवत् त्वया कर्म कर्तव्यमेवेत्याह— नाहमित्यादिना। नाहं कर्तेत्येवमादि २एवमा परामृश्यते। तेन पूर्वैर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः। कर्मैवेत्येवकारार्थमाह— नेत्यादिना। ३त्वंशब्दस्य क्रियापदेन सम्बन्धः। तस्मादित्युक्तमेव स्फुटयति— पूर्वैरिति। यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा? यद्यज्ञस्तदा चित्तशुद्ध्यर्थं कुरु कर्मेत्याह—यदीति। द्वितीयं प्रत्याह—तत्त्वविदिति। कुरु कर्मेति सम्बन्धः। पूर्वैर्मूढैराचरितमित्येतावता किमिति विवेकवता मया तत् कर्तव्यमित्याशङ्क्याह—जनकादिभिरिति४। ते ५तावदेवं सम्पाद्य कर्म कृतवन्तः, न तदिदानीमप्रामाणिकत्वादनुष्ठेयमित्याशङ्क्याह— पूर्वतरमिति॥१५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कर्तेत्यभिमानः कर्मसु , स्पृहा तत्फलेषु च तान् कर्माणि लिम्पन्तीति युक्तम्। तदभावान्न मां कर्माणि लिम्पन्ति। इति एवं योऽन्योऽपि मामात्मत्वेन अभिजानाति - ‘नाहं कर्ता, न मे कर्मफले स्पृहा’ इति, स कर्मभिः न बध्यते। तस्यापि न देहाद्यारम्भकाणि कर्माणि भवन्तीत्यर्थः॥१४॥
‘नाहं कर्ता, न मे कर्मफले स्पृहा’ इति— एवमिति। एवं ज्ञात्वा कृतं कर्म पूर्वैरपि अतिक्रान्तैः मुमुक्षुभिः। कुरु तेन कर्मैव त्वम् , न तूष्णीमासनम्। नापि संन्यासः कर्तव्यः। तस्मात् त्वं पूर्वैरप्यनुष्ठितत्वाद् १यद्यनात्मज्ञः त्वं तदा आत्मशुद्ध्यर्थम् , तत्त्वविच्चेल्लोकसंग्रहार्थम्। पूर्वैर्जनकादिभिः पूर्वतरं कृतम् , नाधुनातनं कृतं निर्वर्तितम्॥१५॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥
१. ‘यद्यज्ञः’ इति रा. पा.। २. एवंशब्देनेत्यर्थः। ३. ‘तस्मात् त्वं पूर्वैरप्यनुष्ठितत्वाद्’ इति भाष्ये त्वंशब्दस्यान्वयार्थमग्रे क्रियापदाभावात् असंगतिमाशङ्क्य, ‘कुरु कर्मैव’ इत्यत्रत्येन क्रियापदेन संबन्धमाह—त्वमिति। ४. जनकादीनां विवेकित्वं प्रसिद्धमिति उक्ताशङ्कानिरासः। ५. ‘तदैव’ इति पा.।
[[२०९]]
किमिति। त्वद्वचनादेवेति। ईश्वरस्य तवादेशेनेत्यर्थः। न हि पूर्वाचार ईश्वरादेशादधिक इति भावः। पूर्वैः पूर्वतरं कृतमिति विशेषितेन विशेषणेन, कर्मण इति भावः, किं कर्मणः पूर्वैः पूर्वतरं कृतमिति विशेषणेन? न किमपि फलमित्यर्थः। यस्मात् कर्मणि महद्वैषम्यमस्ति तस्मात् पूर्वैः पूर्वतरं कृतमिति विशेषितं कर्म। कथं वैषम्यमित्यतः श्लोकोऽयं प्रवृत्त इत्याह– कथं किमिति। यदेव पूर्वैः पूर्वतरं कृतं तत् कर्मेति मेधाविनोऽपि जानीयुः, न तु स्वबुद्ध्या - इदं कर्म इदमकर्मेति ज्ञातुं क्षमन्त इत्यर्थः। सर्वज्ञोऽहं तु तत् पूर्वैः पूर्वतरं कृतं कर्माकर्म च तुभ्यं वक्ष्यामि, तज्ज्ञानफलमाह— यदिति॥१६॥
कर्मण इति। किं तत्र बोद्धव्यमित्येतत् त्वया न मन्तव्यमित्यन्वयः। कस्मान्न मन्तव्यमित्यत उच्यते— कर्मण इति श्लोकः। कर्मणः कर्मसम्बन्धि बोद्धव्यं ज्ञातव्यं तत्त्वमस्ति। एवमुत्तरत्रापि। नैतावता त्वया कर्मणोऽकर्मणो विकर्मणो वा तत्त्वं ज्ञातम् , किन्तु ज्ञातव्यमवशिष्टमेवेत्यर्थः। अत्र - कर्म मोक्षसाधनभूतं, विकर्म विविधं नित्यनैमित्तिककाम्यादिरूपं कर्म, अकर्म ज्ञानमिति रामानुजभाष्यं तुच्छम् , नित्यादिविविधकर्मणामेव फलाभिसन्धिरहितानां परम्परया मोक्षसाधनकर्मत्वात् कर्मविकर्मणोर्भेदस्य दुर्वचत्वात्। नञः २स्वप्रति- योग्यभावबोधनस्वाभाव्याद् ३अहननादाविवात्रापि कर्माभावरूपार्थ एव भवितुमर्हति। नञो विरोधाद्यर्थास्तु लाक्षणिका एव। न हि किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत् ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१६॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। कर्मविशेषणमाक्षिपति— तत्रेति। मनुष्यलोकः सप्तम्यर्थः। कर्मणि महतो वैषम्यस्य विद्यमानत्वात् तस्य पूर्वैरनुष्ठितत्वेन पूर्वतरत्वेन च विशेषितत्वे तस्मिन् प्रवृत्तिस्तव सुकरेति युक्तं विशेषणमिति परिहरति— उच्यत इति। कर्मणि देहादिचेष्टारूपे लोकप्रसिद्धे नास्ति वैषम्यमिति शङ्कते— कथमिति। विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः सुतरामेव तव तद्विषये व्यामोहसम्भवात् तदपोहार्थमाप्तवाक्यापेक्षणादस्ति कर्मणि वैषम्यमित्युत्तरमाह—किं कर्मेति। तत्ते कर्मेत्यत्राकारानुबन्धेनापि१ पदं छेत्तव्यम्। कर्मादि- प्रवचनस्य प्रयोजनमाह— यज्ज्ञात्वेति। तत् कर्माकर्म चेति सम्बन्धः। अतो मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थः ॥१६॥
कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यमिति चोद्यमनूद्य निरस्यति— न चेति।तत्र हेत्वाकाङ्क्षापूर्वकमनन्तरं श्लोकमवतारयति— कस्मादिति। त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मादध्याहारः, तस्मान्मदीयं प्रवचनमर्थवदिति योजना। बोद्धव्यसद्भावे हेतुमाह—यस्मादिति। त्रितयं प्रकृत्य अन्यतमस्य गहनत्ववचनमयुक्तमित्याशङ्क्य , अन्यतमग्रहणस्योपलक्षणार्थत्वमुपेत्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्र कर्म चेत् कर्तव्यं त्वद्वचनादेव करोम्यहम् , किं विशेषितेन - पूर्वैः पूर्वतरं कृतमिति? उच्यते— यस्मान्महद् वैषम्यं कर्मणि। कथम्? — किं कर्मेति। किं कर्म, किं चाकर्मेति कवयो मेधाविनोऽपि अत्र अस्मिन् कर्मादिविषये मोहिताः मोहं गताः। तत् अतः ते तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि, यद् ज्ञात्वा विदित्वा कर्मादि, मोक्ष्यसे अशुभात् संसारात्॥१६॥
न चैतत् त्वया मन्तव्यम् - कर्म नाम देहादिचेष्टा लोकप्रसिद्धम् , अकर्म नाम तदक्रिया तूष्णीमासनम् , किं तत्र बोद्धव्यम्? इति। कस्मात्? उच्यते — कर्मण इति। कर्मणः शास्त्रविहितस्य हि यस्माद् अपि अस्ति बोद्धव्यम् , १. ‘तत्ते कर्मे’त्यत्र अकर्मेत्यपि पदच्छेदः, किं कर्म किमकर्मेति प्रक्रमानुरोधादित्यर्थः। २. स्वप्रतियोगीति। स्वसंबन्धीत्यर्थः। ३. ‘अहननम्’ इत्यादाविवेत्यर्थः। हननाभावः इति हि तदर्थः।
[[अ. ४. श्लो. १४-१७]] [[२१०]]
मुख्यार्थसम्भवे लाक्षणिकार्थस्वीकारो न्याय्यः। किञ्च कर्मविरोधित्वाज्ज्ञानमकर्मेति वक्तुमपि तवाशक्यम् , तव मते ज्ञानकर्मणोर्विरोधा- भावात्। ज्ञानपूर्वकं कर्मानुष्ठेयमिति त्वयाऽसकृदुक्तत्वात्। नापि नञोऽत्र सादृश्यमर्थः, कर्मज्ञानयोः सादृश्याभावात्। न च तदन्यत्व- मत्रार्थः, कर्मणोऽन्यस्य द्रव्यादेः सत्त्वेन ज्ञानस्यैवाश्रयणे मानाभावात्। नापि तदल्पत्वमर्थः, कर्मणः उत्कृष्टत्वाज्ज्ञानस्य। नापि प्रकरणाज्ज्ञानलाभः, कर्मप्रकरणत्वादस्य। ‘काङ्क्षन्तः कर्मणां सिद्धि’मित्यादिना हि कर्म प्रकृतमिति॥१७॥
कर्मणीति।यः कर्मण्यकर्म पश्येत् , यः अकर्मणि च कर्म पश्येत् , मनुष्येषु स बुद्धिमान् युक्तः कृत्स्नकर्मकृच्च भवतीत्यन्वयः। अत्र तावदिदं वेद्यम्— ‘सप्तम्यधिकरणे च’ इति सूत्रेणाधिकरणे सप्तमी विहिता। ‘आधारोऽधिकरण’मिति सूत्रेणाधारस्याधि- करणसंज्ञा विहिता। स चाधारस्त्रिविधः— औपश्लेषिको वैषयिकोऽभिव्यापकश्चेति। क्रमेण कट्यामास्ते[कटे आस्ते], मोक्षे इच्छाऽस्ति, सर्वस्मिन्नात्माऽस्तीत्युदाहरणानि। एवं स्थिते ‘कर्मणि’ ‘अकर्मणी’ति कर्माकर्मणोर्विहितायाः सप्तमीविभक्तेर्वैषयिक आधारोऽर्थ इति केचित्। अभिव्यापकाधारोऽर्थ इत्यन्ये। तत्राद्यपक्षे श्लोकस्यायमर्थः— यः कर्मणि क्रियत इति कर्म देहादिचेष्टा, तस्मिन् विषये अकर्म कर्माभावम् आत्मानमिति यावत् , पश्येद् जानीयात् , अकर्मणि देहादिव्यापारोपरमे कर्माभावे कर्म च यः पश्येत् , मनुष्येषु मध्ये स मनुष्यः बुद्धिमान् , युक्तः, कृत्स्नकर्मकृत् कृतकृत्य इत्यर्थः, भवतीति। अयं भावः— लोक आत्मानं कर्मत्वेन, देहादिव्यापारोपरममकर्मत्वेन च गृह्णाति भ्रान्त्या। यथा मन्दान्धकारगतं २गुणं सर्प- त्वेन, सर्पं च गुणत्वेन गृह्णाति तिमिराद्युपहतदृष्टिः पुरुषः, तद्वत्। एवं स्थिते यः आत्मानमात्मत्वेन देहादिव्यापारोपरमं कर्मत्वेन च गृह्णाति स बुद्धिमत्त्वादिगुणशाली। यथा गुणं गुणत्वेन सर्पं सर्पत्वेन च जानन् पुरुषो बुद्धिमान् , तद्वत्। न च कर्माभावस्य कथमात्मत्वमिति वाच्यम् , कल्पिताभावस्याधिष्ठानात्मकत्वात् कर्मण आत्मनि कल्पितत्वेन कर्माभाव आत्मैवेति। यथा गुणकल्पितसर्पाभावो गुण एव, तद्वदिति। तस्मादज्ञजनाभिमतं कर्माकर्मेति, अकर्म कर्मेति च विद्वान् जानीयात् इति। अस्मिन्नेव पक्षेऽर्थान्तरमवगम्यते। तथाहि— कर्मणि कर्माश्रयत्वात् कर्तृत्वेनाज्ञजनाभिमते जीवे विषये, अकर्म न विद्यन्ते कर्माणि क्रिया यस्मिंस्तदकर्म निष्क्रियं ब्रह्म यः पश्येत्। यमज्ञजनः कर्तारं संसारिणं जीवं मन्यते, तमात्मानमकर्त्रसंसारि ब्रह्म यः पश्यतीत्यर्थः। ‘अयमात्मा ब्रह्मे’ति श्रुतेरिति भावः। तथा अकर्मणि ब्रह्मणि विषये च कर्म यः जीवं पश्येत्। अन्यत्वेन परोक्षत्वेनेश्वर- त्वेन चाज्ञजनाभिमतं ब्रह्म, स्वत्वेन प्रत्यक्षत्वेन प्रत्यक्त्वेन चात्मानं यः पश्यतीत्यर्थः। ‘तत्त्वमसी’ति श्रुतेरिति भावः। एवं जीवब्रह्मणो- विवक्षितमर्थमाह— कर्मादीनामिति ॥१७॥
उत्तरश्लोकमाकाङ्क्षापूर्वकमुपादत्ते— किं पुनरिति। प्रथमपादस्याक्षरोत्थमर्थं कथयति— कर्मणीत्यादिना। द्वितीयपादस्यापि
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
बोद्धव्यं चास्त्येव विकर्मणः प्रतिषिद्धस्य। तथा अकर्मणश्च तूष्णीम्भावस्य बोद्धव्यम् । अस्तीति त्रिष्वप्यध्याहारः कर्तव्यः। यस्माद् गहना विषमा दुर्ज्ञाना१; कर्मण इत्युपलक्षणार्थम् ; कर्मादीनां कर्माकर्मविकर्मणां गतिः याथात्म्यम् , तत्त्वमित्यर्थः॥१७॥
किं पुनस्तत्त्वं कर्मादेः यद् बोद्धव्यं वक्ष्यामीति प्रतिज्ञातम्? उच्यते— कर्मणीति। कर्मणि क्रियत इति कर्म अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥१८॥
१. ‘दुर्विज्ञेया’ ‘दुर्ज्ञेया’ इति पा.। २. गुणः = रज्जुः।
[[२११]]
र्ब्रह्मजीवयोः चात्यन्ताभेददर्शी बुद्धिमत्त्वादिगुणशालीति। कर्माश्रयत्वानाश्रयत्वाभ्यां, तत्प्रयुक्तसुखदुःखभोगलक्षणसंसारवत्त्वतदभावाभ्यां च यो व्यावहारिकोऽस्ति जीवेश्वरभेदः, न स पारमार्थिकः, परमार्थतः कर्मतत्फलयोरभावात् , ‘एकमेवाद्वितीयं ब्रह्मे’ति श्रुतेः। व्यवहारतोऽपि कर्मतत्फले जीवस्यौपाधिकत्वेनो- पाधिगते एव, न तु स्वरूपगते, चिदेकरसत्वाज्जीवस्येति निष्क्रियमविक्रियं च ब्रह्मैव जीव इति भावः। न च - कर्माकर्मादि- तत्त्वकथनप्रकरणे जीवब्रह्मैक्यकथनमसङ्गतमिति - वाच्यम् , कर्ममात्रमनात्मगतमेव, न त्वात्मगतम् , आत्मनो निष्क्रियब्रह्मरूप- त्वादिति वचनस्य प्रकृतसङ्गतत्वात्। अर्थानुपपत्तेर्लक्षणाबीजस्य सत्त्वादत्र कर्मशब्देन तदाश्रयो जीवो लक्ष्यत इति न लक्षणाश्रयणस्य दुष्टत्वमिति मन्तव्यम्। तृतीयोऽप्यर्थोऽत्रावगम्यते। तथाहि— कर्मणि कर्माश्रये देहादिसङ्घाते विषये अकर्म ब्रह्म यः पश्येत् , सङ्घातस्य ब्रह्मणि कल्पितत्वेन सङ्घातं ब्रह्माभिन्नं यः पश्यतीत्यर्थः। कल्पितस्याधिष्ठानानतिरेकादिति भावः। अत एव ‘सर्वं खल्विदं ब्रह्मे’ति श्रूयते। तथा अकर्मणि उपरतव्यापारे च सङ्घाते विषये कर्म तूष्णीमासनरूपकर्माश्रयं यः पश्येत् , उपरतव्यापारमपि सङ्घातं तूष्णीमासनरूप- कर्माश्रयं यः पश्यतीत्यर्थः। सङ्घातस्य निष्क्रियत्वायोगादिति भावः। स बुद्धिमत्त्वादिगुणशालीति। १द्वितीयपक्षे तु श्लोकस्यायमर्थः— यः कर्मणि कर्माश्रये कर्तरि अकर्म कर्मराहित्यं पश्येत् , अकर्मणि कर्माभावे देहादिचेष्टोपरमे कर्म कर्मत्वं च पश्येत् , स बुद्धिमत्त्वादिगुणशालीति। अयं भावः— आत्मनि कर्म समवेततया वर्तत इति लोक आत्मानं कर्माश्रयत्वेन कर्तारं मन्यते। तस्मिंश्च कर्तृत्वेनाभिमते आत्मनि प्राज्ञः पुनः कर्मराहित्यं पश्येत्। ‘निष्कलं निष्क्रियं शान्त’मिति श्रुतेरविक्रियत्वादियुक्तितश्चाकर्तारमेवात्मानं मन्यते विद्वान्। कर्म च देहादिसङ्घातगतमेव मन्यते, न त्वात्मगतम्। तथा व्यापारवद् व्यापारोपरमोऽपि कर्मैवेति कृत्वा मूढैरकर्मत्वेनाभिमतं व्यापारोपरमं कर्मत्वेनैव प्रतिपद्यते प्राज्ञ इति। न चैवं ‘कर्तर्यकर्म यः पश्येदि’त्येव किमिति नोक्तवान् व्यास इति वाच्यम् , यत्र लोकाः कर्म पश्यन्ति तत्र बुद्धिमानकर्म पश्येदिति बोधयितुं कर्मणीत्युक्तत्वात्। कर्तृशब्दात् कर्माश्रयत्वप्रतीतिर्झटिति भवेदिति भावः इति। यथा प्रवृत्तिस्तथा निवृत्तिरपि कर्मैव, उभयमपीदमनात्मदेहादिसङ्घातगतमेव, अविद्यया चात्मन्यध्यस्तमिति तत्पुनरात्मैव, कल्पितस्याधिष्ठानात्मत्वादिति कृत्वा निष्क्रियोऽविक्रियश्चात्मेति पक्षद्वयसङ्गृहीतार्थः। अथ भाष्यं व्याख्यायते— विहितप्रतिषिद्धतदुभयभिन्नसर्वकर्मसङ्ग्रहार्थमाह— व्यापारमात्रमिति। नञोऽभावार्थकत्वादाह— कर्माभाव इति। कर्माभावे कर्म यः पश्येदित्यन्वयः। ननु कर्माभावे कथं कर्मदर्शनम्? अत आह— कर्त्रिति। प्रवृत्तिनिवृत्त्योः कर्तृतन्त्रत्वात् , यत् कर्तृतन्त्रं तत् कर्मेति व्याप्त्या प्रवृत्तिवन्निवृत्तिरपि कर्मैवेति कृत्वा निवृत्तिरूपे कर्माभावेऽपि कर्मदर्शनं युक्तमिति भावः। ननु प्रवृत्तेः कारकाधीनत्वादस्तु कर्मत्वं, वस्त्वधीनाया निवृत्तेः कथं पुनः कर्मत्वम्? अत आह— वस्त्विति। हि यस्मात् वस्तु परमार्थतत्त्वमप्राप्यैव अविद्याभूमावेव सर्वः क्रियाकारकादिव्यवहारः, अस्तीति शेषः। हिः प्रसिद्धाविति वा। सर्वोऽपि क्रियाकारक- फलव्यवहारोऽविद्यादशायामेव प्रवृत्त इति कृत्वा प्रवृत्तिवन्निवृत्तेरपि वस्तुसंस्पर्शशून्यत्वेन वस्त्वनधीनत्वाद् युक्तं प्रवृत्तिलक्षणायां शब्दप्रकाशितमर्थं निर्दिशति—अकर्मणि चेति। कर्माभावे यः कर्म पश्यतीति सम्बन्धः। प्रवृत्तेरेव कर्मत्वात् , निवृत्तेस्तदभावत्वात् तत्र कथं कर्मदर्शनमित्याशङ्क्य , द्वयोरपि कारकाधीनत्वेनाविशेषमभिप्रेत्याह— कर्तृतन्त्रत्वादिति। प्रवृत्ताविव निवृत्तावपि कर्मदर्शनमविरुद्ध- मिति शेषः। ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते? तत्राह— वस्त्विति। क्रियाकारकफलव्यवहारस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
व्यापारमात्रम् , तस्मिन् कर्मणि, अकर्म कर्माभावं यः पश्येत् , अकर्मणि च कर्माभावे, कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योः, - वस्त्वप्राप्यैव हि सर्व एव क्रियाकारकादिव्यवहारोऽविद्याभूमावेव - कर्म यः पश्येत् पश्यति, स बुद्धिमान् मनुष्येषु , अ. ४. श्लो. १७-१८ ] १. अधिकरणसप्तमीपक्षे इत्यर्थः।
[[२१२]]
देहादिचेष्टायामिव निवृत्तिलक्षणे तदुपरमेऽपि कर्मत्वदर्शनं बुद्धिशालिन इति भावः। परमार्थतत्त्वं ब्रह्मैकमेव वस्तु, तच्चाद्वयमसङ्गं चेति न तदधीनत्वं निवृत्तेः। न च देहादिरपि वस्त्वेवेति वाच्यम् , ‘तत् सत्यमतोऽन्यदार्त’मिति श्रुत्या ब्रह्मण एकस्यैव सत्यत्वेन वस्तुत्वात्। वस्तु हि सत्यम् , असत्यत्वादवस्तुन इति तत्त्वम्। कृत्स्नकर्मकृदिति। आत्मज्ञस्य कृतकृत्यत्वेन कर्तव्याभावादिति भावः। इतरेतरदर्शीति। इतरस्मिन्नितरत् पश्यतीति तथोक्तः। कर्मण्यकर्मदर्शी, अकर्मणि कर्मदर्शी चेत्यर्थः। अत्राक्षिपति— नन्वित्यादिना। विरुद्धाभिधानमेवाभिनीय दर्शयति— कर्मणीत्यादिना। विरोधमेव दर्शयति— न हीत्यादिना। अत्रापरोऽप्यस्ति विरोधः— यः कर्म कर्म जानाति अकर्म चाकर्म स न बुद्धिमान् , किन्तु यः कर्माकर्म जानाति, अकर्म च कर्म जानाति, स एव बुद्धिमानिति। न हि विरुद्धद्रष्टा क्वापि बुद्धिमान् भवेत् , बुद्धिमान् वा विरुद्धं पश्येत्। आक्षेपं परिहरति— नेत्यादिना। परमार्थतोऽकर्मैव सन्मूढदृष्टेर्लोकस्य कर्मवदवभासते, तथा परमार्थतः कर्मैव मूढदृष्टेर्लोकस्याकर्मवदवभासते, तत्र विपर्यये यथाभूतदर्शनार्थं सत्यज्ञानाय भगवान् ‘कर्मण्यकर्म यः पश्येदि’त्याद्याहेत्यन्वयः। अतो हेतोः कर्मण्यकर्मदर्शनमकर्मणि च कर्मदर्शनं स युक्तो योगी च, कृत्स्नकर्मकृत् समस्तकर्मकृच्च सः इति स्तूयते कर्माकर्मणोरितरेतरदर्शी। ननु किमिदं विरुद्धमुच्यते— कर्मण्यकर्म यः पश्येदिति, अकर्मणि च कर्मेति। न हि कर्माकर्म स्याद् , अकर्म वा कर्म। तत्र विरुद्धं कथं पश्येद् द्रष्टा? न ; अकर्मैव परमार्थतः सत् कर्मवदवभासते मूढदृष्टेर्लोकस्य। तथा कर्मैव अकर्मवत्। तत्र यथाभूतदर्शनार्थमाह भगवान्—कर्मण्यकर्म यः पश्येदित्यादि। अतो न विरुद्धम्। बुद्धिमत्त्वा- सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद् वस्तुसंस्पर्शशून्यत्वात् प्रवृत्तिवद् निवृत्तावपि यः कर्म पश्यति स मनुष्येषु बुद्धिमानिति सम्बन्धः। कर्मण्यकर्म, अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशङ्क्याह— इति स्तूयत इति। श्लोकस्य शब्दोत्थेऽर्थे दर्शिते तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्कते— नन्विति। कथमिदं विरुद्धमित्याशङ्क्य कर्मणीति विषयसप्तमी वा स्यादधिकरणसप्तमी वेति विकल्प्य, आद्येऽन्याकारं ज्ञानमन्यालम्बनमिति स्पष्टो विरोधः स्यादित्याह— न हीति। अन्यस्यान्यात्मताऽयोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मालम्बनं ज्ञानमयुक्तमित्यर्थः। द्वितीयं दूषयति— तत्रेति। कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे ? न हि कर्माकर्मणोः मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः। विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति— १न, अकर्मैवेति। लोकस्य मूढदृष्टेः विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् भ्रान्त्या कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः। परस्पराध्यासमभ्युपेत्योक्तम्— तथेति।यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते, तथा कर्म सक्रियमेव द्वैतम् अक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना। कर्माकर्मणोरितरेतराध्यासे सिद्धे सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितमित्याह— तत्रेति। यथा - ‘यदिदं रजतमिति प्रतिपन्नं तदिदानीं शुक्तिशकलं पश्य’ इति भ्रमसिद्धरजतरूपविषया- नुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
श्लोकस्य तात्पर्यापरिज्ञानात् कश्चिद् विरोधं शङ्कते— ननु किमिदं विरुद्धमिति। कर्मणीति किं विषयसप्तमी, किं वाऽधिकरणसप्तमी? प्रथमे अन्याकारं ज्ञानमन्यविषयमिति विरोधः स्फुट एव। द्वितीयेऽपि कर्माकर्मणोः परस्परविरोधादधि- करणाधिकर्तव्यभावो विरुद्ध एवेत्यर्थः। विषयसप्तम्यङ्गीकारेण सिद्धान्ती परिहरति— न, अकर्मैव परमार्थत इत्यादिना। यथा ‘यदिदं रजतम् इत्यभात् , तत् शुक्तिकाशकलं पश्ये’दिति भ्रमसिद्धरजतलक्षणविषयानुवादेन तदधिष्ठानमुपदिश्यते, तथा भ्रमसिद्धकर्मलक्षणविषयानुवादेन तदधिष्ठानभूतं कर्मरहितमविक्रियं ब्रह्मोपदिश्यते। ततो न विरोध इत्यर्थः। इतश्चात्र १. ‘ननु अकर्मैव’ इति भाष्ये टीकायां च पा.।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[२१३]]
न विरुद्धमित्याह— अत इति। ननु भगवता यथाभूतदर्शनार्थमिदमुक्तमिति कथमवगम्यते? तत्राह— बुद्धिमत्त्वादीति। २बुद्धिमत्त्वाद्युपपत्तेश्च यथाभूतं च बोद्धव्यमित्युच्यते। भगवतेति शेषः। ३द्वितीयश्चः एवार्थकः। यो हि यथाभूतं पश्यति स एव बुद्धिमान् युक्तश्च भवति। यथा यथाभूतरज्जुद्रष्टा, प्रकृते च कर्माकर्मणोरितरेतरदर्शी बुद्धिमत्त्वादिगुणवत्त्वेनोक्त इति कर्माकर्मणोरितरेतरदर्शनमिदं यथाभूतदर्शनमेव। अन्यथा हि कर्माकर्मेतरेतरदर्शिनोऽस्योक्तं बुद्धिमत्त्वादिकमनुपपन्नं स्यादित्यभिप्रायः। फलबलादपीदं यथाभूत- दर्शनमेवेत्यवगम्यत इत्याह— न चेति। विपरीतज्ञानाद्धेतोः पुरुषस्याशुभान्मोक्षणं नैव स्यात् , इह च ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभाद्’ इत्युक्तम्। तस्मात् कर्माकर्मणोरितरेतरदर्शनस्याशुभमोक्षहेतुत्वात् तद्दर्शिनश्च बुद्धिमत्त्वाद्युपपत्तेरित्यर्थः। ननु ‘कर्माकर्मणी विपर्ययेण गृहीते प्राणिभि’रित्युक्तमयुक्तम् , यतस्ते देहेन्द्रियादिचेष्टारूपं कर्म कर्मेति, तदभावमकर्मेति च अविपर्ययेणैव गृहीतवन्त इत्यत आह— न चेति। अत्र लोके बदरीफलानां कुण्डमिव घट इव, कर्मणामधिकरणमकर्म नास्ति , तथा अकर्माधिकरणं कर्मापि नास्ति। तत्र हेतुमाह— अभावत्वादिति। अकर्मणः कर्माभावस्याभावरूपत्वेनासत्त्वात् कथं तस्य द्युपपत्तेश्च। बोद्धव्यमिति च यथाभूतदर्शनमुच्यते। न च विपरीतज्ञानाद् अशुभान्मोक्षणं स्यात् । ‘यज्ज्ञात्वा मोक्ष्यसे ऽशुभा’दिति चोक्तम्। तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः। तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनम् — कर्मण्यकर्म यः इत्यादि। न चात्र कर्माधिकरणम् अकर्मास्ति, कुण्डे बदराणीव। नाप्यकर्माधिकरणं कर्मास्ति, १कर्माभावत्वादकर्मणः। व्यपदिश्यते। तथा च भगवद्वचनमविरुद्धमित्याह— अत इति। इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशेषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह— बुद्धिमत्त्वादीति। कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वादन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमानि’त्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः। बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् , कर्माकर्मविकर्मणां स्वरूपं बोद्धव्य- मस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मात्राभिप्रेतमित्याह— बोद्धव्यमिति चेति। फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभातीत्याह— न चेति। सम्यग्ज्ञानाधीनफलमत्र न श्रुतमित्याशङ्क्याह— यज्ज्ञात्वेति। अध्यारोपापवादार्थं भगवद्वचनम् अविरुद्धमित्युपपादितमुपसंहरति— तस्मादिति। तद्विपर्ययेत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते। विषयसप्तमीपरिग्रहेण परिहारमभिधाय, अधिकरणसप्तमीपक्षे दर्शितं दूषणमनङ्गीकारेण परिहरति— न चेति। व्यवहारभूमिः अत्रेत्युच्यते । योग्यत्वे सति अनुपलब्धेरित्यर्थः। अकर्माधिकरणं कर्म न सम्भवतीत्यत्र हेत्वन्तरमाह—कर्माभावत्वादिति। न हि
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
भ्रमानुवादेनाध्यस्तस्य कर्मादेः स्वरूपमधिष्ठानमुच्यत इत्याह— बुद्धिमत्त्वाद्युपपत्तेश्चेति। अविक्रियाद्धि ब्रह्मणोऽन्यत् सर्वं मायामात्रम्। ततो नान्यज्ञानिनां बुद्धिमत्त्वाद्युपपत्तिः। अतो बुद्धिमत्त्वाद्युपपत्तेरविक्रियब्रह्मज्ञानमेव विवक्षितमित्यर्थः। बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्मादेः स्वरूपं बोद्धव्यमस्तीत्यपि सम्यग्ज्ञानोपदेशं गमयतीत्याह— बोद्धव्यमिति चेति। फलवचनमपि सम्यग्ज्ञानोपदेशं गमयतीत्याह— न च विपरीतज्ञानादिति। अधिकरणसप्तमीपक्षे यद् दूषणमुक्तम् , तदनङ्गीकारपराहतमित्याह— न चात्र कर्माधिकरणमिति। अनुपलम्भादि- त्यर्थः। अकर्मणश्च तुच्छत्वादप्यधिकरणत्वं न सम्भवतीत्याह— नाप्यकर्मेति। यस्मान्निरूप्यमाणेऽधिकरणाधिकर्तव्यभावो
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘अभावत्वादकर्मणः’ इति रा.पा.। २. एतन्मते ‘बुद्धिमत्त्वाद्युपपत्तेश्च बोद्धव्यमिति च यथाभूतदर्शनमुच्यते’ इति एकं वाक्यम्। तत्रान्वयं प्रदर्शयति— बुद्धि- मत्त्वेति। ३. तथा च यथाभूतं च यथाभूतमेवेत्यर्थः।
[[अ. ४. श्लो. १८]] [[२१४]]
कर्माधिकरणत्वम्? कथं वा कर्मणस्तदधिकरणम्? अतो हेतो लौकिकैर्विपरीतगृहीते एव कर्माकर्मणी इति। तत्र दृष्टान्तमाह— यथा मृगतृष्णिकायामुदकमिति। नैको दृष्टान्तोऽर्थसिद्धयेऽलमिति मन्वानं प्रत्याह दृष्टान्तान्तरम्— शुक्तिकायां रजतमिति। ननु बुद्धिमानेव निवृत्तिलक्षणे कर्माभावे कर्म पश्यति, प्रवृत्तिलक्षणे च कर्मणि कर्माभावं पश्यतीति कर्माकर्मविपर्ययदर्शी, न तु लौकिका इति चेत् , मैवम्। प्रवृत्तिलक्षणं निवृत्तिलक्षणं चेत्युभयात्मकं कर्म लौकिकैरात्मनि मृगतृष्णिकायामुदकमिवाध्यस्तम्। ततश्चात्मा कर्तेति, आत्मा तूष्णीमास्ते इति च प्रत्येति लोकः। तदेवमकर्मण्यात्मनि कर्मप्रत्यय एको विपर्ययः, तूष्णीमासनरूपे कर्मण्यकर्मप्रत्ययोऽन्य इति। ननु अभावत्वादकर्मणो नास्ति कर्माधिकरणत्वम् , कर्माधिकरणकत्वं चेति यदुक्तं भाष्यकारैः, तदसत्। आत्मत्वेनाकर्मणः भावरूपत्वादिति चेत् , सत्यम्। कर्माभावो यद्यात्मत्वेन मतो लौकिकैस्तर्हि भावरूप एव स्यात् , न तु तथा मत इति। ननु लौकिकैः भावरूपे देहे अथवा भावरूपे आत्मनि कर्म तदभावश्च गृह्यते, न तु कर्माभावे कर्मेति कथं विपर्ययदर्शित्वं तेषामिति चेत् , उच्यते— यत्र कर्माभावस्तत्रैव कर्म गृहीतवन्त इति कृत्वा कर्माभावे कर्म गृहीतवन्त इत्युक्तमिति। अथवा— ननु लौकिका अकर्मणि कर्म, कर्मण्यकर्म च विपर्ययेण पश्यन्तीत्युक्तम् , तदसत्। अकर्मणि कर्मणः कर्मण्यकर्मणश्च सत्त्वादित्यत आह— न चेति। बदराणामधिकरणं कुण्डमिव कर्मणोऽधिकरणमकर्म नैवास्ति। कर्म चाकर्मणो ऽधिकरणं न भवत्येव। कुतः? अकर्मणोऽभावत्वादिति। नन्वकर्मणोऽभावत्वे सुतरां कथं लौकिकानामपि तद्ग्रहणम्? अत आह— मृगतृष्णिकायामिति। मृगतृष्णिकायामुदकं, शुक्तिकायां रजतं चात्यन्तासदपि यथा भ्रान्तैर्गृह्यते, तद्वदिति। न च[ननु ] अकर्मण्यकर्म कर्मणि कर्म च पश्यति बुद्धिमानित्यत्रापि तुल्यः स दोषः, अकर्मणोऽभावत्वात् कथमभावे ऽभावदर्शनमिति चेत् , मैवम्। बुद्धिमदभिमतस्याकर्मणः आत्मत्वेनाभावत्वाभावात्। न च - आत्मन्यात्मानं पश्यतीति कथमेकस्यैवात्मन आधाराधेयभाव इति - वाच्यम् , विषयसप्तमीत्वाद् आत्मविषये आत्मानं पश्यतीत्यर्थाद् आत्मानमात्मानं पश्यतीति फलितार्थाच्च। ननु त्वयाऽऽदौ सप्तम्यन्तरमाश्रित्याधाराधेयभाव एवोक्त इति चेत्? सत्यम्। आत्मनि यदसत्त्वं कर्मणां तदेव कर्माभावोऽस्तीत्यनेन विवक्षितत्वात् तत्रेति। न च भाष्यविरोधस्तवेति वाच्यम् , तात्पर्यैक्यात्। किञ्च अनुपलब्धिप्रामाण्याद् अभाव इति कश्चित् पदार्थोऽस्तीति कतिचिदद्वैतिनः। अभावस्य सत्ताऽयोगान्नास्तीति परे। तत्र प्रथमपक्षाश्रयणे भूतले घटाभाववदात्मनि कर्माभावोऽस्त्येवेति नाधाराधेयभावानुपपत्तिरात्मकर्मणोः। द्वितीयपक्षे तु तदनुपपत्तिरस्त्येव। भाष्यकारास्तु द्वितीयपक्षमेवावलम्ब्य विषयसप्तमीं स्वीचक्रुरिति दिक्। अयमत्र निष्कर्षः— यद् वस्तुतोऽकर्म तल्लौकिकैः कर्मेति गृहीतम्। तत्र च कर्मणि विषये पुनर्बुद्धिमतोऽकर्मज्ञानमस्ति। यद् वस्तुतः कर्म तल्लौकिकैरकर्मेति गृहीतम्। तत्र चाकर्मणि विषये पुनर्बुद्धिमतोऽस्ति कर्मज्ञानमिति। तथा च वस्तुतोऽकर्मण्यकर्मज्ञानं बुद्धिमतः प्रमा, वस्तुतः कर्मणि कर्मज्ञानं च, तस्मिंस्तद्बुद्धेः प्रमात्वात्। एवं वस्तुतोऽकर्मणि लौकिकानां कर्मज्ञानं भ्रमः, वस्तुतः कर्मण्यकर्मज्ञानं च, अतस्मिंस्तद्बुद्धेर्भ्रमत्वात्। वस्तुतोऽकर्म आत्मा, वस्तुतः कर्म तु देहादिचेष्टा तदुपरमश्चेति। तुच्छस्याधिकरणं१ क्वचिद् २दृष्टमिष्टं चेत्यर्थः। निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह— अत इति। शास्त्र- परिचयविरहिणामध्यारोपमुदाहरति— यथेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अतो विपरीतगृहीते एव कर्माकर्मणी लौकिकैः। यथा मृगतृष्णिकायामुदकम् , शुक्तिकायां वा रजतम्। १. अधिकरणत्वमिति पा.। २. ‘द्रष्टुमिष्टम्’ इति पा.। ‘दृष्टम् , इष्टं वेत्यर्थः’ इति पाठः संभाव्यते।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
