॥अथ तृतीयोऽध्यायः॥
अर्जुन उवाच— ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन !। तत् किं कर्मणि घोरे मां नियोजयसि केशव !॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
‘ज्यायसी चेद्’ इति श्लोकमवतारयति—शास्त्रस्येत्यादिना। शास्त्रस्येति प्रतिपाद्यप्रतिपादकभावरूपे सम्बन्धे शेषे षष्ठी। शास्त्र- प्रतिपाद्यप्रवृत्तिनिवृत्तिविषयभूते इत्यर्थः। शास्त्रस्य प्रवृत्तौ निवृत्ताविति वाऽर्थः। प्रवृत्तिमार्गे शास्त्रापेक्षाऽस्ति, न तु निवृत्तिमार्गे इति कृत्वा ज्ञानयोगे शास्त्रमेव निवर्तत इत्यर्थः। ‘साङ्ख्ये’ ‘योगे’ इति च विषयसप्तम्यौ। तन्निष्ठतया संन्यासनिष्ठतया, ज्ञानयोगनिष्ठतयेति वा। ततः कर्मयोगात् श्रेयःप्राप्तिं नैवोक्तवान्। भक्ताय श्रेयोऽर्थिन इति। श्रेयो मोक्षः, तदर्थित्वं तत्कामित्वम्। तस्मिन् सत्यप्यभक्ताय नोपदिशेद् गुह्यमिति भक्तायेत्युक्तम्। भक्तत्वं पूज्येऽनुरागित्वम्। तस्मिन् सत्यपि कामकामाय नोपदिशेदित्येतदर्थं श्रेयोऽर्थिने इत्युक्तम्। अनैकान्तिकं व्यभिचारि श्रेयःप्राप्तिरूपं फलं यस्मिन् तस्मिन् तथोक्ते। पर्याकुलभूतो व्याकुलः, भूतशब्दस्यात्र अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् वृत्तानुवादपूर्वकं प्रष्टुरर्जुनस्याभिप्रायमाह—शास्त्रस्येत्यादिना। पारम्पर्येणापि अन्तःकरणशुद्धिद्वारेणापि अस्मिन्नेव आनन्दगिरिकृतव्याख्या पूर्वोत्तराध्याययोः सम्बन्धं वक्तुं पूर्वस्मिन्नध्याये वृत्तमर्थं संक्षिप्यानुवदति— शास्त्रस्येति। गीताशास्त्रप्रारम्भापेक्षितं हेतुफलभूतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः। प्रष्टुरर्जुनस्याभिप्रायं निर्देष्टुं ३प्रवृत्तमर्थान्तरमनुवदति— तत्रेति। अध्यायः, बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः। पारमार्थिके तत्त्वे यज्ज्ञानं तन्निष्ठानाम् अशेषकामत्यागिनाम् , कामयुक्तानां कर्मिणामपि प्रतिपत्तिकर्मवत् त्यागं कर्तव्यत्वेन भगवानुक्तवानित्यर्थः। तथापि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्ध्या समनन्तरप्रश्नप्रवृत्तिरित्याशङ्क्याह— ४उक्तेति। अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितुम् उक्तमर्थान्तरमनुभाषते— अर्जुनाय चेति। साङ्ख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा पुनः ५तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीतीत्याशङ्क्याह— योगेति। यथा साङ्ख्यबुद्धिमाश्रितानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता, तथा योगबुद्धिमाश्रित्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्क्याह— न तत एवेति। ‘दूरेण ह्यवरं कर्म बुद्धियोगाद्’ इति दर्शनादिति शेषः। बुद्धिव्याकुलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह— तदेतदिति। साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं तदित्युच्यते। तद्विपरीतं कर्म स्वस्यानुष्ठेयत्वेनोक्तम् एतदिति निर्दिश्यते। भगवदुक्तेऽर्थे ६सन्दिह्यमानस्य निर्णयाकाङ्क्षया प्रश्नप्रवृत्तेः अस्ति पूर्वोत्तराध्याययोः उत्थाप्योत्थापकलक्षणा सङ्गतिरित्यर्थः। अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति— कथमित्यादिना। यद्धि साक्षादेव श्रेयःसाधनं १. ‘प्रवृत्तिविषयभूते’ इति पा.। तदेवानन्दगिरीयानुगुणं भाति। २. कथमित्यस्य नियुञ्ज्यादित्यनेन संबन्धः। ३. वृत्तम् इत्येव विवक्षितम्। ४. ‘तन्निष्ठतयैव च कृतार्थतोक्ता’ इत्यत्र एवकारेण शङ्कितविकल्पसमुच्चययोर्व्यावृत्तिरिति भावः। ५. कर्मण एवेत्यर्थः। कथं ब्रवीतीत्यन्वयः। ६. ‘सन्दिहानस्य’ इति स्यात्। शास्त्रस्य १प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे - साङ्ख्ये बुद्धिर्योगे बुद्धिरिति च। तत्र ‘प्रजहाति यदा कामान्’(भ.गी.२.५५) इत्यारभ्य आ अध्यायपरिसमाप्तेः साङ्ख्यबुद्ध्याश्रितानां संन्यासं कर्तव्यमुक्त्वा, तेषां तन्निष्ठतयैव च कृतार्थतोक्ता—‘एषा ब्राह्मी स्थितिः’ (भ.गी.२.७२) इति। अर्जुनाय च ‘कर्मण्येवाधिकारस्ते….मा ते सङ्गो ऽस्त्वकर्मणि’(भ.गी.२.४७) इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य। न तत एव श्रेयःप्राप्तिमुक्तवान्। तदेतद् आलक्ष्य पर्याकुलीभूतबुद्धिः अर्जुन उवाच। कथं२ भक्ताय श्रेयोऽर्थिने यत् साक्षाच्छ्रेयःप्राप्तिसाधनं साङ्ख्यबुद्धिनिष्ठां
[[१४४]]
श्रावयित्वा, मां कर्मणि दृष्टानेकानर्थयुक्ते पारम्पर्येणाप्यनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यादिति युक्तः १पर्याकुलीभावो ऽर्जुनस्य। तदनुरूपश्च प्रश्नो ‘ज्यायसी चेत्’ इत्यादिः। २प्रश्नापाकरणवाक् यं च ३भगवतो युक्तं ४यथोक्तविभागविषये शास्त्रे। [वृत्तिकारकृतव्याख्यानिरासः] केचित्तु— अर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति। यथा चात्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः, तत्प्रतिकूलं चेह पुनः प्रश्नप्रतिवचनयोरर्थं निरूपयन्ति। कथम्? तत्र सम्बन्धग्रन्थे स्वरूपवाचित्वेनानतिरिक्तार्थत्वात्। भावोऽभिप्रायः, बुद्धिरिति यावत्। प्रश्नोपकरणं प्रश्नस्योत्तरम्। भागवतं कृष्णसम्बन्धि। यथोक्तः विषयविभागो यस्मिन् तस्मिन् शास्त्रे। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति ज्ञानिकर्मिणोः साङ्ख्ययोगात्मको विषयविभागः। केचित्तु वृत्तिकारा इत्यर्थः। अन्यथेति। ‘यदि बुद्धिकर्मणोः समुच्चयान्मोक्ष इति तव मतम् , तत्रापि कर्मापेक्षया बुद्धिरेव ज्यायसीति, तर्हि हे कृष्ण! किमिति मां कर्मण्येव केवले नियोजयसी’त्यर्जुनस्य प्रश्नार्थं कल्पयित्वा तत्प्रश्नप्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति— ‘ज्ञानयोगेन साङ्ख्यानाम् , कर्मयोगेन योगिनां च सिद्धि’रिति। सम्बन्धग्रन्थः अवतारिकाग्रन्थः, उपोद्घात इति यावत्। साङ्ख्यशब्दितपरमार्थतत्त्वविषयबुद्धौ निष्ठारूपं, तद् अन्यस्मै श्रेयोऽर्थिने भक्ताय श्रावयित्वा, मां पुनरभक्तमश्रेयोऽर्थिनमिव कर्मणि पूर्वोक्तविपरीते कथं भगवान् नियोक्तुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति सम्बन्धः। ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि— दृष्टेति। युद्धे हि क्षत्रकर्मणि दृष्टोऽनेकोऽनर्थो गुरुभ्रातृहिंसादिः, तेन सम्बद्धे , बुद्धिशुद्धिद्वाराऽपि वर्तमाने जन्मन्येव फलमित्यनियते मम भक्तस्य श्रेयोऽर्थिनो नियोगो ५भगवता युक्तो न भवतीति शेषः। यथोक्तं निमित्तं प्रश्नस्य युक्तम् , तदनुगुणत्वात् तस्येति द्योतकमाह— तदनुरूपश्चेति। ज्ञाननिष्ठानां कृतार्थता, कर्मनिष्ठानां तु न तथेत्युक्तविभागभागि शास्त्रमित्यत्र ‘लोकेऽस्मिन्’ इत्यादिवाक् यस्यापि द्योतकत्वं दर्शयति— प्रश्नेति। साक्षादेव श्रेयःसाधनमन्येभ्यो भगवतोक्तम् , न तु मह्यमिति मत्वा ६व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण सम्बन्धमुक्त्वा, वृत्तिकाराभिप्रायं दूषयति— केचित्त्विति। ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गीकारे समुच्चयावधारणेनैव प्रतिवचनमुचितम्। न च तथा भगवता प्रतिवचनमुक्तम्। तथा च प्रश्नस्य समुच्चयविषयत्वोपगमात् , प्रत्युक्तेश्चासमुच्चयविषयत्वात् तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः। किञ्च केवलं प्रश्नप्रतिवचनयोरेव परमते परस्परविरोधो न भवति, अपितु परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह— यथा चेति। आत्मना वृत्तिकारैरिति यावत्। सम्बन्धग्रन्थो गीताशास्त्रारम्भोपोद्घातः। इहेति तृतीयाध्यायारम्भं परामृशति। तदेव विवृण्वन्नाकाङ्क्षामाह— कथमिति। पूर्वापरविरोधं स्फोरयितुं सम्बन्धग्रन्थोक्तमनुवदति— तत्रेति। परकीया वृत्तिः सप्तम्या समुल्लिख्यते। १. ‘पर्याकुलभूतो भावः’ इति रा.पा.। २. ‘प्रश्नोपकरणं च वाक् यं भागवतं युक्तम्’ इति रा.पा.। ३. ‘भगवतोक्तं’ इति पा.। ४. ‘यथोक्तविषयविभागे’ इति रा.पा.। ५. ‘भगवतो युक्तः’ इति पा.। ६. ‘आकुलीभूतः’ इति पा.। आनन्दगिरि व्याख्या भाष्यार्कप्रकाशः
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
जन्मनि कर्मफलनियमो [न] भवतीति अनैकान्तिकफलत्वमुक्तम्। यत् साक्षात् श्रेयःसाधनं तदन्येभ्यः प्रोक्तम् , न मह्यमिति मत्वा व्याकुलीभूतः पृच्छतीति स्वाभिप्रायेण सम्बन्धम- भिधाय पराभिप्रायं दूषयति— केचित्तु अर्जुनस्येत्यादिना। समुच्चयानवधारणनिमित्ते हि प्रश्ने समुच्चयावधारणेन प्रतिवचनम- नुकूलं स्यात्। तच्च न भगवता कृतमित्यसामञ्जस्यमित्यर्थः। न केवलं प्रश्नप्रतिवचनयोरसामञ्जस्यम् , किन्तु तेषां स्व- ग्रन्थेऽपि पूर्वापरसामञ्जस्यं नास्तीत्याह— यथा चात्मनेति। तदेव विवृणोति— कथमित्यादिना। आद्ये सम्बन्धग्रन्थे समुच्चय
[[१४५]]
आत्मना स्वेन, वृत्तिकारैरित्यर्थः। तदेव विवरीतुमाकाङ्क्षामाह— कथमिति। उत्तरयति— तत्रेति। विशेषितः विशेषेणोक्तः। आश्रमविकल्पमिति गृहस्थसंन्यासाश्रमद्वयविकल्पम्। ‘यावज्जीवमग्निहोत्रं जुहुयादि’ति श्रुतिः यावज्जीवश्रुतिः। उक्त इति संन्यासे४ इति भावः। गीताशास्त्रे यावज्जीवश्रुतिचोदितकर्मरहिताज्ज्ञानान्नास्त्येव मोक्षः इति पूर्वं विशेषतः प्रतिपाद्य, ज्ञानयोगेन साङ्ख्यानां श्रेयःप्राप्तिरिति संन्यासिनां कथं यावज्जीवश्रुतिचोदितकर्मरहिताज्ज्ञानान्मोक्षः इत्युच्येत? न कथमपीत्यर्थः। शङ्कते—तत्रैतत् स्यादिति। तत्र एतदुत्तरं स्यादित्यर्थः। किं तद्? अत आह— गृहस्थानामिति। आश्रमान्तराणां संन्यासादीनाम्। ननु ‘ज्ञानयोगेन साङ्ख्याना’मिति संन्यासिनां केवलाज्ज्ञानान्मोक्षः, न त्वाश्रमान्तराणामित्यस्य ‘सर्वाश्रमाणां एव गीताप्रतिपाद्यः प्रतिज्ञातः। विशेषितश्च[विशेषतश्च] श्रौतकर्मत्यागो निषिद्धः त्वया। तृतीयाध्याये पुनः— संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्मनिष्ठेत्याश्रमविभागं दर्शयता स एव पूर्वप्रतिषिद्धः कर्मत्यागः अभ्युपगतः इत्यसामञ्जस्यमित्यर्थः। ननु नायं वृत्तिकारस्यापराधः, यथा भगवता प्रतिपादितं तथैव व्याख्यातमित्याशङ्क्याह— तत् कथमीदृशमिति। भगवान् विरुद्धाभिधायी न भवति, किन्तु तस्याभिप्रायापरिज्ञानादेव विरोधप्रतिभानमित्यर्थः। इदानीं विरोधं परिहरति— तत्रैतत् स्यादिति। तत्र सम्बन्धग्रन्थे एतदभिप्रेतं स्यात्— गार्हस्र्ह्ये स्थित एवापरिपक्व- सम्बन्धग्रन्थे तावदयमर्थ उक्तः इति सम्बन्धः। तमेवार्थं विशदयति— सर्वेषामिति। सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात् कैवल्यमित्यस्मिन्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेत्याशङ्क्याह— पुनरिति। उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशेषितत्वान्नाविवक्षितोऽलं भवितुमुत्सहते। तथा च श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्मतं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वान्नाभ्युपगन्तुमुचितमित्यर्थः। तथापि कथं मिथो विरोधधीरित्याशङ्क्याह— इह त्विति। प्रथमतो हि सम्बन्धग्रन्थे समुच्चयो गीताप्रतिपाद्यत्वेन वृत्तिकृता प्रतिज्ञातः। श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न सम्भवतीत्युक्तम्। तृतीया- ध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्मनिष्ठेत्याश्रमविभागमभिदधता२ पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः। ननु यथा भगवता प्रतिपादितम् , तथैव वृत्तिकृता व्याख्यातमिति न तस्यापराधोऽस्तीत्याशङ्क्याह— तत्कथमिति। न हीह भगवान् विरुद्धमर्थमभिधत्ते, सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् , किन्तु तदभिप्रायापरिज्ञानादेव व्याख्यातुः विरुद्धार्थवादिते- त्यर्थः। भगवतो विरुद्धार्थवादित्वाभावेऽपि श्रोतुर्विरुद्धार्थप्रतिपत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नापराध्यतीशङ्क्याह— श्रोता वेति। अर्जुनो हि श्रोता। सोऽपि बुद्धिपूर्वकारी भगवदुक्तमेवावधारयन् न विरुद्धमर्थमवधारयितुमर्हति। तथा च ३परस्यैव विरुद्धार्थवादितेत्यर्थः। विरोधं परिहरन्नाशङ्कते— तत्रेति। सम्बन्धग्रन्थे हि वृत्तिकारस्यैतदभिप्रेतम्— गृहस्थानामेव सतां परिपक्वज्ञानमन्तरेण यावज्जीवश्रुतिचोदिताग्निहोत्रादित्यागेन केवलादेवापातिकादात्मज्ञानान्मोक्षमपेक्षमाणानां यावज्जीवादिशास्त्रैरसौ निषिध्यते, न तु तावत् सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे १निरूपितोऽर्थ इत्युक्तम्। पुनर्विशेषितं च—यावज्जीवश्रुति- चोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानान्मोक्षः प्राप्यत इत्येतदेकान्तेनैव प्रतिषिद्धमिति। इह त्वाश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्यागः उक्तः। तत् कथमीदृशं विरुद्धमर्थमर्जुनाय ब्रूयाद् भगवान् ? श्रोता वा कथं विरुद्धमर्थमवधारयेत् ? तत्रैतत् स्यात्— गृहस्थानामेव श्रौतकर्मपरित्यागेन केवलादेव ज्ञानान्मोक्षः प्रतिषिध्यते, न त्वाश्रमान्तराणा-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. ३ श्लो. १ ] १. ‘निश्चितोऽर्थः’ इति पा.। २. अनेन भाष्ये आश्रमविकल्पशब्दस्य संन्यासिगृहस्थभेदेन निष्ठाद्वयविभागः इत्यर्थो विवृतः। पूर्वोत्तरविरोधं स्फुटयति—पूर्वेति। पूर्वं प्रतिषिद्धः यः कर्मत्यागः, तदभ्युपगमादित्यर्थः। ३. परस्य वृत्तिकारस्येत्यर्थः। ४. संन्यासे सर्वकर्मणां परित्यागः उक्तः इति संबन्धः।
[[१४६]]
ज्ञानकर्मसमुच्चयः’ इति वचनव्याघातेन दुष्टत्वे, तर्हि ‘केवलाद्’ इत्यस्य श्रौतकर्मरहितादित्यर्थो वाच्यः। तथा च श्रौतकर्म- रहिताज्ज्ञानात् संन्यासिनां मुक्तिः, गृहस्थानां तु नेति वाच्यम् ; अस्मिन् मते च सर्वाश्रमाणां ज्ञानकर्मसमुच्चयादेव मुक्तिरिति वचनस्य न व्याघातः। स्मार्तसमुच्चिताज्ज्ञानात् संन्यासिनां, श्रौतस्मार्तोभयकर्मसमुच्चिताद् गृहस्थानां च मुक्तिरिति सिद्धत्वादिति शङ्कते— अथ मतमित्यादिना। परिहरति— एतदपीति। गृहस्थानामेवम् , संन्यासिनां तु नैवमिति विवेको दुर्लभ इत्यर्थः। ज्ञानावष्टम्भेनालस्याद्वा यः कर्मत्यागः स एव प्रतिषिद्धो, न तु स्वरूपेणैव कर्मत्यागः प्रतिषिद्धः। इह त्वन्येषां संन्यासिनां केवलज्ञानान्मोक्ष इत्युच्यत इति भिन्नविषयत्वादविरोध इत्यर्थः। प्रकारान्तरेण विरोधमुपपादयन् दूषयति— एतदपि पूर्वो- त्तरेत्यादिना। श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण केवलज्ञानान्मोक्षप्रतिषेधवचनम् , न तु गृहस्थानां केवल- ज्ञानान्मोक्षप्राप्तिप्रतिषेधाद् अन्येषां केवलज्ञानान्मोक्षोऽभिप्रेतः। विद्यत एव तु स्मार्तेन कर्मणाऽन्येषामपि समुच्चय इत्यभिप्रेत्याह— अथ मतमित्यादिना। ननु अग्निहोत्रादिश्रौतकर्मराहित्येऽपि कथं ज्ञानस्य केवलत्वं गृहस्थानां स्मार्ते कर्मणि सतीत्याशङ्क्याह— तत्र गृहस्थानामिति। श्रौतस्य प्राधान्यात् स्मार्तस्याविद्यमानवद्भावः। पक्षपाते कारणाभावं मन्वानः परिहरति— एतदपि विरुद्धमित्यादिना। स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते। तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यतिरिक्तानामेव केवलादात्मज्ञानाद् मोक्षो विवक्ष्यते। अतो भिन्नविषयत्वान्निषेधाभ्यनुज्ञानयोर्न विरोधाशङ्केत्यर्थः। विधान्तरेण विरोधं दर्शयन्नुत्तरमाह— एतदपीति। विरोधमेवाकाङ्क्षाद्वारा साधयति— कथमित्यादिना। श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्मोक्षो निषिध्यते, न तु - गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिध्य, अन्येषां केवलज्ञानाधीनो मोक्षो - विवक्ष्यते, आश्रमान्तराणामपि स्मार्तेन कर्मणा समुच्चयाभ्युपगमादिति चोदयति— अथेति। एतत्पदपरामृष्टं वचनमेवाभिनयति— केवलादिति। ननु गृहस्थानां श्रौतकर्मराहित्येऽपि, सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते येन निषेधोक्तिरर्थवती? तत्राह— तत्रेति। प्रकृतवचनमेव सप्तम्यर्थः। प्रधानं हि श्रौतं कर्म, तद्राहित्ये सति स्मार्तस्य कर्मणः सतोऽप्यसद्भावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः। गृहस्थानामेव श्रौतकर्मसमुच्चयो, नान्येषाम् ; २अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति— एतदपीति। तमेव हेत्वभावं प्रश्नद्वारा विवृणोति— कथमित्यादिना। गृहस्थानां श्रौतस्मार्तकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात् , केवलस्मार्तकर्मसमुच्चितात् ततो न मुक्तिरिति निषेधो युज्यते; ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मुक्तिरिति विभागे नास्ति हेतुरित्यर्थः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मिति। एतदपि पूर्वोत्तरविरुद्धमेव। कथम्? सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितोऽर्थ इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानान्मोक्षं ब्रूयादाश्रमान्तराणाम् ? अथ मतम् - श्रौतकर्मापेक्षयैतद्वचनम् ‘केवलादेव ज्ञानाच्छ्रौतकर्मरहिताद् गृहस्थानां मोक्षः प्रतिषिध्यते’ इति। तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्माविद्यमानवदुपेक्ष्य१ ज्ञानादेव केवलादित्युच्यत इति। एतदपि विरुद्धम्। कथम्? गृहस्थस्यैव स्मार्तकर्मणा समुच्चिताज्ज्ञानान्मोक्षः प्रतिषिध्यते, न त्वाश्रमान्तराणामिति कथं विवेकिभिः शक्य- मवधारयितुम्? १. ‘अनपेक्ष्य’ इति पा.। २. गृहस्थभिन्नानामाश्रमिणामित्यर्थः। स्मार्तेनेति। कर्मणा समुच्चय इति शेषः।
[[१४७]]
दोषान्तरमाह— किञ्चेति। यदेव ज्ञानं स्मार्तकर्मसमुच्चितं सत् संन्यासिनां मुक्तिप्रदम् , तदेव तथाविधं गृहस्थानामपि मुक्तिप्रदं भवतु , किं पुनः श्रौतकर्मणामपि समुच्चयेनेत्यर्थः। ननु संन्यासगृहस्थयोरयमेव भेदः, अग्निहोत्रादिश्रौतकर्मसंन्यासस्यैव संन्यास-लक्षणत्वात्। ततश्च संन्यासिनः श्रौतकर्मसंन्यासविधानात् स्मार्तकर्मसमुच्चिताज्ज्ञानादेव केवलान्मुक्तिः, गृहस्थस्य तूभय- समुच्चिताज्ज्ञानादिति शङ्कते— अथेति। आरोपितमिति। शास्त्रेण भगवतेति वा कर्तुःशेषः। इतः प्राक् स्मार्तकर्मसमुच्चितात् केवलाज्ज्ञानात् संन्यासिनां मोक्ष इत्यभ्युपेत्य पूर्वपक्षैर्व्यवहृतम्। अथ ते तदप्यनभ्युपेत्य स्वाभिमतं समुच्चयवादं स्थापयितुं केवलाज्ज्ञानात् संन्यासिनामपि न मुक्तिरित्याहुः— अथ गृहस्थस्यैवेति। तत्र हेतुमाह—[श्रौतेति।] श्रौतानि यानि नित्यकर्माण्यग्निहोत्रादीनि, तद्रहितत्वादिति। यद्येवं संन्यासिनां न मुक्तिस्तर्हि संन्यासाश्रमविधानमेव व्यर्थमिति परि- हरति— तदप्यसदित्यादिना। ज्ञानस्य मोक्षसाधनत्वाभावे ज्ञानाङ्गत्वेन संन्यासविधानं व्यर्थं, मुमुक्षोर्हि सर्वकर्मसंन्यासो विहितः शास्त्रेण। तस्मात् संन्यासिनामेव ज्ञाननिष्ठायामधिकारः। ज्ञानादेव कैवल्यम्। अत एव गृहस्थस्य ज्ञानाधिकारार्थं संन्यासाश्रम- पूर्वं पक्षपाते कारणं नास्तीत्युक्तम् , इदानीम्— गृहस्थानामपि ब्रह्मज्ञानं स्मार्तेनैव समुच्चितं मोक्षसाधनम् , ब्रह्मज्ञानत्वात् , संन्यासिब्रह्मज्ञानवत् इति वैपरीत्याकरणं[वैपरीत्यकारणं] विद्यत इत्याह— किञ्च यदीत्यादिना। इदानी- माश्रमकर्मग्रहणमात्रेण पराभिप्रायं दूषयति— अथ श्रौतैः स्मार्तैश्चेत्यादिना। कर्मभूयस्त्वात् फलभूयस्त्वमिति न्यायमभिसन्धायाह— अथ गृहस्थस्येत्यादिना। ‘त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ ‘नान्यत्र कर्मसंत्यागान्मोक्षं विन्दति मानवः’ इत्यादिशास्त्रविरोधाद् न्यायस्यावकाशो नास्तीत्याह— पक्षपाते कारणं नास्तीत्युक्त्वा, पक्षपातपरित्यागे कारणमस्तीत्याह— किञ्चेति। गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैः एव कर्मभिः समुच्चितं मोक्षसाधनम् , ब्रह्मज्ञानत्वाद् , ऊर्ध्वरेतस्सु व्यवस्थितब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फुटयति— यदीत्यादिना। यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैः एव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितम् , तदा तान् प्रति यावज्जीवश्रुतिर्विरुध्येत। यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते, तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति—अथेति। आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्तिरिति प्रागुक्तविरोधतादवस्र्ह्यमित्याशङ्क्याह— ऊर्ध्वरेतसां त्विति। यथोक्ते विभागे गार्हस्र्ह्यं क्लेशात्मकं कर्म- बाहुल्यादनुपादेयमापद्येतेति दूषयति— तत्रेति। साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते—अथेति। क्लेशबाहुल्योपेतं श्रौतं स्मार्तं च बहु कर्म, तस्यानुष्ठानाद् गृहस्थस्य मोक्षः स्यादेवेत्यर्थः। एवकारनिरस्यं दर्शयति—नाश्रमान्तराणामिति। तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिविहिता- वश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति— श्रौतेति। शास्त्रविरोधिन्यायस्य ३निरवकाशत्वमभिप्रेत्य दूषयति— तदपीति। ऐकाश्रम्यस्मृत्या गार्हस्र्ह्यस्यैव प्राधान्यादनधिकृतान्धादिविषयं कर्मसंन्यासविधानमित्याशङ्क्याह— ज्ञानाङ्गत्वेनेति। न खल्वनधिकृतानामन्धादीनां
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्च यदि मोक्षसाधनत्वेन स्मार्तानि कर्माण्यूर्ध्वरेतसां समुच्चीयन्ते, तथा गृहस्थस्यापीष्यतां स्मार्तैः एव समुच्चयो, न श्रौतैः। अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयो मोक्षाय, ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिता- ज्ज्ञानान्मोक्ष इति। तत्रैवं सति १गृहस्थस्यायासबाहुल्याच्छ्रौतं स्मार्तं च बहु दुःखरूपं कर्म शिरस्यारोपितं स्यात्। अथ २गृहस्थस्यैवायासबाहुल्यकरणाद् मोक्षः स्यात् , नाश्रमान्तराणाम् , श्रौतनित्यकर्मरहितत्वादिति। तदप्यसत्। सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानाद् , आश्रम- १. ‘गृहस्थस्यैवायासबाहुल्यम् , श्रौतम्’ इति रा.पा.। २. ‘गृहस्थस्यैवायासबाहुल्यकारणात्’ इति पा.। ३. निरवकाशत्वमिह प्रामाण्यावकाशाभावाद् बाध्यत्वम्।
[[अ. ३ श्लो. १]] [[१४८]]
विधानमित्याह— आश्रमविकल्पविधानाच्चेति। ‘यदि प्रजाकामः स्त्रियमुद्वहेत्’ ‘यदि विरक्तस्तर्हि ब्रह्मचर्यादेव प्रव्रजेदि’त्यादिशास्त्रेण सकामनिष्कामाधिकारिभेदेन गृहस्थसंन्यासाश्रमविकल्पस्य विधानादित्यर्थः। क्व विधानम्? अत आह— श्रुतिस्मृत्योरिति। शङ्कते— तर्हि सर्वाश्रमाणां ज्ञानकर्मणोः समुच्चयः सिद्ध इति। केवलाज्ज्ञानान्मोक्षाभावात् , संन्यासस्य च विधिदर्शनादस्ति संन्यासिनोऽपि समुच्चयः श्रौतस्मार्तकर्मभिः ज्ञानस्य मुक्त्यर्थमिति पूर्वपक्षाशयः। परिहरति— नेति। हेतुमाह— मुमुक्षोरिति। सर्वेति। श्रौतस्मार्तात्मकसर्वकर्मसंन्यासस्य विधानात्। क्व विधानम्? इत्यतस्तावच्छ्रुतिं प्रमाणयति— व्युत्थायेति। गृहस्थाश्रमाद् व्युत्थाय सर्वाणि कर्माणि त्यक्त्वेत्यर्थः। तदेव हि गृहस्थाश्रमादुत्थानं नाम, गृहस्थाश्रमस्य कर्ममयत्वात्। संन्यस्येति यावत्। एषां सर्वेषां सत्यादीनां तपसां मध्ये न्यासं संन्यासमेव अतिरिक्तमुत्कृष्टं तप आहुः विद्वांस इति शेषः। अत्यरेचयत् अतिचक्राम, सर्वाधिकम- भूदित्यर्थः। लोकाः कर्मणा अमृतत्वं मोक्षं नानशुः न प्रापुः, प्रजया नानशुः। एके कुशलिनः त्यागेन सर्वकर्मपरित्यागेन अमृतत्वमा- तदप्यसदिति। ननु ‘ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद् गार्हस्र्ह्यस्य’ इति गौतमस्मरणाद् गृहस्थाश्रम एवैकः श्रेष्ठः, संन्यासस्तु कर्मानधिकृतान्धपङ्ग्वादिविषयः इत्याशङ्क्याह— आश्रमविकल्पेति। ‘ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद् वनी भूत्वा प्रव्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा’ इति, ‘तस्याश्रमविकल्प इत्येके’ ‘यमिच्छेत् तमावसेदि’त्यादिश्रुतिस्मृत्योराश्रमाणां समुच्चयेन विकल्पेन च तत्तदाश्रमैषिणां विधानाद् न गार्हस्र्ह्यस्यैव श्रैष्ठ्यम् , येन तस्यैव मोक्षसाधनत्वं स्यादित्यर्थः४। यदि सर्वेऽप्याश्रमाः श्रुतिस्मृतिमूलाः, तदा तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिद्ध इत्याह— सिद्धस्तर्हीति। आश्रमकर्मणां यद्यपि ज्ञानोत्पत्तिसाधनत्वम् , तथापि नोत्पन्नज्ञानस्य कर्मसहकार्यपेक्षा। अन्यथा मुमुक्षोः संन्यासविधानं न संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भवितुमलम् , तेषां श्रवणाद्यभ्यासासामर्थ्यात्। अतः ५श्रुत्यादिना विरोधे नास्ति गार्हस्र्ह्यस्य प्राधान्यमित्यर्थः। तस्य प्राधान्याभावे हेत्वन्तरमाह— आश्रमेति। ‘ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाद्वा’ इति श्रुतौ, ‘तस्याश्रमविकल्पमेके ब्रुवते’ इति ‘यमिच्छेत् तमावसेत्’ इत्यादिस्मृतौ चाश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति विधानान्न गार्हस्र्ह्यस्य प्रधानत्वमित्यर्थः। यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वम् , तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते— सिद्धस्तर्हीति। यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वम् , तथापि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति— न, मुमुक्षोरिति। संन्यासविधानमेवानुक्रामति— व्युत्थायेत्यादिना। एषणाभ्यो वैमुख्येनोत्थानं तत्परित्यागः। आश्रम- सम्पत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि६ कर्तव्यमित्याह— अथेति। ७प्रागुक्तानां सत्यादीनामल्पफलत्वाद् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह— तस्मादिति। अतिरिक्तम् अतिशयवन्तम् , महाफलमिति यावत्। प्रकृतकर्मभ्यः सकाशाद् न्यास एवातिशय- वानासीदित्युक्तेऽर्थे वाक्यान्तरं पठति— न्यास एवेति। लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विकल्पसमुच्चयविधानाच्च१ श्रुतिस्मृत्योः। सिद्धस्तर्हि २सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः। न ; मुमुक्षोः सर्वकर्मसंन्यासविधानात्। ३‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’(बृ.उ.४.४.२२) ‘तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः’(म.ना.उ.७९) ‘न्यास एवात्यरेचयत्’(म.ना. १. ‘आश्रमविकल्पविधानाच्च’ इति रा.पा. भाति। २. ‘सर्वाश्रमाणाम्’ इति पा.। ३. ‘पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय’ इति पा.। ४. एवं च ऐकाश्रम्यवचनमेव गार्हस्र्ह्यस्तुतिपरमिति भावः। ५. ‘श्रुत्यादीनाम्’ इति पा.। ६. भिक्षाचर्योक्तिः विहितधर्मकलापोपलक्षणमिति भावः। ७. अस्मिन् अनुवाके ‘सत्येन वायुरावाति…तस्मात् सत्यं परमं वदन्ति’ इत्यादिनोक्तानां सत्यतपोदानादीनामित्यर्थः।
[[१४९]]
नशुः। ब्रह्मचर्यादेव प्रव्रजेत् संन्यसेत्। इत्याद्या इत्याद्यशब्दाद् ‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ती’त्यादिग्रहणम्। स्मृतीश्च प्रमाणयति— त्यजेति। धर्ममधर्मं च त्यज। यज्ञयागादिर्धर्मः, हिंसादिरधर्मः। धर्मं त्यजेत्युक्तावधर्मप्रवृत्तिः स्यादित्यत आह— अधर्मं त्यजेति। उभे द्वे सत्यानृते त्यज। एवं सत्यानृते उभे त्यक्त्वा, येन मनसेदमुभयं त्यजसि, तन्मनश्च त्यज। ‘नाहं मनः, न मदीयं मनः’ इति मनस्यहन्ताममतयोस्त्याग एव मनस्त्यागः। धर्माधर्मत्यागश्च गृहस्थस्य न सम्भवति, तस्य धर्मेष्वधिकारात् , नित्यकर्माकरणे प्रत्यवायाच्च। अतो धर्माधर्मत्यागः संन्यासिन एवेति संन्यासोऽनेन विहित इति भावः। संसारमिति। एवं संसारं निःसारं दृष्ट्वा निश्चित्य अकृतोद्वाहाः अकृतदारपरिग्रहाः सन्तः परमुत्कृष्टं वैराग्यमाश्रिताः विवेकिन इति शेषः। सारस्य आत्मनो दिदृक्षया प्रव्रजन्ति संन्यस्यन्ति। बृहस्पतिरिति। आहेति शेषः। शुकस्मृतिमाह— कर्मणेति। जन्तुः कर्मणा पुण्यपापादिलक्षणेन बध्यते देवमनुष्य- तिर्यगादिजन्मप्राप्तिरूपं संसारं प्राप्नोतीत्यर्थः। विद्यया ज्ञानेन विमुच्यते मुक्तो भवति, यस्मादेवं तस्मात् पारदर्शिनः तत्त्वविदः यतयः कर्म न कुर्वन्ति। प्रकृतगीताशास्त्रं चोक्तार्थे प्रमाणयति— इहापि चेति। ‘सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देहे नैव कुर्वन् न कारयन्॥’ इति। स्यात् ‘पिण्डमुत्सृज्य करं लेढी’ति न्यायापातादित्याह— [न,] मुमुक्षोरिति। त्यागेनेति। त्यागपुरस्सरज्ञानेन एके विरक्ताः अमृतत्वं प्राप्ता इत्यर्थः। येन कृतकृत्यत्वाभिमानेन त्यजसि तमपि त्यज, तस्यापि तत्त्वस्वरूपसम्बन्धाभावादित्यर्थः। यदि ज्ञानस्य कर्मापेक्षा स्यात् , तर्हि श्रौतस्योत्तमस्याग्निहोत्रादेः संन्यासो न स्यादेव कस्यापि। अतः संन्यास- प्राप्तवन्तो मोक्षमित्याह— न कर्मणेति। सति वैराग्ये नास्ति २क्रमापेक्षा, सत्यां सामग्र्यां ३कार्याक्षेपानुपपत्तेरित्याह— ब्रह्मचर्यादेवेति। इत्याद्याः सर्वकर्मसंन्यासविधायिन्यः श्रुतयो भवन्तीति शेषः। ‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ती’त्यादिवाक्यसंग्रहार्थम् आदि- पदम्। तत्रैव ४स्मृतिमुदाहरति— त्यजेति। धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भकत्वान्मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः। त्यक्तृत्वाभिमानस्यापि ५तत्त्वतः स्वरूपसम्बन्धाभावात् त्याज्यत्वमविशिष्टमित्याह—येनेति। अनुभवानुसारेण प्रमातृताप्रमुखस्य संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्राज्यमनुष्ठेयमिति ६उत्पत्तिविधिमुपन्यस्यति—संसारमिति। तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्यास७सामग्रीमभिदधानो विनियोगविधिं सूचयति— परमिति। ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति— कर्मणेति। उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह— तस्मादिति। वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह— इहापीति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
उ.७८) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’(कै.उ.१.३,म.ना.उ.१२.३) इति च। ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा.उ.४) इत्याद्याः श्रुतयः, ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज’(म.भा.१२.३२९.४०, ३३१.४४), ‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया। प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्य- माश्रिताः’(ना.प.उ.३.१५) इति (१बृहस्पतिः)। ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’(म.भा.१२.२४१.७) इति शुकानुशासनम्। इहापि च ‘सर्वकर्माणि मनसा संन्यस्य’(भ.गी.५.१३) इत्यादि। १. ‘बृहस्पतिः’ इति क्वचिन्न। ‘बृहस्पतिरपि कचं प्रति’ इति पा.। २. ब्रह्मचर्यं समाप्य गृही भवेद् , गृही भूत्वा वनी भवेदित्यादिः क्रमः। ‘कर्मापेक्षा’ इति पा.। ३. कार्यविलम्बानुपपत्तेरित्यर्थः। ‘कार्यापेक्षा’ इति पा.। ४. ‘स्मृतीरुदाहरति’ इति पा.। ५. परमार्थत आत्मसंबन्धाभावादित्यर्थः। ६. ‘प्रव्रजन्त्यकृतोद्वाहाः’ इति अनुष्ठेयपारिव्राज्यस्वरूपबोधकः उत्पत्तविधिः। ‘परं वैराग्यमाश्रिताः’ इति वैराग्यस्य संन्यासाङ्गत्वबोधको विनियोगविधिरिति भावः। ७. कर्मसंन्यासे सामग्री परं वैराग्यम्।
[[अ. ३ श्लो. १]] [[१५०]]
मुमुक्षोः सर्वकर्मसंन्यास एव विहित इत्यत्र हेत्वन्तरमाह—कर्मानर्थक्यमिति। ननु न कर्माण्यनर्थकानि, किन्तु मोक्षार्थानीत्यत आह—मोक्षस्य चाकार्यत्वादिति। यत् कर्मजन्यं तत् कार्यम् , यथा घटः। स हि दण्डचक्रभ्रमणादिजन्यः। एवं यज्ञादिकर्मजन्यत्वात् स्वर्गादिफलानि कार्याणीत्युच्यन्ते। मोक्षस्तु न कार्यमिति कथं कर्मजन्यत्वं तस्य? अकार्यत्वे च ‘नास्त्यकृतः कृतेन’ इति श्रुतिः प्रमाणम्। किञ्च यदि मोक्षः कार्यः स्यात् , तर्हि स्वर्गादिवद् घटादिवच्चानित्य एव स्यात्। नित्यो हि मोक्षः सम्प्रतिपन्नः। तस्मात् कर्मफलेषु स्वर्गादिषु पापपरिहारादिषु वा मुमुक्षोः कामाभावाद् मोक्षस्याकर्मजन्यत्वाच्च न मुमुक्षोः कर्मभिः कोऽप्यर्थ इति युक्तमेव मुमुक्षोः सर्वकर्मसंन्यासविधानम्। ननु मुमुक्षोरपि नित्यकर्माण्यावश्यकानि प्रत्यवायपरिहारार्थकत्वान्नित्यानां कर्मणाम् ; इदमेव हि तन्नित्यत्वं यदकरणे प्रत्यवाय इत्याक्षिपति— नित्यानीति। ७असंन्यासविषयत्वादिति। यैः सर्वकर्मसंन्यासो न कृतः शास्त्रोक्तः, तेषामेव नित्यानामकरणे प्रत्यवायः शास्त्रोक्तः। विहितस्याकरणं निषिद्धस्य करणं हि दोषहेतुः। कर्माणि तु विहितानि पुंसः संन्यासात् प्राक्, पश्चात्तु संन्यासस्यैव विहितत्वात् कथं कर्मविधानम्? न ह्येकस्मिन् पुरुषे एकदा सर्वकर्मसंन्यासविधिं सर्वकर्मविधिं च ब्रूयात् शास्त्रमीश्वरो वा। एवं सर्वकर्मसंन्यासिनां नित्यकर्मकरणमेव दोषहेतुः, अविहितत्वादिति भावः। कुतो न शक् य इत्यत्र दृष्टान्तमाह— यथेति। अग्निहोत्रस्य दारपरिग्रहसमकालप्राप्तत्वान्नास्ति असंन्यासिनामपि ब्रह्मचारिणामग्निहोत्रविधिः। विध्यभावादेवाग्निहोत्राकरणाद् नास्ति तेषां प्रत्यवायः। तद्वद् विध्यभावस्य तुल्यत्वान्न संन्यासिनां नित्याकरणात् प्रत्यवायः। यद्वा ब्रह्मचारिणामिति व्यतिरेक- दृष्टान्तः। यथा सन्ध्यावन्दनादिनित्याकरणाद् ब्रह्मचारिणां प्रत्यवायः, तथेति। नित्यानामकरणात् प्रत्यवायमभ्युपेत्य तस्यासंन्यास- विषयत्वमुक्तमितः प्राक्। इदानीं तु नित्यानामकरणात् प्रत्यवाय एव भवितुं नार्हतीत्याह— न तावदित्यादिना। अत्र हेतुमाह— विध्यनुपपत्तिबाधितं समुच्चयाभिधानमित्यभिधाय, मोक्षस्वभावपर्यालोचनयाऽपि इदानीं कर्मापेक्षा नास्तीत्याह— मोक्षस्य चाकार्यत्वादिति। उत्पाद्यम् आप्यं संस्कार्यं विकार्यं च क्रियाफलम्। स्वरूपावस्थानलक्षणं तु कैवल्यं नैवंविधमिति न कर्मणा[मु]पयोग इत्यर्थः। नित्यानीति। ‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन्। प्रसजंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥’ इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायपरिहाराय कर्म कर्तव्यम्। ततो[ऽ]वैयर्थ्यमित्यर्थः। यो यस्मिन् कर्मण्यधिकृतः तस्य तदकरणात् भवेन्नाम प्रत्यवायः, न तु संन्यासिनः ‘अत ऊर्ध्वममन्त्रवदाचरेदि’त्यादिविध्यधिकारिणः सन्ध्यावन्दनादेरकरणात् ३सूतकिनामिव प्रत्यवायः सम्भवतीत्याह— न, असंन्यासिविषयत्वादिति। पूर्वमकरणात् प्रत्यवायोत्पत्तिमङ्गीकृत्योक्तम्। इदानीं तु प्रतिषिद्धकरणादेव प्रत्यवायो भवति, ४न त्वकरणाद् , अभावाद्भावोत्पत्तेः ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चय५वचनमित्युक्तम् । इदानीं मोक्षस्वभावालोचनयाऽपि समुच्चयवचन- मनुचितमित्याह— मोक्षस्य चेति। ‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन्। प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥’ इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यं कर्मेति शङ्कते— नित्यानीति। यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः सम्भवतीति दूषयति— न, असंन्यासीति। तदेव स्पष्टयति— न हीति। ६समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः। तत्र व्यतिरेकोदाहरणमाह—यथेति। अकरणात् प्रत्यवायोत्पत्तिमभ्यु-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मोक्षस्य चाकार्यत्वान्मुमुक्षोः कर्मानर्थक्यम्। नित्यानि प्रत्यवाय१परिहारार्थमनुष्ठेयानीति चेत् , न ; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः। २न ह्यग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा १. ‘परिहारार्थानीति चेत्’ इति पा.। २. ‘न ह्यग्निहोत्राद्यकरणात्’ इति रा.पा.। ३. सूतकिनां मन्त्रवत्संध्यावन्दनाद्यकरणप्रयुक्तः प्रत्यवायो यथा न भवति, तथेति दृष्टान्तस्यार्थः। ४. ‘अकुर्वन् विहितं कर्मे’ति स्मृतेस्तु नित्याकरणं प्रत्यवायस्य ज्ञापकमित्याशयः। द्र. तै.उ.भाष्यम् पृ.३६७। ५. ‘विधिवचन’ इति पा.। ६. समिद्धोमः ब्रह्मचारिणां विहितं समिदाधानम्। ७. ‘असंन्यासविषयत्वाद्’ इति रा.पुस्तके भाष्ये पाठो दृश्यते।
[[१५१]]
अभावादेवेति। नित्यानामकरणं नाम नित्यकर्मकरणाभावः, नञोऽभावार्थकत्वात्। प्रत्यवायो दोषः। स हि भावरूपः। अभावाद् भावस्योत्पत्तिः कल्पयितुं न शक्या, नापि युक्ता। तत्र श्रुतिं प्रमाणयति— कथमिति। असतः सकाशात् सत् कथं जायेत? न कथमपीत्यर्थः। एतेन घटप्रागभावाद् घटोत्पत्तिं ब्रुवाणास्तार्किकाः प्रत्युक्ताः, अभावस्याभावत्वादेव भावं प्रति कारणत्वायोगात्। न ह्यभावाच्छशशृङ्गाद् यत्किञ्चिद् वस्तूत्पद्यमानं दृष्टं श्रुतं वा। ननु ‘असदेवेदमग्र आसीत् , ततो वै सदजायते’ति श्रुतिसिद्धा भावस्याभावादुत्पत्तिरिति चेत् ? मैवम् ; ‘सदेवेदमग्र आसीत्’, ‘यतो वा इमानि भूतानि जायन्ते…तद् ब्रह्म’, ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’, ‘सन्मूलाः सोम्येमाः’ इत्यादिश्रुतिशत- संवादाद् इहाप्यसच्छब्देन ब्रह्मण एव ग्राह्यत्वात्।३जन्माधीनसत्ताऽभावस्तु ब्रह्मण्यसच्छब्दप्रवृत्तिनिमित्तम्। यद्वा प्रमाणप्रमेयाद्यभावाद् असत्कल्पत्वात् सदपि ब्रह्मासदित्युच्यते, ‘मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृग्’ इति भागवतात्। किञ्च ‘तदैक्षत बहु स्याम्’ इति सङ्कल्पश्रवणं च कथमुपपद्येताभावस्य जगत्कारणताश्रयणे? न ह्यभावश्चेतनः, भावधर्मत्वाच्चैतन्यस्येति। ननु अभावाद् भावस्योत्पत्तिरशक्या अयुक्ता वा भवतु, तथापि अतीन्द्रियार्थे वेदस्यैव प्रमाणत्वान्नित्याकरणे प्रत्यवायस्य वेदोक्तत्वादभ्युपेय एव प्रत्यवाय इत्यत आह— यदीत्यादि। अप्रमाणमिति। असम्भाव्यार्थवर्णनादनर्थहेतुत्वाच्चेति भावः। अर्थवत्त्वस्यैव प्रमाणत्वात्मकत्वादिति गूढाशयः। तदेव विवृणोति— विहितस्येति। क्रियाकारकाद्यनेकोपकरणोपसंहारपूर्वकत्वाद् विहितकरणस्य श्रमहेतुत्वेन दुःखहेतुत्वं सर्वजनानुभवसिद्धम्। विहिताकरणस्य प्रत्यवायहेतुत्वेन दुःखहेतुत्वं तु शास्त्रसिद्धम्। अत उभयथाऽपि दुःखमेव फलमित्यर्थः। तथा चेति। नित्यकर्मणां दुःखमात्रफलकत्वादित्यर्थः। कारकं तद्विधायकं, प्रवर्तकमिति यावत्। शास्त्रं न लोकवेदविरुद्धत्वादित्याह— असंन्यासिनामपीति। इतश्च नाकरणात् प्रत्यवाय इत्याह— यदि विहितेति। विहितस्य करणे तावत् पितृलोकप्राप्तिलक्षणं फलं कर्ममीमांसकैः नाभ्युपगम्यते। धूमादीनां तु चक्षुषः पीडादिकं दृष्टमेव, अकरणेऽपि प्रत्यवाय इति उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः। नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदबलादेव भविष्यति, ततोऽकरणनिमित्तप्रत्यवायपरिहार एव फलं विद्यत इत्याशङ्क्याह— तथा च कारकमिति। लोकसिद्धपद- पेत्योक्तम्। सम्प्रति प्रतिषिद्धकरणादेव प्रत्यवायः, न त्वकरणाद् , अभावाद् भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह— न तावदिति। ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति; तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते, श्रुत्यन्तरविरोधादिति, तत्राह— यदीति। विहितस्याकरणे सत्यनर्थप्राप्तेः न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह— विहितस्येति। न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं २भवतेष्यते; धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव; अकरणे च प्रत्यवायोत्पत्तिः; उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः। नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति। तथा च विहिताकरण[निमित्त]प्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह— तथा चेति। लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकाराद् अपूर्वशक्त्याधानायोगाज्ज्ञापकमेव शास्त्रमित्यर्थः। कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह— कारकमिति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ब्रह्मचारिणामसंन्यासिनामपि कर्मिणाम्। न तावन्नित्यानां कर्मणामकरणाद् अभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, १युक्ता च। ‘कथमसतः सज्जायेत’(छा.उ.६.२.२) इत्यसतः सज्जन्मासम्भवश्रुतेः। यदि विहिताकरणादसम्भाव्यमपि प्रत्यवायं ब्रूयाद् वेदस्तदाऽनर्थकरो वेदोऽप्रमाणमित्युक्तं स्यात् , विहितस्य करणा- करणयोर्दुःखमात्रफलत्वात्। तथा च कारकं शास्त्रम् , न ज्ञापकमित्यनुपपन्नार्थं कल्पितं स्यात्। न चैतदिष्टम्। अ. ३ श्लो. १ ] १. ‘युक्ता च’ इति क्वचिन्न। २. ‘भवतीति दृश्यते’ इति पा.। ३. ब्रह्मणि असच्छब्दप्रयोगमुपपादयति— जन्मेति। तत्र सत्तायां जन्माधीनत्वरूपविशेषणाभावाद् उक्तविधमसत्त्वम्। नामरूपव्याकरणाभावमपेक्ष्य ब्रह्मणि असच्छब्दप्रयोग इति च बोध्यम्। द्र. ब्र.सू. १-४-१५।
[[१५२]]
ज्ञापकं न प्रमाणम् इति अनुपपन्नार्थमयुक्तार्थमसम्भावितार्थं वा शास्त्रं कल्पितं, भगवतेति शेषः, स्यात्। भवतु, किं ततः? आह— न चैतदिष्टमिति। शास्त्रस्य भगवदाज्ञारूपस्य प्रवृत्त्यात्मकस्य वेदस्य असम्भावितार्थत्वप्रयुक्तं दुःखार्थत्वप्रयुक्तं चाप्रामाण्यम् इत्येतदनिष्टमेव, स्वतः प्रमाणत्वाद् वेदस्य। सर्वपुरुषार्थज्ञानस्य वेदाधीनत्वेन वेदस्याज्ञापकत्वासम्भवाच्च। अयमाशयः— नित्यकर्मणां न प्रत्यवायपरिहारार्थत्वं कल्पयितुं शक्यम् ; उपात्तदुरितक्षयप्राजापत्यलोकचित्तशुद्ध्यादिमहा- फलवत्त्वात् तेषाम्। ‘सन्ध्या येन न विज्ञाता, सन्ध्या येनानुपासिता। जीवमानो भवेच्छूद्रो मृतः श्वानोऽभिजायते॥’ इत्यादिप्रत्यवाय- श्रवणं तु - नित्यकर्माचरणेन दुरितक्षयं विधाय चित्तशुद्धिं सम्पाद्य ज्ञानद्वारा मुक्तिं प्राप्तुमर्हं द्विजदेहमासाद्य, यः पुमान् नित्यकर्माकरणेनात्मानं नाशयति, स आत्मघाती अन्धं तमः प्रपद्यते, ‘अन्धं तमः प्रपद्यन्ते ये के चात्महनो जनाः’ इति श्रुतेः - इत्यभिप्रायकृतम्। यद्वा यो नित्यकर्मभिर्दुरितक्षयं न करोति, पुण्यं च न सम्पादयति, स पुमानितोऽपि हीनतरं श्वादिजन्म प्राप्नोति। पुण्यपापोभयलब्धं मनुष्यजन्म, नित्यकर्मानाचरणे तु पुण्याभावात् पापानिवृत्तेश्च पापबलाच्छ्वादिजन्मप्राप्तिरिति बोध्यम्। सर्वथाऽपि नित्यकर्माकरणान्न प्रत्यवायोत्पत्तिः, किन्तु नित्यकर्माकरणे दुरितक्षयाद्यभावः, पुण्याभावविशिष्टदुरितात्तु श्वादिजन्मरूपप्रत्यवायो- त्पत्तिरिति सर्वमनवद्यम्। ‘तथा चे’ति वाक्यमन्यथा व्याख्यातम् आनन्दगिरिणा। तथाहि—‘नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह— तथा चेति। लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारादपूर्वशक्त्याधानायोगाज्ज्ञापकमेव शास्त्रमित्यर्थः। कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह— कारकमिति। भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यापौरुषेयतया अशेषदोषानागन्धितत्वान्मैवमित्याह— न चेति।’ अस्यायमर्थः— यद्यभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यतीत्युच्यते, तर्हि वेदः कारक एव स्यान्न तु ज्ञापकः। अपूर्वशक्त्याधायकत्वं कारकत्वम् , लोकप्रसिद्धपदार्थशक्त्याश्रयणेन प्रवर्तकत्वं ज्ञापकत्वमिति विवेकः। यस्य यस्याग्न्यादिपदार्थस्य लोके या या दाहकत्वादिशक्तिरस्ति तामनुसृत्यैव शास्त्रं होमादिविधिं विधत्ते, न तु पदार्थेष्वपूर्वां शक्तिं कल्पयितुमीष्टे, प्रत्यक्षविरोधात्। मानान्तराबाधित- तात्पर्यविषयसंसर्गबोधकं हि वाक् यं प्रमाणम्। अत एव ‘अग्निना सिञ्चे’ति वाक्यस्याप्रामाण्यम् , प्रत्यक्षेण बाधितत्वादग्निकरणक- सेचनस्य। ततश्च नित्याकरणात् प्रत्यवाय इति वाक्यस्य मानान्तरबाधितत्वादप्रामाण्यमेव। अभावाद् भावस्योत्पत्तिर्हि प्रत्यक्षादि- प्रमाणविरुद्धा। न चैवं वाक्यतात्पर्यविषयसंसर्गस्य मानान्तरेणैव सिद्धत्वात् संसर्गबोधकं वाक् यं व्यर्थमिति वाच्यम् ; वृद्धप्रयुक्तस्य गामानयेति वाक्यस्य बालस्य गवानयनकर्मणि प्रवृत्तिजनकत्वेनाव्यर्थत्वात्। ‘ज्योतिष्टोमेन यजेते’त्यादिवेदवाक्यानि तु सुतरां पदार्थशक्त्याश्रयणेन हि शास्त्रं प्रवर्तते, नापूर्वशक्तिकारकम् , अन्यथा ‘अग्निना सिञ्च’ इत्यस्यापि १प्रामाण्यापातादित्यर्थः। लोकेऽप्यभावज्ञानमनुपलम्भात् , कण्टकाभावाच्चरणन्यास इत्यादि नोदाहरणीयम्। यतोऽनिर्वाच्यानुपलम्भस्य संवेदनम् अभावज्ञाने कारणम् , समीहितसाधनज्ञानं तु प्रवृत्तिकारणमिति द्रष्टव्यम्। यस्माद् नित्याकरणान्न प्रत्यवायः, तस्मादि- त्युपसंहारः। भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्य , अपौरुषेयतयाऽशेषदोषानागन्धितत्वाद् मैवमित्याह— न चेति। अनिर्वाच्यानुपलम्भस्य संवेदनम् अभावज्ञाने कारणम्२ , समीहितसाधनज्ञानं तु३ चरणन्यासादिप्रवृत्तिकारणमित्यङ्गीकृत्योपसंहरति— तस्मादिति। अकरणात् प्रत्यवायो- त्पत्त्यसम्भवः तच्छब्दार्थः। संन्यासिनां ज्ञाननिष्ठानां कर्मसंन्यासित्वादेव कर्मासम्भवे फलितमाह— अत इति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तस्मान्न संन्यासिनां कर्माणि। अतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः। १. ‘पत्तिरित्यर्थः’ इति पा.। २. नन्वनुपलब्धेः अभावज्ञानहेतुत्वाङ्गीकारात् कथं नाभावस्य कारणत्वमित्याशङ्क्याह—अनिर्वाच्येति। वृत्तिरूपोपलब्धितदभावयोः साक्षिवेद्यत्वमङ्गीक्रियते। द्र.चित्सुखी पृ. ४३६। तथा च तत्रापि नाभावस्य कारणत्वमिति भावः। ३. तुशब्देन अनिष्टसाधनकण्टकाद्यभावस्य कारणत्वव्यवच्छेदः।
[[१५३]]
मानान्तरासिद्धसंसर्गबोधकान्येवेति न तेषु वैयर्थ्यशङ्कावकाशः। तस्माद् वाक्यतात्पर्यविषयसंसर्गः मानान्तरसिद्धो भवतु वा, मा वा, मानान्तराबाधितस्तु भवितव्योऽवश्यमिति कृत्वा शास्त्रं ज्ञापकमेव, न तु कारकम्। पदार्थेषु विद्यमानां शक्तिमनुस्मृत्यैव[मनुसृत्यैव] अस्मिन् वह्नौ एतदिन्द्रमुद्दिश्य एतदाज्यहविःप्रदानेन यजमानस्य स्वर्गो भविष्यतीत्यज्ञातार्थं ज्ञापयतीति ज्ञापकम्। एवमज्ञातार्थज्ञापकत्वादेव शास्त्रं प्रमाणम्। यद्ययोग्यमर्थं विदध्यात् तर्हि कारकत्वाच्छास्त्रमप्रमाणमेव स्यादिति भावः। शास्त्रं कारकं, भवतीति शेषः। न तु ज्ञापकं भवति इत्यनुपपन्नार्थम् अयुक्तार्थं, वाक्यमिति शेषः। कल्पितं स्यात् नित्याकरणात् प्रत्यवायवादिना इति शेषः। अनुपपन्नो वाक्यार्थः कल्पितः स्यादित्यर्थः। इति भाष्यान्वयः। अन्यत् तुल्यम्। पूर्वव्याख्यानेऽपि ‘इत्यनुपपन्नार्थं कल्पितं स्यादि’त्यस्य समनन्तरोक्तार्थोऽप्युपपद्यते, परं तु— कारकं शास्त्रं ज्ञापकं न भवतीति पूर्वोक्तान्वयः; शास्त्रं कारकं भवति, न तु ज्ञापकमिति समनन्तरोक्तान्वय इति विशेषः। कारकज्ञापकपदार्थभेदस्तु दर्शित एवेति सङ्क्षेपः। तस्मादिति। नित्यकर्माकरणजन्मप्रत्यवायाभावादित्यर्थः। अत इति। मुमुक्षोः संन्यासविधानादित्यर्थः। प्रश्नानुपपत्तिमेव विवृणोति— यदि हीत्यादिना। यदि ज्ञानकर्मणोः समुच्चय एव श्रेयःप्राप्तिहेतुः, न त्वन्यतरत् , तर्हि श्रेयस्कामायार्जुनाय भगवान् समुच्चयं कुर्वित्युपदिशेत् , न तु ‘कर्मण्येवाधिकार’ इति। अर्जुनश्च—यदि कर्मापेक्षया ज्ञानमेव ज्यायः, तर्हि किमिति कर्मणि मां नियोजयसीति नैव पृच्छेत् , समुच्चयस्यैवोपदिष्टत्वादित्यर्थः। ननु अन्येषां समुच्चय उपदिष्टः, अर्जुनस्य तु कर्मैवेति कृत्वा प्रश्न उपपद्यत इति शङ्कते— न चेति। न चैवं कल्पयितुं युक्तम् , अर्जुनस्य भक्तत्वाच्छ्रेयोऽर्थित्वाच्च हिततमो- पदेशार्हत्वात् , कर्ममात्रोपदेशानुष्ठानो[मात्रानुष्ठानो]पदेशस्य मोक्ष[क्षा]हेतुत्वेनाहिततमत्वाच्चेति भावः। येनेति। अर्जुनस्य कर्ममात्रो- पदेशेनेत्यर्थः। ज्ञानानुष्ठानानुपदेशेनेति वा। येन कल्पनेनेति वा। अस्मिन् पक्षे तथा कल्पयितुमिति तथाशब्दस्य शेषः। प्रश्नस्यानुपपत्तिमुक्त्वा उपपत्तिं दर्शयति— यदि पुनरिति। विरोधादिति। ‘कर्ताऽहं, भोक्ताऽहम्’ इत्यहङ्कारपूर्वकत्वात् कर्मणः, इतश्च समुच्चयानुपपत्तिरित्याह— ज्यायसी चेदित्यादिना। ननु ‘कर्मण्येवाधिकारएवे[रस्ते’ इ]त्यर्जुनं प्रत्युक्तम् , न ज्यायसी बुद्धिरुक्तेति युक्त उपालम्भ इत्याशङ्क्याह—न चार्जुनस्यैवेति। ‘एषा तेऽभिहिता साङ्ख्ये’ इति वचनविरोधादित्यर्थः। कस्मिन् पक्षे तर्हि अयं प्रश्न उपपन्नो भवतीत्याशङ्क्याह— यदि पुनरेकस्येत्यादिना। पूर्वोक्तमप्यधिकविवक्षया स्मारयति— समुच्चयानुपपत्तौ हेत्वन्तरमाह— ज्यायसीति। प्रश्नानुपपत्तिमेव प्रपञ्चयति— यदि हीति। समुच्चयोपदेशे ३प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह— अर्जुनायेति। ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं ‘तत् किम्’ इत्याद्युपालम्भवचनमित्याशङ्क्याह— न चेति। येन कल्पनेन ‘ज्यायसी चेदि’त्यारभ्य ‘तत् किं कर्मणी’त्युपालम्भात्मा प्रश्नः स्यात् , तथा न युक्तं कल्पयितुम् , ‘एषा तेऽभिहिता साङ्ख्ये बुद्धिः’ इति वचनविरोधादिति योजना। कस्मिन् पक्षे तर्हि प्रश्नस्योपपत्तिरित्याशङ्क्याह— यदीति। भगवदुक्तेऽर्थे प्रष्टुर्विवेकाभावात् प्रश्नः स्यादित्याशङ्क्य पूर्वोक्तमेवाधिकविवक्षया स्मारयति—
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’(भ.गी.३.१) इत्यर्जुनस्य प्रश्नानुपपत्तेश्च। यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च १समुच्चित्य त्वयाऽनुष्ठेयमित्युक्तं स्यात् , ततोऽर्जुनस्य प्रश्नोऽनुपपन्नः ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ इति। अर्जुनाय चेद् बुद्धिकर्मणी त्वयाऽनुष्ठेये इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः साऽप्युक्तैवेति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’(भ.गी.३.१) इति २उपालम्भः प्रश्नो वा न कथञ्चनोपपद्यते। न चार्जुनस्यैव ज्यायसी बुद्धिर्नानुष्ठेयेति भगवतोक्तं पूर्वमिति कल्पयितुं युक्तम् , ‘येन ज्यायसी चेद्’ इति प्रश्नः स्यात्। यदि पुनरेकस्य पुरुषस्य अ. ३ श्लो. १ ] १. ‘समुच्चयेन त्वया’ इति पा.। २. ‘उपालम्भो वा प्रश्नो वा’ ‘उपालम्भो न’ ‘प्रश्नो न’ इति पा.। ३. एकदेशप्रश्नेति संभाव्यते। एकदेशविषयः प्रश्नः इति यावत्।
[[१५४]]
‘नाहं कर्ता, नाहं भोक्ते’ति ज्ञानविरोधः। ननु भगवता समुच्चय एव द्वितीयाध्याये प्रोक्तः। अर्जुनस्तु तदर्थमज्ञात्वा - ज्ञाने केषाञ्चिदधिकारः, कर्मणि तु स्वस्याधिकारः प्रोक्तो भगवतेति - मत्वा ‘ज्यायसी चेद्’ इति पप्रच्छेत्यत आह— अविवेकत इति। भिन्नपुरुषानुष्ठेयत्वेनेति। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति साङ्ख्ययोगिरूपपुरुषद्वयानुष्ठेयत्वेनेत्यर्थः। ननु भगवानप्यविवेकादेव तादृशमुत्तरमवोचदित्यत आह— न चेति। भगवति सर्वज्ञे भ्रमप्रमादादिदोषगन्धरहिते अज्ञानायोगादिति भावः। तस्माच्चेति तस्माच्छब्दार्थं स्वयमेव विवृणोति—भिन्नपुरुषेति। एकपुरुषा- नुष्ठेयत्वे सति ज्ञानकर्मणोः समुच्चयः स्यादिति भावः। किञ्च यदि समुच्चय एव भगवदभिमतः, अर्जुनाय प्रोक्तश्च तर्हि , ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्’ इति कथमर्जुनः ज्ञानकर्मणोरन्यतरदेव श्रेयःप्रापकं पप्रच्छ? इत्याह— ज्ञानकर्मणोरिति। भगवांश्च ‘मया समुच्चय एवोक्तः, किमित्थं त्वं भ्रान्तोऽसि, न ह्यन्यतराच्छ्रेयः प्राप्तुं शक्यम् , तस्मात् त्वमुभयं कुरु’ इत्येवात्र चतुर्थाध्याये ब्रूयात् , न तु ‘कुरु कर्मैव तस्मात्त्वम्’ इति ब्रूयादित्याह— उभयोरित्यादिना। ज्ञाननिष्ठाया असम्भवमिति समासः। अवधारणेनेति। कर्मैवेत्येवकारेणेत्यर्थः। एतेन आत्मयाथात्म्यदर्शनपूर्वकं कर्म कर्तव्यमिति रामानुजमतं च प्रत्युक्तम् , आत्मयाथात्म्यदर्शनस्य साङ्ख्यविषयत्वात् , कर्मणश्च योगिविषयत्वाद् , अकर्त्रभोक्त्रात्मदर्शनस्य कर्तृत्वाद्यभिमानपूर्वककर्मविरोधित्वाच्चेति। हे जनार्दन ! यदि कर्मणो बुद्धिर्ज्यायसीति ते मता, तर्हि , हे केशव ! मां घोरे कर्मणि किमिति नियोजयसीत्यन्वयः। श्रेयसी अविवेकत इति। भगवतोऽपि प्रतिवचनमज्ञाननिमित्तं २प्रश्नाननुरूपत्वादित्याशङ्क्याधिकं दर्शयति— न चेति। भगवतः सर्वज्ञत्वप्रसिद्धि- विरोधादज्ञानाधीनप्रतिवचनायोगादित्यर्थः। इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह— अस्माच्चेति। कस्तर्हि शास्त्रार्थो विवक्षितः? तत्राह— केवलादिति। ज्ञानकर्मणोः समुच्चयानुपपत्तौ कारणान्तरमाह— ज्ञानेति। वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह— कुरु कर्मैवेति। प्राथमिकेन सम्बन्धग्रन्थेन समस्तशास्त्रार्थसङ्ग्राहकेण तद्विवरणात्मनोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यमिति मत्वा प्रतिपदं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्ञानकर्मणोर्विरोधाद् युगपदनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात् , ततोऽयं प्रश्न उपपन्नः—‘ज्यायसी चेद्’ इत्यादिः। अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते। न चाज्ञाननिमित्तं भगवत्प्रतिवचनं कल्प्यम्। १अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनाद् ज्ञानकर्मणोः समुच्चयानुपपत्तिः। तस्मात् केवलादेव ज्ञानान्मोक्ष इत्येषोऽर्थो निश्चितो गीतासु , सर्वोपनिषत्सु च। ‘ज्ञानकर्मणोरेकं वद निश्चित्य’ इति चैकविषयैव प्रार्थनाऽनुपपन्ना उभयोः समुच्चयसम्भवे। ‘कुरु कर्मैव तस्मात् त्वम्’ (भ.गी.४.१५) इति च ज्ञाननिष्ठाऽसम्भवमर्जुनस्यावधारणेन दर्शयिष्यति। अविवेकत इति। तदधिकमाह— न चेति। सर्वज्ञत्वप्रसिद्धिविरोधादित्यर्थः। यद्युक्तरीत्या प्रश्नप्रतिवचनयोर्न समुच्चयपक्षे सामञ्जस्यम् , कस्तर्हि पक्षः शास्त्रार्थाविरुद्धः सुनिश्चित इत्याशङ्क्याह— तस्माच्चेत्यादिना। न चात्र सम्बन्धग्रन्थेन पौनरुक्त्य- मेषां ग्रन्थानां शङ्कनीयम् , सकलशास्त्रार्थसङ्ग्रहत्वात् तस्य, विवरणरूप(क)त्वाच्च [ए]तेषाम्। ॥इति श्रीभगवद्गीताभाष्यटिप्पणे तृतीयोऽध्यायः॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘तस्माच्च’ इति पा.। २. ‘प्रश्नानुरूपत्वाद्’ इति पा.।
[[१५५]]