न सम्भवति, तस्मात् कर्मादेरध्यास एवेत्याह— अतो विपरीतेति।
[[२१५]]
तत्र शङ्कते— नन्विति। सर्वेषामपि कर्म कर्मैव, अकर्माकर्मैव। कर्माकर्म वा क्वचिदपि न व्यभिचरति। यथा घटः सर्वान्प्रति घट एव, अघटश्च सर्वान्प्रति अघट एव, तद्वदिति भावः। परिहरति— तन्नेति। नगेषु वृक्षेषु। न गच्छन्तीति नगाः। वृक्षा हि तटस्था वस्तुतः स्थावराः तटस्थान्प्रति च स्थावरा एव नौस्थानां तु जङ्गमा इव प्रतिभान्ति। नौस्था हि पुरुषा नावि गच्छन्त्यां तटस्थान् वृक्षान् गच्छत इव पश्यन्ति। इदं लौकिकानामकर्मणि कर्मदर्शनस्य निदर्शनम्। अथ कर्मण्यकर्मदर्शनस्याह— दूरेष्विति। दूरेषु अत एव असन्निकृष्टेषु विशेषतःसन्निकर्षरहितेषु , सामान्यतोऽपि सन्निकर्षाभावे दर्शनानुपपत्तेरिति भावः। यद्वा सन्निकृष्टेषु अपरोक्षेष्वित्यर्थः। दूरस्थत्वेन प्राप्तां परोक्षत्वशङ्कां वारयितुं सन्निकृष्टेष्वित्युक्तमिति भावः। गच्छत्सु गतिमत्सु चैत्रमैत्रादिजनसङ्घेषु चक्षुषा गत्यभावदर्शनात्। दूरस्था हि जनसङ्घाः गच्छन्तोऽपि वस्तुतः अगच्छन्त इव भान्तीति भावः। इदं कर्मण्यकर्मदर्शनस्य निदर्शनम्। दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह— एवमिति। यथा गतिक्रियारहितत्वेनाकर्मणि वृक्षे नौस्थानां कर्मदर्शनं, यथा वा गतिक्रियासहितत्वेन कर्माश्रये दूरस्थजनसङ्घे पुरुषस्याकर्मदर्शनं तद्वदिति एवंशब्दार्थः। लौकिकानामिति शेषः। अकर्मणि कर्मरहिते आत्मनि कर्मदर्शनम् , कर्मणि देहादिव्यापारोपरमरूपे अकर्मदर्शनं कर्माभावदर्शनं चेति विपरीतदर्शनमस्तीति। तन्निराकरणार्थं भागवतमिदं वचनमित्याह— येनेति। येन विपरीतदर्शनस्तत्त्वेन[दर्शनसत्त्वेन] लौकिकानां तन्निराकरणार्थं विपरीतदर्शननिराकरणाय ‘कर्मण्यकर्म यः पश्येद्’ इत्याद्युच्यते भगवता । आदिपदाद् ‘अकर्मणि च कर्म यः’ इत्यादिग्रहणम्। प्रवृत्तिनिवृत्त्योरभावेन निष्क्रियत्वादविक्रिय आत्मेति विवक्षया भगवतैष श्लोक उक्त इति भावः। नन्विदमविक्रियत्वमात्मनः पूर्वमेवोक्तमिति पुनरुक्तमिदानीम् , अत आह— तदेतदिति। भाष्यार्कप्रकाशः ननु कर्म कर्मैव सर्वेषाम् , न क्वचिद् व्यभिचरति। तन्न। नौस्थस्य नावि गच्छन्त्यां तटस्थेष्वगतिषु नगेषु प्रतिकूलगतिदर्शनात् , दूरेषु चक्षुषाऽसन्निकृष्टेषु गच्छत्सु गत्यभावदर्शनात्। एवमिहाप्यकर्मणि १कर्मदर्शनं, कर्मणि चाकर्मदर्शनं विपरीतदर्शनम् , येन तन्निराकरणार्थमुच्यते— कर्मण्यकर्म यः पश्येदित्यादि। तदेतदुक्तप्रतिवचन- कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणः२ सन्नाशङ्कते— नन्विति। कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम्। विमतं सत्यम् , अव्यभिचारित्वाद् , ब्रह्मवदित्यर्थः। तत्र कर्म तत्त्वतो नाव्यभिचारि , कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवदित्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति— तन्नेति। अकर्म च तत्त्वतो नाव्यभिचारि कर्माभावत्वात् , दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववदित्याह— दूरेष्विति। दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुःसन्निकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना। गतिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति— एवमित्यादिना। ननु कर्मतदभावयोरारोपितत्वाद् अविक्रियस्य ब्रह्मणो ज्ञानमत्राभिप्रेतं चेद् , ‘अव्यक्तो ऽयमचिन्त्योऽयम्’ ‘न जायते म्रियते वा’ इत्यादिना पौनरुक्त्यं प्राप्तम् , तत्रैव ब्रह्मात्मनो ३निर्विकारस्योक्तत्वादिति? तत्राह— तदेतदिति। तदेतद् आत्मनि शङ्कितं सक्रियत्वम् असकृदुक्तप्रतिवचनमपि, निर्विकारात्मवस्त्वपेक्षयाऽत्यन्तविपरीतदर्शनं मिथ्याज्ञानं, १. ‘अहं करोमीति कर्मदर्शनम्’ इति पा.। २. ‘अमृष्यन्नाशङ्कते’ इति पा.। ३. ‘निर्विकारत्वस्य’ इति पा.। आनन्दगिरिकृतव्याख्या
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
कर्मादेः सत्यत्वं मन्यमानः शङ्कते— ननु कर्मेति। कर्म सत्यम् , अव्यभिचारित्वात् , ब्रह्मवदित्यर्थः। हेतोरसिद्ध्या परिहरति— नौस्थस्येति। विदितं [विमतं] कर्म न तत्त्वतोऽव्यभिचारि , कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवदित्यर्थः। ननु कर्मादेर्मिथ्यात्वादविक्रियज्ञानं चेद् विवक्षितं तर्हि पौनरुक्त्यमापद्यत इत्याशङ्क्याह— तदेतदुक्तप्रतिवचनमित्यादिना। मिथ्याज्ञानसंस्कारप्रचयात् , वस्तुनश्च दुर्लक्ष्यत्वात् पुनः पुनः प्रतिपादनं तत्तद्भ्रमनिराकरणार्थमुपयुज्यते। अतो न पौनरुक्त्यं
[[अ. ४. श्लो. १८]] [[२१६]]
‘अव्यक्तोऽयमचिन्त्योऽयम्’ ‘न जायते म्रियते’इत्यादिना असकृद् उक्तप्रतिवचनमपि दत्तोत्तरमपि तदेतत् कथमविक्रिय आत्मेति चोद्यं लोकश्चोदयतीति हेतोर्भगवान् पुनरुत्तरमाहेत्यन्वयः। असकृच्चोदयतीति वा। किं कृत्वा चोदयति? तत्राह— मिथ्याप्रसङ्गमवतार्या- वतार्येति। वीप्सायां द्विर्भावः। तत्र हेतुमाह— असकृच्छ्रुतमप्यात्मतत्त्वं विस्मृत्य विस्मृत्येति। तत्त्वविस्मरणे हेतुमाह विशेषणविधया — मोमुह्यमान इति। अतिशयेन मोहं प्राप्नुवन्नित्यर्थः। मोहाधिक्यप्राप्तौ हेतुमाह— अत्यन्तविपरीतदर्शनभाविततयेति। अत्यन्त- मिथ्याज्ञानसंस्कारवत्त्वेनेत्यर्थः। भगवतः पुनर्वचने हेत्वन्तरमाह— दुर्विज्ञेयत्वं चेति। वस्तुनः आत्मतत्त्वस्य दुर्विज्ञेयत्वमालक्ष्य चेत्यन्वयः। उक्तमनुवदन्नुपसंहरति— आत्मनीति। आत्मनि श्रुतिस्मृतिन्यायप्रसिद्धः कर्माभाव उक्तः—‘अव्यक्तोऽय’मित्यादिनेति भावः। वक्ष्यमाणश्च वक्ष्यते चेत्यर्थः। ‘सर्वकर्माणि मनसा संन्यस्ये’त्यादिनेति भावः। श्रुतयः ‘न जायते म्रियते वा विपश्चित्’, ‘अविनाशी वा अरेऽयमात्मा’ इत्येवमादयः। स्मृतयः– ‘रामो न गच्छति न तिष्ठति नानुशोचती’त्याद्याः। आत्मा अकर्ता, असङ्ग(त) त्वाद्, विभुत्वाच्चाकाशवद् इत्यादिन्याया इति विवेकः । अकर्मणीत्यस्य प्रतिपदं कर्माभाव इति। निष्क्रिये इत्यर्थः। यद्वा कल्पितसर्पाभावस्य १गुणरूपत्वेन कल्पितकर्माभाव आत्मरूप एवेति बोध्यम्। कर्मविपरीतदर्शनमिति। कर्म च तद् विपरीतं च कर्मविपरीतं, विपरीतं कर्मेत्यर्थः। यद्वा विपरीतमिति भावे क्तः; कर्मविपर्यय इत्यर्थः। तस्य दर्शनं ज्ञानमत्यन्तरूढं लौकिकानामिति भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या १. अधिष्ठानरज्जुरूपत्वेनेत्यर्थः। रज्जौ कल्पितसर्पाभावस्य रज्जुरूपत्वे आत्मनि कल्पितकर्माभावस्यात्मरूपत्वौचित्यादिति भावः। तेन भावितत्वं तत्संस्कारप्रचयवत्त्वम् , ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किञ्चित्प्रसङ्गमापाद्य सक्रियत्वमेवात्मनश्चोदयतीति पुनःपुनः तत्त्वभूतमुत्तरं भगवानभिधत्ते। वस्तुनश्च दुर्विज्ञेयत्वात् पुनःपुनः प्रतिपादनं तत्तद्भ्रम- निराकरणार्थमुपयुज्यते। तथा च नास्ति पुनरुक्तिरित्यर्थः। असकृदुक्तप्रतिवचनमेवानुवदति— अव्यक्तोऽयमिति। कर्माभाव उक्त इति सम्बन्धः। उक्तस्य ‘न जायते म्रियते वा विपश्चिदि’त्यादिश्रुतौ, प्रकृतस्मृतौ, असङ्गत्वादिन्यायेन च प्रसिद्धत्वमस्तीत्याह— श्रुतीति। न केवलमुक्तः कर्माभावः, किन्तु ‘सर्वकर्माणि मनसा संन्यस्ये’त्यादौ वक्ष्यमाणश्चेत्याह— वक्ष्यमाणश्चेति। ननु कर्मणो देहादिनिर्वर्त्यत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसङ्गत्वात् तद्व्यापाररूपस्य कर्मणोऽप्रसिद्धत्वाद् न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यतीत्याशङ्क्याह— तस्मिन्निति। कर्मैव विपरीतं, तस्य दर्शनमिति यावत्। ‘अहं कर्ते’त्यात्मसमानाधिकरणस्य व्यापारस्यानुभवात् कर्मभ्रमस्तावदात्मनि अत्यन्तरूढोऽस्तीत्यर्थः। आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह— यत इति। आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेदित्याशङ्क्याह—देहेति। इदानीमात्मन्यकर्मभ्रममुदाहरति—तथेत्यादिना। यथा शुक्तौ स्वाभाविकमरूप्यत्वम् , मप्यसकृद् अत्यन्तविपरीतदर्शनभाविततया मोमुह्यमानो लोकः श्रुतमप्यसकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्याप्रसङ्ग- मवतार्यावतार्य चोदयतीति पुनः पुनरुत्तरमाह भगवान् , दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः। ‘अव्यक्तोऽयमचिन्त्यो ऽयम्’(भ.गी.२.२५) ‘न जायते म्रियते’ (भ.गी.२.२०) इत्यादिनाऽऽत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तो वक्ष्यमाणश्च। तस्मिन्नात्मनि कर्माभावेऽकर्मणि कर्मविपरीतदर्शनमत्यन्तनिरूढम्। यतः - किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः(भ.गी.४.१६)। देहाद्याश्रयं कर्म आत्मन्यध्यारोप्य ‘अहं कर्ता, ममैतत् कर्म, मयाऽस्य कर्मणः
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
शङ्कनीयमित्यर्थः। किञ्चित् कर्म कायिकं, किञ्चिद् वाचिकं, किञ्चिन्मानसं प्रसिद्धम् । नात्मव्यापाररूपं किञ्चित् कर्म प्रसिद्धम्। कूटस्थचित्स्वभावस्यात्मनोऽसङ्गत्वाद् न कर्मभ्रमोऽप्यस्तीत्याशङ्क्याह— तस्मिन्नात्मनीति। अहं कर्तेति चित्त्वसमानाधि- करणव्यापारस्यानुभवात् कर्मभ्रमोऽप्यात्मनि नास्तीति वचनमनुभवविरुद्धमित्यर्थः। इदानीमकर्मभ्रमं दर्शयति— तथाऽहं
[[२१७]]
शेषः। कवयोऽपीति। अपिना किं पुनरविद्वांसो लौकिकाः इति गम्यते। तदेव विपरीतदर्शनमभिनीय दर्शयति— देहेति। ननु लोको देहाश्रयं गमनादिकर्मात्मन्यारोप्य ‘गन्ताऽह’मिति मन्यत इति यत् तद् भवतु भ्रमः; देहादिव्यापारोपरमे ‘अकर्माऽह’मिति यन्मन्यते कथं तस्य भ्रमत्वम् , अकर्मत्वाद् वस्तुत आत्मनः इत्यत आह—तथाऽहमिति। कार्यकरणाश्रयव्यापारोपरमस्य वस्तुत आत्मन्य- सम्भवात् कथं तत्प्रयुक्तमकर्तृत्वं स्यादात्मनः? अतो लौकिकाभिमतम् अकर्मण्यात्मनि अकर्मज्ञानमपि भ्रम एवेति। तत्रेति व्यवहारभूमावित्यर्थः। अथ श्लोकं व्याख्याति— अत्र चेति। अत्र व्यवहारभूमौ कार्यकरणाश्रयं कर्म कर्मैव सत् , स्वेनैव रूपेणावस्थितं सदित्यर्थः, कर्मरहिते अविक्रिये आत्मनि सर्वैरध्यस्तमित्यन्वयः। उक्तार्थे लोकव्यवहारं प्रमाणयति— यत इति। पण्डितस्तार्किकादिः। अपिशब्दात् किमुत पामर इति गम्यते। तत इति। आत्मनि सर्वलोकस्य कर्तृत्वाभिमानसत्त्वादित्यर्थः। आत्मसमवेततयेति। आत्मनि समवायेन वर्तमानतयेत्यर्थः। ननु कथं कार्यकरणव्यापारोपरमे पण्डितस्य कर्मबुद्धिः स्याद्, अत आह—अहङ्काराभिसन्धिहेतुत्वादिति। यथा ‘अहं कर्म करोमि फलाये’ति कर्मण्यहङ्काराभिसन्धी स्तः, तथा ‘अहं तूष्णीमासे सुखाये’ति कर्माभावेऽप्यहङ्काराभिसन्धी स्तः इति कर्माभावोऽपि कर्मैव। यद्यदहङ्काराभिसन्धिहेतुकं तत्तत् कर्मेति सिद्धान्तादिति भावः। यत्र व्यापारोऽस्ति तत्रैव तदुपरमोऽपि। यथा वृक्षे चलनं चलनाभावश्च। तथा चात्मनि ३व्यापाराभावाद् व्यापाराभावोऽपि फलं भोक्तव्य’मिति च, तथा ‘अहं तूष्णीं भवामि, येनाहं निरायासोऽकर्मा सुखी स्या’मिति कार्यकरणाश्रयं व्यापारोपरमं तत्कृतं च सुखित्वमात्मन्यध्यारोप्य ‘न करोमि किञ्चित् , तूष्णीं सुखमासे’ इत्यभिमन्यते लोकः। तत्रेदं लोकस्य विपरीतदर्शनापनयनायाह भगवान् — कर्मण्यकर्म यः पश्येदित्यादि। अत्र च कर्म कर्मैव सत् कार्यकरणाश्रयं कर्मरहितेऽविक्रिय आत्मनि सर्वैरध्यस्तम् , यतः पण्डितोऽप्यहं करो- मीति मन्यते। १अत आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि, नदीकूलस्थेष्विव वृक्षेषु , गतिप्रातिलोम्येन अकर्म कर्माभावं यथाभूतं गत्यभावमिव वृक्षेषु यः पश्येत् , अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवद् आत्मन्यध्यारोपिते, रूप्यत्वमारोपितम् , तदभावोऽप्यारोप्याभावत्वाद् आरोपपक्षपाती। तथाऽऽत्मनोऽपि स्वाभाविकमविक्रियत्वम् , सक्रियत्वं पुनरध्यस्तम् , तदभावत्वात् कर्माभावोऽप्यध्यस्त एवेति मन्वानः सन्नुपसंहरति— तत्रेदमिति। [तत्र] आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति, इदं ‘कर्मणी’त्यादिवचनं तत्परिहारार्थं भगवानुक्तवानित्यर्थः। सम्प्रत्युक्तेऽर्थे श्लोकाक्षरसमन्वयं दर्शयितुं ‘कर्मणी’त्यादि व्याचिख्यासुर्भूमिकां करोति—अत्र चेति।[अत्र] व्यवहारभूमौ कार्य- करणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सद् आत्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह— यत इति। अविवेकिनां तु कर्तृत्वाभिमानः सुतरामिति वक्तुम् अपिशब्दः। एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याचष्टे— अत इति। आत्मनि कर्मरहिते कर्मारोपे दृष्टान्तमाह— नदीति। आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्धे कर्माभावं यः पश्येत् स बुद्धिमानिति सम्बन्धः। अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम्। तत्र दृष्टान्तमाह— गत्यभावमिवेति। द्वितीयपादं व्याकरोति— अकर्मणि चेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘ततः’ इति रा.पा.। २. ‘शुक्तेः स्वाभाविकमरूप्यत्वम् , रूप्यत्वमध्यस्तम् , तदभावोऽप्यध्यस्ताभावत्वादध्यस्त एव, तथा आत्मनोऽपि स्वाभाविक- मविक्रियत्वम् , सक्रियत्वं पुनरध्यस्तम् , यस्त्वध्यस्त’ इति पाठः स्यात्। ३. व्यापारसंबन्धाभावादित्यर्थः। तूष्णीमित्यादिना। यथा २शुक्तेः….स्वाभाविकमविक्रियत्वम् , अपरस्त्वध्यस्तकर्माभावः, सोऽप्यध्यस्तस्याभाव इत्यध्यस्त एवेत्यर्थः। एवं तावदात्मनि कर्मादिभ्रमं प्रसाध्य तन्निराकरणाय श्लोकमवतार्य विस्पष्टं व्याचष्टे— अत्र चेत्यादिना।
[[अ. ४. श्लो. १८]] [[२१८]]
नास्त्येव, प्रसक्तिपूर्वकत्वान्निषेधस्य। व्यापारतदभावावुभावपि देहाद्याश्रयावेव नात्माश्रयौ। किञ्च यत्र व्यापारोपरमोऽस्ति स उपरतव्यापार इत्युच्यते। यथा तिष्ठन् पुरुषः गमनोपरमादुपरतगमनः, यथा वा अभाषमाणः पुरुषः भाषणोपरमादुपरतभाषणो मौनीति। एवमुपरतक्रियोऽकर्मात्मेति वक्तुं न शक्यते, उपरमात् प्रागात्मनि क्रियाऽप्रसक्तेः। न ह्यक्रिये आत्मनि कालत्रयेऽपि क्रिया सम्भावयितुं शक्या। एतदभिप्रायेणैवात्मनि कर्माभावः श्रुत्यादिभिरुक्तः। एतेन प्रसक्तिपूर्वकत्वान्निषेधस्य कथमात्मनि कर्मनिषेध इति चोद्यं परिहृतम् ; भ्रान्तिप्रसक्तकर्मनिषेधपरत्वात् तद्वचनस्येति। य एवमिति। कालत्रयेऽपि आत्मनि कर्माभावादात्मैवाकर्म। अज्ञस्त्वात्मनि कर्म मन्यते, देहाद्याश्रयं देहादिव्यापारोपरमरूपं कर्म च कर्माभावं मन्यते, देहाद्याश्रयं तच्चात्मनि मन्यते। इमे चाज्ञजनाभिमते कर्माकर्मणी द्वे अप्यात्मनि न स्तः कालत्रयेऽपि। अत एवात्मा अकर्म इति यः कर्माकर्मविभागौ जानातीति। ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभा’दित्युक्तत्वादाह—अशुभान्मोक्षितः कृतकृत्यो भवतीति। य आत्मानमेवाकर्म जानाति देहादिव्यापारं तदुपरमं च कर्म जानाति तस्य देहादिव्यापाररूपस्य तूष्णीमासनरूपस्य वा कर्तव्यस्याभावात् कृतकृत्यत्वमिति भावः। एतेन— यस्तूष्णीमास्ते, यो वा व्याप्रियते नासावात्मा, किन्तु देहादिसङ्घात एव। ततश्च व्यापारात्मिके जाग्रत्स्वप्नावस्थे निर्व्यापारात्मिका निद्रावस्था चेत्यवस्थात्रयमात्मनो नास्त्येवेत्यवस्थात्रयसाक्षित्वरूपं तुरीयत्वं कूटस्थत्वं चात्मनः सिद्धम्। य एवमात्मतत्त्ववित्पुमान् स हि मुक्त एव, ‘तरति शोकमात्मवित्’ ‘ब्रह्मविद् ब्रह्मैव भवती’त्यादि- श्रुतिभ्यः। अत एवाशुभान्मोक्षित इत्युक्तमिति। गौण्या लक्षणयेत्यर्थः। यथा कर्माभावस्य फलाभावस्तथा नित्यकर्मणोऽपि फलाभाव इति सादृश्यमत्र निमित्तमिति बोध्यम्। ‘तूष्णीमकुर्वन् सुखमासे’ इत्यहङ्काराभिसन्धिहेतुत्वात् , तस्मिन्नकर्मणि च कर्म यः पश्येत्। य एवं कर्माकर्मविभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु , स युक्तो योगी कृत्स्नकर्मकृच्च सोऽशुभान्मोक्षितः कृतकृत्यो भवतीत्यर्थः। [ वृत्तिकारीयव्याख्यानोपन्यासः, तद्दूषणं च ] अयं श्लोकोऽन्यथा व्याख्यातः कैश्चित्। कथम्? नित्यानां किल कर्मणामीश्वरार्थे१ऽनुष्ठीयमानानां २तत्फला- भावाद् अकर्माणि तान्युच्यन्ते गौण्या वृत्त्या। तेषां चाकरणमकर्म। तच्च प्रत्यवायफलत्वात् कर्मोच्यते गौण्यैव अध्यारोपमभिनयति—तूष्णीमिति। अकर्मणि कर्मदर्शने युक्तिमाह—अहङ्कारेति। पूर्वार्धेनोक्तमनूद्योत्तरार्धं विभजते—य एवमिति। आत्मनि कार्यकरणसङ्घातसमारोपद्वारेण तद्व्यापारमात्रे कर्मणि, शुक्तिकायामिव रजतम् , ३आरोपितविषये, तदभावम् अकर्म वस्तुतो यो रजताभाववदनुभवति, अकर्मणि च सङ्घातव्यापारोपरमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुख’मित्यारोपिते गोचरे कर्म अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्यतदभावविभागहीनशुक्तिमात्रवद् आत्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं परमार्थतो ऽवगच्छन् ‘बुद्धिमानि’त्यादिस्तुतियोग्यतां गच्छतीत्येवं स्वाभिप्रायेण श्लोकं व्याख्यायात्र वृत्तिकारव्याख्यानमुत्थापयति— अयमिति। अन्यथाव्याख्यानमेव प्रश्नद्वारा प्रकटयति— कथमित्यादिना। ईश्वरार्थेनानुष्ठाने फलाभाववचनं व्याहतमिति मत्वाऽऽह— किलेति। नित्यानामकर्मत्वमप्रसिद्धमित्याशङ्क्य ४फलराहित्यगुणयोगात् तेष्वकर्मत्वव्यवहारः सिद्ध्यतीत्याह— गौण्येति। नित्यानामकरणं मुख्य- वृत्यैवाकर्म वाच्यमित्याह— तेषां चेति। तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्त्या प्रवृत्तिरित्याह— तच्चेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एवं स्वाभिप्रायेण श्लोकं व्याख्याय वृत्तिकारव्याख्यानमनुवदति— अयं श्लोक इत्यादिना। फलराहित्यगुणयोगात् नित्यान्यकर्माण्युच्यन्ते। तेषां तु नित्यानां करणममुख्यवृत्त्यैवाकर्मोच्यत इत्यर्थः। तत्र [अ]कर्मणि कर्मशब्दप्रयोगस्य
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘ईश्वरार्थत्वेन’ इति पा.। २. ‘फलाभावात्’ इति पा.। ३. ‘आरोपिते विषये’ इति पाठः स्यात्। तत्र आरोपिते इति कर्मविशेषणम्। विषये इति सप्तम्यर्थकथनम्। ४ . स्वशक्यार्थवृत्तिगुणवत्ता गौणी वृत्तिः। अतो नित्यकर्मणि अकर्मपदप्रयोगे गुणं दर्शयति— फलराहित्येति। फलाजनकत्वेत्यर्थः। स च कर्माकरणस्य धर्मः।
[[२१९]]
अकर्मकर्मणोस्तु यथा निषिद्धकर्मणः पापफलवत्त्वं तथा नित्यकर्माकरणस्यापीति। यद्वा यथा विहितस्य कर्मणः पुण्यं फलं तथा नित्याकरणस्य पापं फलमिति। अथवा यथा कर्मणः फलवत्त्वं तथा अकरणस्यापीति सादृश्यं बोध्यम्। अयमर्थः— नित्यकर्म कर्मेति, तदकरणमकर्मेति मूढा जानन्ति, न त्वेतद्युक्तम्। यत् फलवत् तदेव कर्म, फलाभावात्तु न नित्यकर्म कर्म। प्रत्यवायरूपफलवत्त्वात्तु न नित्याकरणमकर्म, किन्तु नित्यकर्म अकर्म, नित्यकर्माकरणं तु कर्म इति योऽभिजानाति स बुद्धिमानिति। एवं परमतमुपपाद्य दूषयति— नैतद् व्याख्यानं युक्तमिति। एवं ज्ञानादिति। नित्यकर्मणां फलाभावज्ञानात् , तदकरणात् प्रत्य- वायोऽस्तीति ज्ञानाच्चेत्यर्थः। नित्यानामिति। अयं भावः– ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभा’दिति भगवता ज्ञानमात्रादेव मुक्तिरभिहिता, न तु यज्ज्ञात्वा नित्यकर्म कृत्वा मोक्ष्यस इत्युक्तम्। नित्यकर्म तु कृतं सदेव पापनिवृत्तिलक्षणाशुभमोक्षहेतुर्भवति, न तु ज्ञानमात्रम् [ज्ञात- मात्रम्]। तथा सति नित्यकर्माकरणे प्रत्यवायानुपपत्तेः। वेदाध्ययनमात्रेण नित्यकर्माणि ज्ञातान्येवेति यज्ञयागाद्यननुष्ठानापत्तेश्च। अतो नित्यकर्मणामनुष्ठानमेवाशुभान्मोचकं पुंसां, न तु तज्ज्ञानमात्रम्। यथा काम्यकर्मज्ञानं न स्वर्गादिफलदम् , यथा वा कृष्यादिकर्मज्ञानं न पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे— तत्रेत्यादिना। अकर्मणि चेत्यादि व्याकरोति— तथेति। स बुद्धिमानित्यादि पूर्ववत्। परकीयं व्याख्यानं व्युदस्यति— नैतदिति। नित्यं कर्म अकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः। ‘धर्मेण पापमपनुदति’ इति श्रुतेर्नित्यानुष्ठानाद् दुरितनिबर्हणप्रसिद्धेस्तदनुष्ठानस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा नित्यानुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते— कथमिति। ‘क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता’ इति स्मरणात् कर्मणाऽऽत्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति— नित्यानामिति। नित्यानुष्ठानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद् विवक्षितम् , ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभादि’ति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात्। न च तज्ज्ञानं फलाभावविषयमेषितव्यमित्याह— न त्विति। अशुभस्य फलाभावाज्ञानकार्यत्वाभावान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः। किञ्चातीन्द्रियोऽर्थः शास्त्रान्निश्चीयते। न च नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्तीत्याह— न हीति। नित्याकरणं कर्मेति ज्ञानमपि नाशुभनिवृत्तिफलत्वेन
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
वृत्त्या। तत्र नित्ये कर्मण्यकर्म यः पश्येत् फलाभावात्। यथा धेनुरपि गौः अगौरुच्यते क्षीराख्यं फलं न प्रयच्छतीति, तद्वत्। तथा नित्याकरणे त्वकर्मणि कर्म यः पश्येन्नरकादिप्रत्यवायफलं प्रयच्छतीति। नैतद् युक्तं व्याख्यानम्। एवं ज्ञानादशुभान्मोक्षानुपपत्तेः ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभा’दिति भगवतोक्तं वचनं बाध्येत। कथम्? नित्यानामनुष्ठानादशुभात् स्यान्नाम मोक्षणम् , न तु तेषां फलाभावज्ञानात्। न हि नित्यानां
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
गुणयोगमाह— तच्च प्रत्यवायफलत्वादिति। इदानीं वृत्तिकारव्याख्यानं दूषयति— नैतद् युक्तमित्यादिना। ननु ‘धर्मेण पापमपनुदती’ति श्रुतेः नित्यानुष्ठानाद- शुभक्षयः प्रसिद्धः। ततो नित्यानुष्ठानस्य तदभावात् तदकर्मेति ज्ञात्वा नित्यानुष्ठाने क्रियमाणे कथं नाशुभक्षय इत्याह— कथमिति। ‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मते’ति स्मृतेः न कर्मणाऽऽत्यन्तिकाशुभक्षयः। तथाप्यङ्गीकृत्य परिहरति— नित्यानामनुष्ठानादिति। यद्यपि नित्यानुष्ठानादशुभमोक्षणं सम्भवति, तथाप्यस्मिन् प्रकरणे तन्न विवक्षितम्। ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभादि’ति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात्। तत्त्वज्ञानं फलाभावविषयं भवत्विति न वाच्यमित्याह— ननु [न तु] तेषामिति। अशुभस्य फलाभाव[वा]ज्ञानकार्यत्वाभावान्न फलाभावज्ञानादशुभक्षय इत्यर्थः। किञ्चातीन्द्रियार्थे शास्त्रमेव प्रमाणम्। न च नित्यकर्मणां फलाभावज्ञानादशुभक्षय इति शास्त्रे विद्यत इत्याह— न हि नित्यानामिति। ननु भगवद्वाक्यमेव
[[अ. ४. श्लो. १८]] [[२२०]]
सस्यादिफलदम् , तद्वदिति। नित्यानां फलाभावज्ञानं नित्यकर्मज्ञानं वा अशुभमुक्तिफलत्वेन न चोदितं वेदेनेति शेषः। यथा – ‘तरति शोकमात्मविद्’ इत्यात्मज्ञानं शोकतारकत्वेन चोदितम् , तद्वदिति भावः। ननु वेदेन चोदितं मास्तु नाम, भगवतैवोक्तं गीतास्वित्यत आह— न चेति। भगवता चेह गीतासु नैवोक्तम्। एतेनेति। नित्यकर्मणां फलाभावज्ञानस्याशुभमोचकत्वाभाववचनेनेत्यर्थः। ‘कर्मण्यकर्म यः पश्येदि’त्यस्य परोक्तं व्याख्यानं निराकृतमित्यर्थः। ‘एतेनाकर्मणि कर्मदर्शनं प्रत्युक्त’मिति पाठान्तरे एतेनाशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणोक्तन्यायेनेत्यर्थः। अथाकर्मणि च कर्म य इत्यस्य परोक्तमर्थं दूषयति— न हीत्यादिना। नित्याकरणं कर्मेति पश्येदिति नेह चोद्यते भगवता। किम्पुनश्चोद्यते? तदाह— नित्यस्येति। नित्यं कर्म कर्तव्यमित्येव चोद्यते— ‘कुरु कर्मैवे’त्यादिनेति भावः। ननु नित्याकरणं कर्मेति मा चोद्यतां नाम, नित्याकरणात् प्रत्यवाय इति यो जानाति स बुद्धिमानितीहोच्यत इत्यत्राह— न चेति। ननु नित्याकरणात् प्रत्यवाय इति यो वेत्ति स नित्यं कर्म कुरुते, ततश्चाशुभान्मुच्यत इत्यस्ति नित्याकरणात् प्रत्यवायज्ञानात् फलमशुभमुक्तिरूपमिति चेन्मैवम् ; तद्ध्यशुभमुक्तिरूपं फलं नित्यकर्माचरणजन्यमेव, न तु प्रत्यवायज्ञानजन्यम् , अन्यथा नित्याकरणात् प्रत्यवाय इति ज्ञानमात्राद् विनैव चोदितमस्तीत्याह— नित्यकर्मेति। भगवद्वचनमेवात्र प्रमाणमित्याशङ्क्याह— न चेति। साधारणमेव यज्ज्ञात्वेत्यादि भगवतो वचनं न तु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः। अशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणन्यायेनाकर्मणि कर्मदर्शनं निराकरोति— एतेनेति। नामादिषु फलाय ब्रह्मदृष्टिवदकर्मण्यपि फलार्थं कर्मदृष्टिविधानान्नाशुभमोक्षणानुपपत्तिरित्याशङ्क्याह— न हीति। अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम्। अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्फलायेति कल्पना परस्य सिद्धान्तविरुद्धेत्याह— नित्यस्य त्विति। परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्तव्यत्वेनात्र विवक्षितमेवेत्याशङ्क्याह— न चेति। न तावत् प्रवृत्तिरस्य विज्ञानस्य फलम् , नियोगादेव तदुपपत्तेः, नापि फलान्तरमनुपलम्भाद् , अतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमि-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
फलाभावज्ञानमशुभमुक्तिफलत्वेन चोदितम् , नित्यकर्मज्ञानं वा। न च भगवतैवेहोक्तम्। १एतेनाकर्मणि कर्मदर्शनं प्रत्युक्तम्। न ह्यकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते; नित्यस्य तु कर्तव्यतामात्रम्। न चाकरणान्नित्यस्य विद्यत इत्याशङ्क्याह— न चेति। ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभादि’ति साधारणमेव भगवद्वाक्यम्। न तु ‘नित्यानां फलाभावं ज्ञात्वे’ति विशेषनिष्ठमित्यर्थः। एवं तावदशुभमोक्षासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शनं निराकृतम्। इदानीमकर्म(कर्म)णि कर्म- (कर्मणि)दर्शननिराकरणेऽप्यतिदिशति—[एतेनेति।] ननु यथा ‘नाम ब्रह्मेत्युपासीते’त्यादौ नामादिषु ब्रह्मादिदृष्टिर्विधीयते फलाय, तथा अत्रा(पि)कर्मणि कर्मदृष्टिर्विधीयते फलाय। अतो नाशुभमोक्षणासंभव इत्याशङ्क्याह— न ह्यकर्मणीति। वृत्तिकारमते नित्यस्य कर्तव्यतामात्रमस्मिन् श्लोके विवक्षितम्। अतः [अ]कर्मणि कर्मदर्शनं फलाय विधीयत इति कल्पनं सिद्धान्तविरुद्धमित्यर्थः। ननु वृत्तिकारस्यापि नित्यस्य कर्तव्यतामात्रमस्मिन् श्लोके विवक्षितं न भवति, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्धये नित्याकरणात् प्रत्यवायो भवतीति ज्ञानं कर्तव्यत्वेन विवक्षितमित्याशङ्क्याह— न चेति। यथा राजनियोगादेव भृत्यः प्रवर्तते, न त्वकरणे दोषोऽपि कीर्त्यते, तथा नियोगादेव नित्यानुष्ठाने प्रवृत्तिसिद्धौ नाकरणात् प्रत्यवायज्ञानमपि तदर्थं संपादनीयम्। न चापरं किमपि फलमस्ति। अतो निष्फलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं कर्तव्यत्वेन [न] विवक्षितमित्यर्थः। किञ्चाकरणे कर्मदृष्टि(प्र)करणे प्राधान्यादकरणस्याश्रय[त्वेन] ज्ञेयत्वं वक्तव्यम्। तन्न सम्भाव्यते,