श्रेयस्करीत्यर्थः। हे जनार्दन, ३जनमर्दति गच्छतीति जनार्दनः, सर्वान्तर इत्यर्थः। गत्यर्थानां ज्ञानार्थत्वात् सर्वज्ञ इति वा। जनैरर्द्यते याच्यते इति वा जनार्दनः। तत्तत्पुरुषार्थसिद्धये जना एनं याचन्त इत्यर्थः; तत्सम्बुद्धिः। एतेन सर्वज्ञस्य सर्वान्तरस्य च तव यन्मतं तदेव सर्वसम्मतमिति, सर्वपुरुषार्थप्रदेन त्वया यच्चोद्यते तत्करणमेव फलदमिति च सूच्यते। यदीति। यदि बुद्धिकर्मणी समुच्चिते इष्टे तर्हि अर्जुनेन कृतं बुद्धेः कर्मणोऽतिरिक्तत्वं पृथक्त्वमधिकत्वं वाऽनुपपन्नं स्यात्। कुत्र कृतमर्जुनेनेत्यत आह— तदेकमिति। ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुया’मिति, ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दने’ति चात्रैवोक्तमित्यर्थः। ननु समुच्चयेऽपि कर्मातिरिक्ता बुद्धिः स्यात् , को दोषः? तत्राह— न हीति। तदेव तस्मात् फलतोऽतिरिक्तं न हि स्यादित्यन्वयः। समुच्चयस्य कर्मज्ञानोभयरूपत्वेन कर्म बुद्धिश्चेत्युभयमप्येकमेव। एकसमुच्चयात्मकत्वादिति कृत्वा कथमेकात्मकयोः कर्मबुद्ध्योः पृथक्त्वम् उत्कर्षापकर्षौ वा स्याताम्? न कथमपीत्यर्थः। ननु शिरःपाण्याद्यवयवसमूहात्मकेऽपि गात्रे यथा पादादिभ्यः शिरः प्रधानमित्युच्यते, तद्वत् कर्मबुद्ध्युभयात्मकेऽपि समुच्चये कर्मणो बुद्धिः श्रेयस्करीत्युच्यत इति चेत् , मैवम् ; दृष्टान्तदार्ष्टान्तिकयोरुभयोरपि अवयवातिरिक्तस्यावयविनोऽभावात्। न हि शिरः- पाण्याद्यतिरिक्तं गात्रमिति कश्चिदवयव्यस्ति, येन तदवयवान्यतमयोः शिरःपादयोरुत्कर्षापकर्षावुच्येयाताम्। तथा कर्मबुद्ध्यतिरिक्तः समुच्चय इति कश्चिदवयवी नास्ति, येन समुदायावयवान्यतरयोः ज्ञानकर्मणोरुत्कर्षापकर्षावुच्येयाताम्। तस्माच्छिरआद्यवयवानामेव गात्रमिति, कर्मबुद्ध्योरेव समुच्चय इति च संज्ञा। तथा च यथा शिरो गात्रम् , तथा पादोऽपि गात्रमेव; यथा कर्म समुच्चयस्तथा बुद्धिरपि समुच्चय एवेति सिद्धम्। ततश्च कर्मणो बुद्धिः श्रेयसीत्युक्तौ समुच्चयात् समुच्चयः श्रेयानित्यापतितम्। तच्चायुक्तम् ; न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यादिति। ननु तथा सति ‘सर्वस्य गात्रस्य शिरः प्रधान’मित्युक्तिः कथमुपपद्येतेति चेत्? उच्यते— अविवेकादिति। न ह्यवयवातिरिक्तावयविकल्पने अविवेकं विना हेतुरस्ति। न च ‘पादाच्छिरः उत्कृष्ट’मित्यस्य कथमुपपत्तिरिति वाच्यम् ; अवय- व्यनभ्युपगमे सिद्धान्ते अवयवानामेकात्मकत्वाभावाच्छिरःपादयोः पृथगवयवयोरुत्कर्षापकर्षौ सुष्ठूपपद्येते। अतः प्रकृते च समुच्चया- नभ्युपगमे कर्मज्ञानयोः पृथग्भूतयोरुत्कर्षापकर्षौ स्यातामेवेति। एतेन कर्मज्ञानसमुच्चय इति कश्चन पदार्थो दुर्निरूप इति व्यक्तम्। तथा चेति। कर्मणो बुद्धेरतिरिक्तीकरणेन कर्मज्ञानयोः समुच्चयस्यासिद्धत्वादित्यर्थः। हे कृष्ण! भगवता त्वयोक्ता बुद्धिः कर्मणः व्याख्यातुं प्रश्नैकदेशं समुत्थापयति— ज्यायसी चेदिति। ‘वेदाश्चेत् प्रमाण’मितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति— यदीति। बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनति—ज्ञानमिति। पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह— यदीति। इष्टे भगवतेति शेषः। एकं ज्ञानं कर्म च समुच्चितमिति यावत्। ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात् कर्मणः सकाशाज्ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः। एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह— न हीति। न च केवलात् कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणम् , समुच्चयपक्षे प्रत्येकं श्रेयःसाधनत्वानभ्युपगमादिति भावः। पूर्वार्धस्येव उत्तरार्धस्यापि समुच्चयपक्षे तुल्याऽनुपपत्तिरित्याह— तथेति। ‘दूरेण ह्यवरं कर्मे’त्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता, कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तम् , तथापि २तदेव कर्म ‘कर्मण्येवाधिकारस्ते मा फलेषु’ इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कारणानुपलम्भाद् अयुक्तमतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समुच्चयपक्षेऽनुपपन्नं स्यादित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्यायसी चेदिति। ज्यायसी श्रेयसी चेद् यदि कर्मणः सकाशात् ते तव मताऽभिप्रेता बुद्धिः ज्ञानं, हे जनार्दन ! यदि बुद्धिकर्मणी समुच्चिते इष्टे , तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिरिति कर्मणोऽतिरिक्तकरणं बुद्धेः अनुपपन्नमर्जुनेन कृतं स्यात्। न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात्। तथा (१च) कर्मणः श्रेयस्करी भगवतोक्ता अ. ३ श्लो. १ ] १. क्वचिन्न। २. तदेव कर्म कुरु इति संबन्धः। ३. जनार्दनशब्दस्य व्युत्पादनं भाष्यकारैः (भ.गी.१०-१८) इत्यत्र कृतं द्रष्टव्यम्।
[[१५६]]
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥२॥
श्रेयस्करी मास्तु , अश्रेयस्करं कर्म कुर्विति प्रतिपादयसि; तत् तत्र किन्नु किं वा कारणमिति भगवत उपालम्भं कुर्वन्निव अर्जुनो यदाह , तच्च नोपपद्यते इत्यन्वयः। किमाहेति शङ्कायां श्लोकस्योत्तरार्धं व्याचष्टे— तत्किमित्यादिना। तत् तर्हि हे केशव! ‘क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम्। आवां तवाङ्गे सम्भूतौ तस्मात् केशवनाम ते॥’ इति स्मरणाद् ब्रह्मरुद्रकारणम्। एतेन सर्वजगत्कर्तुः सर्वाधिपस्य तव मम कर्मसु प्रेरणं नोचितमिति प्रतीयते। अथवा ब्रह्मरुद्राधिपस्त्वं येन केनापि हेतुना मां कर्मणि नियोजयसि, न तु वृथा, नाप्यमर्षेण, किन्तु स हेतुः मम दुरधिगमः; न केवलं मम, किन्तु ब्रह्मरुद्रयोरपि; अतः पृच्छामि कस्तत्र हेतुरिति। इदमेव सूचयितुं श्रीभाष्यकारैः प्रयुक्तम् — उपालम्भमिव कुर्वन्निति इवपदम्। न तु वस्तुत उपालम्भं करोतीत्यर्थः। एतावता ग्रन्थसन्दर्भेण गृहस्थस्य श्रौतस्मार्तकर्मसमुच्चिताद् ज्ञानान्मुक्तिः, ऊर्ध्वरेतसां तु स्मार्तकर्मसमुच्चिताज्ज्ञानान्मोक्ष इति च पूर्वपक्षः, तत्प्रसङ्गागतमन्यच्च खण्डितम्। पुनः पूर्वपक्षयति स्मार्तकर्मसमुच्चितादेव सर्वाश्रमिणां मोक्षः, न केवलज्ञानादिति— अथेत्यादिना। दूषयति—तत्किमित्यादिना। घोरे कर्मणीत्यनेन युद्धकर्म सिद्धम्। तद्धि स्मार्तम्। स्मार्तकर्मसमुच्चितं ज्ञानं त्वया ऽनुष्ठेयमिति भगवता प्रोक्ते सति कथमर्जुनः ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ इति भगवन्तं पृच्छेत् ? कथं वा ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन’ इति कर्मापेक्षया ज्ञानस्य श्रेयस्त्वं वदेत्? कथं वा ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्’ इति पृच्छेत्? अथ यदि भगवतोक्तोऽर्थोऽर्जुनेनानवधारित इत्युच्येत, तर्हि भगवानपि ‘मया स्मार्तकर्मज्ञानसमुच्चय एवोक्तः, त्वया तु नाधिगतम्’ इति किमिति नावोचत्? ‘लोकेऽस्मिन् द्विविधा निष्ठा’ इति कर्मज्ञानयोर्भिन्नपुरुषानुष्ठेयत्वं किमिति ब्रूयात्? तस्मात् केवलादेव ज्ञानान्मोक्ष इति गीतासूपनिषत्सु च निश्चितोऽर्थ इति पूर्वेण सम्बन्धः॥१॥
व्यामिश्रेणेति। इवशब्दान्न वस्तुतो व्यामिश्रमिति प्रतीयत इत्यभिप्रेत्याह— यद्यपीत्यादि। विविक्तं विस्पष्टमभिधत्ते इति विविक्ताभिधायी। व्यामिश्रम् अविविक्तम् , सङ्कीर्णमिति यावत्। कर्मज्ञानविषयविवेकरहितमिति परमार्थः। मोहयसीवेत्यत्रापीवशब्दात् बुद्धिः, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवतः उपालम्भमिव कुर्वन् , तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि, केशव ! इति च यदाह , तच्च नोपपद्यते। अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तोऽर्जुनेन चावधारितश्चेत् , ‘तत् किं कर्मणि घोरे मां नियोजयसी’त्यादि कथं युक्तं वचनम्?॥१॥
किञ्च— व्यामिश्रेणेति। व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान् , तथापि मम मन्दबुद्धेर्व्यामिश्रमिव भगवद्वाक् यं प्रतिभाति। तेन मम बुद्धिं मोहयसीव। मम १बुद्धिव्यामोहापनयाय हि प्रवृत्तस्त्वं तु कथं मोहयसि? अतो यत्तु वृत्तिकारैरुक्तम् — ‘श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भगवतोक्तम् , अर्जुनेन च निर्धारित’मिति, तदेतदनुवदति—अथेति। तत्रापि ‘तत्किम्’ इत्याद्युपालम्भवचनमनुपपन्नम् , कर्ममात्रे समुच्चयवादिनो भगवतो नियोजनाभावादिति२ दूषयति— तत्किमिति॥१॥
इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह—किञ्चेति। भगवतो विविक्तार्थवादित्वाद् अयुक्तं ‘व्यामिश्रेणे’त्यादिवचनम् इत्या- शङ्क्याह—यद्यपीति। यदि भगवद्वचनं सङ्कीर्णमिव ते भाति, तर्हि तेन त्वदीयबुद्धिव्यामोहनमेव तस्य विवक्षितमिति किमिति मोहयसीवे-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘मन्दबुद्धेर्व्यामोहापनयाय’ इति पा.। २. समुच्चयवादिनो भगवतः कर्ममात्रे नियोजनाभावादिति संबन्धः। त्वन्मते समुच्चये एवार्जुनस्य भगवता नियोजनादिति भावः।
[[१५७]]
न वस्तुतो मोहयसीति प्रतीतमित्याह— ममेत्यादिना। तत्रेति। व्यवहारभूमावित्यर्थः। तत्रैवं सति भागवते मते एवंरीत्या निश्चिते सतीत्यर्थः। गुणः अप्रधानम् , ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’ इति कोशः। गुणेन तुल्यं गुणभूतं नित्यसमासः। शुश्रूषा श्रोतुमिच्छा। पुनरपि समुच्चयवादं निराकरोति— यदीहेति। ज्ञानयुक्तं कर्म त्वयाऽनुष्ठेयमिति भगवतोक्ते कथमर्जुनस्तयोरेकं मे ब्रूहीति प्रार्थयेत? न कथमपीत्यर्थः। ननु समुच्चय एव भगवतो मतः; किन्तु समुच्चयः सः विवेकवत्पुरुषधौरेयविषयः; तत्र नास्त्यर्जुनस्य प्रवेष्टुं शक्तिरित्यभिप्रेत्य भगवता अन्यतरदेव कर्तव्यत्वेनार्जुनायोपदिष्टमित्यत आह—न हीति। किञ्च ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्’ इति निष्ठाद्वयमेवोवाच भगवान् , न तु विवेकवत्पुरुषधौरेयानुष्ठेयां समुच्चयात्मिकामन्यां निष्ठाम्। तस्मान्नास्ति समुच्चयो- पपत्तिः। ननु ‘कर्मण्येवाधिकारस्ते’ इति भगवता अर्जुनाय कर्मैव श्रेयस्करत्वेन निश्चित्योक्तमेवेति पुनः कथमर्जुनस्य प्रश्नावकाश इति चेत्? सत्यम् ; अत एव ‘तत्किं कर्मणि घोरे मां नियोजयसी’त्युपालब्धवान् पार्थः। परं तु भगवता द्वितीयाध्याये सामान्यतः कर्मयोगः, विस्तरतो ज्ञानयोगश्च प्रतिपादितः। अर्जुनस्तु स्नेहकारुण्यादिभीतो युद्धकर्मणो निवृत्तः ज्ञानयोगमवलम्ब्य भिक्षाटनमेव मे श्रेय इति कृतनिश्चय इति ‘गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके’ इति श्लोकेन सूच्यते। ततश्च संन्यास एव कृतप्रीतेः संन्यास एव साक्षान्निःश्रेयससाधनमिति भगवदुक्त्या निश्चितवतश्चार्जुनस्य ‘कर्मण्येवाधिकारस्ते’ इत्येतावन्मात्रोपदेशेन न कर्मणि प्रवर्तितु- मिच्छा जाता; नापि संन्यासान्निवर्तितुम्। अत एव पृच्छति— ‘तदेकं निश्चित्य वद’ इति। यद्यपि यथापूर्वमेव कर्मैव तव श्रेय इति वक्ष्यति भगवानिति वेदैवार्जुनः; तथापि कस्माज्ज्ञानयोगेऽहं न नियोजितः, कुतो वा कर्मयोगे नियोजितः, सति साक्षाच्छ्रेयःप्रदे ज्ञानयोगे किमिति कर्मयोगः शास्त्रेणोच्यते? इत्यादिहेतूपशमपूर्वकं कर्मयोगस्य माहात्म्यं ब्रवीमि— बुद्धिं मोहयसीव मे ममेति। १त्वं तु भिन्नकर्तृकयोर्ज्ञानकर्मणोरेकपुरुषानुष्ठानासम्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा, इदमेवार्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि। येन ज्ञानेन कर्मणा वाऽन्यतरेण श्रेयोऽहमाप्नुयां प्राप्नुयाम्।२(इति यदुक्तं तदपि नोपपद्यते।) ३यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवतोक्तं स्यात् , तत् कथं ‘तयोरेकं वद’ इत्येकविषयैवार्जुनस्य शुश्रूषा स्यात्? न हि भगवतोक्तम्४— अन्यतरदेव ज्ञानकर्मणोर्वक्ष्यामि, नैव द्वयमिति, येनोभयप्राप्त्यसम्भवमात्मनो मन्यमान एकमेव ५प्रार्थयते॥२॥
त्युच्यते? तत्राह— ममेति। ज्ञानकर्मणी मिथो विरोधाद् युगपदेकपुरुषाननुष्ठेयतया भिन्नकर्तृके कथ्येते। तथा च तयोरन्यतरस्मिन्नेव त्वं नियुक्तः, न तु ते बुद्धिव्यामोहनमभिमतमिति भगवतो मतमनुवदति— त्वं त्विति। ‘तदेक’मित्यादिश्लोकार्धेनोत्तरमाह— तत्रेति। उक्तं भागवतं मतं सप्तम्या परामृश्यते। एवमित्युक्तप्रकारोक्तिः। एकमित्युक्तमेव स्फुटयति— बुद्धिमिति। निश्चयप्रकारं प्रकटयति— इदमिति। योग्यत्वं स्पष्टयति— बुद्धीति। अस्य क्षत्रियस्य सतोऽन्तःकरणस्य, देहशक्तेः, समरसमारम्भावस्थायाश्चेदमेव ज्ञानं कर्म वाऽनुगुणमिति निर्धार्य ब्रूहीत्यर्थः। निश्चित्यान्यतरोक्तौ तेन श्रोतुः श्रेयोऽवाप्तिं फलमाह—येनेति। ‘तदेक’मित्यादिवाक् यस्याक्षरोत्थमर्थ- मुक्त्वा समुच्चयस्य शास्त्रार्थत्वाभावे तात्पर्यमाह—यदि हीति। ६गुणभूतमपीत्यादिना[त्यपिना] प्रधानभूतमपि वेति विवक्षितम्। ननूभयप्राप्त्यसम्भवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविषया शुश्रूषा भविष्यति, नेत्याह— न हीति। यथोक्तभगवद्वचनाभावे द्वय- प्राप्त्यसम्भवबुद्ध्या नान्यतरप्रार्थना सम्भवतीत्याह—येनेति। न हि तथाविधं भगवद्वचनं भवतेष्टम् , भगवतः समुच्चयवादित्वाङ्गीकारात्। अतस्तदभावादुक्तबुद्ध्या न युक्ताऽन्यतरप्रार्थनेत्यर्थः॥२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. ३ श्लो. १-२ ] १. ‘तत्र भिन्न’ इति रा.पा.। २. कुण्डलितः पाठः न सर्वत्र। ३. ‘यदीह’ इति रा.पा.। ४. ‘भगवता पूर्वमुक्तम्’ इति पा.। ५. ‘प्रार्थयेत’ ‘प्रार्थयेत्’ इति पा.। ६.ज्ञानकर्मसमुच्चयो ह्यनेकविधः। उभयोः समत्वेन, परस्परगुणप्रधानभावाभ्युपगमेन चेति भावः।
[[१५८]]
श्रोतुकामः पप्रच्छ तथाऽर्जुन इति। अथवा ‘कर्मण्येवाधिकारस्ते’ इति कर्मोपदिष्टमर्जुनाय, ‘बुद्धौ शरणमन्विच्छ’ इति साङ्ख्यं चोपदिष्टं द्वितीयाध्याये; अतः पृच्छत्यर्जुनः—तदेकं वद निश्चित्येति। वस्तुतस्तु न कृष्णेन तथा व्यामिश्रमभिहितम् , किन्तु विविक्तमेव। कथम्? तावत् कर्मयोगं कुरु, पश्चाच्चित्तशुद्धौ परमार्थ- ज्ञानशरणो भवेति, ‘श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसी’त्युक्तत्वात्। अर्जुनस्तु एतद् अविदित्वा तथा पप्रच्छेति बोध्यम्। यत्तु रामानुजः— आत्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपायाः ज्ञाननिष्ठायास्तद्विपर्ययरूपं कर्म२ साधनम् , तदेव कुरु इति वाक् यं व्यामिश्रं ३विरुद्धमेव। तस्माद् एकम् अमिश्ररूपं वाक् यं वद , येन वाक् येन अहमनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयामिति बभाषे। तत्तुच्छम् ; कर्मयोगनिष्पाद्यो ज्ञानयोग इत्युक्तस्य वाक्यस्य कथं विरुद्धत्वम्? यदि तु कर्मयोग एव ज्ञानयोग इत्युच्येत, तर्हि भवतु विरोधः, इन्द्रियव्यापारतदुपरमरूपत्वादुभयोः। न चेन्द्रियव्यापारसाध्यत्वमिन्द्रियव्यापारोपरमस्य विरुद्धमिति वाच्यम् ; ‘तदुदितः स हि यो यदनन्तरः’ इति यदनन्तरन्यायेन इन्द्रियव्यापारानन्तरजन्याया निद्राया इन्द्रियव्यापारोपरतिरूपाया दर्शनात्। मनोव्यापारोपरमस्येन्द्रियनिग्रहादिरूपमनोव्यापारसाध्यत्वदर्शनाच्च। तथा - व्यामिश्रं विरुद्धम् , एकम् अविरुद्धमित्यर्थवर्णनमप्ययुक्तम् , ताभ्यां तादृशार्थालाभात्। तथा - कर्मयोगनिष्पाद्या बुद्धिर्यदि ज्यायसीति ते मता, तर्हि किमिति मां कर्मणि नियोजयसीत्युपालम्भोऽप्यनुपपन्नः, कर्मणि नियुक्तेन कर्मयोगे साधिते सति तन्निष्पाद्यज्ञानयोगलाभात्। बुद्धिकर्मणी प्रकृत्य एकं वद इत्यनेन तयोरेकमित्येवार्थस्य स्वरसतः सिद्धत्वात् , वदेत्यनेनैवेष्टसिद्धौ वाक् यं वदेति व्याख्यानस्य पौनरुक्त्यावहत्वाच्च। निश्चित्येत्यस्योत्तरवाक्यान्वयोऽप्यसाधुः, भगवतोक्तेऽर्थे स्वनिश्चयस्यानपेक्षत्वात्। यद् यथा भगवतोक्तं तत् तथैव कर्तव्यं खलु? कः पुनरर्थस्तत्र पुरुषस्य निश्चयेन? न च निश्चित्य वदेत्यन्वये भगवतः सर्वज्ञत्वभङ्गप्रसङ्ग इति वाच्यम् ; यथा मम वाक्यार्थो निर्णीतः स्यात् तथा वदेति विवक्षितत्वेनादोषात्। येनेत्यस्य वाक् येनेत्यर्थोऽप्ययुक्तः, श्रेयःप्राप्तौ यत् करणं तस्यैवेहाकाङ्क्षितत्वात् ; वाक् येन केवलेन श्रेयोऽलाभान्न तस्य करणत्वम् ; वाक्यस्यैव ‘त्वं कर्मैव (न) कुरु’ इति ४निश्चयात्मकत्वेन वाक् येन निश्चित्य इत्यप्ययुक्तमिति॥२॥
लोके इति। प्रश्नानुरूपमिति। न तु वृत्तिकारादिमतवत्प्रश्नाननुरूपमित्यर्थः। श्रीभगवान् प्रश्नानुरूपमेव प्रतिवचनमुवाच इत्यन्वयः। त्रैवर्णिकाः ब्रह्मक्षत्रियवैश्याः। शूद्राणां तु नास्त्यधिकार इति भावः। युज्यत इति योगः। यद्वा युज्यतेऽनेनेति योग उपायः, पुरुषार्थप्राप्तिसाधनत्वादिति भावः। आत्मानात्मविषयो विवेकः- ‘अयमात्मा, इदमनात्मा’ इति, स एव ज्ञानम् , तद् येषामस्ति तेषां समुच्चयविरोधितया प्रश्नं व्याख्याय तद्विरोधित्वेनैव प्रतिवचनमुत्थापयति— प्रश्नेति। येयं व्यवहारभूमिरुपलभ्यते, तत्र ये त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते, तेषां १द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति— लोकेऽस्मिन्निति। स्थितिमेव
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच— लोकेऽस्मिन्निति। लोकेऽस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां १. ‘द्वयी’ इति पा.। २. अत्र ‘ज्ञाननिष्ठायास्तद्विपर्ययं कर्म कुरु, तदेव साधनम्’ इति मुद्रितः पाठो विद्यते। स च रामानुजभाष्यानुसारेण शोधितः। ३. तद्विपर्यय- रूपं कर्म कथं तत्साधनम्? तद्विरुद्धं च तदर्थिना कथं कर्तव्यम्? इति व्याहतिरत्राभिप्रेता। ४. वाक्यजन्यबोधस्य निश्चयात्मकत्वाव्यभिचारादिति भावः। श्रीभगवानुवाच— लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ !। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३॥
[[१५९]]
तथोक्तानाम्। साङ्ख्यं ज्ञानं, तदेषामस्तीति साङ्ख्या इति व्युत्पादितत्वादिति भावः। के ते साङ्ख्याः? अत आह— ब्रह्मचर्यादिति। ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ इति श्रुतिमिहानुक्रामयति—वेदान्तेति। वेदान्तविज्ञानं वेदान्तशास्त्र- श्रवणम् , तेन सुष्ठु निश्चितः अर्थः परमार्थतत्त्वमात्मा यैस्ते वेदान्तविज्ञानसुनिश्चितार्थाः२। यद्वा वेदान्तैर्जातं यद्विशिष्टं ज्ञानं ‘ब्रह्माहमस्मी’त्याकारकं तेन सुनिश्चितोऽर्थः परमपुरुषार्थो मोक्षः येषां ते तथोक्ताः। ‘ब्रह्मण्येव’ इत्येवकारान्नाविद्याकृतकर्मव्यवहारे इत्यर्थः। हे अनघ ! अस्मिन् लोके पुरा मया साङ्ख्यानां ज्ञानयोगेन, योगिनां कर्मयोगेन च द्विविधा निष्ठा प्रोक्तेत्यन्वयः। पुनः समुच्चयवादं निराकरोति— यदि चेत्यादिना। उपपन्नः[उपसन्नः] प्रपन्नः। विशिष्टेति। साङ्ख्यत्वयोगित्वविशेषणविशिष्टे- त्यर्थः। विशिष्टौ भिन्नौ पुरुषौ कर्तारौ ययोस्ते विशिष्टभिन्नपुरुषकर्तृके। अनुष्ठास्यतीति। द्वयमिति कर्म। रागद्वेषेति। यथा मत्प्रिय- शिष्योऽर्जुनः कर्मज्ञानसमुच्चयमनुष्ठाय मुच्येत, यथा चेतरे अन्यतरदनुष्ठाय न मुच्येरन् , तथा मया वक्तव्यमिति कपटबुद्ध्या यदि भगवान् प्रवर्तेत, तर्हि जीववत् सोऽपि रागद्वेषवत्त्वेनाग्राह्यवाक्य एव स्यात्। तच्चायुक्तमिति। अपहतपाप्मनि सर्वसमे सर्वसुहृदि भगवति रागद्वेषादिदोषाप्रसङ्गादिति भावः। व्याकरोति— अनुष्ठेयेति। पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि— सर्गादाविति। प्रवचनस्यायथार्थत्वशङ्कां वारयति— सर्वज्ञेनेति। अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति— अनघेति। निर्धारणार्थे तत्रेति सप्तमी। ज्ञानं परमार्थवस्तुविषयं, तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेः, तेन । निष्ठेत्यनुवर्तते। उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह— आत्मेति। तेषामेव कर्मनिष्ठत्वं व्यावर्तयति— ब्रह्मचर्येति। तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति— वेदान्तेति। उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति— परमहंसेति। कर्म वर्णाश्रमविहितं धर्माख्यम् , तदेव युज्यतेऽनेनाभ्युदयेनेति योगः, तेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह— कर्मैवेत्यादिना। एवं प्रतिवचनवाक् यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति— यदि चेति। इष्टस्यापि दुर्बोधत्वमाशङ्क्याह— उक्तमिति। ज्ञानस्यापि मूलविकलतया विभ्रमत्वमाशङ्क्याह—वेदेष्विति। तस्याशिष्यत्वबुद्ध्याऽन्यथाकथनमित्याशङ्क्याह—उपसन्नायेति। तथापि तस्मिन्नौदासीन्यादन्यथोक्तिरित्याशङ्क्याह— प्रियायेति। ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयम्। तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः। नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाज्ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकाद् इतरेषु च तदभावादिति, तत्राह— यदि पुनरिति। अप्रमाणभूतत्वम् अनाप्तत्वम्। न च भगवतो रागादिमत्त्वेनानाप्तत्वं युक्तं, ‘समं सर्वेषु
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्यम् पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासामभ्युदयनिःश्रेयस- प्राप्तिसाधनं वेदार्थसम्प्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेनेश्वरेण, हेऽनघ अपाप ! तत्र का सा द्विविधा निष्ठेत्याह— [ज्ञानेति।]१ तत्र ज्ञानयोगेन ज्ञानमेव योगस्तेन साङ्ख्यानाम् आत्मानात्मविषयविवेकज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा प्रोक्ता। कर्मयोगेन कर्मैव योगः कर्मयोगस्तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्तेत्यर्थः। यदि चैकेन पुरुषेणैकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं भगवतेष्टमुक्तं वक्ष्यमाणं वा गीतासु , वेदेषु चोक्तम् , कथमिहार्जुनायोपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात्? यदि पुनरर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति, अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामीति मतं भगवतः कल्प्येत, तदा रागद्वेषवान् १. क्वचिन्न। २. वेदान्तजनितं विज्ञानं वेदान्तविज्ञानम् , तस्य अर्थो विषयः आत्मा, स सुनिश्चितो येषां ते तथा, आत्मतत्त्वविदः इत्यर्थः। द्र.मु.उ.भाष्यम् ३-२-६।
[[अ. ३ श्लो. ३]] [[१६०]]
स्थितमिति। सिद्धान्तितमित्यर्थः। तत्र हेतुमाह— अनिराकरणादिति। न कर्मणो बुद्धिर्ज्यायसीति भगवताऽनिराकृतत्वा- दर्जुनोक्तार्थस्येत्यर्थः। तस्याश्च बुद्धेरित्यर्थः। संन्यासिनैवेति। ‘ज्ञानयोगेन साङ्ख्याना’मित्युक्तत्वादिति भावः। सर्वकर्मसंन्यासरूपज्ञान- निष्ठायाः कर्मिगृहस्थाविषयत्वादिति तत्त्वम्। अनुमतम् अङ्गीकृतं सम्मतमिति यावत्॥३॥
नेति श्लोकमवतारयति— मां चेति। चस्त्वर्थः। प्रियं भक्तमपि मामिति वा। नारभे नोपक्रमे, न कुर्वे इति यावत्। मन्वानं मन्यमानं, निश्चितवन्तमिति यावत्। कर्मनिष्ठोपायलब्धात्मिका, कर्मनिष्ठा कर्मयोगः, सैवोपायः साधनं, तेन लब्धः आत्मा स्वरूपं यस्याः सा तथोक्ता। स्वातन्त्येणेति पदं स्वयमेव व्याकरोति— अन्यानपेक्षयेति। तत्कारणत्वेन सत्त्वशुद्धिकारणत्वेन। ज्ञानमिति। पुंसां भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह— तच्चेति। निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति— तस्मादिति॥३॥
किमिति भगवता बुद्धेर्ज्यायस्त्वं ‘ज्यायसी चेद्’ इत्यत्रोक्तमुपेक्षितमिति, तत्राह— यदर्जुनेनेति। किञ्च ज्ञाननिष्ठायां संन्यासिना- मेवाधिकारो भगवतोऽभिप्रेतः, अन्यथा तदीयविभागवचनविरोधादिति विभागवचनसामर्थ्यसिद्धमर्थमाह— तस्याश्चेति। तर्हि विभाग- वचनानुरोधादर्जुनस्यापि संन्यासपूर्विकायां ज्ञाननिष्ठायामेवाधिकारो भविष्यति, नेत्याह— मां चेति। बुद्धेर्ज्यायस्त्वमुपेत्यापीति चकारार्थः। अर्जुनमालक्ष्य भगवानाहेति सम्बन्धः। अन्तरेणापि कर्माणि श्रवणादिभिर्ज्ञानावाप्तिर्भविष्यतीति परबुद्धिमनुरुध्य विशिनष्टि— कर्मेति। विभागवचनवशादसमुच्चयश्चेदुभयोरपि ज्ञानकर्मणोः स्वातन्त्येण पुरुषार्थहेतुत्वम् ; अन्यथा कर्मवज्ज्ञानमपि न स्वातन्त्येण पुरुषार्थं साधयेदित्याशङ्क्य सम्बन्धान्तरमाह— अथवेति। तर्हि ज्ञाननिष्ठाऽपि कर्मनिष्ठावन्निष्ठात्वाविशेषान्न स्वातन्त्येण पुरुषार्थहेतुरिति समुच्चयसिद्धिरित्याशङ्क्याह— ज्ञाननिष्ठा त्विति। न हि रज्जुतत्त्वज्ञानमुत्पन्नं फलसिद्धौ सहकारिसापेक्षमालक्ष्यते। तथेदमपि चोत्पन्नं मोक्षाय नान्यदपेक्षते। तदाह—अन्येति। ‘यस्य वैतत् कर्म’ इति श्रुताविव६ कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशङ्क्य व्याचष्टे— क्रियाणामिति। ताश्च नित्यनैमित्तिकत्वेन विभजते— यज्ञादीनामिति। अस्मिन्नेव जन्मन्यनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिः? जन्मान्तरकृतानां वा कर्मणां तथात्वे गृहस्थादीनामैहिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्क्यानियमं दर्शयति—इहेति। नेमानि सत्त्वशुद्धिकारणानि, उपात्तदुरितप्रतिबन्धादित्याशङ्क्याह—उपात्तेति। तर्हि तावतैव कृतार्थानां कुतो ज्ञान-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अप्रमाणभूतो भगवान् कल्पितः स्यात्। तच्चायुक्तम्। तस्मात् कयाऽपि युक्त्या न समुच्चयो ज्ञानकर्मणोः॥३॥
यदर्जुनेनोक्तं कर्मणो१ ज्यायस्त्वं बुद्धेः, तच्च स्थितम् , अनिराकरणात्। तस्याश्च २ज्ञाननिष्ठायाः संन्यासिनामे- वानुष्ठेयत्वम्। भिन्नपुरुषानुष्ठेयत्ववचनाद् भगवत एवमेवानुमतमिति गम्यते।३ ‘मां च बन्धकारणे कर्मण्येव नियोजयसी’ति विषण्णमनसम् अर्जुनं ‘कर्म नारभे’ इत्येवं मन्वानमालक्ष्याह भगवान्— न कर्मणामनारम्भादिति। अथवा - ज्ञानकर्मनिष्ठयोः परस्परविरोधादेकेन पुरुषेण युगपदनुष्ठातुमशक् यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते, कर्मनिष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम् , न स्वातन्त्येण। ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वातन्त्येण पुरुषार्थहेतुरन्यानपेक्षा४ - इत्येतमर्थं दर्शयिष्यन्नाह भगवान् — न कर्मणामिति। न ५कर्मणां क्रियाणां यज्ञादीनामिह जन्मनि जन्मान्तरे वाऽनुष्ठितानामुपात्तदुरितक्षयहेतुत्वेन न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति॥४॥
१. कर्मणः इति पञ्चमी। २. ‘ज्ञाननिष्ठायाः’ इति रा.पाठे नास्ति। ३. क्वचिदत्रैव तृतीयश्लोकसमाप्तिर्दृश्यते, न पूर्वम्। भाष्यार्कप्रकाशानुसारेणापि तथैव। ४. ‘अन्यानपेक्षया’ इति रा.पा.। ५. ‘कर्मणाम् अनारम्भाद् अप्रारम्भात् ; कर्मणाम्’ इति रा.पा.। ६. उक्तश्रुतौ क्रियत इति व्युत्पत्त्या कर्मशब्दार्थः कार्य- सामान्यम्। ‘जगद्वाचित्वात्’ (ब्र.सू. १-४-१६) इति सूत्रे एतन्निरूपितम्।
[[१६१]]
पापस्य कर्मणः क्षयाज्ज्ञानमुत्पद्यते। कथमुत्पद्यते? अत आह—यथेति। आदर्शतलप्रख्ये दर्पणवदतिस्वच्छे इत्यर्थः। आत्मनि मनसि। आत्मानं सच्चिदानन्दं ब्रह्म यथा पश्यति, तथा ज्ञानमुत्पद्यत इत्यर्थः। यथा निर्मले आदर्शतले पुरुषः स्वप्रतिबिम्बं पश्यति तथा निष्पापे मनसि पुरुष आत्मानं पश्यतीति परमार्थः। इह जन्मनि जन्मान्तरे वाऽनुष्ठितैर्निष्कामकर्मभिर्दुरितक्षयः, दुरितक्षयात् सत्त्वशुद्धिः, सत्त्वशुद्धेर्ज्ञानोत्पत्तिः, ज्ञानोत्पत्तेर्ज्ञाननिष्ठाप्राप्तिरिति क्रमः। अत्र केषाञ्चिच्छुकवामदेवादीनां विनैव कर्मयोगं ज्ञाननिष्ठादर्शनाद् जन्मान्तरे इत्युक्तम्। यथा ऐहिकसम्पदा जन्मान्तरीयशिवपूजा अनुमीयते, यथा वा क्षयरोगादिना ब्रह्महत्यादीनि जन्मान्तरीयपापानि अनुमीयन्ते, तद्वदिति भावः। कारणं विना कार्यासिद्धेरिति। ज्ञानम् आत्मानात्मविवेकः। ज्ञाननिष्ठा त्वात्मसाक्षात्कारः। उपेयं साध्यम्। कर्मयोगोपायत्वस्य कर्मयोग उपायो यस्य तस्य भावस्तत्त्वं, तस्य। नैष्कर्म्यं लक्षणं स्वरूपं यस्य तस्य नैष्कर्म्यलक्षणस्येति ज्ञानयोगविशेषणम्। वेद्यस्य ज्ञेयस्य आत्मलोकस्य आत्मैव लोक आत्मलोकस्तस्य वेदनं ज्ञानं, तदुपायत्वेन। विविदिषन्ति वेदितुमिच्छन्ति। आदिपदात् ‘दानेन तपसाऽनाशकेने’ति सङ्ग्रहः। ‘तमेत’मिति वेदः ज्ञानयोगमुपेयं प्रति कर्मयोग उपाय इत्युवाच, वेदवादयज्ञदानतपोभिः कर्मभिर्विविदिषा जायत इत्युक्तत्वादिति भावः। संन्यासस्त्विति। हे महाबाहो! संन्यासस्तु अयोगतः सत्त्वशुद्धिकारणानां, तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम् - ‘ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः। यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि’(म.भा.शा.२०४.८)इत्यादिस्मरणाद् - अनारम्भाद् अननुष्ठानाद् नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठाम् , निष्क्रियात्मस्वरूपेणैवावस्थानमिति यावत् ; पुरुषो नाश्नुते न प्राप्नोतीत्यर्थः। कर्मणामनारम्भाद् नैष्कर्म्यं नाश्नुते इति वचनात् , तद्विपर्ययात् तेषामारम्भाद् नैष्कर्म्यमश्नुते इति गम्यते। कस्मात्पुनः कारणात् कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुत इति? उच्यते— कर्मारम्भस्यैव नैष्कर्म्योपायत्वात्। न ह्युपायमन्तरेणोपेयप्राप्तिरस्ति। १कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य श्रुताविह च प्रतिपादनात्। श्रुतौ तावत् प्रकृतस्यात्मलोकस्य वेद्यस्य वेदनोपायत्वेन ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’(बृ.उ.४.४.२२) इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादितम्। इहापि च ‘संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’ (भ.गी. ५.६) ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये’ (भ.गी.५.११) ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. ८.५) इत्यादि प्रतिपादयिष्यति। निष्ठाहेतुत्वम्? तत्राह— तत्कारणत्वेनेति। कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह— ज्ञानमिति। अनारम्भशब्दस्योपक्रमविपरीत- विषयत्वं व्यावर्तयति— अननुष्ठानादिति। निष्कर्मणः संन्यासिनः कर्म ज्ञानं नैष्कर्म्यमिति व्याचष्टे— निष्कर्मेति। कर्माभावावस्थां व्यवच्छिनति— ज्ञानयोगेनेति। तस्याः साधनपक्षपातित्वं व्यावर्तयति— निष्क्रियेति। कर्मानुष्ठानोपायलब्धा ज्ञाननिष्ठा स्वतन्त्रा पुमर्थहेतुरिति प्रकृतार्थसमर्थनार्थं व्यतिरेकवचनस्यान्वये पर्यवसानं मत्वा व्याचष्टे— कर्मणामिति। तद्विपर्ययमेव व्याचष्टे—तेषामिति। उक्तेऽर्थे हेतुं पृच्छति—कस्मादिति। जिज्ञासितं हेतुमाह—उच्यत इति। उपायत्वेऽपि तदभावे कुतो नैष्कर्म्यासिद्धिरित्याशङ्क्याह— न हीति। ज्ञानयोगं प्रति कर्मयोगस्योपायत्वे श्रुतिस्मृती प्रमाणयति— कर्मयोगेति। श्रौतमुपायोपेयत्वप्रतिपादनं प्रकटयति— श्रुताविति। यत्तु गीताशास्त्रे कर्मयोगस्य ज्ञानयोगं प्रत्युपायत्वोपपादनम् , तदिदानीमुदा- हरति— इहापि चेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘कर्मयोगोपायत्वस्य’ इति रा.पा.।
[[अ. ३ श्लो. ४]] [[१६२]]
कर्मयोगं विना आप्तुं दुःखम् अशक्यः इत्यर्थः। अभयमिति। ‘भूताभयप्रदानस्य कलां नार्हन्ति षोडशी’मिति शास्त्रात् सर्वभूतेभ्योऽभयं दत्त्वेत्युक्तम्। लोके चेति। कर्म- राहित्यस्य कर्मानाचरणप्रयुक्तत्वादिति भावः। अतश्चेति। कर्मराहित्यस्य कर्मसंन्यासपूर्वकत्वादित्यर्थः। नैष्कर्म्यार्थिन इति। दारिद्र्या- र्थिनः कृष्याद्यारम्भ इव, नैष्कर्म्यार्थिनः कर्मारम्भः उपहासास्पद इति भावः। प्राप्तमिति। पूर्वपक्षः प्राप्त इत्यर्थः। अत आहेति। उत्तरपक्षमिति शेषः। एवकारार्थमाह— केवलाज्ज्ञानरहितादिति। अयं भावः—ज्ञानसहितात् कर्मसंन्यासाद् नैष्कर्म्यं प्राप्यते पुंसा। तत्तु ज्ञानं सत्त्वशुद्धिद्वारा कर्मयोगसाध्यम्। तस्मात् कर्मणामारम्भादेव सत्त्वशुद्धिद्वारा ज्ञानसहितं कर्मसंन्यासं कृतवतो नैष्कर्म्यप्राप्तिरिति। यत्तु रामानुजः— अनारम्भाद् अनुपक्रमात् , संन्यसनाद् आरब्धस्य मध्ये त्यागादित्यभाषत, तत्तुच्छम् ; यदा तु कर्मणामनारम्भान्न सिद्धिरित्युक्तम् , तदैव प्रारब्धकर्मसंन्यासान्न सिद्धिरिति सिद्धमेवेति पुनस्तत्कथनस्य व्यर्थत्वात्। न ह्यसमाप्तस्य कर्मणः फलहेतुत्वं कोऽपि शङ्कते, असमाप्तकृष्यादेः फलहेतुत्वादर्शनात्। किञ्च संन्यसनादेवेत्येवकारश्चास्मिन् मते व्यर्थः॥४॥
न हीति। हि कश्चित् क्षणमपि जातु अकर्मकृत् सन् न तिष्ठतीत्यन्वयः। सर्व इत्यनेन ज्ञान्यज्ञानिरूपसकलजनग्रहण- शङ्कायामाह— अज्ञ इति। एवं सर्वशब्दसङ्कोचे हेतुमाह— यत इति। ननु एतेन ‘न च संन्यसनादेव सिद्धिं समधिगच्छती’त्यत्र को हेतुरिति प्रश्नस्य किमुत्तरमायातमिति चेत्? उच्यते— अज्ञस्य भाष्यार्कप्रकाशः ‘न कर्मणा’मित्यादिना पूर्वार्धं व्याख्यायोत्तरार्धं व्याख्यातुमाशङ्कयति—नन्विति। आदिशब्देन ‘शान्तो दान्त उपरतस्तितिक्षुः’ ‘संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ इत्यादि गृह्यते। तत्रैव लोकप्रसिद्धिमनुकूलयति—लोके चेति। प्रसिद्धतरं ‘यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि’ इत्यादिदर्शनादिति शेषः। लौकिकवैदिकप्रसिद्धिभ्यां सिद्धमर्थमाह— अतश्चेति। तत्रोत्तरत्वेनोत्तरार्धमवतार्य व्याकरोति— अत आहेत्यादिना। एवकारार्थमाह— केवलादिति। तदेव स्पष्टयति— कर्मेति। उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति— न प्राप्नोतीति॥४॥
उक्तेऽर्थे बुभुत्सितं हेतुं वक्तुमुत्तरश्लोकमुत्थापयति— कस्मादिति। कस्मान्न कर्मसंन्यासादेव सिद्धिमधिगच्छतीति पूर्वेण सम्बन्धः। कदाचित् क्षणमात्रमपि न कश्चिदकर्मकृत् तिष्ठतीत्यत्र हेतुत्वेनोत्तरार्धं व्याचष्टे— कस्मादिति। सर्वशब्दाज्ज्ञानवानपि गुणैः अवशः सन् कर्म कार्यते, ततश्च ज्ञानवतः संन्यासवचनमनवकाशं स्यादित्याशङ्क्याह— अज्ञ इतीति। तमेव वाक्यशेषं वाक्यशेषावष्टम्भेन आनन्दगिरिकृतव्याख्या न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥५॥
ननु च ‘अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्’ (म.भा.आश्व.४६.१८) इत्यादौ कर्तव्यकर्मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति। लोके च कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम्। अतश्च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम् , अत आह — न च संन्यसनादेवेति। नापि संन्यसनादेव केवलात् कर्मपरित्यागमात्रादेव ज्ञानरहितात् , सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्राप्नोतीति॥४॥
कस्मात् पुनः कारणात् कर्मसंन्यासमात्रादेव केवलाद् ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छतीति हेत्वाकाङ्क्षायामाह— न हीति। न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित् तिष्ठत्यकर्मकृत् सन्। कस्मात् ? कार्यते प्रवर्त्यते हि यस्माद् अवश एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्वरजस्तमोभिर्गुणैः। अज्ञ इति वाक्यशेषः। यतो वक्ष्यति ‘गुणैर्यो न विचाल्यते’(भ.गी.१४.२३) इति। साङ्ख्यानां
[[१६३]]
कर्मसंन्यास एवासिद्धः। यतः सत्त्वादिगुणचोदितः सर्वोऽप्यज्ञजनस्तद्गुणानुरूपं शुभमशुभं मिश्रं वा कर्म अवश एव करोति। क्षणकालमप्यकर्मकृन्न वर्तत इति। नन्वेवं यदि अज्ञस्य संन्यास एव न सिध्यति, तर्हि ज्ञानरहितात् संन्यासात् सिद्धिर्नास्तीति कथमुक्तं ज्ञानरहितसंन्यासस्या- स्तित्वम्? दृश्यन्ते च बहवः संन्यासिनः परम् अज्ञा इदानीमपीति कथमज्ञस्य संन्यासाभावो वेति चेत्? मैवम् , यतः सशिखायज्ञोपवीतमग्निहोत्रादि कर्म त्यक्त्वा काषायाम्बरं धृत्वा अज्ञाः संन्यासिनो लोके चरन्तो दृश्यन्ते। तत एवोक्तम्— न च संन्यसनादेवेति। य एवमज्ञ आत्मानं संन्यासिनं मन्यते, न तु स वस्तुतःसंन्यासी, क्षणकालमपि तस्याकर्मकर्तृत्वेन स्थित्यभावात्। अत उक्तम्— अज्ञस्य नास्ति संन्यास इति। शिखायज्ञोपवीतत्यागादिमात्रलक्षणात् संन्यासाल्लोकप्रसिद्धान्नास्ति सिद्धिः यतस्तादृश- संन्यासवान् पुरुषो न शास्त्रसिद्धसंन्यासवान् , ज्ञानपूर्वकसंन्यासस्यैव शास्त्रसिद्धसंन्यासत्वादिति पर्यवसन्नार्थः। ननु योऽज्ञः संन्यासी सोऽपि नाग्निहोत्रादिकं कर्म करोति , यश्च ज्ञः संन्यासी सोऽपि न तथा; यच्च ज्ञःसंन्यासी भिक्षाटनादिकं कर्म करोति, तदेवाज्ञः संन्यास्यपि करोति। एवं स्थिते अज्ञ एव क्षणमप्यकर्मकृन्न वर्तत इति कुत उच्यते इति चेत्? सत्यम् ; यदेव ज्योतिष्टोमादिकं कर्म सकामानां स्वर्गादिफलदं तदेव निष्कामानां स्वर्गादिफलाप्रदं यथा, तथा यदेव भिक्षाटनादिकर्म अज्ञसंन्यासिनां कर्मायते तदेव विदुषां न कर्मायते, कर्तृत्वाभिमानाद्यभावात्। न हि विद्वानात्मानमविक्रियं सच्चिदानन्दं ब्रह्म, भिक्षाटकं शाटीधरं कपालिनं मुण्डिनं वा मन्यते। अतो नास्ति नित्याविक्रियात्मदर्शिनः कर्मकर्तृत्वम्। अविद्वांस्तु आत्मानं भिक्षाटकं शाटीधरं कपालिनं मुण्डिनं मन्यते, तस्य देहात्मभ्रान्त्यनपगमात्। अतस्तस्यास्ति कर्मकर्तृत्वम्। तस्माद् युक्तमुक्तम्— अज्ञ इति वाक्यशेष इति। उत्तरार्धेऽन्वयो बहुधा सम्भवति। तथाहि— हि सर्वः अवशःसन्नेव प्रकृतिजैर्गुणैः कर्म प्रति कार्यते प्रवर्त्यते, अवशः सर्व इति च, सर्वो गुणैः कर्म कार्यत इति द्विकर्मककर्मणि प्रयोग इति च ण्यन्तात् करोतेः कर्मणि तङ्। गुणाः सर्वं कर्म कारयन्तीत्यर्थः। कुर्वाणं प्रेरयति कारयतीति हेतुमण्णिच्। सर्वथाऽपि प्रकृतिजैर्गुणैः प्रेरितः सर्वोऽवश एव कर्म करोतीति फलितार्थः॥५॥
कर्मेन्द्रियाणीति। यो विमूढात्मा कर्मेन्द्रियाणि संयम्य इन्द्रियार्थान् मनसा स्मरन्नास्ते स मिथ्याचार इत्युच्यते। यस्त्विति तुशब्दादात्मज्ञस्य नास्ति कर्मचोदनेति वैलक्षण्यं द्योत्यते। कर्मेन्द्रियाणीति। भाषणग्रहणगमनविसर्जनमैथुनाख्यानि पञ्च कर्माणि, स्पष्टयति— यत इति। आत्मज्ञानवतो गुणैरविचाल्यतया गुणातीतत्ववचनाद् अज्ञस्यैव सत्त्वादिगुणैरिच्छाभेदेन कार्यकरणसङ्घातं प्रवर्तयितुमशक्तस्याजितकार्यकरणसङ्घातस्य क्रियासु प्रवर्तमानत्वमित्यर्थः। ‘ज्ञानयोगेने’त्यादिनोक्तन्यायाच्च वाक्यशेषोपपत्तिरित्याह— साङ्ख्यानामिति। ज्ञानिनां गुणप्रयुक्तचलनाभावेऽपि स्वाभाविकचलनबलात् कर्मयोगो भविष्यतीत्याशङ्क्याह— ज्ञानिनां त्विति। प्रत्यगात्मनि स्वारसिकचलनासम्भवे प्रागुक्तं न्यायं स्मारयति— तथा चेति॥५॥
आत्मज्ञवदनात्मज्ञस्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः, शरीरेन्द्रियसङ्घातं नियन्तुमसमर्थस्य मूर्खस्यापि संन्याससम्भवा- दित्याशङ्क्याह— यस्त्विति। तस्य चोदिताकरणं तच्छब्देन परामृश्यते२ — तदसदिति। मिथ्याचारत्वादिति भावः। मिथ्याचारतामेव
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘यत्तु’ इति पा.। २. भाष्ये यच्छब्देनानात्मज्ञस्योक्तत्वेऽपि तदिति नपुंसकेन तत्परामर्शायोगात् तदर्थमाह—चोदिताकरणमिति। पृथक्करणादज्ञानामेव हि कर्मयोगः, न ज्ञानिनाम्। ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात् कर्मयोगो नोपपद्यते। तथा च व्याख्यातम्— ‘वेदाविनाशिनम्’(भ.गी.२.२१) इत्यत्र॥५॥
१यस्त्वनात्मज्ञश्चोदितं कर्म नारभत इति, तदसदेवेत्याह— कर्मेन्द्रियाणीति। कर्मेन्द्रियाणि हस्तादीनि संयम्य कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥६॥
[[अ. ३ श्लो. ४-६]] [[१६४]]
तत्साधनानीन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि। इन्द्रियार्थान् इन्द्रियविषयान् शब्दादीन्। मनसा स्मरन्नित्यनेन चक्षुर्निमीलनं श्रोत्रपिधानं च कृतमिति व्यज्यते। अन्यथा चक्षुःश्रोत्राभ्यां रूपशब्दविषयग्रहणे सति मनसा तत्स्मरणानुपपत्तेः। अनुभवजन्यसंस्कारजन्या हि स्मृतिः। यद्वा क्वापि विजने स्थित्वा देवालयादौ पत्तनस्थितवेश्यारूपगानात्मकौ चक्षुःश्रोत्राविषयौ विषयौ मनसा स्मरतीति न चक्षुःश्रोत्रपिधानावसरः। विमूढात्मेति। अज्ञ इत्यर्थः। ननु यथा प्राज्ञः कर्मेन्द्रियाणि संयम्य विषयानस्मरन् वर्तते, तथा विषयान् स्मरन्नज्ञः कर्मेन्द्रियाणि संयम्य वर्तत इति प्राज्ञाचारवदज्ञाचारोऽपि यावद्व्यवहारं सत्य एवेति कथं मिथ्यात्वमज्ञव्यवहारस्य? इति शङ्कायामाह— हेयाचार इति। हेयस्त्याज्य आचारो यस्य स तथोक्तः। विदुषामाचारवन्नैषामविदुषामाचारो ग्राह्य इत्यर्थः। यत्तु रामानुजः— अन्यथा सङ्कल्प्यान्यथा आचरतीति मिथ्याचार इति , तत्तुच्छम् ; ‘नाहं कर्म कुर्वे’ इति सङ्कल्प्य नैव कर्म कृतवानयमज्ञ इति कथमस्य तादृशमिथ्याचारत्वप्रसङ्गः? न हि मनसा विषयस्मरणं कर्म, येनास्य सङ्कल्पविपरीतः स्यादाचारः। न च ज्ञानयोगं कुर्वे इति सङ्कल्प्य मनसा विषयस्मरणादस्ति मिथ्याचारत्वमस्येति वाच्यम् ; अज्ञस्य ज्ञानयोगसङ्कल्पस्यैवासम्भवात्। ज्ञान- पूर्वको हि ज्ञानयोगः। किञ्च ‘न हि कश्चिदि’त्यारभ्य कर्मयोगस्यैव प्रकृतत्वेन ज्ञानयोगसङ्कल्पस्यात्रासङ्गतत्वात् , ‘यस्त्विन्द्रियाणी’ति वक्ष्यमाणश्लोके कर्मयोगस्यैवेन्द्रियनियमनपूर्वकं प्रपञ्चितत्वात्॥६॥
यस्त्विति। हे अर्जुन! यस्तु मनसा इन्द्रियाणि नियम्य असक्तःसन् कर्मेन्द्रियैः कर्मयोगमारभते स विशिष्यते। तुशब्दार्थमाह— पुनरिति। यच्छब्दार्थमाह— कर्मण्यधिकृतोऽज्ञ इति। प्राज्ञस्य कर्माधिकाराभावादुक्तम् अज्ञ इति। शब्दस्पर्शादिविषयेभ्यः सकाशान्निवर्तनीयानीन्द्रियाणि ज्ञानेन्द्रियाण्येवेत्यभिप्रेत्याह— बुद्धीन्द्रियाणीति। त्वक्चक्षुःश्रोत्रजिह्वा- घ्राणाख्यानि पञ्च। करपिधानादिना चक्षुरादिव्यापारनिरोधः कर्तव्य इति शङ्कानिरासायाह— मनसा नियम्येति। मनसि निष्कामे सति ज्ञानेन्द्रियाणि स्वत एव विषयेभ्यो निवर्तन्त इति भावः। एतेनेन्द्रियजयस्य मनोजयपूर्वकत्ववचनेन मनोजयोऽवश्यं कर्तव्य इति सूचितम्। मनोजयरहितस्य तु मिथ्याचारत्वं पूर्वश्लोक एवोक्तम्। अयं तु ग्राह्याचार इत्याह— स विशिष्यत इति। ज्ञानयोगिनोऽपि कर्मयोगी उत्कृष्ट इति शङ्कां वारयितुमाह— मिथ्याचारादिति। पूर्वश्लोकोक्तान्मिथ्याचारादयमुत्कृष्ट इत्यर्थः। वर्णयति— कर्मेन्द्रियाणीति॥६॥
अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विषयान्तरदर्शनध्रौव्याद् मिथ्याचारत्वेन प्रत्यवायित्वमुक्त्वा, विहितमनुतिष्ठतस्तस्यैव फलाभिलाषविकलस्य सदाचारत्वेन वैशिष्ट्यमाचष्टे— यस्त्विन्द्रियाणीति। विहितमनुतिष्ठतो३ मूर्खात् कर्म त्यजतो वैशिष्ट्यमक्षरयोजनया स्पष्टयति— यस्तु पुनरिति॥७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
संहृत्य य आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणो मिथ्याचारो मृषाचारः १पापाचारः स उच्यते॥६॥
यस्त्विति। यस्तु पुनः कर्मण्यधिकृतोऽज्ञो बुद्धीन्द्रियाणि मनसा नियम्य आरभतेऽर्जुन ! कर्मेन्द्रियैः वाक्पाण्यादिभिः। किमारभत इत्याह— कर्मयोगम्। असक्तः सन् २फलाभिसन्धिवर्जितः स विशिष्यते इतरस्माद् मिथ्याचारात्॥७॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन !। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥७॥
१. ‘हेयाचारः’ इति रा.पा.। २. इदं पदं क्वचिन्न। ‘अफलाकाङ्क्षः सन्’ इति पा.। ३. कर्म त्यजतो मूर्खात् विहितमनुतिष्ठतो वैशिष्ट्यमित्यन्वयः।
[[१६५]]
एतेन ‘ज्ञाननिष्ठाद् विशिष्यते’ इति रामानुजोक्तं प्रत्युक्तम्। कर्मयोगसाध्यज्ञाननिष्ठात् कर्मयोगनिष्ठस्याल्पत्वस्य सर्वविदित- त्वात् , यज्ञसाध्यस्वर्गफलभोक्तुः पुरुषात् कथं यज्ञकृद् विशिष्येत? कथं वा ज्ञानसाध्यमुक्तिशालिनः पुरुषाज्ज्ञाननिष्ठो विशिष्येत? यदपि अनेनोक्तम् असम्भाव्यमानप्रमादत्वेनेति कारणम् , तदप्ययुक्तम् ; यदि कर्मज्ञानयोगौ द्वावपि परस्परनैरपेक्ष्येण निःश्रेयसकरौ तर्हि सम्भाव्यमानप्रमादाज्ज्ञानयोगादसम्भाव्यमानप्रमादः कर्मयोगो विशिष्येत, न त्वेतदस्ति, ज्ञानयोगस्य स्वोत्पत्तिं प्रति कर्मयोगसापेक्षत्वात् , कर्मयोगस्य च ज्ञानयोगद्वारा निःश्रेयसकरत्वाच्च। कर्मयोगनिष्पाद्यत्वं ज्ञानयोगस्य तवाप्यभिमतम् , आत्मावलोकनसाधनत्वं च। न च - कर्मयोगिना आत्मावलोकनं चेत् सिषाधयिषितं, तर्हि ज्ञानयोगे प्रवेष्टव्यम् , मुक्तिश्चेत् सिषाधयिषिता तर्हि कर्मयोग एव यावज्जीवमवस्थातव्यम् , तत एव मुक्तिलाभादिति - वाच्यम् ; तथात्वे सप्रमाददुष्करनिरर्थकज्ञानयोगविधायकस्य शास्त्रस्य भगवतो वा अप्रमाणत्वापत्तेः। आत्मावलोकनं हि तव मते न पुरुषार्थः, स्वतःसिद्धत्वादात्मनः। आत्मभिन्नपरमात्मावलोकनात् तत्सारूप्यादिप्राप्तिर्हि तव मते मुक्तिः। तस्माद् व्यर्थमेव ज्ञानयोगविधानम्। ननु न व्यर्थमात्मावलोकनरूपफलसत्त्वादिति चेत् , मैवम् ; स्वकुचमर्दनतुल्यत्वात् स्वावलोकनस्य। ज्ञानयोगं विनाऽपि कर्मयोगिनो मुक्तिदशायामात्मावलोकनसम्भवाच्च। न च मुक्तौ नास्त्यात्मावलोकनमिति वाच्यम् ; अपहतपाप्मत्वसर्वज्ञत्वादि- गुणाविर्भावान्मुक्तौ जीवानां कथमनात्मज्ञत्वम् ? मुक्तोऽनात्मज्ञ इति हि विरुद्धम्। सिद्धान्ते तु आत्मावलोकनस्यैव मोक्षत्वान्मुमुक्षुणा कर्मयोगिना सम्पाद्य एवावश्यं ज्ञानयोगः, ज्ञानयोगनिष्पाद्यत्वादात्माव- लोकनस्य। अतो न २योगान्यतरस्य वैयर्थ्यम् , नापि योगयोः समप्राधान्यम् , नापि ज्ञानयोगे प्रमादसम्भावना, कर्मयोगेनैव मनइन्द्रियजयलाभात्। तथा च मिथ्याचारादेव कर्मयोगी विशिष्यते। ज्ञाननिष्ठस्तु कर्मयोगिनो विशिष्यते, यथा पश्वादेर्मनुष्यो, मनुष्याद् देवः इति॥७॥
नियतमिति। त्वं नियतं कर्म कुरु, हि अकर्मणः कर्म ज्यायः। अकर्मणः ते शरीरयात्राऽपि न च प्रसिध्येत्। किं तन्नित्यम्? अत आह— य इति। यो यस्मिन् कर्मण्यधिकृतस्तस्य तन्नित्यमित्यन्वयः। स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि— फलायेति। फलायाश्रुतं फलार्थमश्रुतं, स्वर्गादिफलप्रदत्वेन यन्न श्रुतं तदित्यर्थः। काम्यकर्मभिन्नमिति यावत्। यदकरणे प्रत्यवायः श्रूयते तत् कर्म नित्यमिति भावः। तत् कुरु त्वमिति। क्षत्रियस्त्वं तु युद्धे कर्मण्यधिकृतः; अतस्तव युद्धकर्म नियतं, तदेव त्वं कुर्वित्यर्थः। ज्ञानादल्पमपि कर्म, अकरणादधिकमेवेत्याह— कर्म ज्यायो ह्यकर्मण इति। हिः प्रसिद्धिमपि गमयति। यत एवम् अतः— नियतमिति। १नियतं नित्यम् ; यो यस्मिन् कर्मण्यधिकृतः, फलाय चाश्रुतं तन्नियतं कर्म; तत् कुरु त्वं हे अर्जुन ! यतः कर्म ज्यायोऽधिकतरं फलतः, हि यस्मात् अकर्मणोऽकरणादनारम्भात्। कथम्? कर्मानुष्ठायिनो वैशिष्ट्यमुपदिष्टमनूद्य तदनुष्ठानमधिकृतेन कर्तव्यमिति निगमयति— यत इति। उक्तमेव हेतुं भगवदनुमति- कथनेन स्फुटयति— कर्मेति। इतश्च त्वया कर्तव्यं कर्मेत्याह— शरीरेति। तन्नियतं तस्याधिकृतस्येति सम्बन्धः। स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि— फलायेति। नित्यं कर्म नियमेन कर्तव्यमित्यत्र हेतुमाह— यत इति। हिशब्दोपात्तमुक्तमेव हेतुमनुवदति— यस्मादिति। करणस्याकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति— कथमित्यादिना। सत्येव
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः॥८॥
अ. ३ श्लो. ६–८ ] १. ‘नित्यं शास्त्रोपदिष्टम्’ इति पा.। २. योगयोरन्यतरस्येत्यर्थः।
[[१६६]]
लोके खलु अकृतसन्ध्यात् कृतसन्ध्यः, अकृतवैश्वदेवात् कृतवैश्वदेवः, अकृतयज्ञात् कृतयज्ञश्चोत्कृष्ट इति प्रतीतिः। इदमेवाह— अतो दृष्टः कर्माकर्मणोर्विशेषो लोके इति। इदं चाज्ञविषयमेव, प्राज्ञस्य कर्मासम्भवात्। तथाच अकृतविहितकर्मणो जनादज्ञात् कृतविहितकर्मा भवत्यज्ञ उत्कृष्टः, ज्ञानी तु अज्ञात् कर्मिण उत्कृष्ट इति सिद्धम्। शरीरयात्रा शरीरस्थितिः, जीवनमित्यर्थः। प्राणधारणमिति यावत्। अन्नमूलत्वाच्छरीरस्थितेरन्नस्य च कर्ममूलत्वादिति भावः। वक्ष्यत्येतमर्थम् ‘अन्नाद्भवन्ति भूतानी’ति श्लोकेन। यद्वा यथा लोके क्षुद्राणां पुरुषाणां पश्वादीनां च शरीरस्थितिर्न प्रसिद्धा, तथा तवापीत्यर्थः। यज्ञादेर्युद्धादेर्वा विहितस्योत्कृष्ट- तमस्य कर्मणः करणाद्धि लोके पुरुषस्य बहुला प्रतिष्ठा। यस्तु शिश्नोदरपरायणः कर्म विहितं न कुरुते, तस्य पश्वादिवन्न काऽपि प्रतिष्ठेति वृथैव तस्य जीवनमिति भावः। अर्जुन इति कश्चिदस्तीति लोके न कोऽपि प्रतीयादिति तत्त्वम्। यत्तु रामानुजः— अकर्मणो ज्ञानयोगात् कर्मैव ज्यायः। ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्राऽपि न सेत्स्यति। ज्ञाननिष्ठस्यापि यज्ञादिकर्म कर्तव्यम्। कर्मयोगेऽप्यात्मयाथात्म्यानुसन्धानमन्तर्भूतमिति। तत्तुच्छम् , ‘स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छती’ति साक्षान्मोक्षहेतुत्वं ज्ञाननिष्ठाया इहैवोक्तम्। ‘न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥’ इति वक्ष्यति चतुर्थाध्याये। किमयं व्याहतार्थाभिधायी भगवानप्रमाणभूतः येन ज्ञानात् कर्मोत्कृष्टमिति ‘ज्ञानेन सदृशं किमपि नास्ती’ति च स्वत एवोक्तवान्? अहो तव पाण्डित्यमहिमा ! येन भगवन्तमेवाप्रमाणयसि तद्गीतानामपव्याख्यान- करणद्वारा। तथा ‘निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्॥’ इति ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन’ इति, ‘सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि’ इति च भगवता वक्ष्यते चतुर्थाध्याये। ततः कथमयज्ञशिष्टान्नाशनाद् यतेः किल्बिषप्राप्तिः येन ज्ञाननिष्ठस्य यज्ञादिकर्म कर्तव्यं स्यात्? सति भिक्षाटने कर्मणि कथं वा तस्य देहयात्राया असिद्धिः? निवृत्तिलक्षणज्ञानयोगनिष्ठस्य कथं यज्ञादिषु प्रवृत्तिः? न हि प्रवृत्तिनिवृत्त्योरैक्यं केनापि सम्पादयितुं शक्यम्। फलाभिसन्धिपरित्यागपूर्वककर्माचरणात्मके कर्मयोगे कथमात्मयाथात्म्यानुसन्धानस्यान्तर्भावः? आत्मयाथात्म्यं हि सच्चिदानन्दत्वाविक्रियत्वाकर्तृत्वाभोक्तृत्वादिरूपम्। सति तदनुसन्धाने कथं कर्मसु प्रवर्तेत पुरुषः? कथं वा कर्तारमात्मानं १मनुयात् [मन्वीत]? अकर्त्रात्मज्ञानं हि कर्मभ्यः पुंसो निवर्तकम्। तस्मात् सूर्यस्य तमसीवात्मज्ञानस्य न कर्मण्यन्तर्भावः। किञ्च शास्त्राचार्योपदेशशमदमादिसंस्कृतान्तःकरणसाध्यस्यात्मयाथात्म्यानुसन्धानस्य कथं कर्मविक्षिप्तचित्तसाध्यत्वम्? ज्ञाननिष्ठोऽपि निर्व्यवहारसमय एव ह्यात्मयाथात्म्यानुसन्धानं कर्तुं क्षमते। तस्मात् तुच्छं रामानुजभाष्यम्॥८॥
कर्मणि देहादिचेष्टाद्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह— अत इति॥८॥
‘कर्मणा बध्यते जन्तुः’ इति स्मृतेर्बन्धार्थं कर्म, तन्न श्रेयोऽर्थिना कर्तव्यमित्याशङ्कामनूद्य दूषयति— यच्चेत्यादिना। कर्मा- धिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति—कथमित्यादिना। फलाभिसन्धिमन्तरेण यज्ञार्थं कर्म कुर्वाणस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
शरीरयात्रा शरीरस्थितिरपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेद् अकर्मणोऽकरणात्। अतो दृष्टः कर्माकर्मणोर्विशेषो लोके॥८॥
यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति, तदप्यसत्। कथम्?— यज्ञार्थादिति। ‘यज्ञो वै विष्णुः’(तै.सं. यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर ॥९॥
१. परस्मैपदप्रयोगश्चिन्त्यः।
[[१६७]]
यज्ञेति। अयं लोकः यज्ञार्थात् कर्मणोऽन्यत्र, अधिकृतः कर्मकृदिति शब्दद्वयशेषः; कर्मबन्धनः, भवतीति शेषः। हे कौन्तेय! त्वं मुक्तसङ्गः सन् तदर्थं कर्म समाचर। स्वस्ववर्णाश्रमविहितकर्मानुष्ठानेनेश्वराज्ञायाः परिपालनीयत्वादीश्वराज्ञापरिपालनार्थानि कर्माणि विहितानीश्वरार्थानीत्युच्यन्ते, न त्वेभ्यः कर्मभ्य ईश्वरस्य कोऽप्यर्थः; तस्य परिपूर्णत्वेनावाप्तसमस्तकामत्वात् इत्यभिप्रेत्याह— तदर्थमिति। अन्यत्रेति। सकामे कर्मणीत्यर्थः। ईश्वरार्थे यज्ञादिकर्मणि क्रियमाणे स्वर्गादिफलाभावाद् देवादिजन्मरूपो बन्धो नास्ति पुरुषस्य। अन्यत्र तु फलानुभवार्थं जन्म स्वीकर्तव्यमित्यस्ति बन्ध इति भावः। तदर्थमित्यत्र तच्छब्दः प्रकृतयज्ञपरामर्शीत्याह— यज्ञार्थमिति। तस्मा इदं तदर्थमिति नित्यसमासः। यत्तु रामानुजः— यज्ञार्थाद् यज्ञादिशास्त्रीयकर्मशेषभूतद्रव्यार्जनादेः कर्मणोऽन्यत्रात्मीयप्रयोजनशेषभूते कर्मणि क्रियमाण इति। तत्तुच्छम् , यज्ञाद्यर्थादित्यादिशब्दाभावाद् , यज्ञशब्दस्योपलक्षणत्वाभ्युपगमस्य चान्याय्यत्वात्। प्रधानकर्मणोऽबन्धकत्वेनैव तच्छेषकर्मणोऽबन्धकत्वस्य सिद्धौ तदर्थं पुनर्वचनस्यायुक्तत्वात् , यज्ञार्थात् कर्मणोऽन्यत् कर्म यज्ञोऽपि भवत्येवेति यज्ञस्यापि बन्धकत्वापत्तेः। युद्धाय सन्नह्य ततो निवृत्तायार्जुनाय युद्धं कुर्वित्येवोपदेष्टुमुचितत्वेन युद्धार्थं द्रव्यार्जनं कर्म कुरु इत्युपदेशस्या- नुचितत्वात्। पिष्टपेषणं हि तत्। इतः प्रागेवानेन युद्धसम्भारसम्पादनस्य कृतत्वात्॥९॥
सहेति। पुरा प्रजापतिः सहयज्ञाः प्रजाः सृष्ट्वा ‘अनेन प्रसविष्यध्वम् , एष व इष्टकामधुगस्तु’ इत्युवाच। इतश्चेति। यज्ञद्वारा देवमनुष्ययोरुपकार्योपकारकभावसत्त्वाददेवयाजिनश्चोरत्वादयज्ञशिष्टान्नाशनस्य किल्बिषहेतुत्वाद् यज्ञशिष्टान्नाशनस्य किल्बिषमोच- कत्वाच्चेत्यर्थः। प्रजापतिः ब्रह्मा। अनेन प्रसविष्यध्वमिति। अनेनेति करणे हेतौ वा तृतीया। सुकृतमिति शेषः। प्रसवशब्दार्थमाह— वृद्धिरिति। अन्यार्थमाह— उत्पत्तिरिति। सुकृतं वर्धयध्वम् उत्पादयध्वमिति वाऽर्थः। यत्तु रामानुजः— आत्मनो वृद्धिं कुरुध्वमिति, तदसत् , आत्मनः वृद्धिक्षयादिविक्रियारहितत्वात्॥१०॥
बन्धाभावात् तादर्थ्येन कर्म कर्तव्यमित्याह— तदर्थमिति। यज्ञार्थं कर्मेत्ययुक्तम् , न हि कर्मार्थमेव कर्मेत्याशङ्क्य व्याचष्टे— यज्ञो वै विष्णुरिति। कथं तर्हि ‘कर्मणा बध्यते जन्तु’रिति स्मृतिः? तत्राह— तस्मादिति। ईश्वरार्पणबुद्ध्या कृतस्य कर्मणो बन्धार्थत्वाभावे फलितमाह— अत इति॥९॥
नित्यस्य कर्मणो नैमित्तिकसहितस्याधिकृतेन कर्तव्यत्वे हेत्वन्तरपरत्वेनानन्तरश्लोकमवतारयति— इतश्चेति। कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तुमित्याशङ्क्याह— एष इति॥ १०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥१०॥
१.७.४) इति श्रुतेः यज्ञ ईश्वरः, तदर्थं यत् क्रियते तद् यज्ञार्थं कर्म, तस्मात् कर्मणः अन्यत्र अन्येन कर्मणा लोकोऽयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म बन्धनं यस्य सोऽयं कर्मबन्धनो लोकः, न तु यज्ञार्थात्१। अतस्तदर्थं यज्ञार्थं कर्म कौन्तेय ! मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन् समाचर निर्वर्तय॥९॥
इतश्चाधिकृतेन कर्म कर्तव्यम्— सहेति। सहयज्ञा यज्ञसहिताः प्रजास्त्रयो वर्णाः, ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां स्रष्टा— ‘अनेन यज्ञेन २प्रसविष्यध्वं प्रसवो वृद्धिरुत्पत्तिस्तां कुरुध्वम्। एष यज्ञो वो युष्माकम् अस्तु भवतु इष्टकामधुग् इष्टानभिप्रेतान् कामान् फलविशेषान् दोग्धीतीष्टकामधुक्॥१०॥
१. न तु यज्ञार्थात् ईश्वरार्थात् कर्मणः कर्तुः बन्ध इत्यर्थः। ‘न तु यज्ञार्थेने’ति पाठश्चेत् समीचीनः स्यात्। २. इदमार्षं रूपमिति भाति।
[[अ. ३ श्लो. ८-१०]] [[१६८]]
देवानिति। कथमिति। यज्ञस्य कथमिष्टकामधुक्त्वमित्यत आहेत्यर्थः। न च देवानां कथं यज्ञेन वृद्धिरिति वाच्यम् ; देवानाममृताशित्वाद् ‘अमृतं वै घृत’मिति घृतस्यामृतत्वाद् यज्ञे च देवेभ्योऽग्नौ घृतस्य दीयमानत्वाच्चेति। वृष्ट्यादीत्यादिपदात् पशुपुत्रादिग्रहणम्। आप्याययन्तु वर्धयन्तु आनन्दयन्त्विति वा। परं हि श्रेयो मोक्षम्। ननु कथं कर्मणा मोक्षः? अत आह— विज्ञानप्राप्तिक्रमेणेति। चित्तशुद्धिद्वारेति भावः। यज्ञादिकर्मणां देवभावनमवान्तरफलम्। प्रधानफलं तु चित्तशुद्धिज्ञानप्राप्तिद्वारा निःश्रेयसमिति तत्त्वम्। एवं निष्कामानां गतिं प्रदर्श्य सकामानां गतिं प्रदर्शयति— स्वर्गं वेति। परं श्रेय इत्यस्य स्वर्गमिति वाऽर्थ इत्यर्थः। अवाप्स्यथ प्राप्स्यथ ॥११॥