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘एतेन कर्मणि अकर्मदर्शनं प्रत्युक्तम्’ इति रा.पा.।
[[२२१]]
कर्माचरणम् अशुभमुक्तिप्रसङ्गात्। न च प्रत्यवायज्ञानस्य नित्यकर्मप्रवर्तकत्वरूपं फलमस्तीति वाच्यम् , अशुभमोक्षणफलस्यैव भगवता प्रतिज्ञातत्वात्। प्रत्यवायं जानद्भिरपि बहुभिः प्रारब्धवशान्नित्यकर्मणामनाचरितत्वात् , मूढैरपि क्रियमाणत्वाच्च। ननु नित्याकरणं ज्ञेयमेव निषिद्धकर्मवत् परिहारायेति कृत्वा नित्याकरणमिह ज्ञेयत्वेन चोद्यत इत्यत आह— नापीति। नित्यान्येव ज्ञेयत्वेन चोदितान्यनुष्ठानाय, न तु नित्याकरणं क्वापि चोद्यते। नित्यचोदनादेव नित्याकरणनिषेधोऽर्थात् सिध्यतीति न पुनर्नित्याकरणचोदनावकाशः। ननु तत्त्वज्ञानादिव कर्माकर्मज्ञानान्मुक्तिःस्यादत आह— नापीति। तत्त्वज्ञानादेव मुक्तिर्न तु मिथ्या- ज्ञानादिति सर्वसम्मतम्। रज्जुयाथात्म्यरूपतत्त्वज्ञानाद्धि कृत्रिमसर्पजन्यभयकम्पादिनिवृत्तिः। कर्माकर्मेति ज्ञानं तु मिथ्याज्ञानमेव, कर्मण्यकर्मेति ज्ञानस्य, अकर्मणि कर्मेति ज्ञानस्य वा अतस्मिंस्तद्बुद्धित्वेन मिथ्याज्ञानत्वात्। मिथ्याज्ञानादशुभमोक्षणादिकं तु विप्रति- षिद्धं, रज्जुसर्पज्ञानाद् भयकम्पाद्यशुभस्यैव प्राप्तेः। तस्मिन्मिथ्याज्ञानादशुभमेव स्यान्न तु तन्मोक्षः। नाप्येवं मिथ्याज्ञानी बुद्धिमान् युक्तः कृत्स्नकर्मकृद्वा भवेत्। स्तुतिर्वेति। नोपपद्यत इत्यन्वयः। ननु मिथ्याज्ञानादप्यशुभमोक्षः किं न स्याद्? अत आह— मिथ्याज्ञानमेवेति। अशुभस्य मिथ्याज्ञानस्य कथमशुभनिवर्तकत्वम् , न कथमपीत्यर्थः। तत्र दृष्टान्तमाह— न हीति। अथ कर्माकर्मणोरितरेतरज्ञानस्य मिथ्यात्वमसहमानः शङ्कते पूर्ववादी— नन्विति। गौणत्वे हेतुमाह— फलाभावभाव- त्यर्थः। किञ्चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वाज्ज्ञेयत्वं वक्तव्यम् , तच्च तुच्छत्वादनुपपन्नमित्याह—नापीति। अकरण- स्यासतो नामादिवदाश्रयत्वेन दर्शनासम्भवेऽपि सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भविष्यतीत्याशङ्क्याह— नापि कर्मेति। आदिशब्देन सर्वोत्कर्षादि गृह्यते। फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तम् , न मिथ्याज्ञानस्य २अनुपपत्तेरित्यर्थः। स्वप्ने मिथ्याज्ञानमपि फलवदुपलब्धमित्याशङ्क्य मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात् तन्निवृत्तिरित्याह— मिथ्याज्ञानमेवेति। अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह— न हीति। अविवेकपूर्वकम् ‘इदं रजत’मिति सदसतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरण्याधीनं ज्ञानं सिंहदेवदत्तयोरिव गौणम् , न मिथ्याज्ञानमिति शङ्कते— नन्विति। कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलभावो गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह— फलेति। यथोक्तज्ञानस्य गौणत्वेऽपि प्रामाणिकफलाभावान्न
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रत्यवायो भवतीति विज्ञानात् किञ्चित् फलं स्यात्। नापि नित्याकरणं ज्ञेयत्वेन चोदितम्। नापि कर्माकर्मेति मिथ्यादर्शनादशुभान्मोक्षणं बुद्धिमत्त्वं युक्तता कृत्स्नकर्मकृत्त्वादि च फलमुपपद्यते, स्तुतिर्वा। मिथ्याज्ञानमेव हि साक्षादशुभरूपम्। कुतोऽन्यस्मादशुभान्मोक्षणम्? न हि तमस्तमसो निवर्तकं भवति। ननु कर्मणि यदकर्मदर्शनम् , अकर्मणि वा कर्मदर्शनं न तन्मिथ्याज्ञानम् ; किं तर्हि? गौणं १फलभावाभाव-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
तुच्छत्वादित्याह— नापि नित्याकरणमिति। नन्वकरणस्य तुच्छत्वान्नामादिवदाश्रयत्वेन दर्शनं यद्यपि न सम्भवति, तथापि सामानाधिकरण्येन भविष्यति। ‘इदं रूप्य’मित्यादौ सदसतोरपि सामानाधिकरण्यदर्शनादित्याशङ्क्याह— नापि कर्मेति। सम्यग्ज्ञानस्य हि फलवत्त्वं स्तुतिर्वा घटते, न मिथ्याज्ञानस्य, दुष्टत्वादित्यर्थः। ननु स्वप्ने मिथ्याज्ञानमपि फलवद् दृष्टमि- त्याशङ्क्याह— मिथ्याज्ञानमेव हीति। मिथ्याज्ञानस्याशुभाविरोधित्वान्न मिथ्याज्ञानादशुभनिवृत्तिः फलं सम्भाव्यते इत्यर्थः। मिथ्याज्ञानत्वमसिद्धमित्याह— ननु कर्मणीति। अविवेकपूर्वं हि सदसतोः सामानाधिकरण्यं मिथ्याज्ञानं भवति। कर्माकर्मणोस्तु विवेकेन भानात् सामानाधिकरण्यं न मिथ्याज्ञानं, किन्तु गौणमेवेत्यर्थः। तथापि फलवत्त्वासम्भवः समान १. ‘फलाभावभावनिमित्तम्’ इति पा.। २. ‘अनुपलब्धेः’ इति पा.।
[[अ. ४. श्लो. १८]] [[२२२]]
निमित्तमिति। कर्मण्यकर्मज्ञानं फलाभावनिमित्तम् , अकर्मणि कर्मज्ञानं तु फलभावनिमित्तमिति विवेकः। यथा सिंहो माणवक इति ज्ञानं गौणं क्रौर्यशौर्यादिनिमित्तम् , तद्वदिति भावः। गौणत्वमभ्युपेत्यैव परिहरति— नेति। मिथ्याज्ञानवद् गौणज्ञानेऽप्यशुभ- मोक्षणरूपफलाभावस्तुल्य एवेत्यर्थः। दोषान्तरमाह— नापीति। यथाश्रुतार्थं विहायाश्रुतार्थकल्पनमन्याय्यं निष्फलं चेति भावः। स्वशब्देनेति। वाचकशब्देनेत्यर्थः। न तु लाक्षणिकेनेति भावः। स्वशब्देन वादप्रकारमेव दर्शयति— नित्यानामित्यादिना। ‘न नित्यकर्मणोऽर्थोऽस्ति प्रत्यवायोऽविधानतः’ इति श्लोकस्य सुकरत्वादिति भावः। ननु परकान्तासु रतोद्यतं धूर्तं तत्कालागतपति- सकाशाद् रक्षयितुं यथा दूती वक्ति ‘वृषापेहि परक्षेत्रा’दिति गूढं वाक्यम् , तद्वद् अयं भगवान् गूढमाह— कर्मण्यकर्म यः पश्येदितीत्यत आह— न चेति। भगवान् हि गुह्यं वस्तु शिष्यायार्जुनाय प्रकटयितुमेव प्रवृत्तः, न तु गोप्यं कचिदर्थं गोपयितुम्। तस्मादिह नास्ति भगवतो गोप्यार्थः, यद्गोपनाय छद्मवाक्यं प्रयुञ्जीत। ननु यथा आत्मतत्त्वं दुर्बोधत्वात् पुनः पुनः शब्दान्तरेणोक्तम् ‘अव्यक्तो तद्गौणतोचितेति दूषयति— नेत्यादिना। कर्माकर्मेत्यादिगौणविज्ञानोपन्यासव्याजेन नित्यकर्मणः कर्तव्यतया विवक्षितत्वाद् गौणज्ञानस्याफलत्वमदूषणमित्याशङ्क्याह— नापीति। ज्ञानादशुभमोक्षणस्य श्रुतस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद् विशेषः सिध्यतीत्यर्थः। उक्तमेव प्रपञ्चयति— स्वशब्देनेति। नरकपातः स्याद् अतो विधेरेवानुष्ठेयानि तानीति शेषः। यथोक्तवाचककर्मशब्दप्रयोगादेवापेक्षितार्थसिद्धिसम्भवे भगवतो व्याजवचनकल्पनमनुचितमित्याह— तत्रेति। प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह— तत्रैवमिति। नित्यकर्मानुष्ठानसिद्ध्यर्थं व्याजरूपमपि भगवद्वचनमुचितमित्याशङ्क्य ‘स्वशब्देनापी’त्यादिप्रागुक्तपरिपाट्या तदनुष्ठानबोधनसम्भवाद् मैवमित्याह— न चैतदिति। वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते। यथाऽऽत्मप्रतिपादनं सुबोधत्वसिद्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्मे’त्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशङ्क्य तस्य नित्यानुष्ठानवाचकत्वाभावान्मैवमित्याह— नापीति। किञ्च पूर्वमेव नित्यानुष्ठानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधत्वार्थं शब्दान्तर-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
निमित्तम्। न ; कर्माकर्मविज्ञानादपि गौणात् फलस्याश्रवणात्। नापि श्रुतहान्यश्रुतपरिकल्पनायां कश्चिद् विशेषः उपलभ्यते। स्वशब्देनापि शक्यं वक्तुम् - नित्यकर्मणां फलं नास्ति, अकरणाच्च तेषां नरकपातः स्यादिति। तत्र व्याजेन परव्यामोहरूपेण ‘कर्मण्यकर्म यः पश्येदि’त्यादिना किम्? तत्रैवं व्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यात्। न चैतच्छद्मरूपेण वाक्येन रक्षणीयं वस्तु ; नापि शब्दान्तरेण पुनः पुनरुच्यमानं सुबोधं स्यादित्येवं वक्तुं युक्तम् । ‘कर्मण्येवाधिकारस्ते’ इत्यत्र हि स्फुटतरः उक्तोऽर्थो न पुनर्वक्तव्यो इत्याह— न, कर्माकर्मेति। ननु गौणविज्ञानस्य फलवत्त्वासम्भवो न दूषणाय। अतोऽनेन व्याजेन नित्यानुष्ठानकर्तव्यता- यामेव तात्पर्यमित्याशङ्क्याह— नापि श्रुतहानीति। श्रुतं यद् ज्ञानादशुभमोक्षणं तस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद् विशेषो दृश्यत इत्यर्थः। एतदेव विवृणोति— स्वशब्देनेत्यादिना। ननु नित्यानुष्ठानस्य गौणत्वसिद्ध्यर्थं व्याजरूपमेव वाक्यमुचितं भवतीत्याशङ्क्याह— न चैतच्छद्मरूपेणेति। पुरुषमात्रसम्बन्धित्वेन नित्यानुष्ठानस्य प्रकटत्वादित्यर्थः। ननु यथा आत्मप्रतिपादनं पुनः पुनः क्रियते सुबोधत्वसिद्ध्यर्थम् , तथा तेषां नित्या- नुष्ठानमपि शब्दान्तरेणोच्यमानं सुबोधं स्यादित्यपि न युक्तम् , ‘कर्मण्यकर्म यः’ इत्यादिशब्दानां नित्यानुष्ठानावाचक- त्वादित्याह— नापि शब्दान्तरेणेति। यत् प्रथमं[अ]स्फुटमुच्यते, तत् स्फुटीकर्तुं युक्तं भवति, न तथा नित्यानुष्ठानमित्याह— कर्मण्येवाधिकारस्त इति। तस्मात् कर्माकर्मज्ञानव्याजेन नित्यानुष्ठानकर्तव्यतायां तात्पर्यमित्यसम्बन्धमुपपाद्य पुनर्गौण-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[२२३]]
ऽयमचिन्त्योऽय’मित्यादिना, तद्वदिदमपीत्यत आह— नापीति। न हि नित्यकर्मादेः फलाभावादिज्ञानं दुर्बोधम् , येन सुबोधाय पुनः पुनरुच्येतेत्यर्थः। कथमेष सुबोधः? अत आह— कर्मण्येवेति। किञ्च निष्फलमिदं नित्यकर्म नैव बोद्धव्यमित्याह— सर्वत्रेति। यत् सफलं तदेव बोद्धव्यं, कर्तव्यं चेति सर्वत्रापि प्रशस्तम्। निष्प्रयोजनं तु नित्यकर्म नैव बोद्धव्यम्। नापि कर्तव्यमिति कृत्वा कथं तद् बोद्धव्यमित्युच्यते। ननु न वयं नित्यकर्म बोद्धव्यमिति ब्रूमः, किन्तु नित्यकर्माकर्मेति बोद्धव्यमिति ब्रूम इत्यत आह— न चेति। कर्मण्यकर्मज्ञानं हि मिथ्याज्ञानं रज्जुसर्पज्ञानवदिति कथं तस्य बोद्धव्यत्वम्? ननु मिथ्याज्ञानस्याबोद्धव्यत्वेऽपि तद्विषयस्य वस्तुनो बोद्धव्यत्वमस्तीत्यत आह— तदिति। मिथ्याज्ञानविषयो हि मिथ्यावस्त्वेवेति कथं तस्य वस्त्वाभासस्य बोद्धव्यत्वम्। लोकेऽपि सत्यमेव वस्तु हि बोद्धव्यम्। एतावता ग्रन्थसन्दर्भेण नित्याकरणात् प्रत्यवायसत्त्वमभ्युपेत्य ‘अकर्मणि च कर्म यः’ इत्यस्य परोक्तार्थः प्रत्याख्यातः। अथ नित्याकरणात् प्रत्यवायमेव प्रत्याख्याति—नापीत्यादिना। ननु असतः सदुत्पद्यत इति ब्रुवता असदेव सद्भवेदित्युक्तं भवतु नाम, कारणस्य कार्यात्मना परिणामात्। कथं पुनः सच्चासद्भवेदित्युक्तं भवेदिति चेत् , उच्यते— कार्यस्य कारणात्मकत्वं दृष्टम् , घटस्य मृदात्मकत्वदर्शनात्। तथा च कार्यस्य सतः कारणभूतासदात्मकत्वं स्यादेवेति सच्चासद्भवेदित्युक्तं भवेदेव। भवतु को दोषस्तत्राह— तच्चायुक्तमिति। तत्र हेतुमाह—सर्वेति। प्रत्यक्षादिसर्वप्रमाणविरोधात्। न ह्यसतः शशशृङ्गादेः सत्त्वं प्रत्यक्षादिप्रमाणानि सहेरन्निति मपेक्षितमित्याह— कर्मण्येवेति। कर्माकर्मादिविज्ञानव्याजेन नित्यकर्मानुष्ठानकर्तव्यतायां तात्पर्यमित्येतन्निराकृत्य कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह— सर्वत्र चेति। लोके वेदे च यथा[यत्] प्रशस्तं देवतादितत्त्वं, यच्च कर्तव्यमनुष्ठानार्हमग्निहोत्रादि, तदेव बोद्धव्यमित्युच्यते, न निष्फलं काकदन्तादि ; कर्मण्यकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्तव्यं च ; नातस्तद् बोद्धव्यमिति वचनमर्हतीत्यर्थः। किञ्च कर्मादेर्मायामात्रत्वाद् गौणमपि तद्विषयं ज्ञानं मिथ्याज्ञानमिति न तस्य बोद्धव्यत्वसिद्धिरित्याह— न चेति। मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्येदित्याशङ्क्य वस्त्वाभासत्वान्मैवमित्याह— तत्प्रत्युपस्थापितं चेति। यत्पुनरकरणस्य प्रत्यवायहेतुत्वमकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति— नापीति। अकरणात् प्रत्यवायो भवतीत्यत्र श्रुतिस्मृतिविरोधमभिधाय युक्तिविरोधमभिदधाति— असत इति। असतः सद्रूपेण भवनमभवनं च निःस्वरूप- त्वादनुपपन्नम् , निरस्तसमस्ततत्त्वस्य किञ्चित्तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यप्रसङ्गादित्याह— तच्चेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
भवति। सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यमेव, न निष्प्रयोजनं बोद्धव्यमित्युच्यते। न च मिथ्याज्ञानं बोद्धव्यं भवति, तत्प्रत्युपस्थापितं वा वस्त्वाभासम् । नापि नित्यानामकरणादभावात् प्रत्यवायभावोत्पत्तिः, ‘नासतो विद्यते भावः’(भ.गी.२.१६) इति वचनात् , ‘कथमसतः सज्जायेत’ (छा.उ.६.२.२) १इति च असतः सज्जन्मप्रतिषेधात्। असतः सदुत्पत्तिं ब्रुवता ‘असदेव सद् भवेत् , सच्चाप्यसद् भवेद्’ इत्युक्तं स्यात् । तच्चायुक्तम् , सर्वप्रमाणविरोधात् । व्याख्याने दूषणान्तरमाह— सर्वत्र चेति। लोके [वे]दे वा यत् प्रशस्तं देवतादितत्त्वं, कर्तव्यं च यदनुष्ठानार्हं तदेव बोद्धव्यमित्युच्यते, न निष्प्रयोजनं ‘काकस्य कति वा दन्ताः’ इतिवत्। कर्मण्यकर्मज्ञानस्य च गौणत्वादेव [न] प्रशस्तादिरूपत्वमित्यर्थः। किञ्च कर्मादेर्मायामात्रत्वाद् गौणमपि तद्विषयं विज्ञानं मिथ्याज्ञानमेव। तत्र च बोद्धव्यशब्दो ऽनुपपन्नमि[न्न इ]त्याह— न च मिथ्याज्ञानमिति। यच्चाकरणस्य प्रत्यवायफलत्वमित्युक्तम् , तद् दूषयति— नापीति॥१८॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘इति च दर्शितम्। असतः’ इति पा.।
[[अ. ४. श्लो. १८]] [[२२४]]
भावः। ननु नित्यानामकरणे प्रत्यवायोऽस्तु वा, मा वा; करणे तु नास्ति फलम् , अत आह— न चेति। शास्त्रं निष्फलं कर्म न विदध्यात् , लोकानुग्रहाय प्रवृत्तत्त्वादिति भावः। कुतो न विदध्यात्? अत आह— दुःखरूपत्वादिति। निष्फलस्य कर्मणो दुःखरूपत्वादित्यर्थः। ननु दुःखमपि कर्म कार्यमेव, विहितत्वात् , अत आह— दुःखस्येति। कोऽपि दुःखकरं कर्म बुद्धिपूर्वकतया न करोति, परस्त्रीसङ्गादिकमपि तात्कालिकसुखकरत्वादेव बुद्धिपूर्वकतया करोति लोकः। तस्माद् नित्ये कर्मण्यपि दुःखरूपे न पुंसां बुद्धिपूर्वकतया प्रवृत्तिरस्ति। न च ततो निवर्ततामिति वाच्यम् , तदकरणे प्रत्यवायश्रवणात्। अतो नित्यकर्मणां करणे वा, अकरणे वा न कोऽपि बुद्धिपूर्वकं प्रवर्तेत, किन्तु शास्त्रबलादेव। तच्च शास्त्रं भगवता लोकस्यानर्थायैव कल्पितम् , नित्यकर्मणां करणस्य दुःखत्वाद् अकरणस्य च दुःखत्वात्। इत्थं लोकानर्थकरं निष्फलं शास्त्रं तु कथं वा प्रमाणं स्यात्? न कथमपि। अहो तव पाण्डित्यम् ! येन वेदमूलं गीताशास्त्रं व्याख्यातुं प्रवृत्तःसन् समूलं गीताशास्त्रमेवाप्रमाणं कृतवानिति। दोषान्तरमप्याह— स्वाभ्युपगमविरोधश्चेति। नित्यकर्मणो निष्फलत्वं मोक्षफलत्वं चेत्युभयमव्याहतं कथमित्यर्थः। ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादौ नित्यकर्मणो मोक्ष इति तैर्व्याख्यातत्वात् , कर्मसमुच्चिताज्ज्ञानान्मोक्ष इति ग्रन्थारम्भे चोक्तत्वादिति भावः। उपसंहरति— तस्मादिति। परोक्तार्थ- स्याप्रमाणत्वादयुक्तत्वाच्चेत्यर्थः। यथाश्रुत इति। यस्माच्छब्दाद् योऽर्थः व्याकरणादिना शब्दशक्त्या सिद्ध्यति तदविरुद्ध इत्यर्थः। कथं स यथाश्रुतार्थोऽत आह— तथा च व्याख्यात इति। एतेन परोक्तार्थस्य अयथाश्रुतार्थत्वं सिद्धम्। तच्च दर्शितं प्रागेव। गौणवृत्त्याश्रयणं ह्ययथाश्रुतार्थत्वे तस्य लिङ्गम्। योऽर्थोऽभिधाशक्त्याऽऽयाति स यथाश्रुतः। अभिधेय इति यावत्। यस्तु लक्षणादिना स त्वयथाश्रुत इति विवेकः। यस्य शब्दस्य यथा योऽर्थः श्रुतः प्रसिद्धः तस्य स यथाश्रुतार्थ इति निष्कर्षः। कर्मशब्दस्य विहितप्रतिषिद्धोभयवाचित्वादत्र कर्मणस्तत्त्वकथनेन विकर्मणोऽपि तत्त्वमुक्तमिति वेद्यम्। यत्तु रामानुजः— क्रियमाणमेव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत् , तच्च ज्ञानं कर्मण्यन्तर्गततया कर्माकारं यः पश्येत् , स बुद्धिमत्त्वादिगुणयुक्त इति, तत्तुच्छम् ; कर्मज्ञानयोः परस्परं भिन्नयोरितरत्रेतराकारस्य दुर्दर्शत्वात् , तादृशस्येतरत्रेतराकारज्ञानस्य मिथ्याज्ञानत्वाच्च। न चात्मयाथात्म्यानुसन्धानेन कर्मणो ज्ञानाकारता, ज्ञानस्य च कर्माकारतोपपद्यत इति वाच्यम् , आत्मयाथात्म्यानुसन्धानेन वा अन्येन वा न ह्यन्यस्यान्याकारता कथमप्युपपद्यते, भ्रान्तिं विना आत्मतत्त्वानुसन्धानेना- क्रियत्वमात्मनोऽस्तु नाम ; कथं पुनर्देहाश्रयस्य कर्मणः ज्ञानाकारता? कथं वा ‘अयं घट’ इत्यादिज्ञानस्य मानसस्य कर्माकारता? किं वा ज्ञानशक्तिक्रियाशक्त्योर्बुद्धिप्राणनिष्ठयोः तदाश्रययोर्बुद्धिप्राणयोर्वा अभेदो वक्तुं शक्यः केनचिद् विदुषा अध्यासं विना? न च यत्तु नित्यानां फलराहित्यं तत्राकर्मशब्दप्रयोगे निमित्तमिति, तन्निरस्यति— न चेति। न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्यनुपपत्तिः, अपि तु धात्वर्थस्य क्लेशात्मकत्वात् तत्र श्रुतफलाभावे नैव विधिरवकाशमासादयेदित्याह— दुःखेति। दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेत् , नेत्याह— दुःखस्य चेति। स्वर्गादिफलाभावेऽपि नित्यानामकरण- निमित्तनिरयनिरासार्थं दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्क्याह— तदकरणे चेति। फलान्तराभावेऽपि मोक्षसाधनत्वान्मुमुक्षुणा नित्यानि कर्माण्यनुष्ठेयानीत्याशङ्क्याह— स्वाभ्युपगमेति। वृत्तिकारव्याख्यानासंभवे फलितमुपसंहरति— तस्मादिति। कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्क्याह— तथा चेति॥१८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
न च निष्फलं विदध्यात् कर्म शास्त्रम् , दुःखस्वरूपत्वाद् , दुःखस्य च बुद्धिपूर्वकतया कार्यत्वानुपपत्तेः। तदकरणे च नरकपाताभ्युपगमादनर्थायैव उभयथाऽपि करणे चाकरणे च शास्त्रं निष्फलं कल्पितं स्यात्। स्वाभ्युपगमविरोधश्च नित्यं निष्फलं कर्मेत्यभ्युपगम्य मोक्षफलायेति ब्रुवतः। तस्माद् यथाश्रुत एवार्थः ‘कर्मण्यकर्म’ इत्यादेः। तथा च व्याख्यातोऽस्माभिः श्लोकः॥१८॥
[[२२५]]
फलाद्यनभिसन्धानात् कर्मणो भवति ज्ञानाकारतेति वाच्यम् , फलाभिसन्ध्यादौ सति बन्धकत्वं कर्मणः, तदभावे त्वबन्धकत्वमित्येव सिद्धान्तात्। न च - बन्धकत्वाभावनिमित्तं कर्मणो ज्ञानाकारज्ञानं गौणमेव, न मिथ्येति - वाच्यम् , अनेन गौणज्ञानेनापि भगवत्प्रतिज्ञाताशुभमोक्षणरूपफलाभावात्। न हि फलाभिसन्ध्यादिरहितं कर्माबन्धकत्वाज्ज्ञानतुल्यमिति ज्ञानमात्रेण पुमान् अशुभाद् मुच्येत, किन्तु तादृशकर्मानुष्ठानादेव। अथ कर्मण्यन्तर्गततया ज्ञानस्य कर्माकारतेत्येतदतीव परिहासास्पदं विदुषाम्। कथम्? किं देहाद्यन्तर्गतस्यात्मनो भवति देहाद्याकारता? यत्तु कर्मान्तर्गते ज्ञाने कर्माकारज्ञानं तद्धि मिथ्याज्ञानम् , देहाद्यन्तर्गते आत्मनि देहाद्याकारज्ञानवत्। नापि कर्मणि ज्ञानस्यान्तर्गतिरस्ति कुण्डे बदराणामिव, ज्ञानस्य मनोनिष्ठत्वात् कर्मणो देहाश्रयत्वाच्च। नापि ज्ञानयुक्तं कर्म कर्तव्यमिति वाच्यम् , कर्मज्ञानयोर्योगस्यैवाभावात् ; न ह्ययं घट इति ज्ञानं गमनादिक्रियया युज्येत। न च कर्मज्ञाने युगपदेवानुष्ठेये इति वाच्यम् , दुष्करत्वात्। ननु स्थितिगत्योरिव ज्ञानकर्मणोर्विरोधाभावात् कथं युगपदनुष्ठानासम्भव इति चेन्मैवम् ; अहं कर्तेति ज्ञानस्य कर्मणश्च विरोधाभावेऽपि अहमक्रिय इति ज्ञानस्य कर्मणश्चास्ति विरोध इति। य आत्मानमकर्तारं मन्यते, स कथं पुनरात्मानं कर्तारं विद्याद् येन तस्य कर्मानुष्ठानं स्यात्। एतेन ज्ञानिना कर्मानुष्ठेयमित्येतदपि प्रत्युक्तम् , आत्मविदः कृतकृत्यत्ववचनेन कर्तव्याभावसिद्धेः। न च परोक्षज्ञानकर्मणोरविरोध इति वाच्यम् , आत्मनो नित्यापरोक्षत्वेन तद्विषयज्ञानस्य परोक्षत्वस्यैवासम्भवात्। यस्तु न ममात्मसाक्षात्कार इति मन्यते, स ह्यनात्मविदेव; अनात्मविदस्तु कर्माण्यस्माभिरप्यभ्युपेतानि। अयं ह्यनात्मविदात्मानमकर्तारं न निश्चयेन प्रत्येति, किन्तु संशयेनैव, आत्मसाक्षात्कारं विना तन्निश्चयानुदयात्। न चापातज्ञानविशिष्टं कर्म कर्तव्यमिति वाच्यम् , त्वया आत्मयाथात्म्यानुसन्धानपूर्वकं कर्म कर्तव्यमित्यसकृदुक्तत्वाद् आत्मयाथाम्यानुसन्धानस्य चापरोक्षज्ञानत्वात्। किञ्च एकाग्रचित्त- साध्यस्यात्मतत्त्वानुसन्धानस्य कथं कर्मकरणव्यग्रचित्तसाध्यत्वं येनात्मतत्त्वानुसन्धानपूर्वकं कर्म कर्तव्यं स्यात्? न हि मनस्यात्मनिष्ठे सति देहेन्द्रियाणि कर्मसु व्याप्रियेरन्। अन्यथा समाधौ वर्तमानस्यापि पुरुषस्य कर्मकरणप्रसङ्गः, मनोव्यापारपूर्वको हि देहेन्द्रियव्यापारः, मनस्यन्याक्रान्ते सति चक्षुरादीनां घटादिदर्शनाभावः सर्वविदितः। तस्माद् युगपदेकस्यैव मनसः आत्मयाथात्म्या- नुसन्धानं देहादिसंयोगपूर्वककर्मकरणं चानुपपन्नमेव। देहेन्द्रियादिव्यापारात्मकस्य कर्मणः, ‘सच्चिदानन्द आत्माऽहमि’त्याकारक- ज्ञानस्य च न परस्पराकारत्वं स्वप्नेऽपि सम्भावयितुं शक्यम्। तस्मादवद्यं रामानुजभाष्यम्॥१८॥
यस्येति। कामाः स्वर्गादितृष्णाः, सङ्कल्पाः मम स्वर्गो भूयादित्यादयः। सङ्कल्पप्रभवत्वात् कामस्योक्तम्— तत्कारणैरिति। भाष्यार्कप्रकाशः तदेतत् १कर्मण्यकर्मदर्शनं स्तूयते— यस्येति। यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि समारभ्यन्ते इति समारम्भाः कामसङ्कल्पवर्जिताः कामैः तत्कारणैश्च सङ्कल्पैर्वर्जिताः मुधैव चेष्टामात्राः अनु- ष्ठीयन्ते, प्रवृत्तेन चेल्लोकसंग्रहार्थम् , निवृत्तेन चेज्जीवनमात्रार्थम् , तं ज्ञानाग्निदग्धकर्माणम् , कर्मादावकर्मादिदर्शनं कर्मण्यकर्मदर्शनं पूर्वोक्तं स्तोतुमुत्तरश्लोकं प्रस्तौति— तदेतदिति। यथोक्तदर्शित्वं पूर्वोक्तदर्शनसम्पन्नत्वम्। समारम्भशब्दस्य कर्मविषयत्वं न रूड्या, किन्तु व्युत्पत्त्येत्याह— समारभ्यन्त इतीति। कामसङ्कल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशङ्क्याह— मुधैवेति। उद्देशफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानमिति२ विकल्प्य क्रमेण निरस्यति— यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥१९॥
[आनन्दगिरिकृतव्याख्या]
अ. ४. श्लो. १८-१९ ] १. ‘कर्मण्यकर्मादिदर्शनं’, ‘कर्मादावकर्मादिदर्शनं’,‘यथोक्तदर्शित्वं स्तूयते’ इति च पा.। २. ‘तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य’ इति अधिकः पाठः।
[[२२६]]
मम स्वर्गो भूयादित्यादौ सङ्कल्प्य पश्चात् स्वर्गे सकामः सज्जत इति सङ्कल्पप्रभवत्वं कामस्य बोध्यम्। मुधैव व्यर्थमेव। ननु कुतो मुधाऽनुष्ठानं कर्मणाम्? अत आह—प्रवृत्तेनेति। गृहस्थेनेति यावत्। निवृत्तेनेति। संन्यासिनेति यावत्। प्रवृत्तिमार्गस्थो विद्वान् लोकसङ्ग्रहार्थं, निवृत्तिमार्गस्थस्तु जीवनार्थं व्यर्थमेव कर्माणि करोतीत्यर्थः। न च कथं निवृत्तस्य सर्वकर्मानुष्ठानमिति वाच्यम् , यानि भिक्षाटनादीनि निवृत्तेनानुष्ठीयन्ते तान्येव सर्वकर्माणीति विवक्षितत्वात्। प्रवृत्तस्तु यज्ञादिनित्यनैमित्तिकसर्वकर्माणि करोत्येवेति बोध्यम्। आदिपदाद् अकर्मणि कर्मदर्शनसङ्ग्रहः। देहाद्याश्रयं कर्म आत्मा त्वकर्मैवेत्याकारकं ज्ञानमित्यर्थः। दग्धानीति नाशितानीत्यर्थः। एतेन कर्मणां तूलत्वरूपणं व्यज्यते । कर्माणीति। सञ्चितानीति भावः, प्रारब्धकर्मणो भोगैकावसानत्वात्। ननु भगवता अशुभान्मोक्ष्यसे इत्येवोक्तम् , कथमत्र शुभाशुभानीति चेत् , नैष दोषः। तत्राशुभपदेन संसारस्य विवक्षितत्वाद् , अत्राशुभपदेन पापस्य, शुभपदेन पुण्यस्य च विवक्षितत्वाच्छुभाशुभयोर्द्वयोरपि बन्धकत्वेन संसारत्वादिति। अत एव हि ‘तद्विद्वान् पुण्यपापे विधूये’ति श्रूयते। परमार्थत इति। व्यवहारतः पाण्डित्यं तर्कादिशास्त्राध्येतृष्वप्यस्ति। वस्तुतस्तु न ते पण्डिताः, अनात्मज्ञत्वादिति भावः। बुधा इति। ननु तर्कादिशास्त्रज्ञास्तर्कादिशास्त्रज्ञं पण्डितं ब्रुवन्तीत्यत आह— ब्रह्मविद इति। यत्तु रामानुजः— कर्मणो ज्ञानाकारता कथमुपपद्यत इति शङ्कासमाधानपरोऽयं श्लोक इति, सङ्कल्पः प्रकृत्या तद्गुणैश्चात्मान- मेकीकृत्य व्यवहार इति, तत्तुच्छम् ; अनेन श्लोकेन कर्मणो ज्ञानाकारत्वस्याप्रतिपादितत्वात्। कामसङ्कल्पाभाववर्णनमात्रेण कर्मणो ज्ञानाकारालाभात्। ‘ज्ञानाग्निदग्धकर्माण’मिति ज्ञानकर्मणोर्विरोधस्यैव प्रतिपादितत्वात्। कर्मणः स्वदाहकज्ञानाकारस्य स्वप्नेऽपि सम्पादयितुमशक्यत्वात् तूलस्याग्न्याकारवत्। कर्म दग्धं सज्ज्ञानाकारं प्रपद्यत इत्यप्ययुक्तं वाक्यं, यद्विद्यमानमेव ज्ञानाकारं प्राप्तुं न क्षमते, कथं पुनस्तन्नष्टं सत् प्राप्नुयात्? किञ्च नष्टं कर्म नाम कर्माभाव एव, न तु कर्म। कर्माभावस्य ज्ञानाकारत्वमस्तु नाम, न तावता कर्मणः तत्सिद्धिः। ननु नास्माभिः क्रियमाणमेव कर्म ज्ञानाग्निना दह्यत इत्युक्तम्। किन्तु प्राचीनं पुण्यापुण्यलक्षणमेवेति चेत्? तर्हि कथं क्रियमा- णस्य कर्मणो ज्ञानाकारतोक्ता श्लोकेनानेन? ननु यः कामसङ्कल्पवर्जितसर्वसमारम्भः स ज्ञानाग्निदग्धकर्मेति वचनात् कर्मणो ज्ञानाकार- सिद्धिः, कामसङ्कल्पवर्जितसर्वसमारम्भत्वस्यैव ज्ञानत्वादिति चेत्, मैवम् ; कामसङ्कल्पवर्जितसर्वसमारम्भत्वं हि ज्ञानस्य लिङ्गं, न तु ज्ञानम् , आत्मयाथात्म्यानुसन्धानस्यैवेह ज्ञानत्वेन तवापि सम्मतत्वात्। कर्मान्तर्गतात्मयाथात्म्यानुसन्धानेन ज्ञानेनेति त्वया ऽप्युक्तत्वात्। तस्माद् यः आत्मयाथात्म्यं वेद , स कामसङ्कल्परहितानि कर्माणि करोति, यस्तु न वेद स कामसङ्कल्पसहितानि कर्माणि करोति। एवं कर्मकरणादपि ज्ञानिनो बन्धमाशङ्क्याह—ज्ञानाग्निदग्धकर्माणमिति। आत्मज्ञानिनं कर्माणि न लिम्पन्ति, कर्मगतलेपन- सामर्थ्यस्य ज्ञानेन नाशितत्वात्। कर्मणां लेपनसामर्थ्यं हि कामसङ्कल्पप्रयुक्तम्। यस्तु विद्वान् कामसङ्कल्पावेव विससर्ज कथं तं कर्माणि लिम्पेयुः? न कथमपि। ततश्च येषां कर्मणां ज्ञानवशान्निर्लेपकत्वं जातं, तेषां कथं ज्ञानाकारत्वं स्यात्। न हि स्वगुणाधायकं वस्तु स्वमेव भवति। अथ च सङ्कल्पशब्दस्य दर्शितोऽर्थस्तु अभिधानादिविरुद्ध इति सर्वविदितम् ॥१९॥
प्रवृत्तेनेत्यादिना। ज्ञानाग्नीत्यादि विभजते— कर्मादाविति। यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति २विवक्षित्वा तस्मिन्नग्निपदम्। यथोक्तविज्ञानविरहिणामपि वैशेषिकादीनां पण्डितत्वप्रसिद्धिमाशङ्क्य तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि— परमार्थत इति॥१९॥