इष्टानिति। देवाः यज्ञभाविताःसन्तः वः इष्टान् भोगान् दास्यन्ति। यः तैर्दत्तान् भोगानेभ्यः अप्रदाय भुङ्क्ते, सः स्तेन एव। ननु देवदत्तभोगान् स्त्रीपशुपुत्रादीन् कथं देवेभ्यो दातुं शक्यम्? अत आह—आनृण्यमकृत्वेति। स्त्रिया सहाग्नौ घृताहुतिप्रक्षेपणेन, स्वस्याशक्तौ पुत्रेण तत्प्रक्षेपणेन च स्त्रीपशुपुत्रभोगप्रत्यर्पणरूपमानृण्यं जायते पुंसः। पुरोडाशप्रदानेन च व्रीहिभोगप्रत्यर्पणरूपमित्येवं ज्ञेयम्। अस्त्रीकस्यापुत्रस्य च यज्ञेऽधिकाराभावादुक्तम्— स्त्रीपुत्रेति। क्षीराज्याभावे होमाद्यसम्भवादाह— पश्विति। पशुश्चात्र गौरेव, न महिष्यादिः, अपवित्रत्वादिति बोध्यम्। ‘इमां स्त्रियम् इमं पुत्रम् इमां गाम् इदं व्रीह्यादिकं च गृहीत्वा, भो द्विजाः! देवानस्मान् यज्ञादिभिर्भावयते’ति देवाः द्विजेभ्यः स्त्रीपशुपुत्रधान्यादिकान् भोगान् ददुः। यस्तु तथा देवांस्तैस्तर्पयति स यथोक्तकारी बुद्धिमानेव; यस्तु तान् स्वयं केवलं भुङ्क्ते स स्तेन एव। ननु कथं स्त्रीपश्वादीनां भोजनं घटेत? इत्यत आह— स्वदेहेन्द्रियाण्येव तर्पयतीति। कथं पुनरभीष्टफलविशेषहेतुत्वं यज्ञस्य विज्ञायते? न हि देवताप्रसादादृते स्वर्गादिरभ्युदयो लभ्यते। नापि सम्यग्दर्शनमन्तरेण निःश्रेयसं सेद्धुं पारयतीति शङ्कते— कथमिति। तत्र श्लोकेनोत्तरमाह— देवानिति। मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः२॥११॥
इतश्चाधिकृतेन कर्म कर्तव्यमित्याह— किञ्चेति। कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्त्यस्मानिति? तदाह— इष्टानिति। यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्क्य पूर्वार्धं व्याकरोति— इष्टानभिप्रेतानिति। पश्वादिभिश्च यज्ञानुष्ठानद्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्यवायप्रसङ्गादित्युत्तरार्धं व्याचष्टे—तैरिति। आनृण्यमकृत्वेति। अयमर्थः— देवानामृषीणां पितॄणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य स्वकीयं कार्यकरणसङ्घातमेव पोष्टुं भुञ्जानः तस्करो भवतीति॥१२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥११॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥१२॥
कथम्?— देवानिति। देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन। ते देवाः भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान्। एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं १ज्ञानप्राप्तिक्रमेणावाप्स्यथ। स्वर्गं वा परं श्रेयोऽवाप्स्यथ॥११॥
किञ्च— इष्टान् भोगानिति। इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं देवाः दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविताः यज्ञैर्वर्धिताः तोषिता इत्यर्थः। तैः देवैर्दत्तान् भोगान् अप्रदाय अदत्त्वा, आनृण्य- १. ‘विज्ञानप्राप्ति’ इति रा.पा.। २. भाष्ये मुमुक्षुं प्रति - कर्मणा परं श्रेयः मोक्षः ज्ञानप्राप्तिक्रमेणेति व्याख्याय, बुभुक्षुं प्रति ‘स्वर्गं वा परं श्रेयः’ इति अधिकारिभेदेन श्रेयःपदमर्थद्वये द्वेधा व्याख्यातमिति भावः।
[[१६९]]
मैथुनक्षीराज्यपानादिभिरिति भावः। कथमस्य स्तेनत्वम्? अत आह—देवादिस्वापहारीति। देवादिधनापहारित्वाद् युक्तमस्य चोरत्वमित्यर्थः। देवैः स्त्र्यादीनां स्वयज्ञार्थं दत्तत्वेन द्विजसम्बन्धितया प्रतीयमानाः स्त्र्यादयो भोगाः देवसम्बन्धिन एवेति कृत्वा देवसम्बन्धिभोगानां स्वसम्बन्धीकरणाद् द्विजस्य चोरत्वम्। यथा देवदत्तसम्बन्धिवस्त्रस्य स्वसम्बन्धीकरणाद् यज्ञदत्तस्य चोरत्वं तद्वदिति भावः। ननु यदा देवैर्भोगा दत्तास्तदैव देवानां तेषु भोगेषु स्वामित्वं नष्टम् , स्वत्वनिवृत्तिपूर्वकपरकीयत्वानुकूलव्यापारो हि दानम्। तस्मात् कथं स्त्र्यादीनां देवसम्बन्धित्वमिति चेत्? मैवम् , यथा अपुत्रः कन्यादानसमये ‘अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यती’ति सङ्कल्पपूर्वकं कन्यां कस्मैचिद् दत्त्वाऽपि तत्पुत्रे स्वाम्यं प्रतिपद्यते, तद्वद् देवा अपि यज्ञार्थं स्त्र्यादीन् तुभ्यं ददाम२ इति सङ्कल्पपूर्वकं द्विजाय स्त्र्यादीन् दत्तवन्तः कथं तत्र स्वाम्यं न प्राप्नुयुः? अपितु प्राप्नुयुरेव, सङ्कल्पा(न)धीनत्वाद् दानवैचित्र्यस्येति॥१२॥
यज्ञेति। यज्ञशब्दोऽत्र ब्रह्मयज्ञदेवयज्ञपितृयज्ञमनुष्ययज्ञभूतयज्ञाख्यपञ्चयज्ञपरः। सर्वशब्दस्वारस्यादाह— प्रमादेति। कुट्टनीति। गृहस्थस्य कुट्टन्यादयः पञ्च सूनाः पञ्च हिंसाः सन्ति। ताभिर्हेतुभिः गृहस्थः स्वर्गं न गच्छति। कुट्टनी— उलूखले धान्यं निक्षिप्य मुसलेनावहननसमये कीटादिनाशसम्भवात् तज्जन्या सूना कुट्टनीत्युच्यते। घरट्टोपलाभ्यां धान्यस्य पेषणसमये जाता सूना पेषणीत्युच्यते। चुल्ली— चुल्ल्यां काष्ठानि निक्षिप्य तत्राग्निं संयोज्य ओदनादिपचनसमये कीटादिनाशजन्या सूना चुल्ली। उदकुम्भी— कुम्भेन जलाहरणसमये जाता सूना जले पादप्रवेशादिना कुम्भनिक्षेपेण च क्षुद्रजन्तुनाशसम्भवात्। मार्जनी— मार्जन्या गृहभूमेर्मार्जनसमये जाता कीटादिनाशात् सूना मार्जनीत्युच्यते। यद्यप्येताः सूनाः न गृहस्थेन क्रियन्ते, किन्तु तत्पत्न्यैव, तथापि पत्नीकृतपाकसङ्क्रान्तास्ताः तदन्नभोजनाद् गृहस्थेऽपि देवादिभ्यः संविभागमकृत्वा भुञ्जानानां प्रत्यवायित्वमुक्त्वा, तदन्येषां सर्वदोषराहित्यं दर्शयति— ये पुनरिति। यज्ञशिष्टाशिनो ये पुनस्ते तादृशाः सन्तः सर्वकिल्बिषैर्मुच्यन्त इति योजना। ‘तैर्दत्तान्’ इत्यादिनोक्तं निगमयति— भुञ्जत इति। देवयज्ञादीनित्यादिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्मयज्ञश्चेति चत्वारो यज्ञा गृह्यन्ते। चुल्लीशब्देन पिठरधारणाद्यर्थक्रियां कुर्वन्तो विन्यासविशेषवन्तस्त्रयो ग्रावाणो विवक्ष्यन्ते। आदिशब्देन कण्डनी पेषणी मार्जनी उदकुम्भश्चेत्येते हिंसाहेतवो गृहीताः। तान्येतानि पञ्च प्राणिनां सूनास्थानानि हिंसाकारणानि। तत्प्रयुक्तैः सर्वैरपि बुद्ध्यबुद्धिपूर्वकैर्दुरितैर्मुच्यन्त इति सम्बन्धः। प्रमादो विचारव्यतिरेकेणाबुद्धिपूर्वकमुपनतं पादपातादि- कर्म। तेन प्राणिनां हिंसा सम्भाव्यते। आदिशब्देनाशुचिसंस्पर्शादि गृहीतम्। तदुत्थैश्च पापैर्महायज्ञकारिणो मुच्यन्ते। उक्तं हि— ‘कण्डनं पेषणं चुल्ली उदकुम्भश्च मार्जनी। पञ्च सूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति॥’ इति। ‘पञ्च सूना गृहस्थस्य चुल्ली पेषण्यवस्करः। कण्डनी चैव कुम्भश्च वध्यन्ते यास्तु वाहयन्॥’ इति च। अस्यायमर्थः— या यथोक्ताः पञ्चसङ्ख्याका गृहस्थस्य सूनास्ताः यो वाहयन् आपादयन् वर्तते, तेन प्राणिनो बुद्धिपूर्वकमबुद्धिपूर्वकं च वध्यन्ते, तत्प्रयुक्तं सर्वमपि पापं महायज्ञानुष्ठानात् प्रणश्यतीति। महायज्ञानुष्ठानस्तुत्यर्थं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥१३॥
मकृत्वेत्यर्थः; एभ्यो देवेभ्यो, यो भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयति, स्तेन एव तस्कर एव सः देवादिस्वापहारी॥१२॥
ये पुनः—यज्ञेति। देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनममृताख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः सर्वपापैः १चुल्ल्यादिपञ्चसूनाकृतैः, प्रमादकृतहिंसादिजनितैश्चान्यैः। ये त्वात्मम्भरयः, भुञ्जते ते अ. ३ श्लो. ११-१३ ] १. ‘चुल्ल्यादिपञ्चसूनाख्यैः प्रमादकृतहिंसादिजनितैश्च। तद्यथा— कुट्टनी पेषणी चुल्ली उदकुम्भी च मार्जनी। पञ्च सूना गृहस्थस्य ताभिः स्वर्गं न गच्छति। अन्ये त्वात्मम्भराः’ इति रा.पा.। २. ददामेति दाधातोः लोडुत्तमपुरुषबहुवचनम्। अथवा दद्मः इति पाठः स्यात्।
[[१७०]]
सङ्क्रामन्ति। यद्वा भर्त्रा चोदितैव भार्या ताः करोतीति भर्तारं प्रेरकं सङ्क्रामन्ति। अथवा भर्तृभार्ययोरेकात्मकत्वात्। वस्तुतस्तु भर्त्रर्थमेव भार्या पाकं करोतीति सूना भर्तुरेव। भार्यायास्तु भर्तृभुक्तावशिष्टपाकाशनान्न दोष इति। एतास्तु पञ्च सूना वैश्वदेवाख्यान्नित्यकर्मणो निवर्तन्त इति धर्मशास्त्रम्। ननु कथं पञ्चसूनानिर्वर्त्यपक्वान्नस्य यज्ञशेषीकरणमात्रेण किल्बिषनाशकत्वमिति चेत्? उच्यते— प्रत्यहं देवार्थमेव पाकः कार्यः, न तु स्वार्थमिति विधौ स्थिते देवार्थं पाकाकरणस्य दुष्टत्वाद् हिंसाप्रायोऽपि पाको देवार्थं कर्तव्य एव, यथा हिंसात्मको ऽप्यग्निष्टोमः विहितत्वात् कर्तव्यः। स्वार्थं पाकस्तु स्वार्थं पशुविशसनवद् दुष्ट एव। पञ्चसूनानिर्वर्त्यमपि देवार्थं पक्वान्नं पुण्यमेव, विहितत्वाद् हिंसानिर्वर्त्ययज्ञपशुमांसवदिति सिद्धम्। एवं सति देवयज्ञावशिष्टस्यान्नस्य शास्त्रादायातं पुण्यत्वम् , लोकतश्च देवार्थं कृतत्वात् पाकस्य तत्सम्बन्धिदोषाणां न यजमानगामित्वमिति सिद्धम्। ये तु देवार्थं न पचन्ति, किन्तु स्वार्थमेव ते पापिन एवेत्याह— अन्ये त्विति। अन्ये तु अयज्ञशिष्टाशिनस्त्वित्यर्थः। अस्यैव फलितमाह— आत्मम्भरा इति। स्वकुक्षिम्भरा इत्यर्थः। स्वयमपीति स्वत एवेत्यर्थः। अन्नभोजनात्प्रागपीति यावत्। पापवशादेवैतेषां यज्ञाकरणे बुद्ध्युदयादिति भावः। आत्महेतोः स्वकुक्षिपूरणार्थमित्यर्थः। कुक्षिपूरणं येन केनाप्यन्नेन जायत एव, यज्ञशिष्टान्नेन तु पापनिवृत्तिः; अयज्ञशिष्टेन स्वार्थं पक्वेनान्नेन तु पापसञ्चयनमित्येता- वानेव भेदः। ततश्चैहिकं कुक्षिपूरणं आमुष्मिकं पुण्यं च यस्माद् भवति तदेव यज्ञशिष्टान्नं द्विजैः पापभीरुभिर्भोक्तव्यमित्यवश्यं कर्तव्यं यज्ञाख्यं कर्म॥१३॥
अन्नादिति। इतश्चेति। जगच्चक्रप्रवृत्तिहेतुत्वात् कर्मण इत्यर्थः। ‘अन्नाद्भूतानि जायन्ते’ इति श्रुतेराह भगवान्— अन्नाद्भवन्ति भूतानीति। ननु पात्रादिस्थादन्नाद् भूतान्युत्पद्यमानानि न दृश्यन्ते, नापि श्रूयन्त इति मूलकर्तुः प्रसक्तमाक्षेपं वारयति भाष्यकर्ता— भुक्तादिति। ननु भुक्तादप्यन्नात् पुरीषादिरूपान्न भूतोदय इति शङ्कायामाह— लोहितरेतःपरिणतादिति। स्त्रीभिर्भुक्तं सल्लोहितरूपेण, तदनुष्ठानविमुखान् निन्दति—ये त्विति। आत्मम्भरित्वमेव स्फोरयति—ये पचन्तीति। स्वदेहेन्द्रियपोषणार्थमेव पाकं कुर्वतां देवयज्ञादि- पराङ्मुखानां पापभूयस्त्वं दर्शयति— भुञ्जत इति। पाठक्रमस्त्वर्थक्रमादपबाधनीयः१॥१३॥
देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्वन्तरम् इतःशब्दोपात्तमेव दर्शयति— जगदिति। ननु भुक्तमन्नं रेतोलोहित- परिणतिक्रमेण प्रजारूपेण जायते; तच्चान्नं वृष्टिसम्भवं प्रत्यक्षदृष्टम् ; तत् कथं कर्मणो जगच्चक्रप्रवर्तकत्वमिति शङ्कते— कथमिति। पारम्पर्येण कर्मणस्तद्धेतुत्वं साधयति— उच्यत इति। उक्तेऽर्थे स्मृत्यन्तरं संवादयति—अग्नाविति। तत्र हि देवताभिध्यानपूर्वकं तदुद्देशेन प्रहिता आहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य वृष्ट्यात्मना पृथिवीं प्राप्य व्रीहियवाद्यन्नभावमापद्य संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः। ‘यज्ञः कर्मसमुद्भवः’ इत्ययुक्तम् , स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्क्याह— ऋत्विगिति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥१४॥
त्वघं पापं स्वयमपि पापाः, ये पचन्ति पाकं निर्वर्तयन्ति आत्मकारणाद् आत्महेतोः॥१३॥
इतश्चाधिकृतेन कर्म कर्तव्यम्। जगच्चक्रप्रवृत्तिहेतुर्हि कर्म। कथमिति? उच्यते— अन्नाद्भवन्तीति। अन्नाद् भुक्ताल्लोहितरेतःपरिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि। पर्जन्याद् वृष्टेः अन्नस्य सम्भवः अन्नसम्भवः। यज्ञाद् भवति पर्जन्यः। ‘अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥’(म.स्मृ. १. पाठक्रमापेक्षयाऽर्थक्रमो बलवान्। द्र.पू.मी. ५-४-१ अधि.। प्रकृते ‘तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः’ ‘भुञ्जते ते त्वघं पापाः’ इत्यनयोः निन्दयोः मध्ये ‘यज्ञशिष्टाशिनः सन्तो मुच्यन्ते’ इति महायज्ञानुष्ठानस्तुतिः पठिता। अतोऽर्थक्रमेण योजना करणीयेति भावः।
[[१७१]]
पुम्भिर्भुक्तं सद् रेतोरूपेण च यत् परिणतमन्नं तस्मादन्नादित्यर्थः। प्रत्यक्षमिति। स्त्रीपुरुषसंयोगाज्जरायुजाण्डजात्मकभूतोत्पत्तेः प्रत्यक्षत्वादित्यर्थः। प्रत्यक्षं यथा तथेति क्रियाविशेषणम्। भवन्तीति प्रत्यक्षमिति वा अन्वयः। मनुष्येषु पश्वादिषु चेति भावः। भूतानि प्राणिनः, न त्वात्मा तस्याजत्वात् ; देहा इति यावत्। पर्जन्यशब्दो मेघवाची तत्कार्यं वर्षं लक्षयति ‘वृष्टेरन्न’मिति स्मृत्यनुसारादि- त्याह— वृष्टेरिति। व्रीह्यादिमयस्यान्नस्य वृष्टिं विना अनुत्पत्तेरिति भावः। न च नदीजलादन्नसम्भव इति वाच्यम् ; तस्यापि वर्षाधीनत्वात्। न हि ग्रीष्मे नद्यां जलं विद्यते, विद्यमानमप्यल्पमेव हि। प्रास्तेति। निक्षिप्तेत्यर्थः। प्रपूर्वकाद् ‘असु गतिक्षेपणयो’रिति धातोः कर्मणि क्तः। प्रकर्षेणास्ता प्रास्ता। अपूर्वमिति। कर्तृनिष्ठो धर्मः सुकृतपर्यायः, येनैव स्वर्गादिफलप्राप्तिर्यजमानस्य। कथमन्यथा इहैव समाप्तिसमकाल एव नष्टस्य कर्मणो यज्ञस्य जन्मान्तरीयस्वर्गादिफलजनकत्वं स्यात्?। व्यापार इति। होमादिरूपः (लौकिकैः कैश्चिद्) वैदिकैश्च यज्ञत्वेन व्यवह्रियमाण इति भावः॥१४॥
कर्मेति। ‘ब्रह्म वेदस्तपस्तत्त्व’मिति कोशादाह— ब्रह्म वेद इति। मृद्घटयोरिव ब्रह्मजगतोरिव वा वेदकर्मणोः कार्यकारणभावा- भावादाह— प्रकाशक इति। प्रतिपादक इत्यर्थः। इदमित्थं कर्तव्यमिति बोधयतीत्यर्थः। समुद्भव इति। सम्यगुद्भवत्यस्मादिति समुद्भवः प्रकृतिः, उपादानमिति यावत्। निश्वासवदिति। ‘तस्य महतो भूतस्य निश्वसितमेतद् यदृग्वेदः’ इति श्रुतेः ब्रह्मणः सकाशात् वेदा अप्रयत्नेन जाता इत्यर्थः। श्वासवेदयोरप्रयत्नजन्यत्वरूपं साधर्म्यमस्तीति भावः। तस्माच्छब्दार्थमाह— सर्वार्थप्रकाशकत्वादिति। सर्वार्थप्रकाशकत्वं च वेदस्य सर्वावभासकचैतन्यजन्यत्वप्रयुक्तमिति बोध्यम्। यद्वा तस्मादित्यस्य परमात्मनः समुद्भूतत्वादित्येवार्थः। कथं वेदस्य सर्वगतत्वम्? इत्यत आह— सर्वार्थप्रकाशकत्वादिति। सर्वार्थप्रकाशकत्वरूपं सर्वगतत्वं वेदस्यास्तीत्यर्थः। ननु ब्रह्मान्यस्य सर्वस्यानित्यत्वात् कथं नित्यत्वं वेदस्य? इत्यत आह— नित्यं सदेति। यावद्व्यवहारमित्यर्थः। यज्ञे कथं वेदस्य प्रतिष्ठितत्वम्? अत द्रव्यदेवतयोः संग्राहकश्चकारः॥१४॥
यदपूर्वहेतुत्वेन कर्मोक्तम् , तत् किं चैत्यवन्दनादि , किं वाऽग्निहोत्रादीति संदिहानं प्रत्याह— कर्मेति। किमिति कर्मणो ब्रह्मोद्भवत्वमुच्यते, सर्वस्य तदुद्भवत्वाविशेषादित्याशङ्क्याह— ब्रह्म वेद इति। ब्रह्म तर्हि वेदाख्यमनादिनिधनमिति, तत्राह— ब्रह्म पुनरिति। अक्षरात्मनो वेदस्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न सम्भवतीत्याशङ्क्याह— अक्षरमिति। ब्रह्मेत्यक्षरमेवोक्तम् , तत् कथं तस्मादेवोद्भवतीत्याशङ्क्य ब्रह्मशब्दार्थमुक्तमेव स्मारयति—(ब्रह्म) वेद इति। ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामाण्यसंदेहात् कथं त्वदुक्तमग्निहोत्रादिकं कर्म निर्धारयितुं शक्यते? तत्राह— यस्मादिति। कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वम् , सर्वगतत्वेन विशेषायोगादित्याशङ्क्याह— सर्वगतमपीति॥१५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥१५॥
३.७६) इति स्मृतेः। यज्ञोऽपूर्वम्। स च यज्ञः कर्मसमुद्भवः। ऋत्विग्यजमानयोश्च व्यापारः कर्म, १ततः समुद्भवो यस्य यज्ञस्य अपूर्वस्य, स यज्ञः कर्मसमुद्भवः॥१४॥
२तच्च — कर्मेति। कर्म ब्रह्मोद्भवम् ब्रह्म वेदः स उद्भवः कारणं ३प्रकाशकः यस्य तत् कर्म ब्रह्मोद्भवं विद्धि जानीहि। ब्रह्म पुनर्वेदाख्यम् अक्षरसमुद्भवम्। अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तदक्षरसमुद्भवं ब्रह्म वेद इत्यर्थः। यस्मात् साक्षात् परमात्माख्यादक्षरात् पुरुषनिःश्वासवत्४ समुद्भूतं ब्रह्म, तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम्। सर्वगतमपि सत् नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम्॥१५॥
१. ‘तत् समुद्भवो’ ‘तस्मात् समुद्भवो’ इति पा.। २. ‘तच्च एवंविधं कर्म कुतो जातमित्याह—’ इति पा.। ३. ‘प्रकाशक’ इति क्वचिन्न। ४. अनेनापौरुषेयत्वमिष्टम्।
[[अ. ३ श्लो. १३-१५]] [[१७२]]
आह— यज्ञविधिप्रधानत्वादिति। यज्ञविधिरेव प्रधानं प्रतिपाद्यं यस्य स यज्ञविधिप्रधानः, तत्त्वात् इति। यत्तु रामानुजः— यज्ञः कर्मसमुद्भवः द्रव्यार्जनादिक्रियासाध्यः, कर्म ब्रह्मोद्भवं २शरीरजातम् , ब्रह्म अक्षरसमुद्भवं ३जीवजातम् ; अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति, सर्वगतं सर्वाधिकारिगतं शरीरं ब्रह्म नित्यं यज्ञे प्रतिष्ठितं यज्ञमूलमित्यर्थः इति। तन्मन्दम् , यज्ञस्यैव क्रियारूपत्वेन क्रियासाध्यत्वायोगात्। न हि क्रियया क्रिया साध्यते, किन्तु फलादिकमेव। यद्यपूर्वात्मको यज्ञ इह विवक्षितः, तर्हि स न द्रव्यार्जनादिक्रियासाध्यः, किन्तु ऋत्विग्यजमानव्यापाररूपक्रियासाध्य एव। ब्रह्मशब्दस्य च शरीरे प्रयोगोऽप्रसिद्धः, ‘मम योनिर्महद्ब्रह्म’ इति प्रकृतौ प्रयोगसत्त्वेऽपि न शरीरे प्रयोगसिद्धिः। प्रकृतेर्ब्रह्मत्वात् तत्कार्यमपि ब्रह्मैवोपचारादिति वचनं तु लक्षणामूलत्वादुपेक्ष्यम्। प्रकृतेर्ब्रह्मशब्दवाच्यत्वमेव तावल्लक्षणया निर्वाह्यम् , किं पुनर्वक्तव्यं शरीरस्य ब्रह्मशब्दवाच्यत्वम्? ‘शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः’ इति वक्ष्यमाणत्वात् कथं शरीरमात्रप्रभवत्वं कर्मणः? अन्नपानादिना तृप्तजीवेत्युक्तिरयुक्ता, जीवस्याभोक्तुरन्नादिना तृप्त्ययोगात्। प्राणादीनामेव हि तृप्तिः। यदि जीवस्यान्नादिना तृप्तिस्तर्हि तदभावेन शोकादिरपि स्यात् ; न चैतद् युक्तमविक्रिये सच्चिदानन्दमये जीवे। यद्ययं जीवः कर्ता भोक्ता विज्ञानात्मा, न तु सच्चिदानन्दरूप इत्युच्येत; तर्हि नासावक्षरः किन्तु क्षर एव, कर्तृत्वादिविकार- वतोऽनित्यत्वात्। न हि लोके विक्रियमाणं वस्तु नित्यं दृष्टं; घटादिरूपेण विक्रियमाणस्य मृदादिद्रव्यस्यापि प्रलये नाशदर्शनात्। सर्व- गतमित्यस्य सर्वाधिकारिगतमित्यर्थोऽप्ययुक्तः, अधिकारिविषयसङ्कोचासहत्वात् सर्वशब्दस्य अनधिकारिपश्वादिशूद्रादिशरीरस्यापि यज्ञमूलत्वेन तस्य तदसिद्धेश्च।यद्येतद्दोषपरिहाराय सर्वजीवगतमित्युच्येत, तदप्ययुक्तम् , मत्स्यादिशरीराणामयज्ञमूलत्वात्। न हि समुद्रगतमत्स्यादयो वर्षफलितव्रीह्यादिना जीवन्ति इति॥१५॥
एवमिति। इह एवम् , ईश्वरेणेति शेषः, प्रवर्तितं चक्रं यः नानुवर्तयति, हे पार्थ! अघायुरिन्द्रियारामः स मोघं जीवति। एवंशब्दार्थमाह— वेदयज्ञपूर्वकमिति। वेदयज्ञौ पूर्वौ यस्मिन् तद् वेदयज्ञपूर्वकं यथा तथा, वेदयज्ञाभ्यां सहेत्यर्थः। प्रवर्तितं सृष्टमिति यावत्। किं तच्चक्रम्? अत आह— जगच्चक्रमिति। चक्रवद्भ्रमणशालित्वाज्जगतश्चक्रत्वव्यपदेशः। नानुवर्तयतीति जगच्चक्रस्यानुवर्तनं नाम वेदाध्ययनपूर्वकं तदर्थानुष्ठानद्वारा जगति यथा कर्मिणो वर्तन्ते तथा वर्तनमित्यर्थः। यच्छब्देन संन्यासिग्रहणं मा भूदित्याह— कर्मण्यधिकृत इति। आयुरिति। शरीरे प्राणवायुसञ्चारः आयुः। यस्य शरीरे प्राणवायुसञ्चारः पापायैव भवति स उच्यतेऽघायुरिति। एवमिति। एवम् इत्थमीश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं नानुवर्तयति इह लोके यः कर्मण्यधिकृतः सन् अघायुः१अघं पापमायुर्जीवनं यस्य सोऽघायुः, पापजीवन इति यावत्। इन्द्रियारामः इन्द्रियैरारामः आरमणमाक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हे पार्थ ! स जीवति। तस्माद् अज्ञेनाधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थः। अधिकृतेनाध्ययनादिद्वारा जगच्चक्रमनुवर्तनीयम् , अन्यथेश्वराज्ञातिलङ्घिनस्तस्य प्रत्यवायः स्यादित्याह— एवमिति। ‘न कर्मणामनारम्भात्’ इत्यादिनोक्तमुपसंहरति— तस्मादिति। जगच्चक्रस्य प्रागुक्तप्रकारेणाननुवर्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्तव्यमित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ ! स जीवति॥१६॥
१. अघं परस्येच्छतीत्यघायुः इति छन्दसि परेच्छायां क्यच उपसंख्यानात् क्यचि ‘अश्वाघस्यात्’ इत्यात्वे ‘क्याच्छन्दसि’ इत्युप्रत्ययेन यद्यपि सिध्यति, तथापि छान्दसत्वाश्रयणक्लेशात् , पराघेच्छायाः अविवक्षणात् , प्रकृतजगच्चक्राननुवर्तनस्यैव विवक्षितत्वाच्चेत्थं व्याख्यातम्। २. तन्मते प्रकृत्यर्थकब्रह्मशब्देन शरीरस्य विवक्षितत्वात् शरीराज्जातमित्यर्थः। ३. ब्रह्म शरीरम् जीवाज्जातमित्यर्थः, अक्षरशब्देन जीवस्य विवक्षितत्वात् ।
[[१७३]]
इदमेवाह— पापजीवन इति। पापसञ्चयनजीवित इत्यर्थः। आराम इति। आङ् पूर्वकाद् रमतेर्भावे घञ् इत्यभिप्रेत्याह— आक्रीडेति। अश्वेनोद्यान इव इन्द्रियैर्विषयेषु यः क्रीडति स इन्द्रियाराम इत्यर्थः। यदि कर्म कर्तव्यं, तर्ह्यज्ञेनेति किं विशेष्यते, ज्ञानिनाऽपि कर्तव्यमेवेत्यत्रोक्तमनुवदति— प्रागिति। तादर्थ्येनेति। तदर्थमेव तादर्थ्यं तेन, ज्ञाननिष्ठायोग्यताप्राप्त्यर्थमित्यर्थः। अनात्मज्ञेन कर्मयोगानुष्ठानं कर्तव्यमित्येतत् प्रतिपाद्येत्यन्वयः। अत्राह रामानुजः— अन्नाद् भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्जन्यादन्नं, यज्ञात् पर्जन्यः, यज्ञश्च कर्तृव्यापाररूपात् कर्मणः, कर्म च सजीवाच्छरीरात् , सजीवं शरीरं पुनरन्नाद् इत्यन्योन्यकार्यकारणभावेन चक्रवत् परिवर्तमानमिति, इन्द्रियारामः इन्द्रियाण्येवास्योद्यानानि भवन्तीति, ज्ञानयोगादौ यतमानोऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवतीति च। तदेतत् सर्वमविचारितरमणीयम्। तथाहि—‘कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भव’मित्यत्र शरीरात् कर्म, शरीरं जीवाच्चोद्भूतमित्युक्तं प्रागनेनैव। इदानीं तु कर्म सजीवाच्छरीरात् , सजीवं शरीरं पुनरन्नादित्युच्यते। कथमिदं न व्याहतम्? कथं वा त्वन्मतरीत्याऽपि मूलादिदमर्थलाभः? ‘अन्नाद्भवन्ति भूतानी’त्यत्र यथा भूतशब्दः सजीवशरीरवाची तथा ‘कर्म ब्रह्मोद्भव’मित्यत्र किं ब्रह्मशब्दः सजीवशरीरवाची उताजीवशरीरवाची? नाद्यः, ‘ब्रह्माक्षरसमुद्भव’मित्यक्षरशब्दवाच्यसजीवशरीरात् सजीवशरीरस्योत्पत्तिरिति व्याघातात्। न ह्येकमेव कार्यं कारणं च भवितुमर्हति। न चाक्षरशब्दः केवलजीववाचीति वाच्यम् ; केवलजीवात् सजीवशरीरसमुद्भव इत्यपि व्याघातात्। कारणजीवात् कार्यजीवस्य भेदाभावात्। न द्वितीयः, अजीवशरीरात् कर्मोदयासम्भवात्। सजीवं हि शरीरं कर्मणि प्रभवत इति [कर्मणे प्रभवतीति] सम्प्रतिपन्नम्। किञ्च सजीवशरीरो जात इत्यनेन जीवस्यापि जन्म सिद्धम्। तच्चायुक्तम् , ‘अजो नित्यः’ इत्यादिविरोधात्। अत एवेह न चक्रत्वमप्युपपद्यते, अक्षरस्य जीवस्य देहकारणस्य कुतश्चिदुत्पत्त्यश्रवणादुत्पत्त्यसम्भवाच्च। उत्पत्तौ सत्यां नाशसम्भवेनाक्षरत्वायोगाच्च। अक्षरत्वं ह्यविनाशित्वम्। ‘जातस्य हि ध्रुवो मृत्यु’रिति जातस्य मृत्युव्यभिचाराभावाच्च। ‘ब्रह्माक्षर- समुद्भव’मित्येतस्याभावे तु चक्रत्वमुपपद्येत, भूतब्रह्मशब्दयोरेकार्थवाचित्वाद्— अन्नाद्भूतानि भवन्ति; तद् ब्रह्म पुनरन्नाद् भवतीति। न च तथैवास्त्विति वाच्यम् ; मूलच्छेदपाण्डित्यप्रकर्षापत्तेस्तव। ननु भूतब्रह्माक्षरशब्दास्त्रयोऽपि सजीवशरीरवाचिन एव, तत्र ब्रह्मशब्दवाच्यस्य सजीवशरीरस्य पुत्रस्य अक्षरशब्दवाच्यात् सजीवशरीरात् पितुः समुद्भव इत्यदोष इति चेत् , नैतदपि युक्तम् , यथा पितृदेहात् पुत्रदेहः समुद्भवति तथा पितृदेहोऽपि पितामहदेहात् समुद्भवतीति कृत्वा अक्षरशब्दवाच्यस्य पितृदेहस्य पुनरन्नात् समुद्भवाभावात्। न च - अन्नाद्भवन्ति भूतानीत्यत्रापि अन्नादन्नमयात् प्रागात्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठानमधिकृतेनानात्मज्ञेन कर्तव्यमेवेत्येतत् ‘न कर्मणा- मनारम्भाद्’ इत्यत आरभ्य ‘शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः’(भ.गी.३.४—८) इत्येवमन्तेन प्रतिपाद्य, ‘यज्ञार्थात् कर्मणोऽन्यत्र’ इत्यादिना ‘मोघं पार्थ स जीवति’ (भ.गी.३.९—१६) इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्यानात्मविदः कर्मानुष्ठाने बहु कारणमुक्तम् , तदकरणे च दोषसङ्कीर्तनं कृतम्॥१६॥
यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमित्यज्ञेनेति विशिष्यते, ज्ञाननिष्ठेनापि तत् कर्तव्यमेवाधिकृतत्वाविशेषादित्याशङ्क्य पूर्वोक्तमनुवदति— प्रागिति। न हि ज्ञानकर्मणोर्विरोधाज्ज्ञाननिष्ठेन कर्म कर्तुं शक्यते। तथा चानात्मज्ञेनैव चित्तशुद्ध्यादिपरम्परया ज्ञानार्थं कर्मानुष्ठेयमिति प्रतिपादितमित्यर्थः। तर्हि ‘यज्ञार्थादि’त्यादि किमर्थम् , न हि तत्र ज्ञाननिष्ठा प्रतिपाद्यते। कर्मनिष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशङ्क्य वृत्तमर्थान्तरमनुवदति१— प्रतिपाद्येति। प्रासङ्गिकम् अज्ञस्य कर्मकर्तव्यतोक्तिप्रसङ्गागतमिति यावत्। बहु कारणम् ईश्वरप्रसादो देवताप्रीतिश्चेत्यादि। दोषसङ्कीर्तनं ‘तैर्दत्तानप्रदाय’ इत्यादि॥१६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. ३ श्लो. १६ ] १. ‘अनुद्रवति’ इति पा.।
[[१७४]]
पितृदेहाद् भूतानि पुत्रदेहाः सम्भवन्तीत्यर्थ इति - वाच्यम् ; ‘ब्रह्माक्षरसमुद्भव’मित्यनेन पौनरुक्त्यात्। न च - ‘ब्रह्माक्षरसमुद्भवम्’ इत्येतत्पुनरुक्तमपि चक्रत्वोपपादकमित्यदोष इति - वाच्यम् ; चक्रत्वोपपादनाय ‘कर्म भूतोद्भवं विद्धि भूतमन्नसमुद्भव’मिति स्वपदेनैव वक्तव्यत्वात् , स्वपदेन पर्यायपदेन वा वचनं विनापि अन्नाद्भूतानि भवन्ति, कर्म भूतोद्भवमित्येतावन्मात्रेणैव चक्रत्वस्य स्फुटं प्रतीयमानत्वाच्च। तस्माद्भूतब्रह्माक्षरशब्दानां नैकार्थत्वमुचितम्। भिन्नार्थत्वे तु न त्वदभीष्टचक्रत्वसिद्धिः। तथा इन्द्रियाराम इत्यत्र इन्द्रियाणां करणानामारामत्वरूपणं च विरुद्धम्। विहारस्थानं ह्यारामः, न तु विहारकरणम्। प्रकृते विहारस्थानं विहारविषयाः शब्दादय एव। तस्माच्छब्दादिष्वेवारामत्वरूपणमुचितम्। न च विषयभोगैकरतिर्भवतीति फलितार्थ उक्तोऽस्माभिरिति वाच्यम् ; ऋजुमार्गं विहाय वक्रपथाश्रयणस्यान्याय्यत्वात्। तथा ज्ञानयोगादौ यतमानोऽपि निष्फलप्रयत्नतया मोघं जीवतीत्यप्ययुक्तम् , ज्ञानयोगे यतमानस्य संन्यासिनः यज्ञानुष्ठाना- धिकाराभावात्। यद् यस्य विहितं स हि तदननुष्ठानेन व्यर्थजीवनः, ज्ञानयोगिनस्तु ज्ञानमेव विहितं, न तु कर्मेति कथं तस्य कर्मानाचरणाद् व्यर्थजीवनत्वप्रसङ्गः? न च - इन्द्रियारामत्वं संन्यासिनो व्यर्थजीवनत्वापादकमिति - वाच्यम् ; असंन्यास्यज्ञविषयत्वादेतत्प्रकरणस्य , ‘यस्तु’ इत्यादिश्लोकद्वयेन संन्यासिप्राज्ञस्य कर्माभावस्य वक्ष्यमाणत्वाच्च॥१६॥
एवमिति। यद्यपि कर्मिण उद्दिश्यैवोक्तम् ‘एवं प्रवर्तितं चक्र’मिति प्रकरणादिना सुज्ञेयम् , तथापि मन्दमतीनां नायं विवेकः सुलभ इत्यभिप्रेत्य भगवान् स्वयमेव तद्विभागं दर्शयतीत्याह— किमित्यादिना। एवमीश्वरेण प्रवर्तितं जगच्चक्रं किं सर्वेणानुवर्तनीयम्? यद्वा पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्यामात्मविद्भिः साङ्ख्यैरनुष्ठेयां ज्ञानयोगेनात्मविदो निष्ठामप्राप्तैरनात्मविद्भिरेवानुवर्तनीयमिति विकल्पः। श्रुत्यर्थमिति। ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ती’ति श्रुतिः। पुत्रैषणादिभ्यो व्युत्थायेति पुत्रैषणादिकं त्यक्त्वेत्यर्थः। प्रतिपिपादयिषितमिति श्रुत्यर्थविशेषणम्। प्रतिपादयितुमिष्टं प्रतिपिपादयिषितम्। वृत्तमर्थमेवं विभज्यानूद्यानन्तरश्लोकमाशङ्कोत्तरत्वेनावतारयति— एवमिति। अर्जुनस्य प्रश्नम् इत्येवमर्थमाशङ्क्याह भगवानिति सम्बन्धः। नन्वेषाऽऽशङ्का नावकाशमासादयति, अनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशेषितत्वादित्याशङ्क्याह— स्वयमेवेति। किमर्थं श्रुत्यर्थं स्वयमेव भगवानत्र प्रतिपादयतीत्याशङ्क्याह—शास्त्रार्थस्येति। गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थः, नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः। तमेव श्रुत्यर्थं सङ्क्षिपति— एतमिति। सिद्धं चेदात्मवेदनम् , अनर्थकं तर्हि व्युत्थानादीत्याशङ्क्य आपातिकविज्ञानफलमाह—निवृत्तेति। ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्यमधिकारित्वमिति ज्ञापनार्थम्। क्लेशात्मकत्वादेषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वादविधित्सितमित्याशङ्क्याह—मिथ्येति। ‘भिक्षाचर्यं चरन्ती’ति वचनं व्युत्थानविरुद्धमित्याशङ्क्याह— शरीरेति। तर्हि तद्वदेव तेषामग्निहोत्राद्यपि कर्तव्यमापद्येतेत्याशङ्क्य , व्युत्थायिनामाश्रमधर्मवदग्निहोत्रादेरनुष्ठापकाभावान्मैवमित्याह— न तेषामिति। यथोक्तं श्रुत्यर्थमस्मिन् गीताशास्त्रे पौर्वापर्येण पर्यालोच्यमाने प्रतिपादयितुमिष्टं प्रकटीकुर्वन् ‘कर्तव्यमेव कर्म जीवतेति नियमे
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एवं स्थिते, किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयम् , आहोस्वित् पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्याम् १अनात्मविदा ज्ञानयोगेनैव निष्ठाम् आत्मविद्भिः साङ्ख्यैरनुष्ठेयामप्राप्तेनैव२? इत्येवमर्थमर्जुनस्य प्रश्नमाशङ्क्य, स्वयमेव वा शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थम् ‘एतं वै तमात्मानं विदित्वा निवृत्तमिथ्याज्ञानाः सन्तो ब्राह्मणा मिथ्याज्ञानवद्भि- रवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरीरस्थितिमात्रप्रयुक्तं चरन्ति, न तेषामात्मज्ञाननिष्ठाव्यति- १. ‘आत्मविदः’ इति रा. पा.। यथास्थिते ‘सर्वेणानुवर्तनीयम् , आहोस्वित् पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्याम् आत्मविद्भिः साङ्ख्यैरनुष्ठेयां ज्ञानयोगेनैव निष्ठा- मप्राप्तेनानात्मविदैव अनुवर्तनीयम्’ इति अन्वयः। २. ‘अप्राप्तैरेव’ इति रा.पा.।
[[१७५]]
यस्त्विति। यो मानवस्तु आत्मरतिरात्मतृप्त आत्मन्येव सन्तुष्टश्च स्यात् तस्य कार्यं नैव विद्यते। साङ्ख्य इति। तुशब्दस्य पूर्वोक्तवैलक्षण्यद्योतकत्वात् पूर्वं कर्मिण उक्तत्वादिह साङ्ख्यलाभ इति भावः। साङ्ख्यशब्दार्थमाह— आत्मज्ञाननिष्ठ इति। आत्मरतिरेवेत्येवकारादाह— विषयेष्विति। आत्मन्येवास्य रतिरित्यर्थः। आत्मतृप्तश्चेत्यत्र चकार एवार्थक इत्याह— आत्मनैव तृप्त इति। एवकारार्थमाह— नान्नरसादिनेति। मनःप्राणादितादात्म्याध्यासाभावादिति भावः। मानव इति। मनुष्याणामेवात्राधिकारादिति भावः। यद्यपि ‘तदुपर्यपि बादरायणः सम्भवा’दिति ज्ञानमार्गे देवानामप्यधिकारस्तथापि न संन्यासे इति बोध्यम्। सर्वत इति। सर्वेषु विषयेष्वित्यर्थः। क एवंविधः? अत आह— आत्मविदिति। सच्चिदानन्दब्रह्मात्मज्ञानशून्यस्य कथमात्मरत्यादयः स्युरिति भावः। यत्तु मुक्तपरोऽयं श्लोको वक्ष्यमाणश्चेति रामानुजः, न संन्यासाश्रमिपरः, तस्यापि स्वाश्रमधर्मनिवृत्त्यभावात्। वर्णाश्रमविशि- ष्टस्यैव हि वर्णाश्रमधर्मारम्भः, न पुनर्वर्णाश्रमाधीननामरूपविनिर्मुक्तस्येति मुक्तशब्दस्य भाव इति वेदान्तदेशिकश्च। तदुभयं मन्दम्। मुक्तस्येह प्रसक्त्यभावात् , मुमुक्षुं प्रत्येव गीताशास्त्रस्य प्रवृत्तत्वात्। वेदान्तशास्त्रे मुमुक्षोरेवाधिकारित्वात् ‘आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यत’ इत्यात्मतुष्टेः स्थितप्रज्ञलक्षणत्वात् स्थितप्रज्ञो ज्ञानयोग्येव, न मुक्त इति सम्प्रतिपन्नत्वात् , ‘दुःखेष्वनुद्विग्नमनाः’ इत्यादिश्लोकोक्तधर्माणां मुक्ते प्रसक्त्यभावात्। न हि मुक्तौ दुःखानि सन्ति, येन तत्रानुद्वेग उपदिश्येत मुक्तस्य। किञ्च मानव इति पदमपि अस्य श्लोकस्य साधकपरत्वे लिङ्गम्। सिद्धस्य [मुक्तस्य] हि न मानवत्वादिकमस्ति। मानवत्वादेर्देहधर्मत्वान्मुक्तस्यात्मत्वाच्च। न हि मुक्तेषु मानवासुरदैवतादिविभागोऽस्ति। अपि चात्मरतिरेवेत्येवकारोऽपि व्यर्थस्त्वन्मते। न हि मुक्तौ विषयाः सन्ति येन विषयरति- व्युदासाय प्रयुज्येतैवकारः। अथ यदि मुक्तिर्विष्णुपदं वैकुण्ठलोकस्तत्र अप्राकृता विषयाः सन्तीत्युच्येत, तर्हि मुक्तस्य विषयरतिरेव स्यान्न त्वात्मरतिः, अप्राकृतविषयैस्तैरिन्द्रियाणामाकृष्टत्वान्मुक्तस्य। असति तु मुक्तानां विषयभोगे अभोग्यानामप्राकृतानां तद्विषयाणां सृष्टिः पारमेश्वरी व्यर्थैव स्यात्। एवं निरर्थविषयस्रष्टा विष्णुरप्रमाण एव स्यात् निरर्थप्रलापोन्मत्तवत्। अपि च नैवेति वक्ष्यमाणश्लोके इहेति पदमस्ति। तद्धि एतल्लोकवाचि। कथं मुक्तस्येहलोकसम्बन्धित्वम्? न कथमपि। तस्मान्नेमौ श्लोकौ मुक्तपरौ किन्तु २साङ्ख्यपरावेव। रेकेणान्यत् कार्यमस्ति’ इत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपिपादयिषितमाविष्कुर्वन्नाह भगवान्— यस्त्विति। यस्तु साङ्ख्य आत्मज्ञाननिष्ठ आत्मरतिः आत्मन्येव रतिः, न विषयेषु यस्य स आत्मरतिरेव स्याद् भवेद् आत्मतृप्तश्चात्मनैव तृप्तः, नान्नरसादिना स मानवो मनुष्यः संन्यासी आत्मन्येव च सन्तुष्टः, सन्तोषो हि बाह्यार्थलाभेन सर्वस्य भवति, तमनपेक्ष्यात्मन्येव च सन्तुष्टः, सर्वतो वीततृष्ण इत्येतत्। य ईदृश आत्मवित् तस्य कार्यं करणीयं न विद्यते नास्तीत्यर्थः॥१७॥
‘ज्ञानयोगेन साङ्ख्यानाम्’ इति कथमुक्तम्?’ इति परिचोद्य परिहारमुपदर्शयतीत्याह— इत्येवमिति। आत्मनिष्ठस्य विषयसङ्गराहित्यं दृष्टम् , तद् अनात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाऽऽह— यस्तु साङ्ख्य इति। किञ्चात्मज्ञस्य ज्ञानेनात्मनैव परितृप्तत्वाद् नान्नपानादिना साध्या तृप्तिरिष्टा। तेन विद्यार्थिना संन्यासिनाऽपि नान्नरसादावासक्तिर्युक्ता कर्तुमित्याह— आत्मतृप्त इति। किञ्चात्मविदः सर्वतो वैतृष्ण्यं दृष्टम् , तद् अनात्मविदा विद्यार्थिना कर्तव्यमित्याह— आत्मन्येवेति। रतितृप्तिसन्तोषाणां १मोदप्रमोदानन्दवद् अवान्तरभेदः। अथवा रतिः विषयासक्तिः, तृप्तिः विषयविशेषसम्पर्कजं सुखम् , सन्तोषः अभीष्टविषयमात्रलाभाधीनं सुखसामान्यमिति भेदः। नन्वात्मरते- रात्मतृप्तस्यात्मन्येव सन्तुष्टस्यापि किञ्चित् कर्तव्यं मुक्तये भविष्यतीति, नेत्याह— य ईदृश इति॥१७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते॥१७॥
अ. ३ श्लो. १७ ] १. प्रियलाभनिमित्तो हर्षः मोदः, स एव प्रकृष्टः प्रमोदः, आनन्दः सुखसामान्यमिति। द्र. तै. उ. २-५। २. तत्त्वज्ञानिपरावित्यर्थः।
[[१७६]]
यदुक्तं संन्यासिनोऽप्यस्ति वर्णाश्रमधर्म इति, तदयुक्तम्। कुटीचकादीनां दण्डतर्पणादिधर्मसत्त्वेऽपि परमहंसस्य नास्ति यः कोऽप्यल्पोऽपि धर्मः, ‘ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञा’मिति भागवतात्। ‘दिगम्बरा निर्दण्डकपालाः’ ‘करतलभिक्षस्तरुतलवासः’ इत्यादिवचनोक्तकरतलभिक्षादिशालिनो हि ते। उक्तं हि—‘निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः’ इति। न चास्ति तेषामपि निवृत्तिधर्म इति वाच्यम् ; आत्मरत्यादीनामेव निवृत्तिधर्मत्वात्१ , त्वदुक्तरीत्या मुक्तेष्वपि तत्सम्भवाच्च॥१७॥
नैवेति। तस्य इह कृतेन कश्चनार्थो नैव, अकृतेन कश्चनार्थो नैव। अस्य सर्वभूतेषु अर्थव्यपाश्रयः कश्चिन्न च। ननु कर्मणा साङ्ख्यस्य माऽस्तु प्रयोजनम् ; कर्माकरणेन तु प्रत्यवायरूपोऽनर्थः स्यादित्यत आह— तर्हीति। अर्थव्यपाश्रय इति। अर्थाय व्यपाश्रयो ऽर्थव्यपाश्रय इति २‘चतुर्थी’ इति योगविभागात् समासः। अर्थशब्दार्थमाह— प्रयोजनेति। चतुर्थ्यर्थमाह— निमित्त इति। व्यपाश्रयशब्दार्थमाह— व्यपाश्रयणमिति। स कीदृशः? अत आह— क्रियासाध्य इति। कीर्तनवन्दनादिक्रियानिर्वर्त्य इत्यर्थः। क्रियापूर्वक इति यावत्। सर्वभूतविषयकं प्रयोजननिमित्तं क्रियासाध्यमाश्रयणं किञ्चिदप्यस्य नास्तीत्यर्थः। इदमेव विशदयति— कञ्चिदिति। कञ्चिद्भूतविशेषं ब्रह्मरुद्रादिरूपं राजधनिकादिरूपं वा सागराश्वत्थादिरूपं वा आश्रित्य कीर्तनवन्दनादिना संश्रित्य साध्यः। तस्माल्लभ्यः कश्चिदर्थः सत्यलोककैलासादिरूपः भूमिधनादिरूपो वा पुण्यपुत्रादिरूपो वा, अर्थः फलमिति यावत् , नास्यास्ति। येनेति। अर्थसत्त्वेनेत्यर्थः। तदर्थेति। ब्रह्मलोकादिफलार्थेत्यर्थः। क्रियेति। सगुणब्रह्मोपासनयज्ञानुष्ठानादिरूपेत्यर्थः॥१८॥
इतश्चात्मविदो न किञ्चित् कर्तव्यमित्याह— किञ्चेति। अभ्युदयनिःश्रेयसयोरन्यतरत् प्रयोजनं कृतेन सुकृतेनात्मविदो भविष्यतीत्याशङ्क्याह— नैवेति। प्रत्यवायनिवृत्तये स्वरूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशङ्क्याह— नेत्यादिना। ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूतविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मेत्याशङ्क्याह— न चेति। तत्राद्यं पादमादत्ते— नैवेति। तं व्याचष्टे— तस्येति। आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वात् , निःश्रेयसस्य च प्राप्तत्वान्न कृतं कर्मार्थवदित्यर्थः। आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्रत्याख्यानार्थं तस्य कर्तव्यं कर्मेति शङ्कते— तर्हीति। द्वितीयपादेनोत्तरमाह— नेत्यादिना। अतो न तन्निवृत्त्यर्थं कृतमर्थवदिति शेषः। द्वितीयं भागं विभजते— न चास्येति। व्यपाश्रयणमालम्बनं नेति सम्बन्धः। पदार्थमुक्त्वा वाक् यार्थमाह— कञ्चिदिति। भूतविशेषस्याश्रितस्यापि क्रियाद्वारा प्रयोजनप्रसव- हेतुत्वमिति मत्वाऽऽह— येनेति। तर्हि मयाऽपि यथोक्तं तत्त्वज्ञानमाश्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशङ्क्याह— न त्वमिति॥१८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥१८॥
किञ्च— नैवेति। नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति। अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्योऽनर्थः? नाकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूप आत्महानिलक्षणो वा नैवास्ति। न चास्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिद् अर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यो व्यपाश्रयो व्यपाश्रयणम् आलम्बनम्। कञ्चिद् भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थोऽस्ति, येन तदर्था क्रियाऽनुष्ठेया स्यात्। न त्वम् एतस्मिन् सर्वतःसम्प्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे॥१८॥
१. आत्मरत्यादि स्वतःसिद्धमेव तत्त्वज्ञानिनः, न यत्नसाध्यम्। तेन तस्य कर्तव्याभावः सिद्धः। “परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न संभवत्यन- नुष्ठाननिमित्तः। शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलको न विरोधी। ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म।” (ब्र.सू. ३.४.२०) इति भाष्यमिहानुसंधेयम्। २. ‘चतुर्थी तदर्थार्थ—’ (पा.सू. २-१-३६) इति समासविधायकसूत्रे इति शेषः।
[[१७७]]
यत एवं तस्मादिति। यस्मात् त्वमेवं सर्वतःसम्प्लुतोदकस्थानीये सम्यग्दर्शने न वर्तसे, तस्मादित्यर्थः। ज्ञानयोगाधिकारा- भावादिति यावत्। न हि त्वमात्मरतिरात्मतृप्त आत्मतुष्टश्च भवसि, येन तव कार्याभावः स्यादिति भावः। कार्यशब्दस्वारस्यादाह— नित्यमिति। एतेन कर्मिणाऽपि काम्यादिकर्माणि त्याज्यान्येवेति सूचितम्। न हि तानि कर्तुं योग्यानि बन्धकरत्वात्। नित्यानि तु चित्तशुद्धिहेतुत्वात् कर्तुं योग्यानि। परं मोक्षमिति। मोक्षस्यैव सर्वोत्कृष्टब्रह्मरूपत्वादिति भावः। ननु ज्ञानादेव मोक्षस्य सिद्धान्तितत्वेन कथं कर्मणा मोक्षप्राप्तिः? अत आह— सत्त्वशुद्धिद्वारेणेति। यत्तु रामानुजः— परं जीवमाप्नोतीति, तदसत्। तन्मते जीवस्याब्रह्मत्वाज्जीवस्य जीवप्राप्तेरफलत्वाच्च॥१९॥
कर्मणेति। ‘असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः’ इत्युक्तम्। तत्र किं प्रमाणमिति शङ्कायां जनकादय एवेह प्रमाणमित्याह भगवान्— कर्मणैवेति। जनकादयः कर्मणैव संसिद्धिमास्थिता हि। कर्मणैव जनकादयो मोक्षं प्राप्ता इत्यर्थः। सत्त्वशुद्धिद्वारेणेति भावः। एवकारान्न त्वकरणेनेत्यर्थः। इत्येकोऽर्थः। जनकादयः कर्मणा सहैव संसिद्धिं गन्तुमास्थिता हि। ‘कर्मणा सहैवे’त्यस्यार्थमाह— असंन्यस्यैवेति। ननु कर्मयोगाज्ज्ञानयोगः, ततो मुक्तिरिति क्रमे सति कथं कर्मणा सहैव जनकादीनां मुक्तिप्राप्तिप्रवृत्तिः? इत्यत सम्यग्ज्ञाननिष्ठत्वाभावे कर्मानुष्ठानमावश्यकमित्याह— यत इति। तस्मात् ज्ञाननिष्ठाराहित्यादिति यावत्। मोक्षमेवापेक्षमाणस्य कथं कर्मणि फलान्तरवति नियोगः स्यादित्याशङ्क्याह— असक्तो हीति॥१९॥
यद्यपि जितेन्द्रियोऽपि विवेकी श्रवणादिभिरजस्रं ब्रह्मणि निष्ठातुं शक्नोति, तथापि क्षत्रियेण त्वया विहितं कर्म न त्याज्यमित्याह— यस्माच्चेति। तस्मात् त्वमपि कर्म कर्तुमर्हसीति सम्बन्धः। इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह— लोकेति। पूर्वार्धं विभजते— कर्मणैवेति। कथं जनकादीनां कर्मणा संसिद्धिप्राप्तिरुच्यते, कर्मत्यजां हि सम्यग्दर्शनवतां प्रसिद्धा संसिद्धिरिति? तत्र किं जनकादयोऽपि प्राप्तसम्यग्दर्शनाः स्युः, उताप्राप्तसम्यग्दर्शना भवेयुरिति विकल्प्य प्रथमं प्रत्याह— यदीति। लोकसंग्रहार्थं कर्मणा सहैव संसिद्धिमास्थिता इति सम्बन्धः। कर्मणा सहैवेत्येतद् व्याकरोति— असंन्यस्यैव कर्मेति। तत्र हेतुमाह— प्रारब्धेति। जनकादीनां सत्यपि ज्ञानित्वे प्रारब्धकर्मवशात् कर्मापरित्यज्यैव लोकसंग्रहार्थं प्रवर्तमानानां ज्ञानमाहात्म्यादुपपन्ना संसिद्धिरित्यर्थः। द्वितीयमनूद्य पूर्वार्धेनैवोत्तरमाह— अथेत्यादिना।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यत एवम्— तस्मादिति। तस्माद् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय। असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षमाप्नोति पूरुषः सत्त्वशुद्धिद्वारेणेत्यर्थः॥१९॥
यस्माच्च— कर्मणैवेति। कर्मणैव हि यस्मात् पूर्वे क्षत्रिया विद्वांसः संसिद्धिं मोक्षं गन्तुमास्थिताः प्रवृत्ताः। के? जनकादयो जनकाश्वपतिप्रभृतयः। यदि ते प्राप्तसम्यग्दर्शनाः, ततो लोकसंग्रहार्थं १प्रारब्धकर्मत्वात् कर्मणा सहैव असंन्यस्यैव कर्म संसिद्धिमास्थिता इत्यर्थः। अथाप्राप्तसम्यग्दर्शना जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिमास्थिता इति व्याख्येयः श्लोकः। तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥१९॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥२०॥
१. ‘प्रारब्धकर्मबलात्’ इति रा. पा.।
[[अ. ३ श्लो. १८-२०]] [[१७८]]
आह— प्राप्तसम्यग्दर्शना इति। जन्मान्तरानुष्ठितज्ञानयोगमाहात्म्येनेति भावः। अत्रेदं तत्त्वम्— वेदान्तश्रवणादिना पारोक्ष्येण ब्रह्मात्मानं विदित्वा विद्वांसो ज्ञानयोगे प्रवर्तन्ते, सिद्धे तु तस्मिन्नपरोक्षीकृत- ब्रह्मात्मानो मुच्यन्ते। अकालमरणादिना ज्ञानासिद्धौ तु अपक्वज्ञानयोगास्ते न मुच्यन्ते, किन्तु जन्मान्तरं प्रतिपद्यन्ते। तत्र तु विनैव ज्ञानयोगं केचिद् विनैव कर्मयोगं च वेदान्तश्रवणमात्रेणैव ब्रह्मात्मानं साक्षात्कुर्वन्ति। तस्मादेतेषां कर्मसंन्यासं विनैव मुक्तिरिति। नन्वेवं ज्ञानिनां कुतः कर्मणि प्रवृत्तिः, अत आह— लोकसंग्रहार्थमिति। लोकेन स्वाचारं संग्राहयितुमित्यर्थः। ननु किमिति शुकादयो लोकसंग्रहार्थं कर्म नाकुर्वन्नत आह— प्रारब्धकर्मबलादिति। ज्ञानिभिरपि यावत्प्रारब्धावसानं तदनुवर्तनस्यावर्जनीयत्वादिति भावः। एतेन ज्ञानिषु केषाञ्चित् कर्मयोगे, केषाञ्चित् तपोयोगे, केषाञ्चिद् ग्रन्थकरणे, केषाञ्चिद् व्यवहारे, केषाञ्चिद् वाणिज्यादौ च प्रारब्धवशात् प्रवृत्तेर्दर्शनेऽपि न कोऽपि बन्ध इति सूचितम्। कर्मणा सहैव मुक्तिं गता इत्युक्तौ कर्मणोऽपि मुक्तिप्रवेशः स्यात्। तच्चानिष्टम् , निष्क्रियब्रह्मरूपत्वान्मुक्तेरित्यभिप्रेत्याह— गन्तुं प्रवृत्ता इति। इति द्वितीयोऽर्थः। कर्मणा सहैवेत्यस्य असंन्यस्यैवेत्यर्थात् जनकादयोऽसंन्यस्यैव मुक्तिं गताः। संन्यासं विना कर्मयोगे स्थित्वैव ते जन्मान्तरप्रारब्धसुकृतवशादपरोक्षीकृतब्रह्मात्मनो मुक्तिं गता इति तृतीयोऽर्थः। संसिद्धिमास्थिताश्चित्तशुद्धिं प्राप्ताः इति चतुर्थोऽर्थः। दर्शितश्चायं ग्रन्थारम्भे भाष्यकृद्भिरेवेति। परहृदयस्याप्रत्यक्षत्वाज्जनकादयः प्राप्तसम्यग्दर्शना एवेति निश्चेतुमशक्यत्वात् पक्षान्तरमाह— अथेत्यादिना। जनकादयः कर्मणैव क्रमेण संसिद्धिमास्थिता इति श्लोको व्याख्येय इत्यन्वयः। अयमेवार्थः आदौ मया लिखितः। ननु जनकादयः प्राप्तसम्यग्दर्शनाः इत्यत्र नास्ति बलवत् प्रमाणम् ; जनकयाज्ञवल्क्ययोरुक्तिप्रत्युक्त्यादिकं तु परोक्षज्ञान- साधनतयोपक्षीणम्। अप्राप्तसम्यग्ज्ञानाः इत्यत्र तु बलवल्लिङ्गमस्ति कर्मानुष्ठानरूपम् , अविद्वद्विषयत्वात् कर्मानुष्ठानस्य। अहं तु इतः प्रागप्राप्तज्ञानोऽपीदानीं त्वदुपदेशमाहात्म्यात् प्राप्तसम्यग्दर्शन एव भवामि। ततो नाहं युद्धाख्यमन्यद्वा कर्म कुर्यामिति मतमर्जुनस्या- शङ्क्याह भगवान् लोकसङ्ग्रहमित्युत्तरार्धम् इत्याह भाष्यकारः— अथ मन्यस इति। पूर्वैरप्यजानद्भिरप्राप्तसम्यग्दर्शनैरेव जनकादिभिः कर्तव्यं कर्म कृतम्। सम्यग्दर्शनवता, अत एव कृतार्थेनान्येन मादृशेन तु तदवश्यं न कर्तव्यमित्यथ मन्यसे, मन्यसे यदीत्यर्थः। पूर्वैरपीत्यपिशब्दस्तु पूर्वेषां ज्ञानादिसामग्र्यतिशयं द्योतयति। कृतार्थपदं तु कृतकृत्यत्वबोधकम्। तच्च अकृतकृत्यः कृत्यं करोतु नाम, कृतकृत्यः कथं कृत्यं कुर्यात् , तदानीमेव कृतभोजनो भोजनमिवेति सूचयति— प्रारब्धेति। प्रारब्धकर्मणोऽनतिक्रमणीयत्वादिति भावः। एतेन तवास्ति युद्धहेतुप्रारब्धकर्मेति भगवता सूचितमर्जुनाय सर्वज्ञेन। उन्मार्गः अधर्ममार्गः। सम्पश्यन् सम्यग्जानन्॥२०॥
यद्यदिति। श्रेष्ठो यद्यदाचरति इतरो जनस्तत्तदेवाचरति। प्रधान इति। विद्यादिभिरुत्कृष्टः। यत् प्रमाणमिति व्यस्ते पदे। यत् यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः। द्वितीयार्धव्यावर्त्यामाशङ्कामुत्थापयति— अथेति। अज्ञेनाकृतार्थेन ३कृतं कर्मेत्येतावता ज्ञानवता कृतकृत्येन न तत् कर्तव्यमि- त्युक्तमङ्गीकरोति— तथापीति। तर्हि मयाऽपि ज्ञानवता कृतार्थेन कर्म न कर्तव्यमित्याशङ्क्य , अर्जुनस्य कर्तव्यमेव कर्मेत्युत्तरार्ध- व्याख्यानेन कथयति— प्रारब्धेति॥२०॥
ज्ञानवता कृतार्थेन लोकसंग्रहार्थमपि न प्रवर्तितव्यमित्याशङ्कामुत्थाप्य परिहरति— लोकेत्यादिना। श्रुताध्ययनसम्पन्नत्वेनाभि-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अथ मन्यसे— पूर्वैरपि जनकादिभिरपि अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति; तथापि प्रारब्धकर्मायत्तस्त्वं लोकसंग्रहमेवापि लोकस्योन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहः; तमेवापि प्रयोजनं सम्पश्यन् कर्तुमर्हसि॥२०॥
१लोकसंग्रहं कः कर्तुमर्हति, कथं चेत्युच्यते— यद्यदिति। यद्यत् कर्माचरति करोति २श्रेष्ठः प्रधानः, तत्तदेव १. ‘लोकसङ्ग्रहः किमर्थं कर्तव्य इत्युच्यते’ इति पा.। २. ‘येषु येषु श्रेष्ठः प्रधानः’ इति पा.। ३. ‘कर्तव्यं कर्म’ इति पा.।
[[१७९]]
शास्त्रादिकं स श्रेष्ठः प्रमाणं कुरुते प्रमाणत्वेन स्वीकरोति, इतरो लोकः तदेव शास्त्रादिकं प्रमाणमनुवर्तते अनुसृत्य प्रवर्तते। फलितार्थ- माह— तदेव प्रमाणीकरोतीति॥२१॥
नेति। हे पार्थ, मे त्रिषु लोकेषु किञ्चन कर्तव्यं नास्ति; अनवाप्तमवाप्तव्यं च किञ्चन मे नास्ति। कर्मण्येव वर्ते च। मां किमिति। मद्दृष्टान्तेन लोकसङ्ग्रहकर्तव्यतायां विषये तव वर्तमाना विप्रतिपत्तिः स्वयमेव निराकरणीयेत्यर्थः। अप्राप्तस्य प्राप्त्यर्थं लोकाः कर्म कुर्व- न्तीति प्रसिद्धम् , स्वर्गाद्यर्थं ज्योतिष्टोमादौ लोकानां प्रवृत्तिदर्शनात्। अवाप्तसमस्तकामः परिपूर्णो भगवान् वासुदेवस्तु कमर्थमुद्दिश्य कर्मणि प्रवर्तेत? न कमपि। तथापि कर्मणि वर्तत एव वासुदेवो लोकसङ्ग्रहार्थमित्यर्थः॥२२॥
यदीति। ननु तव किं लोकसङ्ग्रहेण फलम्? अतो मा कुरुष्व त्वमपि कर्मेत्यत आह भगवान्— यदीति। यदि ह्यहमतन्द्रितः सन् जातु कर्मणि न वर्तेय इत्यन्वयः। अतन्द्रितः इत्यनेन कर्मत्यागे हेतुरलसत्वं सूचितम्। यद्यप्यात्मनिष्ठः पुरुष आत्मानन्दानुभव- पारवश्यादेव कर्म जहाति, न त्वालस्यात् , तथापि आलस्यप्रयुक्तः कर्मत्यागोऽनुचित इति बोधनायातन्द्रित इत्युक्तम्। ममेति। ज्ञान- बलादिभिरुत्कृष्टस्येत्यर्थः॥२३॥
मतो यद्यद् विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति, तत्तदेव प्राकृतो जनोऽनुवर्तते। तेन विद्यावताऽपि लोकमर्यादास्थापनार्थं विहितं कर्तव्य- मित्यर्थः। श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा प्रतिपत्तावपि दर्शयति— किञ्चेति॥२१॥
कृतार्थस्यापि लोकसंग्रहार्थं विहितं कर्म कर्तव्यमित्युक्त्वा तत्रैव भगवन्तमुदाहरणत्वेनोपन्यस्यति— यदीत्यादिना। अप्राप्तस्य प्राप्तये तवापि २कर्तव्यसम्भवाद् ‘न किञ्चिदपि विद्यते कर्तव्य’मिति कथमुक्तमित्याशङ्क्याह—नानवाप्तमिति। प्रतीकमुपादाय व्याख्यानद्वारा विद्यावतोऽपि कर्मप्रवृत्तिं सम्भावयति— नेत्यादिना। अन्वयार्थं पुनर्नञोऽनुवादः। भगवतो नास्ति कर्तव्यमित्येतदाकाङ्क्षाद्वारा स्फोरयति —कस्मादित्यादिना। प्रयोजनाभावे त्वयाऽपि नानुष्ठेयं कर्मेत्याशङ्क्य , लोकसंग्रहार्थं ममापि कर्मानुष्ठानमिति मत्वाऽऽह— तथापीति ॥२२॥
लोकसंग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह— यदि हीति॥२३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कर्माचरति इतरः अन्यो जनस्तदनुगतः। किञ्च स श्रेष्ठो यत् प्रमाणं कुरुते लौकिकं वैदिकं वा, लोकः तद् अनुवर्तते तदेव प्रमाणीकरोतीत्यर्थः॥२१॥
यद्यत्र ते लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिः, तर्हि मां किं न पश्यसि?— न म इति। न मे मम पार्थ ! नास्ति न विद्यते कर्तव्यं त्रिष्वपि लोकेषु किञ्चन किञ्चिदपि। कस्मात्? न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम्। तथापि वर्त एव च कर्मण्यहम्॥२२॥
यदि हि पुनरहं न वर्तेय जातु कदाचित् कर्मणि अतन्द्रितोऽनलसः सन् , मम श्रेष्ठस्य सतो वर्त्म मार्गम् स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते॥२१॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥२२॥
यदि ह्यहं न वर्तेय१ जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ ! सर्वशः॥२३॥
१. ‘वर्तेयं’ इति मूले भाष्ये च पा.। २. ‘कर्तृत्वसंभवात्’ इति पा.।
[[अ. ३ श्लो. २०-२३]] [[१८०]]
उत्सीदेयुरिति। अहं कर्म न कुर्यां चेद् इमे लोका उत्सीदेयुः विनश्येयुरिति, नरकप्राप्त्यादिलक्षणं नाशं प्राप्नुयुरित्यर्थः। सङ्कर- स्येति। याजनयुद्धगोरक्षणसेवादिवर्णधर्माः गुरुकुलवासवैश्वदेववनवासभिक्षाटनाद्याश्रमधर्माश्च पृथगसङ्कीर्णा वर्णाश्रमविभागबोधकाः यदि लुप्येरन् , तर्हि वर्णाश्रमसङ्करः स्यादित्यर्थः। तेनेति। साङ्कर्यकरणेनेत्यर्थः। उपहन्यां नाशयेयम् , नरकदुःखप्राप्या[प्त्या]दिनाशं जनयेयमित्यर्थः। ‘सङ्करो नरकायैव’ इत्यर्जुनेनैवोक्तत्वादिति भावः। तस्माद् यथाहं परमात्मा सर्वज्ञ आत्मविदपि क्षत्रियजातिगृहस्था- श्रमोचितानि कर्माणि लोकसङ्ग्रहार्थं करोमि, तद्वत् त्वमपि कुर्ववश्यमित्यर्थः॥२४॥
सक्ता इति। कृतार्थबुद्धिः कृतार्थोऽहमिति बुद्धिशाली। कृतः साक्षात्कृतोऽर्थः परमार्थ आत्मा यया सा कृतार्था बुद्धिर्यस्य स कृतार्थबुद्धिरिति वा। कृतार्था कृतकृत्या बुद्धिर्यस्येति वा। आत्मनि कृतकृत्यत्वाकृतकृत्यत्वादिविशेषासम्भवाद् बुद्धिरेव सच्चिदानन्दात्म- तादात्म्यमापद्य कृतकृत्यतामात्मनि सम्भावयतीत्यर्थः। अन्यो वेति। त्वत्त इतरो वा अहमिव कृतार्थबुद्धिरात्मविदित्यर्थः। तस्यान्यस्य आत्मनस्तवापि कर्तव्याभावेऽपीतरानुग्रहः कर्तव्य एव। यथा मया इतरानुग्रहः क्रियते तथा मादृशेन त्वयाऽन्येन वाऽऽत्मविदा कर्तव्य एवेतरानुग्रहः ३कर्मकरणद्वारेत्यर्थः। तस्यापि तादृशस्यापि आत्मनः स्वस्य कर्तव्याभावेऽपीत्यन्वयः। तस्यापीत्यतः प्राक् तर्हीति श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेवेत्याशङ्क्य दूषयति— तथा चेत्यादिना। ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तेरिति हेतुमाह— लोकस्थितीति। इतश्चेश्वरेण कर्म कर्तव्यमित्याह— किञ्चेति। यदि कर्म न कुर्यामिति शेषः। सङ्करकरणस्य कार्यं कथयति— तेनेति। प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति? तत्राह— प्रजानामिति॥२४॥
त्वामनाचरन्तमनुवर्ततां सर्वेषां को दोषः स्यादित्यपेक्षायाम् , ईश्वरस्य कृतार्थतया कर्मानुष्ठानाभावे तदनुवर्तिनामपि तदभावादेव स्थितिहेत्वभावात् पृथिव्यादिभूतानां विनाशप्रसङ्गाद्, वर्णाश्रमधर्मव्यवस्थानुपपत्तेश्चाधिकृतानां प्राणभृतां पापोपहतत्वप्रसङ्गात् परानुग्रहार्थं प्रवृत्तिरीश्वरस्येत्युक्तम्। संप्रति लोकसंग्रहाय कर्म कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवे प्राप्ते प्रत्याह— यदि पुनरिति। कृतार्थबुद्धित्वे हेतुमाह— आत्मविदिति। यथावदात्मानमवगच्छन् कर्तृत्वाद्यभिमानाभावात् कृतार्थो भवत्येवेत्यर्थः। अर्जुनादन्यत्रापि ज्ञानवति कृतार्थबुद्धित्वं कर्तव्यत्वाद्यभिमानहीने तुल्यमित्याह— अन्यो वेति। तस्य तर्हि कर्मानुष्ठानमफलत्वादनवकाशमित्याशङ्क्याह— तस्यापीति। कर्तव्य इति। आत्मविदाऽपि परानुग्रहाय कर्तव्यमेव कर्मेत्याहेति शेषः। दृष्टान्तदार्ष्टान्तिकरूपं श्लोकं व्याकरोति—सक्ता
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अनुवर्तन्ते मनुष्याः, हे पार्थ ! सर्वशः सर्वप्रकारैः॥२३॥
तथा च को दोष इत्याह— उदिति। उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः, लोकस्थितिनिमित्तस्य कर्मणोऽभावात् , न कुर्यां कर्म चेदहम्। किञ्च सङ्करस्य च कर्ता स्याम्। तेन कारणेन उपहन्याम् इमाः प्रजाः। प्रजानामनुग्रहाय प्रवृत्तः उपहतिम् उपहननं कुर्यामिति ममेश्वरस्याननुरूपमापद्येत॥२४॥
यदि पुनरहमिव १त्वं कृतार्थबुद्धिरात्मविद् अन्यो वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव कर्तव्य इत्याह— सक्ता इति। सक्ताः कर्मणि ‘अस्य कर्मणः फलं मम भविष्यति’ इति २केचिदविद्वांसो यथा कुर्वन्ति, भारत ! उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥२४॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत !। कुर्याद् विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्॥२५॥
१. ‘त्वमपि कृतार्थबुद्धिः’ इति रा.पा.। २. ‘के? अविद्वांसः’ इति रा.पा.। ३. कर्मानुष्ठानद्वारेत्यर्थः।
[[१८१]]
पूरणीयम्। हे भारत! अविद्वांसः कर्मणि सक्ताःसन्तः यथा कर्म कुर्वन्ति, तथा विद्वानसक्तःसन् लोकसंग्रहं चिकीर्षुः कर्म कुर्यात्। कथं कर्मणि सङ्गः? अत आह— अस्येति। फलद्वारा कर्मसङ्ग इत्यर्थः॥२५॥
नेति। विद्वान् कर्मसङ्गिनामज्ञानां बुद्धिभेदं न जनयेत् ; विद्वान् युक्तःसमाचरन् सन् सर्वकर्माणि जोषयेत्। एवमिति। एवं लोकसङ्ग्रहचिकीर्षोर्मम आत्मविदोऽन्यस्य वा लोकसङ्ग्रहं मुक्त्वा कर्तव्यं नास्ति। तस्माल्लोकसङ्ग्रहेतरप्रयोजनाभावात् ते तुभ्यमिदम् उपदिश्यते मयेति शेषः। अज्ञस्य बुद्धिं दर्शयति — कर्तव्यमित्यादिना। जोषयेदिति। जुषी प्रीतिसेवनयोरिति धातोः सेवनार्थकाज्जुषतेः हेतुमति णिच्। युक्तः चित्तसमाधानरूपयोगशाली। आदावेव पुंसां ज्ञानयोगेऽधिकाराभावात् कर्मसु प्रवृत्तिरुपपद्यते। विदुषा कर्मसु निन्दितेषु तु अज्ञाः कर्मभ्यो निवर्तन्ते स्वयम्। न तु ज्ञानयोगे प्रवर्तितुं क्षमन्ते। अत उभयभ्रष्टा भवन्ति। तस्मात् कर्मनिन्दादिना नाज्ञानां बुद्धिं भ्रंशयेद् विद्वानित्यर्थः॥२६॥