विवेकात्पूर्वं कर्मणि प्रवृत्तावपि सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति— यस्त्विति। विवेकात्पूर्वमभिनिवेशेन प्रवृत्तस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्ञानम् , तदेवाग्निः, तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तमाहुः परमार्थतः पण्डितं बुधा ब्रह्मविदः॥१९॥
१यस्तु कर्मादौ अकर्मादिदर्शी सोऽकर्मादिदर्शनादेव निष्कर्मा संन्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि न १. ‘यस्तु अकर्मादिदर्शी’ इति पा.। २. ‘विवक्षितत्वात्’ इति पा.।
[[२२७]]
त्यक्त्वेति श्लोकमवतारयति— यस्त्विति। यः कर्मारम्भात् प्रागेवात्मानात्मविवेकतः संन्यासे प्रवृत्तः स आत्मवित् संन्यासी न पुनः कर्मणि प्रवर्तते, निवृत्तिमार्गत्वात् संन्यासस्य। अथ यस्तु यज्ञादिकर्म प्रारभ्य, तस्मिन् कर्मण्यसमाप्ते एव प्रारम्भोत्तरकाल- मात्मज्ञानी भवेत् स पुमान् प्रारब्धमपि तत् कर्म ससाधनं परित्यज्य संन्यासी भवेदेव, न पुनः कर्मणि प्रवर्तते। अतो नेमौ द्वावुद्दिश्य त्यक्त्वेति श्लोकः प्रवृत्तः, ‘कर्मण्यभिप्रवृत्तोऽपी’ति कर्मण्यभिप्रवृत्तमुद्दिश्य श्लोकस्योक्तत्वात्। किन्तु यः कर्मप्रारम्भानन्तरमुत्पन्नात्म- ज्ञानोऽपि कुतश्चित् प्रतिबन्धान्निमित्तात् कर्म परित्यक्तुं न क्षमते, तमसंन्यासिनमात्मविदमारब्धकर्माणमुद्दिश्य श्लोकोऽयं प्रवृत्तः। अयं हि प्रारब्धे कर्मणि तत्फले च स्वप्रयोजनाभावान्निःसङ्गोऽपि लोकसङ्ग्रहार्थं ज्ञानात्प्रागिव कर्मणि प्रवर्तते ज्ञानात्पश्चादपि। एवं कर्मणि प्रवृत्तमात्मविदं तदारब्धं कर्म नैव लिम्पति, कुतः? ज्ञानाग्निना कर्मगतबन्धकत्वांशस्य दग्धत्वात्। एवमबन्धकमेतदीयं कर्म अकर्मैव कर्माभाव एव सम्पद्यते जायत इति। कर्मफलासङ्गं त्यक्त्वा नित्यतृप्तः निराश्रयश्च सन् सः कर्मण्यभिप्रवृत्तोऽपि किञ्चिन्नैव करोति। अभिमानम् अहमस्य कर्ता ममेदं कर्मेति चेत्येवंरूपं यथोक्तेन कर्मण्यकर्म यः इति श्लोकोक्तेन निष्क्रियात्मस्वरूपदर्शनेनेत्यर्थः। विषयस्पृहाभावादेव तृप्तिरित्याह— निराकाङ्क्ष इति। आश्रय इति। आश्रीयते पुरुषार्थायेत्याश्रयः यज्ञादिः। यदिति। तदिति, स इति वा शेषः। दृष्टानीष्टफलानि पशुपुत्रान्नादीनि, अदृष्टानीष्टफलानि स्वर्गादीनि, तेषां यत् साधनं कर्मादि, तदेवाश्रयः। तेन रहितः तथोक्तः। साधनाश्रयणरहित इति विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभासः सम्भवतीत्यर्थः। सत्यपि विवेके तत्त्वसाक्षात्कारा- नुदयात्कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह— यस्तु प्रारब्धेति। त्यक्त्वेत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा तदवतारणप्रकारं दर्शयति— स कुतश्चिदिति। लोकसंग्रहादि निमित्तं विवक्षितम्। कर्मपरित्यागासम्भवे सति तस्मिन्प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः। कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते? तत्राह— स्वप्रयोजनाभावादिति। कथं तर्हि कर्मणि प्रवर्तते? तत्राह—लोकेति। १प्रवृत्तेरर्थक्रियाकारित्वाभावं २‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति—पूर्ववदिति। कथं तर्हि विवेकिना- मविवेकिनां च विशेषः स्यादित्याशङ्क्य , कर्मादौ सङ्गासङ्गाभ्यामित्याह— कर्मणीति। उक्तेऽर्थे समनन्तरश्लोकमवतारयति— ज्ञानाग्नीति। एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना। यथोक्तं ज्ञानं कूटस्थात्मदर्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय कर्मणि तत्फले च सङ्गमपास्य विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह— त्यक्त्वेत्यादिना। इष्टसाधनसापेक्षस्य कुतो निरपेक्षत्वमित्याशङ्क्य विशिनष्टि—निराश्रय इति। यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते। आश्रयरहित इत्यस्यार्थं स्पष्टयति— दृष्टेति। तेन ज्ञानवता पुरुषेनैवम्भूतेन त्यक्त्वा
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रवर्तते, यद्यपि प्राग्विवेकतः प्रवृत्तः। यस्तु प्रारब्धकर्मा सन्नुत्तरकालमुत्पन्नात्मसम्यग्दर्शनः स्यात् स कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म परित्यजत्येव। स कुतश्चिन्निमित्तात् कर्मपरित्यागासम्भवे सति, कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावाल्लोकसंग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि नैव किञ्चित् करोति। ज्ञानाग्निदग्धकर्मत्वात् तदीयं कर्माकर्मैव सम्पद्यत इत्येतमर्थं दर्शयिष्यन्नाह— त्यक्त्वेति। त्यक्त्वा कर्मस्वभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्यतृप्तो निराकाङ्क्षो विषयेष्वित्यर्थः। निराश्रयः आश्रयरहितः। आश्रयो नाम यदाश्रित्य पुरुषार्थं सिषाधयिषति। दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः। विदुषा क्रियमाणं कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्म- १. विद्वत्प्रवृत्तेः विदुषि देहान्तरभोग्यफलजनकत्वाभावः तदधिगमाधिकरणे (ब्र.सू.४-१-१३) निरूपितः। अर्थक्रियाकारित्वं तु न निवार्यते। २. विवेकिनां व्यवहारस्यापि अध्यासपूर्वकत्वं सूत्रभाष्ये एतद्दृष्टान्तेन निरूपितम्। त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥२०॥
[[अ. ४. श्लो. १९-२०]] [[२२८]]
वा। अनाश्रितफलसाधन इत्यर्थः। निर्व्यापार इति यावत्। ततः कर्मणःसकाशात् निर्गमनं बहिर्गमनम् , संन्यास इति यावत्। तदसम्भवात् पुत्रादिप्रतिबन्धादिति भावः। हेत्वन्तरमाह— लोकेति। अन्यं हेतुमाह— विगर्हणेति। विगर्हणं निन्दा - ‘अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम्। आरब्धस्य समाप्तिस्तु द्वितीयं बुद्धिलक्षण’मिति स्थिते(ऽधिगमं विद्वांसं) यज्ञादिकर्म प्रारभ्यासमाप्यैव संन्यस्तवानित्येवंरूपा लौकिकाज्ञजनकृतेति भावः। परिहर्तुमिच्छा परिजिहीर्षा। यद्यप्यात्मविदः स्तुतिनिन्दे समे एव, आत्मन उभयदूरत्वात् , तथापि देववत्पूज्यत्वमेव विद्वद्भिः सम्पाद्यम् , न तु विड्वराहादिसाम्यमित्यभिप्रेत्येदमुक्तम्। ननु कर्मणि प्रवृत्तोऽपि न करोतीत्युक्तिर्व्याहतेत्यत आह— निष्क्रियेति। देहाद्याश्रयमेवेदं कर्म, न त्वात्माश्रयमिति यः प्रत्येति स आत्मविदात्मानमकर्तारमेव मन्यत इति कृत्वा न करोतीत्युक्तमिति भावः। देहादिसङ्घाते अनात्मनि कर्मणि प्रवृत्तेऽपि निष्क्रिय आत्मा अप्रवृत्त एवेति नास्ति काऽपि व्याहतिरिति तत्त्वम्। तस्मादात्मविदा कृतं कर्म अकर्मैव सम्पद्यत इति। अत्र— नैव किञ्चित् करोति कर्मापदेशेन ज्ञानाभ्यासमेव करोतीति रामानुजः, विपरीतविषयसञ्चरणेन ज्ञानाभ्यासविरोधिना- मिन्द्रियाणामनुकूलविषयसञ्चरणमात्रं हि कर्मयोग इति भाव इति वेदान्तदेशिकश्चाहतुः, तत्तुच्छम् । सत्यां रामानुजोक्तार्थविवक्षायां व्यासेन ‘ज्ञानमेव करोति सः’ इत्येवोच्येत श्लोकः। इन्द्रियव्यापारोपरमस्य ज्ञानाभ्यासस्य इन्द्रियाणां विपरीतविषयसञ्चरणमिवा- नुकूलविषयसञ्चरणमपि विरोध्येव, इन्द्रियाणां विषयप्रावण्यमात्रस्यैव इन्द्रियव्यापारोपरमप्रतिबन्धकत्वात्। अन्तर्मुखमनःसाध्यो हि ज्ञानाभ्यासः, बहिर्मुखमनोवेद्यास्तु अनुकूलाः प्रतिकूलाश्च सर्वे विषयाः। अतः कथमनुकूलविषयाणां ज्ञानाभ्यासाविरोधित्वम्। तस्माद् यो निःसङ्गं कर्म करोति स कर्मयोगमेव करोति, न तु ज्ञानयोगं, कर्मयोगसाध्ये ज्ञानयोगे कर्मयोगाकाराभावात्॥२०॥
निराशीरिति श्लोकमवतारयति— य इति। प्रागेव कर्मारम्भादिति। गृहस्थाश्रम एव यज्ञादिकर्मणां प्रारम्भाद् गृहस्थाश्रम- स्वीकारात् प्रागेवेत्यर्थः। ब्रह्मचर्यादेवेति यावत् , ‘ब्रह्मचर्यादेव प्रव्रजेदि’ति श्रुतेरिति भावः। यद्वा ब्रह्मचर्याश्रमस्वीकारात् प्रागेवेत्यर्थः। तत्रैव वेदाध्ययनादिकर्मप्रारम्भादिति भावः। ब्रह्मणि सञ्जातमात्मेति दर्शनं बुद्धिर्यस्य सः ‘अहं ब्रह्मास्मी’ति ज्ञानवानित्यर्थः। शुकसनकवामदेवादिवदिति भावः। कर्मफलासङ्गमित्यादिना विशेषितेनेत्यर्थः। ततः ससाधनात् कर्मणः सकाशादिति यावत्। निर्गमासम्भवे हेतुमाह—लोकेत्यादिना। पूर्ववत् ज्ञानोदयात् प्रागवस्थायामिवेत्यर्थः। अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः। नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥२०॥
सत्यपि विक्षेपके कर्मणि कूटस्थात्मानुसन्धानस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्धेतुत्वसिद्धिरित्यभिप्रेत्याह— यः पुनरिति। पूर्वोक्तविपरीतत्वं लोकसङ्ग्रहादिनिरपेक्षत्वम्। तदेव वैपरीत्यं स्फोरयति— प्रागेवेति। ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथमित्याशङ्क्याह— शरीरेति। तर्हि तथाविधचेष्टानिविष्टचेतस्तया सम्यग्ज्ञानबहिर्मुखस्य कुतो मुक्तिरित्याशङ्क्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
दर्शनसम्पन्नत्वात्। तेनैवम्भूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्यमेवेति प्राप्ते, ततो निर्गमासम्भवात् लोकसंग्रहचिकीर्षया शिष्टविगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मण्यभिप्रवृत्तोऽपि निष्क्रियात्मदर्शनसम्पन्नत्वाद् नैव किञ्चित् करोति सः॥२०॥
यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भाद् ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये सञ्जातात्मदर्शनः सः दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म संन्यस्य शरीरयात्रामात्रचेष्टो निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥२१॥
[[२२९]]
आशिषः कामाः, बाह्यं कार्यं देहः, बाह्यानि करणानीन्द्रियाणि, बाह्यघटादिविषयग्रहणसाधनत्वाद् बाह्यकरणत्व- मिन्द्रियाणाम् , अन्तःसुखादिविषयग्रहणसाधनत्वादन्तःकरणत्वं मनस इति विवेकः। संयतौ नियमितौ। परिग्रहो गृहादिः, परिगृह्यत इति परिग्रहः। शरीरस्येदं शारीरम्। फलितमाह—शरीरेति। शरीररक्षणमात्रफलकं भिक्षाटनादिरूपमिति भावः। धर्मं पुण्यम्। ननु पुण्यस्य कथं किल्बिषत्वम्? अत आह— मुमुक्षोरनिष्टरूपत्वादिति। यदनिष्टं तत् किल्बिषमिति सिद्धान्तात् पुण्यमपि मुमुक्षोरनिष्टमेवेति किल्बिषमेव। मुमुक्षुर्नाम बन्धान्मोक्तुमिच्छुर्हि। बन्धश्च जन्मादिसंसाररूपः। पुण्यात् पुण्यजन्म देवादिरूपं भवेदेवेति पुण्यस्य बन्धकत्वादनिष्टत्वमिति भावः। शारीरमित्यस्य शरीरस्थितिमात्रप्रयोजनमित्यर्थो भाष्यकारैर्वर्णितः। तत्र यदि यः कोऽपि शारीरमित्यस्य शरीरनिर्वर्त्यं कर्मेत्यर्थः किं न स्यादिति पृच्छेत्। तं प्रति किमुत्तरमिति शङ्कायां शरीरनिर्वर्त्यमित्यर्थस्यायुक्तत्वं प्रतिपादयितुं भूमिकामारचयति— शारीरं केवलं कर्मेत्यत्रेति। पक्षद्वयेऽपि किं दूषणमिति पृच्छति पूर्ववादी— किञ्चात इति। प्रतिजानाति सिद्धान्ती— उच्यत इति। प्रथमपक्षे दोषमाह— यदेत्यादिना। यज्ञयागादिविहितकर्मवत् परदारगमनादिनिषिद्धकर्माण्यपि शरीरेणैव निर्वर्त्यन्त इति कृत्वा निषिद्धानामपि शारीरत्वं दुर्वारम्। ततश्च शारीरं कर्म कुर्वन्नित्यस्य विहितं प्रतिषिद्धं वा कर्म शरीरेण कुर्वन्नित्यर्थः सिद्धः, शरीरनिर्वर्त्यं कर्म कुर्वन्नित्यस्य शरीरेण कर्म कुर्वन्नित्येव सिद्धत्वात्। तत्र च प्रथमे विकल्पे किं शरीरनिर्वर्त्यं निषिद्धं कर्म कुर्वन् किल्बिषं नाप्नोतीत्यभिप्रेतम् , यद्वा शरीरनिर्वर्त्यं विहितं कर्म कुर्वन् किल्बिषं नाप्नोतीति विकल्प्य, प्रथमपक्षे दोषमाह— प्रतिषिद्धमिति। प्रतिषिद्धकर्मणां न किल्बिषप्राप्तिरित्येतद्वचनं व्याहतम् , ‘न परदारान् गच्छेदि’त्यादिनिषेधशास्त्रानर्थक्यप्रसङ्गात्। द्वितीयपक्षे यथोपदिष्टचेष्टायामनादरान्नैवमित्याह— ज्ञाननिष्ठ इति। इति दर्शयितुमिमं श्लोकमाहेति पूर्ववत्। आशिषः प्रार्थनाभेदास्तृष्णाविशेषाः। आशिषां विदुषो निर्गतत्वे हेतुमाह— यतेति। चित्तवदात्मनः संयमनं कथमित्याशङ्क्याह— आत्मा बाह्य इति। द्वयोः संयमने ३सति अर्थसिद्धमर्थमाह—त्यक्तेति। सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था स्यादित्याशङ्क्याह—शारीरमिति। मात्रशब्देन पौनरुक्त्यादनर्थकं केवलपदमित्याशङ्क्याह— तत्रापीति। शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटीकर्तुमुभयथा सम्भावनया विकल्पयति—शारीरमिति। शरीरनिर्वर्त्यं शारीरमि- त्यस्मिन् पक्षे किं दूषणम् , शरीरस्थितिमात्रं शारीरमित्यस्मिन् वा पक्षे किं फलमिति पूर्ववादी पृच्छति— किञ्चात इति। शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दूषणमाह—उच्यत इति। शरीरेण यन्निर्वर्त्यं तत् किं प्रतिषिद्धं विहितं वा? प्रथमे विरोधः स्यादित्याह— यदेति। प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते प्रतिषेधशास्त्रविरोधः स्यादित्यर्थः। द्वितीये विहितकरणे सत्यनिष्टप्राप्त्यभावादप्राप्तप्रतिषेधः
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यतिर्ज्ञाननिष्ठो मुच्यत इत्येतमर्थं दर्शयितुमाह— निराशीरिति। निराशीः, निर्गताः आशिषो यस्मात् स निराशीः, यतचित्तात्मा चित्तम् अन्तःकरणम् , आत्मा बाह्यः कार्यकरणसङ्घातः, तावुभावपि यतौ संयतौ येन स यतचित्तात्मा, त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहो येन स त्यक्तसर्वपरिग्रहः, शारीरं शरीरस्थितिमात्रप्रयोजनम् , केवलं तत्राप्यभिमानवर्जितं, कर्म कुर्वन् नाप्नोति न प्राप्नोति किल्बिषम् अनिष्टरूपं पापं धर्मं च। १धर्मोऽपि मुमुक्षोः किल्बिषमेव, बन्धापादकत्वात्। तस्मात् ताभ्यां मुक्तो भवति, संसारात् मुक्तो भवति इत्यर्थः। २शारीरं केवलं कर्मेत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्माभिप्रेतम् , आहोस्विच्छरीरस्थितिमात्रप्रयोजनं शारीरं कर्मेति? किञ्चातः यदि शरीरनिर्वर्त्यं शारीरं कर्म, यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरमिति? उच्यते— यदा शरीरनिर्वर्त्यं कर्म शारीरमभिप्रेतं स्यात् तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति किल्बिषमिति १. ‘मुमुक्षोरनिष्टरूपत्वाद् धर्मोऽपि किल्बिषमेव। तस्मात्’ इति रा.पा.। २. ‘किञ्च शारीरं’ इति पा.। ३. ‘सति सिद्ध’ इति पा.। अ. ४. श्लो. २० - २१ ]
[[२३०]]
दोषमाह— शास्त्रीयमिति। निषेधस्य प्रसक्तिपूर्वकत्वात् यदि शास्त्रविहितकर्मानुष्ठानात् किल्बिषस्य प्रसक्तिः, तदा तन्निषेधार्थं किल्बिषं न प्राप्नोतीति वक्तुं युक्तम् , न त्वेतदस्ति, न हि विहितानुष्ठानात् किल्बिषं प्रसज्यते, अन्यथा विधिशास्त्रवैयर्थ्यप्रसङ्गात्। तस्मादप्राप्तस्य किल्बिषस्य प्रतिषेधप्रसङ्गोऽयं दुष्ट इत्यर्थः। किञ्च कर्म कुर्वन्नित्यनुक्त्वा शारीरं कर्मेत्युक्तम्। अनेन च शारीरत्वविशेषणेन वाचिकस्य मानसिकस्य च कर्मणो व्यवच्छेदः(दकः) सिध्यति। न च शारीरमुपलक्षणं वाचिकमानसिकयोरिति वाच्यमित्याह— केवलशब्दप्रयोगादिति। शारीरं केवलं कर्म कुर्वन्नित्यनेन शरीरमात्रनिर्वर्त्यमेव कर्म कुर्वन्नित्यर्थस्य जातत्वात् केवलपदेन वाचिकमानसिककर्मणोर्निवृत्तिरिति भावः। ननु भवतु, को दोषः? तत्राह— वागिति। शरीरमात्रनिर्वर्त्यकर्मकरणात् किल्बिषं नेति वचनेन वाचा मनसा च निर्वर्त्यस्य कर्मणः करणात् किल्बिषं प्राप्यत एवेति सिद्धमित्यर्थः। कुर्वन्नाप्नोतीत्यस्य कुर्वन् आप्नोतीति छेदः। ‘ङमो ह्रस्वादि’ति ङमुडागमः। मूले तु ‘कुर्वन् न आप्नोति’ इति छेदः इति विवेकः। ननु वाचिकमानसिककर्मकरणात् किल्बिषप्राप्तिरभिप्रेतैवेत्यत आह— तत्रापीति। किं वाचिकस्य मानसिकस्य वा विहितस्य कर्मणः करणं किल्बिषावहम्? यद्वा निषिद्धस्य? इति विकल्प्य, आद्यं दूषयति— विहितेति। द्वितीयं दूषयति— प्रतिषिद्धेति। प्रतिषिद्धाचरणेन किल्बिषप्राप्तेः सिद्धत्वात् पुनरिह वचनमनर्थकमित्यर्थः। भूतार्थः सिद्धार्थः। अनुसृत्य वादो वचनमनुवादः। सिद्धस्य पुनः कथनमित्यर्थः। एवं शरीरनिर्वर्त्यं शारीरं कर्माभिप्रेतं वेति प्रथमपक्षं दूषयित्वा द्वितीयं पक्षं सिद्धान्तयति— यदा त्विति। दृष्टान्यदृष्टानि च प्रयोजनानि यस्य तद् दृष्टादृष्टप्रयोजनम्। निषिद्धाचरणस्य दृष्टं प्रयोजनं रोगराजशिक्षादिः, अदृष्टं तु नरकम्। विहिताचरणस्य तु दृष्टं प्रयोजनं पशुपुत्रान्नादिः, अदृष्टं तु स्वर्गादिरिति विवेकः। विधिप्रतिषेधाभ्यां विधिनिषेधशास्त्राभ्यां गम्यम्। अन्यत् शरीरस्थितिमात्र- ब्रुवतो विरुद्धाभिधानं प्रसज्येत। शास्त्रीयं च कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषमित्यपि ब्रुवतोऽप्राप्तप्रतिषेधप्रसङ्गः। शारीरं कर्म कुर्वन्निति विशेषणात् केवलशब्दप्रयोगाच्च वाङ्मनसनिर्वर्त्यं कर्म विधिप्रतिषेधविषयं धर्माधर्मशब्दवाच्यं १कुर्वन् प्राप्नोति किल्बिषमित्युक्तं स्यात्। तत्रापि वाङ्मनसाभ्यां विहिता- नुष्ठानपक्षे किल्बिषप्राप्तिवचनं विरुद्धमापद्येत। प्रतिषिद्धसेवापक्षेऽपि भूतार्थानुवादमात्रमनर्थकं स्यात्। यदा तु शरीरस्थितिमात्रप्रयोजनं शारीरं कर्माभिप्रेतं भवेत् , तदा दृष्टादृष्टप्रयोजनं कर्म २विधिप्रतिषेधगम्यं शरीरवाङ्मनस- निर्वर्त्यम् अन्यदकुर्वंस्तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनम् - केवलशब्दप्रयोगाद् ‘अहं करोमी’त्यभिमान- स्यादित्याह— शास्त्रीयं चेति। दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिकं कर्मेति विभागः। शरीरनिर्वर्त्यं कर्म शारीरमभिमतमिति पक्षे दूषणान्तरमाह— शारीरमिति। वाचा मनसा वा कर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिष- प्राप्तिरित्याशङ्क्याह— तत्रापीति। वाङ्मनसाभ्यां विहितानुष्ठाने वा प्रतिषिद्धकरणे वा किल्बिषप्राप्तिः संन्यासिनः स्यादिति विकल्प्याऽऽद्ये जपध्यानविधिविरोधः स्यादित्युक्त्वा, द्वितीयं दूषयति— प्रतिषिद्धेति। शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति— यदा त्विति। अन्यद् देहस्थितिप्रयोजनात् कर्मणः सकाशादिति शेषः। तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
३……तद्विरुद्धं वचनम् , द्वितीये सिद्धानुवादमात्रमित्यर्थः। एवमाद्यविकल्पे दूषणमभिधाय द्वितीयविकल्पे लाभं दर्शयति— यदा त्वित्यादिना।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘कुर्वन्नाप्नोति’ इति रा.पा.। २. ‘विधिप्रतिषेधशास्त्रगम्यम्’ इति पा.। ३. अत्र कश्चिद् ग्रन्थभागो नष्टः। स च त्रुटितो भाग आनन्दगिरिटीकादर्शनेनेत्थमूहितुं शक्यते— [शारीरपदार्थं स्फुटीकर्तुं विकल्पयति—शारीरमिति। शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे, तत् किं प्रतिषिद्धं विहितं वा? प्रथमे प्रतिषेधशास्त्रेणानिष्टप्राप्तिबोधनात् ] इति।
[[२३१]]
प्रयोजनात् कर्मणोऽन्यदित्यर्थः। कर्म यज्ञादि परदारगमनादि चाकुर्वन्। शरीरादिभिरित्यादिपदाद् वाङ्मनसयोर्ग्रहणम्। लोकदृष्ट्येति। एतदपि कर्म विवेकदृष्ट्या स्वयं न करोति, स्वस्याविक्रियात्मत्वात् , किन्तु लोकदृष्ट्या कुर्वन्निव प्रतिभातीत्यर्थः। लोको हि देहादौ यतेर्भिक्षाटनादिकं कर्म कुर्वति सति ‘यतिः कर्म करोती’ति मन्यते, विद्वांस्तु ‘अविक्रियः आत्मा कर्म कथं कुर्यात् , किन्तु देहादिसङ्घात एवे’ति जानातीति भावः। ननु शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कुर्वन् किल्बिषं नाप्नोतीत्येतदपि वचनमयुक्तमेव, एवंविधकर्मकरणात् किल्बिषप्राप्त्यसम्भवात् , अप्राप्तस्य च किल्बिषस्य निषेधायोगादित्यत आह— संसारमिति। एवंविधकर्मकरणादप्यस्य संसारस्य प्राप्तिरस्तीति मन्यमानमज्ञजनम्प्रति वदति भगवान्— संसारं न प्राप्नोतीति। अतः भ्रान्त्या प्राप्तस्य संसारस्य निषेधो युज्यत एवेति भावः। कुतोऽस्य संसाराभावः? अत आह— ज्ञानाग्नीति। अप्रतिबन्धेनेति। अस्य मुक्तौ न कोऽपि कर्मादिप्रतिबन्धोऽस्तीत्यर्थः। पूर्वोक्तस्य कर्मण्यकर्मेति श्लोकोक्तस्य सम्यग्दर्शनस्य आत्मज्ञानस्य यत्फलमशुभान्मोक्षणं तस्यैवानुवादोऽयम् , न त्वपूर्ववचनमित्येव- कारार्थः। निगमयति— एवमिति। एवं मदुक्तरीत्या शारीरं केवलं कर्मेत्यस्य शरीरस्थितिमात्रप्रयोजनमभिमानवर्जितं कर्मेत्यर्थस्य परिग्रहे निरवद्यं दोषाभावो भवति। एतेनान्यार्थस्य परिग्रहः सावद्य इति सिद्धम्। यत्तु रामानुजः—शारीरं केवलं कर्म कुर्वन् ज्ञाननिष्ठाव्यवधानरहितं कर्मयोगमनुतिष्ठन् किल्बिषं संसारं नाप्नोतीति, तत्तुच्छम् ; वाचिकमानसिकजपध्यानादिकर्मानुष्ठानेन संसारप्राप्तिप्रसङ्गात् , केवलपदस्याव्यवधानार्थाश्रयणस्याप्रमाणत्वाच्च॥२१॥
यदृच्छेति श्लोकमवतारयति— त्यक्तेति। अयाचितमिति। भिक्षाटनार्थमुद्योगात् प्राक्काले केनापि योग्येन निवेदितं भैक्षमित्यर्थः। असंकॢप्तमिति। अनिर्णीतं अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्षमित्यर्थः। यदृच्छयोपपन्नमिति सिद्धमन्नं भक्तजनैः स्वयमुपनीतमित्यर्थः। वर्जितः शरीरादिचेष्टामात्रं लोकदृष्ट्या कुर्वन् नाप्नोति किल्बिषम्। एवम्भूतस्य पापशब्दवाच्यकिल्बिषप्राप्त्यसम्भवात् किल्बिषं संसारं नाप्नोति। ज्ञानाग्निदग्धसर्वकर्मत्वादप्रतिबन्धेन मुच्यत एवेति पूर्वोक्तसम्यग्दर्शनफलानुवाद एवैषः। एवं शारीरं केवलं कर्मेत्यस्यार्थस्य परिग्रहे निरवद्यं भवति॥२१॥
त्यक्तसर्वपरिग्रहस्य यतेः अन्नादेः शरीरस्थितिहेतोः परिग्रहस्याभावाद् याचनादिना १शरीरस्थितौ कर्तव्य- तायां प्राप्तायाम् ‘अयाचितमसंकॢप्तमुपपन्नं यदृच्छया’ (म.भा.१४.४६.१९, बौ.ध.सू.२.१८.१२) इत्यादिना वचनेनानु- लोकेति। विद्वानुक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह— एवम्भूतस्येति। विधिनिषेधगम्यं कर्म देहस्थितिहेतु- व्यतिरिक्तमकुर्वत इत्यर्थः। ‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिष’मित्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’मिति विशेषणद्वयं निर्दोषं सिद्ध्यतीति फलितमाह— एवमिति॥२१॥
पूर्वश्लोकेन सङ्गतिं दर्शयन्नुत्तरश्लोकमुत्थापयति— त्यक्तेति। अन्नादेरित्यादिशब्देन २पादुकाच्छादनादि गृह्यते। याचनादिने- त्यादिपदेन सेवाकृष्याद्युपादीयते। भिक्षाटनार्थमुद्योगात् प्राक्काले केनापि योग्येन निवेदितं भैक्ष्यम् अयाचितम्। ३अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्ष्यम् असंकॢप्तम्। सिद्धमन्नं भक्तजनैः स्वसमीपमुपनीतम् उपपन्नम्।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एवम्भूतस्येति। विधिप्रतिषेधगम्यं कर्म शरीरस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः॥२१॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘शरीरस्थितिकर्तव्यतायाम्’ इति पा.। यथाश्रुतपाठे व्यधिकरणे सप्तम्यौ। २. पानाच्छादनादि इति पा.। ३.‘अभिशस्तं च पतितं पाषण्डं देवपूजकम्। वर्जयित्वा चरेद् भैक्षम्’ (सं.उ. ७४) इति श्रुतिं मत्वाऽऽह—अभिशस्तमिति। मिथ्यापवादग्रस्तः अभिशस्तः। दुष्टत्वेन संदिग्ध इति यावत्। उपपातकदुष्ट इति केचित्।
[[अ. ४. श्लो. २१]] [[२३२]]
लभ्यत इति लाभः, लब्ध इत्यर्थः। यदृच्छया लाभो यदृच्छालाभः अप्रार्थनया प्राप्त इत्यर्थः। तेन अन्नादिना। हर्षेति। शरीरे आत्माभिमानाभावाच्छरीरधारकान्नादिलाभेन नास्य हर्षः, तदलाभेन न विषाद इत्यर्थः। परिसञ्चक्षाणः परिपश्यन्। सहेतुकस्य साज्ञानस्येत्यर्थः। सवासनस्येति वा॥२२॥ यदृच्छया स्वकीयप्रयत्नव्यतिरेकेणेति यावत्। आदिशब्देन ३‘माधूकरमसंकॢप्तं प्राक्प्रणीतमयाचितम्। तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम्’ इत्यादि गृह्यते। आविष्कुर्वन्निदं वाक्यमाहेति योजनीयम्। ४परोत्कर्षामर्षपूर्विका स्वस्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह— निर्वैरेति। सङ्क्षेपतो दर्शितमर्थं विशदयति— य एवम्भूत इति। तथापि प्रकृतस्य यतेर्भिक्षाटनादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षाटनाद्यभावेन जीवनाभावप्रसङ्गादित्याशङ्क्याह— लोकेति। लौकिकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य ५विदुष्यपि सामान्येन दर्शनात् , तदनुसारेण लौकिकैरध्यारोपितकर्तृत्व६भाक्त्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः। कथं तर्हि तस्याकर्तृत्वम्? तत्राह—स्वानुभवेनेति। यदृच्छेत्यादिपादत्रयं व्याख्याय, कृत्वाऽपीत्यादि- चतुर्थपादं व्याचष्टे— स एवमिति। भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भविष्यती- त्याशङ्क्याह— बन्धेति। ज्ञानाग्निदग्धत्वादित्येवं ‘शारीरं केवल’मित्यादावुक्तस्यायमनुवाद इति योजना। यथोक्तस्य कर्मणो ७मुक्त्या सहाविरोधाभ्युपगमसूचनार्थोऽपिशब्दः॥२२॥
‘गतसङ्गस्ये’त्यादिश्लोकस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति— त्यक्त्वेति। अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’ इत्यत्र कर्माभावः प्रदर्शित इति सम्बन्धः। कस्य कर्माभावप्रदर्शनमित्याशङ्क्याह— यः प्रारब्धेति। प्रारब्धकर्मा सन् योऽवतिष्ठते तस्य कर्माभावः प्रदर्शितश्चेद् विरोधः स्यादित्याशङ्क्यावस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह— यदेति। ननु ज्ञानवतः क्रियाकारकफलाभावदर्शिनः
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्ञातं यतेः शरीरस्थितिहेतोरन्नादेः प्राप्तिद्वारमाविष्कुर्वन्नाह— यदृच्छेति। यदृच्छालाभसन्तुष्टः अप्रार्थितोपनतो लाभो यदृच्छालाभः, तेन सन्तुष्टः सञ्जातालम्प्रत्ययः। द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तो द्वन्द्वातीत उच्यते। विमत्सरो विगतमत्सरो निर्वैरबुद्धिः, समः तुल्यो यदृच्छालाभस्य सिद्धावसिद्धौ च। य एवम्भूतो यतिरन्नादेः शरीरस्थितिहेतोर्लाभालाभयोः समो हर्षविषादवर्जितः कर्मादावकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन् शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वर्त्ये - ‘नैव किञ्चित् करोम्यहम् , गुणा गुणेषु वर्तन्ते’ इत्येवं सदा १सम्परिचक्षाणः - आत्मनः कर्तृत्वाभावं पश्यन् , नैव किञ्चिद् भिक्षाटनादिकं कर्म करोति। लोकव्यवहार- सामान्यदर्शनेन तु लौकिकैरारोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति। स्वानुभवेन तु शास्त्रप्रमाणादि- जनितेनाकर्तैव। स एवं पराध्यारोपितकर्तृत्वः२ शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कृत्वाऽपि न निबध्यते, बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वादित्युक्तानुवाद एवैषः॥२२॥
‘त्यक्त्वा कर्मफलासङ्गम्’ (भ.गी.४.२०) इत्यनेन श्लोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शन- यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥२२॥
१. ’परिसंचक्षाणः’ इति पा.। २. ‘कर्तृत्वं’ इति पा.। ३. मनःसंकल्परहितान् त्रीन् गृहान् पञ्च सप्त वा। मधुमक्षिकवत् कृत्वा माधूकरमिति स्मृतम्॥ (सं.उ.६६) ‘तात्कालिकोपपन्नं च’ इति पा.। ४. परोत्कर्षासहनपूर्विकेत्यर्थः। विमत्सर इत्यत्र मत्सरशब्दार्थविवरणमिदम्। ५. ‘विदुषामपि’ इति पा.। ६. ‘कर्तृत्वभोक्तृत्वाद्’ इति पा.। ७. ‘युक्त्या’ इति पा.।