प्रकृतेरिति। सर्वशः प्रकृतेर्गुणैः क्रियमाणानि कर्माणि अहङ्कारविमूढात्मा अहं कर्तेति मन्यते। साक्षात् सत्त्वादिगुणानां कर्तृत्वाभावादाह— कार्यकरणाकारपरिणता इति। कार्यं देहः करणानि समनस्कानीन्द्रियाणि। विकारैरिति। कार्यैरित्यर्थः। गुण- साम्यावस्थारूपप्रकृतिजन्यत्वात् प्रकृतिविकारत्वं गुणानामित्यर्थः। न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्॥२६॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥२७॥
इत्यादिना। असक्तःसन् कर्तृत्वाभिमानं फलाभिसन्धिं वाऽकुर्वन्निति यावत् ॥२५॥
वृत्तमनूद्योत्तरश्लोकमवतारयति— एवमिति। कर्तव्यं कर्मेति शेषः। पूर्वार्धमेवं व्याख्यायोत्तरार्धं प्रश्नपूर्वकमवतार्य व्याचष्टे— किन्तु कुर्यादिति। सर्वकर्माणि कारयेत् तेषु प्रीतिं कुर्वन्निति शेषः। कथं कारयेदित्याकाङ्क्षायामाह— तदेवेति॥२६॥
अज्ञानां कर्मसङ्गिनामित्युक्तम्। तेनोत्तरश्लोकस्य सङ्गतिमाह—अविद्वानिति। कर्तृत्वमात्मनो वास्तवमित्यभ्युपगमाद् विद्वान् कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्क्याह— प्रकृतेरिति। कर्मस्वविदुषः सक्तिप्रकारं प्रकटयन् व्याकरोति— प्रकृतेरित्यादिना।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘तत् किमर्थं’ इति पा.। २. ‘तस्मात् त इदमुपदिश्यते’ इति रा.पा.। कुर्याद् विद्वान् आत्मवित् तथा असक्तः सन्। १तद्वत् किमर्थं करोति? तच्छृणु। चिकीर्षुः कर्तुमिच्छुः लोकसंग्रहम् ॥२५॥
एवं लोकसंग्रहं चिकीर्षोः न ममात्मविदः कर्तव्यमस्ति, अन्यस्य वा, लोकसंग्रहं मुक्त्वा। २ततस्तस्यात्मविद इदमुपदिश्यते— नेति। बुद्धेर्भेदो बुद्धिभेदो ‘मयेदं कर्तव्यं, भोक्तव्यं चास्य कर्मणः फलम्’ इति निश्चितरूपाया बुद्धेर्भेदनं चालनं बुद्धिभेदः। तं न जनयेद् नोत्पादयेत् अज्ञानाम् अविवेकिनां कर्मसङ्गिनां कर्मणि आसक्तानाम् आसङ्गवताम्। किं नु कुर्यात्? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेवाविदुषां कर्म युक्तोऽभियुक्तः समाचरन्॥२६॥
अविद्वान् अज्ञः कथं कर्मसु सज्जत इत्याह— प्रकृतेरिति। प्रकृतेः, प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां
[[अ. ३ श्लो. २३-२७]] [[१८२]]
ननु ‘ईक्षतेर्नाशब्द’मिति प्रधानाख्यस्य साङ्ख्यपरिकल्पितस्य तत्त्वस्याशब्दत्वं व्यासेनैव सिद्धान्तितमिति कथमिह तद्ग्रहणमिति चेत्? उच्यते— नेयं प्रकृतिस्तत्त्वान्तरं, किन्तु मायैव। इयं हि सत्त्वादिगुणत्रयवती। प्रलये गुणास्ते त्रयोऽस्यां निलीय साम्येन वर्तन्त इति तदा अस्याः प्रकृतिरिति नाम। सृष्ट्युपक्रमे त्वस्याः गुणाः क्षुभ्यन्ते। स एव गुणक्षोभः सत्त्वादिगुणोत्पत्तिरित्युच्यते इति। अहङ्कारेति। कार्यकरणसङ्घाते अनात्मनि अहमिति यः प्रत्ययः सोऽहङ्कार इत्युच्यते। एतेन ब्रह्मण्यात्मबुद्धिर्नाहङ्कार इति सूचितम् , तस्यात्मत्वात्। नानाविधमिति। स्थूलोऽहं काणोऽहं रुग्णोऽहं खिन्नोऽहमित्यादिबहुप्रकारं मूढः मोहं प्राप्तः, कोऽयम्? अत आह— कार्यकरणधर्मेति। कार्यकरणगतधर्मानात्मन्यध्यस्तवानित्यर्थः। अत एव कार्यकरणाभिमानी कार्यकरणेषु ममेति अहमिति चाभिमानवान्। अत एव अविद्यया भ्रान्त्या आत्मनि स्वस्मिन् कर्माणि सन्तीति मन्यमानः कार्यकरणगतकर्माण्यात्मगतानि मन्वान इत्यर्थः। तत्कर्मणां कार्यकरणकर्मणां कर्ताऽहमिति मन्यते। कार्यकरणाकारपरिणतसत्त्वादिप्रकृतिगुणत्रयक्रियमाणकर्माणि मूढोऽहमेव करोमीति मन्यत इति समुदायार्थः। देहे गच्छत्यहं गच्छामीति, चक्षुषि पश्यत्यहं पश्यामीति, मनसि शोचत्यहं शोचामीति च देहादितादात्म्याध्यासाद् भ्रान्त्या पुरुषो मन्यत इति यावत् ॥२७॥
तत्त्वविदिति। तुशब्दस्य पूर्वोक्तवैलक्षण्यद्योतकत्वादाह— यः पुनर्विद्वानिति। हे महाबाहो! गुणकर्मविभागयोस्तत्त्ववित्तु गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते। तत्त्वं याथार्थ्यं वेत्ति जानातीति तत्त्ववित्। ‘द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सम्बध्यते’ इति न्यायादाह— गुणविभागस्य कर्मविभागस्य चेति। गुणकर्मणोर्विभागौ गुणकर्मविभागौ तयोरिति समासः। वक्ष्यति भगवांश्चतुर्थाध्याये स्वयमेव गुणकर्मविभागद्वयम्— ‘सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥’ इत्यादि। सति तु गुणकर्मविभागज्ञाने— ‘नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥’ इति तत्रैव वक्ष्यमाणरीत्या गुणा एव कर्मकर्तारो नाहमिति मन्यते। ततश्च मुक्तो भवति। इदमेवात्राप्युच्यते— ‘गुणा गुणेषु वर्तन्त इति मत्वा न प्रधानशब्देन मायाशक्तिरुच्यते। अविद्ययेत्युभयतः सम्बध्यते॥२७॥
अज्ञस्य कर्मसु सक्तिमुक्त्वा, विदुषस्तदभावमभिदधाति— यः पुनरिति। तत्त्वं याथार्थ्यं वेत्तीति व्युत्पत्त्या तत्त्वविदिति। तुशब्देनाज्ञाद् २विशिष्टो निर्दिष्टः। प्रश्नपूर्वकं द्वितीयपादमवतार्य व्याचष्टे— कस्येत्यादिना। गुणानामेव गुणेषु वर्तमानत्वमयुक्तम् , ३निर्गुणत्वात् तेषामित्याशङ्क्य विभजते— गुणा इति। ‘कार्यकरणानामेव विषयेषु प्रवृत्तिः, आत्मनस्तु कूटस्थत्वान्मैवम्’ इति ज्ञात्वा
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्त्ववित् तु महाबाहो! गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥२८॥
साम्यावस्था। तस्याः १प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अहङ्कारविमूढात्मा, कार्यकरणसङ्घाते आत्मप्रत्ययोऽहङ्कारः, तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं यस्य सोऽयं कार्यकरणधर्मा कार्यकरणाभिमानी, अविद्यया कर्माण्यात्मनि मन्यमानः, तत्तत्कर्मणामहं कर्ता इति मन्यते ॥२७॥
यः पुनर्विद्वान्— तत्त्वविदिति। तत्त्ववित्तु , महाबाहो ! कस्य तत्त्ववित् ? गुणकर्मविभागयोः। गुणविभागस्य कर्मविभागस्य च तत्त्वविदित्यर्थः; ‘गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते, नात्मा’ इति मत्वा न सज्जते सक्तिं न करोति॥२८॥
१.‘प्रकृतेः प्रकृतितो जाताः सत्त्वरजस्तमांसि कार्यकरणाकारपरिणताः, तैःगुणैः’ इति रा. पा.। २.‘विशिष्टे निर्दिष्टे’ इति पा.। ३. गुणे गुणानङ्गीकारादिति भावः।
[[१८३]]
सज्जते’ इति। करणात्मका इति। इन्द्रियरूपेण परिणताः सत्त्वादिगुणा इत्यर्थः। विषयात्मकेषु शब्दादिविषयरूपेण परिणतेषु सत्त्वादिगुणेष्वित्यर्थः। सर्वस्यापि जगतः सत्त्वादिगुणकार्यत्वादिति भावः। गुणानां गुणेषु वृत्त्युक्त्या फलितमाह— नात्मेति। आत्मा न गुणेषु वर्तत इत्यर्थः। न सज्जत इति। गुणकर्मस्विति भावः। यद्वा ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’ इति कोशाद् गुणाः इन्द्रियाणि, कर्माणि तद्व्यापाराः, तद्विभागवित् अस्येन्द्रियस्येदं कर्मेति वेत्तेत्यर्थः। अन्यत्तुल्यम्। गुणेभ्यः [सकाशात् , कर्मभ्यः] सकाशाच्चात्मनो विभागौ गुणकर्मविभागाविति श्रीधरः॥२८॥
प्रकृतेरिति। गुणैः सत्त्वादिभिः। ‘तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥’ इति वक्ष्यमाणविधया गुणानां मोहकत्वं बोध्यम्। गुणानां सत्त्वादीनां कर्मसु यज्ञादिषु सज्जन्ते। सङ्गप्रकारं दर्शयति— वयमिति। फलार्थं वयं कर्माणि कुर्मः इति सज्जन्त इत्यर्थः। फलाभिसन्धिपूर्वककर्तृत्वाभिमान एव सङ्ग इति भावः। कृत्स्नं सर्वं ब्रह्मेति यावत् , ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतेः। यद्वा कृत्स्नमशेषं, ब्रह्मेति यावत् , ‘निषेधशेषो जयतादशेषः’ इति भागवतात्। तदभिन्नत्वादात्मन आह— आत्मविदिति॥२९॥
मयीति। अध्यात्मचेतसा मयि सर्वाणि कर्माणि संन्यस्य निराशीर्निर्ममश्च भूत्वा विगतज्वरः सन् युध्यस्व। मयीति कस्त्वम्? अत आह— देव इति। दीव्यति भूतपालनादिना क्रीडतीति, स्वयं प्रकाशत इति वा देवः, तस्मिन्। नन्वीदृश ईश्वर एवेत्यत आह— परमेश्वर इति। अहमेवेश्वरः, न मत्तोऽन्योऽस्तीत्यर्थः। ननु ‘स [यः] सर्वज्ञः सर्वविद्’ इतीश्वरः सर्वज्ञः, न त्वम्? अत आह— सर्वज्ञ भाष्यार्कप्रकाशः तत्त्ववित् कर्मसु दृढतरं कर्तृत्वाभिमानं न करोतीत्यर्थः॥२८॥
विद्वानविद्वानित्युभावपि प्रकृत्य विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युपसंहरति— ये पुनरिति। प्रकृतेरुक्तगुणैर्देहादिभिर्विकारैः सम्मूढाः तानेवात्मत्वेन मन्यमानाः ये ते गुणानां तेषामेव देहादीनां कर्मसु व्यापारेषु सज्जन्ते सक्तिं दृढतरामात्मीयबुद्धिं कुर्वन्तीत्याह— प्रकृतेरित्यादिना। तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह— तानित्यादिना॥२९॥
यद्यपि कर्मण्यज्ञोऽधिक्रियते, तथापि मोक्षमाणेन तेन कर्म त्यक्तव्यम् , मोक्षस्य कर्मासाध्यत्वात् , न तु तेन कर्म कर्तुं शक्यम् , कर्मणः स्वापेक्षितविरोधित्वादिति शङ्कते— कथमिति। श्लोकेनोत्तरमाह— उच्यत इति। यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे करणमाह— अध्यात्मेति। विवेकबुद्धिमेव व्याकरोति— अहमिति। दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह— किञ्चेति। आनन्दगिरिकृतव्याख्या १. ‘संमूढाः’ इति क्वचिन्न । प्रकृतेर्गुणसम्मूढाः इत्यत्र देवदत्तस्य गुरुकुलमित्यत्रेव समासः। २. ‘आत्मेत्येवोपासीत, अत्र ह्येते सर्व एकं भवन्ति’(बृ.उ. १.४.७) इत्यत्रात्मनः सोपाधिकस्याकृत्स्नत्वं, निरुपाधिकस्यात्मनः कृत्स्नत्वं चोपपादितम्। अतः कृत्स्नवित् आत्मवित् इति विवृतम्। प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥२९॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। ये पुनः— प्रकृतेरिति। प्रकृतेर्गुणैः १संमूढाः सम्यङ् मूढाः सम्मोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुण- कर्मसु - ‘वयं कर्म कुर्मः फलाय’ इति। तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनो मन्दान् मन्दप्रज्ञान् २कृत्स्नविद् आत्मवित् स्वयं न विचालयेत्। बुद्धिभेदकरणमेव चालनम् ; तन्न कुर्यादित्यर्थः॥२९॥
कथं पुनः कर्मण्यधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यमिति? उच्यते— मयीति। मयि वासुदेवे परमेश्वरे सर्वज्ञे
[[अ. ३ श्लो. २७-३०]] [[१८४]]
इति। ननु प्रत्यक्षे कर्मसंन्यासः कर्तुं शक्यः, ईश्वरस्तु परोक्षः कथं तस्मिन् स कर्तव्यः? इत्यत आह— सर्वात्मनीति। सर्वेषामात्मनि प्रत्यग्रूपे। न हि स्वात्मा स्वस्य परोक्ष इति भावः। अत एव मम वासुदेवाभिधा, न तु वसुदेवपुत्रत्वप्रयुक्तेत्याह— वासुदेव इति। वसन्ति जगन्त्यस्मिन्निति, वसति जगत्ययमिति वा वासुः, दीव्यतीति देवः, वासुश्चासौ देवो वासुदेव इति निरुक्तेरिति भावः। ईश्वरे कर्मनिक्षेपो नाम ईश्वरार्थं कर्मकरणमेवेत्याह— अहं सर्वेश्वरायेति। भृत्यवदिति दृष्टान्तः। यथा भृत्यो राजार्थं युद्धादिकर्म करोति, तद्वदिति। नन्वीश्वरार्थं कर्म करोमीति बुद्धिः कथं विवेकबुद्धिर्भवितुमर्हति? न कथमपि किं त्वविवेकबुद्धिरेव, निष्कलनिष्क्रियशान्त- परिपूर्णानन्दरूपत्वादीश्वरस्य इति चेत् ? मैवम् ; अज्ञपरो ह्ययं श्लोकः, कर्मप्रतिपादकत्वात्। अज्ञस्य च ‘सच्चिदानन्दरूप ईश्वरः’ इति न ज्ञानमस्ति, किन्तु परोक्षः सर्वजगन्नियामकः प्रभुतुल्यः ईश्वरः कश्चित् क्वाप्यस्तीति। वेदरूपया तदाज्ञया मयावश्यं कर्म कर्तव्यम् , न तु फलमभिसन्धेयम् , अन्यथा मां पातयेदीश्वरः इति ज्ञानमस्ति। यः पुनः स्वर्गाद्यर्थं कर्म करोमीति मन्यते, तद् दृष्ट्या विवेक्येवायमज्ञोऽपीति कृत्वा एतदज्ञबुद्धेर्विवेकबुद्धित्वमुक्तमिति। ननु अध्यात्मचेतसेत्यस्य विवेकबुद्ध्येत्यर्थलाभः कथमिति चेत्? उच्यते— आत्मा परमात्मा, तस्मिन्नध्यात्मम्। आत्म- विषयमित्यर्थः। चेतो ज्ञानम्। अध्यात्मचेतः परमात्मविषयबुद्धिः, ‘परमात्मार्थमहं कर्म करोमी’त्याकारिका बुद्धिरित्यर्थः। अस्याः बुद्धेः विवेकबुद्धित्वं सिद्धमेव, ‘यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः’ इतीश्वरार्थकर्मणोऽबन्धकत्ववचनात्॥३०॥
य इति। ये मानवाः श्रद्धावन्तोऽनसूयन्तश्च सन्तः मे इदं मतं नित्यमनुतिष्ठन्ति, तेऽपि कर्मभिर्मुच्यन्ते। परमगुराविति। सर्व- कारणत्वाद् गुरूणामपि गुरावित्यर्थः। तेऽपीत्यपिना ज्ञानयोगिनां मुक्तिरविवादेति सूच्यते॥३१॥
त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः। निर्ममो भूत्वा पुत्रभ्रात्रादिष्विति शेषः। ननु युद्धे नियोगो नोपपद्यते, पुत्रभ्रात्रादिहिंसात्मनस्तस्य संतापहेतोर्नियोगविषयत्वायोगादिति, तत्राह२— विगतेति॥३०॥
प्रकृतं भगवतो मतमुक्तप्रकारमनुसृत्यैवानुतिष्ठतां क्रममुक्तिफलं कथयति— यदेतदिति। शास्त्राचार्योपदिष्टेऽदृष्टार्थे विश्वासवत्त्वं श्रद्धधानत्वम्। ३गुणेषु दोषाविष्करणम् असूया। अपिः यथोक्तायाः मुक्तेरमुख्यत्वद्योतनार्थः४॥३१॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ईदृग्बुद्धिकरणमेव कर्मणामीश्वरे निक्षेपः। ‘अहं सर्वेश्वराय भृत्यवत्’ इति रा.पा.। २. विवेकबुद्धिरेव विगतज्वरत्वेऽपि हेतुरिति भावः। ३. दुःखात्मके कर्मणि मां प्रवर्तयन्नयं न कारुणिकः इत्येवं दोषदृष्टिरिति भावः। ४. कर्मानुष्ठानेन चित्तशुद्धिज्ञानप्राप्तिद्वारा क्रमेण मुक्तिः। अस्याः क्रममुक्तेरमुख्यत्वं तु साधनस्या- मुख्यत्वात्। तत्त्वसाक्षात्कारात् सद्योमुक्तेरेव शास्त्रतात्पर्यविषयत्वाद् ज्ञानस्येव कर्मणः साक्षान्मुक्तिसाधनत्वाभावादिति भावः। न तु अनेन क्रमेण मुक्तेः स्वरूपतोऽमुख्यत्वं वक्तुं शक्यम्। सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्ध्या १‘अहं कर्ता ईश्वराय भृत्यवत् करोमि’ इत्यनया बुद्ध्या। किञ्च निराशीः त्यक्ताशीः, निर्ममो ममभावश्च निर्गतो यस्य तव, स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरो विगतसन्तापो, विगतशोकः सन्नित्यर्थः॥३०॥
यदेतन्मम मतम् - कर्म कर्तव्यमिति सप्रमाणमुक्तम् , तत् तथा— ये म इति। ये मे मदीयमिदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवाः मनुष्याः श्रद्धावन्तः श्रद्धधानाः अनसूयन्तः असूयां च मयि परमगुरौ वासुदेवे ऽकुर्वन्तो मुच्यन्ते तेऽपि एवम्भूताः कर्मभिः धर्माधर्माख्यैः॥३१॥
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥३०॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥३१॥
[[१८५]]
ये त्विति। तद्विपरीताः पूर्वोक्तकर्मयोगिपरीताः, न तु ज्ञानयोगिन इति भ्रमितव्यम् , व्याघातात्। किन्तु ज्ञानयोगिभ्यः कर्म- योगिभ्योऽपि भिन्ना इति बोध्यम्। सर्वज्ञानविमूढान् तानचेतसो नष्टान् विद्धीत्यन्वयः। सर्वज्ञानेषु विमूढाः सर्वज्ञानविषयक- मोहाक्रान्ताः, सर्वविधज्ञानशून्या इत्यर्थः। नाशं नरकप्राप्तिस्थावरादिजन्मप्राप्तिरूपमिति भावः॥३२॥
सदृशमिति। परमतमिति। नास्तिकादिमतं शैवादिमतं वेत्यर्थः। ज्ञानवानपि स्वस्याः प्रकृतेः सदृशं चेष्टते। सदृशमनुरूपं कर्म चेष्टते करोति। सदृशं यथा तथा चेष्टते व्याप्रियते इति वा। भूतानि प्रकृतिं यान्ति, प्रकृतिपरतन्त्राणीत्यर्थः। ननु धीरो निगृह्णीयात् प्रकृतिम्? अत आह— निग्रहः किं करिष्यतीति। प्रकृतिविषयो निग्रहो व्यर्थ इत्यर्थः। मम वेति। ईश्वरस्यापीत्यर्थः। भगवन्मताननुवर्तिनां प्रत्यवायित्वं प्रत्याययति— ये त्विति। तद्विपरीतत्वं भगवन्मतानुवर्तिभ्यो वैपरीत्यम्। तदेव दर्शयति— एतदित्यादिना। अभ्यसूयन्तः तत्रासन्तमपि दोषमुद्भावयन्त इत्यर्थः। सर्वज्ञानानि सगुणनिर्गुणविषयाणि। प्रमाणप्रमेयप्रयोजनविभागतो विविधत्वम्॥३२॥
भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति— कस्मादिति। भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशङ्क्याह— त्वत्प्रतिकूला इति। राजानुशासनातिक्रमे दोषदर्शनाद् भगवदनुशासनातिक्रमेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः। उत्तरत्वेन श्लोकमवतारयति— तत्राहेति (सदृशमिति)। सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति— ज्ञानवानपीति। सर्वाण्यपि भूतान्यनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति— प्रकृतिमिति। भूतानां प्रकृत्यधीनत्वेऽपि प्रकृतिर्भगवता निग्राह्येत्याशङ्क्याह— निग्रह इति। का पुनरियं प्रकृतिर्यदनुसारिणी भूतानां चेष्टेति पृच्छति— प्रकृतिर्नामेति। भगवदभिप्रेतां प्रकृतिं प्रकटयति— पूर्वेति। आदिशब्देन ज्ञानेच्छादि संगृह्यते। यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्चेत् प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्क्य विशिनष्टि— वर्तमानेति। सर्वो जन्तुरित्ययुक्तम् , विवेकिप्रवृत्तेरतथात्वादित्याशङ्क्य ‘पश्वादिभिश्चा- विशेषात्’ इति न्यायमनुसरन्नाह— ज्ञानवानिति। ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलितमाह— तस्मादिति। प्रकृतिं यान्ति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘परमतमनुतिष्ठन्ति’ इति पा.। २. ‘मम वाऽन्यस्य वा दुर्निग्रहा प्रकृतिरिति वाक्यशेषः’ इति क्वचित् पाठः। ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४- ४-२) इति श्रुतौ पूर्वप्रज्ञाशब्दोक्ता वासनाऽत्र प्रकृतिरभिप्रेता। तत्प्राबल्यात् मम वाऽन्यस्य वा निग्रहः रागौत्कट्येन प्रवर्तमानं निवर्तयितुं न शक्नोतीति भावः। ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥३२॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति?॥३३॥
ये त्विति। ये तु तद्विपरीताः एतन्मम मतम् अभ्यसूयन्तो निन्दन्तो नानुतिष्ठन्ति नानुवर्तन्ते मे मतम् , सर्वेषु ज्ञानेषु विविधं मूढास्ते सर्वज्ञानविमूढांस्तान् विद्धि जानीहि नष्टान् नाशं गतान् अचेतसोऽविवेकिनः॥३२॥
कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, १परधर्माननुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं न बिभ्यति त्वच्छासनातिक्रमदोषात्? तत्राह— सदृशमिति। सदृशम् अनुरूपं चेष्टते चेष्टां करोति। कस्याः? स्वस्याः स्वकीयायाः प्रकृतेः। प्रकृतिर्नाम? पूर्वकृतधर्माधर्मादिसंस्कारो वर्तमानजन्मादावभिव्यक्तः, सा प्रकृतिः। तस्याः सदृशमेव सर्वो जन्तुः—ज्ञानवानपि चेष्टते, किं पुनर्मूर्खः? तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनः। निग्रहः निषेधरूपः किं करिष्यति मम वाऽन्यस्य वा२॥३३॥
[[अ. ३ श्लो. ३०-३३]] [[१८६]]
अयमाशयः— प्राग्जन्मनि येन पुरुषेण यो धर्मोऽधर्मो वा सम्पादितः, स हि संस्काररूपेण तदात्मनि वर्तते। जन्मान्तरपरि- ग्रहे तु स उद्बुद्धःसन् तं पुरुषं स्वानुगुणं सत्कर्मणि दुष्कर्मणि वा प्रवर्तयति; न तु तन्निरोधे सामर्थ्यमस्तीश्वरस्य जीवस्य वा, ईश्वरेणैव तस्य तादृशसामर्थ्यस्य दत्तत्वात् , जीवस्य च स्वत एवाशक्तत्वादिति॥३३॥
इन्द्रियस्येति। प्रकृतिशून्य इति। मुक्तावेव धर्माधर्मसंस्कारस्य समूलोच्छेदो, न तु व्यवहारे इति भावः। पुरुषकारस्य पुरुष- प्रयत्नस्य। प्रकृतेर्दुर्निग्रहत्वात् पुरुषस्य तत्परतन्त्रत्वात् स्वप्रकृत्यनुसारेण स्वयं पुरुषश्चेष्टते, न तु शास्त्रमधीत्य तत्प्रतिपादितविधया चेष्टितुं शक्नोतीति कृत्वा शास्त्रं व्यर्थमित्यर्थः। पुरुषकारस्य विषयं प्रतिपादयति— इन्द्रियस्येति। अयमर्थः— पुरुषः स्वधर्माधर्मसंस्कारानुगुणं सत्कर्मणि दुष्कर्मणि वा प्रवर्तते। सा च प्रवृत्तिर्विषयगतरागद्वेषपूर्विकैव तस्य। न हि रागं विना कश्चिदधर्मसंस्कारमात्रेण परस्त्रीगमने प्रवर्तते; नापि द्वेषं विना स्वस्त्रीगमनं जहाति। तथा न रागं विना कश्चिद् धर्म- संस्कारमात्रेण स्वस्त्रीगमने प्रवर्तते; नापि द्वेषं विना परस्त्रीगमनं जहाति। तयोश्च रागद्वेषयोर्वशीकरणं पुरुषकारस्य विषयोऽस्तीति न शास्त्रवैयर्थ्यम्। ननु प्रकृतिपरतन्त्रस्य रागद्वेषनियमनं नोपपद्यते; पुरुषस्य हि धर्माधर्मसंस्कारवशादेव सद्विषये रागः, असद्विषये द्वेषश्च भवति। रागद्वेषभावानन्तरमेव स तत्रतत्र प्रवर्तते। सति च रागद्वेषोत्पत्तिकारणे धर्माधर्मसंस्कारे रागद्वेषयोरनुत्पत्तिः पुरुषकारमात्रे- णेति साहसमेतत् इति चेत्? मैवम् ; न वयं रागद्वेषयोरुत्पत्तिं निवारयामः; किन्तु उत्पन्नयोरेव रागद्वेषयोः पुरुषकारेण प्रतिबन्धं ब्रूमः; यथा काष्ठादुत्पन्नस्यैवाग्नेर्मणिमन्त्रादिना दाहकत्वप्रतिबन्धः, तद्वदुत्पन्नयोरेव रागद्वेषयोः कार्यप्रवर्तकत्वप्रतिबन्ध इति। ननु य एव संस्कारो रागद्वेषौ जनयति, स एव तत्तत्कार्यमपि जनयति। उक्तं हि त्वयैव— रागद्वेषपुरःसरैव प्रकृतिः पुरुषं कार्ये प्रवर्तयतीति। सा हि प्रकृतिर्दुर्निग्रहा। ततो नास्ति पुरुषकारस्य विषय इति चेत्? मा; एवमपि धर्माधर्मसंस्काररूपप्रकृतेः विषयेषु रागद्वेषजननमात्र एव सामर्थ्यम्। कार्ये प्रवर्तकत्वं तु रागद्वेषयोरेव। एतदभिप्रायेणैव ‘रागद्वेषपुरःसरैवे’त्युक्तं भाष्यकारैः। यदि तु प्रकृतेरेव रागद्वेषजनकत्वं कार्यप्रवर्तकत्वं च, तर्हि क्षुद्रस्यापि राजकन्यायां रागसत्त्वेन तत्कार्ये प्रवृत्तिः स्यात्। न त्वेतदस्ति; क्षुद्रो हि राजकन्यां दृष्ट्वा एषा मम स्यादिति तत्र रागं प्रपद्यापि—क्व राजकन्या क्व चाहं क्षुद्रः इति विमृश्य तद्रागमेव जहाति, न तु तत्प्राप्त्यर्थं यतते। ततश्च प्रकृतिसम्भवस्यापि रागस्य पुरुषकारेण विमर्शरूपेण निवृत्तिर्दृश्यते; विमर्शहीनस्तु तत्र यतते, ताड्यते च भटैः। यदि सर्वो जन्तुरात्मनः प्रकृतिसदृशमेव चेष्टते, न च प्रकृतिशून्यः कश्चिदस्ति, ततः पुरुषकारस्य विषयानुप- पत्तेः शास्त्रानर्थक्यप्राप्ताविदमुच्यते— इन्द्रियस्येति। इन्द्रियस्येन्द्रियस्यार्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागः, प्रकृतिसदृशीं चेष्टां गच्छन्ति अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः। प्रकृतेर्भगवता तत्तुल्येन वा केनचिन्निग्रहमाशङ्क्य , अवतारित- चतुर्थपादस्यार्थापेक्षितं पूरयति— १मम वेति ॥३३॥
सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावाद् विधिनिषेधानर्थक्यमिति शङ्कते— यदीति। ननु यस्य न प्रकृतिरस्ति तस्य पुरुषकारसम्भवादर्थवत्त्वं तद्विषये विधिनिषेधयोर्भविष्यति, नेत्याह— न चेति। शङ्कितं दोषं श्लोकेन परिहरति— इदमित्यादिना। वीप्सायाः सर्वकरणगोचरत्वं दर्शयति— सर्वेति। प्रत्यर्थं रागद्वेषयोरव्यवस्थया प्राप्तौ प्रत्यादिशति— इष्ट इति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥३४॥
१. अत्र— मम वाऽन्यस्य वेति निग्रहकर्त्रध्याहारोऽयुक्तः, किन्तु शास्त्रकृतो निग्रहः किं करिष्यति इत्येवार्थः उचित इति वेदान्तदेशिकाः। तन्न, वासनाधीनप्रवृत्तेः शास्त्रीयलौकिकोभयविषयत्वेन, मम निग्रह इति शास्त्रकृतनिग्रहस्य, अन्यस्येति राजादिकृतनिग्रहस्य लौकिकविषयस्य च संग्रहौचित्यात्।
[[१८७]]
रागस्योत्पत्तिं प्रति तु न पुरुषकारस्य प्रतिबन्धः, स्वाभाविकत्वात् तस्य। तस्माद् धर्माधर्मसंस्कारवशात् पुरुषस्येन्द्रियार्थेषु रागद्वेषोदयः; अप्रतिबन्धाभ्यां रागद्वेषाभ्यां तु कार्याकार्यप्रवृत्तिरिति कृत्वा पुरुषकारस्यास्ति विषयो रागद्वेषवशीकरणम् , पुरुषकारस्यैव तत्प्रतिबन्धकत्वात् इति। तदा स्वधर्मेति। अधर्मसंस्कारवशात् पुरुषस्य परधर्मे रागः, स्वधर्मे द्वेषश्च यदा जायते, तदा स्वधर्मत्यागः परधर्मानुष्ठानं च भवति, यदा तु धर्मसंस्कारवशात् स्वधर्मे रागः, परधर्मे द्वेषश्च जायते, तदा स्वधर्मानुष्ठानं परधर्माननुष्ठानं च भवतीति बोध्यम्। नन्वेवं धर्मसंस्कारजन्यरागद्वेषयोरपि नियमने स्वधर्मप्रवृत्तिः परधर्मनिवृत्तिश्च न स्यादिति चेत्? मैवम् , धर्मसंस्कारवशात् स्वधर्मे रागे, परधर्मे द्वेषे च जाते सति विद्वान् पुरुषः पुरुषकारेण रागद्वेषौ नियम्यैव तत्र प्रवर्तेत। रागद्वेषपुरःसरं प्रवृत्तेन तु पुंसा तत्कर्मफलमवश्यं भोक्तव्यं स्यात् ; तत्रापि तस्य रागसत्त्वादिति। यद्वा इष्टविषयरागेणानिष्टविषयद्वेषेण च धर्माधर्मसंस्कारजन्येन पुरुषस्य स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति। तद्यथा ब्राह्मणस्य यजनयाजनादिः स्वधर्मः, राज्यं त्विष्टो विषयः, तद्रागेण च स परस्य क्षत्रियस्य धर्मे युद्धे प्रवर्तते; उपवासादयस्त्वनिष्टा विष- यास्तद्द्वेषेण स्वधर्मं जहाति। क्षत्रियस्य युद्धं स्वधर्मः; भिक्षान्नभोजनादिकमिष्टो विषयः; प्राचीनाधर्मसंस्कारबलात् तद्रागेण च स परस्य ब्राह्मणस्य धर्मे भिक्षाटने प्रवर्तते; राज्यभोगस्त्वनिष्टो विषयः, तद्द्वेषेण स्वधर्मं जहाति इत्येवमूह्यमिति। तत्प्रतिपक्षेणेति। रागद्वेषयोः प्रतिपक्षेणेत्यर्थः। वैराग्येण शान्त्येति च भावः॥३४॥
श्रेयानिति। ‘प्रशस्यस्य श्रः’ इति श्रादेश ईयसुनि प्रत्यय इत्यभिप्रायादाह— प्रशस्यतर इति। स्वः स्वीयः स्ववर्णाश्रमविहित प्रतिविषयं विभागेन तयोरन्यतरस्यावश्यकत्वेऽपि पुरुषकारविषयाभावप्रयुक्त्या प्रागुक्तं दूषणं कथं समाधेयमित्याशङ्क्याह— तत्रेति। तयोरित्याद्यवतारितं भागं विभजते— शास्त्रार्थ इति। प्रकृतिवशत्वाज्जन्तोर्नैव नियोज्यत्वमित्याशङ्क्याह— या हीति। रागद्वेषद्वारा प्रकृतिवशवर्तित्वे स्वधर्मत्यागादि दुर्वारमित्युक्तम्। इदानीं विवेकविज्ञानेन रागादिनिवारणे शास्त्रीयदृष्ट्या प्रकृतिपारवश्यं परिहर्तुं शक्यमित्याह— यदेति। मिथ्याज्ञाननिबन्धनौ हि रागद्वेषौ। तत्प्रतिपक्षत्वं विवेकविज्ञानस्य मिथ्याज्ञानविरोधित्वादवधेयम्। रागद्वेषयो- र्मूलनिवृत्त्या निवृत्तौ प्रतिबन्धध्वंसे कार्यसिद्धिमभिसन्धायोक्तम्— तदेति। एवकारस्यान्ययोगव्यवच्छेदकत्वं दर्शयति— नेति। पूर्वोक्तं नियोगमुपसंहरति— तस्मादिति। तत्र हेतुमाह— यत इति। हिशब्दोपात्तो हेतुर्यत इति प्रकटितः। स च पूर्वेण तच्छब्देन सम्बन्धनीयः। पुरुषपरिपन्थित्वमेव तयोः सोदाहरणं स्फोरयति— श्रेयोमार्गस्येति॥३४॥
रागद्वेषयोः श्रेयोमार्गप्रतिपक्षत्वं प्रकटयितुं परमतोपन्यासद्वारा समनन्तरश्लोकमवतारयति— तत्रेत्यादिना। व्यवहारभूमिः सप्तम्यर्थः। शास्त्रार्थस्यान्यथा प्रतिपत्तिमेव प्रत्याययति— परधर्मोऽपीति। स्वधर्मवदित्यपेरर्थः। अनुमानं दूषयन्नुत्तरत्वेन श्लोक-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अनिष्टे द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ अवश्यम्भाविनौ। तत्रायं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते। शास्त्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत्। या हि पुरुषस्य प्रकृतिः सा १रागद्वेषपुरःसरैव स्वकार्ये पुरुषं प्रवर्तयति। तदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति। यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति, तदा शास्त्रदृष्टिरेव पुरुषो भवति, न प्रकृतिवशः। तस्मात् तयोः रागद्वेषयोर्वशं नागच्छेत्। यतः तौ ह्यस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ , तस्कराविव पथीत्यर्थः॥३४॥
तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथा - ‘परधर्मोऽपि धर्मत्वादनुष्ठेय एव’ इति। तदसत्— श्रेयानिति। श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। अ. ३ श्लो. ३४-३५ ] १. रागद्वेषौ पुरःसरौ यस्याः सेति विग्रहः। प्रकृतिः रागद्वेषौ जनयित्वैव प्रवर्तिकेति भावः।
[[१८८]]
इत्यर्थः। न साक्षात्३ स्वधर्मस्य परधर्माच्छ्रेयस्त्वं वक्तुं शक्यम् , ब्राह्मणधर्मस्य संन्यासस्य शूद्रधर्मात् सेवादिरूपादश्रेयस्करत्वसिद्धेः; किं त्वनुष्ठानद्वारैवेत्यभिप्रायादाह— अनुष्ठीयमान इति। अनुष्ठीयमानः स्वधर्मः स्वनुष्ठितात् परधर्माच्छ्रेयानित्यर्थः। सद्गुणस्यापि परधर्मस्यानुष्ठानाद् विगुणस्यापि स्वधर्मस्यानुष्ठानं श्रेय इति परमार्थः। सुष्ठु अनुष्ठितः स्वनुष्ठितः। सुशब्दार्थमेवाह— साद्गुण्येनेति। सद्गुणत्वात् परधर्मः सुष्ठु स्वेन सम्पादित इत्यर्थः। स्वधर्मस्य निधनाधिकरणत्वाभावादाह— स्थितस्येति। किमपेक्षयाऽस्य श्रेयस्त्वम्? अत आह— परधर्मे स्थितस्य जीवितादिति। यः परधर्ममवलम्ब्य जीवति, तस्मात् स्वधर्माचरणेन मृत एव गरीयानित्यर्थः। तत्र हेतुं स्वयमेवाक्षिपति— कस्मादिति। एतेन क्षत्रियस्य तव सगुणस्यापि परधर्मस्य भिक्षान्नभोजनस्य स्वीकारेण जीवनादपि स्वधर्मे युद्धे प्रवृत्त्या पाक्षिकं मरणमपि श्रेय एव। किं पुनर्विजय इत्यर्जुनं प्रति कृष्णोपदेशः सूचितः॥३५॥