[[२३३]]
गतेति। एवं श्लोकद्वयेन निवृत्तिमार्गरतस्य संन्यासिनः स्थितिं प्रदर्श्याथ पुनः प्रवृत्तिमार्गस्थात्मविदः स्थितिं वक्तीत्याह— त्यक्त्वा कर्मेत्यादिनाऽवतारिकाग्रन्थेन। यतेरिति। यतते मोक्षाय प्रयत्नं करोतीति यतिः, तस्य यतमानस्येत्यर्थः, न तु संन्यासिन इति। ज्ञान एव आत्मदर्शने एव। यज्ञनिर्वृत्त्यर्थमिति। प्रारब्धयज्ञसमाप्त्यर्थमाचरतः व्याप्रियमाणस्य, यज्ञं निर्वर्तयत इत्यर्थः। न च यज्ञाये- श्वरप्रीत्यर्थमिति वाच्यम् , आत्मविदोऽस्य ईश्वरप्रीत्यर्थकसङ्कल्पासम्भवात्। अयं ह्यात्मानमेवेश्वरं जानाति। ततश्चात्मप्रीत्यर्थमेवेत्युक्तं स्यात्। तच्चानिष्टम्। स्वप्रीतिरूपेऽपि फले सङ्गस्याकर्तव्यत्वात्। न च यज्ञनिर्वृत्तिरप्यस्य व्यर्थैवेति वाच्यम् , लोकसङ्ग्रहार्थत्वात्। समग्रमित्यत्र समित्युपसर्गस्य सहेत्यर्थः। अग्रेण फलेन सम् सह वर्तत इति समग्रम्। आत्मविदनुष्ठितं कर्म फलेन सह विनश्यतीत्यर्थः। आत्मविदा कृतो यज्ञः स्वर्गादिफलं न जनयतीति यावत्। फलाभिसन्ध्यहङ्काराद्यभावादिति भावः॥२३॥
ब्रह्मार्पणमितीति। अर्पणं ब्रह्म हविर्ब्रह्म ब्रह्माग्नौ ब्रह्मणा हुतं (ब्रह्म) ब्रह्मकर्मसमाधिना तेन गन्तव्यं ब्रह्मैव इत्यन्वयः। अर्पणं ब्रह्म, हविर्ब्रह्म, अग्निर्ब्रह्म, कर्ता ब्रह्म, हुतं ब्रह्म, फलं ब्रह्म, ब्रह्मकर्मसमाधेरेवं भातीत्यर्थः। अर्प्यतेऽनेनेति अर्पणं स्रुगादि, अग्नौ कर्मपरित्यागध्रौव्यात् कर्माभाववचनमप्राप्तप्रतिषेधः स्यादित्याशङ्क्याह— आत्मन इति। लोकसङ्ग्रहादिनिमित्तं प्रागेवोक्तम् । अविद्यावस्थायामेवेति पूर्ववदित्युक्तम्। एवं वृत्तमनूद्योत्तरश्लोकमवतारयति— यस्येति। यथोक्तस्यापि विद्यावतो मुक्तस्य भगवत्प्रीत्यर्थं कर्मानुष्ठानोपलम्भात् ततो बन्धारम्भः सम्भाव्येतेत्याशङ्क्याह— यज्ञायेति। धर्माधर्मादीत्यादिशब्देन रागद्वेषादिसङ्ग्रहः। तस्य बन्धनत्वं करणव्युत्पत्त्या प्रतिपत्तव्यम्। यज्ञनिर्वृत्त्यर्थं यज्ञशब्दितस्य भगवतो विष्णोर्नारायणस्य प्रीतिसम्पत्त्यर्थमिति यावत्। ज्ञानमेव वाञ्छतो ज्ञानस्य प्रतिबन्धकं कर्म परिशङ्कितं परिहरति— कर्मेति। समग्रेणेत्यङ्गीकृत्य व्याचष्टे— सहेत्यादिना॥२३॥
‘नाभुक्तं क्षीयते कर्म’ इति स्मृतिमाश्रित्य शङ्कते— कस्मादिति। समस्तस्य क्रियाकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वमिति युक्तमित्याह— उच्यत इति। ब्रह्मविदो ब्रह्मैव सर्वं क्रियाकारकफलजातं द्वैतमित्यत्र हेतुत्वेनानन्तरश्लोकमवतारयति— यत इति। अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सम्पन्नः स्यात् , तदा तस्यात्मनः कर्तृकर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागे प्राप्ते, कुतश्चिन्निमित्तात् तदसम्भवे सति पूर्ववत् तस्मिन् कर्मण्यभिप्रवृत्तस्यापि१ ‘नैव किञ्चित् करोति सः’ इति कर्माभावः प्रदर्शितः। यस्यैवं कर्माभावो दर्शितस्तस्यैव— गतसङ्गस्येति। गतसङ्गस्य सर्वतो निवृत्तासक्तेः२ मुक्तस्य निवृत्तधर्माधर्मादिबन्धनस्य ज्ञानावस्थित- चेतसो ज्ञाने एवावस्थितं चेतो यस्य सोऽयं ज्ञानावस्थितचेतास्तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम् आचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण फलेन वर्तत इति समग्रं कर्म, तत् समग्रं प्रविलीयते विनश्यतीत्यर्थः॥२३॥
कस्मात्पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भमकुर्वत् समग्रं प्रविलीयत इति? उच्यते, यतः— ब्रह्मेति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। १. ‘कर्मण्यभिप्रवृत्तोऽपि’ इति पा.। २. ‘निवृत्तासङ्गस्य यतेः’ इति रा.पा.। गतसङ्गस्येति श्लोकस्य व्यवहितेन सम्बन्धं दर्शयितुं वृत्तमनुवदति— त्यक्त्वा कर्मफलासङ्गमित्यादिना। अनेन श्लोकेन कर्माभावो दर्शित इति सम्बन्धः। कस्य प्रदर्शित इत्याकाङ्क्षायामाह— यः प्रारब्धकर्मेत्यादिना॥२३॥
[[अ. ४. श्लो. २२-२४]] [[२३४]]
हविःप्रक्षेपणसाधनम्। हविराज्यम्। कर्ता यजमानः, अध्वर्युरिति वा। हुतमग्नौ हविःप्रक्षेपणक्रिया। फलं स्वर्गादि इति। ननु अर्पणादीनां ज्ञेयानां कथं साक्षिब्रह्मरूपत्वम्? अत आह— तस्येति। कारणव्यतिरेकेण कार्याभावस्य लोकसिद्धत्वात् , मृद्व्यतिरेकेण घटाभावदर्शनात् , ‘आत्मन आकाशः सम्भूतः, यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुत्या आत्मनो जगत्कारणत्वावधारणाद् अर्पणादीनां च जगदन्तःपातित्वात् कारणभूतात्मव्यतिरेकेण नास्त्यर्पणादिरूपः कश्चित् पदार्थ इति भावः। तत्र दृष्टान्तमाह— शुक्तिकायामिति। शुक्तिकायां रजतमिवात्मनि जगत् कल्पितमिति सिद्धान्तः। तथा च शुक्तिका- व्यतिरेकेण यथा रजतं नास्ति, तथा आत्मव्यतिरेकेणार्पणं नास्तीति। ननु चक्षुषा गृह्यमाणस्यार्पणस्य कथमभावो वक्तुं शक्यत इत्यत आह— शुक्तिकायामिति। शुक्तिकायां रजताभावं यथा शुक्तितत्त्ववित् पश्यति, तद्वदात्मतत्त्वविदात्मनि अर्पणाभावं पश्यतीति। ननु आन्तरे आत्मनि अर्पणाभावोऽस्तु नाम, बहिः कथमर्पणाभाव इति चेन्मैवम् , आत्मनोऽन्तर्बहिश्च व्याप्य स्थितत्वात् , ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति हि श्रूयते। तस्माच्छुक्तिकायां रजतमिव ब्रह्मणि जगदज्ञः पश्यति। प्राज्ञस्तु शुक्तिकायां रजताभावमिव ब्रह्मणि जगदभावं पश्यतीति। यथा चक्षुर्दोषादिवशाच्छुक्तिकैव रजताकारेण प्रतिभाति, तद्वदविद्यावशा- दात्मैवार्पणादिजगदाकारेण प्रतिभात्यविदुषाम्। विदुषां तु शुक्तिः शुक्तिरिव, ब्रह्म ब्रह्मैव प्रतिभातीति। नन्वेवं ब्रह्म बह्मैव, न त्वर्पणमिति वक्तव्ये कथमुक्तमर्पणं ब्रह्मैवेति? अत आह—यथा यद् रजतमिति। यद्रजतं तच्छुक्तिकैवेति यथोच्यते, तथा यदर्पणं तद् ब्रह्मैवेत्युच्यत इत्यन्वयः। कार्यस्य कारणाभिन्नत्वादिति भावः। यद्भ्रान्त्या रजताकारेण प्रतीतं, तन्न रजतम् , किन्तु वस्तुतः शुक्तिकैवेति यथा रजतभ्रमापगमानन्तरं पुरुषः प्रत्येति, तथा यद्भ्रान्त्या अर्पणरूपेण प्रतीतं तन्नार्पणम् , किन्तु वस्तुतो ब्रह्मैवेति अर्पणभ्रमापगमानन्तरं विद्वान् प्रत्येति। अविद्वांसस्तु शुक्तिकायामुद्भूतं रजतं रजतमिवात्मन्युद्भूतमर्पणमर्पणमेव भाष्यार्कप्रकाशः ब्रह्मार्पणं येन करणेन ब्रह्मविद् हविरग्नावर्पयति तद् ब्रह्मैवेति पश्यति, तस्यात्मव्यतिरेकेणाभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति, १तद्वदुच्यते— ब्रह्मैवार्पणमिति। यथा यद् रजतं तच्छुक्तिकैवेति। ब्रह्म अर्पणमिति असमस्ते पदे। यदर्पणबुद्ध्या गृह्यते लोके तदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः। ब्रह्म हविः तथा यद् हविर्बुद्ध्या गृह्यमाणं तद् ब्रह्मैवास्य। तथा ब्रह्माग्नाविति समस्तं पदम्। अग्निरपि ब्रह्मैव यत्र हूयते, ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थः। यत् तेन हुतं हवनक्रिया तद् ब्रह्मैव। यत् तेन गन्तव्यं फलं तदपि ब्रह्मैव। ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म, तस्मिन् साधयति—येनेति। यद् रजतं सा शुक्तिरितिवद् बाधायामिदं २सामानाधिकरण्यमित्याह—तस्येति। तत्र दृष्टान्तमाह—यथेति। उक्तेऽर्थे पदद्वयमवतारयति— तद्वदुच्यत इति। उक्तमेवार्थं स्पष्टयति— यथा यदिति। समासशङ्कां व्यावर्तयति— ब्रह्मेति। पदद्वयपक्षे विवक्षितमर्थं कथयति— यदर्पणेति। ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे— ब्रह्मेत्यादिना। यदर्पणबुद्ध्या गृह्यते तद् ब्रह्मविदो ब्रह्मैवेति यथोक्तं तथेहापीत्याह— तथेति। अस्येति षष्ठी ब्रह्मविदमधिकरोति। पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति— तथेति। प्रागुक्तासमासवदिति व्यतिरेकः। तत्र विवक्षितमर्थमाह— अग्निरपीति। ब्रह्मणेति पदस्याभिमतमर्थमाह— ब्रह्मणेति। कर्त्रा हूयत इति सम्बन्धः। कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिप्रेतमित्याह— ब्रह्मैवेति। हुतमित्यस्य विवक्षितमर्थमाह— यत्तेनेति। ब्रह्मैव तेनेत्यादि भागं विभजते— ब्रह्मैवेत्यादिना। ब्रह्म कर्मेत्याद्यवतार्य व्याकरोति— ब्रह्मेति। कर्मत्वं ब्रह्मणो ज्ञेयत्वात् आनन्दगिरिकृतव्याख्या ब्रह्मार्पणमिति बाधायां सामानाधिकरण्यमित्यत्र दृष्टान्तमाह— यथा यद् रजतमिति। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘तदुच्यते’ इति पा.। २. पदयोः सामानाधिकरण्यं चतुर्धा—अध्यासे , बाधायाम् , अभेदे , विशेषणविशेष्यभावे च। द्र. ब्र.सू.भा. ३-३-९।
[[२३५]]
पश्यन्तीति। अनेन च शुक्तिरजतदृष्टान्तेन सच्चिदानन्दाद् ब्रह्मणः कथमनृतजडदुःखार्पणाद्याविर्भाव इति शङ्का प्रत्युक्ता, विवर्तवादा- श्रयणात्। न हि मृदो घटात्मनेव ब्रह्मणो जगदात्मना परिणामं वयं ब्रूमः, किन्तु शुक्तिकाया रजतात्मनेव ब्रह्मणो जगदात्मना विवर्तं ब्रूमः। उपादानसमसत्ताककार्यापत्तिः परिणामः, तद्विषमसत्ताककार्यापत्तिः विवर्त इति विवेकः। स्वस्वरूपापरित्यागपूर्वकासत्य- रूपान्तराभासो विवर्त इति वा। तस्माद् रजतस्य शुक्त्यात्मत्वमिवार्पणस्य ब्रह्मात्मकत्वं युक्तम्। एवं हविरादिष्वपि बोध्यम्। ब्रह्मार्पणं यथा तथेति क्रियाविशेषणत्वभ्रमव्युदासायाह— ब्रह्मार्पणमित्यसमस्ते पदे इति। अविदुषो लोकस्य यस्मिन् स्रुगादिद्रव्ये अर्पणबुद्धिः, विदुषस्तस्मिन् ब्रह्मबुद्धिरित्यर्थः। ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतेः, ‘वासुदेवः सर्व’मिति स्मृतेश्चेति भावः। ब्रह्मैव कर्मेत्यवधारणान्नास्य विदुषः ब्रह्मातिरिक्तं कर्मास्तीति गम्यते। समाधिश्चित्तसमाधानम्। ब्रह्मैव गन्तव्यमिति। न तु स्वर्गादि तुच्छफलमित्येवकारार्थः। ननु स्वर्गादिफलं ब्रह्मैवेत्युक्तम्। इदानीं ब्रह्मैव फलं गन्तव्यमिच्युच्यते, कथमविरोध इति चेद्? उच्यते— यदविद्वद्भिः कर्मिभिर्यज्ञाद्यनुष्ठानात् प्राप्यते फलं स्वर्गादि , तद् विद्वान् ब्रह्मेत्येव पश्यति। य एवमर्पणादिकं ब्रह्मेति पश्यति स तु ब्रह्मैव प्राप्नोतीति। कथं कर्मणः परमार्थतोऽकर्मत्वम्? अत आह— ब्रह्मबुद्धीति। यद्धवनादिरूपं कर्म तद् ब्रह्मैवेति या विदुषः कर्मणि ब्रह्मबुद्धिः तया कर्मण उपमृदितत्वाद् बाधितत्वात्। ब्रह्मज्ञानेन कर्मज्ञानस्य नाशितत्वाद् ब्रह्मणि मायया प्रतीतं कर्म वस्तुतोऽकर्म, ब्रह्मैवेत्यर्थः। ननु ब्रह्मैव कर्मेति ब्रह्मणि यज्ञत्वारोपो व्यर्थः, अत आह— निवृत्तेत्यादि। नात्र साक्षाद् ब्रह्मण्येव कर्मत्वारोपः,असम्भवात् , किन्तु ब्रह्मज्ञाने। तत्र च कर्मत्वारोपो युज्यते, कर्मवद् ब्रह्मज्ञानस्याप्यभ्यसनीयत्वेन कर्तव्यत्वात्। अयं च ब्रह्मज्ञाने कर्मत्वारोपः ब्रह्मज्ञानस्तुत्यर्थ इति। तदेव दर्शयति— यदिति। यज्ञे अधियज्ञे, अव्ययीभावः। ‘सप्तम्या बहुलमम्भावः’ इति बहुलग्रहणाद् अधियज्ञमित्यम्भावो नासीत्। आत्मनि अध्यात्मम्। अस्य परमार्थदर्शिन इत्यन्वयः। यथा यज्ञे प्रसिद्धानि प्रायणीयोदयनीयादीनि यज्ञवराहे दंष्ट्रादिरूपत्वेन३ कल्पितानि, तद्वद् यज्ञे प्रसिद्धान्यर्पणादीनि आत्मनि ब्रह्मत्वेन कल्पितानीत्यर्थः। अध्यात्मं ब्रह्मैवार्पणादी- त्येतदर्थं ब्रह्मार्पणमिति श्लोकः प्रवृत्त इत्येतस्यानभ्युपगमे दोषमाह—अन्यथेति। फलितमाह— तस्मादिति। अर्पणादेर्ब्रह्मत्वादित्यर्थः। प्राप्यत्वाच्च प्रतिपत्तव्यम्। एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह— एवमिति। निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्ति- रित्याशङ्क्याह— निवृत्तेति। यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते। तेन स्तुतिलाभात् कल्पनायाः २स्वाधीनत्वाद्वेत्यर्थः। ज्ञानस्य यज्ञत्वसम्पादनमभिनयति— यदर्पणादीति। केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतमित्याशङ्क्य , अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्येत्याह— अन्यथेति। ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह— तस्मादिति। ‘आत्मैवेदं सर्व’मित्यात्मव्यतिरेकेण सर्वस्यावस्तुत्वं प्रतिपद्यमानस्य कर्माभावे हेत्वन्तरमाह— कारकेति। कारकबुद्धेः तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्यादित्याशङ्क्याह— न हीति। उक्तमेवान्वयव्यतिरेकाभ्यां द्रढयति—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
समाधिर्यस्य स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम्। एवं लोकसंग्रहं चिकीर्षुणाऽपि क्रियमाणं कर्म परमार्थतोऽकर्म, ब्रह्मबुद्ध्युपमृदितत्वात्। १निवृत्तकर्मणोऽपि सर्वकर्मसंन्यासिनः सम्यग्दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरामुपपद्यते। यदर्पणाद्यधियज्ञे प्रसिद्धं तदस्याध्यात्मं ब्रह्मैव परमार्थदर्शिन इति। अन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं स्यात्। तस्माद् ‘ब्रह्मैवेदं सर्व’मित्यभिजानतो विदुषः सर्वकर्माभावः। कारकबुद्ध्यभावाच्च। न हि कारकबुद्धिरहितं १. ‘तदेवं सति निवृत्तकर्मणोऽपि’ इति पा.। २. ‘स्वाधीनत्वाच्च’ इति पा.। ३. ‘त्वं प्रायणीयोदयनीयदंष्ट्रः’। द्र. भाग. ३.१३. श्लो ३४—४४.
[[अ. ४. श्लो. २४]] [[२३६]]
ब्रह्मैवेदं सर्वमिति यो जानाति तस्य कर्माभावः, अर्पणादिषु कारकबुद्ध्यभावश्च, सर्वत्र ब्रह्मबुद्धिसत्त्वादिति भावः। शब्देति। शब्द इन्द्राय स्वाहेत्यादिः, तेन समर्पितः प्रतिपादितः देवताविशेष इन्द्रादिः, स एव सम्प्रदानं सम्प्रदीयते अस्मा इति सम्प्रदानम् , ‘कर्मणा यमभिप्रैति स सम्प्रदान’मिति पाणिनिना सूत्रितम्। हविःकर्मणा इन्द्रस्याभिप्रेतत्वादिन्द्रः सम्प्रदानम्। अत एव ‘सम्प्रदाने चतुर्थी’ति इन्द्रायेति चतुर्थी। सम्प्रदानमादिर्येषां तानि सम्प्रदानादीनि कारकाणि। कर्म, करणं, कर्ता, सम्प्रदानम् , अपादानम् , अधिकरणं चेत्येतानि द्वितीयातृतीयाचतुर्थीपञ्चमीसप्तमीविभक्त्यर्थाः। तेषां बुद्धयो यस्मिन् तत् तथोक्तम्। कर्मणो विशेषणमिदम्। उपमृदित- क्रियाकारकफलभेदबुद्धीति कर्मविशेषणम्। उपमृदिताः बाधिताः क्रियेति कारकमिति फलमिति च भेदबुद्धयो यस्मिन् तत्। न दृष्टमित्यन्वयः। इदं ब्रह्मार्पणमिति श्लोकोक्तं कर्म तु ब्रह्मबुद्ध्या उपमृदिताः अर्पणादिक्रियाकारकफलभेदबुद्धयो यस्मिन् तत् तथोक्तम्। अतः क्रियाकारकफलभेदबुद्ध्यभावादित्यर्थः। अकर्मैव कर्माभाव एव, ब्रह्मैवेति यावत्। कथं कर्मणोऽकर्मत्वमित्यतः प्रमाणान्याह— कर्मण्यकर्मेत्यादीनि। ननु क्रियाकारकफलभेदबुद्ध्युपमर्दनमात्रेण कथं यज्ञाख्यं कर्म दृष्टम्। सर्वमेवाग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसम्प्रदानादिकारकबुद्धिमत् कर्त्रभिमान- फलाभिसन्धिमच्च दृष्टम् , नोपमृदितक्रियाकारक(कर्म)फलभेदबुद्धिमत् कर्तृत्वाभिमानफलाभिसन्धिरहितं वा। इदं तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धि१मत् कर्म। अतोऽकर्मैव तत्। तथा च दर्शितम्—‘कर्मण्यकर्म यः पश्येत्’(भ.गी.४.१८) ‘कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः’ (भ.गी.४.२०) ‘गुणा गुणेषु वर्तन्ते’ (भ.गी.३.२८) ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्’ (भ.गी.५.८) सर्वमेवेति। इन्द्रायेत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानकारकम्। आदिशब्दाद् व्रीह्यादिकरणकारकम् , तद्विषयबुद्धिमत् , ‘कर्ताऽस्मी’त्यभिमानपूर्वकं ‘भोक्ष्ये फलमस्ये’ति फलाभिसन्धिमच्च कर्म दृष्टमिति योजना। अन्वयमुक्त्वा व्यतिरेकमाह— नेत्यादिना। उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत् कर्म तथा, कर्तृत्वाभिमानपूर्वको ‘भोक्ष्ये फलमस्ये’ति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः। तथापि ब्रह्मविदो भासमानकर्माभावे किमायातमित्याशङ्क्याह— इदमिति। यदिदं ब्रह्मविदो दृश्यमानं कर्म तद् ‘अहमस्मि ब्रह्मे’ति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत्। अतश्च कर्मैव न भवति। तत्त्वज्ञाने सति व्यापकं कारकादि व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति। तत्त्वविदः शरीरादिचेष्टा कर्माभासः, कर्मव्यापकरहितत्वात् , ३सुषुप्तचेष्टावदित्यर्थः। ज्ञानवतो दृश्यमानं कर्माकर्मैवेत्यत्र भगवदनुमतिमाह— तथा चेति। ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात्
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१.‘मत्’ इति क्वचिन्न। २.प्रतीकमिदं २३५ पृष्ठे द्र.। ३.सुप्तचेष्टावदित्येवापेक्षितम्। सुषुप्ते चेष्टाया अभावात्। न च स्वप्ने स्वाप्नकारकादिभेदबुद्धिः फलाभिसंधिश्चा- स्त्येवेति स्वाप्नचेष्टायां साधनवैकल्यम् , अप्रामाण्यज्ञानानास्कन्दिततादृशबुद्धेः व्यापकतया विवक्षितत्वात् । अत एव व्यतिरेककथनावसरे भाष्ये उपमृदितेति बुद्धिविशेषणं दत्तम्। बाधितेति तदर्थः। मिथ्यात्वेन निश्चितेति यावत्। अतश्च प्रबुद्धस्य व्याप्तिग्रहणावसरे स्वाप्निकतादृशबुद्धेरप्रमात्वेन ज्ञातत्वात् न दोषः। २अन्यथा सर्वस्येति। अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानान्यथानुपपत्त्या यज्ञत्वसम्पादनमेवेह विवक्षितमित्यर्थः। ततः किं फलमित्याशङ्क्याह— तस्मादिति। आत्मैवेदं सर्वमित्यात्मातिरेकेण सर्वस्यावस्तुत्वं पश्यतः कर्माभावः सिद्धो भवतीत्यर्थः। इतश्च आत्मविदः कर्माभाव इत्याह— कारकबुद्ध्यभावाच्चेति। उक्तमेवान्वयव्यतिरेकाभ्यां द्रढयति— सर्वमेवेत्यादिना। शब्देन समर्पितो देवताविशेषः सम्प्रदानकारण[रक]म् आदिशब्दाद् व्रीह्यादि। कारकबुद्धिमत् कर्म दृष्टमिति योजना। यत् कर्म तत् सकारकं दृष्टम् । तत्त्वज्ञाने च सति सकारकत्वं व्यापकं व्यावर्तमानं कर्मत्वमपि व्यावर्तयतीत्यर्थः। अत्र प्रयोगः - तत्त्वविदः कायादिचेष्टा कर्माभासो भवितुमर्हति, कर्मव्यापकविधुरत्वात् , सुप्तचेष्टावदिति ।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[२३७]]
कर्मणोऽकर्मत्वमित्यतो दृष्टान्तमाह— दृष्टेति। यथा काम्यस्याग्निहोत्रादिकर्मणः कामोपमर्दनेनाकाम्यत्वम् , तद्वदित्यर्थः। दृष्टान्तान्तर- माह— तथेति। मतिपूर्वकाणि कर्माणि यत् कार्यमारभन्ते ततो भिन्नं कार्यमेवामतिपूर्वकाणि कर्माण्यारभन्ते। यथा बुद्धिपूर्वं कृता प्राणिहिंसा रौरवादिनरकरूपकार्यमारभते, तथा प्रमादात् कृता नैवारभेत, किन्तु स्वल्पमेव रोगादिकम् , तद्वदिति भावः। दार्ष्टान्तिकमाह—तथेहापीति। बुद्धेरिति। बुद्धित्वादित्यर्थः। हेतुरयं कर्मणोऽकर्मत्वसम्पत्तौ। अत इति। ब्रह्मबुद्ध्या कर्मणोऽकर्मत्व- सम्पत्तेरित्यर्थः। विद्वद्भिराचरितस्य भिक्षाटनादेर्बाह्यचेष्टामात्ररूपस्य कर्मणः यज्ञादिकर्मणो वा ब्रह्मबुद्ध्या क्रियाकारकादिभेदबुद्ध्युप- मर्दनेनाकर्मत्वान्नास्ति कार्यारम्भकत्वमिति भावः। अथ पूर्वपक्षयति— केचिदिति। यदर्पणं तद् ब्रह्मेति नार्थः, किन्तु यद् ब्रह्म तदर्पणम्। एवं यद् ब्रह्म तद्धविः, यद् ब्रह्म तदग्निः, यद् ब्रह्म तत् कर्ता, यद् ब्रह्म तद्धुतं, यद् ब्रह्म तत् फलमित्यर्थः। कोऽत्र विशेषः? अत आह— ब्रह्मैवेति। पञ्चविधेनेति। अर्पणं करणकारकं, हविः कर्मकारकम् , अग्निरधिकरणकारकं, यजमानः कर्तृकारकम् , उद्देश्यदेवता सम्प्रदानकारकमिति पञ्चविधत्वम्। अपादानकारकस्य नात्रोपयोग इति पञ्चविधेनेत्युक्तम्। कारकात्मनाऽवस्थितं कारकरूपेण परिणतं सदित्यर्थः। पुनर्भविष्यतीत्याशङ्क्याह— तथा च दर्शयन्निति। अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते, तथापि तस्य कर्माकर्मैवेत्यत्र दृष्टान्तमाह— दृष्टा चेति। विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह— तथेति। इदं कर्मैवं कर्तव्यम् , अस्य च फलं भोक्तव्यमिति मतिस्तत्पूर्वकाण्यतत्पूर्वकाणि च कर्माणि। तेषामवान्तरभेदसङ्ग्रहार्थमादिपदम्। दार्ष्टान्तिकमाह— तथेति। सप्तम्या२ विद्वत्प्रकरणं परामृष्टम्। ३षष्ठ्यौ समानाधिकरणे। उक्तेऽर्थे पूर्ववाक्यमनुकूलयति— अत इति। ब्रह्मार्पणमन्त्रस्य स्वव्याख्यानमुक्त्वा स्वयूथ्यव्याख्यानमनुवदति— अत्रेति। प्रसिद्धोद्देशेनाप्रसिद्धविधानस्य न्याय्यत्वाद् अप्रसिद्धोद्देशेन प्रसिद्धविधानं कथमित्याशङ्क्याह— ब्रह्मैवेति। किलेत्यस्मिन् व्याख्याने सिद्धान्तिनोऽसम्प्रतिपत्तिं सूचयति। कर्तृकर्म- करणसम्प्रदानाधिकरणरूपेण पञ्चविधेन ब्रह्मैव व्यवस्थितं कर्म करोतीत्यङ्गीकारात् तदप्रसिद्ध्यभावात् तदनुवादेनार्पणादिषु अविरुद्धः तद्दृष्टिविधिरित्यर्थः। दृष्टिविधिपक्षे सिद्धान्ताद् विशेषं दर्शयति—तत्रेति। अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्टयति—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इत्यादिभिः। तथा च दर्शयंस्तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दं करोति। दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिः। तथा मतिपूर्वकामतिपूर्वकादीनां कर्मणां कार्यविशेषस्यारम्भकत्वं दृष्टम्। तथेहापि ब्रह्मबुद्ध्युप- मृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टामात्रेण कर्मापि विदुषोऽकर्म सम्पद्यते। अत उक्तम्— ‘समग्रं प्रविलीयते’ इति। अत्र केचिदाहुः—यद् ब्रह्म तदर्पणादीनि, ब्रह्मैव किलार्पणादिना पञ्चविधेन कारकात्मना १व्यवस्थितं सत् तदेव कर्म करोति। तत्र नार्पणादिबुद्धिर्निवर्त्यते, किन्त्वर्पणादिषु ब्रह्मबुद्धिराधीयते। यथा प्रतिमादौ विष्ण्वादिबुद्धिः, पूर्ववत् प्रवृत्तिदर्शनेऽप्यतथात्वमित्यत्र दृष्टान्तमाह— दृष्टा चेति। विद्वत्कर्मापि फलारम्भकं भवितुमर्हति, कर्मत्वाविशेषाद् अविद्वत्कर्मवदिति (अ)विद्वत्कर्मापि फलारम्भकमिति नाशङ्कनीयमित्याह— तथा मतिपूर्वकेति। ब्रह्मबुद्ध्या उपमृदिता नाशिता अर्पणादिकारकक्रियाफलभेदविषया बुद्धिर्येन स तथोक्तः, तस्येति विग्रहः। इदानीमेकदेशिव्याख्यानमनुवदति— अत्र केचिदाहुरिति। ननु यद् ब्रह्म तदर्पणादि [इति] अप्रसिद्धोद्देशेन कथं प्रसिद्धविधानमित्याशङ्क्याह— ब्रह्मैव किलेति। पञ्चविधेनेति। कर्तृकर्मकरणसम्प्रदानाधिकरणरूपेण ब्रह्मैव व्यवस्थितम्।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ. ४. श्लो. २४ ] १. ‘अवस्थितं’ इति पा.। २. इहेत्यनेन। ३. ‘ब्रह्म….बुद्धेः’ ‘विदुषः’ इति षष्ठ्यन्ते पदे।
[[२३८]]
नन्वद्वैतिनाऽपीदमेवोक्तम् , अत आह— तत्रेति। तत्र एवं सतीत्यर्थः। अर्पणादिबुद्धिर्न निवर्त्यते अर्पणादिष्विति भावः। आधीयत इति। ‘अन्नं ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीते’त्यादौ यथा अन्नादिषु ब्रह्मबुद्धिरुपासनार्थमाहिता, तद्वदिति भावः। एतेन अद्वैतिमते अर्पणादिषु अर्पणादिबुद्ध्युपमर्दनमस्ति, अत्र तु नेति विशेषः सिद्धः। ननु प्रतिमादिषु प्रतिमादिबुद्धौ सत्यां कथं विष्ण्वादिबुद्धिर्भवेदिति चेद्? उच्यते— नेयं विष्ण्वादिबुद्धिस्तात्त्विकी, किन्तु कल्पितैव। ततश्च तात्त्विक्याः प्रतिमादिबुद्ध्याः कल्पिताया विष्ण्वादिबुद्ध्याश्च भवितुमर्हत्येकत्र समावेशः, विभिन्नविषयत्वेन बुद्धिद्वयस्य विरोधाभावात्। यदि बुद्धिद्वयमपि तत्त्वविषयं मिथ्याविषयं वा स्यात् , तर्हि भवत्येव विरोधः। ननु प्रतिमादिविषयकविष्ण्वादिबुद्धेः कल्पितत्वमस्तु नाम, अर्पणादिविषयकब्रह्मबुद्धेः कल्पितत्वं नास्ति, ब्रह्मजन्यत्वेना- र्पणादीनां ब्रह्ममयत्वात् तेषु ब्रह्मबुद्धेरकल्पितत्वात्। प्रतिमादयस्तु न विष्ण्वादिदेवतामयाः, तदजन्यत्वात्। न हि मृज्जन्ये घटे मृद्बुद्धेः कल्पितत्वमिति चेत्, तर्हि मृज्जन्ये घटे मृद्बुद्धिघटबुद्धिद्वयस्य निर्विरोधेन दर्शनाद् ब्रह्मजन्येष्वर्पणादिष्वपि ब्रह्मबुद्ध्यर्पणादिबुद्धिद्वयमस्तु। नन्वेवमर्पणादिषु बुद्धिद्वयसामानाधिकरण्याभ्युपगमे कथं ब्रह्मविदोऽपि अर्पणादिषु अर्पणादिबुद्ध्युपमर्दनमिति चेन्मैवम् , ब्रह्मविद् हि ब्रह्मव्यतिरेकेणार्पणाद्यभावं पश्यति, यथा घटतत्त्ववित् मृद्व्यतिरेकेण घटाभावम्। अतो न ब्रह्मविद्दृष्ट्या अर्पणादिषु बुद्धिद्वय- सामानाधिकरण्यम् , किन्त्वापातज्ञानिदृष्ट्यैवेति। अयं भावः— य आत्मसाक्षात्कारवान् तस्य सर्वमिदं ब्रह्मैव भाति। यस्त्वल्पज्ञः पारोक्ष्येण ब्रह्मवित् तस्य हि सर्वं बह्मैव न भाति, किन्तु सर्वस्मिन् तेन ब्रह्मदृष्टिराधेया, प्रतिमादौ विष्ण्वादिबुद्धिवत्। तस्मादर्पणादेर्वस्तुतो ब्रह्मत्वेऽपि अल्पज्ञेन तत्राहितेयं ब्रह्मबुद्धिः कल्पितैव, आहितत्वात्। आहितत्वम् आरोपितत्वम्। आरोपितस्य कल्पितत्वं सर्वसम्मतम्— इति। पूर्वपक्षमङ्गीकरोति— सत्यमिति। किमिदं ज्ञानयज्ञस्तुत्यर्थं प्रकरणम्? यद्वा अर्पणादिकारकविशिष्टयज्ञस्तुत्यर्थम्? द्वितीये, त्वदुक्तं सत्यमेव भवेत् ,न तु द्वितीयस्येह सङ्गतिः, ‘कर्मण्यकर्म यः पश्ये’दित्यादिना सम्यग्दर्शनरूपज्ञानस्यैव स्तूयमानत्वात्। आद्ये तु न त्वदुक्तार्थः सङ्गच्छते, प्रकरणविरोधादित्याह—[यदीति।] यदीदं ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यात् , तर्हि एवं त्वदुक्तरीत्याऽपि स्यात्। इदं तु ज्ञानयज्ञस्तुत्यर्थं प्रकरणमित्याह— अत्र त्विति। अत्र तु प्रकरणे सम्यग्दर्शनं सम्यग्दृश्यते आत्मादिपदार्थो येन तत् सम्यग्दर्शनमिति ज्ञानमित्यस्य विशेषणम्। स्तौति भगवानिति शेषः। स्तुतिप्रकारं दर्शयति— श्रेयानिति। ननु कथं ज्ञानस्य यज्ञत्वेन यथेत्यादिना। दृष्टिविधाने विधेयदृष्टेर्मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यादित्यभिप्रेत्य परिहरति— सत्यमेवमिति। विधित्सितदृष्टिस्तुतिपरमेव प्रकरणं न ज्ञानस्तुतिपरमित्याशङ्क्य प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति— अत्र त्विति। किञ्च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्यं प्रतिभातीत्यत्राह— अत्र चेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१यथा वा नामादौ ब्रह्मबुद्धिः, एवम् इति। सत्यमेवमपि स्याद् , यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यात्। अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितम् अनेकान् यज्ञशब्दितान् क्रियाविशेषानुपन्यस्य ‘श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञान- यज्ञः’ (भ.गी.४.३३) इति ज्ञानं स्तौति। अत्र च समर्थमिदं वचनं ‘ब्रह्मार्पण’मित्यादि ज्ञानस्य यज्ञत्वसम्पादने। (२अन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं स्यात्।) ततो नाप्रसिद्धमित्यर्थः। ब्रह्मदृष्टिविधानपक्षे मानसी क्रिया स्यात्। न सम्यग्ज्ञानमिति प्रकरणबाध इत्यभिप्रेत्य परिहरति— सत्यमेवमपीति। न केवलं प्रकरणपर्यालोचनया ज्ञानस्तुतिः प्रमीयते, अस्यापि श्लोकस्यास्मिन्नर्थे सामर्थ्यं विद्यत इत्याह— अत्र चेति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘यथा च’ इति पा.। २. कुण्डलितः अंशः क्वचिन्न। स च २३५ पृष्ठे पूर्वं पठित एव। इह व्याख्यातृभिरस्पृष्टश्च।
[[२३९]]
स्तुतिसम्भवः? अत आह— अत्र चेति। ‘ब्रह्मार्पण’मिति श्लोकोक्तस्य ज्ञानस्य यज्ञत्वसम्पादने ‘ज्ञानयज्ञः परन्तपे’ति वचनं समर्थम्। ज्ञानयज्ञ इति भगवद्वचनाज्ज्ञानस्य यज्ञत्वसम्पत्तिरित्यर्थः। यद्वा इदं ‘ब्रह्मार्पण’मित्यादिवचनं ज्ञानस्य यज्ञत्वसम्पादने समर्थमित्यन्वयः। ननु भवत्विदं ज्ञानयज्ञस्तुत्यर्थं प्रकरणम् , किं तत इत्यत आह— ये त्विति। तेषां मत इति शेषः। उक्ता पूर्वोक्ता ब्रह्मविद्या सम्यग्दर्शनं नेह विवक्षिता स्यात् यथोक्तेन वाक्येन विवक्षिता न स्यात् , तत्र हेतुमाह— अर्पणादीति। अर्पणादिषु ब्रह्मदृष्टिः कर्तव्येति अर्पणादिविषयं ज्ञानमेवेह विवक्षितं भवेन्न तु ब्रह्मज्ञानमित्यर्थः। ननु भवत्विदमर्पणादिविषयं ज्ञानम्, तथापि अर्पणादिषु ब्रह्मदृष्ट्याधानेन स्यादेव मोक्षः, प्रतिमादिषु विष्ण्वाद्या[दिबुद्ध्या]धानवदित्यत आह—न चेति। अतस्तस्मिंस्तद्बुद्धेर्मिथ्याज्ञानत्वादर्पणादिषु ब्रह्मबुद्ध्या, प्रतिमादिषु विष्ण्वादिबुद्ध्या वा न भवेन्मोक्षः इत्यर्थः। मोक्षाभावे इष्टापत्तिं वारयति— ब्रह्मैवेति। ननु भगवद्वचनादस्मादेव मिथ्याज्ञानाद् गौणज्ञानाद्वा दर्शिताद् भवेदेव मोक्ष इत्यत आह— विरुद्धं चेति। ‘तमेवं विदित्वाऽतिमृत्युमेती’त्यादिशास्त्रविरोधादिति भावः। प्रकरणविरोधोऽपीत्याह— प्रकृतेति। सम्यग्दर्शनप्रकरणत्वादस्याध्यायस्येत्यर्थः। कथमिदं ज्ञायते? अत आह— कर्मणीति। ‘कर्मण्यकर्म यः’ इति सम्यग्दर्शनं प्रक्रम्य ‘ज्ञानं लब्ध्वा परां शान्ति’मित्युपसंहरति। मध्ये च ज्ञानमेव स्तूयते। अत नन्वर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत् , तत्राह— ये त्विति। यथा ब्रह्मदृष्ट्या नामादिकमुपास्यं तथार्पणादिषु ब्रह्मदृष्टिकरणे सत्यर्पणादिकमेव प्राधान्येन ज्ञेयमिति ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः। किञ्च ब्रह्मैव तेन गन्तव्यमिति ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानमश्लिष्टमित्याह— न चेति। न चार्पणाद्यालम्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्रतीकालम्बनान् नयती’ति१ न्यायविरोधादिति भावः। दृष्टिविधानेऽपि नियोगबलादेव स्वर्गवददृष्टो मोक्षो भविष्यतीत्याशङ्क्याह— विरुद्धं चेति। ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः। दृष्टिनियोगान्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं चेत्याह— प्रकृतेति। तदेव प्रपञ्चयति— सम्यग्दर्शनं चेति। अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः। तत्र हेतुः— तस्यैवेति। सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किञ्चिदन्यदुक्तमिति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ये त्वर्पणादिषु प्रतिमायां विष्णुदृष्टिवद् ब्रह्मदृष्टिः क्षिप्यते, नामादिष्विव चेति ब्रुवते, न तेषां ब्रह्मविद्योक्तेह विवक्षिता स्याद् , अर्पणादिविषयत्वाज्ज्ञानस्य। न च दृष्टिसम्पादनज्ञानेन मोक्षफलं प्राप्यते। ‘ब्रह्मैव तेन गन्तव्यम्’ इति चोच्यते। विरुद्धं च ‘सम्यग्दर्शनमन्तरेण मोक्षफलं प्राप्यते’ इति। प्रकृतविरोधश्च। सम्यग्दर्शनं च प्रकृतम्— ‘कर्मण्यकर्म यः पश्येत्’ (भ.गी.४.१८) इत्यत्र। अन्ते च सम्यग्दर्शनम् , तस्यैवोपसंहारात्। ‘श्रेयान् द्रव्यमयाद् नन्वर्पणादिषु ये ब्रह्मदृष्टिं कुर्वन्ति तेषामिति[मपि] ब्रह्मविद्यैवात्र विवक्षिता। अतो न विवाद इत्याशङ्क्याह— ये त्वर्पणादिष्विति। यथाऽत्र ब्रह्मदृष्ट्या नामादिकमुपास्यम् , तथा अर्पणादिषु ब्रह्मदृष्टिकरणेऽर्पणादिकमेव प्राधान्येन ज्ञेयमिति ब्रह्मविद्या विवक्षिता न स्यादित्यर्थः। किञ्च ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानपक्षोऽनुपपन्न इत्याह— न च दृष्टीति। ननु दृष्टिविधानपक्षे नियोगबलादेव स्वर्गवद् अदृष्टो मोक्षो भविष्यतीत्याशङ्क्याह— विरुद्धं चेति। मोक्षो न नैयोगिकः, सातिशयत्वक्षयिष्णुत्वशरीरादिभोग[ग्य]त्वप्रसङ्गात्। किञ्चाविद्यानिवृत्तिलक्षणो मोक्षो नाम दृष्टमेव फलम्। सा चाविद्या- निवृत्तिः सम्यग्ज्ञानमन्तरेण न भवतीति प्रसिद्ध[प्रसिद्धि?]विरुद्धमित्यर्थः। दृष्टिनियोगान्मोक्षो भविष्यतीत्येतत् प्रकरणविरुद्धं चेत्याह— प्रकृतविरोधश्चेति। तदेव स्फुटयति— सम्यग्दर्शनं चेत्यादिना॥२४॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ. ४. श्लो. २४ ] १.तथा सति प्रतीकोपास्तिरियं स्यात्। प्रतीकोपासकानां च ब्रह्मप्राप्तिवचनं न युक्तम् , तेषामब्रह्मक्रतुत्वेन ब्रह्मलोकप्राप्त्यभावस्य(ब्र.सू. ४-३-१५)इत्यत्रोक्तत्वात्।
[[२४०]]
उपक्रमाद्यैकरूप्यादिलिङ्गात् सम्यग्दर्शनप्रकरणमिदमिति ज्ञायते। उपक्षीण उपसंहृतः, समाप्तो भवतीत्यर्थः। तत्र एवं सति अकस्माद् हेतुं विना। अत्र प्रकरणे ज्ञानयज्ञप्रकरणे ‘प्रतिमायां विष्णुदृष्टिरिव अर्पणादिषु ब्रह्मदृष्टिरुच्यते’ इति परव्याख्यानमनुपपन्नम्। उपसंहरति— तस्मादिति। परोक्तार्थस्यानुपपन्नत्वादित्यर्थः। यथा व्याख्यातार्थः यथेत्यनुरूपार्थेऽव्ययम्। व्याख्यातोऽर्थो यस्य स व्याख्यातार्थः। अनुरूपं श्लोकस्यार्थो मया व्याख्यात इत्यर्थः। व्याख्यानमनतिक्रम्य यथाव्याख्यातमर्थो यस्य स यथाव्याख्यातार्थ इति वा। यत्तु रामानुजः— ब्रह्मार्पणं ब्रह्म अर्पणं स्रुगादि यस्य तत् , ब्रह्म, स्वयं च ब्रह्मभूतं हविः, ब्रह्माग्नौ (येन) ब्रह्मणा कर्त्रा हुतं निक्षिप्तम् , सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयमिति यः समाधत्ते स ब्रह्मकर्मसमाधिः, तेन ब्रह्मैव गन्तव्यम् , ब्रह्मात्मकतया ब्रह्मभूत- मात्मस्वरूपं गन्तव्यम् , मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकमेवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम् , न ज्ञाननिष्ठाव्यवधानेनेत्यर्थः - इति, यच्च वेदान्तदेशिकः—कर्मयोगसाक्षात्कार्यमात्मस्वरूपमत्र स्रुग्घविरग्न्यादिवद् ब्रह्मशब्देनोच्यत इत्याह—ब्रह्मात्मकतयेति।२, तत् सर्वं तुच्छात्तुच्छतरम्। तथाहि—यः सर्वं कर्म ब्रह्ममयं जानाति स आत्मानं साक्षात्कुरुत इति वचनमयुक्तम् , आत्मसाक्षात्कारस्य सर्वकर्मविषयकब्रह्मज्ञानस्य च कार्यकारणभावाभावात्। सर्वं कर्म ब्रह्मात्मकमिति ज्ञानादस्तु नाम कथञ्चिद् ब्रह्मसाक्षात्कारः, न पुनरात्मसाक्षात्कारो भवितुमर्हति, ब्रह्मभिन्नत्वादात्मनस्तव मते। किञ्च इन्द्रियव्यापारोपरमरूपज्ञाननिष्ठां विना कथमन्तःस्थितात्मवस्तुसाक्षात्कारः? आत्मन आन्तरस्य साक्षात्कारे मन एव हि करणम्। तस्यान्तर्मुखत्वं हि ज्ञाननिष्ठा। यः कर्मी स बहिर्मुखमना एव, कारकादीनां बहिःस्थत्वात्। न त्वात्मा बाह्यः, येन कर्मव्यग्रमनसा बहिर्मुखेनात्मसाक्षात्कारो भवेत्। न च कर्म ब्रह्मेति ज्ञानमात्मसाक्षात्कारहेतुरेवेति वाच्यम् , घटो ब्रह्मेति ज्ञानादप्यात्मसाक्षात्कारापत्तेः। न चेष्टापत्तिः, तथाऽनुभवाभावात्। अपि च सर्वस्यापि ब्रह्मकार्यत्वेन ब्रह्मभूतत्वादर्पणादिकं ब्रह्मभूतमेवेति कृत्वा अर्पणादीनां ब्रह्मभूतत्वविशेषणमप्यनर्थकम्। न ह्यविद्वानपि अब्रह्मभूतमर्पणादिकं सम्पादयितुं शक्नोति, येनाब्रह्माग्नावब्रह्मार्पणमब्रह्महविर्होतुं शक्येतेति तद्वारणाय ब्रह्मार्पणमि- त्याद्युच्येत। अथ यदुक्तं हविरादिवद् ब्रह्मात्मकत्वमात्मन इति वेदान्तदेशिकेन, तद्धि वेदान्तदेशिकपदं विरुद्धलक्षणयाऽस्मिन् प्रवृत्तमिति स्पष्टं बोधयति। तथाहि— आत्मनो हविरग्न्यादिवद् ब्रह्मात्मकत्वं किं ब्रह्मकार्यत्वाद् , उत ब्रह्मज्ञेयत्वात्? नाद्यः, ‘अजो नित्यः शाश्वतः’ इत्यादिविरोधात्। प्रकृतिपुरुषकालादीनां त्वन्मतेऽप्यनादित्वात् , नित्यत्वाच्च। न द्वितीयः, ब्रह्मण इवात्मनोऽपि द्रष्टृत्वेन ब्रह्मज्ञेयत्वाभावात् , अन्यथा जडत्वापत्तेः, ‘चेतनश्चेतनाना’मिति श्रुतौ जीवाश्चेतनाः इति त्वयाऽप्यभ्युपेतत्वात्। यद्यात्मनो ब्रह्मज्ञेयत्वाद् ब्रह्मात्मकत्वं स्यात् , तर्हि ब्रह्मणोऽप्यात्मज्ञेयत्वादात्मात्मकत्वं स्यात्। ‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्यादिश्रुत्या प्रतिपाद्यते हि ब्रह्मणोऽप्यात्मज्ञेयत्वम्। न चेदं ज्ञेयत्वं ब्रह्मणः सत्यमिति वाच्यम् , तथा सति जडत्वपरिच्छिन्नत्वा- नित्यत्वादिप्राप्तेः, ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतिविरोधाच्च, ‘साक्षी चेता’ इत्यादिश्रुतिविरोधाच्च। अतः कल्पितमेव३। एवमात्मन्यपि, ब्रह्मण एवात्मत्वात्। तस्मादात्मनि ब्रह्मात्मकत्वं ब्रह्माभिन्नत्वमेव, न त्वन्यत्॥२४ ॥
प्रकरणस्यातद्विषयत्वमित्याशङ्क्याह— श्रेयानिति। प्रकरणे सम्यग्ज्ञानविषये सत्यनुपपन्नो दर्शनविधिरिति फलितमाह— तत्रेति। ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासंभवे स्वकीयव्याख्यानं व्यवस्थितमित्युपसंहरति— तस्मादिति॥२४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यज्ञाज्ज्ञानयज्ञः’(भ.गी.४.३३) ‘ज्ञानं लब्ध्वा परां शान्तिम्’ (भ.गी.४.३९) इत्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वन्नुपक्षीणोऽध्यायः। तत्राकस्मादर्पणादौ ब्रह्मदृष्टिरप्रकरणे१ प्रतिमायामिव विष्णुदृष्टिरुच्यत इत्यनुपपन्नम्। तस्माद् यथाव्याख्यातार्थ एवायं श्लोकः॥२४॥
१. ‘अत्र प्रकरणे’ इति रा.पा.। २. ‘इति आहतुः’ इति शेषः। ३. ज्ञेयत्वं ब्रह्मणि इति शेषः।
[[२४१]]
दैवमिति। देवानामयं दैवः ‘तस्येद’मित्यण्। देवयजनसाधन इत्यर्थः। यज्ञोऽपूर्वः, तत्साधकं कर्म वा। यज्ञस्योपासना- सम्भवादुपासनमिह करणमेवेत्याह— कुर्वन्तीति। ५कर्मयज्ञोऽयं सर्वत्र प्रसिद्ध एवेति भावः। साक्षादपरोक्षादिति श्रुतावपरोक्षादिति पञ्चमी प्रथमार्थे छान्दसी, अपरोक्षमित्यर्थः। साक्षात् करणव्यापारं विनैवेत्यर्थः। आत्मत्वादिति भावः। सर्वान्तरः सर्वेषामन्नमया- द्यानन्दमयान्तानां पञ्चानां कोशानामान्तरः अन्तः स्थितः, जगदन्तःस्थितः इति वा। अशनाया क्षुत्। आदिपदात् सुखदुःखादि- ग्रहणम्। नेति नेतीति श्रुत्या निरस्ता अशेषा विशेषाः भेदा यस्मिन् तत् , अस्थूलमनण्वह्रस्वमित्येवं स्थूलत्वाणुत्वह्रस्वत्वादयः सर्वे विशेषाः आत्मनि निराकृता इत्यर्थः। ब्रह्मणि अग्नित्वारोपणं किंविवक्षयेत्यत आह— होमाधिकरणविवक्षयेति। हविरादिहोमस्य अग्नेरधिकरणत्वादिति भावः। अत एवाग्नावित्यधिकरणे सप्तमी। कोऽसावात्मेत्यत आह— परमार्थत इत्यादि। यथा परमार्थतो महाकाश एव घटाद्युपाधिवशाद् घटाकाशादिभेदेन व्यवह्रियते, तथा परमार्थतो ब्रह्मैव बुद्ध्याद्युपाधिवशादात्मेति व्यवह्रियते। अस्मिंश्च बुद्ध्याद्यवच्छिन्ने आत्मनि बुद्ध्याद्युपाधिधर्माः अज्ञानेनाध्यस्ताः। अत एवाहं सुखी दुःखी काणो बधिरः स्थूलः कृश इत्यादिव्यवहारः। बुद्ध्यादीत्यादिपदान्मनःप्राणेन्द्रियदेहग्रहणम्। न च ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्युक्तस्यासङ्गस्यात्मनः कथं बुद्ध्याद्युपाधिसम्बन्ध इति वाच्यम् , मायया सर्वसम्भवात् । उक्तं हि व्यासेन भागवते— ‘सेयं भगवतो माया यन्नयेन विरुद्ध्यते’ इति। यद्विचारेण विरुध्यते सैव मायेत्यर्थः। अविचारितरमणीय- त्वान्मायाकार्यस्य नास्ति विचारक्षमत्वमिति भावः। वस्तुतो नास्त्युपाधिसङ्गः आत्मनः, किन्तु मायया शुक्तिकारजतादिवत् प्रतीयत इति तत्त्वम्। ज्ञानस्य यज्ञत्वं सम्पाद्य पूर्वश्लोके स्थिते सत्यधुना तस्यैव ज्ञानस्य स्तुत्यर्थं यज्ञान्तरनिर्देशार्थमुत्तरग्रन्थप्रवृत्तिरित्याह— तत्रेति। सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति— दैवमेवेत्यादिना। २प्रतीकमादाय दैवयज्ञं व्याचष्टे— देवा इति। सम्यग्ज्ञानाख्यं यज्ञं विभजते— ब्रह्माग्नाविति। तत्र ब्रह्मशब्दार्थं श्रुत्यवष्टम्भेन स्पष्टयति— सत्यमिति। ३यदजड- मनृतविपरीतमपरिच्छिन्नं ब्रह्म तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह— विज्ञानमिति। तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिक- मित्याशङ्क्याह— यत्साक्षादिति। जीवब्रह्मविभागे४ कथमपरिच्छिन्नत्वमित्याशङ्क्य विशिनष्टि— य आत्मेति। परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तादान्तरत्वेन साधयति— सर्वान्तर इति। विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयम् आदिशब्दार्थः। निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति— अशनायेति। ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह— स होमेति। बुद्ध्यारूढतया सर्वस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्राधुना सम्यग्दर्शनस्य यज्ञत्वं सम्पाद्य तत्स्तुत्यर्थम् अन्येऽपि यज्ञा उपक्षिप्यन्ते— दैवमेवेत्यादिना। दैवमेव देवा इज्यन्ते येन यज्ञेनासौ दैवो यज्ञः, तमेवापरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः। ब्रह्माग्नौ ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१) ‘विज्ञानमानन्दं ब्रह्म’ (बृ.उ.३.९.२८) ‘यत्साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः’ (बृ.उ.३.४.१) इत्यादिवचनोक्तम् अशनायादिसर्वसंसारधर्मवर्जितं ‘नेति नेति’ (बृ.उ.४.४.२२) इति निरस्ताशेषविशेषं १ब्रह्मशब्देनोच्यते। ब्रह्म च तदग्निश्च सः होमाधिकरणत्वविवक्षया ब्रह्माग्निः, तस्मिन् ब्रह्माग्नौ अपरे दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
अ. ४. श्लो. २४-२५ ] १. ‘ब्रह्म ब्रह्मशब्देन’ इति रा.पा.। २. ‘दैवमेवेति प्रतीकमादाय’ इति पा.। ३. ज्ञानम् सत्यम् अनन्तमिति पदानि क्रमेण व्याचष्टे—अजडमित्यादिना। ४. जीव- ब्रह्मभेदे सति ब्रह्मणो वस्तुपरिच्छेदराहित्यं कथमिति प्रश्नः। आत्मत्वात् न भेद इति युक्तं वस्तुपरिच्छेदराहित्यमिति समाधानम्। ५. प्रसिद्धो यज्ञः श्रौतकर्मरूपः। द्रव्ययज्ञाः इति तु तीर्थेषु द्रव्यदानमिति न पौनरुक्त्यशङ्का।
[[२४२]]
आहुतिर्हविः। उक्तलक्षणेनेति। बुद्ध्याद्युपाधिसंयुक्तत्वादिलक्षणशालिनेत्यर्थः। नन्वात्मन एव ब्रह्मत्वात् कथं स्वस्मिन् स्वस्य प्रक्षेपः, आधाराधेयभावस्य द्विनिष्ठत्वादत आह— सोपाधिकस्येति। सोपाधिके आत्मनि या निरुपाधिकब्रह्मबुद्धिः सैवात्मनो ब्रह्मणि प्रक्षेप इत्यर्थः। फलितमाह— ब्रह्मात्मेति। अहं ब्रह्मास्मीति ज्ञाननिष्ठेत्यर्थः। केऽमी? अत आह— संन्यासिन इति। पूर्वार्धेन कर्मिणामुक्तत्वादिति भावः। ननु ब्रह्मार्पणमिति श्लोकोक्तस्य ज्ञानयज्ञस्य कस्मात् पुनरिह वचनम्? अत आह— सोऽयमिति। ब्रह्मार्पणमिति श्लोकेन सम्यग्दर्शनं प्रस्तुतम्। इदानीं तु तस्य यज्ञत्वं स्फुटमुक्तमिति न पौनरुक्त्यमिति भावः। किमर्थोऽयं ज्ञानयज्ञ इहोपक्षिप्तः? अत आह— श्रेयानित्यादिना स्तुत्यर्थमिति। यत्तु रामानुजः— दैवं देवतार्चनरूपं यज्ञमिति, ३यज्ञं हविः, यज्ञेन स्रुगादिनेति च व्याचख्यौ, तत्तुच्छम् ; अप्रसिद्धार्थ- कल्पनस्यान्याय्यत्वात् , ब्रह्माग्नावित्यग्नेर्ब्रह्मविशेषणस्य व्यर्थत्वाच्च॥२५॥
श्रोत्रादीनीति। संयमो नियमनम्। ननु संयमस्यैकत्वात् कुतः संयमाग्निष्विति बहुत्वम्? अत आह— प्रतीन्द्रियमिति। चक्षुःसंयमो वाक्संयमः श्रोत्रसंयम इत्येवमिन्द्रियभेदात् संयमभेद इति भावः। शब्दादीनिति। ननु इन्द्रियसंयमरूपयज्ञेनैव दाहकत्वाद् विलयस्य वा हेतुत्वादिति द्रष्टव्यम्। यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह— आत्मनामस्विति। आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयति— परमार्थत इति। कथं तर्हि होमः? न हि तस्यैव तत्र होमः सम्भवतीत्याशङ्क्याह— बुद्ध्यादीति। उपाधिसंयोगफलं कथयति— अध्यस्तेति। उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति— आहुतीति। २इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति— उक्तेति। अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत्। आत्मनो ब्रह्मणि होममेव प्रकटयति— सोपाधिकस्येति। अपर इत्यस्यार्थं स्फोरयति— ब्रह्मेति। उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ब्रह्मार्पणमित्यादि- श्लोकैरुपक्षिप्यमाणत्वं दर्शयति— सोऽयमिति। उपक्षेपप्रयोजनमाह— श्रेयानिति॥२५॥
सम्प्रति यज्ञद्वयमुपन्यस्यति— श्रोत्रादीनीति। बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निष्विति बहुवचनमित्याशङ्क्याह— प्रतीन्द्रियमिति। संयमानां प्रत्याहाराधिकरणत्वेन व्यवस्थितानां मनोरूपाणां होमाधारत्वादग्नित्वं व्यपदिशति —संयमा इति। विषयेभ्योऽन्तर्बाह्यानीन्द्रियाणि प्रत्याहरन्तीति संयमयज्ञं सङ्क्षिप्य दर्शयति— इन्द्रियेति। श्रोत्रादीन्द्रियाग्निषु शब्दादि-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अन्ये ब्रह्मविदो यज्ञं यज्ञशब्दवाच्य आत्मा,१आत्मनामसु यज्ञशब्दस्य पाठात्। तमात्मानं यज्ञं परमार्थतः परमेव ब्रह्म सन्तं बुद्ध्याद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधिधर्मकमाहुतिरूपं यज्ञेनैव आत्मनैवोक्तलक्षणेन उपजुह्वति प्रक्षिपन्ति। सोपाधिकस्यात्मनो निरुपाधिकेन परब्रह्मस्वरूपेणैव यद् दर्शनं स तस्मिन् होमः, तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिन इत्यर्थः। सोऽयं सम्यग्दर्शनलक्षणो यज्ञो दैवयज्ञादिषु यज्ञेषूपक्षिप्यते ‘ब्रह्मार्पण’मित्यादिश्लोकैः प्रस्तुतः ‘श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप’ इत्यादिना स्तुत्यर्थम्॥२५॥
श्रोत्रादीनीति।श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु , प्रतीन्द्रियं संयमो भिद्यत इति बहुवचनम् ; संयमा एवाग्नयस्तेषु जुह्वति। इन्द्रियसंयममेव कुर्वन्तीत्यर्थः। शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति, १. द्र. निरुक्तम् १४-११। २. यज्ञं यज्ञेनेति पदद्वयमपि आत्मपरम्। यज्ञेनेति तु न करणे तृतीया, किन्तु इत्थम्भूतलक्षणे। ३. ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति इत्यस्य— अपरे स्रुगादिसाधनेन ब्रह्माग्नौ हविः प्रक्षिपन्ति इति तदभिमतोऽर्थः। श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२६॥
[[२४३]]
शब्दादिविषयग्रहणरूपो यज्ञोऽप्युक्त एवेत्यत आह— श्रोत्रादिभिरिति। विरुद्धाविरुद्धसाधारण्येन सर्वविषयाग्रहणं पूर्वस्मिन् यज्ञे, इह तु विरुद्धविषयाग्रहणमेवेति भेद इत्यर्थः॥२६॥
सर्वाणीति। अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति। इन्द्रियाणां कर्माणि व्यापाराः शब्दस्पर्शादिग्रहणानि, गमनभाषणादीनि च । आत्मनि अध्यात्मम् , तत्र भवति आध्यात्मिकः, आत्मनि संयमो नियमनं मनस इति भावः। आत्मसंयमः, स एव योग आत्मसंयमयोगः, स एवाग्निरात्मसंयमयोगाग्निः, तस्मिन् औपनिषदाभिमत- निर्बीजसमाधावित्यर्थः। वक्ष्यत्यमुं षष्ठाध्याये। ज्ञानेन विवेकविज्ञानेन दीपिते उज्ज्वलभावमापादिते इत्यन्वयः। तत्र दृष्टान्तमाह— स्नेहेनेव प्रदीपे इति। यथा प्रदीपस्तैलेन दीपितो भवति, तद्वदित्यर्थः। जुह्वतीति हविःप्रक्षेपवाचिनो धातोरिह कथं प्रयोगोपपत्तिरत आह— प्रविलापयन्तीति। लीनानि कुर्वन्तीत्यर्थः। अग्नौ हविषः प्रक्षेपणं नाम हविर्विलापनमेव हीति भावः॥२७॥
द्रव्येति। द्रव्यं यज्ञो येषां ते द्रव्ययज्ञाः। साक्षाद्द्रव्यस्य यज्ञत्वरूपक्रियात्वाभावादाह— द्रव्यविनियोगमिति। अतीर्थे द्रव्य- विनियोगस्य व्यर्थत्वेन यज्ञतुल्यत्वाभावादाह— तीर्थेष्विति। गङ्गादिपुण्यक्षेत्रेष्वित्यर्थः। पात्रेष्विति वा। तपः कृच्छ्रचान्द्रायणादिलक्षणं यज्ञो येषां ते तपोयज्ञाः। योगयज्ञा इति। योगः पातञ्जलाभिमत ईश्वरप्रणिधानात्मकः। आत्मदर्शनयज्ञव्यावृत्त्यर्थमाह— विषयहोमस्य तत्तदिन्द्रियैस्तत्तद्विषयोपभोगलक्षणस्य सर्वसाधारणत्वमाशङ्क्य , प्रतिषिद्धान् वर्जयित्वा रागद्वेषरहिताः भूत्वा प्राप्तान् विषयानुपभुञ्जते तैस्तैरिन्द्रियैरिति विवक्षितं होमं विशदयति— श्रोत्रादिभिरिति॥२६॥
यज्ञान्तरं कथयति— किञ्चेति। इन्द्रियाणां कर्माणि श्रवणवदनादीनि। आत्मनि संयमो धारणाध्यानसमाधिलक्षणः३। सर्वमपि व्यापारं निरुध्यात्मनि चित्तसमाधानं कुर्वन्तीत्याह— विवेकेति॥२७॥
यज्ञषट्कमवतारयति— द्रव्येति। तत्र द्रव्ययज्ञान् पुरुषानुपादाय विभजते— तीर्थेष्विति। तपस्विनो यज्ञबुद्ध्या तपोऽनुतिष्ठन्तो नियमवन्त इत्यर्थः। प्रत्याहारादीत्यादिशब्देन यमनियमासनध्यानधारणासमाधयो गृह्यन्ते। यथाविधि प्राङ्मुखत्वपवित्रपाणित्वाद्यङ्ग-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इन्द्रियाण्येवाग्नयः, तेष्विन्द्रियाग्निषु जुह्वति। श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं मन्यन्ते॥२६॥
किञ्च— सर्वाणीति। सर्वाणीन्द्रियकर्माणि इन्द्रियाणां कर्माणीन्द्रियकर्माणि, तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकः, तत्कर्माणि आकुञ्चनप्रसारणादीनि, तानि चापरे आत्मसंयमयोगाग्नौ आत्मनि संयम आत्मसंयमः, स एव योगाग्निः, तस्मिन्नात्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानदीपिते, स्नेहेनेव १प्रदीपिते विवेकविज्ञानेनोज्ज्वल- भावमापादिते २प्रविलापयन्तीत्यर्थः॥२७॥
द्रव्येति। द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः। तपोयज्ञाः तपो यज्ञो येषां तपस्विनां ते तपोयज्ञाः। योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणो योगो यज्ञो येषां ते योगयज्ञाः। तथाऽपरे १.‘प्रदीपे’ इति पा.। २. ‘जुह्वति प्रविलापयन्तीत्यर्थः’इति पा.। ३.तदुक्तम्— ‘त्रयमेकत्र संयमः’(यो.सू. ३-४) इति। धारणादित्रयमेकविषयकं संयमसंज्ञं भवतीति सूत्रार्थः। चित्तस्यैकस्मिन् विषये स्थापनं धारणा। चित्तस्यैकविषयवृत्तिप्रवाहकरणं ध्यानम्। ध्यानमेव ध्येयैकगोचरतया भासमानं वृत्तिप्रतिभासशून्यं समाधिः। सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥२७॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥२८॥
अ. ४. श्लो. २५ - २६ ]
[[२४४]]
शास्त्रार्थपरिज्ञानमिति। शास्त्रं वेदवेदाङ्गादिरूपम्। संशितव्रताः अपरे यतयः द्रव्ययज्ञास्तपोयज्ञा योगयज्ञाः स्वाध्यायज्ञानयज्ञाश्च भवन्तीत्यन्वयः। नात्र द्रव्ययज्ञादीनामेकस्मिन् पुरुषे समुच्चयः, किन्तु केचिद् द्रव्ययज्ञाः, केचित् तपोयज्ञाः, केचिद् योगयज्ञाः, केचित् स्वाध्याययज्ञाः, केचिज्ज्ञानयज्ञाश्च भवन्तीति। अपरे इति पदस्य आवृत्त्या लभ्यतेऽयमर्थः॥२८॥
अपान इति। केचिदपाने प्राणं जुह्वति, तथा अपरे प्राणे अपानं जुह्वति। अन्ये इति शेषः। प्राणापानगती रुद् ध्वा प्राणायामपरायणा भवन्ति। न चास्य श्लोकस्य योगयज्ञेन गतार्थता शङ्क्या, प्राणायामप्रत्याहाराद्यष्टाङ्गयुक्तो योगस्तत्रोक्तः। अत्र तु पूरकस्य रेचकस्य कुम्भकस्य च प्रत्येकं यज्ञत्वमिति भेदात्॥२९॥
अपरे इति। कथं प्राणानां प्राणेष्वेव होमः? इत्यत आह— यस्य यस्येति। पञ्चानां वायूनां मध्ये यो यो वायुर्जितः स्वाधीनो भवति, तस्मिंस्तस्मिन्नितरेषां वायूनां प्रवेशनमेव होम इत्युच्यत इत्यर्थः। एते ‘दैवमेवे’त्यारभ्योक्ता इत्यर्थः॥३०॥
स्वाध्यायज्ञानयज्ञाश्च स्वाध्यायो यथाविधि ऋगाद्यभ्यासो यज्ञो येषां ते स्वाध्याययज्ञाः, ज्ञानयज्ञा ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञो येषां ते ज्ञानयज्ञाश्च यतयो यतनशीलाः संशितव्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशितव्रताः॥२८॥
किञ्च— अपान इति। अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम्। पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः। प्राणेऽपानं तथाऽपरे जुह्वति। रेचकाख्यं च प्राणायामं कुर्वन्तीत्येतत्। प्राणापानगती मुखनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतिः, तद्विपर्ययेणाधोगमनमपानस्य गतिः, ते प्राणापानगती, एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः॥२९॥
किञ्च— अपर इति। अपरे नियताहाराः नियतः परिमितः आहारो येषां ते नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणेष्वेव जुह्वति। यस्य यस्य वायोर्जयः क्रियत इतरान् वायुभेदान् तस्मिंस्तस्मिञ्जुह्वति, ते तत्र प्रविष्टा इव भवन्ति। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः यज्ञैर्यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषाः ॥३०॥
विधिमनतिक्रम्येति यावत्। व्रतानां तीक्ष्णीकरणम् अतिदृढत्वम्॥२८॥
प्राणायामाख्यं यज्ञमुदाहरति— किञ्चेति। प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह— प्राणेति ॥२९॥
प्राणापानयोर्गती श्वासप्रश्वासौ निरुध्य किं कुर्वन्तीत्यपेक्षायामाह— किञ्चेति। प्राणापानगतिनिरोधरूपं कुम्भकं कृत्वा पुनःपुनर्वायुजयं कुर्वन्तीत्यर्थः। आहारस्य परिमितत्वं हितत्वमेध्यत्वोपलक्षणार्थम्। प्राणानां प्राणेषु होममेव विभजते— यस्येति। जितेषु वायुभेदेष्वजितानां तेषां होमप्रकारं प्रकटयति— ते तत्रेति। प्रकृतान् यज्ञानुपसंहरति— सर्वेऽपीति॥३०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥२९॥
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥३०॥
[[२४५]]
यज्ञेति। ननु दैवयज्ञस्यान्नमयत्वादाज्यमयत्वान्मांसमयत्वाद्वा तत्र हुतावशिष्टममृतशब्दवाच्यमन्नाज्यमांसान्यतमं लभ्यते भोक्तुं तत्कर्तुः; कथं पुनर्योगयज्ञादिषु भोक्तव्यलाभ इत्यत आह— तच्छिष्टेन कालेनेति। यज्ञशिष्टममृतं भुञ्जत इत्येकोऽर्थः। यज्ञशिष्ट- कालेन अमृतं भुञ्जत इत्यन्योऽर्थः। अतो नानुपपत्तिरित्यर्थः। यथोक्तयज्ञकारिणामपि सकामत्वे न ब्रह्मप्राप्तिरित्याह— मुमुक्षवश्चेदिति। ननु किं सहसा यान्ति, उत चिरकालेनेत्यत आह— कालेति। ज्ञानयज्ञनिष्ठानामचिरेणैव ब्रह्मप्राप्तिरन्येषां तु चित्तशुद्धिज्ञानप्राप्तिद्वारा चिरकालादेवेति भावः। ननु कथमिदं ज्ञायते? अत आह— सामर्थ्यादिति। ‘ब्रह्मविद् ब्रह्मैव भवति’ ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने’ति च श्रुतिसामर्थ्यादित्यर्थः। यद्वा ‘तेऽर्चिषमभिसम्भवन्ती’त्यादिगतिश्रुतिसामर्थ्यादि- त्यर्थः। अयं लोको मनुष्यलोको मनुष्यलोकाभावो नाम मनुष्यलोकभोग्यपशुकलत्रान्नाद्यभावः। अन्यः स्वर्गादिः। विशिष्टसाधनानि तत्तन्नियतयज्ञादिसाधनानि। कुरुश्रेष्ठस्यार्जुनस्य दर्शितयज्ञसम्पादनं सुलभमेवेति सूचयितुमाह— कुरुसत्तमेति॥३१॥
एवमिति। वेदे क्वोक्ताः इमे यज्ञाः इत्यत आह— वाचि हि प्राणं जुहुम इत्यादय इति। आदिशब्देन ‘प्राणे वा वाचं यो ह्येव यथोक्तयज्ञनिर्वर्तनानन्तरं क्षीणे कल्मषे किं स्यादित्याशङ्क्याह— एवमिति। यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेनाविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति— नायमिति। कथं यथोक्तयज्ञानुष्ठायिनामवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिरित्या- शङ्क्य , मुमुक्षुत्वे सति चित्तशुद्धिद्वारेत्याह— मुमुक्षवश्चेदिति। तत् किमिदानीं साक्षादेव मोक्षो विवक्षितः, तथा च गतिश्रुतिविरोधः स्यादित्याशङ्क्य , गतिनिर्देशसामर्थ्यात् क्रममुक्तिरत्राभिप्रेतेत्याह— कालातीति। तृतीयं पादं व्याचष्टे— नायमिति। विवक्षितं कैमुतिकन्यायमाह— कुत इति। साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिर्दूरनिरस्तेत्यर्थः। यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुल- प्रधानस्यार्जुनस्यानायासलभ्यमिति वक्तुं कुरुसत्तमेत्युक्तम् ॥३१॥
उक्तानां यज्ञानां वेदमूलकत्वेनोत्प्रेक्षानिबन्धनत्वं निरस्यति— एवमिति। आत्मव्यापारसाध्यत्वमुक्तकर्मणामाशङ्क्य दूषयति— कर्मजानिति। आत्मनो निर्व्यापारत्वज्ञाने फलमाह— एवमिति। कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वमित्याशङ्क्याह— वेदद्वारेणेति। तेनावगम्यमानत्वमेवोदाहरति— तद्यथेति। ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’ इत्युपक्रम्याध्ययनाद्याक्षिप्य१
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एवं यथोक्तान् यज्ञान् निर्वर्त्य — यज्ञेति। यज्ञशिष्टामृतभुजो यज्ञानां शिष्टं यज्ञशिष्टम् , यज्ञशिष्टं च तदमृतं च यज्ञशिष्टामृतम् , तद् भुञ्जत इति यज्ञशिष्टामृतभुजः। यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधि चोदितमन्नममृताख्यं भुञ्जत इति यज्ञशिष्टामृतभुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत् , कालातिक्रमापेक्षयेति सामर्थ्याद् गम्यते। नायं लोकः सर्वप्राणिसाधारणोऽप्यस्ति यथोक्तानां यज्ञानामेकोऽपि यज्ञो यस्य नास्ति सोऽयज्ञः तस्य, कुतोऽन्यो विशिष्टसाधनसाध्यः, कुरुसत्तम !॥३१॥
एवमिति। एवं यथोक्ताः बहुविधाः बहुप्रकाराः यज्ञाः वितताः विस्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे। वेदद्वारे- णावगम्यमाना ब्रह्मणो मुखे वितताः उच्यन्ते। तद्यथा ‘वाचि हि प्राणं जुहुमः’(ऐ .आ.३.२.६) इत्यादयः। कर्मजान् यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ! ॥३१॥
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥
अ. ४. श्लो. २८-३२ ] १. ‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’ इति श्रुतिशेषः। तत्राक्षेपार्थककिंशब्देनाध्ययनाद्याक्षेप इत्यर्थः।
[[२४६]]
प्रभवः स एवाप्ययः’ इति वाक्यस्य ग्रहणम्। ननु वेदोक्तानां यज्ञानां कर्मजत्वज्ञानात् कथं मोक्ष आत्मन इत्यत आह— अनात्मजानित्यादि। सर्वेषां यज्ञानां वाङ्मनःकायसाध्यानामनात्मजत्वे ज्ञाते सति निर्व्यापारात्मतत्त्वज्ञानं जायते, तस्माच्च तत्त्वज्ञानान्मुच्यत इति। विमोक्ष्यस इत्युक्ते कस्मादित्याकाङ्क्षा जाता, तत्पूरणायाह— अशुभादिति॥३२॥
श्रेयानिति। सिद्धाः लोकतः सिद्धाः पुरुषार्था धर्मार्थकामाः प्रयोजनानि येषां तैः, यद्वा सिद्धाः लोकशास्त्राभ्यां सिद्धाः पुरुषार्थश्चत्वारः प्रयोजनानि येषां तैः, अथवा सिद्धः, न तु साध्यः, पुरुषार्थो मोक्षः प्रयोजनं येषां तैः। परम्परयेति भाव इति। यद्वा सिद्धं पुरुषार्थभूतं पुरुषापेक्षितलक्षणं प्रयोजनं येषां तैस्तथोक्तैरिति। यज्ञाः साध्यपुरुषार्थप्रयोजनाः, अथवा परम्परया सिद्धपुरुषार्थप्रयोजनाः। ज्ञानं तु साक्षात्सिद्धपुरुषार्थप्रयोजनम्। तस्माज्ज्ञानस्य स्तुतिरुच्यत इति भावः। १यज्ञैर्ज्ञानस्य स्तुतिर्नाम अस्मदपेक्षया ज्ञानमुत्कृष्टमिति यज्ञाः प्रतिपादयन्तीत्यर्थः। यज्ञविदो ज्ञानं सर्वयज्ञोत्कृष्टमिति वदन्तीति यावत्। अचेतनानां यज्ञानां स्तावकत्वासम्भवात्। द्रव्यमयादित्यत्र द्रव्यशब्दो यज्ञसाधनहविरादिद्रव्यपर इत्याह— द्रव्यसाधनसाध्यादिति। द्रव्यात्मकसाधनसाध्यादित्यर्थः। कर्मयज्ञादिति यावत्। अनेन च प्राणायामादिसाधनसाध्याः सर्वेऽपि यज्ञाः सङ्गृहीताः। वाचिकमानसिककायिकान्यतमकर्ममयत्वात् तेषाम्। तत्र दैवयज्ञद्रव्ययज्ञतपोयज्ञाः कायिककर्मयज्ञाः, स्वाध्याययज्ञो वाचिककर्मयज्ञः, आत्मसंयमयोगशास्त्रार्थज्ञानयज्ञाः मानसिककर्मयज्ञाः, प्राणायामादयोऽपि कायिककर्मयज्ञा एवेति विवेकः। एभ्यः सर्वेभ्योऽपि यज्ञेभ्यो ज्ञानयज्ञ उत्कृष्टः। यदि त्वेकवचननिर्देशबलाद् द्रव्ययज्ञादित्यस्य दैवयज्ञादित्यर्थ उच्येत, तर्हि दैवयज्ञादेव ज्ञानयज्ञ उत्कृष्टो, न तु तपोयज्ञादिभ्य इत्यापतेत् तच्चानिष्टम् , ज्ञानस्य सर्वोत्कृष्टत्वात्। हेत्वाकाङ्क्षायामुक्तम्— वाचि हीति। ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपसंहारोऽत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’ इति वाक्यमादिशब्दार्थः। ज्ञानशक्तिमतां क्रियाशक्तिमतां चान्योन्योत्पत्तिप्रलयत्वात् तदभावे नाध्ययनादिसिद्धिरित्यर्थः। कर्मणा- मात्मजन्यत्वाभावे हेतुमाह— निर्व्यापारो हीति। तस्य च निर्व्यापारत्वं फलवत्त्वाज्ज्ञातव्यमित्याह— अत इति। एवं ज्ञानमेव ज्ञापयन्नुक्तं व्यनक्ति— नेत्यादिना॥३२॥
कर्मयोगेऽनेकधाऽभिहिते सर्वस्य श्रेयःसाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानमनाद्रियमाणमर्जुनमालक्ष्य वृत्तानुवाद- पूर्वकमुत्तरश्लोकस्य तात्पर्यमाह— ब्रह्मेत्यादिना। सिद्धेति। सिद्धं पुरुषार्थभूतं पुरुषापेक्षितलक्षणं प्रयोजनं येषां यज्ञानां तैः। अनन्तरोपदिष्टैरिति यावत्। प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति—कथमित्यादिना। ज्ञानयज्ञस्य द्रव्ययज्ञात् प्रशस्यतरत्वे हेतुमाह— सर्वमिति। द्रव्यसाधनसाध्यादित्युपलक्षणं स्वाध्यायादेरपि। ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषात्। द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कायिकवाचिकमानसकर्मोद्भवान् विद्धि तान् सर्वान् अनात्मजान्। निर्व्यापारो ह्यात्मा। अत एवं ज्ञात्वा विमोक्ष्यसे ऽशुभात्। ‘न मद् व्यापारा इमे, निर्व्यापारोऽहमुदासीनः’ इत्येवं ज्ञात्वाऽस्मात् सम्यग्दर्शनाद् , मोक्ष्यसे संसार- बन्धनादित्यर्थः॥३२॥
‘ब्रह्मार्पण’मित्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं सम्पादितम्। यज्ञाश्चानेके उपदिष्टाः। तैः सिद्धपुरुषार्थ- प्रयोजनैः ज्ञानं स्तूयते। कथम्? — श्रेयानिति। श्रेयान् द्रव्यमयाद् द्रव्यसाधनसाध्याद् यज्ञाद् ज्ञानयज्ञः, हे परन्तप ! श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप !। सर्वं कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते ॥३३॥
१. भाष्ये ‘तैः सिद्धपुरुषार्थप्रयोजनैः ज्ञानं स्तूयते’ इत्यत्र तृतीयान्तं कर्तृपदत्वेनात्र व्याख्यातम्। वस्तुतस्तु करणे तृतीयेति युक्तम्।
[[२४७]]
कुतः पुनरस्योत्कर्ष इत्यत आह— द्रव्यमयो हीति। फलस्य स्वर्गादिरूपस्य। न च ज्ञानमपि मोक्षफलारम्भकमिति वाच्यम् , मोक्षस्य नित्यसिद्धत्वेनानारभ्यमाणत्वात् , ब्रह्मस्वरूपत्वेन नित्याप्तत्वाच्च। तत्र फलत्वं तु कल्पितमेव। न च ज्ञानस्य वैयर्थ्यम् , अविद्याकृतो यो मया मोक्षो नावाप्त इत्याकारको भ्रमः, तन्निवृत्त्यर्थं ज्ञानस्यावश्यकत्वात्। सर्वस्य कर्मणो ज्ञाने परिसमाप्तिर्नाम मोक्षसाधनज्ञाने कर्मान्तर्भावः? इत्याह— अन्तर्भवतीत्यर्थ इति। ज्ञाने कथं कर्मणो ऽन्तर्भाव इत्यत्र श्रुतिं प्रमाणयति— यथेति। कृतायविजिताय, अधरे अयाः इति च्छेदः। अयो द्यूतम्। कृतसंज्ञोऽयः कृतायः, स विजितो येन तस्मै कृतायविजिताय, आहिताग्न्यादित्वात् परनिपातः। विजितकृतायायेत्यर्थः। अधरे अपकृष्टाः अयाः त्र्यङ्कादयः संयन्ति उपनयन्ति, तेन जिता भवन्तीत्यर्थः। कृतत्रेताद्वापरकलिसंज्ञकानि चत्वारि द्यूतानि। तत्र कृतं चतुरङ्कं, त्रेता त्र्यङ्का, द्वापरो द्व्यङ्कः, कलिरेकाङ्कः। कृतादियुगेषु धर्मवृषभस्य ५चतुष्पादत्वाद्यभिधानादियं कल्पना। तत्र चतुरङ्के कृताख्ये द्यूते त्र्यङ्कादित्रेतादि- द्यूतानामन्तर्भावः, चतुर्षु त्र्यादिसत्त्वादिति यथा एवं तथा यत्किञ्च यत्किञ्चित् साम साधुकर्म प्रजाः कुर्वन्ति तत् सर्वमेनम् अभिसमेति प्राप्नोति, अनेन जितं भवतीत्यर्थः। क एष इत्यत आह— यस्तद्वेदेति। यः तद्वेद्यं वेद तमेनमभिसमेतीत्यर्थः। किं तद्? अत आह— यत् स वेदेति। यत् स रैक्वो वेद तद्वेद्यं ब्रह्मेत्यर्थः। यथा कृतजयादितरद्यूतजयः, एवं ज्ञानलाभात् सर्वकर्मसिद्धिः। कृते त्रेतादीनामिव ज्ञाने कर्मणामन्तर्भावादिति श्रुत्यर्थः। ननु चतुर्षु त्र्यादीनां सत्त्वादन्तर्भाव उचितः, कथं पुनर्ज्ञाने कर्मणां सत्त्वम् , येन तत्र तेषामन्तर्भाव उच्येतेति चेद्? उच्यते— सर्वेषां कर्मणामात्मनि कल्पितत्वादात्मनि ज्ञाते सति सर्वाणि कर्माणि कृतप्रायाण्येवेत्यभिप्रायाद् ज्ञाने कर्मणामन्तर्भाव उक्तः। यद्वा एकस्यैवात्मनः सर्वबुद्धिवृत्तिसाक्षित्वात्। विज्ञानात्मबुद्धिशब्दवाच्यजीवसमूहकृतानि सर्वाणि कर्माणि आत्मसाक्षिकाण्येवेति कृत्वा आत्मज्ञानेन सर्वकर्माणि ज्ञातान्येवेत्यभिप्रायात्। अथवा एकस्यैव ममात्मनः सन्निधानाद् वाङ्मनःकायाः कर्म कुर्वन्तीति यो जानाति प्रशस्यतरत्वं प्रपञ्चयति— द्रव्यमयो हीति। फलस्य अभ्युदयस्येत्यर्थः। न फलारम्भको न कस्यचित् फलस्योत्पादकः, किन्तु नित्यसिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः। तस्य प्रशस्यतरत्वे हेत्वन्तरमाह— यत इति। समस्तं कर्मेत्यग्निहोत्रादिकमुच्यते। अखिलम् अविद्यमानं खिलं शेषोऽस्येत्यनल्पं महत्तरमिति यावत्। सर्वमखिलमिति पदद्वयोपादानमसङ्कोचार्थम्। सर्वं कर्म ज्ञानेऽन्तर्भवतीत्यत्र छान्दोग्यश्रुतिं प्रमाणयति— यथेति। चतुरायके हि द्यूते कश्चिदायश्चतुरङ्कः सन् कृतशब्देनोच्यते, ३तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मादधस्ताद्भाविनः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः संयन्त्यायाः सङ्गच्छन्ते। चतुरङ्के खल्वाये त्रिद्व्येकाङ्कानामायाना- मन्तर्भावो भवति, महासङ्ख्यायामवान्तरसङ्ख्यान्तर्भावावश्यम्भावाद् , एवम् एनं विद्यावन्तं पुरुषं सर्वं तदाभिमुख्येन समेति सङ्गच्छति। किं तत् सर्वं यद् विदुषि पुरुषेऽन्तर्भवति? तदाह— यत्किञ्चिदिति। प्रजाः सर्वा यत् किमपि साधु कर्म कुर्वन्ति तत् सर्वमित्यर्थः। एनमभिसमेतीत्युक्तं तमेव विद्यावन्तं पुरुषं विशिनष्टि— यस्तदिति। ४किं तदित्युक्तम् ? तदेव विशदयति— यत् स इति। स रैक्वो यत्
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञो न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः। कथम्? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ! ज्ञाने मोक्षसाधने सर्वतःसम्प्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः। ‘यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्चित् [यत्किञ्च] प्रजाः १साधु कुर्वन्ति यस्तद्वेद यथा कृतायेति। चतुरायके हि द्यूतविशेषे चतुरङ्क एक आयः कृतशब्देनोच्यते, तस्मै कृताय विजिताय तादर्थ्येनाधरे २आयाः त्र्यङ्क- द्व्यङ्क - एकाङ्काः त्रेताद्वापरकलिनामानः संयन्ति सङ्गच्छन्ते यथा, एवमित्यर्थः॥३३॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ. ४. श्लो. ३२-३३ ] १.‘साम’ इति रा.पा.। २.श्रुतौ अयः इति ह्रस्वयुक्तः पाठः। द्र.परिमलः पृ.२१५। ३.एतत्पक्षे कृताय विजितायेति व्यस्तं पदद्वयम्। ४.तदिति किमुक्तमित्यन्वयः। ‘किं तदित्युक्ते’ इति पा.। ५.वृषभत्वेन रूपितस्य धर्मस्य चतुष्पादत्वं, क्रमेण त्रेतादिषु युगेषु एकैकपादह्रासश्चेति भागवतादौ प्रसिद्धम्। द्र. भाग. १२-३-१८।
[[२४८]]
स हि सर्वेषां कर्मणामात्माधीनत्वं पश्यतीत्यभिप्रायात्— इति। एतावता आत्मज्ञानमेव दुर्लभम् , कर्माणि तु सुलभान्येव, आत्मज्ञाने लब्धे तु सर्वाणि कर्माणि फलैः सह लब्धान्येव, आत्मनोऽवाप्तसमस्तकामत्वादिति आत्मज्ञानस्य प्राशस्त्यं सिद्धम्। मूले सर्वम् अखिलमिति पदद्वयस्य पौनरुक्त्यं न शङ्क्यम् , प्रधानावान्तरसर्वभेदसङ्ग्रहार्थं पदद्वयप्रयोगात्। अत्र रामानुजः— उभयाकारे कर्मणि कर्मांशाज्ज्ञानांशः श्रेयानिति व्याचख्यौ, तदयुक्तम् , कर्मणः उभयाकारत्वस्यैवासिद्धेः। कर्म सर्वथा कर्माकारमेव, ज्ञानं ज्ञानाकारमेव। न हि कर्मज्ञानयोरितरेतराकारत्वं सम्पादयितुं शक्यते। किञ्च ज्ञानकर्मोभयांशयुक्तस्य कथं कर्मत्वम्? अपि तु उभयत्वमेव स्यात्॥३३॥
तदिति। विशिष्टमिति सर्वकर्मपरिसमाप्तिस्थानत्वादिविशेषणयुक्तमित्यर्थः। प्रशस्ततममिति वा। केनेति। केनोपायेनेत्यर्थः। प्रणिपातेन परिप्रश्नेन सेवया च आवर्जिता इति शेषः। तत्त्वदर्शिनो ज्ञानिनः ते ज्ञानमुपदेक्ष्यन्तीति। तद् विद्धि तदित्यस्य ज्ञानप्राप्त्युपायमित्यर्थः। ‘येन विधिना प्राप्यते तद् विद्धी’ति भाष्यात्। तज्ज्ञानं प्रणिपातादिना विद्धीत्यन्वयस्त्वयुक्तः, प्रणिपातादीनां ज्ञानकरणत्वाभावात्। न हि प्रणिपातादिना ज्ञानं वेद्यते, किन्तु मनसा। नापि प्रणिपातादिना ज्ञानं प्रतिपाद्यते, किन्तु शास्त्रेण। तस्माद् रामानुजोक्तान्वयो दुष्टः। यद्यपि विद्धीत्यस्य लभस्वेत्यर्थाश्रयणेऽयमप्यन्वयः साधुस्तथापि वेत्तेर्लाभार्थकथनमयुक्तमिति२ वेद्यम्। तदिति क्लीबत्वं तु ज्ञानप्राप्तिसाधनपरतयेति बोध्यम्। येन विधिना ज्ञानं प्राप्यते तत् तं विधिमित्यर्थः,वदतो मत्त इति शेषः, विद्धि। तमेव विधिं दर्शयति— प्रणिपातेनेत्याद्यवशिष्टश्लोकभागेन इति वाऽन्वयः। अथवा यदित्युत्तरश्लोकस्थयच्छब्दस्वारस्यात् तदिति पदमत्रत्यज्ञानविशेषणम्। प्रणिपातेन परिप्रश्नेन सेवया चावर्जितास्तत्त्वदर्शिनो ज्ञानिनस्ते तज्ज्ञानमुपदेक्ष्यन्तीति विद्धि। अनयाऽपि योजनया ज्ञानप्राप्त्युपाय एवानेन श्लोकेनोक्त इति न भाष्यविरोधः। ते तुभ्यमित्यर्थः। ननु भगवताऽर्जुनायोपदिष्टमेव ज्ञानमिति न ज्ञानप्राप्त्युपायजिज्ञासाऽर्जुनस्य स्यादिति चेत्? मा भवत्वर्जुनस्य ज्ञानप्राप्त्याकाङ्क्षा, प्राप्तज्ञानत्वात्। तथापि लोकानुग्रहाय ज्ञानप्राप्त्युपायं जिज्ञासुमर्जुनमालक्ष्य भगवतोक्तमिदमिति। यद्वा त्वयोक्तमिदं ज्ञानं यदि मया केनापि हेतुना विस्मृतं भविष्यति, तदा कः पुनर्मम ज्ञानप्राप्त्युपायः इतीममर्जुनस्य प्रश्नमुत्प्रेक्ष्याह भगवान्— तत्त्वं वेद तत् तत्त्वं योऽन्योऽपि जानाति तमेनं सर्वं साधु कर्माभिसमेतीति योजना॥३३॥
यद्येवं प्रशस्यतरमिदं ज्ञानम् , तर्हि केनोपायेन तत्प्राप्तिरिति पृच्छति— तदेतदिति। ज्ञानप्राप्तौ प्रत्यासन्नमुपायमुपदिशति— उच्यत इति। तद् विज्ञानं गुरुभ्यो विद्धि। गुरवश्च प्रणिपातादिभिरुपायैरावर्जितचेतसो वदिष्यन्तीत्याह— तद्विद्धीति। १उपदेष्टृत्वम् उपदेशकर्तृत्वं परोक्षज्ञानमात्रेण न भवतीत्याह— उपदेक्ष्यन्तीति[तत्त्वदर्शिन इति]। तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते, येन विधिनेति शेषदर्शनात्। यद्वा येनाचार्यावर्जनप्रकारेण तदुपदेशवशादपेक्षितं ज्ञानं लभ्यते तथा तद् ज्ञानमाचार्येभ्यो लभस्वेत्यर्थः। तदेव स्फुटयति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यत् स वेद’(छा.उ. ४.१.४) इति श्रुतेः॥३३॥
तदेतद् विशिष्टं ज्ञानं तर्हि केन प्राप्यत इत्युच्यते— तद्विद्धीति। तद् विद्धि विजानीहि येन विधिना प्राप्यत इति। आचार्यानभिगम्य प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घनमस्कारः तेन , ‘कथं बन्धः? कथं मोक्षः? का तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४॥
१. उपदेष्टृत्वम् उपदेशकर्तृत्वमित्यनयोः एकमेवापेक्षितम्। २. विद्धि इति वेत्तेरेव रूपम् , न तु विन्दतेरिति भावः। फलितार्थपरत्वे तु न दोषः।
[[२४९]]
तद्विद्धीति। ननु योऽर्थः स्वेनाज्ञातः तमर्थं जिज्ञासुः पुरुषः तज्ज्ञमन्यं प्रार्थयेतैवेति लोकतः सिद्धत्वाद् व्यर्थमिदं वचनम् ,अत आह— ये इति। नेतरदिति। इतरद् अतत्त्वविदुपदिष्टम्। गुरूपदेशं विना स्वेन शास्त्रविचाराज्ज्ञातं वा कार्यक्षमं न भवतीत्यर्थः। कार्यं चात्र अविद्यानिवृत्तिः, तस्या एव मोक्षत्वात् , मोक्षस्य तत्पूर्वकत्वादिति वा। न च कार्यं मोक्ष इति वाच्यम् , मोक्षस्य सिद्धत्वेन साध्यत्वलक्षणकार्यत्वाभावात्। कथं तत्त्वदर्शिनो निष्कामाः उपदेक्ष्यन्तीत्यत आह भगवान्— प्रणिपातेनेत्यादि। आवर्जिताः स्वाधीनीकृताः। यथा भगवान् प्रणिपातादिलक्षणया भक्त्या भक्तपरवशो भवति, तद्वद् विद्वांसोऽपीति भावः। अनेन च न धनादयस्तत्त्वविदावर्जने हेतवः, किन्तु प्रणिपातादय एवेति। गुरोश्च न नैर्घृण्येन भवितव्यम् , किन्तु शिष्यवत्सलतयैवेति सूचितम्। ततश्च तत्त्वविदोऽपि शिष्यानुग्रहार्थं शास्त्रपाठभाष्यरचनादिव्यवहारो न दोषाय, किन्तु गुणायैवेति सिद्धम्। अन्यथा शास्त्रार्थसम्प्रदायस्यैव विच्छेदप्रसङ्गात्। तत्त्वविदि भगवति कृष्णे तूष्णीं स्थिते सति गीताशास्त्रस्यैवाप्रवृत्तिप्रसङ्गात्। यथा गुरुः शिष्यवत्सलो भवेत् तथा शिष्येण यतितव्यम् , न तूदासितव्यम् , नापि कुपितव्यम् , किन्तु सविनयं तत्र वर्तितव्यमित्याह— प्रश्रयेणावर्जिता इति॥३४॥
समर्थमिति। सार्थकमित्यर्थः। आत्मविदुपदिष्टं ज्ञानमेव कार्यक्षमं नेतरदित्यभ्युपगते सति यज्ज्ञात्वेतीदं वचनमर्थवत् स्यादिति भावः। यदिति। हे पाण्डव! यज्ज्ञात्वा पुनरेवं मोहं न यास्यसि, येनाशेषेण भूतानि आत्मनि मय्यथो द्रक्ष्यसि। इदानीमिति। मदुपदेशात् प्रागित्यर्थः। न तूपदेशकाले इति भ्रमितव्यम् , तदा मोहायोगात्। न हि भगवानतत्त्ववित् , येन तदुपदिष्टं ज्ञानं मोहनिवर्तनाक्षमं स्यादिति शङ्क्येत। ननु व्यर्थमिदं वचनम् , येन वाताङ्कुशादिभेषजेन यस्येदानीं वातादिरोगः शान्तः स हि पुनर्वातादिरोगप्राप्तौ वाताङ्कुशादि- — आचार्यानिति। एवमादिनेत्यादिशब्देन शमादयो गृह्यन्ते। एवमादिना विद्धीति पूर्वेण सम्बन्धः। उत्तरार्धं व्याचष्टं— प्रश्रयेणेति। प्रश्रयो भक्तिश्रद्धापूर्वको निरतिशयो नतिविशेषः। यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः। विशेषणस्य पौनरुक्त्य- परिहारार्थमर्थभेदं कथयति— ज्ञानवन्तोऽपीति। ज्ञानिनः इत्युक्त्वा पुनस्तत्त्वदर्शिनः इति ब्रुवतो भगवतोऽभिप्रायमाह— ये सम्यगिति। बहुवचनं चैतद् आचार्यविषयं बहुभ्यः श्रोतव्यं बहुधा चेति सामान्यन्यायाभ्यनुज्ञानार्थम् , न त्वात्मज्ञानमधिकृत्याचार्यबहुत्वं विवक्षितम् , तस्य तत्त्वसाक्षात्कारवदाचार्यमात्रोपदेशादेवोदयसम्भवात् ॥३४॥
विशिष्टैराचार्यैरुपदिष्टे ज्ञाने कार्यक्षमे प्राप्ते सति समनन्तरवचनमपि योग्यविषयमर्थवद्भवतीत्याह—तथा चेति। अतस्तस्मिन् विशिष्टे ज्ञाने कार्यक्षमे त्वदीयमोहापोहहेतौ निष्ठावता भवितव्यमिति शेषः। तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि— येनेति। यज्ज्ञात्वेत्ययुक्तं ज्ञाने ज्ञानायोगादित्याशङ्क्य प्राप्त्यर्थत्वमधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति— अधिगम्येति। इतश्चाचार्योपदेशलभ्ये ज्ञाने
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विद्या? का चाविद्या?’ इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवमादिना। प्रश्रयेणावर्जिता आचार्याः उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनो ज्ञानवन्तोऽपि केचिद् यथावत् तत्त्वदर्शनशीलाः, अपरे न, अतो विशिनष्टि — तत्त्वदर्शिन इति। ये सम्यग्दर्शिनस्तैरुपदिष्टं ज्ञानं कार्यक्षमं भवति, नेतरदिति भगवतो मतम्॥३४॥
तथा च सतीदमपि समर्थं वचनम् — यदिति। यज्ज्ञात्वा यद् ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य१ पुनः भूयो १. ज्ञात्वा इति पदस्य विवरणम् अधिगम्येति। प्राप्येति तु तदर्थाविष्करणम्। यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव !। येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥
[[अ. ४. श्लो. ३३-३५]] [[२५०]]
भेषजमेवास्य निवर्तकमिति स्वयमेव जानीयादेव यथा, तद्वदिदानीं यज्ज्ञानं मोहनिवर्तकं तादृशं ज्ञानं पुनरपि मोहे सति तन्निवर्तकं स्यादेवेति स्वत एव जानीयादर्जुन इति चेत् , मैवम्। इदानीं महानुभावेन साक्षाद् भगवता कृष्णेनोपदिष्टत्वादस्य ज्ञानस्य मोहनिवर्तकत्वं युक्तम्। श्रीरामप्रयुक्तस्य तृणस्यापि काकासुरोद्वेजकत्ववत्। अस्मिन् ज्ञाने विस्मृते सति पुनर्मोहप्रसङ्गः, तदपनयनाय यदर्वाक्तनैर्गुरुभिरुपदिश्यते ज्ञानम् , तस्य मोहनिवर्तकत्वमस्ति वा न वेति शङ्का जायेतैवार्जुनस्य। तदपगमेन सार्थकमिदं वचनम्। मयेव तत्त्वविद्भिरप्युपदिष्टं ज्ञानं मोहनिवर्तकमेव, न तु व्यर्थम् , ममेव तेषामपि तत्त्ववित्त्वांशे भेदाभावादिति भगवता विवक्षितत्वात्। यद्वा मया सङ्ग्रहेणोक्तं ते ज्ञानम् , अवकाशाभावात् , यदि विस्तरेण शुश्रूषा तर्हि तत्त्ववित्सकाशं गत्वा तेभ्यो विस्तरेण शृणु। इदं तु मयोक्तं सङ्क्षिप्तं ज्ञानं तात्कालिकमोहनिवर्तनक्षममपि न भविष्यन्मोहनिवर्तनक्षमम्। तस्मात् त्वं युद्धानन्तरं तत्त्ववित्सकाशं गत्वा पुनर्विस्तरेण ज्ञानं लभस्व। सति विस्तृतज्ञाने न पुनर्मोहोदयप्रसङ्ग इति। अथवा भगवदुपदिष्टज्ञानान्मम मोहः शान्तः, तत्त्वविदुपदिष्टज्ञानात् किं फलं भवेल्लोकस्येतीममर्जुनस्य प्रश्नमुत्प्रेक्ष्याह भगवान्— यज्ज्ञात्वेति। अर्जुनस्तु लोकस्थानीयतयेहोपनिबद्ध इति यास्यसीत्युक्तम्। एवं ज्ञानस्य मोहनिवर्तकत्वमेकं फलमुक्तम्। अथ फलान्तरमाह— येन भूतानीति। यद्वा ज्ञानान्मोहे निवृत्ते सति पश्चात् किं स्यादत आह— येनेति। स्वप्नवदात्मन्येव सर्वप्रपञ्चस्य कल्पितत्वात् सर्वजगदधिष्ठाने मय्येव सर्वभूतानि वर्तन्त इति ज्ञास्यसि, तथा वासुदेवे परमेश्वरे चेमानि सर्वाणि भूतानि वर्तन्त इत्यपि ज्ञास्यसि। त्वयि मयि च द्रक्ष्यसि भूतानीत्यनेन किं लब्धमत आह— क्षेत्रज्ञेति। क्षेत्रं शरीरेन्द्रियप्राणबुद्ध्यादिकं जानातीति क्षेत्रज्ञ आत्मा अन्तःकरणोपहितचैतन्यं कूटस्थः बुद्ध्यादिसाक्षी, ईश्वरः मायोपहितं चैतन्यम् , तयोरुभयोरेकत्वमभेदं द्रक्ष्यसि ज्ञास्यसि। उपाधिकृत एव भेदो न वास्तविकः, उभयोरपि निर्धर्मकपरमानन्दबोधरूपत्वात् , एकस्यैव चैतन्यस्य मायोपहितत्वेनेश्वर इति, अन्तःकरणोपहितत्वेनात्मेति च भेदव्यहारस्य कल्पितत्वात्। ततश्च वस्तुत ईश्वर एवाहमिति ज्ञास्यतीत्यर्थः। अयं भावः – ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिना सर्वजगदधिष्ठानं ब्रह्मेति निश्चिनोति विद्वान् वेदान्तश्रवणवशात्। पश्चान्मननादिना तु स्वस्यैव सर्वजगदधिष्ठानत्वे ज्ञाते सति स्वस्मिन्नेव सर्वं जगत् पश्यति। तथा सर्वजगदधिष्ठानत्वादात्मानमेव ब्रह्म पश्यतीति अयमेव ब्रह्मसाक्षात्कारो मुक्तिरिति नित्यमुक्तात्मसाक्षात्कारे सति बन्धभ्रमनिवृत्तेरिति। यत्तु रामानुजः— प्रकृतिविनिर्मुक्तं सर्वमात्मवस्तु परस्परं समम् , सर्वेश्वरेण च सममित्यस्य श्लोकस्य फलितार्थमाह, यच्च वेदान्तदेशिकः— स्वात्मनि निदर्शनभूते स्थालीपुलाकादिन्यायेन सर्वाणि भूतानि द्रक्ष्यसीति, अथो मयीत्यस्य मन्निदर्शनेन स्वात्मानं परांश्च द्रक्ष्यसीत्यर्थः इति, तत् सर्वं तुच्छम् , आत्मनो निदर्शनत्वे आत्मानमिव सर्वाणि भूतानि द्रक्ष्यसीति वक्तव्यत्वात्। अधिकरणे सप्तम्या विहितत्वेन कर्मणि सप्तम्या अयोगात्। नापि ‘यस्य च भावेने’ति भावलक्षणसप्तम्युचिता, आत्मनि निदर्शनभूते सतीति सर्वभूतदर्शनं प्रति आत्मनिदर्शनत्वस्य भावलक्षणत्वायोगात्। निदर्शनभूतपदस्य मूलाद्बहिःकल्पनस्याप्रमाणत्वात्। भवन्तीति भूतानीति भूतशब्दस्य देहेन्द्रियादिकार्यसङ्घातवाचिनः अजे नित्ये आत्मनि प्रयोगायोगात्। प्रकृतिविनिर्मुक्तत्वे सति आत्मनो भेदकाभावान्नैवानेकात्मसिद्धिरिति सर्वमात्मवस्त्वित्यप्ययुक्तम् , आत्मनामीश्वरतौल्यं फलवति प्रतिष्ठावता भवितव्यमित्याह— किञ्चेति। जीवे चेश्वरे चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे भेदवादानुमतिः स्यादित्याशङ्क्याह — क्षेत्रज्ञेति। मूलप्रमाणाभावे कथं तदेकत्वदर्शनं स्यादित्याशङ्क्याह— सर्वेति॥३५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मोहम् एवं यथेदानीं मोहं गतोऽसि, पुनरेवं न यास्यसि, हे पाण्डव !। किञ्च येन ज्ञानेन भूतानि अशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षाद् आत्मनि प्रत्यगात्मनि ‘मत्संस्थानीमानि भूतानी’ति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति। क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः॥३५॥
[[२५१]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
चायुक्तम् , नियाम्यनियामकादिभेदसद्भावात्। वस्तुतश्चैतन्यात्मना साम्यमिति चेत् , न तत् साम्यम् , किं त्वभेद एव, चैतन्यस्यैकत्वाद् अनेकचैतन्यकल्पनायोगात्। न च घटत्ववच्चैतन्यजात्यभेदेऽपि घटवच्चेतनव्यक्तिभेद इति वाच्यम् , व्यक्तिभेदप्रयोजकाकारभेदस्य निराकारे आत्मन्यसम्भवाद् घटवत्। न च घटाकाशानामिवोपाधितो भेद इति वाच्यम् , प्रकृतिविनिर्मुक्तमात्मवस्त्विति त्वया निरुपाधिकस्यैवात्मनो गृहीतत्वात्॥३५॥
अपीति। ‘शस्तं चाथ त्रिषु द्रव्ये पापपुण्यसुखानि चे’त्यमरादाह— पापेभ्यः पापकृद्भ्य इति। पापवद्भ्य इत्यर्थः। पापाद् गुणभूतात् पापकृतो द्रव्यस्यातिशयस्य वक्तुमशक्यत्वात् पापशब्दोऽत्र द्रव्यवाची गृहीतः, सर्वपापिष्ठपुरुषोत्तमः इत्यर्थः। ज्ञाने प्लवत्वारोपादाह— वृजिनार्णवमिति। प्लवेनार्णवमिव ज्ञानेन वृजिनं सन्तरिष्यसीत्यर्थः। ननु ज्ञानेन पापस्य नाशे पुण्यमवशिष्यते, ततश्च देवादिजन्मरूपसंसार इत्यत आह—धर्मोऽपीति। वृजिनशब्देन पुण्यम- प्युच्यते, कुतः? मुमुक्षोः पुण्यस्यापि पापत्वादित्यर्थः। एतेन पापपुण्यात्मकं संसारसमुद्रं ज्ञानप्लवेनैव सन्तरिष्यसीत्युक्तं भवति॥३६॥
यथेति। भस्मसाद् भस्मसाधीनम्४[भस्माधीनम्]। फलितमाह—भस्मीभूतमिति। निर्बीजमिति। बीजसत्त्वे पुनः कर्माङ्कुरो- दयादिति भावः। कर्मणां बीजं चाज्ञानमेव। ननु अग्निरिन्धनानीव ज्ञानाग्निः कर्माणि भस्मीकरोत्येवेति कृत्वा कथमुक्तं निर्बीजं १. एतदुत्तरं - ‘पापम्’ इति, ‘पापसमुद्रम्’ इति चाधिकः पाठः। २. ‘भस्मीभूतं कुरुते, हेऽर्जुन ! एवं ज्ञानमेव’ इति पा.। ३. ‘निर्बीजं करोतीत्यर्थः’ इति पा.। ४. ‘तदधीनवचने’ (पा.सू. ५-४-५५) इति सातिप्रत्ययः इति भावः। किं चैतस्य ज्ञानस्य माहात्म्यम् — अपीति। अपि चेदसि पापेभ्यः पापकृद्भ्यः सर्वेभ्योऽतिशयेन पापकृत् पापकृत्तमः, सर्वं ज्ञानप्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनं वृजिनार्णवं१ संतरिष्यसि। धर्मोऽपीह मुमुक्षोः पापमुच्यते ॥३६॥
ज्ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते— यथेति। यथा एधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्तोऽग्निः भस्मसाद् २भस्मीभावं कुरुते, हेऽर्जुन ! । ज्ञानमेवाग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा। ३निर्बीजीकरोतीत्यर्थः। न हि साक्षादेव ज्ञानाग्निः कर्माणीन्धनवद् भस्मीकर्तुं शक्नोति। तस्मात् सम्यग्दर्शनं सर्वकर्मणां अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥३६॥
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन !। ज्ञानस्य प्रकारान्तरेण प्रशंसां प्रस्तौति— किञ्चेति। पापकारिभ्यः सर्वेभ्यः सकाशादतिशयेन पापकारित्वमेकस्मिन्नसम्भावित- मपि ज्ञानमाहात्म्यप्रसिद्ध्यर्थमङ्गीकृत्य ब्रवीति— अपि चेदिति। ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यमिदानीं प्रकटयति— सर्वमिति। अधर्मे निवृत्तेऽपि धर्मप्रतिबन्धाज्ज्ञानवतोऽपि न मोक्षः सम्भवतीत्याशङ्क्याह— धर्मोऽपीति। इहेत्यध्यात्मशास्त्रं गृह्यते॥३६॥
ज्ञाने सत्यपि धर्माधर्मयोरुपलम्भात् कुतस्ततो निवृत्तिरित्याशङ्क्य, ज्ञानस्य धर्माधर्मनिवर्तकत्वं दृष्टान्तेन दर्शयितुमनन्तर- श्लोकमवतारयति— ज्ञानमिति। योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदहरति— यथेति। दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे —ज्ञानाग्निरिति। योग्यविषयेऽपि दाहकत्वमग्नेरप्रतिबन्धापेक्षयेति विवक्षित्वा विशिनष्टि—सम्यगिति। दार्ष्टान्तिकं व्याचष्टे— ज्ञानमेवेति। ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, निर्बीजीकरोति कर्मेति किमिति व्याख्यानमित्याशङ्क्याह— न हीति। ज्ञानस्य आनन्दगिरिकृतव्याख्या अ. ४. श्लो. ३५-३७ ]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति न भवति? निर्बीजीकरोतीति किमिति व्याख्यातम्? इत्याशङ्क्याह— न हि
[[२५२]]
साक्षादेव ज्ञानाग्निरिति। ज्ञानस्य स्वप्रमेयाज्ञाननिवर्तन एव लोके सामर्थ्यस्य दृष्टत्वादविक्रियब्रह्मात्मज्ञानमपि अकर्तृत्वाज्ञानं कर्तृत्वभ्रमद्वारेण कर्मबीजभूतं निवर्तयति। न तु साक्षात् कर्मदाहकमित्यर्थः। ननु मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकं चेत् सम्यग्ज्ञानं, तर्हि प्रवृत्तफलस्यापि कर्मणो निवृत्तिप्रसङ्गाद् ज्ञानोदयसमकालमेव शरीरपातः स्यात्। तथा च तत्त्वदर्शिभिरुपदिष्टं ज्ञानं फलवदिति भगवतो मतं बाध्ये[तेत्य]त आह— सामर्थ्याद् येनेति। आचार्यलाभान्यथानुपपत्त्यैवं कल्प्यते - यथा तमोनिवर्तनसमर्थोऽपि सविता अपवरकप्रतिबन्धात् तदाश्रयं तमोलेशं न नाशयति, तथा सकलसंसार- करोतीत्यर्थ इति? तत्राह— न हीति। कर्मणामिन्धनवद् भस्मीभवनार्हस्वरूपाभावादिति भावः। ननु सर्वाणि कर्माणीत्यनेन किं प्रारब्धानि विवक्षितानि? यद्वा सञ्चितानि? अथवोभयात्मकानीत्यत आह— सामर्थ्यादिति। शास्त्रसामर्थ्यादित्यर्थः। तदिति। प्रारब्धं कर्मेत्यर्थः। प्रकर्षेणारब्धं फलदानायेति प्रारब्धम्। उपभोगेनैवेति। ‘प्रारब्धं भोगतो नश्ये’दिति स्मरणादिति भावः। तत्र श्रुतिं प्रमाणयति— तस्येति। तस्य कृतात्मसाक्षात्कारस्य तावदेव चिरं विलम्बः, यावन्न विमोक्ष्ये शरीरपातो न स्यात्। अथ शरीरपातानन्तरं सम्पत्स्ये ब्रह्म भवति। अतः शरीरनाशादेव प्रारब्धकर्मनाशः, न त्वन्यथेति सिद्धम्। एवं शास्त्रसामर्थ्यात् प्रारब्धस्य ज्ञानाग्न्यदाह्यत्वे सिद्धे तद्दाह्यानि कर्माण्याह— अत इति। अतः प्रारब्धकर्मणां भोगं विना नाशायोगादित्यर्थः। अप्रवृत्तफलानि अप्रारब्धानीत्यर्थः। अतीतानेकजन्मकृतानि इह जन्मनि च ज्ञानोत्पत्तेः प्राक्कृतानि ज्ञानेन सह भवन्तीति ज्ञानसहभावीनि ज्ञानाभ्यासकाले कृतानि गुरुसेवादिरूपाणि चेत्यर्थः। तान्येवेति। सञ्चितान्येवेत्यर्थः। आगामिनामप्यत्रैवान्तर्भावः। एवकारान्न तु प्रारब्धानीत्यर्थः। स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वादविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयत् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति। तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति, न तु साक्षात्कर्मणां निवर्तकम् , ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तेस्तदनिवृत्तौ पुनरपि कर्मोद्भवसंभवादित्यर्थः। ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह— तस्मादिति। सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकमिष्टं चेदारब्धफलस्यापि कर्मणो निवृत्तिप्रसङ्गाज्ज्ञानोदयसमकालमेव शरीरपातः स्यादित्याशङ्क्याह— सामर्थ्यादिति। ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिरुपदिष्टं ज्ञानं फलवदिति भगवदभिप्रायस्य बाधितत्वप्रसङ्गादाचार्यलाभान्यथानुपपत्त्या प्रवृत्तफलकर्मसम्पादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः। कथं तर्हि प्रारब्धफलं कर्म नश्यतीत्याशङ्क्याह— येनेति। तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात्करोतीत्युक्तम्? तत्राह— अत इति। ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेरनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयादस्मिन्नेव जन्मनि कृतानि, ज्ञानेन च सह वर्तमानानि प्राचीनेषु चानेकेषु जन्मस्वर्जितानि तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः॥३७॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘तस्य….श्रुतेः।’ इति पाठः क्वचिन्न। २. अत्र चेमानि सूत्राण्यनुसंधेयानि— ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ ‘इतरस्याप्येवमसंश्लेषः पाते तु’ ‘अनारब्धकार्य एव तु पूर्वे तदवधेः’ (ब्र.सू.४.१.१३,१४,१५ ) ‘भोगेन त्वितरे क्षपयित्वा संपद्यते’ (ब्र.सू.४.१.१९)। ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥३७॥
निर्बीजत्वे कारणमित्यभिप्रायः। सामर्थ्याद् येन कर्मणा शरीरमारब्धं तत् प्रवृत्तफलत्वादुपभोगेनैव क्षीयते, १तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये (छा.उ.६.१४.१) इति श्रुतेः। २अतो यान्यप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि, ज्ञानसहभावीनि च, अतीतानेकजन्मकृतानि च तान्येव सर्वाणि कर्माणि भस्मसात्कुरुते॥३७॥
[[२५३]]
यथा चापाल्लक्ष्यं प्रति निर्गतः शरः न मध्ये निवर्तते, किन्तु लक्ष्यं प्राप्यैव निर्व्यापारो भवति, तद्वत् प्रारब्धं कर्म यावद्देहपातं न नश्यति। यथा च तूणस्थाः शराः, धनुषि संयोजिता वा, अप्रयुक्ताः लक्ष्यप्राप्तिं विना निवारयितुं शक्यन्ते, तद्वत् सञ्चितानि भोगप्रदानं विना ज्ञानेन नाश्यन्त इति बोध्यम्॥३७॥
न हीति। न चेदं ज्ञानमकस्मात् सिद्ध्यति, किन्तु चित्तशुद्धिद्वारैव, सा च चित्तशुद्धिर्योगद्वारैवेत्याह— योगसंसिद्ध इति। योगः कर्मानुष्ठानलक्षणः समाधिलक्षणश्च। कर्मयोग इत्याह [योगः कर्मानुष्ठानलक्षणः कर्मयोगः, समाधिलक्षणश्च इत्याह]— कर्मयोगेनेति। कर्मानुष्ठानेनेत्यर्थः। समाधियोगः ‘तानि सर्वाणि संयम्य युक्त आसीत मत्परः’ इत्यादिना प्रोक्तः इन्द्रियमनोजयात्मको योगः। संस्कृत इति। चित्तगतोऽयं संस्कारः पुरुषे आरोपितः, यथा चित्तगतः संस्कारः[असंस्कारः]॥३८॥
श्रद्धावानिति। एकान्तेन नियमेनाव्यभिचारेणेत्यर्थः। मन्दप्रस्थानः मन्दप्रयाणः, गुर्वभिगमने त्वरारहित इत्यर्थः। तत्परः तस्मिन्नासक्तः। आसक्तिसत्त्वे गुरुं प्रति क्षिप्रं प्रयातीत्यभिप्रेत्याह— गुर्विति। अभियुक्तः आसमन्तात् सक्तः। बीजाज्ञाननिवर्तनसमर्थोऽपि ब्रह्मज्ञानदिवाकरः प्रवृत्तफलकर्मप्रतिबन्धात् तत्सम्पादकम् अज्ञानलेशं न नाशयति। तस्मात् प्रवृत्तफलस्य कर्मणो यो[भो]गादेव क्षय इति॥३७॥
॥इति श्रीभगवद्गीताभाष्यटिप्पणे चतुर्थोऽध्यायः॥
नन्वन्येनैव परिशुद्धिकरेण केनचिदश्वमेधादिना परमपुरुषार्थसिद्धेरलमात्मज्ञानेनेत्याशङ्क्याह— यत इति। पूर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धम् , अतस्तेन ज्ञानेन तुल्यं परिशुद्धिकरं परमपुरुषार्थौपयिकमिह व्यवहारभूमौ नास्तीत्यर्थः। तत्पुनरात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते? तत्राह— तत् स्वयमिति। महता कालेन यथोक्तेन साधनेन योग्यतामापन्नस्तदधिकृतः स्वयं तदात्मनि ज्ञानं विन्दतीति योजना। सर्वेषां झटिति ज्ञानानुदयो योग्यतावैधुर्यादिति भावः॥३८॥
कर्मयोगेन समाधियोगेन च सम्पन्नस्य ज्ञानोत्पत्तावन्तरङ्गं साधनमुपदिशति— येनेति। ज्ञानलाभप्रयोजनमाह— ज्ञानमिति। न केवलं श्रद्धालुत्वमेवासहायं ज्ञानलाभे हेतुरपि तु तात्पर्यमपीत्याह— श्रद्धालुत्वेऽपीति। मन्दप्रस्थानत्वं तात्पर्यविधुरत्वम्। न च तस्योपदिष्टमपि ज्ञानमुत्पत्तुमीष्टे। तेन तात्पर्यमपि तत्र कारणं भवतीत्याह— अत आहेति। अभियुक्तो निष्ठावान् । उपासनादा-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘गुरूपसदनादौ’ इति पा.। यत एवमतः— न हीति। न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरमिह विद्यते। तत् ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतो योग्यतामापन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभत इत्यर्थः॥३८॥
येनैकान्तेन ज्ञानप्राप्तिर्भवति, स उपायः उपदिश्यते— श्रद्धावानिति। श्रद्धावान् श्रद्धालुर्लभते ज्ञानम्। श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थानः, अत आह— तत्परः १गुरूपासनादावभियुक्तो ज्ञानलब्ध्युपाये। श्रद्धावान् न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥
श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः।
[[अ. ४. श्लो. ३७-३८]] [[२५४]]
ननु पूर्वं ‘तद्विद्धी’ति श्लोके प्रणिपातपरिप्रश्नसेवाः ज्ञानलब्धावुपायत्वेनोक्ताः, इदानीं तु श्रद्धासक्तीन्द्रियजयाः उक्ताः। अतः कथं व्याघातपरिहार इत्यत आह— प्रणिपातादिस्त्विति। आदिशब्दात् परिप्रश्नसेवयोर्ग्रहणम्। बहिर्भवो बाह्यः, श्रद्धादिस्त्वान्तरः। बाह्यादान्तरस्य बलीयस्त्वं प्रसिद्धमिति भावः। किञ्च अनैकान्तिकः व्यभिचारी। तत्र हेतुमाह— मायावित्वादीति। प्रणिपातादौ मायावित्वादेः सम्भवोऽस्ति। कश्चिन्मायावी कृत्रिमः कपटेन कस्यचित् प्रणिपातादिकं कुर्यात्। तादृशो मायावी ज्ञानं नियमेन न लभते। अतः प्रणिपातादिर्हेतुर्व्यभिचार्येवेत्यर्थः। श्रद्धावत्त्वादौ तु मायावित्वादिर्न सम्भवति। अतः श्रद्धावत्त्वादिरव्यभिचारी उपायः। अत एवावतारिकाग्रन्थे येनैकान्तेन ज्ञानप्राप्तिर्भवतीत्युक्तम्। एवं च तद्विद्धीति श्लोकेन ज्ञानलब्धौ बाह्या अनैकान्तिका उपाया उक्ताः, अनेन तु आन्तरा एकान्ता उपाया इति न व्याघातः कश्चिदिति सिद्धम्। किञ्च यत्र श्रद्धादिगुणत्रयमस्ति तत्र प्रणिपातादिगुणत्रयमपि भवत्येव, यत्र तु प्रणिपातादिगुणत्रयं दृश्यते तत्र नियमेन श्रद्धादिगुणत्रयं न विद्यते, अश्रद्धालोरतत्परस्याजितेन्द्रियस्यापि मायाविनः प्रणिपातादिगुणत्रयसम्भवादिति कृत्वा न प्रणिपातादि- दर्शनाद् गुरुः शिष्ये विश्वासं कुर्यात् , किन्तु श्रद्धादिकं तस्मिन् परीक्ष्यैवेति गुरुशिक्षा अनेनोपदिष्टा। क्षिप्रमिति। ‘तरति शोकमात्मवित्’‘ब्रह्मविद् ब्रह्मैव भवति,’‘तमेवं विदित्वा अतिमृत्युमेति’ इत्यादीनि शास्त्राणि, रज्जुयाथात्म्यज्ञानात् सर्पभ्रमनिवृत्तिवदात्मयाथात्म्यज्ञानात् संसारिभ्रमनिवृत्तिरित्यादयो न्यायाः, तत्प्रसिद्धो ज्ञानात् क्षिप्रं कैवल्यलाभः। एवकारान्न तु विलम्ब इत्यर्थः। ततश्च कर्मयोगादीनां चिरेण मोक्षप्रदानां व्यावृत्तिः। किञ्च क्षिप्रम् अव्यवधानेनेत्यर्थः। कर्मयोगादयस्तु ज्ञाननिष्ठाव्यवधानेन मोक्षं प्रयच्छन्ति, न तु साक्षादिति भावः॥३९॥
तत्परोऽप्यजितेन्द्रियः स्यादित्यत आह— संयतेन्द्रियः। संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणि स संयतेन्द्रियः, य एवम्भूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते। प्रणिपातादिस्तु बाह्यो ऽनैकान्तिकोऽपि भवति, मायावित्वादिसम्भवात् । न तु तथा तत् श्रद्धावत्त्वादावित्येकान्ततो ज्ञानलब्ध्युपायः। किं पुनर्ज्ञानलाभात् स्यादिति? उच्यते— ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रमेवाधिगच्छति। सम्यग्दर्शनात् क्षिप्रमेव मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितोऽर्थः॥३९॥
वित्यादिशब्देन श्रवणादि गृह्यते। न च श्रद्धा तात्पर्यं चेत्युभयमेव ज्ञानकारणम् , किन्तु संयतेन्द्रियत्वमपि, तदभावे श्रद्धादे- रकिञ्चित्करत्वादित्याशयेनाह—श्रद्धावानिति। उक्तसाधनानां ज्ञानेन सहैकान्तिकत्वमाह—य एवम्भूत इति। ‘तद्विद्धि प्रणिपातेन’ इत्यादौ प्रागेव प्रणिपातादेर्ज्ञानहेतोरुक्तत्वात् किमितीदानीं हेत्वन्तरमुच्यते? तत्राह— प्रणिपातादिस्त्विति। तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गम्। न च तत्र ज्ञाने प्रतिनियमः, मनस्यन्यथा कृत्वा बहिरन्यथाप्रदर्शनात्मनो मायावित्वस्य सम्भवाद् , विप्रलम्भकत्वादेरपि सम्भावनोपनीतत्वादित्यर्थः। मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि सम्भवादनैकान्तिकत्वमविशिष्टमित्याशङ्क्याह— न त्विति। न हि मायया विप्रलम्भेन वा श्रद्धातात्पर्यसंयमा१भियोगतो निष्ठातुमर्हतीत्यर्थः। उत्तरार्धं प्रश्नपूर्वकमवतार्य व्याकरोति— किं पुनरित्यादिना। सम्यग्ज्ञानादभ्यासादिसाधनानपेक्षान्मोक्षो भवतीत्यत्र प्रमाणमाह— सम्यग्दर्शनादिति। शास्त्रशब्देन ‘तमेव विदित्वा’ ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम्। न्यायस्तु ज्ञानादज्ञाननिवृत्तेः रज्ज्वादौ प्रसिद्धत्वाद् आत्मज्ञानादपि निरपेक्षादज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यादित्येवंलक्षणः॥३९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥३९॥
१. ‘भियोगतोऽनुष्ठातुम्’ ‘नियोगतोऽनुष्ठातुम्’ इति पा.। यथाश्रुते— न हि मायादिना श्रद्धादिनिष्ठो भवितुमर्हतीत्यर्थः।
[[२५५]]
अज्ञ इति। चकारादज्ञत्वादीनां त्रयाणां पृथक्पृथग् विनाशहेतुत्वं सिद्धम्। यः सुतरामात्मानं न वेत्ति सः अज्ञः, यस्तु गुरुणा तत्त्वे उक्ते सत्यपि न तत्र विश्वासवान् सः अश्रद्धधानः। सच्चिदानन्द आत्मेति गुरुणोच्यते, नैतद् युक्तम् , मम दुःखित्वादेरनुभव- सिद्धत्वादिति मन्यतेऽयमश्रद्धधानः। एवं गुरुवाक्यमिव शास्त्रमपि नायं विश्वसिति, किं त्वप्रमाणमेव मन्यते। अथ संशयात्मा तु— किमात्मा गुरुवेदान्तोक्तविधया सच्चिदानन्दब्रह्माभिन्नः? किं वा तर्काद्युक्तरीत्या ईश्वराद्भिन्नः? किं वा बौद्धाद्युक्तरीत्या देहादिरेवात्मा? इत्याद्याकारकसंशयवान्। अयं हि अज्ञाश्रद्धधानाभ्यामप्यतीव पापिष्ठ इत्याह— सर्वेषामिति। सर्वेषां मध्ये इत्यर्थः। संशयात्मनः यथा आत्मनि संशयः तथा सर्वत्रापि संशय एव, तस्य संशयैकस्वभावत्वात्। तथा च पुत्रेष्ट्यादिना पुत्रादयः सिद्ध्येयुर्वा न वा इति सन्दिहानः पुरुषः पुत्रेष्ट्यादिकं नैव करोतीति न तस्य मनुष्यलोकफलसिद्धिः। एवं ज्योतिष्टोमेन स्वर्गो भवेद्वा न वेति सन्दिहानः ज्योतिष्टोमं नैव करोतीति न तस्य परलोकफलसिद्धिः। एवं स्रक्चन्दनादिधारणेन मम सुखं स्याद्वा न वेति सन्दिहानः स्रक्चन्दनादिधारणं नैव करोतीति न तस्य सुखसिद्धिः। यद्वा इहलोकोऽस्ति वा न वा? परलोकोऽस्ति वा न वा? सुखमस्ति वा न वेत्येवं सन्दिहानस्य नेहलोकादयः सिद्ध्यन्ति, निश्चयपूर्वकत्वात् सिद्धेः। न चेहलोकास्तित्वसंशयः कथमुदेतुमर्हतीति वाच्यम् , शून्यवादिमते प्रपञ्चस्य स्वरूपापलापदर्शनात् , अन्यत्र तत्सत्यत्वदर्शनाच्च तत्रापि संशयोत्पत्तिसम्भवात्॥४०॥
उत्तरश्लोकस्य पातनिकां करोति— अत्रेति। यथोक्तसाधनवानुपदेशमपेक्ष्याचिरेण ब्रह्म साक्षात्करोति, साक्षात्कृतब्रह्मत्वे ऽचिरेणैव मोक्षं प्राप्नोतीत्येषोऽर्थः सप्तम्या परामृश्यते। संशयस्याकर्तव्यत्वे हेतुमाह— पापिष्ठो हीति। उक्तं हेतुं प्रश्नपूर्वकमुत्तरश्लोकेन साधयति— कथमित्यादिना। अज्ञादश्रद्धधानाच्च संशयचित्तस्य विशेषमादर्शयति— नायमिति। द्वितीयविभागविभजनार्थं भूमिकां करोति— अज्ञेति। अज्ञादीनां मध्ये संशयात्मनो यत् पापिष्ठत्वं तत् प्रश्नद्वारा प्रकटयति— कथमिति। लोकद्वयस्य तत्प्रयुक्तसुखस्य चाभावे हेतुमाह—तत्रापीति। संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवारत्वादित्यर्थः। संशयस्यानर्थमूलत्वे स्थिते फलितमाह— तस्मादिति ॥४०॥
यद्यपि संशयः सर्वानर्थहेतुत्वात् कर्तव्यो न भवति, तथापि निवर्तकाभावे ४तदकरणमस्वाधीनमिति शङ्कते— कस्मादिति। श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकमित्युत्तरमाह— ज्ञानेति। संशयरहितस्यापि कर्माण्यनर्थहेतवो भवन्तीत्याशङ्क्याह— योगेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अत्र संशयो न कर्तव्यः। पापिष्ठो हि संशयः। कथमित्युच्यते— अज्ञश्चेति। अज्ञश्च अनात्मज्ञश्च, अश्रद्धधानश्च गुरुवाक्यशास्त्रेष्वविश्वासवान् च, संशयात्मा च संशयचित्तश्च विनश्यति। अज्ञाश्रद्धधानौ यद्यपि विनश्यतः, तथापि न तथा, यथा संशयात्मा। संशयात्मा तु पापिष्ठः सर्वेषाम्। कथम्? नायं साधारणोऽपि लोकोऽस्ति, तथा न परो लोकः, न सुखम् , तत्रापि १संशयोत्पत्तेः, संशयात्मनः संशयचित्तस्य। तस्मात् संशयो न कर्तव्यः॥४०॥
कस्मात्? २यस्मात्— योगेति। ३योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्। अ. ४. श्लो. ३९-४१ ] १. ‘संशयोपपत्तेः’ इति पा.। २.‘यस्मात्’ इति क्वचिन्न। ३. योगेन भगवदाराधनलक्षणसमत्वबुद्धिरूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येनेति व्याख्यान्तरमपि मधुसूदन्याम्। ४. तदकरणं संशयाकरणम्।
[[२५६]]
योगेति। ज्ञानसञ्छिन्नसंशयम् अत एव योगसन्न्यस्तकर्माणमात्मवन्तं, हे धनञ्जय! कर्माणि न निबध्नन्ति धर्माधर्माख्यानि कर्माणीत्यन्वयः। आत्मा मनः, तद्वान् आत्मवान् , तमात्मवन्तम्। ननु न हि कस्यापि मनोऽभावोऽस्ति, येनात्मवन्तमित्युच्येतेत्यत आह—अप्रमत्तमिति। ६प्रशंसायां मतुब्विधानात् आत्मवन्तं प्रशस्तमनसमित्यर्थः। मनसः प्राशस्त्यं च प्रमादाभावप्रयुक्तमेवे- त्यभिप्रेत्याह— अप्रमत्तमिति। अवहितमनस्कमित्यर्थः। मनोधर्मस्य प्रमादाभावस्य पुरुषे आरोपादुक्तम् अप्रमत्तमिति। न हि वस्तुतः पुरुषस्य प्रमादादिधर्मवत्ता, निर्धर्मकात्मस्वरूपत्वात् पुरुषस्य। गुणचेष्टाः सत्त्वादिगुणकृतनिग्रहादिचेष्टाः रज्जवः पशुमिव कर्माणि पुरुषं न निबध्नन्तीति वक्तुमयुक्तत्वादाह— अनिष्टादीति। अनिष्टादिरूपफलारम्भद्वारा पुरुषं न निबध्नन्तीत्यर्थः। ननु आत्मवन्तमिति व्यर्थम् , ज्ञानिनः प्रमादजननीयक्षत्यभावादिति चेद्? मैवम् , ज्ञानिनोऽपि सति प्रमादे इन्द्रिय- पारतन्त्यादिप्रयुक्तसंसारप्रसङ्गात्। तस्माज्ज्ञानिनाऽपि जितेन्द्रियमनस्केन भाव्यमिति सूचानायाह— अप्रमत्तमिति। प्रपञ्चितं चैतत् पूर्वस्मिन्नध्याये ‘ध्यायतो विषयन् पुंसः’ इत्यादिना। प्रमत्तस्यानर्थजन्म ‘बलवानिन्द्रियग्रामो विद्वांसमपि कर्षती’ति च स्मर्यते। तस्माद् मुमुक्षुर्विद्वान् जितेन्द्रियःसन्नन्तर्मुखेन मनसा आत्मस्वरूपं सदा साक्षात्कुर्वन् वर्तेत, ततो मुच्यत इत्यनेन श्लोकेनोपदिष्टम् ॥४१॥ तस्मादिति। तस्माच्छब्दार्थमाह— यस्मादित्यादिना। हेतुरेव हेतुकः, अशुद्धिभयादीनां हेतुकः ज्ञानेन सञ्छिन्नश्च संशयो यस्य सः ज्ञानसञ्छिन्नाशुद्धिभयादिहेतुसंशयः इत्यर्थः। तच्च ज्ञानं कस्माज्जायत इत्यत आह— कर्मयोगानुष्ठानादिति। अशुद्धिक्षयहेतुकेति पाठे अशुद्धिक्षयो हेतुर्यस्य तत् तथोक्तमिति ज्ञानविशेषणम्। कुतः कर्मभिर्न निबध्यते? इत्यत आह— ज्ञानाग्नीति। परमार्थदर्शिना धर्माधर्माख्यानि, तं योगसंन्यस्तकर्माणम्। कथं योगसंन्यस्तकर्मेत्याह— ज्ञानसंछिन्नसंशयम् । ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन संछिन्नः संशयो यस्य स ज्ञानसंछिन्नसंशयः। य एवं योगसंन्यस्तकर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपं फलं नारभन्ते, हे धनञ्जय ! ॥४१॥
यस्मात् कर्मयोगानुष्ठानादशुद्धिक्षयहेतुकज्ञानसंछिन्नसंशयो१ न निबध्यते कर्मभिः, ज्ञानाग्निदग्धकर्मत्वादेव, विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वमित्याशङ्क्याह— आत्मवन्तमिति। परमार्थदर्शनतः संशयोच्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तावप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्तीत्याह— न कर्माणीति। कर्मयोगादेव कर्मसंन्यासस्यानुपपत्तिमाशङ्क्य , आद्यं पादं विभजते— परमार्थेति। २तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे त्वपरोक्षमिति विवेकः। यथोक्तज्ञानेन सन्न्यस्तकर्मत्वमेव सति संशये न सिद्ध्यति, संशयवतस्तदयोगादिति शङ्कते— कथमिति। द्वितीयं पादं व्याकुर्वन् परिहरति—आहेत्यादिना। ३पाठक्रमादर्थक्रमस्य बलीयस्त्वादादौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीतेत्याह— य एवमिति। सर्वमिदं प्रमादवतो विषयपरवशस्य न सिद्ध्यतीत्यभिसन्धायात्मवन्तं४ व्याकरोति—अप्रमत्तमिति। न कर्माणीत्यादिफलोक्तिं व्याचष्टे— गुणचेष्टेति। अनिष्टादीत्यादिशब्देनेष्टं मिश्रं च गृह्यते॥४१॥
तस्मादित्यादिसमनन्तरश्लोकगततत्पदापेक्षितमर्थमाह— यस्मादिति। सतां कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भाद् विदुष्यपि तेषां ५तद्भाव्यमनपबाधमित्याशङ्क्याह— ज्ञानाग्नीति। ननु सन्दिहानस्य तत्प्रतिबन्धान्न कर्मयोगानुष्ठानम् , नापि तद्धेतुकं ज्ञानं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय !॥४१॥
१. ‘अशुद्धिभयादिहेतुकज्ञानसञ्छिन्नसंशयः’ इति रा.पा.। २. तत् परमार्थज्ञानम्। वैधसंन्यासः विविदिषासंन्यासः। फलसंन्यासः विद्वत्संन्यासः। ३. अर्थः प्रयोजनम् , तदनुरोधी क्रमः। प्रकृते च कर्मसंन्यासात् प्राक् तत्प्रतिबन्धकसंशयच्छेदः आवश्यकः। अतो ज्ञानसंछिन्नसंशयमिति पूर्वं व्याख्येयमिति भावः। ४. आत्मवन्तमिति पदं व्याख्यातीत्यर्थः। ५. ‘तद्भान’मिति ‘तद्भाव’मिति च क्वचित् पा.। ‘ताद्भाव्य’मिति, ‘तद्भावमनपबाधमाशङ्क्याहे’ति वा युक्तं स्यादिति भाति। फलारम्भकत्वमिति तदर्थः। ६. भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः॥
[[२५७]]
तस्मादित्यस्यार्थान्तरमाह— यस्माच्चेति। ज्ञानं च कर्म च ज्ञानकर्मणी प्रत्येकानुष्ठानविषये इत्यर्थः। तयोः युगपदनुष्ठानासम्भवस्य प्रागेवोक्तत्वात्। ४तयोरनुष्ठानविषये। तस्मादिति। कर्मज्ञानयोगानुष्ठानजन्यज्ञानाग्नेः सर्वकर्मदाहकत्वान्निःसंशयेन ज्ञानकर्मानुष्ठानस्य कर्तव्यत्वाच्चेत्यर्थः। हे भारत! अज्ञानसम्भूतं हृत्स्थमेनम् आत्मनः संशयं ज्ञानासिना छित्त्वा योगमातिष्ठ, उत्तिष्ठ। अविवेकाद् आत्मानात्मविवेकाभावात्। यद्वा यस्माद् विवेको न भवति तदविवेकं भावरूपम् , मायेति यावत्। आत्मन इति विषयविषयिभावरूपे सम्बन्धे शेषे षष्ठीत्याह— आत्मविषयत्वादिति। आत्मविषयमित्यर्थः। अन्यथा यथाश्रुतार्थे दोषमाह— न हीति। संशयं छित्त्वेत्यनेनैव स्वसंशयं छित्त्वेत्यर्थलाभो भवति, परसंशयस्याच्छेत्तव्यत्वेनैव व्यावृत्तेः परसंशयं छित्त्वेत्यर्थाप्रसक्तेः। नन्वयमात्मसंशयः कस्य भवतीत्यत आह— स्वस्यैवेति। किमहं नित्य आत्मा उतानित्य इत्यादिरूपस्य स्वस्मिन्नेव संशयस्य सर्वाविद्वदनुभवसिद्धत्वादिति भावः। एनमिति शब्दार्थमाह— स्वविनाशहेतुभूतमिति। संशयात्मा विनश्यतीत्युक्तत्वादिति भावः। ५योगशब्दोऽत्रोपायपरः इत्याह— सम्यगिति। कर्मानुष्ठानं कुर्विति। ज्ञाननिष्ठायां तवानधिकारादिति भावः। उत्तिष्ठ ‘उदोऽनूर्ध्वकर्मणि’ इति न तङ्। किमर्थमुत्थानम्? अत आह— युद्धायेति। भारतेत्यनेन क्षत्रियस्य तव यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति— तस्मादिति। तस्मात् पापिष्ठम् अज्ञानसम्भूतम् अज्ञानाद् अविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानम् , तदेवासिः खड्गस्तेन ज्ञानासिना आत्मनः स्वस्य, आत्मविषयत्वात् संशयस्य। न हि परस्य संशयः परेण छेत्तव्यतां प्राप्तो येन स्वस्येति विशेष्येत। अतः आत्मविषयोऽपि स्वस्यैव भवति। छित्त्वैनं संशयं स्वविनाशहेतुभूतं, योगं सम्यग्दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्वित्यर्थः। उत्तिष्ठ चेदानीं युद्धाय, भारतेति॥४२॥
तत्रापि संशयावतारादित्याशङ्क्याह— यस्माच्चेति। श्लोकाक्षराणि व्याचष्टे— तस्मादित्यादिना। पापिष्ठमिति संशयस्य सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते। विवेकाग्रहप्रसूतत्वादपि तस्यावहेयत्वमविवेकस्यानर्थकरत्वप्रसिद्धेरित्याह—अविवेकादिति। न च तस्य चैतन्यव- दात्मनिष्ठत्वादत्याज्यत्वं शङ्कितव्यमित्याह— हृदीति। शोकमोहाभ्यामभिभूतस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रबलप्रतिबन्धकाभावे नैव प्रध्वंसः सिध्येदित्याशङ्क्याह— ज्ञानासिनेति। स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समुच्छेदसम्भवात् किमिति स्वस्येति विशेषणमित्याशङ्क्याह— आत्मविषयत्वादिति। स्थाण्वादिविषयः संशयस्तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन २तन्निष्ठो व्यावर्त्यते। प्रकृते त्वात्मविषयस्तदाश्रयश्च संशयस्तथाविधेन ज्ञानेनापनीयते, तेन विशेषणमर्थवदित्यर्थः। तदेव प्रपञ्चयति— न हीति। आत्माश्रयत्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् तद्विषयस्य तद्विषयेणैव तस्य तेन निवृत्तिर्विवक्षितेत्युपसंहरति— अत इति। संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति— छित्त्वैनमिति। अग्निहोत्रादिकं कर्म ३भगवदाज्ञया क्रमेण करिष्यामि, युद्धात् पुनरुपरिरंसैवेत्याशङ्क्याह— उत्तिष्ठेति। भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिति मन्वानः
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत !॥४२॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो१ नाम चतुर्थोऽध्यायः॥४॥
१. ‘ज्ञानयोगः’ इति रा.पुस्तके पा.। २. तन्निष्ठो देवदत्तनिष्ठः। संशयविशेषणमिदम्। दृष्टान्ते विषयाश्रययोः भेदः, दार्ष्टान्तिके तु तदैक्यमिति विशेषः। ३. ‘भवदाज्ञया’ इति पा.। ४. तयोः ज्ञानकर्मणोः। ५. ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’ इति कोशः। (अमर. नानार्थ. २२)
[[अ. ४. श्लो. ४१-४२]] [[२५८]]
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः॥४॥
सन्नाह— भारतेति। १तदनेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य, कर्मादावकर्मादिदर्शनादात्मनः सम्यग्ज्ञानात् - प्रणिपातादेः बहिरङ्गाद् , अन्तरङ्गाच्च श्रद्धादेरुद्भूताद् - अशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता सर्वस्मादुत्कृष्टे तस्मिन्नसंशयानस्याधिकाराद् अशेषदोषवन्तं संशयं हित्वोत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठेति स्थापितम्॥४२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने चतुर्थोऽध्यायः॥४॥
[आनन्दगिरिकृतव्याख्या]
१. अध्यायतात्पर्यं संगृह्णाति— तदनेनेति। बहिरङ्गात् प्रणिपातादेः , अन्तरङ्गात् श्रद्धादेश्चोद्भूतात् आत्मनः सम्यग्ज्ञानादित्यन्वयः। भाष्यार्कप्रकाशः युद्धाख्यकर्मयोग एवाधिकार इति सूच्यते। सम्यग्दर्शिनोऽपि तव लोकसङ्ग्रहार्थं कर्मैव कर्तुमुचितं जनकादिवदिति च प्रतीयते॥४२॥
इति बेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे चतुर्थोऽध्यायः॥
ॐ श्रीपरमात्मने नमः