अथेति। ननु अर्जुनः ‘अथ केन प्रयुक्तः’ इत्यनर्थस्य मूलं पृच्छति। नेदं प्रष्टुमुचितम् , प्रागेव ‘ध्यायतो विषयान्पुंसः सङ्गस्तेषू- पजायते’ इति विषयध्यानं सर्वानर्थमूलमित्युक्तत्वात्। इहापि ‘तौ ह्यस्य परिपन्थिना’विति विषयध्यानकृतसङ्गजन्यकामक्रोधयोरनर्थ- मूलत्वमभिहितमित्याक्षिपति— यद्यपीत्यादिना उक्तमित्यन्तेन। तथापीति शेषः। विक्षिप्तं विस्तृतम् अनवधारितम् अनिश्चितं च यदुक्तं मुत्थापयति—तदसदिति। क्षत्रधर्माद् युद्धाद् दुरनुष्ठानात् परिव्राड् धर्मस्य भिक्षाशनादिलक्षणस्य स्वनुष्ठेयतयाऽपि कर्तव्यत्वं प्राप्तमि- त्याशङ्क्य व्याचष्टे— श्रेयानिति। उक्तेऽर्थे प्रश्नपूर्वकं हेतुमाह—कस्मादित्यादिना। स्वधर्ममवधूय परधर्ममनुतिष्ठतः स्वधर्मातिक्रम- कृतदोषस्य दुष्परिहरत्वान्न तत्त्यागः साधीयानित्यर्थः॥३५॥
प्रागेवानर्थमूलस्योक्तत्वात् पुनस्तज्जिज्ञासया प्रश्नानुपपत्तिरित्याशङ्क्याह—यद्यपीति। विक्षिप्तं विविधेषु प्रदेशेषु क्षिप्तं, दर्शितमिति यावत्। अनवधारितम् अनेकत्रोक्तत्वाद् १अनेकधाऽविवेककामादिभिर्विकल्पितत्वादित्यर्थः। नन्वनर्थमूलं परिहर्तव्यम् , तत् २किमिति ज्ञातुमिष्यते? तत्राह— ज्ञाते हीति। कुर्यामिति तज्ज्ञानमर्थवदिति शेषः। वाक्यारम्भार्थत्वमथशब्दस्य गृहीत्वा प्रश्नवाक् यं व्याकरोति— अथेत्यादिना। अनिच्छतोऽपि बलादेव दुश्चरितप्रेरितत्वे दृष्टान्तमाचष्टे— राज्ञेवेति। विनियोज्यत्वस्येच्छासापेक्षत्वात् तदभावे तदसिद्धि- माशङ्क्य , प्रागुक्तं स्मारयति— राज्ञेवेत्युक्त इति॥३६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मो विगुणोऽपि विगतगुणोऽप्यनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साद्गुण्येन सम्पादितादपि। स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्। कस्मात्? परधर्मो भयावहः नरकादिलक्षणं भयमावहति यतः॥३५॥
यद्यप्यनर्थमूलं ‘ध्यायतो विषयान् पुंसः’ इति, ‘रागद्वेषौ ह्यस्य परिपन्थिनौ’ इति चोक्तम् , विक्षिप्तमनवधारितं च तदुक्तम् , तत् संक्षिप्तं निश्चितं च इदमेवेति ज्ञातुमिच्छन् अर्जुन उवाच। ज्ञाते हि तस्मिन् तदुच्छेदाय यत्नं कुर्यामिति— अथेति। अथ केन हेतुभूतेन प्रयुक्तः सन् , राज्ञेव भृत्यः, अयं पापं कर्म चरति आचरति पूरुषः पुरुषः। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३५॥
अर्जुन उवाच— अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय ! बलादिव नियोजितः॥३६॥
१. ‘अनेकधा वाऽविवेक ’ इति पा.। २. किमिति - कस्मादित्यर्थः। ३. साक्षादिति। अनुष्ठानमद्वारीकृत्येत्यर्थः। संन्यासस्येत्यनन्तरम् अननुष्ठीयमानस्येति शेषः। तथा च तस्य शूद्रधर्मात् श्रेयस्करत्वासिद्धिः इति भावः। ‘श्रेयस्त्वासिद्धेः’ इति पाठः संभाव्यते, प्रक्रमानुसारात्।
[[१८९]]
कृष्णेनानर्थमूलं तदिदमेव सङ्क्षिप्तं निश्चितं चेति ज्ञातुमिच्छन्नर्जुन उवाच। किं तज्जिज्ञासया फलम्? अत आह— ज्ञाते हीति। तस्मिन् सर्वानर्थमूले वस्तुनि ज्ञाते सति। अथेति प्रश्नार्थे। हे वार्ष्णेय! अनिच्छन्नप्ययं पूरुषः केन प्रयुक्तःसन् राज्ञा बलान्नियोजितो भृत्य इव पापं चरति? पूरुष इति। पूः शरीरम्। पुरि शेत इति पुरिशयः। स एव पुरुषः पूरुषश्च पृषोदरादित्वादित्यभिप्रेत्याह—पुरुष इति॥३६॥
‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिने। ससर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥’ इति वचनादाह— नित्यमिति। काम इति। रजोगुणसमुद्भव एष काम एष क्रोधश्च महाशनो महापाप्मा भवति। एनमिह वैरिणं विद्धि। ननु कामक्रोधयोर्द्वयोर्भिन्नत्वात् कथं ‘काम एष क्रोध एषः’ इत्यभेदनिर्देशः? अत आह— कामः प्रतिहत इति। केनचिद् हेतुना। कामपरिणामत्वात् क्रोधस्य कामत्वेन व्यपदेश इति भावः। क्रोधात्मना स्वस्वरूपेण च काम एव सर्वलोकशत्रुः, सर्वानर्थकरत्वादित्यर्थः। रज इति गुणो रजोगुणः, चूतवृक्षवत् समासः। व्याकरणशास्त्रे अवधारणपूर्वपदकर्मधारयसमास इति कश्चन नास्ति, किन्तु विशेषणसमास एवेत्यभिप्रेत्याह— रजश्च तद् गुणश्चेति। समुद्भवत्यस्मादिति समुद्भव उपादानम्। रजोगुणजन्योऽयं काम इत्यर्थः। कामादेव रजोगुणो जात इति पक्षान्तरमाह— रजोगुणस्य वेति। तत्र हेतुमाह— कामो हीति। उद्भूतः कामो रजः प्रति पुरुषं प्रवर्तयति हि। कामादेव पुरुषो रजः- सम्प्रति प्रतिवचनं प्रस्तौति— शृण्विति। तस्य वैरित्वं स्फोरयति—सर्वेति। अप्रस्तुतं किमिति प्रस्तूयते? तत्राह— यं त्वमिति। भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति— ऐश्वर्यस्येति। समग्रस्येत्येतत् प्रत्येकं विशेषणैः सम्बध्यते। अथशब्दस्तथाशब्द- पर्यायः समुच्चयार्थः। मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते। उदाहृतवचसस्तात्पर्यमाह— ऐश्वर्यादीति। स वाच्यो भगवानिति सम्बन्धः। तत्रैव पौराणिकं वाक्यान्तरं पठति— उत्पत्तिमिति। भूतानामिति प्रत्येकमुत्पत्त्यादिभिः सम्बध्यते। १कारणार्थौ चोत्पत्तिप्रलयशब्दौ, क्रियामात्रस्य पुरुषान्तरगोचरत्वसम्भवात्। आगतिर्गतिश्चेति आगामिन्यौ सम्पदापदौ सूच्येते। वाक्यान्तरस्यापि तात्पर्यमाह— उत्पत्त्यादीति। वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते। समग्रैश्वर्यादिसम्पत्तिसमुच्चयार्थश्चकारः। उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह— काम इति। कामस्य सर्वलोकशत्रुत्वं विशदयति— यन्निमित्तेति। तथापि कथं तस्यैव क्रोधत्वम्? तदाह— स एष इति। २कामक्रोधयोरेव हेयत्वद्योतनार्थं कारणं कथयति— रजोगुणेति। कारणद्वारा ३कामादेरेव हेयत्वमुक्त्वा कार्यद्वाराऽपि तस्य हेयत्वं सूचयति— रजोगुणस्येति। कामस्य पुरुषप्रवर्तकत्वमेव, न रजोगुणजनकत्वमित्याशङ्क्याह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
स्वयमनिच्छन्नपि हे वार्ष्णेय वृष्णिकुलप्रसूत ! बलादिव नियोजितो राज्ञेवेत्युक्तो दृष्टान्तः॥३६॥
शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति श्रीभगवानुवाच। “ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना॥” ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन च वर्तते, “उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति।” उत्पत्त्यादिविषयं च विज्ञानं यस्य, स वासुदेवो वाच्यो भगवानिति। काम इति। काम एष सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम्। स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते। अतः क्रोधोऽप्येष एव। रजोगुणसमुद्भवो रजश्च तद् गुणश्च रजोगुणः, स समुद्भवो यस्य स १. उत्पत्तिप्रलयशब्दाभ्याम् उत्पत्तिकारणं, प्रलयकारणं च विवक्षितमिति भावः। २. ‘कामक्रोधयोरवहेयत्वद्योतनार्थं’ इति पा.। ३. ‘कामादेरवहेयत्व’इति पा.। श्रीभगवानुवाच— काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥३७॥
[[अ. ३ श्लो. ३५-३७]] [[१९०]]
कार्ये प्रवर्तत इति हेतोः कामस्य रजोगुणं प्रति हेतुत्वमिति भावः। हिशब्दो लोकप्रसिद्धिं द्योतयति। तामेव दर्शयति— तृष्णयेति। रजःकार्ये राजसेवादौ प्रवृत्तानां दुःखिनां सम्बन्धी ‘तृष्णया ह्यहमेवं कारितः’ इत्याकारकः प्रलापः श्रूयतेऽस्माभिरिति शेषः। तृष्णा आशा काम इत्यनर्थान्तरम्। महाशन इति। कामस्याशनम् आहारो विषयभोगः। अनन्तान् विषयान् भुञ्जानोऽपि कामः न विषयभोगेऽलम्बुद्धिं भजते, किन्तु भूयोऽपि बहून् विषयान् भोक्तुमेव यतते यत एवं ततोऽयं महाशन इत्युच्यते। ‘न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥’ इति स्मरणात् । ‘निःस्वो ह्येकशतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशवत् सम्पदम्। चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपदं हरिर्हरपदं तृष्णावधिं को गतः॥’ इति च वचनात्। केचित्तु नायं कामविकारः, किन्तु लोभविकार एव, ‘कामस्यान्तं तु क्षुत्तृड्भ्यां क्रोधस्यान्तं फलोदयात्। नरो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः॥’ इति भागवतादित्याहुः। तन्मते तु कामस्य क्रोधवल्लोभोऽपि विकार एवेति कृत्वा लोभद्वारा महाशनः काम इति बोध्यम्। वस्तुतस्तु लोभो नाम प्राप्तस्यापरित्यागः, अदातरि लुब्धशब्दप्रयोगदर्शनात्। तृष्णा तु काम एवेति महाशनत्वं कामस्य स्वाभाविकमेवेति ज्ञेयम्। महापाप्महेतुत्वात् कामस्य महापाप्मेति व्यपदेश इत्याह— कामेनेति। महापाप्मेति बहुव्रीहिः। महान् पाप्मा पापं यस्मात् स इति॥३७॥
धूमेनेति। प्रत्याययति प्रत्ययं विश्वासं जनयति, निश्चाययतीत्यर्थः। अप्रकाशात्मकेन सहजेन धूमेन यथा प्रकाशात्मको वह्निराव्रियते इत्यन्वयः॥३८॥
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥३८॥
कामो हीति। तत्रैवानुभवानुसारिणीं लोकप्रसिद्धिं प्रमाणयति— तृष्णया हीति। तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति— महाशन इति। बहुविषयत्वप्रयुक्तं कार्यं निर्दिशति— अत इति। सर्वविषयत्वेऽपि कुतोऽस्य पापत्वमित्याशङ्क्याह— कामेनेति। कामस्योक्तविशेषणवत्त्वे फलितमाह— अत इति॥३७॥
उत्तरश्लोकमवतारयति—कथमिति। अनेकदृष्टान्तोपादानं प्रतिपत्तिसौकर्यार्थम्। सहजस्य धूमस्य प्रकाशात्मकवह्निं प्रत्यावरक- त्वसिद्ध्यर्थं विशिनष्टि— अप्रकाशात्मकेनेति॥३८॥
सामान्यतो निर्दिष्टं विशेषतो निर्देष्टुमाकाङ्क्षापूर्वकमनन्तरश्लोकमवतारयति— किं पुनरिति। कामस्य ज्ञानं प्रत्यावरणत्वसिद्ध्यर्थं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कामः रजोगुणसमुद्भवः। रजोगुणस्य वा समुद्भवः। कामो हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति। तृष्णया ह्यहं कारित इति १दुःखितानां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते। महाशनो महदशनमस्येति महाशनः, अत एव महापाप्मा, कामेन हि प्रेरितो जन्तुः पापं करोति। अतो विद्धि एनं कामम् इह संसारे वैरिणम्॥३७॥
कथं वैरीति दृष्टान्तैः प्रत्याययति— धूमेनेति। धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मकोऽप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च गर्भवेष्टनेन जरायुणा आवृत आच्छादितो गर्भस्तथा तेनेदमावृतम्२॥३८॥
१. ‘दुःखिनाम्’ इति पा.। २. सूक्ष्मस्थूलस्थूलतरावस्थेन कामेन ज्ञानस्यावरणे क्रमेण दृष्टान्ताः। अत्र धूमेनावृतोऽपि वह्निर्दाहादिलक्षणं स्वकार्यं करोति। मलेन आवृतस्त्वादर्शः प्रतिबिम्बग्रहणलक्षणं स्वकार्यं न करोति, स्वच्छताधर्ममात्रतिरोधानात् , स्वरूपतस्तूपलभ्यत एव। उल्बेनावृतस्तु गर्भो न हस्तपादादिप्रसारण- रूपं स्वकार्यं करोति, न वा स्वरूपत उपलभ्यत इति विशेषः इति मधुसूदनी।
[[१९१]]
आवृतमिति। हे कौन्तेय! ज्ञानिनो नित्यवैरिणा दुष्पूरेणानलेन कामरूपेणैतेन ज्ञानमावृतम्। नित्यं सदाऽपि वैरी नित्यवैरी। पूर्वमेवेति। दुःखात्पूर्वमेवेत्यर्थः। तृष्णाकाल एवेति यावत्। यथा अजीर्णरोगी कदलीफलं भोक्तुकामः कामकालेऽपि ‘भवेदनेन ममानर्थः’ इति जानाति, तद्वदिति भावः। न च जानतः कुतस्तत्र प्रवृत्तिरिति वाच्यम् ; कामस्य सत्त्वात्॥३९॥
इन्द्रियाणीति। एष एतैर्ज्ञानमावृत्य देहिनं विमोहयति। इन्द्रियमनोबुद्धीराश्रित्य वर्तमानः कामः पुरुषस्यात्मानात्म- कृत्याकृत्यादिज्ञानमाच्छाद्य तं पुरुषं शब्दादिषु सुखादिषु च प्रवर्त्य तेषु बहुलं मोहं जनयति तस्येत्यर्थः॥४०॥
किं पुनस्तद् इदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते— आवृतमिति। २आवृतमेतेन ज्ञानम् , ज्ञानिनो नित्य- वैरिणा। ज्ञानी हि जानाति अनेनाहमनर्थे प्रयुक्तः इति पूर्वमेव, दुःखी च भवति नित्यमेव। अतोऽसौ ज्ञानिनो नित्यवैरी, न तु मूर्खस्य। स हि कामं तृष्णाकाले मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते जानाति तृष्णयाऽहं दुःखित्वमापादितः इति, न पूर्वमेव। अतो ज्ञानिन एव नित्यवैरी। किंरूपेण? कामरूपेण। काम इच्छैव रूपमस्येति कामरूपस्तेन। दुष्पूरेण दुःखेन पूरणमस्येति दुष्पूरस्तेन। अनलेन नास्यालं पर्याप्तिर्विद्यत इत्यनलः, तेन च॥३९॥
किमधिष्ठानः पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्य लोकस्येत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने सुखेन शत्रुनिबर्हणं कर्तुं शक्यत इति— इन्द्रियाणीति। इन्द्रियाणि मनो बुद्धिश्चास्य कामस्य अधिष्ठानम् आश्रयः उच्यते। एतैः इन्द्रियादिभिराश्रयैः विमोहयति विविधं मोहयति एष कामो ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम्॥४०॥
ज्ञानिनो नित्यवैरिणेत्यादिविशेषणम्। प्रतीकमादाय व्याकरोति— आवृतमित्यादिना। ज्ञानिनं प्रति वैरित्वेऽपि नित्यवैरित्वं कामस्य कथ- मित्याशङ्क्याह— ज्ञानी हीति। अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते। अतःशब्देन कामप्रसक्तिरेव परामृश्यते। नित्यमेवेत्युत्पत्त्यवस्था कार्यावस्था च कामस्य कथ्यते३। ननु सर्वस्यापि ‘कामात्मता न प्रशस्ता’ इति कामो नित्यवैरी भवति। ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह— न त्विति। अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति— स हीति। कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता। अज्ञं प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह— अत इति। स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तर- भेदसिद्धिरित्यर्थः। आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति— किंरूपेणेत्यादिना॥३९॥
कामस्य निराश्रयस्य कार्यकरत्वाभावं मत्वा प्रश्नपूर्वकमाश्रयं दर्शयति— किमधिष्ठान इति। कामस्य नित्यवैरित्वेन परि- जिहीर्षितस्य किमित्यधिष्ठानं ज्ञाप्यते? तत्राह— ज्ञाते हीति। इन्द्रियादीनां कामाधिष्ठानत्वं प्रकटयति—एतैरिति। नन्वेताभिरिति वक्तव्ये कथमेतैरित्युच्यते? तत्राह— इन्द्रियादिभिरिति॥४०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय ! दुष्पूरेणानलेन च१॥३९॥
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥४०॥
१. चशब्द इवार्थः। अनलो यथा हविषा पूरयितुमशक्यस्तथा भोगेन कामः इति मधुसूदनी। २. एतेन कामेन ज्ञानं विवेकज्ञानम् आवृतम् अभिभूतम् , तद्विरोधित्वादित्यर्थः। आत्मस्वरूपं ज्ञानमपि कामेनावृतमेव। ‘सुखमाव्रियते नित्यं दुःखं विव्रियते सदा। यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ॥’ (मा.का. ४.८२) इत्युक्तेः। ३. तथा च कामः सर्वावस्थासु वैरित्वान्नित्यवैरी कथ्यत इति भावः।
[[अ. ३ श्लो. ३७-४०]] [[१९२]]
तस्मादिति। यत एवमिति। यस्मादेवमिन्द्रियादीनधिष्ठाय कामः पुरुषस्य ज्ञानमाच्छादयति, तस्मादिति तस्माच्छब्दार्थः। हे भरतर्षभ, त्वमादौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाप्मानमेनं प्रजहिहि। इन्द्रियाणीति। समनस्कानीत्यर्थः। अन्यथा मनसोऽ- निग्रहे मिथ्याचारप्राप्तिः स्यादिति भावः। आत्मनः स्वस्य ज्ञानविज्ञानयोर्नाशनमित्यन्वयः॥४१॥
इन्द्रियाणीति। साश्रयः शत्रुः साश्रयेणैव जिगीषुणा जय्य इत्यभिप्रायादाह— किमाश्रय इति। कः आश्रयो यस्य सः किमाश्रयः। इन्द्रियाणि पराण्याहुः किमपेक्षया? के आहुः? इत्याकाङ्क्षां पूरयन्नाह— देहमिति, पण्डिता इति च। पण्डिताः स्थूलदेहादिन्द्रियाणि पराण्याहुः। कोऽसौ स्थूलदेहः? अत आह— बाह्यमिति। बहिर्भवं बाह्यम् , करचरणादिमत्त्वेन बहिरुपलभ्य- मानमित्यर्थः। घटादिवदेकदेशस्थत्वादाह— परिच्छिन्नमिति। कथमिन्द्रियाणां परत्वं देहादस्माद्? अत आह— सौक्ष्म्येत्यादि। सौक्ष्म्यमन्तःस्थत्त्वं व्यापित्वं चेति हेतुत्रयं क्रमेण स्थूलबाह्यपरिच्छिन्नत्वप्रातिभट्यायोपात्तम्। स्थूलाद् बाह्यात् परिच्छिन्नाच्च देहात् सूक्ष्माणि अन्तर्भवानि व्यापकानि चेन्द्रियाणि पराणीत्यर्थः। इन्द्रियाणां देहापेक्षया व्यापकत्वं चानेकशरीरावस्थितत्वरूपम् , अनेककालावस्थितत्वरूपं वा। चक्षुःश्रोत्रयोस्तु गत्वा ग्राहकत्वेन सूर्यमण्डलभेरीदेशादिगमनोपयोगित्वरूपं च व्यापकत्वं बोध्यम्। आदिपदात् ज्ञानविषयाद् देहाज्ज्ञानकरणानीन्द्रियाणि पराणीत्याद्यूह्यम्। तथा पण्डिताः मनः इन्द्रियेभ्यः परमाहुः; इन्द्रियाणां मनोवश्यत्वाज्जाग्रत्कालमात्रव्यापृतत्वात् क्षणादेव देशान्तरलोकान्तरगमनाशक्तत्वान्मनोपेक्षयाऽपकृष्टत्वमिति बोध्यम्। मनसस्तु तेषां कामाश्रयत्वे सिद्धे साश्रयस्य तस्य परिहर्तव्यत्वमाह— यत इति। तस्माद् इन्द्रियादीनामाश्रयत्वादिति यावत्। पूर्वं काम- निरोधात् प्रागवस्थायामित्यर्थः। तेषु नियमितेषु मनोबुद्ध्योर्नियमः सिध्यति, तत्प्रवृत्तेरितरप्रवृत्तिव्यतिरेकेणाफलत्वादिति भावः। पापमूल- तया कामस्य तच्छब्दवाच्यत्वमुन्नेयम्। कामस्य परित्याज्यत्वे वैरित्वं हेतुं साधयति— ज्ञानेति। ज्ञानविज्ञानशब्दयोरर्थभेदमावेदयति— ज्ञानमित्यादिना॥४१॥
पूर्वोक्तमनूद्य कामत्यागस्य दुष्करत्वं मन्वानो ‘रसोऽप्यस्ये’त्यत्रोक्तमेव स्पष्टीकर्तुं प्रश्नपूर्वकं श्लोकान्तरमवतारयति— इन्द्रिया- णीत्यादिना। पञ्चेति ज्ञानेन्द्रियवत् कर्मेन्द्रियाण्यपि वागादीनि गृह्यन्ते। किमपेक्षया तेषां परत्वम्? तत्राह— देहमिति। तथापि केन प्रकारेण परत्वम्? तदाह— सौक्ष्म्येति। आदिशब्देन कारणत्वादि गृह्यते। इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्तिपूर्वकं परत्वं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यत एवम् — तस्मादिति। तस्मात् त्वमिन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य, भरतर्षभ ! पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनम् , ज्ञानं शास्त्रतः आचार्यतश्चात्मादीना- मवबोधः, विज्ञानं विशेषतस्तदनुभवः, तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोः नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः॥४१॥
इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहीत्युक्तम् , तत्र किमाश्रयः कामं जह्यादित्युच्यते— इन्द्रियाणीति। इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं चापेक्ष्य १सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्ष्य पराणि प्रकृष्टान्याहुः तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ !। पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम्॥४१॥
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥४२॥
१. ‘सौक्ष्म्यान्तस्स्थत्वव्यापित्वाद्यपेक्षया’ ‘सौक्ष्म्यान्तरस्थत्वव्यापित्वाद्यपेक्षया’ इति पा.।
[[१९३]]
बुद्धिः परा; मनसः सङ्कल्पविकल्पात्मकत्वाद् बुद्धेर्निश्चयात्मकत्वाच्च मनसो बुद्धिवश्यत्वाच्च मनोपेक्षया बुद्धेरुत्कर्षः। यो बुद्धेरिति। यः सर्वान्तर इति शेषः। स तु बुद्धेः परत इत्यन्वयः। सर्वान्तरत्वमेवाह— सर्वदृश्येभ्य इति। देहादिभ्यो बुद्ध्यन्तेभ्यः सर्वेभ्यः दृश्येभ्यः अभ्यन्तरो मध्ये वर्तत इति नासावपूर्वोऽप्रकृतश्चेत्याह— यमिति। ‘एतैर्विमोहयत्येष ज्ञानमावृत्य देहिन’मिति श्लोकोक्तो देह्येवायमित्यर्थः। स आत्मा बुद्धेः परतः। प्रथमार्थे तसिः। परः इत्यर्थः। परत्वे हेत्वन्तरमाह— द्रष्टेति। द्रष्टा हि दृश्यादधिकः, घटादिभ्यो देवदत्त इव। बुद्धिस्तु दृश्या, अतस्तस्याः अधिक आत्मेति। एतेन श्लोकेनात्मनः सर्वान्तरत्वं सर्वद्रष्टृत्वं सर्वाधिकत्वं सर्वव्यापकत्वं सर्वसूक्ष्मत्वं चोक्तं भवति। यत्तु रामानुजः— बुद्धेः परः कामः इति; तत्तुच्छम् , ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः।’ इति कठवल्ल्यर्थस्येह विवक्षितत्वात्।न चार्थमहदव्यक्तानां किमित्यग्रहणमिति वाच्यम् ; उपलक्षणतया तद्ग्रहणसम्भवात्। वस्तुतस्तु ग्राह्येभ्योऽर्थेभ्यो ग्राहकाणीन्द्रियाण्येव पराणि । महत्तत्त्वं तु सूत्रभाष्ये प्रत्याख्यातम्१। बुद्धेरेव महत्तत्त्व[शब्द]- वाच्यत्वं चोक्तम्। अव्यक्तमज्ञानं माया, तद् बुद्धिरेव, सर्वबुद्धिसमष्टेरेव मायात्वादित्यभिप्रेत्य नेहार्थादिग्रहणं कृतम्। किञ्च कामसङ्कल्पादीनां मनोधर्मत्वं ‘कामः सङ्कल्पो विचिकित्से’त्यादिश्रुतिसिद्धम् , सम्प्रतिपन्नं च; कथं तस्य मनोधर्मस्य कामस्य मनःपरबुद्धिपरत्वम्? धर्मिणो ह्यत्र पूर्वपूर्वापेक्षया उत्तरोत्तरस्योत्कर्षोऽभिहितः। स ह्युत्कर्षो धर्मपूर्वकः। सूक्ष्मत्वव्यापित्वादिधर्मैर्हि देहादिन्द्रियाणामुत्कर्ष उक्तः। एवं यदि कामः सर्वोत्कृष्टस्तर्हि बुद्धेरपि मन एवोत्कृष्टं सकामत्वादित्युच्येत। तथा नैवोक्तम्। किञ्च धर्म्यधीनस्य कामरूपस्य धर्मस्य स्वतन्त्रपदार्थत्वाभावात् कथमस्मिन् धर्मिपदार्थतारतम्यविवेचनप्रकरणे तस्योपन्यासो युज्येत? यच्चानेनोक्तम् कामस्य बुद्धिपरत्वे कारणम् - सर्वेषु बुद्धिपर्यन्तेषूपरतेष्वपीच्छापर्यायकामो वर्तते चेत् , स एव एतानीन्द्रियादीन्यपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धीति, तदतीव हासास्पदम् ; बुद्धेरप्युपरमे क्व कामस्याविर्भावः, यदि तदानीमपि कामसत्त्वं तर्हि निर्विकल्पसमाधिर्भज्येत। ‘यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतसंप्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिषद्मने नमः॥’ इति भागवते मनउपरमे हंसस्फूर्तिर्दर्शिता व्यासेन। तच्च नोपपद्येत, कामस्यैवाविर्भावात्। किंच धर्मिणो मनस एवोपरमे कथं धर्मस्य स्थितिः? किमग्नौ शान्ते दाहस्तिष्ठेत्? किं वा तव मनोबुद्ध्युपरमावस्थारूपायां सुषुप्तौ कामोऽस्ति? येनैवं ब्रूषे। यच्च वेदान्तदेशिकः— २इन्द्रियाणीति श्लोके आत्मनश्चतुर्भिर्मोहनीयत्वस्योक्तत्वादिहापि तेषां चतुर्णामेव ग्रहणमुचितमिति; तदप्यसत् ; तत्र कामेनैकेनैव देहिनो मोहस्य प्रतिपादितत्वात्। इन्द्रियादीनि तु कामस्याधिष्ठानानीति हि तत्रोक्तम्। कथं वा कामस्येन्द्रियाद्यनाश्रयेण स्वयमेव देहिनो मोहकत्वम्? कथं वा इन्द्रियादीनां कामानाश्रितानां देहिमोहकत्वम्, येन चत्वारोऽपीन्द्रियमनोबुद्धिकामा देहिनां मोहकाः इत्युच्येत? तस्मादिन्द्रियाद्याश्रयः काम एव देहिमोहकः, तथैव मूले दर्शनात् कथयति— तथेति। मनसि दर्शितं न्यायं बुद्धावतिदिशति— तथा मनसस्त्विति। ‘यो बुद्धे’रित्यादि व्याचष्टे— तथेत्यादिना। आत्मनो यथोक्तविशेषणस्याप्रकृतत्वमाशङ्क्याह— यं देहिनमिति॥४२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
पण्डिताः। तथेन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकम्। तथा मनसस्तु परा बुद्धिः निश्चयात्मिका। तथा यः सर्व- दृश्येभ्यो बुद्ध्यन्तेभ्योऽभ्यन्तरो, यं देहिनमिन्द्रियादिभिराश्रयैर्युक्तः कामो ज्ञानावरणद्वारेण मोहयतीत्युक्तम् , बुद्धेः पर- तस्तु सः। स बुद्धेर्द्रष्टा पर आत्मा॥४२॥
१. द्र. ‘महद्वच्च’ (ब्र.सू. १-४-७) ‘इतरेषां चानुपलब्धेः’ (ब्र.सू.२-१-२)। २. ‘इन्द्रियाणि मनो बुद्धिः’ (४०) इति श्लोके।
[[अ. ३ श्लो. ४१-४२]] [[१९४]]
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो ! कामरूपं दुरासदम्॥४३॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः॥३॥
‘एतैर्विमोहयत्येषः’ इति। इन्द्रियादीनि तु तत्र करणानीति विवेकः। न च कथं मनोधर्मस्य कामस्य मनःकरणकत्वमिति वाच्यम् ; धर्मेऽपि कामे कर्तृत्वस्यारोपादिति। वस्तुतस्तु इन्द्रियादीनि कामस्य न करणानि, किं त्वाश्रया एव, तथैव भाषितत्वादाचार्यैः— इन्द्रियादिभिराश्रयैरिति। धर्मस्य हि धर्मी भवत्याश्रयः। न च मनोधर्मस्य कामस्य कथमिन्द्रियाश्रयत्वमिति वाच्यम् ; मनसी- न्द्रियप्रवणे सति तद्द्वारा कामस्यापीन्द्रियाश्रयत्वलाभात्। मनोबुद्ध्योरेकान्तःकरणात्मकत्वात् कामस्य बुद्ध्याश्रयत्वमुचितमेव॥४२॥
एवमिति। एवं पूर्वोक्तविधया बुद्धेः परम् आत्मानं बुद्ध्वा; अनेन किमाश्रय इति प्रश्नस्योत्तरमायातम् - आत्मज्ञानाश्रय इति, आत्माश्रय इति वा। आत्मानं मनः, न तु सच्चिदानन्दम् , तस्याचलत्वेन स्तम्भनानवकाशात्। सति हि चलने स्तम्भनमवकाशं लभते। मनस्तु चञ्चलत्वादपेक्षते स्तम्भनम्। आत्मनेत्यस्यार्थमाह— स्वेनैवेति। स्वयमेवेति यावत्। स्वबुद्ध्यैवेति फलितार्थः। समाधायेति। समाहितं कृत्वा निश्चलमनाःसन्नित्यर्थः। दुरासदमिति। सीदतेर्विशरणगत्यवसादनार्थकत्वाद् गत्यर्थानां ज्ञानार्थत्वाद् दुरासदं दुष्प्रापं दुर्ज्ञेयमिति यावत्। दुःखेनासत्तुं शक्यो दुरासद इति समासः। दुःखेनासदो यस्येति तु फलितार्थकथनम्। ‘ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ इति खल्। न च दुष्प्रजा इत्यादिवद् बहुव्रीहिरेवेति वाच्यम् ; ‘प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः’ इति वार्तिकाद् , अत्र धातुजाभावात्। दुष्प्रजा इत्यत्र तु दुष्टा[दुःस्था] प्रजा यस्येति धातुजः स्थाशब्दोऽस्ति। ष्ठा गतिनिवृत्ताविति धातुजातो हि स शब्दः। अत्र तु दुःखेनेत्युक्तत्वाद् दुरित्युपसर्गात् परस्य खशब्दस्य धातुजत्वाभावात्। यदि तु बहुव्रीहिसमास एव वक्तव्य इत्याग्रहः, तर्हि दुस्थः दुष्कर इति वा आसदो यस्य तमिति विग्रहो वाच्यः। कथं कामस्य दुर्ज्ञेयत्वम्? अत आह— दुर्विज्ञेयानेकविशेषमिति। दुर्विज्ञेया अनेके विशेषाः प्रकाराः, भेदा इति यावत् , यस्य भाष्यार्कप्रकाशः इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात् कामजयो भवतीत्युपसंहरति— एवमित्यादिना। संस्कृतं मनो मनःसमाधाने हेतुरिति सूचयति— संस्तभ्येति। प्रकृतं शत्रुमेव विशिनष्टि— कामरूपमिति। तस्य दुरासदत्वे हेतुमाह— दुर्विज्ञेयेति। १अनेको विशेषस्तादृशो महाशनत्वादिः। तदनेनोपायभूता कर्मनिष्ठा प्राधान्येनोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥४३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने तृतीयोऽध्यायः॥३॥
ततः किम्?— एवमिति। एवं बुद्धेः परम् आत्मानं बुद् ध्वा ज्ञात्वा, संस्तभ्य सम्यक् स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा सम्यक् समाधायेत्यर्थः। जह्येनं शत्रुं हे महाबाहो ! कामरूपं दुरासदं दुःखेनासदः आसादनं प्राप्तिर्यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति॥४३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये कर्मयोगो नाम तृतीयोऽध्यायः॥३॥
[आनन्दगिरिकृतव्याख्या]
१. ‘अनेकविशेषोऽतादृशो’ इति पा.।
[[१९५]]
अ. ३ श्लो. ४३ ] तम्। कामो हि बहुविधः, विषयाणामानन्त्यात्। न च प्राप्तिरिति भाष्यपदस्य लाभ इत्यर्थ इति भ्रमितव्यम् ; कामस्य सर्वसुलभस्य दुर्लभत्वायोगात्। किन्तु ज्ञानमित्येवार्थः। सीदतेरवसादनार्थत्वाद् दुरासदं नाशयितुमशक्यमित्यप्यर्थः सूच्यते। कामो हि दुर्जयः। अत्र— बुद्धेः परं काममिति रामानुजव्याख्या तु पूर्वश्लोक एव निराकृता। न हि कामजयं प्रति कामस्य बुद्धेः परत्वज्ञानमावश्यकम्। अतस्तदुपदेशोऽपि व्यर्थ एवेत्यापतति भगवत्यप्रमाणार्थोपदेष्टृत्वमस्य मते। ॥इति श्रीशाङ्करभगवद्गीताभाष्यतृतीयाध्यायव्याख्याभूते भाष्यार्कप्रकाशे बेल्लङ्कोण्डोपनामकरामकविकृते तृतीयोऽध्यायः॥
श्री हयग्रीवार्पणमस्तु। (कीलकसंवत्सरकार्तिकबहुलचतुर्दश्यामस्य समाप्तिः) भाष्यार्कप्रकाशः DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः