॥अथ द्वितीयोऽध्यायः॥
सञ्जय उवाच— तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक् यमुवाच मधुसूदनः॥१॥
श्रीभगवानुवाच— कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन ! ॥२॥
क्लैब्यं मा स्म गमः पार्थ ! नैतत् त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ! ॥३॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
तमिति। तथा पूर्वोक्तरीत्या, कृपया आविष्टं व्याप्तम् अश्रुपूर्णाकुलेक्षणम् अश्रुभिः पूर्णे आकुले च ईक्षणे यस्य तम् , विषीदन्तम् विषादं प्राप्नुवन्तम् तम् अर्जुनं प्रति मधुसूदनः इदं वक्ष्यमाणं [वाक्यं] वचनम् उवाच॥१॥
कुत इति। हे अर्जुन ! विषमे अयोग्यसमये, अनार्यजुष्टम् आर्यैरसेवितम् अस्वर्ग्यम् स्वर्गप्राप्तिविरोधि, अकीर्तिकरमिदं कश्मलं व्याकुलत्वं, कुतः कस्माद्धेतोः त्वा त्वां समुपस्थितं प्राप्तम्? ॥२॥
क्लैब्यमिति। हे पार्थ ! तत्तादृग्वीरमातृत्वेन प्रसिद्धायाः पृथायाः पुत्र! क्लैब्यं पौरुषराहित्यं मा गमः स्म [मा स्म गमः] मा गच्छ। ३माङ्योगाल्लुङि अडागमप्रतिषेधः। त्वयि खाण्डवदहनादिना प्रख्यातपौरुषे त्वयि एतत् क्लैब्यं नैवोपपद्यते न युज्यत एव। हे आनन्दगिरिकृतव्याख्या ‘अहिंसा परमो धर्मो, भिक्षाशनं च ’ इत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यैश्वर्यमप्रचलितमवधार्य स्वस्थहृदयं धृतराष्ट्रं दृष्ट्वा, तस्य दुराशामपनेष्यामीति मनीषया सञ्जयः तं प्रत्युक्तवानित्याह— सञ्जय इति। परमेश्वरेण स्मार्यमाणोऽपि कृत्याकृत्ये सहसा नार्जुनः सस्मार, विपर्ययप्रयुक्तस्य शोकस्य दृढतरमोहहेतुत्वात् , तथापि तं भगवान् नोपेक्षितवानित्याह— तं तथेति। तम् प्रकृतं पार्थं तथा स्वजनमरणप्रसङ्गदर्शनेन कृपया करुणया आविष्टम् अधिष्ठितम् अश्रुभिः पूर्णे समाकुले चेक्षणे यस्य तम् अश्रुव्याप्त- तरलाक्षं विषीदन्तं शोचन्तम् इदं वक्ष्यमाणं वाक् यं सोपपत्तिकं वचनं, मधुनामानमसुरं सूदितवानिति मधुसूदनो भगवानुक्तवान् , न तु यथोक्तमर्जुनमुपेक्षितवानित्यर्थः॥१॥
किं तद् वाक् यमित्यपेक्षायामाह— श्रीभगवानिति। कुतो हेतोः त्वा त्वां सर्वक्षत्रियप्रवरं कश्मलं मलिनं शिष्टगर्हितं युद्धात् पराङ्मुखत्वं विषमे सभयस्थाने समुपस्थितं प्राप्तम् अनार्यैः शास्त्रार्थमविद्वद्भिः जुष्टं सेवितम् अस्वर्ग्यं स्वर्गानर्हं प्रत्यवायकारणम् , १इह च अकीर्तिकरम् अयशस्करम्। २अर्जुननाम्ना प्रख्यातस्य तव नैतद् युक्तमित्यर्थः॥२॥
पुनरपि भगवानर्जुनं प्रत्याह— क्लैब्यमिति। क्लैब्यं क्लीबभावम् अधैर्यं मा स्म गमः मा गाः। हे पार्थ पृथातनय ! न हि त्वयि महेश्वरेणापि कृताहवे प्रख्यातपौरुषे महामहिमनि, एतदुपपद्यते। क्षुद्रं क्षुद्रत्वकारणं हृदयदौर्बल्यं मनसो दुर्बलत्वमधैर्यं त्यक्त्वा उत्तिष्ठ युद्धायोपक्रमं कुरु। हे परन्तप ! परं शत्रुं तापयतीति तथा सम्बोध्यते॥३॥
१. धर्माद् वैमुख्यम् इह लोके परलोके चानिष्टहेतुरिति भावः। २. (भ.गी.१८.६१) भाष्ये अर्जुनशब्दस्य शुद्धान्तःकरणपरत्वेन व्याख्यानमिहानुसंधेयम्। तथा च तादृशस्य तवाकीर्तिकरमेतद् न युक्तमिति भावः। ३. ‘स्मोत्तरे लङ् च’ इति सूत्रेण लुङ्, अडागमप्रतिषेधस्तु ‘न माङ्योगे’(पा.सू.६.४.७४) इति सूत्रेणेति भावः।
[[२९]]
अर्जुन उवाच— कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन !। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन !॥४॥
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं १भैक्षमपीह लोके। हत्वाऽर्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥५॥
न चैतद् विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥६॥
परन्तप ! शत्रुसंतापक! क्षुद्रं नीचं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ युद्धाय संनद्धो भवेत्यर्थः॥३॥
कथमिति। हे मधुसूदन ! मधुनामकराक्षसहन्तः! न तु देववत्पूज्याचार्यादिहन्ता त्वमपीति सूचयितुमिदं संबोधनम्। हे अरिसूदन शत्रुमारक ! न तु स्वजनमारक इति भावः। अहम् , पूजार्हौ भीष्मं द्रोणं चेति द्वाविति शेषः, संख्ये युद्धे इषुभिर्बाणैः कथं प्रतियोत्स्यामि केन वा प्रकारेण प्रहरिष्यामि ॥४॥
गुरूनिति। महानुभावान् गुरून् अहत्वा इह लोके भैक्षं भिक्षाणां समूहो भैक्षम् , ‘भिक्षादिभ्योऽण्’ इत्यण् , भिक्षान्नमपि भोक्तुं श्रेयः युक्तम्। हिः प्रश्नार्थेऽव्ययम् , अव्ययानामनेकार्थत्वात्। श्रेयः किम्? इत्यर्थः। तुशब्दः पक्षान्तरद्योतनाय। यद्वेत्यर्थः। अर्थकामान् धनाभिलाषिणः, विषयाभिलाषिण इति वा। गुरून् हत्वा इह लोके रुधिरप्रदिग्धान् शोणितव्याप्तान् भोगान् भुञ्जीय अनुभवेयम् , किम् इति शेषः। मम गुर्वहननाद् भिक्षाटनं युक्तं वा , गुरुहननाद् रुधिरसंपृक्तान्नं युक्तं वा? इत्यर्थः॥५॥
न चेति। नः अस्माकम् , कतरत् उक्तमतद्वये किं वा मतं गरीयः श्रेष्ठतरम् , एतद् वयं नैव विद्मः जानीमः। जयोऽप्यस्माकं न नियतः इत्याह— यद्वेति। यद्वा पक्षे जयेम, वयं शत्रूनिति शेषः। यदि वा यद्वा पक्षान्तरे नः अस्मान् शत्रवो जयेयुः। जयो भवतु वा मा एवं भगवता प्रतिबोध्यमानोऽपि शोकाभिभूतचेतस्त्वादप्रतिबुध्यमानः सन् अर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान्— कथमित्यादिना। भीष्मं पितामहं , द्रोणं चाचार्यं संख्ये रणे, हे मधुसूदन ! इषुभिः २(यत्र वाचाऽपि योत्स्यामीति वक्तुमनुचितम् , तत्र कथं बाणैर्योत्स्ये इति भावः।) सायकैः तौ कथं प्रतियोत्स्यामि प्रतियोत्स्ये? तौ हि पूजार्हौ कुसुमादिभिरर्चनयोग्यौ। हे अरिसूदन ! सर्वानेवारीन् अयत्नेन सूदितवानिति भगवानेवं सम्बोध्यते॥४॥
राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते— गुरूनिति। गुरून् भीष्मद्रोणादीन् , भ्रात्रादींश्चात्र प्राप्तान् अहिंसित्वा महानुभावान् महामाहात्म्यान् श्रुताध्ययनसम्पन्नान् , श्रेयः प्रशस्यतरं युक्तं भोक्तुम् अभ्यवहर्तुं भैक्षम् भिक्षाणां समूहम् , भिक्षाशनं नृपादीनां निषिद्धमपि, इह लोके व्यवहारभूमौ। न हि गुर्वादिहिंसया राज्यभोगोऽपेक्ष्यते। किञ्च हत्वा गुर्वादीन् , ३अर्थकामानेव भुञ्जीय, न मोक्षमनुभवेयम्। इहैव भोगो, न स्वर्गे। अर्थकामानेव विशिनष्टि— भोगानिति। भुज्यन्त इति भोगास्तान् रुधिरप्रदिग्धान् लोहितलिप्तानिवात्यन्तगर्हितान्। अतो भोगान् गुरुवधादिसाध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः॥५॥
क्षत्रियाणां स्वधर्मत्वाद् युद्धमेव श्रेयस्करमित्याशङ्क्याह— न चैतदिति। एतदपि न जानीमो भैक्षयुद्धयोः कतरत् नः अस्माकं गरीयः श्रेष्ठम् - किं भैक्षं हिंसाशून्यत्वाद् , उत युद्धं स्ववृत्तित्वादिति। सन्दिग्धा च जयस्थितिः। किं साम्यमेवोभयेषाम् , यद्वा वयं जयेम अतिशयीमहि , यदि वा नः अस्मान् धार्तराष्ट्रा दुर्योधनादयो जयेयुः। जातोऽपि जयो न फलवान्। यतो यान् बन्धून् हत्वा न
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘भैक्ष्यम्’ इति पा.। २. कुण्डलितः पाठः क्वचिदेव दृश्यते। ३. अर्थाश्च कामाश्च इति द्वन्द्वः। अर्थान् कामयन्त इति व्युत्पत्त्या गुरुविशेषणमिति व्याख्यान्तरे। अ.२. श्लो.१ - ६ ]
[[३०]]
वा, युद्धमेव तावद् दुष्करमित्याह— यानिति। वयं यान् हत्वा न जिजीविषामः जीवितुं नेच्छामः, त एव धार्तराष्ट्राः प्रमुखे अग्रे अवस्थिताः॥६॥
कार्पण्येति। अहं कार्पण्यदोषोपहतस्वभावः कार्पण्यं कृपणत्वं दैन्यमिति यावत् , तदेव दोषः, तेनोपहतः स्वभावो यस्य स तथोक्तः। अत एव धर्मसंमूढचेताः धर्माधर्मनिर्णयासमर्थः सन् त्वां पृच्छामि। किं पृच्छसीत्यत आह— यदिति। मे यत् श्रेयः स्यात् श्रेयस्करं स्यात् , युक्तं स्यादिति वा, निश्चितं तन्मे ब्रूहि। ‘गुरूनहत्वा’ इति श्लोकोक्तपक्षद्वये यः पक्षोऽस्माकं युक्तः श्रेयस्करश्च तं निश्चित्य वदेत्यर्थः। न हि मम त्वत्तोऽन्यः कोऽपि धर्मनिर्णायकोऽस्तीति भावः। अहं ते शिष्यः। त्वां प्रपन्नं शरणं गतं मां शाधि शिक्षय। अनेन गुरूपसत्तिप्रकारः शिक्षितः॥७॥
यदि तव५ युद्धकरणमेव श्रेय इति मतम् , तर्हि शोकसंविग्नमानसस्य मम युद्धकरणं न संभवति। तस्मात् तावत् त्वं मम शोकनाशोपायं ब्रूहीति प्रार्थयते— न हीति। ममेन्द्रियाणामुच्छोषणं शोकं यदपनुद्यात् तन्नैव प्रपश्यामि। ननु जये लब्धे सति राज्येन शोको नश्येदित्यत आह— भूमाविति। भूमौ असपत्नं निष्कण्टकम् ऋद्धं समृद्धिमद् राज्यमवाप्य, सुराणामाधिपत्यं देवेन्द्रपदमप्यवाप्य, नाहमिमं शोकं तरेयमिति वाक् यशेषः। तस्मान्न राज्यप्राप्त्याशा मम शोकनाशकारिणी भवेदेवेति भावः६॥८॥
जिजीविषामो जीवितुं नेच्छामः, ते एवावस्थिताः प्रमुखे सम्मुखे धार्तराष्ट्राः धृतराष्ट्रस्यापत्यानि। तस्माद् भैक्षाद् युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः॥६॥
समधिगतसंसारदोषजातस्यातितरां निर्विण्णस्य मुमुक्षोरुपसन्नस्यात्मोपदेशसंग्रहणेऽधिकारं सूचयति— कार्पण्येति। योऽ(ल्पां स्व)ल्पामपि २स्वक्षतिं न क्षमते स कृपणः। तद्विधत्वाद् अखिलोऽनात्मविद् अप्राप्तपरमपुरुषार्थतया कृपणो भवति, ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः’ इति श्रुतेः। तस्य भावः कार्पण्यं दैन्यम् , तेन दोषेण उपहतो दूषितः स्वभावश्चित्तमस्येति विग्रहः। सोऽहं पृच्छामि अनुयुञ्जे त्वा त्वां धर्मसम्मूढचेताः ३धर्मो धारयतीति परं ब्रह्म, तस्मिन् सम्मूढमविवेकतां गतं चेतो यस्य ममेति तथाऽहमुक्तः। किं पृच्छसि? यत् निश्चितम् ४ऐकान्तिकमनापेक्षिकं श्रेयः स्यात् , न रोगनिवृत्तिवद् अनैकान्तिकमनात्यन्तिकं स्वर्गवदापेक्षिकं वा, तत् निश्रेयसं मे मह्यं ब्रूहि। ‘नापुत्रायाशिष्याय’ इति निषेधान्न प्रवक्तव्यमिति मा मंस्थाः। यतः शिष्यस्तेऽहं भवामि। शाधि अनुशाधि मां निःश्रेयसम्। त्वामहं प्रपन्नोऽस्मि॥७॥
कुतो निःश्रेयसमेवेच्छसि? तत्राह— न हीति। यस्मात् न प्रपश्यामि। किं न पश्यसि? मम अपनुद्याद् अपनयेद् यत् , शोकम् उच्छोषणं प्रतपनम् इन्द्रियाणाम् , तन्न पश्यामि। ननु शत्रून् निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति? नेत्याह— अवाप्येति। अविद्यमानः सपत्नः शत्रुर्यस्य तद् दृढं [ऋद्धं] राज्यं राज्ञः कर्म प्रजारक्षणप्रशासनादि। तदिदमस्यां भूमाववाप्यापि शोकापनयकारणं न पश्यामीत्यर्थः। तर्हि देवेन्द्रत्वादिप्राप्त्या शोकापनयस्ते भविष्यति? नेत्याह— सुराणामपीति। तेषाम् आधिपत्यम् अधिपतित्वं स्वाम्यम् कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां१ धर्मसम्मूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥७॥
न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘त्वा’ इति पा.। २. वित्तक्षतिमित्यर्थः । ३. गीताशास्त्रीयपरमतात्पर्यविषयात्मदर्शने अधिकारसूचनोपयोगितया कार्पण्यपदम् अनात्मवित्त्वलक्षणदैन्यपरत्वेन व्याख्याय धर्मसंमूढचेतःपदमपि तथैव व्याचष्टे—धर्म इत्यादिना। ४. मोक्ष इत्यर्थः। साधनानन्तरमवश्यम्भावित्वमैकान्तिकत्वम्। उपलक्षणमिदमात्यन्तिकत्व- स्यापि। अविनाशित्वमात्यन्तिकत्वम् । अनेन मुमुक्षुत्वं दर्शितम्। ५. तव = श्रीकृष्णस्य। ६. एतेनेहामुत्रार्थभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः।
[[३१]]
एवमिति। परन्तपो गुडाकेशः एवं हृषीकेशं प्रति उक्त्वा, ततः अहं न योत्स्ये युद्धं नैव करिष्ये इति च गोविन्दं प्रति उक्त्वा तूष्णीं बभूव जोषमाप। हेति विस्मये। एतेन - ‘अहिंसा परमो धर्मः’ इति शास्त्राद्, आचार्यादिद्विजोत्तममारणस्य ब्रह्महत्याहेतुत्वाच्च, क्षणिकराज्यसुखापेक्षया युद्धकरणं मम सुतराम् अधर्म एवेति, परिव्राजकब्राह्मणवद् भिक्षाटनमेव धर्म इति च पार्थस्याशयः स्फुटं गम्यते॥९॥
तमिति। हे भारत धृतराष्ट्र ! उभयोः सेनयोः मध्ये विषीदन्तं तम् अर्जुनं प्रति हृषीकेशः प्रहसन्निव, अर्जुनस्योन्मादप्रलाप- तुल्यवचनश्रवणात् कृष्णस्य हास इति भावः; इदम् ‘अशोच्यान्’ इत्यारभ्य ‘मा शुचः’ इत्यन्तं गीताशास्त्ररूपं वचः उवाच॥१०॥
॥इत्युपोद्घातः॥३ अत्र च गीतास्वित्यर्थः। ‘एतदन्तो ग्रन्थो व्याख्येयः’ इत्यन्वयः। शोकमोहादयो ये संसारबीजभूता दोषाः, तेषामुद्भवस्य यत् कारणं, तस्य प्रदर्शनमेवार्थो यस्य, तत्त्वेन। प्राणिनां संसारबीजभूतशोकमोहादिदोषोद्भवं प्रतीदं कारणमिति दर्शयति दृष्ट्वेत्यादिः तूष्णीं इन्द्रत्वं ब्रह्मत्वं वा, तदवाप्यापि मम शोको नापगच्छेदित्यर्थः॥८॥
एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजानमावेदितवानित्याह— सञ्जय इति। एवं प्रागुक्तप्रकारेण भगवन्तं प्रति उक्त्वा, परन्तपोऽर्जुनो न योत्स्ये न संप्रहरिष्ये अत्यन्तासह्यशोकप्रसङ्गाद् इति गोविन्दमुक्त्वा तूष्णीम् अब्रुवन् बभूव ह किलेत्यर्थः ॥९॥
तम् अर्जुनं सेनयोः वाहिन्योरुभयोर्मध्ये विषीदन्तं विषादं कुर्वन्तमतिदुःखितं शोकमोहाभ्यामभिभूतं स्वधर्मात् प्रच्युतप्रायं प्रतीत्य प्रहसन्निव उपहासं कुर्वन्निव तदाश्वासार्थं, हे भारत भरतान्वय! इत्येवं सम्बोध्य भगवान् इदं प्रश्नोत्तरं निःश्रेयसाधिगमसाधनं वचन२मूचिवानित्याह— तमुवाचेति॥१०॥
तदेव वचनमुदाहरति— श्रीभगवानिति। अतीतसन्दर्भस्येत्थमक्षरोत्थमर्थं विवक्षित्वा तस्मिन्नेव वाक् यविभागमवगमयति— दृष्ट्वा त्विति। ‘धर्मक्षेत्रे कुरुक्षेत्रे’ इत्यादिः आद्यश्लोकस्तावदेकं वाक् यम् , शास्त्रस्य कथासम्बन्धपरत्वेन पर्यवसानात्। ‘दृष्ट्वे’त्यारभ्य यावत् ‘तूष्णीं बभूव हे’ति, तावच्चैकं वाक् यम्। इत आरभ्य ‘इदं वचः’ इत्येतदन्तो ग्रन्थो भवत्यपरं वाक् यमिति विभागः। नन्वाद्यश्लोकस्य युक्तमेकवाक् यत्वम् , प्रकृतशास्त्रस्य आनन्दगिरिकृतव्याख्या संजय उवाच— एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९॥
तमुवाच हृषीकेशः प्रहसन्निव भारत ! । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥१०॥
श्रीभगवानुवाच— १(अत्र च) ‘दृष्ट्वा तु पाण्डवानीकम्’(भ.गी.१.२) इत्यारभ्य यावत् ‘न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् एवं व्याख्येयत्वमुपपाद्यावान्तरविभागकरणेन तात्पर्यमाह— अत्र चेत्यादिना। ‘इत्यारभ्य’ ‘इत्येतदन्तः’ ग्रन्थः १. कुण्डलितो ग्रन्थभागः आनन्दगिरीये प्रथमाध्यायारम्भे व्याख्यातः(पृ.१५)। २. उक्तवानित्यर्थः। ३. एतदुत्तरम् ‘नत्वा लक्ष्मीहयग्रीवौ’(पृ.३) इति मङ्गलपद्यपूर्वकं ‘नारायणः परोऽव्यक्तादि’त्यादि ‘अतस्तद्विवरणे यत्नः क्रियते मया’(पृ.१४) इत्यन्तम् उपोद्घातभाष्यं व्याख्यातं भाष्यार्कप्रकाशकारेण। स च भाष्यार्कप्रकाशग्रन्थभागः अस्माभिः आनन्दगिरिकृतव्याख्यानुरोधेन पूर्वं निवेशितः। अ.२. श्लो.७-१० ] भाष्यार्कप्रकाशः
[[३२]]
बभूवेत्येतदन्तो ग्रन्थ इत्यर्थः। तथाहीति। तत्प्रदर्शनप्रकारमेव दर्शयामीति प्रतिज्ञायामव्ययमिदम्। अर्जुनेनात्मनः शोकमोहौ ‘कथं भीष्ममहं संख्ये’ इत्यादिना दर्शितौ इत्यन्वयः। अहमेतेषां ममैत इति। ‘अहमेतदीयः’ ‘एते मदीयाः’ इति प्रत्ययौ ज्ञाने निमित्ते हेतू यस्य, तस्य स्नेहस्य विच्छेदः नाशः आदिर्येषां तानि स्नेहविच्छेदादीनि निमित्तानि ययोस्तौ तथोक्तौ। अनात्मीयेष्वात्मीयत्वभ्रमः, अनन्यदीये आत्मनि अन्यदीयत्वभ्रमश्च आत्मनः अनात्मीयेषु पुत्रादिषु स्नेहं जनयित्वा तद्विच्छेदादिना शोकमोहौ जनयतीति तावेव भ्रमौ शोकमोहयोः कारणभूतावित्यर्थः। महाभारतेऽवतारावद्योतित्वात्। अन्तिमस्यापि सम्भवत्येकवाक् यत्वम् , अर्जुनाश्वासार्थतया प्रवृत्तत्वात्। तन्मध्यमस्य तु कथमेकवाक् य- त्वमित्याशङ्क्यार्थैकत्वादित्याह४— प्राणिनामिति। शोको मानससन्तापः, मोहो विवेकाभावः। आदिशब्दस्तदवान्तरभेदार्थः। स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणम् - अहङ्कारो ममकारः तद्धेतुरविद्या च, तत्प्रदर्शनार्थत्वेनेति योजना। संगृहीतमर्थं विवृणोति— तथाहीति। राज्यं राज्ञः कर्म परिपालनादि। पूजार्हा गुरवो भीष्मद्रोणादयः। पुत्राः स्वयमुत्पादिताः सौभद्रादयः। सम्बन्धान्तरमन्तरेण स्नेहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते। उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुराग- भाजो भगवत्प्रमुखाः सुहृदः। स्वजनाः ज्ञातयो दुर्योधनादयः। सम्बन्धिनः श्वशुरश्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः। परम्परया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवाः। तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहः, यश्च तैः सह विच्छेदः, ५ यच्च तेषामुपघाते पातकं, या च लोकगर्हा, सर्वं तत् निमित्तं ययोरात्मनः शोकमोहयोः, तावेतौ संसारबीजभूतौ ‘कथम्’ इत्यादिना दर्शितावित्यर्थः। कथं पुनरनयोः संसारबीजयोरर्जुने संभावनोपपद्यते? न हि प्रथितमहामहिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोकमोहावनर्थहेतू संभावितावित्याशङ्क्य , विवेकतिरस्कारेण तयोर्विहिताकरणप्रतिषिद्धाचरणकारणत्वाद् अनर्थाधायकयोरस्ति तस्मिन् सम्भावनेत्याह— शोकमोहाभ्यामिति। भिक्षया जीवनं प्राणधारणम्। आदिशब्दाद् अशेषकर्मसंन्यासलक्षणं पारिव्राज्यम् , आत्माभिध्यानमित्यादि गृह्यते। किञ्च, अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वाद् , अस्मदादिनिष्ठशोकमोहवदिति उपलब्धौ शोकमोहौ प्रत्येकं पक्षीकृत्या- नुमातव्यमित्याह— तथा चेति। शोकमोहादीत्यादिशब्देन मिथ्याभिमानस्नेहगर्हादयो गृह्यन्ते। स्वभावतः चित्तदोषसामर्थ्यादित्यर्थः। भाष्यार्कप्रकाशः १. अर्जुनः इति शेषः। २. ‘क्षात्रधर्मे’ इति पा.। ३. ‘वस्तुसंग्रहवाक् यं’ इति पा.। ४. अर्थैकत्वं नानावाक्यानाम् एकप्रधानप्रतिपाद्यपरत्वम्। आत्मतत्त्वज्ञानमव- तारयितुं तन्निवर्त्यप्रदर्शनपरोऽयं ग्रन्थः। तेन वाक्यैकवाक्यत्वमिह विवक्षितमिति भावः। ५. स्नेहविच्छेदादीति भाष्यस्थादिपदग्राह्यमाह— यच्चेति, या चेति च। आनन्दगिरिकृतव्याख्या ह’(भ.गी.२.९) इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः। तथाहि— अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु ‘अहमेतेषाम् , ममैते’ इत्येवम्प्रत्ययनिमित्तस्नेह- विच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ— ‘कथं भीष्ममहं संख्ये’ (भ.गी.२.४) इत्यादिना। शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः१ स्वत एव २क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद् युद्धादुपरराम; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते। तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः, प्रतिषिद्धसेवा च स्यात्।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
शोकमोहादिरेव संसारबीजभूतो दोषः, तस्योद्भवे कारणं स्नेहादि, तत्प्रदर्शनार्थत्वेन व्याख्येयः इति योजना। ३संग्रहवाक् यं विवृणोति— तथाहीत्यादिना। एवंप्रत्ययनिमित्तो यः स्नेहः, तथा तैः सह विच्छेदः, तेषां घाते पातकम् , लोकगर्हा चेत्येव- मादि निमित्तं ययोस्तौ शोकमोहौ अर्जुनेन दर्शितौ। [कथं] तावेव संसारबीजमित्याकाङ्क्षायां विहिताकरणप्रतिषिद्धसेवा- हेतुत्वादित्याह— शोकमोहाभ्यां हीति। न केवलमर्जुनस्यैव शोकमोहौ संसारबीजम् , किन्तु अन्येषामपीत्याह— तथा चेत्यादिना। यद्यपि चैते स्वधर्मे प्रवर्तन्ते, तथापि ‘अहमस्य कर्ता, मयाऽस्य फलं भोक्तव्यम्’ इत्यभिमानपूर्विकैव तेषां
[[३३]]
अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहिताकरणत्वा[रणा]द्यभावान्न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत्? तत्राह— स्वधर्म इति। कायादीनामित्यादिशब्दाद् अवशिष्टानीन्द्रियाण्यादीयन्ते। फलाभिसन्धिः तद्विषयोऽभिलाषः। कर्तृत्वभोक्तृत्वाभिमानः अहङ्कारः। प्रागुक्तप्रकारेण वागादिव्यापारे सति किं सिध्यति? तत्राह— तत्रेति। शुभकर्मानुष्ठानेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः। अशुभकर्मानुष्ठानेनाधर्मोपचयादनिष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः। व्यामिश्रकर्मानुष्ठानादुभाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः। एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः। अर्जुनस्यान्येषां च शोकमोहयोः संसारबीजत्व- मुपपादितमुपसंहरति— इत्यत इति। तदेवं प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य आत्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसंसार- बीजप्रदर्शनपरत्वं दर्शयित्वा वक्ष्यमाणसन्दर्भस्य सहेतुकसंसारनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्यं दर्शयति— तयोश्चेति। तद् यथोक्तं ज्ञानम् उपदिदिक्षुः उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः। सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपदिदिक्षतीत्ययुक्तम् , अर्जुनं प्रत्येव उपदेशादित्याशङ्क्याह— अर्जुनमिति। न हि तस्यामवस्थायामर्जुनस्य भगवता यथोक्तं ज्ञानमुपदेष्टुमिष्टम् , किन्तु स्वधर्मानुष्ठानाद् बुद्धिशुद्ध्युत्तरकालमित्यभिप्रेत्योक्तम्— निमित्तीकृत्येति। सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात् कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिप्रेतो व्याख्यातः। सम्प्रति वृत्तिकृताम् अभिप्रेतं निरसितुमनुवदति— तत्रेति। निर्धारितः शास्त्रार्थः सतिसप्तम्या३ परामृश्यते। तेषामुक्तिमेव विवृण्वन्नादौ ४सैद्धान्तिकमभ्युपगमं स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च भवति। तत्रैवं सति धर्मा- धर्मोपचयाद् इष्टानिष्टजन्म१सुखदुःखसम्प्राप्तिलक्षणः संसारोऽनुपरतो भवतीत्यतः संसारबीजभूतौ शोकमोहौ। तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानाद् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थमर्जुनं निमित्तीकृत्याह भगवान् वासुदेवः— अशोच्यानित्यादि। [ ज्ञानकर्मसमुच्चयमतोत्थापनम् ] २तत्र केचिदाहुः— सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव। किं तर्हि? १. ‘सुखदुःखादिप्राप्ति’ इति पा.। २.‘अत्र’ इति रा.पा.। ३. भाष्ये सतिसप्तम्यन्तेन पदेन ‘तत्र’ इत्यनेनेत्यर्थः। तथा च तत्र शास्त्रार्थे निर्धारिते सति इत्यर्थः। एवमग्रेऽपि व्याख्याशैली द्रष्टव्या। ४. भाष्यकारपक्षः सिद्धान्तः इहाभिप्रेतः। अत्र केचिदिति। कर्मज्ञानसमुच्चयवादिन इत्यर्थः। ‘यथाऽन्नं मधुसंयुक्तं मधु चान्नेन संयुतम्। एवं तपश्च विद्या च संयुक्तं भेषजं भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या अ.२. श्लो. ११ ] प्रवृत्तिरित्याह—स्वधर्मे प्रवृत्तानामपीति। ततः किं सिध्यतीत्यत आह—तत्रैवं सतीति। एवं तावत् प्रथमाध्यायस्य द्वितीया- ध्यायैकदेशसहितस्य निवर्त्यसमर्पणेन तात्पर्यमुक्त्वा, निवर्तकसमर्पणेन तात्पर्यम् उत्तरग्रन्थसन्दर्भस्य दर्शयति— तयोश्चे- त्यादिना। तस्यामवस्थायां नार्जुनस्य संन्यासो भगवतोऽभिप्रेतः, किन्तु युद्धलक्षणस्वधर्मानुष्ठानेन सत्त्वशुद्ध्युत्तरकालम् [इति] अभिप्रेत्य प्रयोगः— निमित्तीकृत्येति। अत एव भास्कररोदनम् - ‘यत्तु निवृत्तस्य निवृत्त्युपदेशकं शास्त्रम्’ इत्यादि, तद् उक्ताभिप्रायापरिज्ञानप्रसूतमिति उपेक्ष्यते। यच्च [यश्च] तस्य समुच्चयाभिप्रायः, सोऽनन्तरमेव निरूप्यमाणन्यायबलादेवाप्तो[दपास्तो] भविष्यति। पराचक्रमिरे प्रत्येकं तदीयग्रन्थानुभाषणदूषणयोः गयाबलाभार्या[?] इत्युपरम्यतेऽस्माभिः मन्दमतिव्युत्पादनाय ग्रन्थमात्रविवेचनपरैः। एवं तावत् स्वाभिप्रेतसम्बन्धमभिधाय, प्रवृत्तीकृता[वृत्तिकृता]मभिप्रायमनुभाषते— तत्र केचिदित्यादिना। ब्रह्मज्ञानं सेतिकर्तव्यमेव स्वफलसाधकम् , करणत्वाद् , दर्शादिवदित्यनुमानात् श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यसाधकम् ,
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[३४]]
१. भाष्ये मात्रपदस्य एवकारस्य केवलपदस्य चासंकीर्णं प्रयोजनं दर्शयति— वैदिकेनेत्यादिना। २. प्रत्ययावृत्तिरूपः अभ्यासः। ३. तच्च ज्योतिष्टोमे सोमरस- भक्षणावसरे विहितम्। ४. ‘न हिंस्यात् सर्वा भूतानी’ति निषेधशास्त्रस्य विधिशास्त्रानुरोधेन विहितातिरिक्तहिंसाविषयत्वादिति भावः। महद्’ इति हारीतस्मृत्याद्यनुसारिण इति भावः। कैवल्यं मोक्षः। कथमिति। कुतो न कार्येति प्रश्नः। तत्रोत्तरमाह— क्षात्रमित्यादिना। ब्रुवता श्रीकृष्णेनेति शेषः। भाष्यार्कप्रकाशः अग्निहोत्रादिश्रौतस्मार्तकर्मसहिताज्ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थः - इति। ज्ञापकं चाहुरस्या- र्थस्य ‘अथ चेत् त्वमिमं धर्म्यं संग्रामं न करिष्यसि’(भ.गी.२.३३) ‘कर्मण्येवाधिकारस्ते’(भ.गी.२.४७) ‘कुरु कर्मैव तस्मात्त्वम्’(भ.गी.४.१५) इत्यादि। ‘हिंसादियुक्तत्वाद् वैदिकं कर्माधर्माय’ इतीयमप्याशङ्का न कार्या। कथम्? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तक्रूरमपि स्वधर्म इति कृत्वा नाधर्माय, तदकरणे च ‘ततः स्वधर्मं कीर्तिञ्च हित्वा पापमवाप्स्यसि’ (भ.गी.२.३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवतीति। प्रत्यादिशति— सर्वकर्मेति। १वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम्। स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम्। २अभ्यास- सम्बन्धं धुनीते— केवलादिति। नैवेत्येवकारः सम्बध्यते। केन तर्हि प्रकारेण ज्ञानं कैवल्यप्राप्तिकारणमित्याशङ्क्याह— किं तर्हीति। किं तत्र प्रमापकमित्याशङ्क्येदमेव शास्त्रमित्याह— इति सर्वास्विति। यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपूर्णमासादि स्वर्गसाधनम् , तथा श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति। विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं, करणत्वाद्, दर्शपौ[पू ]र्णमासादिवत्। तदेवं ज्ञानकर्मसमुच्चयपरं शास्त्रमित्यर्थः। इतिपदम् आहुरित्यनेन पूर्वेण सम्बध्यते। पौर्यापर्यपर्यालोचनायां शास्त्रस्य समुच्चयपरत्वं न निर्धारितमित्याशङ्क्याह— ज्ञापकं चेति। ‘न केवलं ज्ञानं मुक्तिहेतुः, अपि तु समुच्चितम्’ इत्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचन- सामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः। शास्त्रस्य समुच्चयपरत्वे लिङ्गवद् वाक् यमपि प्रमाणमित्याह— कर्मण्येवेति। तत्रैव वाक् यान्तरमुदा- हरति— कुरु कर्मेति। ननु ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसादेरनर्थहेतुत्वावगमात् तदुपेतं वैदिकं कर्माधर्मायेति नानुष्ठातुं शक् यते। तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति सांख्यमतमाशङ्क्य परिहरति— हिंसादीति। आदिशब्दाद् उच्छिष्टभक्षणं३ गृह्यते। यथोक्ताशङ्का न कर्तव्येत्यत्राकाङ्क्षापूर्वकं हेतुमाह— कथमित्यादिना। स्वशब्देन क्षत्रियो विवक्ष्यते। युद्धाकरणे क्षत्रियस्य प्रत्यवायश्रवणात् , तस्य तं प्रति नित्यत्वेनावश्यकर्तव्यत्वप्रतीतेर्गुर्वादिहिंसायुक्तमतिक्रूरमपि कर्म नाधर्मायेति हेत्वन्तरमाह— तदकरणे चेति। आचार्यादिहिंसायुक्तमतिक्रूरमपि युद्धं नाधर्मायेति ब्रुवता भगवता श्रौतानां हिंसादियुक्तानामपि कर्मणां दूरतो नाधर्मत्वमिति स्पष्टमुपदिष्टं भवति। ४सामान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् , क्रतुविषये चोदितहिंसायास्तदविषयत्वात् , कुतो वैदिककर्मानुष्ठानानुपपत्तिरित्यर्थः। ज्ञानकर्मसमुच्चयात् कैवल्यसिद्धिरित्युपसंहर्तुम् इतिशब्दः। आनन्दगिरिकृतव्याख्या यथा प्रयाजाद्युपकृतमेव दर्शादि स्वर्गादिसाधकमित्यर्थः। स्वधर्माननुष्ठाने पापप्राप्त्यभिधानं च सामर्थ्यं (च) केवलज्ञानात् कैवल्यं नास्तीत्यस्यार्थस्य गमकमाह— ज्ञापकं चाहुरित्यादिना। ननु ‘न हिंस्यात् सर्वा भूतानी’त्यादिशास्त्रप्रतिषिद्धहिंसादि- युक्तत्वात् वैदिकं कर्माधर्माय, न तु मोक्षोपयोगीति सांख्यः, तत्राह— हिंसादियुक्तत्वादिति। कथमिति कस्मादित्यस्मिन्नर्थे। अत्यन्तक्रूरमपि कर्म विहितत्वाद् नाधर्म इति ब्रुवता वासुदेवेन यावज्जीवादिश्रुतिविहितानां दूरत एव नाधर्मत्वमित्युक्तं भवति। रागप्राप्त[हिंसा]प्रतिषेधार्थत्वाद् ‘न हिंस्यादि’त्यादिवाक् यस्य, न क्रत्वर्थहिंसायामधर्मत्वमिति भावः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[३५]]
[आनन्दगिरिकृतव्याख्या]
१. ‘सांख्या बुद्धिः’ इति रा.पा.। २. ‘ज्ञानिनामुपचिता भवति ते सांख्याः स्युः’ इति रा.पा.। ३. ‘देहादिव्यतिरिक्तस्य कर्तृत्व’ इति पा.। ४. अनेन ‘यत् परमार्थात्म- तत्त्वनिरूपणं कृतम्’ इति भाष्यं ‘यत् निरूपितं परमार्थात्मतत्त्वम्’ इति व्याख्यातं भवति। समुच्चयवादं खण्डयति— तदसदित्यादिना। तत् कर्मसहिताद् ज्ञानान्मुक्तिरिति मतम् असद् दुष्टम्। तत्र हेतुमाह— ज्ञानेति। बुद्धिद्वयाश्रययोः ज्ञानकर्मनिष्ठयोः विभागवचनादिति। तदेव विवृणोति— अशोच्यानित्यादिना। अशोच्यानिति श्लोक आदिर्यस्य तेन। ‘स्वधर्ममपि चावेक्ष्ये’ति श्लोकोऽन्तो यस्य तेन। ‘स्वधर्मम्’ इति श्लोकस्य नात्रान्तर्भावः, किन्तु ‘देही नित्यम्’ इति श्लोकस्यैव। ‘स्वधर्मम्’ इति श्लोकस्तु ग्रन्थस्यास्यावधिरिति बोध्यम्। ‘अशोच्यानि’त्यादिना ‘न त्वं शोचितुमर्हसी’त्येतदन्तेन ग्रन्थेनेति परमार्थः। भगवता यत् परमार्थतत्त्वनिरूपणं कृतं तत् सांख्यमित्यन्वयः। सम्यक् ख्यायते प्रकाश्यते तत्त्वमनयेति संख्या वैदिकी सम्यग्बुद्धिः। तया संख्यया प्रकाश्यमात्मतत्त्वं सांख्यमिति व्युत्पत्तेरिति भावः। यावदिति साकल्येऽवधारणे वाऽव्ययम्। प्रकरणार्थनिरूपणाद् ‘आत्मनो जन्मादिविक्रियाऽभावादात्मा अकर्ता’ इति या तद्विषया सांख्यविषया बुद्धिर्जायते सा बुद्धिः सांख्येत्युच्यते, उपचारादिति भावः। न च संख्याया एव बुद्धित्वात् कथं सांख्याया अपि बुद्धित्वमिति वाच्यम् ; संख्या बुद्धिरन्तःकरणम् , सांख्या बुद्धिस्तु तद्वृत्तिरिति भेदात्। न च कुत एतद्भेदावगम इति वाच्यम् , ‘या जायते’ इति भाष्यात्। बुद्धिवृत्तिर्हि प्रकरणार्थनिरूपणाज्जायते। बुद्धिस्तु पञ्चभूतसत्त्वांशसमष्ट्या प्रागेव जातेति नाधुना जायते इति। सा सांख्या बुद्धिर्येषाम् उपचिता प्रवृद्धा - दृढेति यावत् - भवति, ते ज्ञानिनः सांख्याः स्युः। सांख्या एषामस्तीति सांख्याः इत्यर्शआद्यजन्तोऽयं शब्द इति भावः। एतस्या भाष्यार्कप्रकाशः यत्तावद् - ब्रह्मज्ञानं , सेतिकर्तव्यताकं स्वफलसाधकं, करणत्वादित्यनुमानम् , तद् दूषयति— तदसदिति। न हि शुक्तिकादि- ज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किञ्चिदपेक्षते। तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः। यत्तु गीताशास्त्रे समुच्चयस्यैव प्रति- पाद्यतेति प्रतिज्ञातम् , तदपि विभागवचनविरुद्धमित्याह— ज्ञानेति। सांख्यबुद्धिर्योगबुद्धिश्चेति बुद्धिद्वयम्। तत्र सांख्यबुद्ध्याश्रयां ज्ञाननिष्ठां व्याख्यातुं सांख्यशब्दार्थमाह— अशोच्यानित्यादिनेति। ‘अशोच्यानि’त्यादि ‘स्वधर्ममपि चावेक्ष्य’ इत्येतदन्तं वाक् यं यावद् भविष्यति तावता ग्रन्थेन यत् परमार्थभूतमात्मतत्त्वं भगवता निरूपितम्४, तद् यया सम्यक् ख्यायते प्रकाश्यते सा वैदिकी सम्यग्बुद्धिः संख्या। तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं सांख्यमित्यर्थः। सांख्यशब्दार्थमुक्त्वा तत्प्रकाशिकां बुद्धिं तद्वतश्च सांख्यान् व्याकरोति— तद्विषयेति। तद्विषया बुद्धिः सांख्यबुद्धिरिति सम्बन्धः। तामेव प्रकटयति— आत्मन इति। ‘न जायते म्रियते वा’ इत्यादिप्रकरणार्थनिरूपणद्वारेण ‘आत्मनः षड्भावविक्रियाऽसम्भवात् कूटस्थोऽसौ’ इति या बुद्धिरुत्पद्यते, सा सांख्यबुद्धिः, तत्पराः संन्यासिनः सांख्या इत्यर्थः। सम्प्रति [ज्ञानकर्मसमुच्चयवादनिरासः — १. तत्र निष्ठाद्वयविभागानुपपत्तिः] तदसत्। ज्ञानकर्मनिष्ठयोर्विभागवचनाद् बुद्धिद्वयाश्रययोः। ‘अशोच्यान्’ इत्यादिना भगवता यावत् ‘स्वधर्म- मपि चावेक्ष्य’(भ.गी.२.३१) इत्येतदन्तेन ग्रन्थेन यत् परमार्थात्मतत्त्वनिरूपणं कृतम् , तत् सांख्यम्। तद्विषया बुद्धिः ‘आत्मनो जन्मादिषड्विक्रियाऽभावादकर्ताऽऽत्मा’ इति प्रकरणार्थनिरूपणाद् या जायते, सा १सांख्यबुद्धिः। सा येषां २ज्ञानिनामुचिता भवति ते सांख्याः। एतस्या बुद्धेर्जन्मनः प्रागात्मनो देहादिव्यतिरिक्तत्व३-कर्तृत्व-भोक्तृत्वाद्यपेक्षो तत्रानुमानं तावत् शुक्तिज्ञानेऽनैकान्तिकम्। न ह्यबोधनिवृत्तौ स्वफले [ज्ञानेन] सहकारि किञ्चिदपेक्ष्यत इत्याह— तदसदिति। यच्च सर्वासु गीतासु समुच्चय एव प्रतिपाद्यत इति प्रतिज्ञावचनम् , तद् विभागवचनबाधितमित्याह— [ज्ञानकर्मनिष्ठयोरिति।] सांख्ययोगबुद्धिद्वयाश्रययोरित्युक्तम्। तत्र सांख्यबुद्धिं व्याख्यातुं प्रथमं सांख्यशब्दार्थमाह— [अशोच्यानित्यादिनेति।] सम्यक् ख्यायते प्रकाश्यते तत्त्वं यया सा संख्या वैदिकी सम्यग्बुद्धिः। तत्संबन्धि सांख्य-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ.२. श्लो.११ ]
[[३६]]
धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठान१लक्षणो योगः। तद्विषया बुद्धिर्योगबुद्धिः। सा येषां २कर्मिणामुचिता भवति, ते योगिनः। तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे — ‘एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु’(भ.गी.२.३९) इति। तयोश्च सांख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां सांख्यानां विभक्तां वक्ष्यति— ‘पुरा वेदात्मना मया प्रोक्ता’ (द्र. भ.गी.३.३) इति। तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां ३विभक्तां वक्ष्यति— ‘कर्मयोगेन योगिनाम्’ (भ. गी.३.३) इति। एवं सांख्यबुद्धिं योगबुद्धिं चाश्रित्य द्वे निष्ठे विभक्ते भगवतैवोक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्व- बुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता। १. ‘ष्ठाननिरूपणलक्षणो’ इति मु.पा.। २. ‘कर्मिणामुपचिता’ इति रा.पा.। ३. ‘योगिनां विभक्तां’ इति पा.। ४. ‘धर्माधर्मम्’ इति पा.। आनन्दगिरिकृतव्याख्या योगबुद्ध्याश्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह— एतस्या इति। यथोक्तबुद्ध्युत्पत्तौ विरोधादेवानुष्ठानायोगात् तस्या- स्तन्निवर्तकत्वात् , पूर्वमेव तदुत्पत्तेरात्मनो देहादिव्यतिरिक्तत्वाद्यपेक्षया धर्माधर्मौ४ निष्कृष्य, तेनेश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते योग्यः सम्पद्यते। तेन मोक्षसिद्धये परम्परया साधनीभूतप्रागुक्तधर्मानुष्ठानात्मको योग इत्यर्थः। अथ योगबुद्धिं विभजन् योगिनो विभजते— तद्विषयेति। उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति— तथा चेति। सांख्यबुद्ध्याश्रया ज्ञाननिष्ठेत्येतदपि भगवतो ऽभिमतमित्याह— तयोश्चेति। ज्ञानमेव योगो ज्ञानयोगः। तेन हि ब्रह्मणा युज्यते तादात्म्यमापद्यते। तेन संन्यासिनां निष्ठा निश्चयेन स्थितिस्तात्पर्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां, निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना। ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन सांख्यानाम्’ इत्येतद् वाक् यमुक्तार्थविषयमर्थतोऽनुवदति— पुरेति। योगबुद्ध्याश्रया कर्मनिष्ठे- त्यत्रापि भगवदनुमतिमादर्शयति— तथा चेति। कर्मैव योगः कर्मयोगः। तेन हि बुद्धिशुद्धिद्वारा मोक्षहेतुज्ञानाय पुमान् युज्यते। तेन निष्ठां कर्मिणाम् , ज्ञाननिष्ठातो विलक्षणां ‘कर्मयोगेने’त्यादिना वक्ष्यति भगवानिति योजना। निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति— एवमिति। कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तमित्याशङ्क्याह— ज्ञानकर्मणोरिति। कर्म हि कर्तृत्वानेकत्वबुद्ध्याश्रयम् , ज्ञानं पुनरकर्तृत्वैकत्वबुद्ध्याश्रयम्। तदुभयमित्थं विरुद्धसाधनसाध्यत्वात् नैकावस्थस्यैव पुरुषस्य सम्भवति। अतो युक्तमेव तयोर्विभागवचनमित्यर्थः। इति। सांख्याया इत्यर्थः। देहादिव्यतिरिक्तस्येति। नास्तिकानां देहादिव्यतिरिक्तात्माभावेऽप्यास्तिकानां देहादिव्यतिरिक्तात्माऽस्त्येव, देहपातानन्तरं स्वर्गादिफलसिद्ध्यर्थमास्तिकैर्यज्ञादिकर्मणां क्रियमाणत्वादिति भावः। मोक्षसाधनानुष्ठानलक्षण इति। मोक्षशब्दोऽत्र मोक्षहेतुज्ञानपरः, उपचारात्। तत्साधनानि तु फलाभिसन्धिरहितानि कर्माणि। तदनुष्ठानमेव लक्षणं स्वरूपं यस्य स तथोक्तो योगः। मोक्षस्य परम्परया साधनानि मोक्षसाधनानि कर्माणीति वा। ‘कर्तृत्वानेकत्वबुद्ध्याश्रयस्य कर्मणः, एकत्वाकर्तृत्वबुद्ध्याश्रयस्य ज्ञानस्य च युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता भगवता कृष्णेन एवं सांख्यबुद्धिं योगबुद्धिं चाश्रित्य विभक्ते द्वे निष्ठे उक्ते’ इत्यन्वयः। भाष्यार्कप्रकाशः मित्यभिप्रायः। ‘न जायते म्रियते वा’ इति प्रकरणपर्यालोचनया निरवयवस्यात्मनो जन्मादिषड्भावविकारशून्यत्वात् अविक्रिय आत्मेति बुद्धिः सांख्यबुद्धिः। तत्पराः संन्यासिनः सांख्या इत्यर्थः। इदानीं योगबुद्धिं व्याख्याति— एतस्या बुद्धेरि- त्यादिना। युज्यते योग्यः क्रियते पुरुषो मोक्षाय अनेनेश्वराराधनरूपेण कर्मणेति योग इत्यर्थः। उक्तार्थे भगवद्वाक् यं पठति— तथा चेति। ‘पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन सांख्यानाम्’ इत्येतदर्थतो दर्शयति— पुरा वेदात्मनेति। ननु भगवता वा कया युक्त्या द्वे निष्ठे(ति) विभक्ते इत्याशङ्क्याह— ज्ञानकर्मणोरिति। कर्तृत्वानेकत्वबुद्ध्याश्रयं कर्म, अकर्तृत्वैकत्वबुद्ध्याश्रयं
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[३७]]
‘तच्छेषेण यथैतद् विभागवचनं तथैव दर्शितं ब्राह्मणे’ इत्यन्वयः। एतमेव लोकम् आत्मलोकम्। प्रव्राजिनः संन्यासिनः। प्रव्रजन्ति संन्यसन्ति। येषाम् अस्माकमात्मैव लोकः, न त्वात्मनोऽन्यः कश्चिल्लोकोऽस्ति , ते वयं प्रजया सन्तानेन किं करिष्यामः? न किमपि। अतः प्रजार्थं गृहस्थाश्रमस्वीकारोऽस्माकमनुचित इति भावः। आत्मकामानां संन्यासः, प्रजाकामानां तु गृहस्थाश्रम- स्वीकारद्वारा कर्माणि चेति सुविभक्तमिति तात्पर्यम्। श्रुत्यर्थमेव विवृणोति— तत्र चेति। श्रुतावित्यर्थः। दारपरिग्रहात्प्राक् पुरुषस्य कार्यकरणसंघातलक्षणस्य आत्मा स्वरूपभूतः। आत्मनैव संघातस्य कल्पितत्वात् , कल्पितस्य चाधिष्ठानात्मकत्वादिति भावः। पुरुष आत्मेति पाठे पुरि शरीरे शेत इति पुरुषः शारीर आत्मा। प्राकृतः अज्ञः। धर्मजिज्ञासेति। अधीत्य वेदवेदाङ्गानि ‘अथातो धर्मजिज्ञासा’ इति धर्मविचारं कृत्वेत्यर्थः। सोऽकामयत । प्राकृतः आत्मा तच्छब्दार्थः। किमकामयत? इत्यत आह— पुत्रं वित्तं चेति। कीदृशं तद्? अत आह— लोकत्रयसाधनमिति। यद्वा किमर्थम्? अत आह— लोकत्रयसाधनमिति। लोकत्रयसिद्ध्यर्थं लोकत्रयसाधनं पुत्रं वित्तं चाकामयतेत्यर्थः। तत्र किंलोकसाधनः पुत्रः? अत आह— मनुष्येति। वित्तं कतिविधम्? अत आह— द्विप्रकारमिति। तावेव प्रकारौ दर्शयति— मानुषं दैवं चेति। किं तन्मानुषं वित्तम्? अत आह— कर्मेति। किं तत् कर्म? इत्यत आह— अनुरूपमिति। विहितमित्यर्थः। किंलोकसाधनमिदम्? अत आह— पितृलोकेति। किं पुनर्दैवं वित्तम्? अत आह— विद्यामिति। किंलोकसाधन- मिदम्? अत आह—देवलोकेति। अत्र ‘सोऽकामयत, जाया मे स्यादि’त्यादि , ‘अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहरति— यथेति। तत्र ज्ञाननिष्ठाविषयं वाक् यं पठति— एतमेवेति। प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वेदितुमिच्छन्तस्त्रिविधेऽपि ५ कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठाः भवन्तीति ६पञ्चमलकार- स्वीकारेण संन्यासविधिं विवक्षित्वा तस्यैव विधेः शेषेण अर्थवादेन ‘किं प्रजया’ इत्यादिना मोक्षफलं ज्ञानमुक्तमित्यर्थः। ननु फलभावात् प्रजाक्षेपो नोपपद्यते, पुत्रेणैतल्लोकजयस्य वाक् यान्तरसिद्धत्वादित्याशङ्क्य , विदुषां प्रजासाध्यमनुष्यलोकस्यात्मव्यतिरेकेणाभावादात्मन- श्चासाध्यत्वादाक्षेपो युक्तिमानिति विवक्षित्वाऽऽह— येषामिति। इति ज्ञानं दर्शितमिति शेषः। तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक् यं दर्शयति— तत्रैवेति। प्राकृतत्वमतत्त्वदर्शित्वेनाज्ञत्वम्। स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्यार्थज्ञानार्थं धर्मजिज्ञासां७ कृत्वा तदुत्तरकालं लोकत्रयप्राप्तिसाधनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’ इत्यादिना कामितवानिति श्रुतमित्यर्थः। वित्तं विभजते—द्विप्रकारमिति। तदेव प्रकारद्वैरूप्यमाह—मानुषमिति। मानुषं वित्तं व्याचष्टे— कर्मरूपमिति। तस्य फलपर्यवसायित्वमाह— पितृलोकेति। दैवं वित्तं विभजते— विद्यां चेति। तस्यापि फलनिष्ठत्वमाह— देवेति। कर्मनिष्ठाविषयत्वेनोदाहृतश्रुतेस्तात्पर्यमाह— आनन्दगिरिकृतव्याख्या १. ‘तत्र च’ इति पा.। २. ‘पुरुषस्यात्मा’ इति रा.पा.। ३. ‘पुत्रं मनुष्यलोकप्राप्तिसाधनम्’ इति रा.पा.। ४. ‘कर्मानुरूपम्’ इति रा.पा.। ५. पुत्रद्विविधवित्तसाध्यम् एतल्लोकपितृलोकदेवलोकभेदेन त्रिविधं फलम्। ६. ‘प्रव्रजन्ति’ इति श्रुतिगतपदे विध्यर्थकलेट्लकारस्वीकारेणेत्यर्थः। ७. धर्मविचारमित्यर्थः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
यथैतद् विभागवचनं तथैव दर्शितं शातपथीये ब्राह्मणे— ‘एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वकर्मसंन्यासं विधाय, तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः’(बृ.उ.४.४.२२) इति। तत्रैव१ च प्राग् दारपरिग्रहात् २पुरुष आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् — पुत्रं३, द्विप्रकारं च वित्तम् - मानुषं दैवं च; तत्र मानुषं वित्तं ४कर्मरूपं पितृलोकप्राप्तिसाधनं, विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् - ज्ञानम् । तयोरेवं विरुद्धसाधनसाध्यत्वात् नैकावस्थस्यैव पुरुषस्य ते संभवत इत्यर्थः। उक्तेऽर्थे यथैतदित्यादिना भगवद्वचनस्य मूलत्वेनोदाहृतश्रुतेस्तात्पर्यं कथयति—तत्र चेत्यादिना। प्राकृत इत्यतत्त्व- वित्। गुरुकुले यथाविधानं वेदानधीत्य धर्मजिज्ञासोत्तरकालम् एतल्लोकपितृलोक(देवलोक)ब्रह्मलोकप्राप्तिसाधनं पुत्रं भाष्यार्कप्रकाशः अ.२. श्लो.११ ]
[[३८]]
अविद्येति। अज्ञस्य कामनाविशिष्टस्यैव कर्माणि ‘सोऽकामयत’ इत्यादिना दर्शितानीत्यर्थः। ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति— तेभ्य इति। कर्मसु विरक्तस्यैव संन्यासपूर्विका ज्ञाननिष्ठा प्रागुदाहृतश्रुत्या दर्शितेत्यर्थः। अवस्थाभेदेन ज्ञानकर्मणो- र्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रतिज्ञातमपबाधितमिति साधितम्। किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते? यदि ३प्रथमस्तत्राह— तदेतदिति। समुच्चयेऽभिप्रेते प्रश्नानुपपत्तिं दोषान्तरमाह— न चेति। तामेवानुपपत्तिं प्रकटयति— एकपुरुषेति। यदि समुच्चयः शास्त्रार्थो भगवता विवक्षितस्तदा ज्ञानकर्मणोरेकेन पुरुषेणानुष्ठेयत्वमेव तेनोक्तम् , अर्जुनेन च श्रुतम्। तत् कथं तदसम्भवमनुक्तमश्रुतं च मिथ्यैव श्रोता भगवत्यारोपयेत्? न च तदारोपादृते ‘किमिति मां कर्मण्येवातिक्रूरे युद्धलक्षणे नियोजयसी’ति प्रश्नोऽवकल्पते। तथा च प्रश्नालोचनया प्रष्टृप्रतिवक्त्रोः शास्त्रार्थतया समुच्चयोऽभिप्रेतो न भवतीति प्रतिभातीत्यर्थः। किञ्च समुच्चयपक्षे कर्मापेक्षया बुद्धेर्ज्यायस्त्वं भगवता पूर्वमनुक्तमर्जुनेन चाश्रुतं कथमसौ तस्मिन्नारोपयितुमर्हति? ततश्चानुवादवचनं श्रोतुरनुचितमित्याह— बुद्धेश्चेति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
देवलोकः’ इत्यादि च बृहदारण्यकमनुसन्धेयम्। व्युत्थानं व्युत्थितिः, कर्मसंन्यास इत्यर्थः। ‘श्रौतकर्मणो ज्ञानस्य च समुच्चयोऽभिप्रेतः स्याद् यदि , तदैतद् विभागवचनमनुपपन्नं स्यादि’त्यन्वयः। न चेति। यदि कर्मज्ञानयोः समुच्चयोऽभिप्रेतस्तर्हि कर्मापेक्षया ज्ञानस्य ज्यायस्त्ववचनमयुक्तम् , समुच्चितयोरेव द्वयोर्मोक्षहेतु- त्वात्। ते च समुच्चिते कर्मज्ञाने एकपुरुषेण युगपदनुष्ठेये च भवत एवेति कथं कृष्णोऽर्जुनं कर्मण्येव केवले चोदयामास निष्फले? न हि केवलाज्ज्ञानादिव केवलात् कर्मणोऽपि स्यान्मोक्षस्तव मते। अथ यदि कृष्णोऽर्जुनं समुच्चय एव प्रेरितवानित्युच्यते, तर्हि ‘तत् किं कर्मणि घोरे मां नियोजयसि केशवे’त्यर्जुनोपालम्भः कथमुपपद्येत? ‘भगवता पूर्वमनुक्तं बुद्धिकर्मणोरेकपुरुषानुष्ठेयत्वासम्भवं, बुद्धेः कर्मणो ज्यायस्त्वं च कथमर्जुनो भगवति मृषैवाध्यारोपयेदि’त्यन्वयः। ननु श्रौतेन कर्मणा ज्ञानस्य समुच्चयो माऽस्तु नाम, स्मार्तेन तु स्यात् , ‘तथा तपश्च विद्या च संयुक्तं भेषजं महद्’ इति स्मृतेः, सोऽकामयत - इत्यविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि। तेभ्यो ‘व्युत्थाय प्रव्रजन्ति’ इति व्युत्थानम् आत्मानमेव लोकमिच्छतोऽकामस्य १विहितम्। तदेतद् विभागवचनमनुपपन्नं स्यात् , यदि श्रौतकर्म- ज्ञानयोः समुच्चयोऽभिप्रेतः स्याद् भगवतः। [२. ज्ञानकर्मसमुच्चयमते अर्जुनप्रश्नानुपपत्तिः] न चार्जुनस्य प्रश्नः उपपन्नो भवति— ‘ज्यायसी चेत् कर्मणस्ते’ (भ.गी.३.१) इत्यादिः। एकपुरुषानुष्ठेयत्वा- सम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव— द्विप्रकारं च वित्तं कामितवानिति श्रूयते— ‘सोऽकामयत जाया मे स्यादि’त्यादिना। मानुषं वित्तं व्याचष्टे— कर्मानु[कर्म] रूपमिति। दैवं व्याचष्टे— विद्यां चेति। इत्थं कामनाविशिष्टस्यैव कर्माणि, कर्मसु विविक्तस्यैव[विरक्तस्यैव] संन्यासपूर्विका ज्ञाननिष्ठेति अवस्थाभेदेन ज्ञानकर्मणोर्भिन्नाधिकारित्वं तत्र श्रुतौ दर्शितमित्यर्थः। भवत्वेवम् , ततः किमित्याशङ्क्याह— तदेतदिति। एवं तावत् समुच्चयप्रतिज्ञाया विभागवचनविरोधमुपपाद्य, इदानीं २प्रश्नानुपपत्तिविरोधमाह— न चार्जुनस्येत्यादिना। १. ‘अभिहितम्’ इति पा.। २. प्रश्नानुपपत्तिरूपविरोधमित्यर्थः। ३. द्वितीयपक्षप्रतिक्षेपः ‘नापि स्मार्तेन— ’ इत्यादिग्रन्थेन भविष्यति।
[[३९]]
इतश्च समुच्चयः शास्त्रार्थो न सम्भवति, अन्यथा पञ्चमादावर्जुनस्य प्रश्नानुपपत्तेरित्याह— किञ्चेति। ननु सर्वान् प्रत्युक्तेऽपि समुच्चये, नार्जुनं प्रत्युक्तोऽसाविति तदीयप्रश्नोपपत्तिरित्याशङ्क्याह— यदीति। एतयोः कर्मतत्त्यागयोरिति यावत्। ननु कर्मापेक्षया कर्मत्यागपूर्वकस्य ज्ञानस्य प्राधान्यात् तस्य श्रेयस्त्वात् तद्विषयप्रश्नोपपत्तिरिति चेत्? नेत्याह— न हीति। तथैव समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रश्नो भवतीति शेषः। समुच्चये भगवतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते— अथेति। अज्ञाननिमित्तं प्रश्नमङ्गीकृत्यापि प्रत्याचष्टे— तथापीति। भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसम्भवादित्यर्थः। प्रश्नानुरूपत्वमेव प्रतिवचनस्य प्रकटयति— मयेति। व्यावर्त्यमंशमादर्शयति— न त्विति। प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति— पृष्टादिति। श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य, पक्षान्तरं प्रतिक्षिपति— नापीति। श्रुतिस्मृत्योर्ज्ञानकर्मणोर्विभागवचनम् , आदिशब्दगृहीतं बुद्धेर्ज्यायस्त्वं, पञ्चमादौ प्रश्नः, भगवत्प्रतिवचनम् - सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुद्धेः समुच्चये विरुद्धं स्यादित्यर्थः। द्वितीयपक्षासम्भवे हेत्वन्तरमाह— किञ्चेति। समुच्चयपक्षे प्रश्नप्रतिवचनयोरसम्भवान्नेदं गीताशास्त्रं तत्परमित्युपसंहरति— तस्मादिति। विशुद्धब्रह्मात्मज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञाननिवृत्तिफलत्वाद् , रज्ज्वादितत्त्वज्ञानवत्। अथवा - बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते , अज्ञानात्मकत्वाद् , रज्जुसर्पादिवदिति भावः। ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’(भ.गी.३.१) इति। किञ्च - यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात् , अर्जुनस्यापि स उक्त एवेति ‘यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्’(भ.गी.५.१) इति कथमुभयोरुपदेशे सत्यन्यतरविषय एव प्रश्नः स्यात्? न हि पित्तप्रशमनार्थिनो वैद्येन ‘मधुरं शीतलं च भोक्तव्यम्’ इत्युपदिष्टे, ‘तयोरन्यतरत् पित्तप्रशमनकारणं ब्रूहि’ इति प्रश्नो भवति। अथार्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् – ‘मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि’ इति; न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव— ‘द्वे निष्ठे मया पुरा प्रोक्ते’ इति वक्तुं युक्तम्। नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चयेऽभिप्रेते विभागवचनादि सर्वमुपपन्नम्। किञ्च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः ‘तत् किं कर्मणि घोरे मां नियोजयसि’(भ.गी.३.१) इत्युपालम्भोऽनुपपन्नः। तस्माद् गीताशास्त्रे
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ननु ज्ञानस्य प्राधान्यात् श्रेष्ठत्ववचनं भविष्यतीत्याशङ्क्याह— न हि पित्तेति। यथा प्रयाजादिरहितं दर्शादि न स्वर्गसाधनम् , तथा ज्ञानकर्मणोः अङ्गाङ्गिभावपक्षे न केवलं ज्ञानं पुरुषार्थसाधनमिति अन्यतरविषयप्रश्नो न स्यादित्यर्थः। अर्थापत्तेरन्यथाऽप्युपपत्तिमाशङ्क्य परिहरति— तथापीत्यादिना। ननु श्रौतस्य कर्मणो नास्ति ज्ञानेन समुच्चय इत्यनेनाभिप्रायेण द्वे निष्ठे इति उक्तम्। स्मार्तेन तु युद्धादिना भगवतोऽपि समुच्चय एवाभिप्रेत इत्याशङ्क्याह— नापि स्मार्तेनैवेति। विभागवचनम् , आदिशब्दाद् बुद्धेर्ज्यायस्त्वम् , एतत् सर्वं न मुख्यं स्यात्। श्रौतस्मार्तकर्मवाचकस्य कर्मशब्दस्य श्रौतमात्रविषयत्वे सङ्कोचप्रसङ्गाद् विकाराश्रयत्वासंभव- साम्याच्चेत्यर्थः। यस्मात् समुच्चयपक्षे प्रश्नवाक् यस्य प्रतिवचनवाक् यस्य च नार्थः सङ्गच्छते, तस्मादित्युपसंहारः। अत आह— नापीति। स्मार्तेन कर्मणाऽपि बुद्धिसमुच्चयो नाभिप्रेतः। अभिप्रेतेऽपि तस्मिन् सर्वमपि विभागवचनाद्युपपन्नं नैव स्यात्। ‘एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु’ इत्यादि विभागवचनम्। आदिशब्दाद् बुद्धेर्ज्यायस्त्ववचनादिग्रहणम्। अ.२. श्लो.११ ]
[[४०]]
ईषन्मात्रेणापीत्यस्यायं भावः— शुद्धब्रह्मज्ञानं स्वफलसिद्धौ न सेति[इति]कर्तव्यतापेक्षम् , अबोधनिवृत्तिफलत्वात् , शुक्ति- ज्ञानवत्। बन्धो वा केवलज्ञानहेयः, अज्ञानात्मकत्वात् , शुक्तिरूप्यवदिति। ननु ‘कुर्याद् विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्’ इति वक्ष्यति। अतो गीताशास्त्रे कथं समुच्चयो न दर्शयितुं शक् यः इत्याशङ्क्याह— यस्य त्वित्यादिना। ‘चोदनालक्षणोऽर्थो धर्मः’ इत्युक्तत्वाद् विधितोऽनुष्ठेयं कर्म धर्म उच्यते, न व्यापार- मात्रम्। (अ)तत्त्वदर्शिनस्तु वर्णाश्रमाभिमानरहितस्याधिकारप्रतिपत्त्यभावाद् वाङ्मनःकायानां प्रवृत्तिः पूर्वप्रवृत्तकर्म- संस्कारवशाज्जायमाना कर्माभासा एवापाततो[एव। ततो] न तद्दर्शनं समुच्चयप्रापकमित्यर्थः। ज्ञानिनो वाङ्मनःकायप्रवृत्तिः न फलाय ज्ञानेन समुच्चयार्हा, फलाभिसन्धिरहितप्रवृत्तित्वात् , २अहङ्कारविधुरप्रवृत्तित्वाद्वा, श्रीकृष्णप्रवृत्तिवदित्याह— यथा भगवत इति। नन्वसिद्धो हेतुः, तत्त्वविदोऽपि व्याख्यानभिक्षाटनादावहङ्कारदर्शनात् , तृप्त्यादिफलाभिसन्धिदर्शनाच्चे- ननु ‘कुर्याद् विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्’ इति ३वक्ष्यमाणत्वात् कथं गीताशास्त्रे समुच्चयो नास्ति? तत्राह— यस्य त्विति। ४चोदनासूत्रानुसारेण विधितोऽनुष्ठेयस्य कर्मणो धर्मत्वाद् , व्यापारमात्रस्य तथात्वाभावात् , तत्त्वविदश्च वर्णाश्रमाभिमानशून्य- स्याधिकारप्रतिपत्त्यभावाद्, यागादिप्रवृत्तीनामविद्यालेशतो जायमानानां कर्माभासत्वात् ‘कुर्याद् विद्वान्’ इत्यादिवाक् यं न समुच्चय- प्रापकमिति भावः। वाशब्दः चार्थे। ५ द्वितीयस्तु विविदिषावाक् यस्थसाधनान्तरसंग्रहार्थः। सांसारिकं ज्ञानं व्यावर्तयति— परमार्थेति। तदेवाभिनयति— एकमिति। प्रवृत्तिरूपमिति रूपग्रहणमाभासत्वप्रदर्शनार्थम्। कर्माभाससमुच्चयस्तु यादृच्छिकत्वान्न मोक्षं फलयतीति शेषः। किञ्च ज्ञानिनो यागादिप्रवृत्तिर्न ज्ञानेन ६फले समुच्चीयते, फलाभिसन्धिविकलप्रवृत्तित्वाद् , अहङ्कारविधुरप्रवृत्तित्वाद्वा, भगव- ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणाऽऽत्मज्ञानस्य समुच्चयो न केनचिद् दर्शयितुं शक्यः। [३. लोकसंग्रहार्थं ज्ञानिना क्रियमाणं कर्म कर्माभासः] यस्य त्वज्ञानाद् रागादिदोषतो वा कर्मणि प्रवृत्तस्य, यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नं परमार्थतत्त्वविषयम् – ‘एकमेवेदं सर्वं ब्रह्माकर्तृ च’ इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थं १पूर्वं यथा प्रवृत्तस्तथैव कर्मणि प्रवृत्तस्य यत् प्रवृत्तिरूपं दृश्यते, न तत् कर्म, येन बुद्धेः समुच्चयः स्यात्। यथा भगवतो आनन्दगिरिकृतव्याख्या ननु यदि कर्मज्ञानयोरेकपुरुषानुष्ठेयत्वासम्भवात् समुच्चयो नास्ति, तर्हि ‘आत्मा कर्ता भोक्ता च’ इति विपरीतज्ञानवत एव कर्मसु प्रवृत्तिः स्यात् , ‘आत्मा अकर्ता अभोक्ता च’ इति सम्यग्ज्ञानवतस्तु न स्यात् । न त्वयं नियमो दृश्यते, श्रूयते वा। जनकादीनां ज्ञानिनामपि कर्मसु प्रवृत्तिदर्शनात्। तस्मादेकस्मिन्नेव पुरुषे जनकादौ कर्मज्ञानसमुच्चयदर्शनात् कर्मज्ञानयोरेकपुरुषानुष्ठेयत्वं सम्भवत्येवेति समुच्चयादेव मोक्ष इति शङ्कायामाह— यस्य त्विति। आदौ अज्ञत्वात् कामाद्यभिभूतत्वाच्च पुरुषः कर्मसु प्रवर्तते। ततः फलाभिसन्धिरहितयज्ञादिकर्मकरणद्वारा चित्तशुद्धिस्तस्य भवति। चित्ते शुद्धे सति ज्ञानमुत्पद्यते ‘एकमिदं ब्रह्माकर्तृ च’ इति। स च ज्ञानोत्पत्त्यनन्तरमपि प्रारब्धवशाद् यथापूर्वं यज्ञादिषु प्रवर्तते, यथा जनकादिः। तस्य सा प्रवृत्तिः न कर्मेत्यर्थः। तत्र दृष्टान्तमाह— यथा भगवत इति। भगवान् कृष्णः ज्ञानी भवन् केवलाज्ज्ञानात् पुरुषार्थसिद्ध्यभावं पश्यन् तत्सिद्धये न क्षत्रधर्मचेष्टितं करोति, किन्तु १. ‘यत्र पूर्वं’, ‘तत्र पूर्वं’, ‘यत्नपूर्वं यथा प्रवृत्तिस्तथैव कर्मणि प्रवृत्तस्य’ इति च पा.। २. ‘अहं करोमि’ इति आत्मनि कर्तृत्वाभिमानः अत्र अहंकारः। तत्त्वविदः प्रवृत्तौ स नास्ति, ‘नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित्’ इति भगवदुक्तेः। ३. तत्र— विद्वान् कुर्यादिति तत्त्वज्ञानस्य कर्मणश्चोक्तत्वादिति भावः। ४. ‘चोदनालक्षणोऽर्थो धर्मः’ इति धर्मलक्षणपरं जैमिनिसूत्रमिहानुसंधेयम्। ५. ‘यज्ञेन दानेन तपसा वा’ इत्यत्र वाशब्दः चार्थः सन् ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इति वाक्योक्तवेदानुवचनसमुच्चयार्थ इत्यर्थः। ६. ‘तत्फलेन’ इति पा.।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
भाष्यार्कप्रकाशः
[[४१]]
त्याशङ्क्याह— तत्त्वविदिति। अविक्रियब्रह्मात्मतां मन्वानो विद्वान् न कांचिदपि प्रवृत्तिं फलं वा स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृधर्मत्वानुपपत्तेः। किन्तु कार्यकरणसंघातगतत्वेनैव पश्यति। ततो नासिद्धो हेतुरित्यर्थः। ननु साधकावस्थायां यादृशी प्रवृत्तिः प्रतिनियता स्नानाशनादौ, तादृश्येव सिद्धावस्थायामप्युपलभ्यते। ततः कथं कर्माभासत्वमित्याशङ्क्याह— यथा चेति। स्वर्गादिरेव काम्यत इति कामः, तदर्थिनः सामिकृते अर्धं कृते अग्निहोत्रादौ, कामे नष्टे तदेवाग्निहोत्रादि काम्यं न भवति। कामोपबन्धानुपबन्धकृतो [हि] काम्यनित्यविभागः, न स्वरूपभेदनिबन्धनः। तथा विदुषोऽपि विध्यधिकाराभावात् प्रवृत्तेः कर्माभासत्वमित्यर्थः। नैतत् स्वमनीषिकामात्रमित्याह— दर्शयति चेति। त्प्रवृत्तिवदित्याह— यथेति। हेतुद्वयस्यासिद्धिमाशङ्क्य परिहरति— तत्त्वविदिति। ‘कूटस्थं ब्रह्मैवाहम्’ इति मन्वानो विद्वान् प्रवृत्तिं तत्फलं वा नैव स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृधर्मत्वायोगात्। किन्तु कार्यकरणसंघातगतत्वेनैव प्रवृत्त्यादि प्रतिपद्यते। ततः तत्त्वविदो व्याख्यानभिक्षाटनादावहङ्कारस्य, तृप्त्यादिफलाभिसन्धेश्चाभासत्वाद् नासिद्धं हेतुद्वयमित्यर्थः। ननु ज्ञानोदयात्प्रागवस्थाया- मिवोत्तरकालेऽपि प्रतिनियतप्रवृत्त्यादिदर्शनान्न तत्त्वदर्शिनिष्ठप्रवृत्त्यादेराभासत्वमिति? तत्राह— यथा चेति। स्वर्गादिरेव काम्यमानत्वात् कामः, तदर्थिनः स्वर्गादिकामस्य, अग्निहोत्रादेरपेक्षितस्वर्गादिसाधनस्यानुष्ठानार्थम् अग्निमाधाय व्यवस्थितस्य, तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्यार्धकृते केनापि हेतुना कामे विनष्टे तदेवाग्निहोत्रादि निर्वर्तयतो न तत् काम्यं भवति, नित्यकाम्यविभागस्य स्वाभाविकत्वाभावात् , कामोपबन्धानुपबन्धकृतत्वात्। तथा विदुषोऽपि विध्यधिकाराभावाद् ५यागादिप्रवृत्तीनां कर्माभासतेत्यर्थः। विद्वत्प्रवृत्तीनां कर्माभासत्व- मित्यत्र भगवदमनुमतिमुपन्यस्यति— तथा चेति। वासुदेवस्य १क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद् विदुषः। २तत्त्ववित्तु नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते। यथा च स्वर्गादिकामार्थिनः ३अग्निहोत्रादिकाम- साधनानुष्ठानाय आहिताग्नेः काम्य एवाग्निहोत्रादौ प्रवृत्तस्य सामिकृते, विनष्टेऽपि कामे, ४तदेवाग्निहोत्रादि अनुतिष्ठतोऽपि न तत् काम्यमग्निहोत्रादि भवति। तथा च दर्शयति भगवान् ‘कुर्वन्नपि न लिप्यते’(भ.गी.५.७) ‘न करोति न लिप्यते’(भ.गी.१३.३१) इति तत्र तत्र।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आनन्दगिरिकृतव्याख्या लोकानुग्रहार्थमेव, तद्वज्जनकादयोऽपीत्यर्थः। तत्र हेतुमाह— फलेति। फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वात्। फलाभिसन्ध्यहङ्कार- पूर्वकं कर्मैव कर्म, न त्वन्यदित्यर्थः। ननु फलाभिसन्ध्यहङ्काराभावमात्रेण कर्मणः कर्मत्वं कथं व्यपैतीत्यत्राह— यथा चेति। ६स्वर्गादिकामेन काम्याग्निहोत्राद्यनुष्ठायी पुरुषः मध्ये अकस्माज्ज्ञानकामेन स्वर्गादिकामं त्यक्त्वा तदेव कर्म समापयति। तत्र च यावत्पर्यन्तं स्वर्गादिकामः तावदेव तत्कर्मणः काम्यत्वम् , न तूर्ध्वमिति कृत्वा अनुष्ठीयमानस्यापि काम्यकर्मणः कामनाशाद् यथा काम्यत्वनाशः, तथा ज्ञानिना क्रियमाणस्यापि कर्मणः फलाभिसन्ध्यहङ्काराभावात् कर्मत्वनाशः इति भावः। ‘कुर्वन्नपि न करोती’ति कथं कुर्वतः पुरुषस्याकर्तृत्वं स्यात्? विरुद्धं हीदं द्वयम्। ७अतः अहङ्कारपूर्वकत्वात् कर्तृत्वस्य तद्रहितः पुरुषः कुर्वन्नप्यकर्तैव। भाष्यार्कप्रकाशः १.‘क्षात्रधर्म’ इति पा.। २.‘तत्त्वविद्धि’ इति पा.। ३.‘अग्निहोत्रादिकाम्य’, ‘अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय’ इति च पा.। ४.आरम्भोत्तरं वीतायामपि कामना- यामारब्धमग्निहोत्रादि कर्म समापनीयमेव, परं न तस्य काम्यत्वम् , किन्तु नैमित्तिकत्वमिति पूर्वमीमांसायां (६.२.३) निरूपितम्। नित्यत्वं काम्यत्वं चैकस्यैव कर्मणः संयोगपृथक्त्वन्यायेन स्वीक्रियते। अतश्च काम्यत्वेन रूपेणारब्धस्य वीतायां कामनायां नित्यत्वं न विरुध्यते। ५. ‘वागादि’ इति पा.। ६. स्वर्गादि- कामनयेत्यर्थः। एवं ज्ञानकामेनेत्यत्रापि । ७. कुर्वतः अकर्तृत्ववचनं विरुद्धमिति शङ्कां समाधत्ते— अत इति। लोकदृष्ट्या कुर्वन्नपि स्वदृष्ट्या अकर्तैवेत्यर्थः। अ.२. श्लो.११ ]
[[४२]]
ननु विद्वत्सम्बन्धिव्यापारे कर्मशब्दप्रयोगदर्शनात् कथं कर्माभासत्वमुच्यते? इत्याशङ्क्य तस्याभिप्रायमाह— यच्च पूर्वैरित्यादिना। यस्मात् न तत्त्वदर्शनोत्तरकालं कर्म सम्भवति, तस्मादित्युपसंहारः। ननु ज्ञानप्रधानं गीताशास्त्रमेकं महावाक् यम्। तन्मध्ये श्रूयमाणं कर्म तदङ्गमेव, प्रकरणप्रमाणादित्याशङ्क्याह— यथा चायमर्थ इति। ननु विद्वद्व्यापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति, तत्राह— यच्चेति। ज्ञान- कर्मणोः समुच्चित्यैव संसिद्धिहेतुत्वे प्रतिपन्ने कुतो विभज्यार्थज्ञानमिति पृच्छति— तत् कथमिति। तत्र किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहोस्विद् अतत्त्वविदः? इति विकल्प्य प्रथमं प्रत्याह— यदीति। तत्त्ववित्त्वे कथं प्रवृत्तकर्मत्वम् , कर्मणाम- किञ्चित्करत्वाद्? इत्याशङ्क्याह—ते लोकेति। तेषामुक्तप्रयोजनार्थमपि न प्रवृत्तिर्युक्ता, २सर्वत्रोदासीनत्वाद् , इत्याशङ्क्याह—गुणा इति। इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह— ज्ञानेनेति। उक्तमेवार्थं सङ्क्षिप्य दर्शयति— कर्मेति। ‘कर्मणा’ इत्यादौ बाधितानुवृत्त्या प्रवृत्त्याभासो गृह्यते। द्वितीयमनुवदति— अथेति। तत्र वाक् यार्थं कथयति— ईश्वरेति। विभज्य विज्ञेयत्वं वाक् यार्थस्योक्तमुपसंहरति— इति व्याख्येयमिति। कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक् यशेषं प्रमाणयति— एतमेवेति। ‘योगिनः कर्म कुर्वन्ति’ इत्यादिवाक् यमर्थतोऽनुवदति— सत्त्वेति। ‘स्वकर्मणा’ इत्यादौ साक्षादेव मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्याशङ्क्याह— स्वकर्मणेति। स्वकर्मानुष्ठानाद् ईश्वरप्रसादद्वारा ज्ञाननिष्ठायोग्यता लभ्यते। ततो ज्ञाननिष्ठया मुक्तिः। तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः। तत्त्वज्ञानोत्तरकालं कर्मासम्भवे फलितमुपसंहरति— तस्मादिति। ननु यद्यपि गीताशास्त्रं तत्त्वज्ञानप्रधानमेकं वाक् यम् , तथापि तन्मध्ये श्रूयमाणं कर्म तदङ्गमङ्गीकर्तव्यम् , प्रकरणप्रामाण्यादिति समुच्चयसिद्धिः, तत्राह— यथा चेति। अर्थशब्देनात्मज्ञानमेव केवलं कैवल्यहेतुरिति गृह्यते। यच्च ‘पूर्वैः पूर्वतरं कृतम्’(भ.गी.४.१५) , ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’(भ.गी.३.२०) इति, तत्तु प्रविभज्य विज्ञेयम्। तत् कथम्? यदि तावत् पूर्वे जनकादयस्तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसंग्रहार्थं ‘गुणा गुणेषु वर्तन्ते’(भ.गी.३.२८) इति, ज्ञानेनैव संसिद्धिमास्थिताः। कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव१ संसिद्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्येषोऽर्थः। अथ न ते तत्त्वविदः - ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिं ज्ञानोत्पत्तिलक्षणां वा संसिद्धिमास्थिताः जनकादयः इति व्याख्येयम्। एतमेवार्थं वक्ष्यति भगवान् — ‘सत्त्वशुद्धये कर्म कुर्वन्ति’ (द्र.भ.गी.५.११) इति। ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’(भ.गी.१८.४६) इत्युक्त्वा सिद्धिं प्राप्तस्य च पुनर्ज्ञाननिष्ठां वक्ष्यति— ‘सिद्धिं प्राप्तो यथा ब्रह्म’(भ.गी.१८.५०) इत्यादिना। तस्माद् गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः, न कर्मसमुच्चितादिति निश्चितोऽर्थः। यथा चायमर्थः तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आनन्दगिरिकृतव्याख्या १. अनेनास्मिन् पक्षे ‘कर्मणैव हि संसिद्धि’मिति श्लोके कर्मणेति सहार्थयोगे तृतीया, न तु कारकतृतीयेति सूचितम्। २. ‘सर्वत्राप्युदासीनत्वाद्’ इति पा.। त इति। ते जनकादयः लोकसंग्रहार्थं ‘गुणा गुणेषु वर्तन्ते’ इति ज्ञानेन कर्मसु प्रवृत्ता इति शेषः। ‘कर्मणैव ही’ति श्लोकगतस्य ‘संसिद्धिमास्थिताः’ इति वाक् यस्यार्थमाह— कर्मेति। अकर्त्रभोक्त्रात्मज्ञानात् कर्मसंन्यासे प्राप्तेऽपीत्यर्थः। अत्रेदं बोध्यम्— प्रवृत्तिमार्गे वर्तमाना अपि जनकादयः वेदान्तश्रवणादिना परमार्थात्मतत्त्वज्ञानं सम्पाद्य निवृत्तिमार्गभूत- संन्यासाश्रमस्वीकारं विनैव, निरहङ्कारं कर्म कुर्वन्त एव ज्ञानान्मुक्तिं भेजिरे। निवृत्तिमार्गे वर्तमानास्तु सनकादयः संन्यासाश्रम- भाष्यार्कप्रकाशः
[[४३]]
इदानीम् ‘अशोच्यान्’ इत्यारभ्य ‘स्वधर्ममपि चावेक्ष्य’ इत्येतदन्तस्य प्रकरणस्य तात्पर्यमाह— तत्रेत्यादिना। न वृत्तिकृतामभिप्रायं प्रत्याख्याय स्वाभिप्रेतः शास्त्रार्थः समर्थितः। सम्प्रति ‘अशोच्यानि’त्यस्मात् प्राक्तनग्रन्थसन्दर्भस्य प्रागुक्तं तात्पर्यार्थमनूद्य ‘अशोच्यानि’त्यादेः ‘स्वधर्ममपि चावेक्ष्ये’त्येतदन्तस्य समुदायस्य तात्पर्यमाह— तत्रेति। अत्र हि शास्त्रे त्रीणि काण्डानि, अष्टादशसंख्याकानामध्यायानां षट्कत्रितयमुपादाय त्रैविध्यात्। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति, मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति, अन्तिमषट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक् यं वाक् यार्थमधिकरोति। तज्ज्ञानसाधनानि च तत्र तत्र प्रसङ्गादुपन्यस्यन्ते, तज्ज्ञानस्य तदधीनत्वात्। तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम्। एवं पूर्वोक्तरीत्या गीताशास्त्रार्थे परिनिश्चिते सतीति यावत्। धर्मे सम्मूढं कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य मिथ्याज्ञानवतोऽहङ्कारममकारवतः शोकाख्यसागरे २दुरुत्तारे प्रविश्य क्लिश्यतः, ब्रह्मात्मैक् यलक्षणवाक् यार्थज्ञानमात्मज्ञानम् , तदतिरेकेणोद्धरणासिद्धेः, तमतिभक्तमतिस्निग्धं शोकादुद्धर्तुमिच्छन् भगवान् यथोक्तज्ञानार्थं तमर्जुनम् अवतारयन् पदार्थपरिशोधने प्रवर्तयन् आदौ त्वम्पदार्थं शोधयितुम् ‘अशोच्यान्’ इत्यादि वाक् यमाह इति योजना। यस्याज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक् यादुदेतीति ज्ञानाधिकारिणमभिप्रेत्याह— अशोच्यानित्यादीति। यत्तु कैश्चित् ‘आत्मा वा अरे द्रष्टव्यः’ इत्याद्यात्मयाथात्म्यदर्शनविधिवाक् यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् , ३कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया वा, ४पराभिमतनियोगस्य वा विध्यर्थस्यात्राप्रतीयमानस्य कल्पनाहेत्वभावात्। न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे विधिरुपपद्यते। ५कृत्यान्तर्भूतश्चार्हार्थत्वात् तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे— न शोच्या इति। कथं तेषामशोच्यत्वमित्युक्ते ६भीष्मादिशब्दवाच्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वा? इति विकल्प्याऽऽद्यं तत्रैवं धर्मसम्मूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्यार्जुनस्यान्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान् वासुदेवः ततः कृपयाऽर्जुनमुद्दिधीर्षुः१ आत्मज्ञानायावतारयन्नाह—अशोच्यानित्यादि। न शोच्या अशोच्याः
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आनन्दगिरिकृतव्याख्या १. ‘उद्दिधारयिषुः’ इति पा.। २. ‘दुरुत्तरे’ इति पा.। ३. कृतिसाध्यत्वसमानाधिकरणेष्टसाधनत्वस्येत्यर्थः। ४. प्राभाकराभिमतकार्यस्येत्यर्थः। ५. दर्शनविधेरनुप- पन्नत्वे ‘द्रष्टव्यः’ इति तव्यप्रयोगानुपपत्तिमाशङ्क्याह— कृत्येति। कृत्यसंज्ञकप्रत्ययान्तर्गत इति यावत्। ‘अर्हे कृत्यतृचश्च’ इति सूत्रेण तस्यार्हार्थत्वबोधनात्। ‘कृत्यान्तर्भूतस्य’ इति पा.। ६.भीष्मादिशब्दवाच्याः तत्तच्छरीरविशिष्टाः, भीष्मादिशब्दलक्ष्यास्तु तत्तच्छरीरोपलक्षिताः आत्मानः। ७.‘च्छायतया’ इति परग्रन्थे। स्वीकाराद् वेदान्तश्रवणादिना आत्मतत्त्वज्ञानं सम्पाद्य कर्माण्यकुर्वन्त एव ज्ञानान्मुक्तिं भेजिरे इति॥
तत इति। शोकसागरादित्यर्थः। अशोच्यानित्यादिनेति। अत्र रामानुजः— ‘न त्वेवाहमित्यादिने’त्युक्त्वा ‘अशोच्या’निति श्लोकं गीताशास्त्रात् पृथक् चकार। तन्मन्दम् ; न ते भीष्मादयः शोच्याः, परमार्थस्वरूपेण तेषां नित्यत्वात् ; न हि पण्डिता मृतान् जीवतश्च प्रति शोचन्ति; त्वं च पण्डितोऽसि; अतो मा शुचः इति हितशासनपरस्यास्य श्लोकस्य शास्त्रान्तःपातित्वौचित्यात्। यच्च वेदान्तदेशिकेनोक्तम्—‘अशोच्या’निति श्लोकस्योपदेशार्थावधानापादनार्थपरिहासभावतया७ शास्त्रावतरणमात्रत्वेन साक्षाच्छास्त्रत्वाभाव इति, तत् तुच्छम् ; महति शोकसागरे निमग्ने स्वचरणं शरणं प्रपन्ने पार्थे भगवतः कृष्णस्य परिहासभावोदयासाङ्गत्यात्। भाष्यार्कप्रकाशः अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥११॥
अ.२. श्लो.११ ]
[[४४]]
शोच्या इति। अरूप्ये (यदा) रूप्यदर्शी यथा भ्रान्तः, तथा अशोच्यांस्त्वं शोचितवानसि, ततो भ्रान्तोऽसि। ततो यथास्वरूपावधारणेन भ्रमं परित्यजेत्यर्थः। किञ्च विरुद्धार्थाभिधायित्वादपि भ्रान्तोऽसीत्याह— त्वं प्रज्ञावतामिति। शोचित्वादपि [शोकित्वादपि] त्वं भ्रान्तोऽसीत्याह— यस्माद् गतासूनित्यादिना॥११॥
दूषयति— सद्वृत्तत्वादिति। ये भीष्मादिशब्दैरुच्यन्ते ते श्रुतिस्मृत्युदीरिताविगीताचारवत्त्वान्न शोच्यतामश्नुवीरन्नित्यर्थः। द्वितीयं प्रत्याह— परमार्थेति। अरजते रजतबुद्धिवद् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽसीत्याह— तानिति। अनुशोचनप्रकारमभिनयन् भ्रान्तिमेव प्रकटयति— ते म्रियन्त इति। २पुत्रभार्यादिप्रयुक्तं सुखमादिशब्देन गृह्यते। इति अनुशोचितवानसीति सम्बन्धः। विरुद्धार्थाभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति— त्वं प्रज्ञावतामिति। वचनानि ‘उत्सन्नकुलधर्माणाम्’ इत्यादीनि। किमेतावता फलितमिति? तदाह— तदेतदिति। तत् मौड्यम् अशोच्येषु शोच्यदृष्टित्वम् , एतत् पाण्डित्यं बुद्धिमतां वचनभाषित्वमिति यावत्। अर्जुनस्य पूर्वोक्तभ्रान्तिभाक्त्वे निमित्तम् आत्माज्ञानमित्याह— यस्मादिति। ननु सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यम् , न त्वात्मज्ञत्वम् , हेत्वभावादित्याशङ्क्याह— ते हीति। पाण्डित्यं पण्डितभावमात्मज्ञानं निर्विद्य निश्चयेन लब्ध्वा बाल्येन तिष्ठासेद् इति बृहदारण्यकश्रुतिमुक्तार्थामुदाहरति— पाण्डित्यमिति। यथोक्तपाण्डित्यराहित्यं कथं ममावगतम्? इत्याशङ्क्य कार्यदर्शनादित्याह— परमार्थतस्त्विति। यस्मादित्यस्यापेक्षितं भीष्मद्रोणादयः, सद्वृत्तत्वात् , परमार्थस्वरूपेण च नित्यत्वात्। तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि - ‘ते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना?’ इति। त्वं प्रज्ञावादान्१ प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे। तदेतद् मौड्यं पाण्डित्यं च विरुद्धमात्मनि दर्शयसि उन्मत्त इवेत्यभिप्रायः। यस्माद् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणाञ्जीवतश्च नानुशोचन्ति पण्डिताः आत्मज्ञाः। पण्डाऽऽत्मविषया बुद्धिर्येषां ते हि पण्डिताः। ‘पाण्डित्यं निर्विद्य’(बृ.उ.३.५.१) इति श्रुतेः। परमार्थतस्तु तान् नित्यान् अशोच्यान्
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आनन्दगिरिकृतव्याख्या १. ‘प्रज्ञावादान्’ इति क्वचिन्नास्ति। २. भाष्ये राज्यसुखं - तत्प्रयुक्तं सुखम्। आदिशब्दार्थमाह— पुत्रेति। ३. ‘तमुवाच…इदं वचः’ इति श्लोके इदंशब्दार्थः इत्यर्थः। भाष्यार्कप्रकाशः यदप्युक्तमनेन— यद्वाऽत्र ‘अशोच्या’निति श्लोकः ‘प्रहसन्निव’ इत्यस्य विषयः। ‘न त्वेवाहम्’ इत्यादिकं तु इदंशब्दार्थः३ इति, तदपि तुच्छम् ; इदंशब्दस्यात्रानुपदवक्ष्यमाणे शक्ततया तदनुपदोक्तस्य ‘अशोच्या’निति श्लोकस्य इदंपदार्थत्वाभावकल्पनाया अप्रमाणत्वात् , ‘अशोच्या’निति श्लोकस्य प्रहसन्नित्यनेनान्वयासम्भवात् , इतिशब्दमध्याहृत्य ‘अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति प्रहसन्निव’ इत्यन्वये समाप्तपुनरादानदोषात् , इतिशब्दाध्याहारगौरवाच्च, ‘गतासू’निति पदार्थस्य [उत्तरार्धस्य] परिहास- वाक् यत्वासम्भवेन शास्त्रप्रवेशासम्भवेन च व्यर्थत्वप्रसङ्गात् , ‘परिहासवाक् यं वदन्निव’ इति इवशब्देन - ‘न तु वस्तुतः परिहासवाक्यं जगाद’ इति सिद्धत्वेन, ‘अशोच्या’निति श्लोकस्य भगवदुक्तत्वा[त्व]सम्भवाच्च। तस्माद् गीताशास्त्रस्य ‘अशोच्या’निति श्लोक एवादिः। अशोच्यत्वे हेतुद्वयमाह— सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वादिति। असच्चरितान् पुत्रादीनुद्दिश्य पित्रादयः शोचन्ति —भ्रष्टा एत इति। भीष्मद्रोणादयस्तु सद्वृत्तत्वान्न ते शोच्याः। अनित्यास्तु गृहसम्पदादयः शोच्याः, न तु नित्या आत्मानो भीष्मादय इत्यर्थः। शोकप्रकारमाह— मन्निमित्तमित्यादिना। मन्निमित्तं मदर्थम्। प्रज्ञावादानित्यत्र प्रज्ञाशब्दो लक्षणया प्रज्ञावतः प्राज्ञानभिधत्त इत्याह— प्रज्ञावतामिति। ‘श्रेयो भोक्तुं भैक्ष्यमपीह लोके’ इत्यादीनि वचनानीत्यर्थः। येषां देहतदिन्द्रियादिसंघाताभिमानिनां देवदत्तादीनां प्राणाः देहादुत्क्रान्तास्ते गतासवः इत्युच्यन्ते। फलितार्थमाह— मृतानिति। गतासवो न भवन्तीत्यगतासवः, नञ्तत्पुरुषः। गतासुभिन्ना इत्यर्थः, तान्। फलितमाह— जीवत इति। न च - मृतानां शोच्यत्वमस्तु नाम , कथं जीवतामिति - वाच्यम् , जीवन्तोऽपि पुत्रादयः दुर्वृत्ताः सामयाश्च शोच्या एवेति। ननु पण्डिता अपि तार्किकादयः शोचन्त्येव मृतं स्वजनं प्रतीत्यत
[[४५]]
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्॥१२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
भीष्मादयोऽपि शोच्या एव, सेवकत्वात् , भृत्यान्तरवदित्याह— कुतस्तेऽशोच्या इति। तेषां देहस्य सेवकत्वेऽपि नात्मा सेवक इत्याह— यतो नित्या इति। नित्यत्वे किं नु प्रमाणमित्याह— कथमिति। आत्मा न जायते, प्रागभाव- शून्यत्वात् , नरविषाणवदिति पूर्वार्धस्यार्थः। आत्मा नित्यः, २अजभावत्वात् , यो नित्यो न भवति नासावजभावः, यथा घट दर्शयति— अत इति॥११॥
नित्यत्वमशोच्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते— कुत इत्यादिना। नित्यत्वमसिद्धम् , प्रमाणा- भावादिति चोदयति— कथमिति। आत्मा न जायते, प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति— न त्वेवेति। किञ्चात्मा नित्यः, भावत्वे सत्यजातत्वात् , व्यतिरेके घटवदित्यनुमानान्तरमाह— न चैवेति। यत्तु कैश्चिद् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेनेत्यादिष्टम् ; तदसत् , विशेषवचने हेत्वभावात् , सर्वत्रैवात्मयाथात्म्यप्रतिपादनाविशेषादित्याशयेन - पदच्छेदः, पदार्थोक्तिः, वाक् ययोजना - इति त्रितयमपि व्याख्यानाङ्गं प्रतिपादयति— न त्वित्यादिना। नन्वात्मनो देहोत्पत्तिविनाशयोः अनुशोचसि, अतो मूढोऽसीत्यभिप्रायः१॥११॥
कुतस्तेऽशोच्याः? यतो नित्याः। कथम्?— न त्विति। न त्वेव जातु कदाचिद् अहं नासम् , किं त्वासमेव।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आह— पण्डा आत्मज्ञानमिति। आत्मज्ञानिन एव पण्डिताः, न तु तार्किकादय इत्यर्थः। तत्र श्रुतिं प्रमाणयति— पाण्डित्यं निर्विद्येति। आत्मज्ञानं सम्पाद्येत्यर्थः। त्वं त्वपण्डित एव, शोकित्वादित्याह— परमार्थतस्त्विति। परमार्थतः आत्मस्वरूपेणेत्यर्थः। इत्येतदिति। इति यावदित्यर्थः। ‘इत्यभिप्रायः’ इति पाठान्तरम्। अत्र ‘गतासून् देहान् अगतासूनात्मनश्च’ इति रामानुज आह। तत्तुच्छम् ; मृतदेहानां गतासुत्वेऽप्यमृतदेहानामगतासुत्वेन अगतासुशब्दाज्जीवद्देहार्था३लाभात् , गतास्वगतासुशब्दयोर्लोके मृतजीवतोरेव शक्तिग्रहदर्शनात्। ‘भोः सखे ! त्वद्ग्रामे अस्मत्सम्ब- न्धिनौ देवदत्तयज्ञदत्तौ किं सुखमासाते?’ इति विष्णुमित्रेण पृष्टः कृष्णशर्मा, तं प्रति ‘देवदत्तो गतासुर्यज्ञदत्तस्त्वगतासु’रिति प्रत्युवाच। किं तत्र देवदत्तो देहो गतासुः, यज्ञदत्तो जीवस्त्वगतासुरिति स श्रोता प्रत्येति स्म? अपि तु ‘देवदत्तो मृतः, यज्ञदत्तो जीवति’ इति जानाति स्म। अपि च देहवद् असवोऽपि कोशत्वेनात्मनः उपाधिभूता एवेति कृत्वा परमार्थत आत्मानो निष्कोशत्वेन गतासव एवेति कथम् आत्मनामगतासुत्वम्? किञ्च सच्चिदानन्दरूपमप्यात्मानं ये अन्नमयकोशावच्छिन्नत्वेन मनुष्यं वृद्धं जीर्णं कृशं, प्राणमयकोशाव- च्छिन्नत्वेन क्षुधितं पिपासितं च मन्वते, ते अज्ञा अतीव शोच्या एवेति कृत्वा कथमगतासूनामात्मनामशोच्यत्वम्? अपि च पण्डिताः गतासून् देहान्प्रति न शोचन्तीत्युक्ते, अपण्डितानां तान् प्रति शोको भवतीति सिद्धम् , न तु तद् दृश्यते। न ह्यपण्डिता अपि गतासुदेहान् प्रति शोचन्ति। ‘देहो दग्धः, देहः श्वभिर्भक्षितः’ इति न हि कोऽपि शोचति। किन्तु ‘देही पुत्रो मृतः’ इत्येव शोचति सर्वोऽपि। तस्माद् दुष्टो रामानुजोक्तार्थः॥११॥
‘न त्वेवाहम्’ इति श्लोकमवतारयति— कुत इति। कुतस्ते अशोच्याः? इति प्रश्नः। यतस्ते नित्याः, ततस्ते अशोच्याः इत्युत्तरम्। कथं ते नित्याः? इति पुनः प्रश्नः। तत्रोत्तरमाह— नेति श्लोकेन। यदि भीष्मादयः नित्यास्तर्हि अशोच्या एव, न तु नित्याः, १. ‘मूढोऽसीत्येतत्’ इति रा.पा.। २. अजन्यत्वे सति भावत्वादित्यर्थः। प्रागभावे व्यभिचारवारणाय भावत्वम्। ३. ‘जीवद्देहार्थलाभात्’ इति पाठः स्यात्। अ.२. श्लो.११-१२ ]
[[४६]]
[आनन्दगिरिकृतव्याख्या]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
इत्युत्तरार्धस्यार्थः। ‘रूपं रूपं प्रतिरूपो बभूव’ इति च श्रुतेः १देहोपादानाविद्याभेदे प्रतिबिम्बिततया तद्भेदानुवर्तनाद् बहुवचनमित्यर्थः॥१२॥
उत्पत्तिविनाशप्रसिद्धेः उक्तमनुमानद्वयं प्रसिद्धिविरुद्धतया कालात्ययापदिष्टमिति? नेत्याह— अतीतेष्विति। ‘चराचरव्यपाश्रयस्तु स्यात्’ इति न्यायेनात्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्मविनाशविषयत्वात् निरुपाधिकस्य तस्य जन्मादिराहित्यमिति भावः। यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं ममेत्याशङ्क्याह— तथेति। तथापि भीष्मादीनां कथं जन्माभावः? तत्राह— तथा नेम इति। द्वितीयमनुमानं प्रपञ्चयन्नुत्तरार्धं व्याचष्टे— तथेत्यादिना। ननु देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेऽपि महासर्गमहाप्रलययोः तस्याग्निविस्फुलिङ्ग दृष्टान्तश्रुत्या जन्मविनाशावेष्टव्यावित्याशङ्क्य ‘नात्माऽश्रुतेः’ इति न्यायेन परिहरति२— त्रिष्वपीति। ‘यावद्विकारं तु विभागो लोकवत्’ इति न्यायेन भिन्नत्वाद् विकारित्वमात्मनामनुमीयते, भिन्नत्वं च बहुवचनप्रयोगप्रमितमित्याशङ्क्याह३— देहेति॥१२॥
अतीतेषु देहोत्पत्तिविनाशेषु , घटादिषु वियदिव, नित्य एवाहमासमित्यभिप्रायः। तथा न त्वं नासीः, किं त्वासीरेव। तथा नेमे जनाधिपाः नासन् , किन्तु आसन्नेव। तथा न चैव न भविष्यामः, किन्तु भविष्याम एव सर्वे वयम् अतः अस्माद् देहविनाशात् परम् उत्तरकालेऽपि। त्रिष्वपि कालेषु नित्याः आत्मस्वरूपेणेत्यर्थः। देहभेदानुवृत्त्या बहुवचनम् , नात्मभेदाभिप्रायेण ॥१२॥
म्रियमाणत्वात् , ततश्चानित्यान् तान् प्रत्यहं शोचामीत्याशङ्कायामाह भगवान् -‘न त्वेवाहम्’ इति श्लोकम् - इत्यवतारिकायाः आशयः। अहं जातु तु कदाचिदपि नैव नासमित्यन्वयः। सम्भाव्यनिषेधनिवर्तनार्थौ द्वौ नञौ। अहमिदानीमेव वर्ते, प्राक्तु कदाचिदपि नासमिति सम्भाव्यस्य निषेधस्य हि निवृत्तिरत्र कृता— नैव नासमिति। अस्यार्थमाह— किं त्वासमेवेति। देहानामुत्पत्तयो विनाशाश्च देहोत्पत्ति- विनाशाः, तेषु। अतीतकाले अनन्तेषु देहेषु जातेषु नष्टेषु च नाऽऽत्मा जातो नष्टः४, किन्तु नित्य एवेत्यर्थः। नन्वात्मनः एकत्वाद् ‘वयम्’ इत्युक्तिर्न सङ्गच्छत इत्यत्राह— देहभेदेति। उपाधीनां देहानां बहुत्वाद् वयमिति बहुवचननिर्देशः, न त्वात्मबहुत्वादित्यर्थः। युक्तं चेदम् ; वासुदेवत्वार्जुनत्वजनाधिपत्वानां देहधर्मत्वेनात्मधर्मत्वाभावात्। अवच्छेदकानां घटमठकरकादीनां भेदेन ‘घटाकाशो मठाकाशः करकाकाशः’ इत्यादिभेदव्यवहारे सत्यपि यद्वदाकाशस्यैकत्वम् , तद्वदवच्छेदकानां देहाद्युपाधीनां भेदेन ‘वासुदेवोऽर्जुनो नराधिपाश्चे’ति भेदव्यवहारे सत्यप्यात्मन एकत्वमेवेति भावः। अत्राह रामानुजः— ‘अहं सर्वेश्वरस्तावन्नित्य इति सिद्ध’मिति; तत्तुच्छम् ; न ह्यर्जुनः कृष्णं सर्वेश्वरं नित्यमात्मानं मन्यते। ‘अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥’ [इति] वक्ष्यति ह्यर्जुनः। किञ्च यथा कुन्त्या जाते आत्मनि अर्जुनस्यानित्यत्वबुद्धिः, तथा देवक्या जातेऽपि कृष्णे अनित्यत्वबुद्धिरेव भवति, स्वस्मिन्निव कृष्णेऽपि जन्मबाल्यकौमारा- दिधर्मदर्शनात्। नापि कृष्णस्यास्मिन् श्लोके आत्मानं सर्वेश्वरं प्रथयितुमस्ति तात्पर्यम् , प्रकृतासाङ्गत्यात् ; परन्तु आत्मानं नित्यं प्रथयितुमेव। नित्यत्वप्रथनाय च नेश्वरत्वमावश्यकम् , भवन्मते प्रकृतिपुरुषेश्वराणां त्रयाणां नित्यत्वेन नित्यत्वेश्वरत्वयोरसम- नियतत्वात्। किञ्च अहंशब्दस्य वक्तरि केवले शक्तिः, न त्वीश्वरत्वादिविशेषणविशिष्टे इति सर्वेश्वरत्ववचनमत्रासङ्गतम् , कवितात्पर्या- विषयं च। तथा— ‘यथाऽहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथा भवन्तः क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्याः’ भाष्यार्कप्रकाशः १. एतद्ग्रन्थकारमते मायाप्रदेशरूपाविद्याभेदात् तदुपाधिकजीवभेदः इति प्रकारान्तरेण भाष्यं योजयति— देहेति। तथा च भाष्ये देहपदं लक्षणया देहोपादाना- विद्यापरमिति भावः। द्र. प्रकटार्थः पृ. ५। २. उक्तश्रुतौ श्रुतं जन्मौपाधिकमिति भावः। द्र.ब्र.सू. २-३-१७। ३. तथा चौपाधिकत्वात् तद्भेदस्य धर्मिसमसत्ताक- भेदवत्त्वस्य विवक्षितहेतोरसिद्ध्या नात्मनो विकारित्वानुमानमिति भावः। ४. देहेषु जातेषु आत्मा न जातो, देहेषु नष्टेषु च आत्मा न नष्टः इत्यन्वयः।
[[४७]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
इत्यप्युक्तं रामानुजेन। तच्चासत् , श्लोके ‘न त्वेवाहं जातु नासम्’ इत्ययमंशो दृष्टान्तः, अतिरिक्तस्तु दार्ष्टान्तिक इति विभागकल्पनस्या- प्रमाणत्वात् , दृष्टान्तवाचियथाशब्दाभावात् , अर्जुनस्य कृष्णे नित्यत्वनिश्चयाभावेन ‘न त्वेवाहं जातु नासम्’ इत्यस्य दृष्टान्तत्वा- सम्भवाच्च। किञ्च - आस्तिकोऽयमर्जुनः ईश्वरः कश्चन नित्योऽस्तीति मन्यतां नाम; कृष्णं त्वीश्वरं नित्यं नैव मन्यते। अन्यथा सारथ्यादिषु कृष्णनियमनासम्भवात्। अपिच यदि रामानुजोक्तार्थे कृष्णस्य तात्पर्यं स्यात् , तर्हि ‘ईश्वरोऽहं यथा नित्यो जीवा यूयं तथैव हि’ इत्येव ब्रूयात् , न तु ‘न त्वेवाहम्’ इत्यादि। किञ्च - ईश्वरः परमात्मा, जीवास्त्वात्मान इत्यपि वक्तुं न शक् यते; ‘य आत्मा अपहतपाप्मा’ ‘सर्वव्यापी सर्वभूतान्तरात्मा’ ‘ऐतदात्म्यमिदं सर्वं….स आत्मा तत्त्वमसि’ ‘अयमात्मा ब्रह्म’ इत्यादिषु श्रुतिषु आत्मशब्देनैवेश्वरग्रहणात्। जीवेश्वरयोरभेदोपदेशाच्च। अथ यच्चात्र रामानुजेनोक्तम्— ‘एवं भगवतः सर्वेश्वरादात्मनां [भेदः, आत्मनां] च परस्परं भेदः पारमार्थिक इति भगवतैवोक्तमिति प्रतीयते, अज्ञानमोहितं प्रति तन्निवृत्तये पारमार्थिकनित्यत्वोपदेशसमये ‘अहम् , त्वम् , इमे, सर्वे वयम्’ इति व्यपदेशात्। औपाधिकभेदवादे ह्यात्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न सङ्गच्छते’ इति; तच्चासत् ; भीष्मादीन् अनित्यत्वेन शोच्यान् मन्यमानायार्जुनाय तावत् ‘न ते भीष्मादयः शोच्याः, नित्यत्वादि’त्येतावदेव तावदुपदेष्टुमुचितं कृष्णस्य, न त्वात्मैकत्वम्। तद्धि कृष्णः स्वयं पश्चादुपदेक्ष्यति— ‘अविनाशि तु तद् विद्धि येन सर्वमिदं ततम्’ इत्यादिना। वक्ष्यति च तत्र रामानुजो गत्यभावाज्जात्येकत्वमपि। यदि कृष्णस्यात्मभेद एव वास्तवः इत्यभिप्रायस्तर्हि - ‘अनाशिनस्तु तान् विद्धि यैः सर्वमिदमावृतम्’ इत्येवावक्ष्यत्। किंच आत्मनामनेकत्वे तत्तद्देहावच्छिन्नत्वेन सर्वव्यापकत्वमेव मा भूत् ; न हि चैत्रेणात्मना मैत्रदेहो व्याप्तो दृश्यते, चैत्रात्मनो मैत्रदेहसुखदुःखाद्यनुभवाभावात्। तत्तद्देहाद्यनवच्छिन्नस्त्वात्मा सर्वव्यापक एक एव, तद्भेदकाभावात्। यदि तु ‘अविनाशि’ इति श्लोकः परमात्मानं ब्रूत इत्युच्येत, तर्हि - सर्वव्यापकः परमात्मैवाविनाशी, न त्वात्मानः; ते हि परिच्छिन्नत्वाद् घटादिवदनित्या एवेति महदिदमनिष्टमापतितम्। तस्माद् ‘न त्वेवाहम्’ इति श्लोके आत्मभेदम् , ‘अविनाशी’ति श्लोके आत्माभेदं च प्रतिपादयतः कृष्णस्याशयः ‘आत्मन औपाधिक एव भेदः, न तु तात्त्विकः’ इत्येवंरूप एवेति सुखेन निश्चीयते विद्वद्भिः। तत्त्वोपदेशसमयेऽप्यौपाधिकं भेदमनूद्यैव पारमार्थिकाभेदो बोधनीयः इति नानुवादमात्रेण भेदस्य पारमार्थिकत्वम्।‘कृष्ण इति अर्जुन इति नराधिपा इति च व्यवह्रियमाणाः सर्वे वयम् अविनाशि तद् ब्रह्मैव, येन सर्वमिदं तत’मिति हि श्लोकद्वयस्यैकवाक्यार्थः। तस्मात् सर्वव्यापकस्य नित्यस्यात्मनो भेदकाभावान्नास्ति पारमार्थिकः आत्मभेदः, भेदकानां सर्वेषामप्यात्मनैव व्याप्तत्वात्। व्यवहारतस्तु कल्पितोऽस्त्यात्मभेद आकाशभेदवदिति। अथ यदप्युक्तं रामानुजेन— शङ्करमते ग्रन्थारम्भ एव न सम्भवति; परमपुरुषस्य परमार्थदृष्टेर्निर्विशेषकूटस्थनित्यचैतन्यात्म- याथात्म्यसाक्षात्कारान्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश्च न सङ्गच्छन्त इति; तदपि मन्दम् ; तव मतेऽप्यवाप्तसमस्तकामस्य परिपूर्णस्यात्मारामस्यानन्दमयस्य परमपुरुषस्य कथमर्जुनदुःखनिरीक्षणतदुपदेशादिव्यवहाराः सङ्गच्छेरन्? लीलयेति चेत्? तर्हि माययेति विद्धि। यथा मायावशादजोऽव्ययो भूतानामीश्वरो भगवान् जात इव, व्ययित इव, उग्रसेनस्य पाल्य इव प्रतीयते, तथा पार्थाय किमप्युपदिशन्निव न प्रतीयतां किम्? परमार्थतस्तु न कृष्णो न पार्थः नाप्युपदेशः; एकमेवाद्वितीयं ब्रह्मास्ति। व्यवहारतस्तु सर्वमपि द्वैतमिति न काचिदस्माकं क्षतिः। अथ ब्रूहि त्वम् - परिपूर्णे निष्कामे हरौ कथं लीलोदयः? - इत्यत्रोत्तरम्। न च बालवदिति वाच्यम् , बालस्याज्ञत्वात् सकामत्वाच्च दृष्टान्तत्वाभावात्। न च राज्ञः कन्दुकविहारवदिति वाच्यम् , तस्य तत्र सुखकामप्रवृत्तिदर्शनात्। न च लोकानुग्रहार्थमिति वाच्यम् , लोकानुग्रहरूपे प्रयोजने अवशिष्टे सति भगवतः पूर्णकामत्वव्याघातात्। तस्मात् तवापि मायैवात्र शरणम्। न च माययाऽपि कथमसङ्गतार्थसिद्धिरिति वाच्यम् , ‘मायायां सर्वसम्भवाद्’ इति न्यायात्। अ.२. श्लो.१२ ]
[[४८]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
ननु परमपुरुषस्यार्जुनं प्रत्युपदेशो मायया भवतु नाम , इदानीन्तनाचार्यपरम्परायाः शिष्यपरम्परां प्रत्युपदेशः कथम्? द्वैतदर्शने विद्वत्ताऽभावाद् , द्वैतादर्शने वाग्व्यवहाराभावाच्चेति चेत्? मैवम् ; अपरोक्षीकृतात्मतत्त्वस्यापि गुरोर्यावद्देहपातं बाधिताध्या- सानुवृत्त्या व्यवहारलोपाभावात्। देहातिरिक्तमात्मानं विदन्नपि त्वं यथा ‘मनुष्योऽहं , वैष्णवोऽहं , रामानुजोऽहम्’ इति ब्रवीषि, तद्वद् अस्माकं किं न स्यात्? न च बाधितानुवृत्तस्य भेदज्ञानस्य उपदेशादिप्रवृत्तिहेतुत्वं नेति वाच्यम् , आत्मज्ञानेन बाधितस्यानुवर्तमानस्य देहात्मभ्रमस्य भोजनादिप्रवृत्तिहेतुत्वदर्शनात्। न हि देहातिरिक्तात्मज्ञानी त्वं निर्भोजनादिव्यापारो वर्तसे। भोजनादिव्यापारो हि देहात्मभ्रममूलकः। ‘नाहं देहः’ इति मन्वानो न हि मुखेन भुङ्क्ते , भोक्तुमिच्छति वा। यदप्युक्तं रामानुजेन— बिम्बभूत ईश्वरः स्वप्रतिबिम्बभूतायार्जुनाय तत्त्वं कथमुपदिशेत्? न हि कोऽप्यनुन्मत्तः पुरुषः स्वदर्पणप्रतिबिम्बाय किमप्युपदिशेदिति; तदपि तुच्छम् ; कोऽपि पुरुषः प्रतिबिम्बाय किमपि न वक्तीत्यत्र किं बिम्बप्रतिबिम्बयोः अत्यन्ताभेदः कारणम्? किं वा प्रतिबिम्बमिथ्यात्वम्? यद्वा प्रतिबिम्बचैतन्याभावः? नाद्यः, अत्यन्ताभेदे बिम्बप्रतिबिम्बव्यवहारस्यैव लोपप्रसङ्गात्। ‘अयं बिम्बोऽयं प्रतिबिम्बः’ इति व्यवहारो हि बिम्बप्रतिबिम्बभेदमूलकः; ‘अयं घटोऽयं पटः’ इति व्यवहार इव घटपटभेदमूलकः। किञ्च दर्पणगतपरप्रतिबिम्बाय सुतरां भिन्नाय किमिति नोपदिशेत् पुरुषः? नापि द्वितीयः, रज्जुसर्पस्य रज्जुज्ञानेनेव प्रतिबिम्बस्य केनापि ज्ञानेन बाधादर्शनात् , अबाधितस्य चामिथ्यात्वात्। न हि कोऽपि दर्पणगतं स्वप्रतिबिम्बं स्वयं मिथ्या मन्यते। अतः परिशिष्टस्तृतीयः, अविद्याचित्प्रतिबिम्बास्तु चैतन्यवन्त एवेति न दर्पणप्रतिबिम्बतुल्या इति सङ्गच्छत एव स्वप्रतिबिम्बानां स्वभिन्नत्वेन स्वस्योपदेशः कृष्णस्येति। न चैवं बिम्बप्रतिबिम्बयोर्जीवेश्वरयोर्भेदे कथमद्वैतसिद्धिरिति वाच्यम् , यावदविद्यं बिम्बप्रति- बिम्बादिभेदसद्भावेऽपि परमार्थदशायामविद्याया एवाभावेन बिम्बप्रतिबिम्बभेदाभावान्नाद्वैतहानिरिति। एतेन - ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इति मन्त्राज्जीवेश्वरद्वैतसिद्धिरिति रामानुजवचनं दत्तोत्तरम्। ‘एको बहूनां यो विदधाति कामान्’ इति तन्मन्त्रस्य व्यावहारिकजीवेश्वरभेदरक्ष्यरक्षकभावाद्यनुग्राहकत्वात्। किञ्च नात्र चिन्मात्रस्योपदेष्टृत्वादिकं, तस्य निर्धर्मकत्वात् ; किं तर्हि? कृष्णदेहेन्द्रियाद्याकारपरिणतमायावच्छिन्नचितेरेव। सा हि अर्जुनदेहेन्द्रियाद्याकारपरिणताविद्यावच्छिन्नचितेर्भिन्नैव। अत एव खलु ‘तत्त्वमसी’त्यत्र विशेषणांशं विहाय विशेष्यांशे लक्षणा स्वीकृता। तस्माद् विशिष्टयोः कृष्णार्जुनयोर्भेदादस्त्युपदेशोपपत्तिः इति। यच्च रामानुजेनोक्तम्— ‘गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य नष्टत्वाच्छिष्यं प्रत्युपदेशो निष्प्रयोजनः’ इति, तदपि तुच्छम् ; यावद्देहपातमात्मज्ञस्यापि गुरोर्देहेन्द्रियादिप्रपञ्चप्रतीतिसद्भावः प्रागेव प्रत्यपादि। ऐन्द्रजालिकेन गगने गन्धर्वनगरं निर्मितं ‘नेदं गन्धर्वनगरं, किन्तु गगनमेव’ इति जानतामपि यावदिन्द्रजालं प्रतिभात्येव। अयं च प्रपञ्चः यस्याद्वितीयात्मज्ञानेन बाधितस्तस्यैव दग्धपटवदबन्धकः, न त्वन्यस्येति कृत्वा न गुरुज्ञानेन शिष्याज्ञाननिवृत्तिः, प्रतिपुरुषमविद्याभेदात् प्रपञ्चभेदाच्च। यथा नयनसन्निहितहस्ता बहवः पुरुषा एकमेव सूर्यं न पश्यन्ति, नयनासन्निहितहस्तस्तु विदग्धस्तं पश्यति, नैतद् विदग्धकर्तृकाद्वितीय- सूर्यावलोकनम् अविदग्धपुरुषाश्रयसूर्याज्ञाननिवर्तकम् , तद्वत् प्रकृतेऽपीति। विपरीतं चेदं यदेकस्य ज्ञानादन्यस्य भ्रमनिवृत्तिरिति। न हि एकस्य रज्जुयाथात्म्यज्ञानाद् , अन्यस्य रज्जुसर्पभ्रमो निवर्तमानो दृष्टः, श्रुतो वा। वस्तुतस्तु रामानुजमत एव सुतरामुपदेशानुपपत्तिः, उपदेशानर्थक् यं च। तथाहि— चिदचिच्छरीरकत्वेन चिदचिदन्तःस्थः परमात्मा कृष्णः चितोऽर्जुनस्य बहिराभिमुख्येन गुरुः सन् कथं वर्तेत? न ह्यान्तरं वस्तु बहिः स्यात्। यदि चिदचितोर्बहिरपि कृष्णः स्यात् , तर्हि कृष्ण एव चिदचितोः शरीरं स्यात् , चिदचिद्व्याप्तश्च स्यात्। १व्यापकेन शस्त्रादिना व्याप्यस्य देहस्येव चिदचिद्भ्यां कृष्णस्य नाशोऽपि स्यात्। चिदचितोरीश्वरापृथक्सिद्धविशेषणत्वेन, स्वापृथक्सिद्धविशेषणाद् गन्धात् स्वयं पृथिव्या इव, चिदचिद्भ्यां पृथगीश्वर- स्यावस्थानमपि न सम्भवतीति कृत्वा पृथगवस्थितवस्तुद्वयधर्मस्य गुरुशिष्यभावस्योपपत्तिः कथं कृष्णार्जुनयोरपृथगवस्थितयोः चिदीश्वरयोः? अपृथक्सिद्धविशेषणवाचिशब्दानां विशेष्यपर्यन्तत्वनियमात् अर्जुनपदार्थोऽपि चिदचिद्विशिष्ट ईश्वर एवेति कृत्वा ‘कृष्णो १. आन्तरस्य व्यापकत्वं, बाह्यस्य व्याप्यत्वं चात्रेष्टम्।
[[४९]]
ननु पूर्वं देहं विहायापूर्वं देहमुपाददानस्य विक्रियावत्त्वेनोत्पत्तिविनाशवत्त्वविभ्रमः समुद्भवेदिति शङ्कते— तत्रेति। अशोच्यत्व- आनन्दगिरिकृतव्याख्या ऽर्जुनायोपदिदेश’ इत्येतद्वाक् यमपि न युज्यते। सर्वव्यापिनः सर्वशरीरस्य सर्वान्तरस्येश्वरस्य कृष्णदेहेन्द्रियादिष्विव अर्जुनदेहेन्द्रिया- दिष्वपि अहंममग्रहस्यैवौचित्येन ‘कृष्णोऽहम् , अर्जुनस्त्वं, नराधिपाः इमे’ इति त्वमिदङ्ग्रहनिर्देशः कथमुपपद्यताम्? ‘कृष्णोऽहम् , अर्जुनोऽहम् , नराधिपा अहम्’ इति हि वक्तव्यम्। यद्वा ‘कृष्णो मे, अर्जुनो मे, नराधिपा मे’ इति वक्तव्यम्। किञ्च चेतनाचेतनात्मकनिखिलजगत्परमकारणभूत ईश्वरः कृष्णः स्वजातत्वेन स्वाभिन्नेष्वर्जुनादिषु कथं भेदबुद्धिमीयात्? न हि मृदो भिद्यते घटः। कथं वा स्वाभिन्नायार्जुनाय स्वयमुपदिशेत् किमपि? उपदेशो हि भेदमूलकः। एवमर्वाचीनाचार्यपरम्पराऽपि स्वमिवान्यानपि चेतनान् परमकारणेश्वराभिन्नान् विदुषी सती परमकारणेश्वराभिन्नस्वाभिन्नचेतनेभ्यः शिष्येभ्यः कथमुपदिशेत् किमपि? ननु परमेश्वराज्जीवा जायन्त इत्यत्र जीवानामौपाधिकमेव जन्मास्माभिरिष्यते, न तु स्वरूपतः, जीवानां ज्ञानैकाकारत्वेन नित्यत्वादिति चेत्? तर्हि ज्ञानैकाकारे आत्मनि भेदकाभावात् सिद्धमद्वैतमिति स्वमतप्रच्युतिः, परमतप्रवेशश्चेत्यपि दोषद्वयं प्रसक्तं तव। न च स्वरूपतो भेदाभावेऽपि धर्मतोऽस्ति भेद इति वाच्यम् , तस्य धर्मस्याप्यौपाधिकत्वेन स्वरूपगतत्वाभावात्। एवं ज्ञानैकाकारे आत्मनि उपदेशसम्पाद्यगुणाभावाद् उपदेशनिवार्यदोषाभावाच्चोपदेशोऽप्यपार्थः। न च निकृष्टोपाधित्यागः उत्कृष्टोपाधिस्वीकारश्च फलमुपदेशस्येति वाच्यम् , मार्तिकघटोपाधिपरित्यागात् सौवर्णघटोपाधिस्वीकाराच्च गगनस्येवाविक्रियस्य आत्मनोऽपि मनुष्योपाधित्यागाद् देवोपाधिस्वीकाराच्च न कोऽपि लाभः। सति हि देहात्मभ्रमे ‘देवोऽहं, यक्षोऽहम्’ इति सन्तुष्येत् पुरुषः। प्रकृते तूपदेशेन देहात्मभ्रमनाशाद् देहातिरिक्तात्मज्ञानस्य जातत्वाच्च किं देवदेहेन? न च देवदेहे आत्मीयत्वज्ञानात् सन्तुष्यति पुरुष इति वाच्यम् , ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्या आत्मानमसङ्गं विद्वान् पुरुषः कथं देवदेहमात्मीयं २मनुयात्? ननु ‘असङ्गः’ इति श्रुतिरर्थान्तरपरा। पुरुषस्तु सदाऽपि सूक्ष्मदेहविशिष्टत्वात् ससङ्ग एव। ज्ञानैकाकारोऽपि पुरुषः सूक्ष्म- देहोपाधिबहुत्वाद् बहुविध एव। असावुपाधिः प्रलये मुक्तौ च न नश्यति। अतो जीवाः परस्परं भिन्ना एव सर्वदा; उपदेशादीश्वरो- पासनाच्चामीषामीश्वरवद् ज्ञानैश्वर्यादिसिद्धिरप्राकृतदिव्यमङ्गलविग्रहसिद्धिश्चेति चेत्? नैतदप्युपपद्यते। सदाऽपि लिङ्गदेहविशिष्टस्य पुरुषस्य लिङ्गाकारवत्त्वेन ज्ञानैकाकारवत्त्वाभावात् , अपञ्चीकृतपञ्चभूतकार्यस्य लिङ्गस्य सदाऽप्यनादिपुरुषोपाधित्वासम्भवात् , प्रकृति- पुरुषेश्वराणां तव मते अनादित्वात् , लिङ्गस्य प्रकृतिकार्यत्वेन सादित्वात् , मुक्तौ मनःसत्त्वे तदनुभूतसंसारस्मरणप्रसङ्गेन मनाग्दुःख- सम्भवात् , लिङ्गभङ्गस्यैव मोक्षत्वाच्च, उपासनयैव सगुणमुक्तिक्षेत्रलाभे तत्त्वज्ञानोपदेशस्य वैयर्थ्याच्च, उपासनां विना तदुपदेशमात्रेण तन्मुक्त्यलाभाच्च व्यर्थस्तव मते तत्त्वोपदेशः। किञ्च सर्वेऽप्यास्तिका लौकिकास्तार्किकाश्च वेदानुमानादिना स्वभिन्नमीश्वरं प्रतिपद्यमानाः तस्माद् बिभ्यत्येव। ‘भीषाऽस्माद् वातः पवते’ इति श्रुतेर्वायुसूर्यादयोऽपीश्वराद् बिभ्यत्येव। एवं स्थिते अभयार्थमात्मानं शरणं गताय शिष्याय यदि गुरुस्तमेव जीवेश्वरभेदं भयजनकमुपदिशेत् , तर्हि तेन शिष्यः किं फलं प्राप्नुयात्? न किमपि। प्रत्युत भयाधिक् यमेव। यः ‘उदरमन्तरं कुरुते अथ तस्य भयं भवती’ति हि श्रूयते। तस्माद् व्यर्थमेव भेदवादिगुरूपसदनं शिष्यस्य॥१२॥
देहिन इति। किं तर्हीति। एकस्याविक्रियस्यैवात्मनः द्वितीयतृतीयावस्थाप्राप्तिर्यथा दृष्टेत्यन्वयः। तत्रशब्दार्थमाह— एवं सतीति। एवं देहाद् देहान्तरप्राप्तौ सत्यामित्यर्थः। कौमाराद् यौवनावस्थाप्राप्तिरिवेति एवंशब्दार्थः॥१३॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
१. ‘देहवदात्मनः’ इति पा.। २. ‘मनु अवबोधने’ इति धातोः आत्मनेपदित्वाद् अयं प्रयोगश्चिन्त्यः। ‘मनुताम्’ इति वा पाठः कल्प्यः। देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३॥
तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह— देहिन इति। देहोऽस्यास्तीति देही, तस्य देहिनो १देहवतः अ.२. श्लो.१३ ]
[[५०]]
प्रतिज्ञायां नित्यत्वे हेतौ कृते६ सतीति यावत्। अवस्थाभेदे सत्यपि वस्तुतो विक्रियाऽभावादात्मनो नित्यत्वमुपपन्नमित्युत्तरश्लोकेन दृष्टान्तावष्टम्भेन प्रतिपादयतीत्याह— दृष्टान्तमिति। न केवलमागमादेवात्मनो नित्यत्वम् , किन्त्ववस्थान्तरवद् जन्मान्तरे पूर्वसंस्कारानु- वृत्तेश्चेत्याह— देहिन इति। देहवत्त्वं तस्मिन् अहम्ममाभिमानभाक्त्वम्। तासामिति निर्धारणे षष्ठी। आत्मनः श्रुतिस्मृत्युपपत्तिभिः नित्यत्वज्ञानं धीमानित्यत्र धीः विवक्ष्यते। एवं सतीति। तत्त्वतो विक्रियाऽभावान्नित्यत्वे समधिगते सतीत्यर्थः॥१३॥
आत्मनः श्रुत्यादिप्रमिते नित्यत्वे तदुत्पत्तिविनाशप्रयुक्तशोकमोहाभावेऽपि प्रकारान्तरेण शोकमोहौ स्यातामित्याशङ्काम- नूद्योत्तरत्वेन श्लोकमवतारयति— यद्यपीत्यादिना। शीतोष्णयोस्ताभ्यां सुखदुःखयोश्च प्राप्तिं निमित्तीकृत्य यो मोहादिर्दृश्यते तस्यान्वय- व्यतिरेकाभ्यां दृश्यमानत्वमाश्रित्य लौकिक इति विशेषणम्। ‘अशोच्यानि’त्यत्र यो विद्याधिकारी सूचितः, तस्य ‘तितिक्षुः समाहितो भूत्वा’ इति श्रुतेस्तितिक्षुत्वं विशेषणमिहोपदिश्यते। व्याख्येयं ७पदमुपादाय करणव्युत्पत्त्या तस्येन्द्रियविषयत्वं दर्शयति— मात्रास्पर्शा इत्यादिना। षष्ठीसमासं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह— मात्राणामिति। तेषामर्थक्रियामादर्शयति— ते शीतेति। सम्प्रति ८शब्दद्वयस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति— अथवेति। ननु शीतोष्णप्रदत्वे आनन्दगिरिकृतव्याख्या आत्मनोऽस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिः जीर्णावस्था - इत्येतास्तिस्रोऽवस्थाः अन्योन्यविलक्षणाः। तासां प्रथमावस्थानाशे १न नाशो, द्वितीया२वस्थोपजनने नोपजननमात्मनः। किं तर्हि? ३अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिरात्मनो दृष्टा। तथा तद्वदेव, देहादन्यो देहो देहान्तरम् , तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्यैवात्मनः इत्यर्थः। धीरो धीमान् तत्र एवं सति न मुह्यति न मोहमापद्यते॥१३॥
यद्यप्यात्मविनाशनिमित्तो मोहो न सम्भवति ‘नित्यः आत्मा’ इति विजानतः, तथापि शीतोष्णसुखदुःख- प्राप्तिनिमित्तो मोहो लौकिको दृश्यते, ४सुखवियोगनिमित्तो दुःखसंयोगादिनिमित्तश्च शोकः इत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह— मात्रास्पर्शा इति। मात्राः आभिर्मीयन्ते शब्दादयः इति श्रोत्रादीनीन्द्रियाणि५। मात्राणां स्पर्शाः शब्दादिभिः संयोगाः, ते शीतोष्णसुखदुःखदाः शीतमुष्णं सुखं दुःखं च प्रयच्छन्तीति। अथवा स्पृश्यन्ते इति मात्रेति। मीयन्त इति। गृह्यन्त इत्यर्थः। ‘हुयामाश्रुभसिभ्यस्त्रन्’ इति माङस्त्रन् औणादिकः। अदन्तात् स्त्रियां टाप्। मात्राः। भाष्यार्कप्रकाशः १. ‘आत्मनो न नाशः’ इति पा.। २. ‘वस्थोपजने नोपजन आत्मनः’ इति पा.। ३. ‘एकस्याविक्रियस्यैव’ इति पा.। ४. ‘सुखवियोगनिमित्तो मोहो दुःख’ इति पा.। ५. मात्रापदस्य इन्द्रियपरतया व्याख्यानमसत् , तस्य विषये रूढत्वादिति माध्वाः। तन्न, रूढौ प्रमाणाभावात् , करणव्युत्पत्त्या इन्द्रियपरत्वे दोषाभावात् , ‘भूतमात्राः प्रज्ञामात्रास्वर्पिताः’ इति इन्द्रियपरतया प्रयोगदर्शनाच्च। ६. ‘हेतूकृते’ इति पा.। ७. मात्रापदम्। ८. मात्राशब्दस्य स्पर्शशब्दस्य च। शब्दद्वयस्यापि शब्दादिविषयपरत्वे कर्मधारयः समासः। वस्तुतस्तु स्पर्शशब्दस्यैव कर्मव्युत्पत्त्या विषयपरत्वम् , मात्राशब्दस्य तु इन्द्रियपरत्वमेव। द्वन्द्वश्च समासः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
ननु पूर्वदेहत्यागोत्तरदेहप्राप्त्योरात्मनो विकारो वक्तव्यः, क्षीरादिवत् , ततोऽनित्यत्वमिति प्रत्यनुमानविरोधमा- शङ्क्याह— तत्र कथमिवेत्यादिना॥१३-१५॥
मात्रास्पर्शास्तु कौन्तेय! शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत !॥१४॥
[[५१]]
श्रोत्रत्वगक्षिरसनघ्राणाख्येन्द्रियपञ्चकविषयाः शब्दस्पर्शरूपरसगन्धाः इष्टानिष्टभेदेन द्विविधाः प्रत्येकं भवन्ति। तत्र आत्मनः सुखदाः इष्टाः, दुःखदास्त्वनिष्टाः। यथा ग्रीष्मकाले शीतस्पर्श इष्टः सुखदः, शिशिरकाले स एवानिष्टो दुःखदः। शिशिरकाले उष्णस्पर्श इष्टः सुखदः, ग्रीष्मकाले स एवानिष्टो दुःखदः। एवं सुरभिगन्धः संयोगकाले इष्टः सुखदः, स एव विरहदशायामनिष्टो दुःखदः। मधुररसश्च ज्वरितस्यानिष्टो दुःखदः, स एव स्वस्थस्येष्टः सुखदः। एवं श्राव्यशब्दादयोऽपीष्टाः सुखदाः, अनिष्टा दुःखदा इति विवेकः। एवं स्थिते मात्रास्पर्शाः सुखदुःखदा भवन्तीत्येतावानेवेह विवक्षितांशः। शीतोष्णग्रहणं तु दृष्टान्तार्थम्। यथा शीतोष्णभेदभिन्नस्त्वक्स्पर्शः सुखदुःखदो भवति, तद्वदिति। अन्यथा तु शीतोष्णप्रदत्वं श्रोत्रशब्दादीनामपि सम्बध्येत। तद्ध्यनिष्टम् , तेषां तथात्वाभावात्। शीतोष्णे इव सुखदुःखदाः शीतोष्णसुखदुःखदा इति समासः। यद्वा मात्रास्पर्शाः सुखदुःखदा भवन्ति। स्पर्शवद्द्रव्यसम्बद्धं त्वगिन्द्रियं तु शीतोष्णस्पर्शप्रदं च भवतीत्यर्थो बोध्यः। ‘मात्रास्पर्शाः’ इत्यस्य इन्द्रियसंयोग इति व्याख्याने शब्दादिभिरिति पदानयनक्लेश इत्यरुच्या पक्षान्तरमाह— अथवेति। ननु शीतोष्णयोरेव सुखदुःखत्वात् पृथक् शीतोष्णग्रहणं व्यर्थम्? अत आह— शीतं चेति। विषयेन्द्रिय-संयोगजन्यं शीतोष्णरूपद्वन्द्वं सुखदुःखरूपद्वन्द्वं चावर्जनीयत्वादागमापायित्वादनित्यत्वाच्च सोढव्यमिति श्लोकस्य फलितार्थः। अनेन तितिक्षुत्वरूपाधिकारिधर्मः शिक्षितः। अत्राह रामानुजः— ‘शब्दस्पर्शादयः साश्रयाः तन्मात्राकार्यत्वान्मात्रा इत्युच्यन्ते’ इति। तत्तुच्छम् ; शब्दादीनामेव तन्मात्रात्वात्। न च सूक्ष्मभूतानि तन्मात्रा इति वाच्यम् ; तथापि साश्रयशब्दादीनामेव सूक्ष्मभूतानां तन्मात्रात्वात्। न च शब्दादयः साश्रया नाम मृदङ्गकुसुमादय इति वाच्यम् ; तेषां महाभूतकार्यत्वेन तन्मात्राऽकार्यत्वात्। न च महाभूतान्येव शब्दादयः साश्रया इति वाच्यम् ; महाभूतानीत्येव वक्तव्यत्वेन शब्दादयः साश्रया इति वक्रोक्तेर्व्यर्थत्वाद् दुष्टत्वाच्च। इन्द्रियाणामपि तन्मात्राकार्यत्वेन भूतानामेव ग्रहणमित्यत्र नियामकाभावाच्च। अथ यदि शब्दादीनामाश्रयास्तद्ग्राहकाणीन्द्रियाणि इत्युच्यते, तर्हि मीयन्ते [आभिः] इति मात्राः इत्येव वक्तव्यमभिधया, न तु लक्षणया, लक्षणाश्रयणस्यागतिकस्थलविषयत्वादिति। तथा शीतोष्णसुखदुःखदाः इत्यत्र ‘शीतोष्णरूपसुखदुःखदा’ इत्याह। तच्चासत् ; शीतोष्णकार्ययोः सुखदुःखयोः कथं शीतो- ष्णरूपत्वम्? यथासंख्यं शीतोष्णयोः सुखदुःखहेतुत्वं च नैव सम्भवति, शीतस्यापि हेमन्तकाले दुःखहेतुत्वाद् उष्णस्यापि सुख- हेतुत्वात्॥१४॥
सुखदुःखप्रदत्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणमिति? तत्राह— शीतमिति। विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुखदुःखहेत्वोरानुकूल्यप्रातिकूल्ययोरुपलक्षणार्थम्। अध्यात्मं हि शीतमुष्णं वा ५अनुकूलं प्रतिकूलं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति। ननु विषयेन्द्रियसंयोगस्यात्मनि सदा सत्त्वात् तत्प्रयुक्तशीतादेरपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नावित्याशङ्क्योत्तरार्धं व्याचष्टे— यस्मादित्यादिना। अत्र च कौन्तेय, भारत इति सम्बोधनाभ्याम् ६उभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते॥१४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
स्पर्शाः विषयाः शब्दादयः, मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदाः। शीतं कदाचित् १सुखं कदाचिद् दुःखम्। तथोष्णमप्यनियतस्वरूपम्। सुखदुःखे २पुनर्नियतरूपे, यतो न व्यभिचरतः। अतस्ताभ्यां पृथक् शीतोष्णयोर्ग्रहणम्। ३(यद्येते सुखदुःखदाः, तर्हि एषामनपायादनुपरत एव संसारः स्यादिति चेन्मैवम् ;) यस्मात् ते मात्रास्पर्शादयः आगमापायिनः आगमापायशीलाः तस्माद् अनित्याः ४(उत्पत्तिविलयरूपत्वात्)। अतस्ताञ्शीतोष्णादीन् तितिक्षस्व प्रसहस्व। तेषु हर्षं विषादं च मा कार्षीरित्यर्थः॥१४॥
१. ‘सुखदं कदाचिद्दुःखदम्’ इति पा.। २. ‘पुनर्नियतरूपतां न’ इति पा.। ३-४. कुण्डलान्तर्गतौ पाठौ रा. पुस्तके दृश्येते। ५. ‘आनुकूल्यं प्रातिकूल्यं वा’ इति पा.। ६. कुन्तीपुत्र भरतान्वयज इत्यर्थकपदद्वयेन मातृकुलं पितृकुलं चार्जुनस्योक्तम्। तदभिप्रायमाह— उभयेति। अ.२. श्लो.१३-१४ ]
[[५२]]
यमिति। न व्यथयन्तीति। ‘व्यथ भयचलनयो’रिति धातुः। चलनस्यापादानमाह— नित्यात्मदर्शनादिति। एतेन - शीतोष्णा- दिद्वन्द्वसहनमात्रान्नामृतत्वम् , किन्तु नित्यात्मदर्शनभ्रंशाभावादेव, अन्यथा शीतोष्णादिसहनशालिनो मूर्खाः २शूद्रादयोऽपि प्राप्नुयुः अमृतत्वम् - इति सिद्धम्। स्थिरधीरेव नित्यात्मदर्शननिष्ठो भवति। द्वन्द्वासहनेन तु सुखदुःखाभ्यां बुद्धौ चरितायां [चलितायां ] सत्याम् आत्मदर्शननिष्ठा दुर्लभा पुरुषस्येति भवति। हे पुरुषर्षभेति सम्बोधनेन च पुरुषश्रेष्ठस्य तव पुरुषाधमस्येव नित्यात्म- दर्शननिष्ठातो भ्रंशः, द्वन्द्वसहनाभावश्चानुचित इति द्योत्यते। अत्राह रामानुजः— ‘धैर्ययुक्तमवर्जनीयदुःखं सुखवन्मन्यमानं स्ववर्णोचितं युद्धादिकर्माफलाभिसन्धि कुर्वाणं यं पुरुषं तदन्त- र्गतशस्त्रपातादिस्पर्शाः परितापेन न चालयन्ति, स एवामृतत्वं साधयति, न त्वादृशो दुःखासहिष्णु’रिति, तत् तुच्छम् ; तादृशो हि पुरुषो युद्घे मृतश्चेद् वीरस्वर्गं साधयति, जयी चेत् परराज्यम् , अथवा चित्तशुद्धिमेव; न त्वमृतत्वम् ; मोक्षस्य ज्ञानैकसाध्यत्वात्। सांख्यप्रकरणे चात्र कर्मकीर्तनमनुचितम्। पुरुषर्षभशब्दे काक्वाश्रयणं चायुक्तम् ; भगवतः परमार्थोपदेष्टुरत्र काकुसम्बोधनप्रयोगा- नौचित्यात्। अर्जुनस्य परमार्थतः पुरुषाधमत्वे तं प्रति शास्त्रोपदेशस्यैवायुक्तत्वादिति॥१५॥
नासत इति। ‘अस भुवि, भू सत्ताया’मित्येकार्थकं धातुद्वयम्। तत्र अस्तेः शतरि सन्निति , भवतेर्घञि भाव इति च रूपद्वयम्। सन् न भवतीत्यसन् , क्लीबत्वे तु असत्। सतो भावः सत्ता। न भावः अभावः। तथा च भावः सत्ता, अभावस्त्वसत्तेति विवेकः। एवं सति, सति सत्ता वर्तते, तद्भावस्य तन्निष्ठत्वात् , सत्तावत एव सत्त्वाच्च। असति तु सत्ता न वर्तते, किन्तु असत्तैव वर्तते, सत्तारहितस्यैवासत्त्वात् इति सर्वस्यापि सुग्रहमेव। ततश्च - असतो नास्ति सत्ता इति, सतो नास्त्यसत्ता इति च व्यर्थोऽयं कृष्णस्योपदेशः। न हि कोऽपि सतः पदार्थस्यासत्ताशालित्वम् , असतः सत्ताशालित्वं च मनुते; येनायमुपदेशः सफलः स्यात्। न हि कश्चिदप्यसन्तं ३शशशृङ्गं सन्तं मन्यते; सन्तं वा गोशृङ्गमसन्तम् ; इति प्राप्ते, आह भगवान् भाष्यकारः— असतः अविद्यमानस्य अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तम् , केवलस्य तस्य पुमर्थाहेतुत्वादिति शङ्कते— शीतेति। विवेकवैराग्यादिसहितं तद् मोक्षहेतुज्ञानद्वारा तदर्थमिति परिहरति— शृण्विति। तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति— यं हीति। हर्षविषादरहितमित्यत्र शमादिसाधनसम्पन्नत्वमुच्यते; धीमन्तमिति नित्यानित्यविवेकभागित्वम्। एतच्चोभयं वैराग्यादेरुपलक्षणम्। नित्यात्मदर्शनं त्वमर्थ- ज्ञानम्। साधनचतुष्टयवन्तमधिकारिणमनूद्य त्वम्पदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक् यार्थज्ञानयोग्यतामाह— स नित्येति॥१५॥
अधिकारिविशेषणे तितिक्षुत्वे हेत्वन्तरपरत्वेनोत्तरश्लोकमवतारयति— इतश्चेति। इतःशब्दार्थमेव स्फुटयति— यस्मादिति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
शीतोष्णादीन् १सहतः किं स्यादिति शृणु — यं हीति। यं हि पुरुषं समदुःखसुखम् समे दुःखसुखे यस्य तं समदुःखसुखम्। सुखदुःखप्राप्तौ हर्षविषादरहितम्। धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः, स नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय, मोक्षायेत्यर्थः; कल्पते समर्थो भवति॥१५॥
इतश्च शोकमोहावकृत्वा शीतोष्णादिसहनं युक्तम् , यस्मात् — नासत इति। न असतः अविद्यमानस्य यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ !। समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥१५॥
नासतो विद्यते भावो नाभावो विद्यते सतः। १. ‘प्रसहतःतव’ इति पा.। २. शूद्रादयः इत्यविवक्षितम् , नित्यात्मदर्शनराहित्ये तात्पर्यम्। ३. अर्धर्चादिगणे पाठात् शृङ्गशब्दस्य पुंस्त्वं नानुपपन्नम्।
[[५३]]
[आनन्दगिरिकृतव्याख्या]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
शीतोष्णादेरित्यादि। यस्य कालत्रयेऽप्यभावो नास्ति, तदेव सत् ; यस्य तु प्रतीतिसमये एव भावः, न तु कालत्रये, तदसत्। सति वस्तुनि कदाचिदप्यसत्तायाः स्थित्यनौचित्यात् , अन्यथा प्रतीतिसमयवर्ती रज्जुसर्पोऽपि सन् स्यादेव। लोकस्तु नैवं जानाति, किन्तु प्रतीतं वस्तु सत्त्वेन, अप्रतीतं वस्त्वसत्त्वेन च जानाति; अतोऽयमुपदेशः सफल एवेति भावः। भाष्यार्थं ब्रूमः— असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य भावो भवनमस्तिता न विद्यते नास्तीत्यन्वयः। ननु कारणस्य सत्त्वे कथं कार्यस्य शीतोष्णादेरसत्त्वम्? अत आह— सकारणस्येति। सकारणस्य जलाग्न्यादिकारणसहितस्य। साज्ञानस्येति वा, अज्ञानप्रभवत्वाच्छीतोष्णादिसर्वप्रपञ्चस्य। आदिशब्दात् सुखदुःखादिग्रहणम्। ननु यदि शीतोष्णादिकमविद्यमानं स्यात् तर्हि तस्य भावो न स्यादेव, प्रत्युत शीतोष्णादिकं विद्यत एव, प्रतीयमानत्वात्। न ह्यविद्यमानं शशशृङ्गादिकं प्रतीयेत; अत आह— न हीति। सकारणं शीतोष्णादि जगत् प्रमाणैर्निरूप्यमाणं वस्तु सत्यं न सम्भवति हीत्यन्वयः। श्रुतिभिस्तदनुगृहीततर्कैश्च विचार्यमाणे सति शीतोष्णादेर्वस्तुत्वं न सिध्यतीत्यर्थः। यद्वा - ‘प्रमाणैस्त्वगादीन्द्रियैः निरूप्यमाणं गृह्यमाणं सकारणं शीतोष्णादि वस्तु न सम्भवति हि’ इत्यन्वयः। तत्र हेतुमाह— विकारो हि स इति। सः शीतोष्णादिपदार्थः, विक्रियत इति विकारः भवति। हिः प्रसिद्धौ। भवतु विकारः, किं तेनेत्यत आह— विकारश्चेति। विकारः कार्यं व्यभिचरति च। ह्यर्थोऽत्र चः। व्यभिचारो नाम कार्यस्य कारणव्यतिरेकेणासत्त्वम्। तदेवोपपादयति— यथेत्यादिना। घटादिसंस्थानं घटाद्याकारसन्निवेशः। यद्वा व्यभिचारो नाम कार्यस्य कालत्रयेऽप्यसत्त्वम्। ननु कार्यस्य स्वोत्पत्तेः प्राक्, स्वध्वंसात् पश्चाच्च भवत्यसत्त्वमिति कृत्वा कालद्वये कार्यमसद् भवतु नाम; वर्तमानकाले कार्यस्य सत्त्वात् कथं कालत्रयेऽपि कार्यस्यासत्त्वम्? अत आह— यथेत्यादि। कारणव्यतिरेकेण कार्यस्यानुपलभ्यमानत्वाद् वर्तमानकालेऽपि न कार्यस्य सत्त्वमिति कृत्वा भाष्यार्कप्रकाशः शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनमस्तिता। न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं १वस्तुसद् भवति। विकारो हि सः। विकारश्च व्यभिचरति। यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुप- विमत एव स तु [विमतमसत् ,] अप्रामाणिकत्वात् , सम्मतवदित्याह—न हि शीतोष्णादीति। तथाहि— न प्रतीति- मात्रेण प्रामाणिकत्वं शक् यते वक्तुम् , चन्द्रप्रादेशिकत्वदेहात्मभावादेरपि प्रामाणिकत्वप्रसङ्गात्। निरूपणं न सहते, अपि च प्रामाणिकमिति व्याहतत्वाच्च। निरूप्यमाणे च - न द्वैतं स्वतः सिध्यति, जाड्यहानिप्रसङ्गात्। प्रमाणतोऽपि सम्बन्धात् सिध्यति, अन्यथाऽतिप्रसङ्गात्। सम्बन्धस्य च सम्बन्ध[द्ध]त्वासम्बन्ध[द्ध]त्वविकल्पासहत्वात्। अतो यद्यप्यापाततः करण- दोषो बाधो वा नोपलभ्यते, तथापि यौक्तिकबाधाद् देहात्मप्रत्ययवद् द्वैतविषयस्य प्रत्यक्षादेरप्रामाण्यात् न हेतोरसिद्धिरिति भावः। किञ्च विमतो मिथ्या, विकारत्वात् , स्वप्नवदित्याह— विकारो हि स इति। किञ्च विमतो मिथ्या, व्यवहारित्वात् यतः शीतादेः शोकादिहेतोरनात्मनो नास्ति वस्तुत्वम् , वस्तुनश्चात्मनो निर्विकारत्वेनैकरूपत्वम् , अतो मुमुक्षोर्विशेषणं तितिक्षुत्वं युक्तमित्याह— नेत्यादिना। कार्यस्यासत्त्वेऽपि कारणस्य सत्त्वेनात्यन्तासत्त्वासिद्धिरित्याशङ्क्य विशिनष्टि— सकारणस्येति। नासतः इत्युपादाय पुनर्नकारानुकर्षणमन्वयार्थम्। असतः शून्यस्यास्तित्वप्रसङ्गाभावादप्रसक्तप्रतिषेधप्रसक्तिरित्याशङ्क्याह— न हीति। विमतम् अतात्त्विकम् , अप्रामाणिकत्वाद् , रज्जुसर्पवत्। न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात्। अतोऽनिर्वाच्यं द्वैतमित्यर्थः। कथं पुनरध्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेनानिर्वाच्यत्वम्? तत्राह— विकारो हीति। ततश्च विमतं मिथ्या, आगमापायित्वात् , सम्प्रतिपन्नवदिति फलितमाह— विकारश्चेति। २वाचारम्भणश्रुतेर्द्वैतमिथ्यात्वेऽनुग्राहकत्वं दर्शयितुं १. ‘वस्तु संभवति’ इति रा. पाठः। २. ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छां.उ. ६.१.४) इति श्रुतेरित्यर्थः। अ.२. श्लो.१५-१६ ]
[[५४]]
कालत्रयेऽपि कार्यमसदेवेति युक्तं विकारस्य व्यभिचारित्वमित्यर्थः। जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं च कार्यस्यानुपलब्धेश्चासत्त्वमित्यन्वयः। ननु घटादिकार्यस्यासत्त्वमस्तु नाम, न तु तत्कारणस्य मृदादेरिति शङ्कायामाह— मृदादीति। घटादिकारणं मृदादिकमपि स्वकारण- भूतजलादिव्यतिरेकेण वर्तमानकाले नास्ति, जन्मनः प्राक्, प्रध्वंसात् पश्चाच्च सुतरां नास्तीत्यसदेव तदिति। नन्वेवं पृथिव्याद्याकाशान्तानां भूतानामपि जन्यत्वेन व्यभिचारित्वे सति सद्रूपवस्त्वन्तरस्यैवाभावाच्छून्यवादप्रसङ्ग इत्या- क्षिपति स्वयमेव— तदसत्त्व इति। सकार्यस्य मृदादिकारणस्यासत्त्वे इत्यर्थः। परिहरति— नेति। ‘सर्वत्र सद्बुद्धिरसद्बुद्धिश्चेति बुद्धि- द्वयोपलब्धेर्न सर्वाभावप्रसङ्गः’ इत्यन्वयः। सर्वत्रेति। घटपटादिसर्वव्यवहारेष्वित्यर्थः। सद्विषया बुद्धिः सद्बुद्धिः, असद्विषया बुद्धिर- सद्बुद्धिः। बुद्धिः वृत्तिज्ञानम्। विषयस्याभावे विषयिण एवाभावात् , विषयिभूतया सर्वत्र प्रसिद्धया सद्बुद्ध्या विषयस्य सतः पदार्थस्यानु- मीयमानत्वात् सद्वस्तुलाभेन न शून्यवादप्रसङ्ग इत्यर्थः। ननु किं तत् सत् , यद्विषया बुद्धिः सद्बुद्धिः? किं वा तदसत् , यद्विषया बुद्धिरसद्बुद्धिः? इत्यत आह— यद्विषयेति। न व्यभिचरति न नश्यतीत्यर्थः। विपर्ययं न प्राप्नोतीति यावत्। ४यथा घटबुद्धिर्घटे भिन्ने सति कपालबुद्धिर्भवति, तद्वदित्यर्थः। बुद्धितन्त्रे बुद्ध्यधीने। बुद्धेरव्यभिचारत्वसव्यभिचारत्वाभ्यां सदसद्विभागस्य जातत्वादिति भावः। स्थिते भाष्यार्कप्रकाशः लब्धेरसत् , तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन् , जन्मप्रध्वंसाभ्यां १प्रागूर्ध्वं चानुपलब्धेः कार्यस्य घटादेः। मृदादिकारणस्य च तत्कारणव्यतिरेकेणानुलब्धेरसत्त्वम्। तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्? न ; सर्वत्र बुद्धिद्वयोपलब्धेः - सद्बुद्धिरसद्बुद्धिरिति। २यद्विषया बुद्धिर्न व्यभि-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[व्यभिचारित्वात्] स्वप्नवदित्याह— विकारश्चेति। किञ्च भेदाभेदयोरेकोपाधौ विरोधात् कार्यमुपादानाद् भिन्नमेव वा वक्तव्यम् , [अ]भिन्नमेव वा? तत्राऽऽद्यं प्रत्याह— यथा घटादीत्यादिना। घटस्यान्तर्बहिश्च निरीक्षणे न मृदोऽतिरिक्तं किमपि रूपमुपलभ्यते। अतः पृथक् सत्त्वाभावो गम्यत इत्यर्थः। अभेदपक्षं दूषयति— जन्मप्रध्वंसाभ्यामिति। कार्यस्यापि [स्य प्राक्] जन्मनः, प्रध्वंसाच्चोर्ध्वमुपलभ्यमानेऽपि उपादानादेर[उपादानेऽ]नुपलम्भान्नाभेदो घटत इत्यर्थः। ननु भेदादिविकल्पा- सहत्वाच्चेत् कार्यं न वस्तु , कारणं मृदादि वस्तु भविष्यतीत्याशङ्क्याह— मृदादिकार्यस्ये[कारणस्ये]ति। कारणस्याप्यसत्त्वे सर्वशून्यवाद एव प्रसज्यत इत्याह— तदसत्त्व इति। सर्वत्रानुवृत्तव्यावृत्तबुद्धिद्वयोपलब्धेः, अनुवृत्ते च व्यावृत्तानामध्यस्तत्वात् सर्वभेदाध्यासाधिष्ठानं सद्वस्तु भविष्यतीत्याह— न, सर्वत्रेति। अनुमानं वक्तुं व्याप्तिं दर्शयति— यद्विषयेति। सर्वत्रानुगतं सत्यम् , अव्यभिचारित्वाद् , रज्ज्विदमंशवत्। व्यावृत्तं च न सत्यं, व्यावृत्तत्वात् , आनन्दगिरिकृतव्याख्या चकारः। किञ्च कार्यं कारणाद् भिन्नमभिन्नं वेति विकल्प्याऽऽद्यं दूषयति— यथेति। निरूप्यमाणम् अन्तर्बहिश्चेति शेषः। विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् , घटवदित्यर्थः। इतोऽपि कारणाद्भेदेन नास्ति कार्यम् ,‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’ इति न्यायादित्याह— जन्मेति। यदि कार्यं कारणादभिन्नं, तदा तस्य भेदेनासत्त्वे पूर्वस्मादविशेषः। तादात्म्येनावस्थानं तु न युक्तम् , तस्यापि कारणव्यतिरेकेणाभावात्। कार्यकारणविभागविधुरे वस्तुनि कार्यकारणपरम्पराया ३विभ्रमादित्यभिप्रेत्याह— मृदादीति। कार्यकारणविभागविहीनं वस्त्वेव नास्तीति मन्वानश्चोदयति— तदसत्त्व इति। अनुवृत्तव्यावृत्तबुद्धिद्वयदर्शनाद् , अनुवृत्ते च व्यावृत्तानां कल्पितत्वाद्, अकल्पितं सर्वभेदकल्पनाधिष्ठानमकार्यकारणं वस्तु सिध्यतीति परिहरति— न; सर्वत्रेति। सम्प्रति सतो वस्तुत्वे प्रमाणमनुमानमुपन्यस्यति— यद्विषयेति। यद् व्यावृत्तेष्वनुवृत्तं तत् परमार्थसत् , यथा सर्पधारादिष्वनुगतो रज्ज्वादेरिदमंशः। विमतं १. जन्मप्रध्वंसाभ्यां यथाक्रममन्वयः— जन्मनःप्राक् , प्रध्वंसाच्चोर्ध्वमिति । २. विषयव्यभिचारोऽत्र बुद्धेः व्यभिचारोऽभिप्रेतः। विषयस्य व्यभिचारश्च प्रतिपन्नो- पाधौ परमार्थतोऽसत्त्वम्। ३. ‘विभ्रमत्वाद्’ इति पा.। ४. नात्र यथाश्रुतार्थो ग्राह्यः। घट एव कपालरूपो जात इति तद्बुद्धेस्तद्बुद्धित्वमुपचर्यते।
[[५५]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
इत्यनन्तरं सतीति पूरणीयम्। ‘नीलोत्पलवत् सामानाधिकरण्येन ‘सन् घटः’ ‘सन् पटः’ ‘सन् हस्ती’त्येवं सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते’ इत्यन्वयः। सामानाधिकरण्येन समानाश्रयवृत्तित्वेन, अभेदसंबन्धेनेति यावत्। यथा नीलत्वोत्पलत्वयोः सामानाधि- करण्याद् नीलाभिन्नमुत्पलमिति शाब्दबोधः, एवं ‘सन् घटः’ इत्यादौ सत्त्वघटत्वयोः सामानाधिकरण्यात् सदभिन्नो घट इति बोधः। एवं नीलोत्पलयोरिव सद्घटयोः सामानाधिकरण्ये सति तद्बुद्ध्योरपि सामानाधिकरण्यं सम्भवति, एकस्मिन्नेव नीलोत्पलपदार्थे नीलबुद्धेरुत्पलबुद्धेश्च जातत्वात्। एकस्मिन्नेव विद्यमानघटे सद्बुद्धेर्घटबुद्धेश्च जातत्वात्। ननु भवतु बुद्धिद्वयम् , किं तेनेत्यत आह— तयोरिति। सद्बुद्धिघटबुद्ध्योरित्यर्थः। घटादीति। आदिपदात् पटहस्तिग्रहणम्। सद्बुद्धिघटबुद्ध्योः घटबुद्धिर्व्यभिचरति, सद्बुद्धिपटबुद्ध्योः पटबुद्धिर्व्यभिचरति, सद्बुद्धिहस्तिबुद्ध्योस्तु हस्तिबुद्धिर्व्यभिचरतीत्यर्थः। कथं १. ‘सामानाधिकरण्येन’ इति रा.पा.। २. सामानाधिकरण्यस्येति अनुषङ्गः। ३. इतरसामग्र्यां सत्यां परमार्थविभागाभावमात्रेण कार्यानुदयस्यादर्शनादित्यर्थः। ४. ‘तत्राभावात्’ इति पा.। ५. सामानाधिकरण्यमित्यर्थः। अभेदे स्वं प्रति स्वस्य, भिन्नयोश्च घटपटयोः तददर्शनात्। ६. समानसत्ताकौ इति शेषः। चरति तत् सत् , यद्विषया व्यभिचरति तदसत् इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते १समानाधिकरणे, न नीलोत्पलवत् , ‘सन् घटः’ ‘सन् पटः’ ‘सन् हस्ती’ इति। एवं सर्वत्र। तयोर्बुद्ध्योः घटादिबुद्धिः
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
रज्जुसर्पवदित्यर्थः। नन्वेतदनुमानं सकलद्वैतजातातत्त्ववादिनो दृष्टान्ताभावादनुपपन्नमित्याशङ्क्याह— [सदसद्विभागे बुद्धितन्त्रे इति।] सदसद्विभागे बुद्धितन्त्रे लोके व्यवस्थिते सति तदनुमानादिव्यवहारो नानुपपन्नः। एषा हि मायावादिनां मर्यादा यत् - स्वमतं लोकसिद्धेन परसिद्धेन वा दृष्टान्तेन परः प्रतिबोधनीयः- इति। नो खलु स्वयं सत्यतया (च) परिगृहीत एव दीपः अन्धकारध्वंसप्रयोजक इति। तथापि हेतोः पक्षधर्मताप्रमितिरस्ति वा न वा? प्रथमे न द्वैतस्याप्रामाणिकत्वसिद्धिः, चरमे हेत्वसिद्धिरित्याशङ्क्याह— सर्वत्र द्वे बुद्धी इति। लौकिकबुद्धिसिद्धहेतौ सम्भवति प्रमितत्वविशेषणमकिञ्चित्करम् , केवलव्यतिरेकाभावात् , स्वप्नवच्च जडादिसिद्धिरिति भावः। ननु द्वे बुद्धी स्वीकृते चेत् , तर्हि सत्ता सामान्यं, घटादयस्तु तद्विशेषा इत्येवं वस्तुभेद एव किं नाङ्गीक्रियते इत्याशङ्क्याह— समानाधिकरणे इति। सोऽयं देवदत्तः इत्यादौ कल्पितभेदपरामर्शेनैकवस्तुपर्यवसितस्य सामानाधिकरण्यस्योपलम्भात् , भिन्नयोश्च घटपटयोः २अनुपलम्भात् , न भेद- सिद्धिरिति भावः। तर्हि नीलोत्पलवद् धर्मिधर्मभावरूपसामानाधिकरण्यं गौणं भविष्यतीत्याशङ्क्याह— न नीलोत्पलवदिति। आनन्दगिरिकृतव्याख्या सत्यम् , अव्यभिचारित्वात् , सम्प्रतिपन्नवदित्यर्थः। व्यावृत्तस्य कल्पितत्वे प्रमाणमाह— यद्विषयेत्यादिना। यद् व्यावृत्तं तन्मिथ्या, यथा सर्पधारादि। विमतं मिथ्या, व्यभिचारित्वात् , सम्प्रतिपन्नवदित्यर्थः। इत्यनुमानद्वयमनुसृत्य सतोऽकल्पितत्वम् , असतश्च कल्पितत्वं स्थितमिति शेषः। ननु नेदमनुमानद्वयमुपपद्यते, समस्तद्वैतवैतथ्यवादिनो विभागाभावादनुमानादिव्यवहारानुपपत्तेः? तत्राह— सदसदिति। उक्ते विभागे बुद्धिद्वयाधीने स्थिते सत्यनुमानादिव्यवहारो निर्वहति, प्रातिभासिकविभागेन तद्योगात् , परमार्थस्यैव तद्धेतुत्वे ३केवलव्यतिरेकाभावादित्यर्थः। कुतः सदसद्विभागस्य बुद्धिद्वयाधीनत्वम् , बुद्धिविभागस्यापि ४तवाभावात्? तत्राह— सर्वत्रेति। व्यवहारभूमिः सप्तम्यर्थः। बुद्धिविभागस्यापि कल्पितस्यैव बोध्यविभागप्रतिभासहेतुतेति भावः। बुद्धिद्वयमनुरुध्य सदसद्विभागे, सतः सामान्यरूपतया विशेषाकाङ्क्षायां सामान्यविशेषौ द्वे वस्तुनी वस्तुभूते स्यातामिति चेत्? तत्राह— समानाधिकरणे इति। पदयोः सामानाधिकरण्यं बुद्ध्योरुपचर्यते। ‘सोऽयम्’ इति सामानाधिकरण्यवद् ‘घटः सन्’ इत्यादि सामानाधिकरण्यम् एकवस्तुनिष्ठम् , वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः। नीलमुत्पलमितिवद् धर्मधर्मिविषयतया सामानाधिकरण्यस्य सुवचत्वान्न वस्त्वैक् यविषयत्वमिति चेत्? नेत्याह— न नीलेति। न हि सामान्यविशेषयोर्भेदेऽभेदे च ५तद्भावः। भेदाभेदौ च ६विरुद्धौ। अतो जातिव्यक्त्योः सामानाधिकरण्यं अ.२. श्लो. १६ ]
[[५६]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
व्यभिचरतीत्यत्राह— तथा च दर्शितमिति। यथा व्यभिचरति तथा दर्शितमेवेत्यर्थः। घटादिविकारजातस्य व्यभिचारप्रदर्शनद्वारेति भावः। स्वविषये घटादिविकारे व्यभिचरति सति, स्वयं बुद्धिरपि व्यभिचरतीति तत्त्वम्। घटस्य कालत्रयेऽसत्त्वे तद्विषयबुद्धेरपि कालत्रयेऽप्यसत्त्वादस्ति व्यभिचार इत्याशयः। यद्वा - घटः स्वोत्पत्तेः प्राक् मृद्रूपत्वान्मृद्बुद्धिविषयः, ध्वंसानन्तरं चूर्णबुद्धिविषयः, स्वकाले घटबुद्धिविषयः। अतः काल- त्रयेऽप्यनियतरूपत्वेन अनियतबुद्धिविषयत्वाद् व्यभिचारित्वं घटस्य। तद्बुद्धेश्चानियतविषयत्वेनानियतरूपत्वाद् व्यभिचारित्वमिति। यत् सदाऽप्येकरूपं तदव्यभिचारि, यत्त्वनियतरूपं तद् व्यभिचारीति सिद्धान्तात्। न त्विति। सद्बुद्धिस्तु न व्यभिचरतीत्यर्थः। फलितमाह— तस्मादिति। सद्बुद्धेरव्यभिचारित्वाद् घटादिबुद्धेश्च व्यभिचारित्वादित्यर्थः। घटादिबुद्धिविषय इति। घटादिवस्त्वित्यर्थः। असद् भवतीति शेषः। हेतुमाह— व्यभिचारादिति। व्यभिचारश्च दर्शितः— ‘विकारश्च व्यभिचरती’त्यादिनेति बोध्यम्। न त्विति। सद्बुद्धेः विषयः गोचरः वस्तु तु नासत् , अव्यभिचारात् कालत्रयेऽप्येकरूपेण वर्तमानत्वादित्यर्थः। किन्तु सदेवेत्यर्थः। एतेन असद्बुद्धि- विषयस्य घटादिकार्यजातस्य मृदादिकारणजातस्य चासत्त्वेऽपि, सद्बुद्धिविषयस्य परमकारणस्य ब्रह्मणः सत्त्वान्न शून्यवादप्रसङ्ग इति सिद्धम्। अत्रेदमवधेयम्— कारणधर्मः कार्येऽन्वेति, यथा मृद्धर्मः काठिन्यनैल्यादिकं घटे। एवम् ‘आत्मन आकाशः सम्भूतः’ इति सर्वजगत्कारणस्यात्मनः सच्चिदानन्दरूपस्य धर्माः सत्ताचैतन्यानन्दाः कार्ये जगत्यनुगताः। अत एव - घटोऽस्ति , घटो भाति , घटः प्रिय इत्यादिर्व्यवहारः। एतद्व्यवहारबलाद् घटादिकार्यजाते ४श्रूयमाणाः सत्ताभानानन्दाः खल्वात्मधर्माः कार्यत्वादात्माभिन्ने कार्यजाते व्यभिचरति; तथा च दर्शितम् ; न तु सद्बुद्धिः। तस्माद् घटादिबुद्धिविषयोऽसन् , व्यभिचारात् , न तु सद्बुद्धिविषयो ऽव्यभिचारात्।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
‘सन् घटः’ ‘सन् पटः’ ‘सन् हस्ती’त्येवं सर्वं यत् सामानाधिकरण्यं दृश्यते, तन्न नीलोत्पलवद् भवितुमर्हति। घटादेः पृथक् सत्त्वे प्रमाणाभावात्। तथा हि— न तावत् ‘सन् घट’(त) इति प्रत्ययः १प्रमाणम् , तस्यानुवृत्तगोचरत्वात्। नाप्यनुगत्य- नुपपत्तिः, आपरोक्ष्यानुपपत्तिर्वा२। शुक्तीदमंशसंसृष्टरूप[रूप्य]स्य सत्त्वाभावेऽपि सत्त्वानुगत्यपरोक्षत्वयोर्दर्शनात्। अर्थ- क्रियायाश्च स्वप्नकामिन्यादेरिव तुच्छव्यावृत्तिमात्रेण संभवात् न स्वरूपसत्त्वसाधकत्वम्। तस्माद् धर्मधर्मिभाव[वा]योगात् परिशेषत्वा[षा]द् - ३घटादयः स्वानुगते कल्पिताः, व्यावृत्तत्वाद् , रज्जुसर्पवदिति सिद्धम्। ननु द्वयोरपि बुद्ध्योः प्रत्यक्षत्वाविशेषे केन विशेषेण व्यावृत्तिबुद्धिविषयस्य मिथ्यात्वमित्याशङ्क्याह— तयोर्बुद्ध्योरिति। आनन्दगिरिकृतव्याख्या नीलोत्पलयोरिव न गौणम् , किन्तु व्यावृत्तमनुवृत्ते कल्पितमित्येकनिष्ठमित्यर्थः। सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति— एवमिति। तुल्यौ हि तत्रापि विकल्पदोषाविति भावः। सामानाधिकरण्यानुपपत्त्या द्वे वस्तुनी सामान्यविशेषाविति पक्षं प्रतिक्षिप्य, विशेषा एव वस्तूनीति पक्षं प्रतिक्षिपति— तयोरिति। बुद्धिव्यभिचाराद् बोध्यव्यभिचारेऽपि कथं व्यावृत्तानां विशेषाणामवस्तुत्वमित्याशङ्क्याह— तथा चेति। ‘विकारो हि सः’ इत्यादाविति शेषः। न चैकं वस्तु सामान्यविशेषात्मकम् , एकस्य द्वैरूप्यविरोधादित्यभिप्रेत्य सामान्यमेकमेव वस्तु , तद्बुद्धेरव्यभिचारात् , बोध्यस्यापि सतस्तथात्वादित्याह— न त्विति। व्यभिचरतीति पूर्वेण सम्बन्धः। विशेषाणां व्यभिचारित्वे सतश्चाव्यभिचारित्वे फलितमुपसंहरति—तस्मादिति। असत्त्वं कल्पितत्वम्। तच्छब्दार्थमेव स्फोरयति—व्यभिचारादिति। सद्बुद्धिविषयस्य सतोऽकल्पितत्वे तच्छब्दोपात्तमेव हेतुमाह— अव्यभिचारादिति। १. घटादेः सत्त्वे इति शेषः। २. घटादेः सत्त्वे प्रमाणमिति शेषः। ३. अस्यानुमानस्य विवेचनमद्वैतसिद्धौ (पृ. ३१७) द्र.। ४. ज्ञायमाना इत्यर्थः।
[[५७]]
वर्तमाना इव प्रतिभान्ति। न तु वस्तुतस्तत्र सन्ति। मृद्धर्माः काठिन्यादयोऽपि हि घटाकारपरिणतमृद्येव वर्तन्ते, न तु कम्बुग्रीवत्वा- द्याकारे। तद्वद् घटादौ प्रतीयमानाः सत्ताचैतन्यानन्दाः घटाद्यवच्छिन्नचैतन्यात्मनिष्ठा एव। ततश्च घटःसन्निति घटे श्रूयमाणा सत्ता आत्मसत्तैव, न तु घटसत्ता। तस्याश्च सत्ताया घटस्य पृथक्करणे असन्नेव घटोऽवशिष्यते। एवं सर्वमपि जगत् कारणचैतन्यसत्तयैव सदित्युच्यते, अन्यथा तु जगदसदेवेति। किञ्च ‘मृद्घटः’ इतिवत् ‘सन् घटः’ इत्यपि प्रयोगः कार्यकारणाभेदनिबन्धन एवेति कृत्वा तत्र सच्छब्दः घटभिन्नमात्मानमेव बोधयति; यथा मृद्घट इत्यत्र मृच्छब्दो घटभिन्नां मृदम्। अतत्त्वदर्शिनस्त्वत्र भ्रान्ता घटमेव सन्तं मन्यन्त इति। अथासद्बुद्धेरिव सद्बुद्धेरपि व्यभिचारमाशङ्कते— नन्वित्यादिना। घटे विद्यमाने ‘सन् , घटः’ इति बुद्धिद्वयमासीत् , घटे नष्टे तु घटबुद्धिरिव सद्बुद्धिरपि नष्टैव। न हि घटनाशानन्तरं सन्निति बुद्धिर्भवेदित्यर्थः। परिहरति— नेति। पटादावपि सद्बुद्धिदर्शनान्न सद्बुद्धिः व्यभिचरतीत्यन्वयः। यदि घटनाशादेव घटबुद्धिनाशवत् तत्समानाधिकरणसद्बुद्धिनाशः स्यात् , तर्हि ‘पटःसन्’ इति पटबुद्धिसामाना- धिकरण्येन सद्बुद्धिर्न स्यादिति भावः। पटादावित्यस्य पटादिबुद्धिसामानाधिकरण्येनेत्यर्थो वाच्यः। यथाश्रुतार्थे तु सद्बुद्धिविषयत्वं पटादेरापतति, तद्ध्यनिष्टम्। सद्बुद्धेर्घटनाशादनाशे हेत्वन्तरमाह— विशेषणविषयैव सा सद्बुद्धिरिति। विशेषणं विषयो यस्याः सा विशेषणविषया। ‘सन् घटः’ इत्यादौ हि सन्निति विशेषणम् , घटादयस्तु विशेष्याणीति कृत्वा सद्बुद्धेर्विशेषणविषयत्वम्। नीलोत्पलं, नीलाम्बरं, नीलागः इत्यादौ विशेष्यभूतोत्पलादिबुद्धेर्व्यभिचारेऽपि यथा विशेषणभूतनीलबुद्धेरव्यभिचारः, तद्वदिति भावः। ननु ‘सन् घटः’ इति सद्बुद्धिर्घटनाशानन्तरं ‘सन्पटः’ इत्यत्र यथा दृश्यते, तथा घटबुद्धिरपि घटान्तरे दृश्यत इति कथं घटबुद्धेर्व्यभिचार इति शङ्कते— सद्बुद्धिवदिति। परिहरति— नेति। पटादौ घटबुद्धेरदर्शनान्न घटबुद्धेरव्यभिचार इत्यर्थः। पटादिबुद्धिसामानाधिकरण्येन घटबुद्धिर्न दृश्यते, सद्बुद्धिस्तु दृश्यत इति न सद्बुद्धिसाम्यं घटबुद्धेरिति भावः। ननु ‘सन् नष्टघटः’ इति सद्बुद्धिनष्टघटबुद्धि- सामानाधिकरण्याभावाद् नष्टघटादिसमानाधिकरणसद्बुद्ध्यभावेन सद्बुद्धेरपि व्यभिचार इति शङ्कते— नन्विति। परिहरति— नेति। सद्बुद्धिव्यभिचारद्वारा ४बोध्यस्यापि व्यभिचारात् तदव्यभिचारित्वहेतोरसिद्धिरिति शङ्कते— घटे विनष्ट इति। सद्बुद्धेर्घटबुद्धिवद् ५घटविषयत्वाभावाद् न घटनाशे व्यभिचारोऽस्तीति परिहरति— न ; पटादाविति। सद्बुद्धेरघटविषयत्वे निरालम्बनत्वायोगाद् विषयान्तरं वक्तव्यमित्याशङ्क्याह— विशेषणेति। सतोऽकल्पितत्वहेतोरव्यभिचारित्वस्यासिद्धिमुद्धृत्य, विशेषाणां कल्पितत्वहेतोर्व्यभिचारित्वस्या- सिद्धिं शङ्कते— सदिति। यथा सद्बुद्धिः घटे नष्टे पटादौ दृष्टत्वादव्यभिचारिणीत्यव्यभिचारः सतो दर्शितः, तथा घटबुद्धिरपि घटे नष्टे घटान्तरे दृष्टेत्यव्यभिचाराद् घटे व्यभिचारासिद्धौ विशेषान्तरेष्वपि कल्पितत्वहेतोर्व्यभिचारो न सिध्यतीत्यर्थः। घटबुद्धेर्घटान्तरे दृष्टत्वेऽपि पटादावदृष्टत्वेन व्यभिचारात् ६घटादिविशेषेष्वपि व्यभिचारित्वसिद्धिरित्युत्तरमाह—न; पटादाविति। विशेषाणामेवं व्यभिचारित्वे सतोऽपि
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत्? न ; पटादावपि सद्बुद्धिदर्शनात्। विशेषण- विषयैव सा सद्बुद्धिः। २सद्बुद्धिवद् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत् ? न; पटादावदर्शनात्। ३सद्बुद्धिरपि नष्टे घटे व्यभिचारित्वाव्यभिचारित्वलक्षणस्य विशेषहेतोरसिद्धिं शङ्कते— घटे विनष्ट इति। यद्[यदि] घटविषया सद्बुद्धिः स्यात् , तदा घटनाशे व्यभिचरेत् , किन्तु सा अनुगतविशेषणविषयैवेति परिहारार्थः। अतिप्रसङ्गं शङ्कते— सद्बुद्धिवदिति। निरङ्कुशमव्यभिचारित्वं मया हेतुत्वेनोपात्तं न घटादेरस्तीत्याह— न ; पटादावदर्शनादिति। तर्हि निरङ्कुशमव्यभिचारित्वं सतोऽपि नास्ति, अभावदेशे व्यभिचारादित्याह— सद्बुद्धिरपीति। यथा खण्डादिगवादिव्यक्तिनाशे गोत्वं व्यञ्जकाभावाद् न
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘ननु घटे’ इति रा.पा.। २. ‘अतोऽपि न विनश्यति। अथ सद्बुद्धिवद्’ इति पाठः क्वचिद् दृश्यते। ३. ‘ननु सद्बुद्धिरपि’ इति रा.पा.। ४. सद्बुद्धिविषयस्य सतः इत्यर्थः। ५. ‘घटमात्र’ इति पा.। ६. ‘पटादिविशेषेष्वपि’ इति पा.। अ.२. श्लो. १६ ]
[[५८]]
हेतुमाह— विशेष्येति। विशेष्यस्याभावे विशेषणस्यानुपपत्तौ सत्यां सद्बुद्धिः किंविषया स्यात्? विशेष्यस्य घटस्य अभावात् नाशात् , विशेषणस्य सतः अनुपपत्तौ, नष्टघटे सत्त्वस्यासम्भवादित्यर्थः। विशेषणविषयायाः सद्बुद्धेर्विशेषणानुपपत्तौ सत्यां निर्विषयत्वं जातमिति यावत्। सद्बुद्धेर्विशेषणमात्रविषयत्वाद् विशेषणानुपपत्त्या निर्विषयत्वमिति फलितार्थः। सतो नष्टघटविशेषणत्वानुपपत्त्यैव नष्टघटबुद्धिसमानाधिकरणसद्बुद्ध्यभाव इति निष्कर्षः। एवकारार्थमाह— न त्विति। सद्बुद्धेर्विषयस्तु सद्वस्तु ब्रह्मैव। कथं तस्याभावः शक् यते कल्पयितुम्? न कथमपीत्यर्थः। न च सद्वस्तुनः स्वतन्त्रस्य कथं घटादिविशेषणत्वमिति वाच्यम् ; अज्ञानकृताल्लोक- व्यवहारादेव, न तु वस्तुत इति। ननु ‘नासतो विद्यते भावः’ इत्यसतो घटादेर्भावाभावाद् असता घटादिना सतो ब्रह्मणः सामानाधिकरण्यं नोपपद्यते ‘सन् घटः’ ‘सन् पटः’ इत्यादीत्याक्षिपति— एकाधिकरणत्वमिति। घटादेर्विशेष्यस्याभावे विशेषणविशेष्ययोः सद्घटयोः सामानाधिकरण्यं न युक्तमित्यर्थः। मरीच्यादावित्यादिपदाच्छुक्तिरज्ज्वादिग्रहणम्। अन्यतराभावेऽपीति। अन्यतरस्योदकरजतसर्पादेरभावेऽपीत्यर्थः। मरी- च्यादावन्यतराभावेऽपि ‘इदमुदकम्’ इति सामानाधिकरण्यदर्शनादित्यन्वयः। अयमाशयः—‘मरीचिका उदकं’ ‘शुक्ती रजतं’ ‘रज्जुः सर्पः’ इत्येवं प्रतीतिः क्वापि नास्ति, अधिष्ठानविशेषज्ञानेनारोप्यविशेषज्ञानस्य बाधात्। किन्तु ‘इदमुदकम्’ ‘इदं रजतम्’ ‘अयं सर्पः’ इति प्रतीतिरस्ति, अधिष्ठानसामान्यज्ञानस्यारोप्यविशेषज्ञानबाधकत्वाभावात्। तत्र च यदधिष्ठानमिदमंशः तदेवास्ति, यत्त्वारोप्य- मुदकादि तन्नास्त्येव। सर्पादिप्रतीतेः प्राक्, सर्पादिबाधानन्तरं च रज्ज्वादेरेव सत्त्वात् , सर्पादिप्रतीतिकालेऽपि वस्तुतो रज्ज्वादेरेव सत्त्वात् , कालत्रयेऽपि सर्पादेरसत्त्वाद् व्यभिचारः, रज्ज्वादेः सत्त्वादव्यभिचारः। एवं व्यभिचारिणाऽपि सर्पादिना अव्यभिचारिण इदमंशस्याधिष्ठानसामान्यस्य सामानाधिकरण्यमस्त्येव ‘अयं सर्पः’ इत्यादिप्रतीतेः। तद्वत् ‘ब्रह्म घटः, ब्रह्म पटः, ब्रह्म हस्ती’ इत्येवं तदुपपत्तेरव्यभिचारित्वहेत्वसिद्धितादवस्र्ह्यमिति शङ्कते— सद्बुद्धिरिति। घटादिनाशदेशे तदुपरक्ताकारेण सत्त्वाभानेऽपि नासत्त्वम् , घटाद्यभावाधिष्ठानतया भानादित्याह— न ; विशेष्येति। ३यथा सर्वगता जातिरित्यत्र खण्डमुण्डादिव्यक्त्यभावदेशे गोत्वं व्यञ्जकाभावान्न व्यज्यते, न गोत्वाभावात् , तथा सत्त्वमपि घटादिनाशे व्यञ्जकाभावान्न भाति, न स्वरूपाभावादित्युक्तमेव प्रपञ्चयति— सदित्यादिना। सप्रतियोगिकविशेषणव्यभिचारेऽपि स्वरूपाव्यभिचाराद् युक्तं सतः सत्यत्वमिति भावः। द्वयोः सतोरेव विशेषणविशेष्यत्वदर्शनाद् घटसतोरपि विशेषणविशेष्यत्वे द्वयोः सत्त्वध्रौव्याद् घटादिकल्पितत्वानुमानं सामानाधिकरण्यधीबाधितमिति चोदयति— एकेति। अनुभवमनुसृत्य बाधितविषयत्वमुक्तानुमानस्य निरस्यति— नेत्यादिना। घटादेः
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
न दृश्यत इति चेत् ? न ; विशेष्याभावात्। सद्बुद्धिर्विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात् ? न तु पुनः सद्बुद्धेर्विषयाभावात्। एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत्? न ; १‘सदिदमुदकम्’ इति मरीच्यादावन्यतराभावेऽपि
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
भाति, न तु गोत्वस्यैव विनाशात् , तथा घटादिनाशेऽपि सत्त्वं तदुपरक्तरूपेण न भातीत्येतावन्मात्रम् , न तु नास्त्येव, अभावाधिष्ठानतया भानादित्यभिप्रेत्याह— न ; विशेष्याभावादिति। विशेषणत्वं नाम २सप्रतियोगिकं रूपम् , तद् यद्यपि व्यभिचरति, तथापि स्वरूपव्यभिचाराभावात् सिद्धं सतः स्वतःसिद्धत्वम्। ननु नीलोत्पलादौ सतोरेव विशेषणविशेष्यभावदर्शनात् ‘सन् घट’ इत्यादावपि विशेषणविशेष्यभावे द्वयोरपि सत्त्वं वक्तव्यम्। ततः पूर्वोक्तमनुमानं बाधितविषयमित्याह— एकाधिकरणत्वमिति। व्यभिचाराभिधानेन परिहरति— न ; इदमुद- १. ‘इदमुदकमिति’ इति पा.। २. निरूपकत्वेन विशेष्यसापेक्षमित्यर्थः। ३. सर्वसर्वगता जातिः, व्यक्तिसर्वगता जातिः इति पक्षद्वयम्। आद्यपक्षेऽयं दृष्टान्तः। तत्र हि गोत्वं सर्वत्र विद्यमानमपि गोव्यक्तावेव व्यज्यते।
[[५९]]
क्वापि प्रतीतिर्नास्ति। किन्तु ‘सन् घटः, सन् पटः, सन् हस्ती’ इत्येवमेव प्रतीतिः सर्वत्र। तत्र यद्विशेषणं सदंशस्तदेवास्ति, यत्तु विशेष्यं घटाद्यंशस्तन्नास्त्येव। विशेषणभूते २सति अधिष्ठाने विशेष्यस्य घटादेः कल्पितत्वात्। अयं च सद्रूपो विशेषणांशो न घटादि- विशेष्यांशबाधक इत्यस्त्युभयोः सामानाधिकरण्यमिति। श्लोकस्य प्रथमपादार्थमुपसंहरति— तस्मादिति। शीतोष्णादेः सकारणस्य विकारस्य असद्बुद्धिविषयत्वेन व्यभिचारादित्यर्थः। ‘असतः सकारणस्य देहादेर्द्वन्द्वस्य च भावो न विद्यते’ इत्यन्वयः। देहादेरित्यत्रादि- पदादिन्द्रियमनआदिग्रहणम्। द्वन्द्वस्य शीतोष्णसुखदुःखादिरूपस्येत्यर्थः। यथा घटादिरुत्पत्तेः प्राग् ध्वंसात् पश्चाच्चासन् , मध्येऽपि कारणभूतमृदादिव्यतिरेकेणासन् , तथा देहादिरपि जन्मनः प्राग् मरणादूर्ध्वं चासन् , मध्येऽपि कारणभूतपृथिव्यादिभूतव्यतिरेकेणासन् इति देहादेर्व्यभिचारो बोध्यः। श्लोकस्य द्वितीयपादस्यार्थमाह— तथेत्यादिना। तथाशब्दः पूर्ववाक्यार्थसमाप्तिद्योतकः। यथा असतो भावो नास्ति, तथेति दृष्टान्तार्थो वा। सत्पदार्थमाह— आत्मन इति। सच्चिदानन्दरूपत्वादात्मन इति भावः। सर्वत्राव्यभिचारादिति। सर्वेषु कालेषु सर्वेषु देशेषु सर्वेषु वस्तुषु च सत्त्वादित्यर्थः। अवोचामेति। पूर्वमेवोक्तमस्माभिरित्यर्थः। ‘यद्विषया बुद्धिर्न व्यभिचरति तत् सद्’ इति वाक् येनेति भावः। श्लोकस्य तृतीयचतुर्थपादयोरर्थमाह— एवमित्यादिना। ‘एवमनयोरुभयोः सदसतोरात्मानात्मनोरपि अन्तो निर्णयः तत्त्वदर्शिभिः दृष्टः उपलब्धः, ज्ञात इति यावत्’ इत्यन्वयः। निर्णयस्याकारमाह— सत् सदेव, असदसदेवेति। सदसतोः सामानाधि- करण्यमज्ञानविलसितमिति भावः। अनयोःशब्दार्थमाह— यथोक्तयोरिति। अभावराहित्येन भावराहित्येन च श्लोकद्वितीयप्रथम- कमिति। यस्माद् घटस्य सति (वि)कल्पितत्वानुमानं निर्दुष्टं तस्मादित्युपसंहारः॥१६-१७॥
सति कल्पितत्वानुमानस्य दोषराहित्ये फलितमुपसंहरति— तस्मादिति। प्रथमपादव्याख्यानपरिसमाप्तौ इतिशब्दः। ननु नेदं व्याख्यानं भाष्यकाराभिप्रेतम् , सर्वद्वैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात्। केनापि पुनर्दुर्विदग्धेन स्वमनीषिकया उत्प्रेक्षितमेतदिति चेत्? मैवम् ; किमिदं द्वैतप्रपञ्चस्य शून्यत्वम्? किं तुच्छत्वं, किं वा सद्विलक्षणत्वम्? नाद्यः, अनभ्युपगमात्। द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो, भाष्यविरोधश्च। सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्यत्वानधिकरणत्वसाधनेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैविद्यवृद्धैस्तत्र तत्र प्रतिष्ठापितम्। तथा च प्रक्षेपाशङ्का सम्प्रदायपरिचयाभावादिति द्रष्टव्यम्। अनात्मजातस्य कल्पितत्वेनावस्तुत्वप्रतिपादनपरतया प्रथमपादं व्याख्याय, द्वितीयपादमात्मनः सर्वकल्पनाधिष्ठानस्याकल्पित- त्वेन वस्तुत्वप्रसाधनपरतया व्याकरोति— तथेति। नन्वात्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यादित्याशङ्क्य विशिष्टनाशेऽपि स्वरूपानाशस्योक्तत्वान्मैवमित्याह— सर्वत्रेति। ननु कदाचिदसदेव पुनः सत्त्वमापद्यते, प्रागसतो घटस्य जन्मना सत्त्वाभ्युपगमात्। सच्च कदाचिदसत्त्वं प्रतिपद्यते, स्थितिकाले सतो घटस्य पुनर्नाशेनासत्त्वाङ्गीकारात्। एवं सदसतोरव्यवस्थितत्वा- विशेषादुभयोरपि हेयत्वमुपादेयत्वं वा तुल्यं स्यादिति, तत्राह— एवमिति। तुशब्दो दृष्टशब्देन सम्बध्यमानो दृष्टिमवधारयति। न हि प्रागसतो घटस्य सत्त्वम् , असत्त्वे स्थिते सत्त्वप्राप्तिविरोधात् । असत्त्वनिवृत्तिश्च सत्त्वप्राप्त्या चेत् , प्राप्तमितरेतराश्रयत्वम्। अन्तरेणैव सत्त्वापत्तिमसत्त्वनिवृत्तावसत्त्वमनवकाशि भवेत्। एतेन सतोऽसत्त्वापत्तिरपि प्रतिनीतेति भावः। कथं तर्हि सतोऽसत्त्वम् , असतश्च सत्त्वं प्रतिभाति? इत्याशङ्क्य तत्त्वदर्शनाभावादित्याह— तत्त्वेति। तस्य भावस्तत्त्वम्। न च तच्छब्देन परामर्शयोग्यं किञ्चिदस्ति प्रकृतं
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सामानाधिकरण्यदर्शनात्। तस्माद् देहादेर्द्वन्द्वस्य च सकारणस्यासतो न विद्यते भावः इति। तथा सतश्चात्मनः अभावः अविद्यमानता न विद्यते, सर्वत्राव्यभिचारादित्यवोचाम। एवम् आत्मानात्मनोः सदसतोः उभयोरपि दृष्टः उपलब्धः१ अन्तो निर्णयः ‘सत् सदेव, असदसदेव’ इति त्वनयोः यथोक्तयोः तत्त्व- १. ‘दृष्टः उपलब्धः, ज्ञात इति यावत् , अन्तो निर्णयः’ इति भाष्यपाठः रामकविसंमत इति भाति। २. सति = सत्पदार्थे ब्रह्मणि। अ.२. श्लो. १६ ]
[[६०]]
पादाभ्यां प्रतिपादितयोरित्यर्थः। तत्त्वदर्शिशब्दार्थमाह— तदित्यादिना। तच्छब्देन परामर्शयोग्यस्य प्रकृतस्य कस्यचित् प्रतिनियतस्य वस्तुनोऽभावात् तदिति सर्वनामेत्युक्तम्। सर्वनामशब्दार्थमाह— सर्वं चेत्यादिना। सर्वस्य नाम सर्वनामेति षष्ठीसमासः। ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतेः सर्वस्य ब्रह्मकार्यत्वेन कारणभूतब्रह्माभिन्नत्वात् सर्वं ब्रह्मैव। यद्वा सर्वस्य ब्रह्मणि कल्पितत्वेन कल्पितस्याधिष्ठाना- नतिरिक्तत्वात् सर्वं ब्रह्मैव। ननु यदि तच्छब्दस्य सर्वनामत्वेन ब्रह्मनामत्वं स्यात् , तर्हि उभ-उभय-कतर-कतमादीनामपि सर्वनामत्वेन ब्रह्मनामत्वं स्यात् , न चेष्टापत्तिः, उभादीनां क्वापि ब्रह्मणि प्रयोगाभावात् इति चेत् , उच्यते - शृणु; ‘सर्वादीनि सर्वनामानि’ इति व्याकरण- परिभाषितसर्वनामत्वेन तच्छब्दस्य ब्रह्मवाचित्वमिह नोच्यते , किं त्वविशेषेण सर्ववस्त्वभिधायित्वप्रयुक्तसर्वनामत्वेनेति।१ ननु ब्रह्मणो निर्धर्मकत्वात् तद्वाचिनस्तच्छब्दात् कथं भावप्रत्ययोपपत्तिः? अत आह— याथात्म्यमिति। ब्रह्मणो याथात्म्यम् इह भावार्थकत्वप्रत्ययेनाभिधीयते, न तु ब्रह्मातिरिक्तो धर्म इत्यर्थः। याथात्म्यं च याथार्थ्यम्। तच्च ब्रह्मणः सच्चिदानन्दरूपत्वम्। न च निर्धर्मके ब्रह्मणि सच्चिदानन्दरूपत्वरूपधर्मः कथं वर्तेतेति वाच्यम् ; ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्माः, अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते’ इति वचनात् , सत्ता चितिरानन्दश्चेति धर्मत्रयं ब्रह्मणोऽपृथग्भूतमेव पृथगिवावभासते माययेति कृत्वा न दोष इति। ननु सच्चिदानन्दरूपं ब्रह्म, तत्र सत्ताचित्यानन्दाः ब्रह्मणोऽपृथग्भूता भवन्तु नाम, सच्चिदानन्दरूपे सच्चिदानन्दरूपत्वस्य सत्त्वात् कथं निर्धर्मकत्वमिति मया पृच्छ्यत इति चेत् , मैवम् ; यथा सत्तादयोऽपृथग्भूताः, तथा सच्चिदानन्दरूपत्वमप्यपृथग्भूतमेव ब्रह्मणः, सत्ताचित्यानन्देभ्यो न हि भिन्नं यत् किमपि सच्चिदानन्दरूपत्वमिति। अस्मिंश्च श्लोके ब्रह्मणः सद्रूपत्वमेव प्रपञ्चितम् , न तु चिद्रूपत्वम् , नाप्यानन्दरूपत्वम्। तद्द्वयमुत्तरत्र प्रपञ्चयिष्यत इति बोध्यम्। दृष्टिमिति। मतमित्यर्थः। ज्ञानमिति यावत्। ‘ब्रह्मातिरिक्तं सर्वं जगदसत् , प्रत्यगभिन्नं ब्रह्मैकमेव सदि’त्येवंरूपां दृष्टिमिति भावः। अत्र श्रीशाङ्करभाष्ये ‘सामानाधिकरण्येने’ति स्थले ‘समानाधिकरणे न’ इति पाठमाश्रित्य ‘सन् घटः, सन् पटः, सन् हस्ती’त्येवं सर्वत्र समानाधिकरणे द्वे बुद्धी सर्वैरुपलभ्येते, न नीलोत्पलवदित्यन्वयं प्रकल्प्य, “पदयोः सामानाधिकरण्यं बुद्ध्योरुपचर्यते, सोऽयमिति सामानाधिकरण्यवत्। घटःसन्नित्यादि सामानाधिकरण्यमेकवस्तुनिष्ठम् , वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः। नील- मुत्पलमितिवद् धर्मधर्मिभावस्य सुवचत्वान्न वस्त्वैक् यविषयत्वमिति चेत्? नेत्याह— न ; नीलोत्पलवदिति। न हि सामान्यविशेषयो- र्भेदेऽभेदे च तद्भावः, भेदाभेदौ च विरुद्धौ। अतो जातिव्यक्त्योः सामानाधिकरण्यं नीलोत्पल इव न गौणम् , किन्तु व्यावृत्तमनुवृत्ते भाष्यार्कप्रकाशः दर्शिभिः। तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावस्तत्त्वं, ब्रह्मणो याथात्म्यम् , तद् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैस्तत्त्वदर्शिभिः। त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियत- रूपाणि द्वन्द्वानि ‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्याऽवभासते’ इति मनसि निश्चित्य तितिक्षस्वेत्यभिप्रायः ॥१६॥
प्रतिनियतमित्याशङ्क्य व्याचष्टे— तदित्यादिना। ननु सदसतोरन्यथात्वं केचित् प्रतिपद्यन्ते, केचित्तु तयोरुक्तनिर्णयमनुसृत्य तथात्व- मेवाधिगच्छन्ति; तत्र केषां मतमेषितव्यमिति? तत्राह— त्वमपीति॥१६॥
[आनन्दगिरिकृतव्याख्या]
१. तच्छब्दस्य ब्रह्मपरत्वे ‘ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति गीतावचनमप्यनुसंधेयम्। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥१६॥
[[६१]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
कल्पितमित्येकनिष्ठमित्यर्थः। सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति— एवमिति।”— इति व्याख्यातम् आनन्दगिरिणा। अत्र विचार्यते— समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमिति वस्तुद्वयनिष्ठमेव सर्वत्रापि सामानाधिकरण्यम्। तद्धि पदद्वयस्य विशेषणविशेष्यभावेनाभेदान्वये प्रयोजकम्। यथा- नीलमुत्पलमित्यत्र नीलाभिन्नमुत्पलमिति शाब्दबोधान्नीलत्वोत्प- लत्वयोरेकाधिकरणवृत्तित्वेन तत्सामानाधिकरण्यस्य नीलोत्पलपदार्थद्वयनिष्ठत्वम्। पदयोः सामानाधिकरण्यं च पदार्थयोः सामानाधि- करण्याधीनम्। तच्च पदार्थयोः सुतरां भेदे अभेदे वा न सम्भवति। अत एव - ‘घटः पटः’ इति, ‘घटो घटः’ इति च प्रयोगाभावः। न चैवं गुणगुणिनोर्नीलोत्पलयोः सुतरां भेदात् कथं नीलोत्पल[मिति] प्रयोग इति वाच्यम् ; तत्र नीलपदस्य नीलगुणवद्द्रव्ये शक्तत्वात् , ‘अथ त्रिषु द्रव्ये’ १इत्यमरशासनात् , लक्षणया वा तद्बोधात्। ततश्च नीलगुणवद्द्रव्याभिन्नमुत्पलमिति शाब्दबोधसिद्धिः। एवं सति पदार्थयोः सामानाधिकरण्यं सर्वत्रापि सामान्यविशेषभावाधीनमेव। तथाहि— नीलमुत्पलमित्यत्र नीलपदं नीलगुणवद्द्रव्यसामान्य- वाचि, उत्पलपदं तु द्रव्यविशेषवाचीत्युभयोः सामानाधिकरण्यम्। गौर्मुण्डः इत्यत्र गोपदं गोत्वसामान्यवद्व्यक्तिमात्रवाचि, मुण्डपदं व्यक्तिविशेषवाचि। मृद्घटः इत्यत्र मृत्पदं मृत्सामान्यवाचि, घटपदं कम्बुग्रीवाद्याकारवन्मृद्विशेषवाचि। ‘अयं सर्पः’ इत्यत्र इदंशब्दः पुरःस्थितवस्तुसामान्यवाची , सर्पशब्दस्तद्विशेषवाची। ‘सन् घटः’ इत्यत्र सच्छब्दः सत्तावद्वस्तुमात्रवाची , घटशब्दस्तद्विशेषवाची। यद्वा मृद्घट इत्यादिषु कार्यकारणभावाधीनं सामानाधिकरण्यम् , अन्यत्र तु सामान्यविशेषभावाधीनमित्यस्तु। धर्मधर्मिभाव-गुणगुणिभावाद्यधीनं तु नास्ति सामानाधिकरण्यम् , धर्मधर्मिणोर्गुणगुणिनोश्च सुतरां भेदात्। न चैवं कार्यकारणयोः सामान्यविशेषयोर्वा सुतरां भेद एवेति वाच्यम् ; मृदादेः सकाशाद् घटादीनां सुतरां भेदादर्शनात्। नापि सुतरामभेदः, कार्यं कारणमित्यादिभेदव्यवहारलोपप्रसङ्गात्। तस्माद् भेदेनाभेदेन वा दुर्निरूपयोरेव पदार्थयोः सामानाधिकरण्यम्। इदं च ‘सन् घट’ इत्यत्रेव ‘नीलमुत्पलम्’ इत्यत्रापि तुल्यमेवेति कथमुच्यते - ‘न नीलोत्पलवद्’ इति ? न च ‘सोऽयम्’ इति सामानाधिकरण्यवत् ‘सन् घटः’ इति सामानाधिकरण्यं सामान्यविशेषभावाद्यनाक्रान्तमेवेति वाच्यम् ; सोऽयमित्यत्र तदिदमर्थयोः सामानाधिकरण्यासम्भवेनैव भागत्यागलक्षणास्वीकारात्। न हि ‘सोऽयं देवदत्तः’ इत्यत्र तदभिन्नोऽयं देवदत्त इति वाक्यार्थः , किन्तु देवदत्त इत्येव। ‘सन् घट’ इत्यत्र नैवं सन्मात्रमित्यर्थः, किन्तु सदभिन्नो घट इत्येव, सत्त्वघटत्वयोः तदिदमर्थयोरिवाविरोधात्। विरोधे सति हि लक्षणाश्रयणम्। ‘ब्रह्म घटः’ इत्युक्तौ हि विरोधस्फूर्तिः। तस्माद् ‘नीलमुत्पलम्’ इतिवत् ‘सन् घटः’ इत्यत्रापि सामानाधिकरण्यम् , न तु ‘सोऽयम्’ इतिवत् ; ‘सोऽयम्’ इत्यत्र सामानाधिकरण्यस्यैव बाधितत्वात्२। ननु सति अनुवृत्ते घटस्य व्यावृत्तस्य कल्पितत्वेन ‘सन् घटः’ इत्यत्र अनुवृत्तव्यावृत्तभावाश्रयं सामानाधिकरण्यम्। नीलोत्पलमित्यत्र तु नैवमिति चेत् , मैवम् ; न हि कोऽपि सति घटस्य कल्पितत्वमभिप्रेत्य ‘सन् घटः’ इति प्रयुङ्क्ते, तथात्वे ‘चिद्घटः’ इत्यपि प्रयुञ्जीत। तात्पर्याधीना हि शब्दप्रवृत्तिः। परं तु विद्यमानतया घटस्य ‘घटःसन्’ इति सर्वोऽपि प्रत्येति। तच्च विद्यमानत्वं पटादिष्वप्यस्तीत्यनुगतमेव। तथा नीलत्वमपि रत्नादिष्वस्तीत्यनुगतमेव। एवमनुवृत्तव्यावृत्तभावो नीलोत्पलस्थलेऽप्यस्त्येवेति कथमुच्यते ‘न नीलोत्पलवद्’ इति? न च - ‘गौर्मुण्डः’ ‘सन् घटः’ ‘मृद्घटः’ इत्यादिषु गोसन्मृदादिरूपमेकमेव वस्त्वस्तीति तत्र सामानाधिकरण्यमेकनिष्ठम् , नैवं नीलोत्पलस्थल इति - वाच्यम् ; नीलोत्पलस्थलेऽपि एकमेव नीलगुणवद्द्रव्यं वर्तत इति सिद्धान्तात्। नापि ‘सन् घटः’ इत्यत्र सत्यमिथ्यारूपवस्तुद्वयनिष्ठं सामानाधिकरण्यम् , नीलोत्पलमित्यत्र तु मिथ्याभूतवस्तुद्वयनिष्ठमेवेति वाच्यम् ; ‘ब्रह्म घटः’ इत्यत्र तथात्वेऽपि ‘सन् घटः’ इत्यत्रातथात्वात्। किञ्च यदि - ‘सन् घटः’ इत्यत्र सच्छब्दः सत्यं ब्रह्म वक्ति, घटशब्दस्तु मिथ्याघटम् - इति १. अत्र ‘गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति’ इति अमरशासनमनुसंधेयम्। कोशस्य गुणिनि शक्तिग्राहकत्वे विप्रतिपत्तेराह—लक्षणया वेति। २. वस्तुतस्तु अखण्डार्थसामानाधिकरण्यस्य वेदान्ते सुप्रसिद्धत्वात् चिन्त्यमिदम्। किंच गुणगुणिनोः तादात्म्यस्य सिद्धान्ते स्वीकारात् , तस्यैव च समानाधिकरण- प्रतीतिगोचरत्वात् नीलमुत्पलमित्यादिप्रयोगे न लक्षणाऽपि। कल्पितस्य अधिष्ठाने कल्पिततादात्म्यस्वीकारात् सामानाधिकरण्यप्रतीतिः सुलभा। अ.२. श्लो.१६ ]
[[६२]]
वेत्ति पुरुषस्तर्हि सत्यमिथ्यावस्तुनोः सामानाधिकरण्यायोगात् ‘सन् घटः’ इति नैव प्रयुङ्क्ते। न च - ‘नीलं नभः’ इतिवत् ‘सन् घटः’ इति प्रयोगोपपत्तिरिति - वाच्यम् ; तस्य भ्रमत्वात्। ‘सन् घटः’ इत्यस्य यावद्व्यवहारं प्रमात्वाच्च। न हि सर्पे सर्पबुद्धिः, रज्जौ सर्पबुद्धिश्च तुल्येति वक्तुं शक् यते। तस्मात् सामानाधिकरण्येनेति पाठ एव समीचीनः अन्वयक्लेशरहितश्च। अत्राह रामानुजः— ‘असतो देहस्य सद्भावो न विद्यते, सतश्चात्मनो नासद्भावः, उभयोर्देहात्मनोरुपलभ्यमानयोर्यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टः। निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देनोच्यते।‘देहस्याचिद्वस्तुनोऽसत्त्वमेव स्वरूपम् , आत्मनश्चेत- नस्य सत्त्वमेव स्वरूपम्’ इति निर्णयो दृष्ट इत्यर्थः। विनाशस्वभावो ह्यसत्त्वम् , अविनाशस्वभावश्च सत्त्वम्’ इति। अत्र विचार्यते— सत ईश्वरादुत्पन्नमिदं कार्यं जगत् सदेवेति सत्कार्यवादिनः स्वस्य ‘असतो देहस्ये’त्यर्थवर्णनं स्वमत- प्रच्युतिरूपदोषावहं, परमतप्रवेशरूपदोषावहं च। असतो देहस्येति देहमात्रग्रहणं चायुक्तम् , शीतोष्णादेरपि तादृशस्य सत्त्वात्। मूले भाव इति श्रूयमाणस्य पदस्य सद्भाव इत्यर्थवर्णनं चायुक्तम् ; तथा अभाव इत्यस्यासद्भाव इति च; योग्यत्वमयोग्यत्वमिति चार्थान्तरप्रतीतेः सद्भावः सत्ता, असद्भावोऽसत्तेत्यर्थग्रहणस्य क्लिष्टत्वात्। सत आत्मनः इत्यप्ययुक्तम् ; स्वमते प्रकृतिपुरुषेश्वराणां त्रयाणां सत्यत्वात् नित्यत्वाच्च। आत्मनां च बहुत्वादेक(त्व)वचनं चायुक्तम्। देहात्मनोरुपलभ्यमानत्वोक्तिश्चायुक्ता; देहस्योपलभ्य- मानत्वेऽप्यात्मनः प्रमातुरुपलब्धृत्वेनोपलभ्यमानत्वाभावात्। अन्यथा उपलभ्यमानत्वे देहादिवदात्मनोऽपि जडत्वं स्यादेव। ‘तत्त्वदर्शिभि’रित्यस्य यथोपलब्धीति शेषपूरणं चायुक्तम् ; शेषपूरणं विनैवार्थलाभात्। शेषपूरणस्य मूलकारासम्मतत्वात्। देहस्या- चिद्वस्तुनः असत्त्वमेव स्वरूपमित्यप्ययुक्तम् , असत्त्वस्य गुणत्वेन स्वरूपत्वाभावात्। असत्त्वमेवेत्येवकारेण स्वरूपान्तरनिषेधश्च सम्भवति, तच्चानिष्टम् ; अचिद्वस्तूनामचित्स्वरूपत्वात्। तथा आत्मनः सत्त्वमेव स्वरूपमित्यप्ययुक्तम् ; ज्ञानैकाकारत्वादात्मनः। विनाशस्वभावो ह्यसत्त्वमित्यप्ययुक्तम् , स्वमते सत्यत्वनित्यत्वयोर्भेदात् , जगदिदं सत्यमनित्यमिति स्वसिद्धान्तात्। अत एवाविनाशस्वभावश्च सत्त्वमित्यप्ययुक्तम्॥१६॥
अविनाशीति श्लोकमवतारयति— किं पुनरिति। सर्वदैवेति। ६‘यद्विषया बुद्धिर्न व्यभिचरति तत् सदि’त्यनेनेति भावः। ननु सदिति सामान्यं, स्वरूपं वा? प्रथमे तस्य विशेषसापेक्षतया३ प्रलयदशायामशेषविशेषविनाशे विनाशः स्यात्। न चात्मा- दयो विशेषास्तदाऽपि सन्तीति वाच्यम् ; आत्मातिरिक्तानां विशेषाणां कार्यत्वाङ्गीकारात् प्रलयावस्थायामनवस्थानात् , आत्मनस्तु सामान्यात्मनो धर्मित्वादुक्तदोषात्४। द्वितीये तु स्वरूपस्य व्यावृत्तत्वे५ कल्पितत्वाद् विनाशित्वम् ; अनुवृत्तत्वे तस्यैव सामान्यतया प्रागुक्तदोषानुषक्तिरिति मन्वानश्चोदयति— किं पुनरिति। सामान्यविशेषभावशून्यमखण्डैकरसं ‘सदेवे’त्यादिश्रुतिप्रमितं सर्वविक्रिया- रहितं वस्तु प्रकृतं सद् विवक्षितमित्युत्तरमाह— उच्यत इति। आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह— येनेति। आत्मनो विनाशाभावे युक्तिमाह— विनाशमिति। आत्मनो विनाशमिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते? नाद्यः इत्याह— अविनाशीति। देहादिद्वैतम् असदुच्यते, ततः सतो विशेषणं स्वतो नाशराहित्यम् , तस्य द्योतको निपात इत्याह— तुशब्द
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१किं पुनः तद् २यत् सदेव सर्वदेति? उच्यते— अविनाशीति। अविनाशि न विनंष्टुं शीलमस्येति ; तुशब्दः १. ‘किं पुनः तत् सत् , यत् सदेव सर्वदैवास्तीति’ इति पा.। २. ‘यत् सर्वदैव सत्’ इति रा.पा.। ३. निर्विशेषं न सामान्यमिति न्यायात्। ४. उक्तदोषः विशेषाभावे सामान्यस्य स्थित्ययोगः। ५. व्यावृत्तत्वेनैव कल्पितत्वानुमानात्। ६. ‘किं पुनः तत् सत् , यत् सर्वदैव सदित्युच्यते’ इत्यन्तं प्रश्नवाक्यमादाय, कुत्रोच्यत इत्यपेक्षायामुक्तम्—यद्विषयेति। अविनाशि तु तद् विद्धि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥१७॥
[[६३]]
शीलमिति। ताच्छीलिको णिनिरिति भावः। विशेषणार्थ इति। भेदार्थ इत्यर्थः। असतो घटादेर्भिन्नः खल्वयं सत्पदार्थः। ‘तत् तु अविनाशीति विद्धी’त्यन्वयः। असतो व्यावृत्तं तद् वस्तु अविनाशीत्यर्थः। विष्ण्वाख्येनेति। विश्वं वेवेष्टि व्याप्नोतीति विष्णुशब्द- निर्वचनादिति भावः। साकाशमिति जगतो विशेषणम्। ब्रह्मणो जगद्व्याप्तौ दृष्टान्तमाह— आकाशेनेव घटादय इति। ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः सर्वव्यापकं नारायणमात्मानं विष्णुं ब्रह्म, अविनाशित्वात् सत्पदार्थं विद्धीति फलितार्थः। यद्वा अविनाशीति सतः पर्यायः। तथा च सर्वव्यापकत्वाद् ब्रह्म अविनाशि सदिति विद्धीति। अथवा नात्र हेतुर्निर्दिष्टः, किन्तु यत् सर्वव्यापकं तद् ब्रह्म त्वम् अविनाशीति विद्धि। कुतोऽस्याविनाशित्वम्? अत आह— विनाशमिति। तदर्थमाह— अदर्शनमभावमिति। ४यावदिति शेषः। विनाशशब्दस्य निश्चयार्थोऽभावः(?) इत्यर्थः। अव्ययस्यास्येति शब्दद्वयार्थमाह— नैतदित्यादिना। न व्येतीत्यव्ययमित्यव्यय- शब्दनिरुक्तिः प्रसिद्धा। ‘सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥’ इति वचनात्। व्येति विकारं प्राप्नोतीत्यर्थः। एतत् सदाख्यं सच्छब्दवाच्यं ब्रह्म स्वेन रूपेण न व्येति न विक्रियते। कुतः? निरवयवत्वात्। व्यतिरेकदृष्टान्तमाह— देहादिवदिति। यथा देहादिः स्वावयवोपचयापचयाभ्यां स्वरूपविकारं भजते, तथा ब्रह्म न भजते, निरवयवत्वेन स्वरूपविकारा- पादकसामग्र्यभावात्। स्वरूपविकारो नाम रूपभेदः; यथा देहस्य स्थौल्यकार्श्यादिः। नाप्यात्मीयत्वेन ब्रह्म व्येति। कुतः? आत्मीयाभावात्। असङ्गस्यात्मनः कथमन्येन सम्बन्धः? येनान्यदात्मीयं स्यादात्मनः। व्यतिरेकदृष्टान्तमाह— यथा देवदत्तो धन- हान्येति। देवदत्तस्य धने ममतासत्त्वात् तद्धनं देवदत्तस्यात्मीयम्। एवमात्मीयस्य धनस्य दैवान्नाशे सति स धनस्वामी देवदत्तः दुःखरूपं विकारमापद्यते इत्यर्थः। दार्ष्टान्तिकं पुनरप्याह दार्ड्याय— न त्वेवं ब्रह्म व्येतीति। ब्रह्मापेक्षया पृथग्वस्तुन एवाभावात् , सत्यपि मायामये वस्तुनि, निष्कामस्य ब्रह्मणस्तत्र ममताऽभावाच्च। न ब्रह्मणः स्वीयं वस्तु किञ्चिदस्ति, यन्नाशेन ब्रह्मणो विकारः स्यात्। अतो निर्विकारं ब्रह्मेत्यर्थः। अव्ययस्येति। निर्विकारस्येत्यर्थः। तदेवं ब्रह्मणः अविनाशित्वे निर्विकारत्वं हेतुरित्युक्तं भवति। हेत्वन्तरमाह— न कश्चिदिति। ब्रह्मणो विनाशकस्यान्यस्याभावाच्चाविनाशित्वं ब्रह्मण इत्यर्थः। ननु ब्रह्मणोऽन्यदचेतनं ब्रह्म नाशयितुं इति। आकाङ्क्षापूर्वकं विशेष्यं दर्शयति— किमित्यादिना। विमतमविनाशि, व्यापकत्वादाकाशवत्। ३न हि प्रमितमेवोदाहरणम् , किन्तु प्रसिद्धमपीति भावः। न द्वितीय इत्याह— विनाशमिति। न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः। विनाशस्य सावशेषत्व- निरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति— अदर्शनमभावमिति। न कश्चिद् अस्याभावं कर्तुं शक्नोतीत्यत्र हेतुमाह— अव्ययस्येति। ब्रह्म हि स्वरूपेण व्येति, स्वसम्बन्धिना वा? इति विकल्प्याद्यं दूषयति— नैतदिति। न हि निरवयवस्य स्वावयवापचयरूपव्ययः सम्भवतीत्यत्र वैधर्म्यदृष्टान्तमाह— देहादिवदिति। द्वितीयं निरस्यति— नापीति। तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति— यथेति। द्विविधेऽपि व्ययायोगे फलितमाह— अत इति। किञ्च - ब्रह्म परतो न नश्यति, आत्मत्वाद् , घटवदित्याह— न कश्चिदिति। आत्मत्व-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१सतो विशेषणार्थः; तद् विद्धि विजानीहि। किम्? २येन सर्वमिदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् , आकाशेनेव घटादयः। विनाशम् अदर्शनमभावम् , अव्ययस्य न व्येति उपचयापचयौ न यातीत्यव्ययम् , तस्य अव्ययस्य ; नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वाद् , देहादिवत्। नाप्यात्मीयेन, आत्मीयाभावात्। यथा देवदत्तो धनहान्या व्येति, न त्वेवं ब्रह्म व्येति। अतोऽव्ययस्य अस्य ब्रह्मणो विनाशं न कश्चित् १. ‘असतः’ इति पा.। २. ‘येन विष्ण्वाख्येन ब्रह्मणा सर्वमिदं जगत् ततं व्याप्तं साकाशम्’ इति रा.पा.।३. ननु आकाशदृष्टान्तः साध्यविकलः, तस्य श्रुति- सिद्धोत्पत्तिकत्वेन विनाशित्वादित्याशङ्कां लोकप्रसिद्धिमात्रेण दृष्टान्तत्वोपपत्त्या परिहरति— न हीति। ४. विनाशशब्दस्य णश अदर्शने इति धात्वर्थानुसारात् अदर्शनमित्यर्थमुक्त्वा विवक्षितोऽर्थ उक्तः भाष्यकारैः— अभावमिति। तत्र - अभावमिति यावत् इति वक्तव्ये यावच्छब्दो न पठित इत्यतः तत्पूरणमिदम्। एवमग्रेऽपि बोध्यम्। अ.२. श्लो.१७ ]
[[६४]]
हेतोरसिद्धिमुद्धरति—आत्मा हीति। तादात्म्यश्रुतिरत्र हीति हेतूक्रियते३। अस्तु तर्हि स्वयमेव ब्रह्म आत्मनो नाशकम् , उद्बन्धनादि- दर्शनात् , नेत्याह— स्वात्मनीति॥१७॥
[आनन्दगिरिकृतव्याख्या]
कर्तुमर्हति। १न कश्चिदात्मानं विनाशयितुं शक्नोतीश्वरोऽपि। आत्मा हि ब्रह्म। स्वात्मनि च क्रियाविरोधात्२॥१७॥
१. ‘न हि कश्चित्’ इति रा.पा.। २. एतदनन्तरम् ‘यथा चक्षुर्गतरेखादींश्चक्षुर्न पश्यति’ इति अधिकः रा. पा.। ३. ततश्च ब्रह्मणः आत्मत्वं ब्रह्मात्माभेदबोधकश्रुति- सिद्धमिति नात्मत्वहेतोरसिद्धिरिति भावः। ४. पूर्वं क्रियामुपेत्य कर्तृकर्मभावविरोधः अभिप्रेतः, इदानीं तु अकर्त्रात्मस्वरूपे क्रियाया असंभवः इति भावः। भाष्यार्कप्रकाशः नार्हतु नाम , चेतनस्त्वात्मा शक्नोत्येवेत्यत आह— न हीति। आत्मन एव ब्रह्मत्वात् , कथं स्वनाशं स्वयं कर्तुं शक्नुयादात्मेत्यर्थः। ननु अग्निजलपतनादिना आत्मनाशोऽपि सुकर एवेति चेत्? मैवं मंस्थाः। अग्निजलपतनादिना ह्यात्मा देहमेव नाशयति, न त्वात्मानमिति नास्ति नाश्यनाशकभावयोः सामानाधिकरण्यमिति। ननु आत्मा ब्रह्म नाशयितुं न शक्नुयन्नाम , ईश्वरः पुनः शक्नुयात् , तस्य सर्वेश्वरत्वादिति शङ्कायामाह— ईश्वरोऽपीति। तत्र हेतुमाह— आत्मेति। हि यस्माद् ब्रह्म, ईश्वरस्येति शेषः, आत्मा भवति। यद्वा ईश्वरोऽप्यात्मैव, हि यस्मादीश्वरो ब्रह्म भवतीत्यन्वयः। तदेवमीश्वर आत्माभिन्नं ब्रह्मैव, आत्मा चेश्वराभिन्नं ब्रह्मैव, ब्रह्म चेश्वराभिन्न आत्मैवेति कृत्वा ईश्वरब्रह्मात्मनां त्रयाणां शब्दानामेव भेदः, अर्थस्तु चैतन्यमेकमेवेति नास्ति ब्रह्मनाशकं वस्त्वन्तरमिति भावः। यद्वा - असमर्थो ब्रह्म नाशयितुं न शक्नोतु नाम, समर्थस्तु शक्नुयादेवेत्यत्राह— न हीति। ईश्वरः समर्थोऽपि कश्चिन्न शक्नोतीत्यन्वयः। तत्र हेतुमाह— आत्मा हीति। हि यस्मादात्मा स्वयमेव ब्रह्म भवतीति शेषः। स्वस्यैव ब्रह्मत्वादित्यर्थः। ननु स्वं स्वयमेव हन्यात् , को दोषः? तत्राह—स्वात्मनीति। स्वात्मनि स्वस्वरूपे क्रिया स्वव्यापारो नास्ति, कुतः? विरोधात्। ४यद्वा स्वात्मनि क्रियायाः विरोधाद् असम्भवादित्यर्थः। तत्र दृष्टान्तमाह— यथेति। चक्षुष ईक्षणरूपक्रिया चक्षुर्भिन्ने घटादावेव, न तु चक्षुषि, न हि स्वगतनीलारुणश्वेतरेखादींश्चक्षुः पश्यति। ननु स्वात्मनि क्रियाविरोधे ‘आत्मा वा अरे द्रष्टव्यः’ इति श्रुत्या कथमात्मनि दर्शनं विधीयत इति चेत्? नैष दोषः, दर्शनस्य ज्ञानत्वेनाक्रियात्वात्। क्रियात्वेऽपि मानसिकक्रियात्वेन स्वात्मक्रियात्वाभावात्। ननु मनः स्वगतान् कामादीन् विकारान् पश्यत्येवेति चेत् , मैवम् ; विज्ञानात्मन एव तद्द्रष्टृत्वात्। निर्विकारत्वान्नाशकान्तराभावाच्च सर्वव्यापकं ब्रह्म चैतन्यमेकमेव अविनाशि सत्पदवाच्यं वस्त्विति विद्धीति श्लोकस्य निष्कृष्टार्थः। अत्राह रामानुजः— ‘तद् आत्मतत्त्वमविनाशीति विद्धि येनात्मतत्त्वेन चेतनेन तद्व्यतिरिक्तमिदमचेतनतत्त्वं सर्वं ततं व्याप्तम् , व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विकारा[विनाशा]नर्हस्य तद्व्यतिरिक्तो न कश्चित् पदार्थो विनाशं कर्तुमर्हति, तद्व्याप्यतया तस्मात् स्थूलत्वात्। अत आत्मतत्त्वमविनाशि’ इति। ‘आत्मनोऽपि सूक्ष्मतरस्य तन्नाशकस्यान्यस्यादर्शनाद्, ईश्वरस्यापि तन्नाशसङ्कल्पा- भावादिति भावः’ इति वेदान्तदेशिकश्च। तदिह विचार्यते— तदिति मूले दृश्यमानस्य क्लीबस्य सद्ब्रह्मरूपेऽर्थे स्फुटमवगम्यमाने सति, तं विहाय आत्मतत्त्वरूपार्थ- कल्पनस्याप्रमाणत्वात् , आत्मानमित्यनेनैवाभीष्टे सिद्धे तत्त्वपदवैयर्थ्याच्च। ‘इदमचेतनतत्त्वं सर्व’मित्यस्य जीवेश्वरव्यतिरिक्तं सर्वमिति हि तवाभिमतोऽर्थः। कथं तद्व्यापकत्वं सूक्ष्मत्वेन परिच्छिन्नस्य जीवस्य? न हि क्वापि परिच्छिन्नस्य व्याप्तिर्दृष्टा। न हि परिच्छिन्नो घटो व्यापकःसन् दृश्यते। सर्वव्याप्तिर्नाम सर्वत्र सत्त्वं खलु? कथं परिच्छिन्नो जीवः सर्वत्र स्यात्? दृश्यते किं जीवो दारुपाषाणमृदादिष्व- चेतनेषु? यदि दृश्यते, तर्हि दार्वादीन्यपि सचेतनान्येव स्युः, न त्वचेतनानि। बुद्धिपरिच्छिन्नस्य मनोमयकोशादान्तरस्य विज्ञान- मयस्यात्मनो जीवस्य सूक्ष्मतरस्य मनोमयकोशव्याप्तिरस्तु नाम , कथं नाम स्वसर्वदेहव्याप्तिः? यः स्वमेव देहं सर्वं व्याप्तुं नेष्टे, कथ-
[[६५]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
मन्यदेहान् व्याप्नुयात्? सर्वदेहव्यापकत्वे चैकजीववादप्रसङ्गः। आत्मानेकत्वे तु आत्मनः सर्वव्यापकत्वभङ्गप्रसङ्गः। अथ यद्येतद्दोष- परिहारायात्मनां जात्येकत्वमङ्गीकृत्य येनात्मसमुदायेन इदं सर्वमचेतनजातं ततमित्युच्यते, तर्हि सर्वपदविरोधः। न हि सर्वोऽप्यय- मात्मसमुदायः पाषाणादिकमचेतनं व्याप्तुमीष्टे। यदि सर्वपदस्यापि मनुष्यादिदेहजाते सङ्कोचस्तर्हि मूलकाराशयविरोधः स्फुट एव। जात्येकत्वादेकैक आत्मा एकैकं देहं व्याप्य वर्तत इति व्यापकत्वमात्मनो यद्युच्येत, तर्हि तच्च न सम्भवति। एकैकदेहान्तर्वर्तिन आत्मनः पेटिकान्तरस्य वस्त्रस्येव व्यापकत्वायोगात्। यदन्तर्बहिर्वर्तते तद्धि व्यापकम् , यथा आकाशः। धूमाभाववत्ययोगोलके वह्नि- रस्तीति हि वह्नेर्धूमव्यापकत्वमुक्तम्१। तथा देहाभाववति गगनादौ चेतनस्याभावात् कथं देहव्यापकत्वं चैतन्यस्य? प्रत्युत देह एव जीवव्यापकः, जीवाभाववति शय्यादौ देहस्य सत्त्वात्। न च यदान्तरं तद् व्यापकमिति वक्तुं शक् यम् , २गृहान्तरस्य घटस्यापि व्यापकत्वप्रसङ्गात्। न चाणोरपि जीवस्य धर्मभूतज्ञानेन व्यापकत्वमिति वाच्यम् ; धर्मभूतज्ञानस्याप्यचेतने वृत्त्ययोगात्। सिद्धान्ते तु ज्ञानस्वरूपे जीवे धर्मभूतं ज्ञानं नास्त्येव , ज्ञाने ज्ञानायोगात्। धर्मभूतज्ञानवत्त्वेन जीवस्य ज्ञानित्वमेव स्यान्न तु ज्ञानस्वरूपत्वम्। न्यायमते जीवस्य द्रव्यत्वाद् द्रव्यस्य गुणवत्त्वाद् धर्मभूतज्ञानवत्त्वं जीवस्योपपद्यते। तव मते तु ज्ञानैकाकारस्य जीवस्य कथं धर्मभूतज्ञानवत्त्वम्? न ह्येकमेव ज्ञानमेकस्मिन्नाश्रये स्वरूपभूतं धर्मभूतं च भवितुमर्हति। यदि तु धर्मभूतज्ञानं वृत्तिज्ञान- मित्यभ्युपगम्येत , तर्हि तद् वृत्तिज्ञानमन्तःकरणस्यैव धर्मभूतम् , नात्मन इति विद्धि। तस्मान्न व्यापकत्वं सूक्ष्मस्यात्मन इति कृत्वा ‘आत्मतत्त्वेन सर्वमचेतनतत्त्वं ततम्’ इत्ययुक्तम्। किञ्च आत्मव्यतिरिक्तत्वमप्यचेतनस्य दुर्वचम् , ‘आत्मन आकाशः सम्भूतः’ ३इत्यात्मकार्यस्याचेतनस्यात्माव्यतिरिक्तत्वात्। आत्मनो निरतिशयसूक्ष्मत्वं चायुक्तम् , निरतिशये सूक्ष्मत्वे व्यापकत्वायोगात्। शरीरान्तरपि सर्वव्याप्त्यभावे कृत्स्नदेहव्यापिशैत्यादि- प्रयुक्तसुखाद्युपलब्ध्ययोगात्। त्वगादीन्द्रियैस्तदुपलब्धिरित्यपि न शङ्क्यम् , सूक्ष्मतमस्य तस्य त्वगादिसम्बन्धासम्भवात्। ‘अणोरणी- यान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तो’रिति श्रुत्या आत्मनो महतो महीयस्त्वस्य प्रतिपादितत्वात्। अणोरणीयानित्यस्य तु सूक्ष्मात्सूक्ष्मतरो दुर्विज्ञेय इत्यर्थात्। तथा ‘आत्मव्याप्यतया आत्मनः स्थूलाः पदार्था आत्मानं न नाशयन्ती’त्यप्ययुक्तम् , अणो- रात्मनः व्यापकत्वे सिद्धे , तद्व्याप्यत्वमचेतनस्य सिध्येत् , तदेव न सिद्धम्। तथा च दर्शितं प्राक्। ‘तुष्यतु दुर्जनः’ इति न्यायेन व्यापक- त्वमान्तरत्वमित्यभ्युपगम्य आत्मनो व्यापकत्वे, देहस्य व्याप्यत्वे चाभ्युपगतेऽपि, स्थूलं व्याप्यं वस्तु सूक्ष्मस्यान्तरस्य नाशं कर्तुं नेष्टे इतीष्टं नैव सिध्यति, स्थूलादजगरात् सूक्ष्मस्य छागस्य नाशदर्शनात् , स्थूलदृढमुष्टेस्तदन्तर्गतसूक्ष्मकीटनाशदर्शनात् , स्थूलाद् दह्यमानाद् गृहात् तदन्तर्गतजन्तुनाशदर्शनात् । तथा सूक्ष्मात् मत्कुणात् स्थूलस्य मनुष्यस्य नाशादर्शनात् , सूक्ष्मादुदकात् स्थूलस्याग्नेर्नाशादर्शनाच्च। अथ ईश्वर आत्मनोऽपि सूक्ष्मतरः इत्युक्तिरयुक्ता , आत्मनोऽपि सूक्ष्मतरत्वे एकस्मिन्नात्मनि स्थितस्येश्वरस्य नान्यस्मिन्ना- त्मनि स्थितिः सम्भवेत्। इष्यते तु त्वया ईश्वरस्य सर्वभूतान्तर्यामित्वं सर्वान्तर्यामित्वरूपम्। यावन्तो देहास्तावन्त आत्मान इतिवद् यावन्त आत्मानस्तावन्त ईश्वरा इति वक्तुं न शक् यते , त्वयाऽपीश्वरैकत्वस्याभ्युपगतत्वात्। तस्माच्चेतनाचेतनसर्वजगदन्तर्बहिर्व्यापके ईश्वरे सूक्ष्मतमत्वं स्वप्नेऽपि सम्भावयितुं न शक् यम्। ‘महान्तं विभुमात्मानं मत्वा धीरो न शोचती’त्यादिश्रुतिशतात्। दुर्विज्ञेयत्वलक्षणं सूक्ष्मतमत्वं तु तत्र तत्रोच्यत इति प्रागेवोक्तम्। यदीश्वराज्जीवो भिन्नः स्यात् , तर्हीश्वराज्जीवस्य सृष्टिस्थितिलयाः स्युरेव, ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतेः। अभिन्नत्वे तु कथम्? न कथमपि। एवमीश्वराभिन्नत्वादेव जीवस्य जन्मनाशाभावः, न त्वीश्वरस्य सङ्कल्पाभावात्। जीवस्येश्वरभिन्नत्वे तु ‘सदेव सोम्येदमग्र आसीत्’ ‘एकमेवाद्वितीयं ब्रह्म’ इत्यद्वितीयं ब्रह्म प्रक्रम्य— ‘तदैक्षत, बहु स्यां प्रजायेय’ इति तस्य बहुभवन- सङ्कल्पमुक्त्वा ‘तत्सृष्ट्वा तदेवानुप्राविशद्’ इति ‘तदनुप्रविश्य, सच्च त्यच्चाभवद्’ इति जगत्सृष्टिं तदनुप्रवेशं च ब्रूते खलु श्रुतिः। तत्र किमीश्वरसङ्कल्पाज्जीवो जातो न वा? आद्ये, ‘जातस्य हि ध्रुवो मृत्यु’रिति गीतावचनादेव तस्य नाशः सिद्धः। द्वितीये, कथं १. अधिकदेशवृत्तित्वं व्यापकत्वमिति स्वीकृत्येदमुक्तम्। २. गृहान्तरवस्थितस्येत्यर्थः। ३. आत्मोपादानकस्येत्यर्थः। अ.२. श्लो.१७ ]
[[६६]]
जीवस्येश्वराद् भिन्नस्य सिद्धिः? न हि सृष्टेः प्राग् जीवोऽस्ति, ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतेः। तस्मादीश्वरादभिन्न एव जीव इति कथं स्वनाशे ईश्वरस्य सङ्कल्पः स्यात्? न कथमपीति बोध्यम्। ननु सृष्टेः प्रागपि चिदचिद्विशिष्टं ब्रह्मैवास्ति, न तु शुद्धमिति चेत् , तर्हि ईश्वरवच्चिदपि स्वत एव नित्येति कृत्वा किमितीश्वरसङ्कल्पाभावाज्जीवस्य नित्यत्वमित्युक्तं त्वया? वस्तुतस्तु ब्रह्मणश्चिदचिद्वैशिष्ट्ये सति सविकारत्वमेव स्यात् , विशेषणभूतचिदचिद्गतस्थूलसूक्ष्मादिविकाराणां विशिष्टे समन्वयात्। अपृथक्सिद्धविशेषणे खलु ब्रह्मणश्चिदचितौ। एवं सविकारत्वे च ब्रह्मैवानित्यं स्यादिति महदनिष्टम्॥१७॥
अन्तवन्त इति श्लोकमवतारयति— किं पुनरिति। यत् स्वात्मसत्तां व्यभिचरति, तद् असद्वस्तु पुनः किमिति शङ्का। उच्यते इति प्रतिज्ञा। स्वात्मसत्ताव्यभिचारः स्वसत्तानाश इत्यर्थः। यस्य सर्वदा नास्ति सत्ता, किन्तु प्रतीतिकाले एव, तद्धि असद्वस्तु। प्रतीति- कालेऽपि कारणव्यतिरेकेणासत्त्वात् सत्ताव्यभिचारोऽस्त्येवेति प्रागेव प्रतिपादितम्। ‘अनाशिनो नित्यस्याप्रमेयस्य शरीरिणः सम्बन्धिनः इमे देहा अन्तवन्त इति विवेकिभिरुक्ताः’ इत्यन्वयः। असङ्गस्याप्यात्मनः शरीरेण सह सम्बन्ध आधाराधेयभावादिरूपः कल्पितोऽस्तीति शेषषष्ठ्युपपत्तिः। देहानां नाशो नाम तदनुवृत्तसद्बुद्धिविच्छेदः। स च प्रमाणनिरूपणाज्जायत इत्याह— यथेति। एतेन - देहानां प्राणापायप्रयुक्तं नश्वरत्वं सर्वजनविदितमेवेति कृत्वा किमिति भगवता ‘अन्तवन्तः इमे देहाः’ इत्युपदिष्टम् , व्यर्थत्वादिति - प्रश्नो दत्तोत्तरः। नन्वीदृशो नाशः क्व दृष्टः? इत्यत्राह— मृगतृष्णिकायामिति। मृगतृष्णिका मरीच्युदकम्। इदमुदकमस्तीति मरीच्युदक- समानाधिकरणा या सद्बुद्धिर्मरीच्युदकेऽनुवर्तते, सा हि ‘नेदमुदकं, किन्तु मरीचिरेव’ इति प्रमाणनिरूपणान्ते व्यावर्तते। सः सद्बुद्धिविच्छेदः तस्य मृगतृष्णिकादेरन्त इत्यक्षरार्थः। तथा इमे दृश्यमाना देहा अन्तवन्तः - देहाः सन्तीति देहेष्वनुवर्तमानायाः सद्बुद्धेः, नेमे देहाः, किन्तु पृथिव्यादिभूतान्येव, भूतव्यतिरिक्तांशस्यात्रानुपलम्भादिति १[नेमे देहाः, किन्तु ब्रह्मैवेति वा] प्रमाण- निरूपणान्ते विच्छेदात्। ननु जलपानाद्यर्थक्रियाशून्यस्य मरीचिकोदकस्य भवत्वसत्त्वम् , कथं पुनर्देहानां गमनाद्यर्थक्रियाशालिना- मसत्त्वमित्यत्राह— स्वप्नमायादेहादिवच्चेति। स्वप्ने यथा निद्राख्यमायया कल्पिता देहरथादयः पदार्था अर्थक्रियाशालिनोऽप्यसन्त इति सदसतोरनन्तरप्रकृतयोः स्वरूपाव्यभिचारित्वेन परमार्थतया सत् निर्धारितम्। इदानीम् असन्निर्दिधारयिषया पृच्छति— किं पुनरिति। असदसदेवेति निर्धारितत्वात् प्रश्नस्य निरवकाशत्वमाशङ्क्य , शून्यं व्यावर्त्य विवक्षितमसन्निर्धारयितुं तस्य सावकाशत्वमाह— यत् स्वात्मेति। देहादेरनात्मवर्गस्य प्रकृतासच्छब्दविषयतेत्याह— उच्यत इति। तेषां स्वातन्त्यं व्युदस्यति— नित्यस्येति। आकाशादि- व्यावृत्त्यर्थं विशिनष्टि—शरीरिण इति। परिणामिनित्यत्वं व्यवच्छिनत्ति—अनाशिन इति। तस्य प्रत्यक्षाद्यविषयत्वमाह—अप्रमेयस्ये- ति। देहादेरवस्तुत्वाद् आत्मनश्चैकरूपत्वाद् युद्धे स्वधर्मे प्रवृत्तस्यापि तव न हिंसादिदोषसम्भावनेत्याह— तस्मादिति। ननु देहादिषु सद्बुद्धेरनुवृत्तेः तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते? तत्राह— यथेति। तथेमे देहाः सद्बुद्धिभाजोऽपि प्रमाणतो निरूपणाया- मवसाने विच्छेदाद् अन्तवन्तो भवन्तीति शेषः। देहत्वादिना च जाग्रद्देहादेरन्तवत्त्वं सम्प्रतिपन्नवदनुमातुं शक् यमित्याह— स्वप्नेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किं पुनस्तदसत् , यत् स्वात्मसत्तां व्यभिचरतीति ? उच्यते— अन्तवन्त इति। अन्तो विनाशो विद्यते येषां ते अन्तवन्तः। यथा मृगतृष्णिकोदकादौ सद्बुद्धिरनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते ; स तस्या अन्तः। तथेमे देहाः। स्वप्नमायादेहादिवच्चान्तवन्तः। नित्यस्य शरीरिणः शरीरवतोऽनाशिनोऽप्रमेयस्यात्मनः अन्तवन्त इत्युक्ता अन्तवन्त इमे देहाः नित्यस्योक्ताः शरीरिणः। अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत !॥१८॥
१. अयं पाठः मुद्रितपुस्तके कुण्डलित एव दृष्टः।
[[६७]]
सर्वैरभ्युपगम्यते, तद्वदित्यर्थः। न च स्वप्नदेहादीनामर्थक्रियाकारित्वे विवदितव्यम् , स्वप्नरथारोहणदेशान्तरगमनसम्भाषणाद्यर्थक्रिया- दर्शनात्। देहात्मनोः कः सम्बन्ध इति शङ्कायां धार्यधारकभावरूप इति दर्शयितुमाह—शरीरिण इति। शरीरिणः शरीरमस्यास्तीति शरीरी, मत्वर्थे ‘अत इनिठनौ’ इतीनिः। तस्य शरीरिणः। मतुप्प्रत्यये कृते शरीरवान् । तस्य शरीरवतः। अन्तः प्रविश्य शरीरं धरतः इत्यर्थः। नित्यत्वस्येति। लोके नित्यत्वस्य नाशस्य च द्विविधत्वादित्यन्वयः। नाशस्य द्विविधत्वात् तदभावरूपं नित्यत्वमपि द्विविधमित्यर्थः। नाशस्य द्वैविध्यमेव दर्शयति— यथेत्यादिना। भस्मीभूतः अदर्शनं गतो देहो नष्ट इत्युच्यते, ‘णश अदर्शने’ इति धातुस्मरणात्। विद्यमानोऽपि वयसा परिणतः परिणामं गतः व्याध्यादियुक्तश्च देहः नष्टो जातः, नष्ट आसीदित्युच्यते। रक्तक्षयादिकृतं कार्श्यमत्र नाशशब्दार्थ इति भावः। तत्रेति। एवं स्थिते इत्यर्थः। द्विविधेनापीति। अदर्शनरूपेण कार्श्यरूपेण चेत्यर्थः। अन्यथेति। अथ वेत्यर्थः। नित्यस्येत्युक्ते, किं पृथिव्यादिवदात्मा यावत्प्रलयं नित्यः इति शङ्का स्यात् , तद्वारणाय अनाशिनः इत्युक्तमित्यर्थः। घटादि- वदनित्यत्ववारणाय [नित्यस्येति, पृथिव्यादिवन्नित्यत्ववारणाय] अनाशिन इति चोक्तमिति यावत्। आहेति। भगवानिति शेषः। अप्रमेयस्येति नञ्तत्पुरुषो, न तु बहुव्रीहिरित्याह— न प्रमेयस्येति। प्रमातुं शक् यं योग्यं वा प्रमेयम् , तद्भिन्नोऽप्रमेयः, तस्य अपरिच्छेद्यस्य परिच्छेत्तुम् इदन्ता-ईदृक्ता-इयत्तादिना परिमातुमशक् यस्येत्यर्थः। ननु ‘शास्त्रयोनित्वा’दिति सूत्रेण, ‘सर्वे वेदा यत्पदमामनन्ती’ति श्रुत्या, ‘वेदैश्च सर्वैरहमेव वेद्यः’ इति गीतया च शास्त्रवेद्यत्वमात्मन उच्यत इति कथमागमापरिच्छेद्यत्वम्? तथा सुखादिवदात्मा मनोवेद्य एव। ‘मनसैवानुद्रष्टव्यम्’ इति श्रुतेः शरीरादेरन्तवत्त्वेऽपि प्रवाहरूपेण आत्मनस्तत्सम्बन्धस्यानन्तवत्त्वमाशङ्क्याह— नित्यस्येति। प्रवाहस्य प्रवाहिव्यतिरेकेणानिरूपणान्न तदात्मना देहाद्यभावे सम्बन्धसिद्धिरित्यभिसन्धायोक्तम्— विवेकिभिरिति। पदद्वयस्यैकार्थत्वमाशङ्क्य निरस्यति— नित्यस्येत्यादिना। नित्यत्वस्य द्वैविध्यसिद्ध्यर्थं नाशद्वैविध्यं प्रतिज्ञातं प्रकटयति— यथेत्यादिना। नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह— तत्रेति। विशेषणाभ्यां कूटस्थनित्यत्वमात्मनो विवक्षितमित्यर्थः। अन्यतरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्क्येतेत्यनिष्टापत्तिमाशङ्क्याह— अन्यथेति। ३औपनिषदत्वविशेषणमाश्रित्याप्रमेयत्वमाक्षिपति— नन्विति। इतश्चात्मनो नाप्रमेयत्वमित्याह— प्रत्यक्षादिनेति। तेन चागम- प्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते, ४तस्मिन्नेवाज्ञातत्वसम्भवात् , ‘अज्ञातज्ञापकं प्रमाण’मिति च प्रमाणलक्षणादित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विवेकिभिरित्यर्थः। नित्यस्य अनाशिनः इति न पुनरुक्तम्। नित्यत्वस्य द्विविधत्वाल्लोके, नाशस्य च। यथा देहो भस्मीभूतोऽदर्शनं गतो नष्ट उच्यते। १विद्यमानोऽप्यन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते। तत्रानाशिनो नित्यस्येति द्विविधेनापि नाशेनासम्बन्धोऽस्येत्यर्थः। अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यादात्मनः। तन्मा भूदिति ‘नित्यस्यानाशिनः’ इत्याह। अप्रमेयस्य न प्रमेयस्य, प्रत्यक्षादिप्रमाणैरपरिच्छेद्यस्येत्यर्थः। नन्वागमेनात्मा परिच्छिद्यते, प्रत्यक्षादिना च २पूर्वम्। न ; आत्मनः स्वतःसिद्धत्वात्। सिद्धे ह्यात्मनि प्रमातरि १. ‘विद्यमानोऽपि वयसा परिणतः’ इति रा.पा.। २. ‘न, पूर्वं स्वतःसिद्धत्वात्’ इति रा. पा.। ३. ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ इति श्रुतौ औपनिषदत्वं पुरुषस्य विशेषणं श्रूयते। तच्च उपनिषत्प्रमाणपरिच्छेद्यत्वम्। तच्चाप्रमेयत्वविरोधीति भावः। ४. जडे आवरणकृत्यस्य वैयर्थ्येन आत्मन्येव अज्ञानविषयत्वाङ्गीकारात्। अत एवोक्तम्— ‘अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः। अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता॥’ इति। द्र. अद्वैतसिद्धिः पृ. ३१८.
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आत्मा न विनाशी, अप्रमेयत्वात् , शशविषाणवदित्युक्तम्। तत्र हेतोरसिद्धिमाशङ्कते— नन्वागमेनेति। ‘तं त्वौपनिषदं पुरुषं पृच्छामी’ति श्रुतेः आत्मा वेदान्तप्रमेयो वक्तव्यः। आगमार्थपरिचयाच्च पूर्वं प्रत्यक्षादिप्रमेयो वक्तव्यः। अ.२. श्लो.१८ ]
[[६८]]
मानसिकप्रत्यक्षविषयत्वमात्मनोऽस्तीति कथं प्रत्यक्षापरिच्छेद्यत्वम्? तथा जगज्जन्मादिलिङ्गकानुमानेनात्मनः सुग्रहत्वात् कथमनुमा- नापरिच्छेद्यत्वमित्याक्षिपति— नन्वित्यादिना। परिहरति— नेति। प्रत्यक्षागमादिप्रमाणव्यवहारात् पूर्वमेवात्मनः स्वतःसिद्धत्वाद् न प्रत्यक्षादिपरिच्छेद्यत्वमिति। घटादयो हि पदार्थाश्चक्षुरादिप्रमाणव्यापारानन्तरं सिध्यन्ति - घटोऽस्ति पटोऽस्तीति। प्रमाता तु आगमादिप्रमाणव्यापारात् पूर्वमेव सिध्यति , प्रमात्रधीनत्वात् प्रमाणव्यापारस्य। कर्ता हि प्रमाता , करणानि तु प्रमाणानि। यथा वास्यादिकरणव्यापारश्छेदनादिस्तक्षादिकर्त्रधीनः, तद्वत्। आत्मा हि प्रमाता। अतो न प्रमातर्यात्मनि प्रमाणपरिच्छेद्यत्वमिति भावः। संग्रहवाक् यं विवृणोति— सिद्धे हीत्यादिना। प्रमातर्यात्मनि सिद्धे सत्येव प्रमित्सोः प्रमाणान्वेषणा भवतीत्यन्वयः। प्रमातुमिच्छुः प्रमित्सुः, तस्य; प्रमातुरित्यर्थः। प्रमाता हि प्रमित्सति प्रमेयम्। प्रमाणानां चक्षुरादीनां करणानाम् अन्वेषणा गवेषणा। रूपं प्रमित्सुः प्रमाता चक्षुरन्विष्यति, चक्षुषैव रूपस्य प्रमेयत्वात् , शब्दं प्रमित्सुः श्रोत्रमन्विष्यतीत्येवम्। ननु प्रमित्सुः पूर्वं प्रमातारमात्मानं प्रमाय पश्चाद् रूपादिकं प्रमातीति कृत्वा सिध्यति प्रमातुरपि प्रमेयत्वमित्यत आह— न हीति। घटादिकं प्रमेयं प्रमातुमिच्छन् पुरुषः पूर्वमादौ नित्योऽविक्रिय आत्माऽहमित्येवमात्मानं प्रमाय पश्चात् प्रमेयस्य घटादेः परिच्छेदाय न हि प्रवर्तते। हिशब्दः सर्वानुभवप्रसिद्धिं द्योत- यति। तत्र हेतुमाह— न हीति। आत्मनः स्वत्वात् स्वस्य स्वयं कथमप्रसिद्धः स्यात् ? असिद्धार्थपरिच्छेदाय हि प्रमात्रा प्रमाणव्यापार आकाङ्क्षितः। चक्षुर्व्यापारात्प्रागेव यदि प्रमाता गृहे घटं जानीयात् तर्हि किमिति घटोऽत्रास्ति वा न वेति संशयीत? किमिति तत्संशयापनोदार्थं चक्षुषा घटदर्शने व्याप्रियेत? आत्मनि तु न कोऽपि ‘अहमस्मि वा न वा’ इति सन्देग्धि येन तत्सन्देहापनोदनाय प्रयोगोऽपि— आत्मा (अ)प्रमेयः, वस्तुत्वात् , घटादिवदिति भावः। ‘अत्रायं पुरुषः स्वयञ्ज्योतिर्भवती’ति श्रुतिविरोधात् अनुमानं प्रमाणं न भवतीत्याह— न ; स्वतःसिद्धत्वादिति। न च श्रुतेर(वि)मुख्यार्थत्वम्। मुख्यार्थत्वे बाधकादर्शनात्। न ह्यनुमानं बाधकम् , अन्योन्याश्रयात्। किञ्च [अहं]प्रत्ययप्रवृत्तेः प्रागेव सुषुप्तावस्थायामात्मनि सिद्धे सति, पश्चात् प्रमातुमिच्छा जायते। ततः प्रमाणान्वेषणा भवति। अतो ह्यात्मा स्वप्रकाश इत्याह— सिद्धे ह्यात्मनीति। किञ्च अहंप्रत्ययाद् आत्मा विषयसंवेदनात् पूर्वं सिध्यति, किं वोत्तरकालं, किं वा समकालं, किं वा विषयसंवेदनाश्रयतया? तत्राद्यं दूषयति— [न हि पूर्वमिति।] ‘घटमहं जानामी’ति विषयसंवेदनसमये प्रमातुरनवभासप्रसङ्गादित्यर्थः। द्वितीयं दूषयति— न ह्यात्मा नामेति। विषयसंवित्समये कस्यचित् न ह्यात्माऽप्रसिद्धो भवति, ‘मयेदं विदित’मिति ग्राह्यग्राहकभावास्फुरणप्रसङ्गात्। अतः उत्तरकाले सिद्धिरनुपपन्नेत्यर्थः। नापि समसमयम् , निरंश(स्यैवा)स्यात्मनः युगपद्विरुद्धपरिणामायोगात्। नापि संविदा- श्रयतया वेद्यः, संवित्कर्मतामन्तरेणापरोक्षत्वात् , संवेदनवत्। तस्मात् परिशेषात् ३स्वयम्प्रकाश आत्मा सिद्ध इति भावः। ‘एतदप्रमयम्’ इत्यादिश्रुतिमनुसृत्य परिहरति— नेत्यादिना। कथं मानमनपेक्ष्यात्मनः सिद्धत्वमित्याशङ्क्योक्तं विवृणोति— सिद्धे हीति। प्रमित्सोः प्रमेयमिति शेषः। तदेव व्यतिरेकमुखेन विशदयति— न हीति। आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन् न प्रमाणमन्वेष- णीयमित्याह— न ह्यात्मेति। प्रत्यक्षादेरनात्मविषयत्वात् , ४तत्र चाज्ञातताया व्यवहारे सम्भवात् , तत्प्रामाण्यस्य च व्यावहारिकत्वाद् ,
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रमित्सोः प्रमाणान्वेषणा भवति। १न हि पूर्वम् ‘इत्थमहम्’ २इत्यात्मानं प्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते। न ह्यात्मा नाम कस्यचिदप्रसिद्धो भवति। १. ‘न हि प्रमातुमिच्छन् पूर्वमित्थं नित्यः अविक्रियश्चात्माऽहमित्यात्मानं प्रमाय’ इति रा. पुस्तके पा.। २. ‘इत्यात्मानमप्रमाय’इति पा.। ३. स्वयम्प्रकाशत्वं च स्वान्यसंविन्नैरपेक्ष्येण स्फुरणम्। ४. अज्ञानविषयत्वरूपाज्ञातत्वस्य सिद्धान्ते आत्ममात्रवृत्तित्वादज्ञातज्ञापकत्वलक्षणप्रामाण्यस्य अनात्मविषयकप्रत्यक्षादौ असंभवेऽपि व्यवहारसिद्धाज्ञातताघटितप्रामाण्यस्य तत्र संभवः इति भावः।
[[६९]]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आत्मानं प्रमातुमिच्छेदिति भावः। नन्वेवं वेदान्तशास्त्रम् अप्रमाणम् अनर्थत्वात् , आत्मज्ञानं हि वेदान्तशास्त्रस्य फलम्। तत्तु पूर्वमेव सिद्धम् , आत्मनः स्वतः सिद्धत्वादिति शङ्कायामाह— शास्त्रं त्विति। शास्त्रमत्यन्तं प्रमाणमेव। तत्र हेतुमाह— अतदिति। आत्मनि यदनात्मतद्धर्माध्यारोपणम् अविद्याकृतमस्ति ‘मनुष्योऽहं स्थूलोऽहं काणोऽह’मिति प्रतीत्याश्रयम् , तन्मात्रस्य निवर्तकत्वेन हेतुना शास्त्रं प्रमाणत्वं प्रतिपद्यते। अविद्याकृतात्माश्रयानात्मधर्माध्यारोपणनिवर्तकत्वरूपफलस्य सत्त्वाच्छास्त्रं प्रमाणमेवेत्यर्थः। फलान्तरं निषेधति— न त्विति। अज्ञातार्थज्ञापकत्वरूपं फलं नास्ति शास्त्रस्यास्येत्यर्थः। आत्मनः स्वत्वेन ज्ञातार्थत्वादिति भावः। उक्तार्थे श्रुतिं प्रमाणयति— तथा च श्रुतिरिति। अपरोक्षादिति पञ्चमी प्रथमार्थे छान्दसी। अपरोक्षमित्यर्थः। यः सर्वान्तर आत्मा, यच्च साक्षादपरोक्षं तद् ब्रह्मेति श्रुत्यर्थः। आत्मा स्वयमेवापरोक्षं ब्रह्मेति यावत्। अनया श्रुत्या प्रत्यगभिन्नस्य ब्रह्मणः प्रमाणव्यापारं विनैव प्रत्यक्षत्वमुक्तम् , साक्षादि- त्युक्तत्वात्। ततश्च आत्मा ज्ञातार्थः स्वतःसिद्ध एवेति भावः। मूलस्थतस्माच्छब्दार्थमाह— यस्मादिति। अनाशिनो नित्यस्येति शब्दद्वयार्थमाह— नित्य इति। ५अप्रमेयशब्दार्थमाह— विशिष्टे तत्प्रवृत्तावपि केवले२ तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि ३तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यम्भाविनी- त्याशङ्क्याह— शास्त्रं त्विति। शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य ४व्यावृत्तत्वाद् युक्तमस्यान्त्यत्वम्। अपौरुषेयतया निर्दोषत्वाच्चास्य प्रामाण्यमित्यर्थः। तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्? तस्य स्वतःसिद्धत्वेनाविषयत्वाद् अज्ञातज्ञापना- योगादित्याशङ्क्य स्वतो भानेऽपि प्रतीचो ‘मनुष्योऽहं’ ‘कर्ताऽहम्’ इत्यादिना मनुष्यत्वकर्तृत्वादीनामतद्धर्माणामध्यारोपणेनात्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेनात्मनो विषयत्वमनापद्यैव[पाद्यैव] शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वा’दिति न्यायादित्याह— अतद्धर्मेति। घटादाविव स्फुरणातिशयजनकत्वेन किमिति आत्मनि शास्त्रप्रामाण्यं नेष्टमित्याशङ्क्य जडत्वाजडत्वाभ्यां विशेषादिति मत्वाऽऽह— न त्विति। ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह— तथा चेति। साक्षाद् अन्यापेक्षामन्तरेण, अपरोक्षाद् अपरोक्षस्फुरणात्मकं यद् ब्रह्म, न च तस्यात्मनोऽर्थान्तरत्वम् , सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात् , तमात्मानं व्याचक्ष्वेति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
शास्त्रं त्वन्त्यं१ प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वमात्मनि प्रतिपद्यते, न त्वज्ञातार्थज्ञापकत्वेन। तथा च श्रुतिः ‘यत्साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः’(बृ.उ.३.४.१) इति। यस्मादेवं नित्योऽविक्रियश्चात्मा, १. ‘अत्यन्तम्’ इति रा.पा.। २. केवले आत्मनीति शेषः। ३. उपनिषत्स्वेव विज्ञायते इत्यौपनिषदः। शैषिकोऽण्। औपनिषदपदेऽयं तद्धितप्रत्ययः श्रुतिः। शक्त्या बोधकः शब्दः श्रुतिः। तथा चोपनिषद्रूपशास्त्रस्य तत्र प्रवृत्तिः= आत्मबोधकत्वमावश्यकमिति अप्रमेयत्वं कथमिति शङ्कार्थः। ४. बाधितत्वादित्यर्थः। तदुक्तम्— ‘अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृत्वमात्मनः’ इत्यादि। ५. अप्रमेयत्वेनार्थलभ्यमर्थमाहेत्याशयः। अविक्रियत्वस्यार्थलभ्यत्वं दर्शयति—प्रमेयस्येत्यादिना। कथं तस्य तर्हि औपनिषदत्वप्रतिपादनेन शास्त्रप्रमाण[प्रामाण्य]मित्याशङ्क्याह— शास्त्रं त्वन्त्यं प्रमाणमिति। शास्त्रेणात्मनि प्रतिपादिते पुनः प्रमाणप्रमेयव्यवहारानुपपत्तेः तदन्त्यम्। ततो बाधकप्रमाणान्तराभावाद् , अपौरुषेयतया निर्दुष्टत्वाच्च शास्त्रं प्रमाणमित्यर्थः। कथं तर्हि आत्मन्यप्रमेये प्रामाण्यं लभत इत्याशङ्क्याह— अतद्धर्मेति। प्रकाशमानोऽप्यात्मा ‘मनुष्योऽहम् , कर्ताऽह’मिति अतद्धर्मविशिष्टो भाति। तत्र शास्त्रेण ‘अस्थूल’मित्यादिना स्वाभाविकनिष्प्रपञ्चत्वोपदेशेनातद्धर्मनिवृत्तिः क्रियते अर्थात् , न त्वज्ञातस्वरूपं ज्ञाप्यते, प्रागेव स्वस्वरूपस्फुरणस्य सिद्धत्वात्। अतः स्वरूपेणाप्रमेयत्वं, निरुपाधिक- रूपेण सोपाधिकरूपेण वा शास्त्रप्रमेयत्वमिति भावः। स्वतोऽपरोक्षत्वे प्रमाणमाह— तथा च श्रुतिरिति। यः साक्षादिति प्रमाणवृत्तिमन्तरेण। अपरोक्षादिति अपरोक्षमित्यर्थः। एवम् अप्रमेयत्वहेतुं प्रसाध्य पूर्वोक्तं निगमयति— यस्मादिति। ननु अ.२. श्लो.१८ ]
[[७०]]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अविक्रिय इति। प्रमेयस्य घटादेः सविक्रियत्वादप्रमेय आत्मा अविक्रिय इत्यर्थः। युद्ध्यस्वेति लोटा युद्धं कुर्विति विधिरभिधीयत इत्या- शङ्क्याह— युद्धादुपरमं मा कार्षीरित्यर्थ इति। अनुवादमात्रमिति। चिकीर्षितयुद्धानुवादमात्रमेवेत्यर्थः। मात्रपदार्थमाह— न विधिरिति। तत्र हेतुमाह— शोकमोहादीति। शोकमोहादीनां संसारकारणानां निवृत्तिरेवार्थः फलं यस्य तत् तथोक्तम्। तन्निवृत्तये इदं ५निवृत्त्यर्थमिति वा समासः। उभयथाऽप्येक एवार्थः। न तु कस्मिंश्चित् कर्मणि प्रवर्तकमित्याह— न प्रवर्तकमिति। इति हेतोर्युद्ध्यस्वेति न विधिरित्यन्वयः। अत्राह रामानुजः—‘दिह उपचये इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः। उपचयात्मका हि घटादयोऽन्तवन्तो दृष्टाः। नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः ‘पुण्यः पुण्येने’त्यादिशास्त्रैरुक्ताः कर्मावसानविनाशिनः’ इति। तत्तुच्छम् ; दिह उपचये इत्युपचयरूपत्वं देहानां वृद्धिहेतुरेव, न क्षयहेतुः। उपचयो हि वृद्धिः। न च घटादीनामुपचयात्मकत्वं दृश्यते। कुलालेन यावत्परिमाणो घटः कृतस्तावत्परिमाणान्न हि घटोऽस्मद्गृहेषु वर्धते। न च - एतद्दोषपरिहारायैव वेदान्तदेशिकेन उपचयरूपा इत्यस्य सावयवा इत्यर्थः वर्णित इति - वाच्यम् ; देहशब्दात् तादृशार्थालाभात्। न च सावयवस्यैवोपचयः, न तु निरवयवस्येति सिद्धान्तात् तादृशार्थलाभः, निरवयवत्वे देहस्योपचयासम्भवादिति वाच्यम् ; सावयवस्यापि घटस्योपचयादर्शनेन सावयवत्वोपचययोः समनियतत्वाभावान्न तादृशार्थलाभ इति। किञ्च तव मते निरवयवस्यापि मठाकाशस्य मठवैपुल्येनोपचयदर्शनान्निरवयवस्य नोपचय इत्यपि न नियन्तुं शक् यते। अथ देहस्योपचयोऽपि दुर्निरूपः, यावद्भिरवयवैर्देहः आरब्धो घटवत् , तावद्भ्योऽवयवेभ्योऽन्यावयवानां कथं देहे लाभः, येनोपचयः स्यात्। न च देहस्य बाल्यावस्थातस्तारुण्ये वृद्धिदर्शनात् तद्बलेनावयवान्तरसङ्क्रमणं कल्प्यत इति वाच्यम् ; अप्रमाणत्वात् तत्कल्पनायाः। अतो मायामय्येव सा वृद्धिः। यथा घटादयः अन्तवन्तो दृष्टास्तथा देहा अप्यन्तवन्तो दृष्टा एवेति किमिति देहेषु सिद्धस्यान्तवत्त्वस्य सावयवत्वादिभिर्हेतुभिर्भगवता साधनं क्रियते? सिद्धसाधनं ह्यपार्थत्वाद् दोषः। शरीरिणः कर्मफलभोगार्थतया देहाः शास्त्रैरुक्ता इत्यर्थवर्णनमप्ययुक्तम् , मूलाद्बहिः कल्पितत्वात् कर्मफलभोगार्थतयेति पदस्य। सर्वप्रमाणेषु प्रत्यक्षस्य बलवत्त्वाद् भाष्यार्कप्रकाशः १. ‘युद्धं कर्तव्यतया’ इति रा.पा.। २. ‘कर्तव्यप्रतिबन्धा’ इति पा.। ३. क्षत्रियस्य युद्धकर्तव्यताविधायकं शास्त्रं तु स्मृतिरूपमन्यदेवेति भावः। एतदनन्तरम् ‘शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकमित्यर्थः॥१८॥’ इति रा.पा.। आनन्दगिर्याचार्यैस्तु अयं ग्रन्थः उत्तरश्लोकावतारिकात्वेन व्याख्यातः। ४. ‘उद्दिश्य’ इति पा.। ५. लाघवाय शोकमोहादिसंसारकारणनिवृत्त्यर्थमिति समासैकदेशनिर्देशोऽयम्। तस्माद् युध्यस्व, युद्धादुपरमं मा कार्षीरित्यर्थः। न ह्यत्र १युद्धकर्तव्यता विधीयते। युद्धे प्रवृत्त एव ह्यसौ शोकमोहप्रतिबद्धस्तूष्णीमास्ते। अतस्तस्य २प्रतिबन्धापनयनमात्रं भगवता क्रियते। तस्माद् ‘युध्यस्व’ इत्यनुवाद- मात्रम् , न विधिः३॥१८॥
[आनन्दगिरिकृतव्याख्या]
आत्मस्वरूपमुपदिश्य४ युद्धकर्तव्यताविधानात् समुच्चयोऽत्र भातीत्याशङ्क्याह— न ह्यत्रेति ॥१८॥
योजना। अप्रमेयत्वेनाविनाशित्वं प्रतिपाद्य फलितं निगमयति— यस्मादिति। स्वधर्मनिवृत्तिहेतुनिषेधे तात्पर्यं दर्शयति— युद्धादिति। आत्मनो नित्यत्वादिस्वरूपमुपपाद्य युद्धकर्तव्यत्वविधानाद् ज्ञानकर्मसमुच्चयोऽत्र भातीत्याशङ्क्याह— न हीति। युध्यस्वेति वचनात् तत्कर्तव्यत्वविधिरस्तीत्याशङ्क्याह— युद्ध इति। कथं तर्हि ‘कथं भीष्ममहम्’ इत्याद्यर्जुनस्य युद्धोपरमपरं वचनमिति? तत्राह— शोकेति। यदि स्वतो युद्धे प्रवृत्तिस्तर्हि भगवद्वचनस्य का गतिः? इत्याशङ्क्याह— तस्येति। भगवद्वचनस्य प्रतिबन्धनिवर्तकत्वे सत्यर्जुनप्रवृत्तेः स्वाभाविकत्वे फलितमाह— तस्मादिति॥१८॥
[[७१]]
१. ‘एतस्यार्थस्य’ इत्यादि रा.पा.। २. ‘अहमेतेषाम्’ इति रा.पा.। ३. ‘देहहनने’ इति पा.। ४. इदं प्रतीकं ७२ पृष्ठस्थं द्र.। भाष्यार्कप्रकाशः देहानां तद्गतविनाशस्वभावस्य च प्रत्यक्षसिद्धत्वेन शास्त्रैरुक्ता इत्यप्ययुक्तम् , व्यर्थत्वात्॥१८॥
य एनमिति श्लोकमवतारयति— एतस्येति। एतस्य उक्तस्य ‘नित्य आत्मा अविक्रियः’ इत्यस्यार्थस्य साक्षिभूते प्रमाणभूते ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्’ ‘न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चिद्’ इति ऋचौ मन्त्रौ भगवान् आनिनाय इहोपनिबबन्धेत्यर्थः। तत्र प्रथममन्त्रस्य सङ्गतिमाह— यत्त्विति। ‘य एनं हन्तारं वेत्ति, यश्चैनं हतं मन्यते, तावुभौ न विजानीतः, अयं न हन्ति न हन्यते’ इति श्लोकस्यान्वयः। यौ देहहनने इदम्प्रत्ययविषयस्य देहस्य हनने सति, अविवेकेन देहात्मनोरविवेकेन हेतुना अहम्प्रत्ययविषयमात्मानं हन्ताऽहमिति हतोऽहमिति जानीतः, तावुभौ न विजानीतः इत्यस्यार्थमाह— आत्मस्वरूपानभिज्ञाविति। तत्र हेतुभूतं श्लोकस्य चरमपादं व्याचष्टे— यस्मादिति। कुत आत्मा हननक्रियायाः कर्ता कर्म च न भवतीत्यत आह— ४अविक्रियत्वादिति। हन्तृत्वहतत्वादयो विकारा आत्मनि निर्विकारे कथं स्युरित्यर्थः। शस्त्रपाणिः प्रबलो देह एव दुर्बलमन्यं देहं हन्ति; स दुर्बलदेह एव प्रबलेनान्येन देहेन हन्यत इति देहधर्मावेव हन्तृत्वहतत्वे। अविवेकिभिस्तु ते आत्मन्यारोप्येते, यथा देहधर्मः कार्श्यमात्मन्यारोप्यते व्याधिग्रस्तेन मूढेन पुंसा, तद्वदिति भावः। अत्राह रामानुजः—‘एनमुक्तस्वभावमात्मानं प्रति हन्तारं हननहेतुं कमपि यो मन्यते, यश्चैनं केनापि हेतुना हतं मन्यते’ इति, य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९॥
१शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकमित्येतस्यार्थस्य साक्षिभूते ऋचावानिनाय भगवान्। यत्तु मन्यसे - ‘युद्धे भीष्मादयो मया हन्यन्ते, २अहमेव तेषां हन्ता’ इति, एषा बुद्धिर्मृषैव ते। कथम्? — य एनमिति। य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारम् , यश्च एनम् अन्यो मन्यते हतं ३देहहननेन हतोऽहमिति हननक्रियायाः कर्मभूतम् , तावुभौ न विजानीतो न ज्ञातवन्तौ अविवेकेनात्मानम् । हन्ताऽहम् , हतोऽस्म्यहमिति देहहननेन आत्मानम् अहम्प्रत्ययविषयं यौ विजानीतः, तौ आत्मस्वरूपानभिज्ञावित्यर्थः। यस्माद् प्रतिबन्धापनयमात्रं क्रियत इत्येतत् प्रागप्युक्तमिति स्मारयति— शोकमोहादीति। उत्तरश्लोकद्वयस्य सम्बन्धमाह —एतस्यार्थस्येति। नित्यः सन् अविक्रियश्चात्मेत्येतस्यार्थस्य संवादकौ मन्त्रौ भगवानानीतवान्। तत्राद्यस्य सम्बन्ध उच्यते — यत्तु मन्यस इति॥१९ - २०॥
[आनन्दगिरिकृतव्याख्या]
‘अविनाशि तु तद्विद्धि’ इत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनम् , उत्तरार्धेन निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनार्थम् ‘अन्तवन्तः’ इत्यादि वचनमिति केचित्। अस्तु नामायमपि पन्थाः। पूर्वोक्तस्य गीताशास्त्रार्थस्योत्प्रेक्षामात्रमूलत्वं निराकर्तुं मन्त्रद्वयं भगवानानीतवानिति श्लोकद्वयस्य सङ्गतिं दर्शयति— शोकमोहादीति। तत्र प्रथम- मन्त्रस्य सङ्गतिमाह— यत्त्विति। प्रत्यक्षनिबन्धनत्वादमुष्या बुद्धेर्मृषात्वमयुक्तमित्याक्षिपति— कथमिति। प्रत्यक्षस्याज्ञानप्रसूतत्वेनाभास- त्वात् तत्कृता बुद्धिर्न प्रमेति परिहरति— य एनमिति। ‘हन्ता चेन्मन्यते हन्तुम्’ इत्याद्यामृचमर्थतो दर्शयित्वा व्याचष्टे— य एनमिति। हन्तारं हतं वाऽऽत्मानं मन्यमानस्य कथमज्ञानमित्याशङ्क्याह— हन्ताऽहमिति। हन्तृत्वादिज्ञानमज्ञानमित्यत्र हेतुमाह— यस्मादिति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अ.२. श्लो.१८-१९ ]
[[७२]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
तत्तुच्छम् ; ‘प्रति, कम् ,अपि’ इति पदत्रयाध्याहारदोषात् , स्वरसतः प्रतीयमानसामानाधिकरण्यभङ्गदोषाच्च। हन्तारमिति हन्तेः कर्तरि विहितेन तृच्प्रत्ययेन हेत्वर्थस्यानभिधीयमानत्वात्। हननहेतुमित्यस्य हननकर्तारमित्यर्थवर्णनस्य वक्रत्वात्। तथा केनापि हेतुना हतमित्यप्यसङ्गतम् , हतमिति कर्मणि क्तप्रत्ययेन तावत् कर्तुरेवाकाङ्क्षाया उत्पद्यमानत्वात् तत्परिपूर्तये केनापि कर्त्रेत्येव वक्तव्यात्। कारणफलरूपार्थद्वयवाचिनो हेतुशब्दस्य कर्त्रर्थाश्रयणस्याप्रमाणत्वाच्च। तथा - अयमात्मा हननहेतुर्न भवतीत्यप्युक्तमनेन, तदप्यसत् ; हन्तीति हननकर्तारमभिधत्ते तिबन्तो धातुः, न तु हननहेतुम्। हननकर्ता हि हननाश्रयः, आख्यातस्य चाश्रयत्वमर्थ इति सिद्धान्तः। रामो रावणं जघान बाणेन, भार्यापहारित्वादिति वाक् ये - हननं क्रिया, तत्र कर्ता रामः, करणं बाणः, हेतुस्तु भार्यापहरणं, कर्म रावणः इति कर्तृहेत्वोर्भेदात्। ततश्च नायं हन्तीति वाक् येनात्मनो हननकर्तृत्वमेव निषिध्यते, न तु हननहेतुत्वं, कर्तरि तिब्विधानादिति कृत्वा कथं रामानुजेनात्मनो हननहेतुत्वं निषिद्धं ‘नायं हन्ती’ति वाक् येन। यदप्युक्तम्— अत्र प्रत्ययस्य हेतुमात्रविवक्षेति वेदान्तदेशिकेन ; तदप्ययुक्तम् ; व्यासस्य तादृशविवक्षाऽस्तीति कल्पने प्रमाणाभावात् , प्रसिद्धकर्त्रर्थपरित्यागे कारणाभावाच्च। न हि यः कोऽपि मूढ आत्मानं हननहेतुं मन्यते। किन्तु हननकर्तारमेव— ‘रिपुं हतवानह’मिति। तत्र हेतुं तु धनराज्यादिकमेव मन्यते। ततश्च नात्मा हननहेतुरित्युपदेशोऽपि व्यर्थः। न च ‘आत्मार्थं रिपून् हन्ती’ति प्रयोगादात्मनोऽस्ति हेतुत्वमिति वाच्यम् ; तत्र आत्मार्थमित्यस्यात्मसुखादिलाभार्थमित्यर्थात्। अन्यथा हन्तीति हननक्रियाश्रये आत्मनि हननहेतुत्वस्यासम्भवात्। ‘आत्मार्थे पृथिवीं त्यजेदि’त्यादौ यथाकथञ्चित्फलत्वरूपहेतुत्वमात्मनो भवतु नाम, कारणत्वरूप- हेतुत्वं तु क्वापि न सम्भवेत्। त्वया तु हननहेतुर्नेति हननकारणत्वमेव प्रतिषिध्यते। स चायुक्तः, निषेधस्य प्रसक्तिपूर्वकत्वादात्मनि च कर्तरि हेतुत्वाप्रसक्तेः। न चात्मना पुत्रमुत्पादयतीत्यस्ति हेतुत्वमात्मन इति वाच्यम् , तत्रात्मशब्दस्य देहार्थकत्वात् , तृतीयायाश्च करणे विहितत्वात्। किञ्च ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हत’मिति कठवल्लीवाक् यमिहान्वितमिति त्वयाऽप्युक्तम्। तत्र ‘हन्ता चेदि’त्यस्य किं हननकर्ता चेदित्यर्थः, उत हननहेतुश्चेदिति। न द्वितीयः, हननहेतोर्हननाकर्तृत्वेन हननबुद्ध्युदयप्रसङ्गासम्भवात्। हन्तुं मन्यत इति हननबुद्धिरुच्यते हि। सा च हननबुद्धिर्हननकर्तुरेवोचिता ‘हन्याम् अहमिम’मिति। अतः प्रथमः परिशिष्यते। योऽर्थो मूलभूतश्रुतिगत- हन्तृशब्दस्य स एव गीताश्लोकगतहन्तृशब्दस्यापि वक्तव्यः, न त्वन्यः, तस्यैवेहोपनिबद्धत्वात्। तस्माद् हन्तेत्यस्य हननहेतुरित्यर्थः श्रुतिविरुद्धश्च। ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ इति पाणिन्यनुशासनविरुद्धश्च। लादेशानां तिबादीनां कर्तरि कर्मणि भावे च शक्तिरिति तदर्थात्। हेत्वर्थे तिबविधानात्। कर्तरि तृन्तृचोर्विहितत्वेन हेतौ तदविधानाच्च। ‘आख्यातस्याश्रयत्वमर्थः’ इति व्युत्पत्तिवादविरुद्धश्च। न हि हेतुत्वमाख्यातस्यार्थ इति तत्रोक्तम्। उपदेशवैयर्थ्यादिना दुष्टश्चेति तुच्छं रामानुजभाष्यम् , तदनुसारिवेदान्तदेशिकतात्पर्यचन्द्रिका न अयम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात्१॥१९॥
[आनन्दगिरिकृतव्याख्या]
आत्मनो हननं प्रति कर्तृत्वकर्मत्वयोरभावे हेतुं दर्शयति— अविक्रियत्वादिति॥१९॥
१. ‘वेदाविनाशिनं नित्यम्’ (२-२१) इति श्लोके वक्ष्यमाणरीत्या अविक्रियत्वस्य हेतोः साधारण्यात् हन्तिरत्र कियासामान्यस्योपलक्षणार्थः। तथा च कर्तृत्वाद्येव न संभवतीति ‘युद्धे भीष्मादयो मया हन्यन्ते, अहमेव तेषां हन्ता’ इति तव बुद्धिः मृषेत्यर्थः। अर्जुनस्य बुद्धेः मृषात्वेन बोधनीयायाः विषयतयोपस्थितत्वेन हन्तेरुपलक्षणतया ग्रहणमुचितमेव। ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हत’मिति कठवल्लीवाक् यानुगमाय च तथैव वक्तुमुचितत्वात्। न चैवं ‘कर्ता शास्त्रार्थवत्त्वात्’(ब्र.सू. २.३.३२) इत्यधिकरणे आत्मनः कर्तृत्वसाधनविरोध इति वाच्यम्। ‘यथा च तक्षोभयथा’ इत्युत्तराधिकरणे तत्कर्तृत्वस्य औपाधिकतायाः तत्रैव व्यवस्थापितत्वात्। अत एव ‘शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकमित्येतस्यार्थस्य साक्षिभूते ऋचावानिनाय भगवान्’ इति भाष्यकारैरुक्तम्। कठवल्ल्यामुक्तमन्त्रस्य ‘अन्यत्र धर्मादन्यत्राधर्माद्…यत्तत् पश्यसि तद् वद’ इति प्रश्नोत्तरत्वेन पठिततया मोक्षसाधनज्ञानविषयात्मपरत्वात्।
[[७३]]
च॥१९॥
कथमिव - कथं वा, केन प्रकारेणेत्यर्थः; आत्मा अविक्रियः इति शङ्कायाम्— ‘न जायते’ इति द्वितीयमन्त्रः उपन्यस्तो भगवता। अयमात्मा कदाचिदपि न जायते, कदाचिदपि न म्रियते, कदाचिदपि भूत्वा भूयो नाभविता, कदाचिदपि नभूत्वा भविता च न, शरीरे हन्यमानेऽपि कदाचिदपि न हन्यते। तस्मादयमजो नित्यः शाश्वतः पुराणश्च भवतीत्यन्वयः। भूत्वा अभविता, भूत्वा भवितेति च द्वेधा पदविभागः। जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति च षड् भावविकाराः। यथा देहो जायते, जन्मानन्तरं देहोऽस्तीति सत्तां प्रतिपद्यते, ततः प्रवृद्धो भवति, ततो विपरिणामं वलितपलितत्वादिकं भजते, ततोऽपक्षीयते कार्श्यं प्रपद्यते, ततो नश्यति अदर्शनं प्रपद्यते। इतीमे विकाराः आत्मनि न सन्तीति अविक्रियः आत्मेति फलितार्थः। तत्र ‘न जायते’ इत्यनेन जन्मलक्षणः प्रथमो विकारः आत्मनि निषिध्यत इत्याह— न जायत इति। न म्रियते - न नश्यतीति हृदि कृत्वाऽऽह— अन्त्येति। विनाशो ह्यन्त्यः षष्ठो विकारः। ननु कस्मादात्मा न म्रियते, अत आह— यस्मादिति। ‘यस्मादयमात्मा भूत्वा भवनक्रियामनुभूय पश्चाद् भूयः पुनः अभविता अभावं गन्ता न, तस्मान्न म्रियते’ इत्यन्वयः। भवनक्रियामनुभूय जनिक्रियाश्रयत्वं प्रपद्येत्यर्थः। जातःसन्निति यावत्। अभावं नाशं न गन्ता न प्राप्स्यति। उक्तमर्थं व्यतिरेकमुखेन द्रढयति— यो हि [इति]। यो देहादिः पदार्थः भूत्वा न भवति नाशं प्रपद्यते, स म्रियत इत्युच्यते लोके। जनैरिति शेषः। शशशृङ्गादिवारणार्थं भूत्वेति। शशशृङ्ग- गगनकुसुमादीनि अभूत्वैवादर्शनं प्रपद्यन्त इति, न तेषां मृतत्वव्यवहार इति भावः। ननु ‘न जायते म्रियते वा कदाचिद्’ इति प्रथमपादे श्रूयमाणस्यैकस्यैव नञः ‘जायते, म्रियते’ इति क्रियाद्वयेऽन्वयात् , ‘नायं भूत्वाऽभविता भूयः’ इत्यनेन द्वितीयपादस्य विवक्षितार्थसिद्धेश्च द्वितीयपादगतौ ‘वा न भूयः’ इत्यत्र ‘वा न’शब्दौ व्यर्थाविति शङ्कायामाह— वाशब्दान्नशब्दाच्चेति। अयमात्मा अभूत्वा भूयः पुनर्भविता च नेत्यन्वयः। तत्र व्यतिरेकदृष्टान्तमाह— देहवदिति। यथा तदेव साधयितुं ‘न जायते म्रियते वा विपश्चिदि’त्यादिमन्त्रान्तरमवतारयति— कथमिति। सर्वविक्रियाराहित्यप्रदर्शनेन हेतुं विशदयन् मन्त्रमेव पठति— न जायत इति। जन्ममरणविक्रियाद्वयप्रतिषेधं साधयति— नायमिति। अयमात्मा भूत्वा नाभविता, न वा ऽभूत्वा भूयो भवितेति योजना। न केवलं विक्रियाद्वयमेवात्र निषिध्यते, किन्तु सर्वमेव विक्रियाजातमित्याह— अज इति। वाच्यमर्थमुक्त्वा विवक्षितमर्थमाह— जनिलक्षणेति। विकल्पार्थत्वं व्यावर्तयति— वेति। निष्पन्नमर्थं निर्दिशति— नेत्यादिना। सम्बन्धमेवाभिनयति— न कदाचिदिति। अन्त्यविक्रियाऽभावे हेतुत्वेन ‘नाय’मित्यादि व्याचष्टे— यस्मादिति। उक्तमेव व्यनक्ति— यो हीति। आत्मनि तु भूत्वा पुनर्भवनाभावान्नास्ति मृत्युरित्यर्थः। आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षित इत्याह— वाशब्दादिति। अभूत्वेति छेदः। देहवदिति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१कथमविक्रिय आत्मेति द्वितीयो मन्त्रः— न जायत इति। न जायते नोत्पद्यते, जनिलक्षणा वस्तुविक्रिया नात्मनो विद्यत इत्यर्थः। तथा न म्रियते वा। वाशब्दः चार्थे। न म्रियते चेति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते। कदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः सम्बध्यते - न कदाचिज्जायते, न कदाचिन्म्रियते - इत्येवम्। यस्माद् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चाद् अभविता अभावं गन्ता न भूयः पुनः, तस्मान्न म्रियते। यो हि भूत्वा न भविता, स म्रियत इत्युच्यते लोके। वाशब्दान्नशब्दाच्च अयमात्माऽभूत्वा भविता वा देहवन्न भूयः पुनः। १. ‘कथमिवाविक्रियः’ इति रा. पा.। न जायते म्रियते वा कदाचिन्नायं भूत्वाऽभविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥२०॥
अ.२. श्लो.१९-२० ]
[[७४]]
देहः उत्पत्तेः प्रागभूत्वा, अविद्यमानः सन्नित्यर्थः; पश्चाद् भविता भावं सत्तां प्रपत्स्यते, तद्वदित्यर्थः। फलितमाह— तस्मादिति। यस्मादभूत्वा न भविता तस्मादित्यर्थः। प्रागभावाभावादिति यावत्। उक्तमर्थं व्यतिरेकेण द्रढयति— यो हीति। यो घटादिः पदार्थः अभूत्वा प्रागभावं प्रपद्य भविता उत्पत्स्यते, स जायते इत्युच्यते। लोकैरिति शेषः। प्रकृतमाह— नैवमिति। एवं घटादिवदात्मा प्रागभावं प्रपद्य न भविता। अत आत्मा न जायते। ततः किमत आह—यस्मादिति। यस्मादेवं न जायते, तस्मादजः आत्मा, न जायते इत्यजः इति व्युत्पत्तेरिति भावः। एवं मूलस्थम् अजपदं व्याख्याय नित्यपदं व्याचष्टे— यस्मादिति। लोके मृतिशालिन एव वस्तुनः अनित्यत्वव्यवहारादिति भावः। यद्यपीति। विचार्यमाणे सतीत्यर्थः। आद्यन्तयोरिति। जन्मनाशयोरित्यर्थः। सर्वा इति। सर्वासामस्तित्वादिविक्रियाणां जनिपूर्वकत्वान्नाशफलकत्वाच्चेति भावः। शब्दैरेवेति। न तु व्यङ्ग्यमर्यादयेत्येवकारार्थः। आर्थिकादपि निषेधान्निषेधसिद्धेः शाब्दो निषेधो व्यर्थ इत्याशङ्क्य, अर्थान्तरमाह— अनुक्तानामपीति। ननु मध्यभाविविक्रियामध्ये का विक्रिया शाश्वतपदेन प्रतिषिध्यत इत्यत्राह— अपक्षयलक्षणेति। कथमित्यतः तं शब्दं निर्वक्ति— शश्वद्भव इति। शश्वत् सर्वदैकरूपेण भवति विद्यत इति शाश्वतः इति। फलितार्थमाह— नापक्षीयत इति। लोके द्विविधोऽपक्षयः - स्वरूपकृतो गुणकृतश्च। यथा देहस्य वार्धक् ये स्वरूपकृतः, यथा चित्रपटस्य नीलपीतादिगुणक्षयकृतः। स द्विविधोऽप्यात्मनि नास्तीति सहेतुकमाह— स्वरूपेणेति। निरवयवत्वात् स्वरूपेण नापक्षीयते। निर्गुणत्वाच्च गुणक्षयेण ४नाप्यपक्षीयते। आत्मेति कर्तुः शेषः। अयमिति वा। पुराणपदमवतारयति— अपक्षयेति। ‘अपक्षयविपरीता वृद्धिलक्षणा विक्रिया पुराण इति पदेन प्रतिषिध्यते’ इत्यन्वयः। कथम्? तत्राह— यो हीति। अवयवागमेन विद्यमानेभ्योऽवयवेभ्यो ऽन्येषामवयवानां मायिकानामागमेन हेतुना यः उपचीयते, सः वर्धते अभिनव इति चोच्यते, लोकैरिति शेषः। न च - वर्धत इत्येवोच्यते, न त्वभिनव इति - वाच्यम् ; देवदत्तः बाल्ये दृष्टं यज्ञदत्तं तारुण्ये दृष्ट्वा ‘कोऽयमभिनव इव भाती’ति प्रत्येतीति लोकप्रसिद्धेः। पुराणपदं व्याचष्टे—पुराऽपि नव एवेति। यथेदानीं तथा पूर्वमप्यभिनव एवात्मा। ततश्च पूर्वापेक्षयेदानीं नवत्वाभावान्नास्य व्यतिरेकोदाहरणम्। उक्तमेवार्थं साधयति— यो हीति। ३जन्माभावे तत्पूर्विकाऽस्तित्वविक्रियाऽपि नात्मनोऽस्तीत्याह— यस्मादिति। प्राणवियोगादात्मनो [प्राणवियोगात्मनो] मृतेरभावे सावशेषनाशाभाववद् निरवशेषनाशाभावोऽपि सिध्यतीत्याह—यस्मादिति। ननु जन्मनाशयोर्निषेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्तन्निषेधार्थं न पृथक् प्रयतितव्यमिति? तत्राह— यद्यपीति। स्वशब्दैः मध्यवर्तिविक्रियानिषेधवाचकैरिति यावत्। आर्थिकेऽपि निषेधे निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवानित्याशङ्क्याह— अनुक्तानामिति। नित्यशब्देन शाश्वतशब्दस्य पौनरुक् त्यं परिहरन् व्याकरोति—शाश्वत इत्यादिना। अपक्षयो हि स्वरूपेण वा स्याद् , गुणापचयतो वेति विकल्प्य क्रमेण दूषयति— नेत्यादिना। पुराणपदस्यागतार्थत्वं कथयति— अपक्षयेति। तदेव स्फुटयति— यो हीति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तस्मान्न जायते। यो ह्यभूत्वा भविता स जायत इत्युच्यते। नैवमात्मा। अतो न जायते। यस्मादेवं तस्मादजः, यस्मान्न म्रियते तस्मान्नित्यश्च। यद्यप्याद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां १स्वशब्दैरेव प्रतिषेधः कर्तव्यः इति अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यादित्याह— शाश्वत इत्यादिना। शाश्वत इत्यपक्षयलक्षणा विक्रिया प्रतिषिध्यते। शश्वद्भवः शाश्वतः। नापक्षीयते स्वरूपेण, निरवयवत्वात्। २निर्गुणत्वाच्च नापि गुणक्षयेणापक्षयः। अपक्षयविपरीताऽपि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते— पुराण इति। यो ह्यवयवागमेनोपचीयते, स वर्धतेऽभिनव इति चोच्यते। अयं त्वात्मा निरवयवत्वात् १. ‘शब्दैरेव’ ‘स्वशब्दैरेव तदर्थैः प्रतिषेधो वक्तव्यः’ इति रा.पा.। २. ‘नापि गुणक्षयेणापक्षयः, निर्गुणत्वात्’ इति पा.। ३. न जायते, न म्रियते इति जन्ममरणा- भावोक्तेः ‘अजः’ इत्यस्यास्तिताख्यभावविकारवारकतया, ‘नित्यः’ इत्यस्य निरवशेषनाशवारकतया च सार्थक्यमाह— जन्मेति। प्राणवियोगात्मकमरणे हि सावशेषनाशः प्रसिद्धः, तदभावे अर्थात् स एव निषिद्धो भवति। ४. अपिकारो भिन्नक्रमः- गुणक्षयेणापीति।
[[७५]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
वृद्धिरिति भावः। तत्र हेतुमाह— निरवयवत्वादिति। निरवयवस्यात्मनः अवयवान्तरागमनप्रयुक्तवृद्धिर्न कथमपि स्यादिति भावः। एवं श्लोकस्य पादत्रयं व्याख्याय तुरीयं पादं व्याचष्टे— न हन्यत इति। हन्यत इत्यस्य म्रियत इत्यर्थवचनेन म्रियत इत्यनेन पुनरुक्तिः स्यादिति तद्दोषवारणार्थमाह— न हन्यते न विपरिणम्यत इति। धातूनामनेकार्थत्वादिति भावः। हन्तिरिति ६इक्श्तिपौ धातुनिर्देशा’विति कात्यायनस्मरणात् श्तिपा निर्देशः। हन्तिरिति हनधातुरित्यर्थः। अपुनरुक्ततायै पुनरुक्तिदोषाभावायेत्यर्थः। नात्र यकः कर्मविवक्षा, फलाभावात् प्रकृतासाङ्गत्याच्चेत्याह—विपरिणमत इत्यर्थ इति। ७कर्तर्येवायं यक्, आर्षत्वादिति भावः। सर्वं सङ्कलय्याह— अस्मिन् मन्त्र इति। ननु न जायते, न म्रियते, शाश्वतः, पुराणः, न हन्यते इति जन्मनाशापक्षयवृद्धिविपरिणामाः पञ्चैव विकाराः प्रतिषिद्धाः, न त्वस्तित्वमिति कथं षड्भावविकारप्रतिषेध इति चेत् , मैवम् , अयं भूत्वा नाभवितेत्यनेन तस्य प्रतिषिद्धत्वात्। भूत्वेत्यस्य भवनेनात्मनः सत्तां संपाद्येत्यर्थात्। अथवा - अभूत्वा न भवितेत्यनेन तत्प्रतिषेधः। पूर्वमभूत्वा पश्चाद् भवनेनात्मनः सत्तां न गन्तेत्यर्थात्। ‘षड्भावविकारा वस्तुविक्रियाः’ इत्यस्य षड्भावविकारा इति लोके प्रसिद्धा वस्तुविक्रिया इत्यर्थः। यस्मादेवमिति। यस्मादेवमविक्रिय आत्मेत्यर्थः॥२०॥
य एनमित्यादिना वेदाविनाशिनमिति श्लोकमवतारयति। न भवतीत्यस्य आत्मेति कर्तुःशेषः। यः एनमजमव्ययमविनाशिनं १पुराऽपि नव एवेति पुराणो न वर्धत इत्यर्थः। तथा न हन्यते न विपरिणम्यते हन्यमाने विपरिणम्यमानेऽपि शरीरे। हन्तिरत्र विपरिणामार्थो द्रष्टव्योऽपुनरुक्ततायै। २न विपरिणमते इत्यर्थः। अस्मिन् मन्त्रे षड् भावविकाराः लौकिक- वस्तुविक्रियाः आत्मनि प्रतिषिध्यन्ते। सर्वप्रकारविक्रियारहितः आत्मेति वाक् यार्थः। यस्मादेवं तस्माद् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेणास्य सम्बन्धः३॥२०॥
‘य एनं वेत्ति हन्तारम्’ इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवतीति प्रतिज्ञाय, ‘न जायते’ इत्यनेनाविक्रियत्वं हेतुमुक्त्वा, प्रतिज्ञातार्थमुपसंहरति— वेदाविनाशिनमिति। वेद विजानाति अविनाशिनम् अन्त्य- ‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौनरुक्त्यमाशङ्क्य व्याचष्टे— तथेत्यादिना। ननु हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते? तत्राह— हन्तिरिति। हिंसार्थत्वसम्भवे किमित्यर्थान्तरं हन्तेरिष्यते? तत्राह— अपुनरुक्तताया इति। हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , ४तन्निषेधार्थं विपरिणामार्थत्वमेष्टव्यमित्यर्थः। पूर्वावस्थात्यागेनावस्थान्तरापत्तिः विपरिणामः, तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह— नेति। ‘न जायते’ इत्यादिमन्त्रार्थमुपसंहरति— अस्मिन्निति। षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह— सर्वेति। आत्मनः सर्वविक्रियाराहित्येऽपि किमायातमित्याशङ्क्याह— यस्मादिति॥२०॥
पूर्वश्लोकार्थस्यैवोत्तरत्रापि प्रतिभानात् पौनरुक्त्यमाशङ्क्य वृत्तानुवादपूर्वकमुत्तरश्लोकमवतारयति— य एनमित्यादिना। कर्तृत्वा- द्यभिमानविरोधाद्५ अद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति— वेदेति। पदद्वयस्य पूर्वमेव आनन्दगिरिकृतव्याख्या वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ ! कं घातयति हन्ति कम्?॥२१॥
१. ‘पुराणं कस्मात्? पुरा नवं भवति’(३-१९-२४) इति निरुक्तम्। २. ‘न विपरिणम्यते’ इति पा.। ३. इमौ मन्त्रौ कठोपनिषदि व्युत्क्रमेण पठितौ। उभयोः हेतुहेतु- मद्भावेनैकवाक्यता तु समाना। ४. पौनरुक्त्यवारणार्थमित्यर्थः। ५. अद्वैतात्मज्ञानस्येति शेषः। ६. ‘इक्श्तिपौ धातुनिर्देशे’ इति पठ्यते। ७. ‘हन्यते’ ‘हन्यमाने’ इति कर्तरि प्रयोगः। तत्रार्षत्वाद् व्यत्ययेन यक्। एतत्सूचनाय भाष्ये ‘विपरिणमते’ इति यकं विना प्रयोगः। पूर्वं ‘विपरिणम्यते’ इत्यादिप्रयोगस्तु यथा- श्रुतानुरूप्याय। अ.२. श्लो.२०-२१ ]
[[७६]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
नित्यं वेद , हे पार्थ! स पुरुषः कथं कं घातयति, कं हन्तीत्यन्वयः। अविनाशिनित्यपदयोः पौनरुक्त्यं वारयति— अन्त्यभावविकारेति। अन्त्यो यो भावविकारः वस्तुविक्रिया, नाश इत्यर्थः; तेन रहितम्। नाशविपरिणामरूपविकारद्वयवारणार्थं पदद्वयमित्यर्थः। उपजनो जन्म। अत्र अविनाशिनित्याजाव्ययशब्दैः नाशविपरिणामजन्मापक्षयरूपाश्चत्वारो विकाराः प्रतिषिद्धाः। द्योतयन्ति चामी अस्तित्व- वृद्धिविकारद्वयप्रतिषेधमपि, जन्मपूर्वकत्वादस्तित्वस्य, क्षयफलकत्वाद् वृद्धेः, वृद्धिं विना क्षयायोगात्। अधिकृत इति। ज्ञाने इति शेषः। हन्तीत्यत्र प्रकृतिप्रत्ययार्थावाह— हननेति। हनधातोर्हननक्रियाऽर्थः। तदुत्तरवर्तितिप्प्रत्ययस्य कर्तृत्वमर्थः।‘कं हन्ती’त्यस्य किंकर्मक- हननक्रियाश्रय इत्यर्थः। घातयतीति हन्तेर्हेतुमति णिच्। घ्नन्तं प्रेरयति घातयति। इदमेवाह— हन्तारं प्रयोजयतीति। ‘कं घातयति हन्ति क’मित्यस्य फलितार्थमाह— न कंचिदिति। कथमेतदर्थलाभ इत्यत्राह— उभयत्रापीति। ननु किंशब्दस्य प्रश्नार्थत्वं हेत्वर्थत्वं वा अस्तु, किमित्याक्षेपार्थत्वम्? अत आह— प्रश्नेति। आत्मविदः यत्किञ्चित्प्राणिकर्मकहननाश्रयत्वाभावात् प्रश्नासम्भवः। ७हेत्वर्थस्य प्रश्नार्थेन तुल्यत्वादसम्भवः, केन हेतुना हन्तीत्यस्य हेतुविषयकप्रश्नवाचित्वाद् वाक् यस्येति भावः। नन्वात्मविदो हननक्रियाश्रयत्वं भावविकाररहितं नित्यं विपरिणामरहितं, यो वेदेति सम्बन्धः; एनं पूर्वेण मन्त्रेणोक्तलक्षणम् १अजं जन्मरहितम् अव्ययम् अपक्षयरहितम् ; कथं केन प्रकारेण स विद्वान् पुरुषोऽधिकृतः २हन्ति हननक्रियां करोति? ३कथं वा घातयति हन्तारं प्रयोजयति? न कथञ्चित् कञ्चिद् हन्ति, न कथञ्चित् कञ्चिद् घातयतीति उभयत्राक्षेप४ एवार्थः, प्रश्नासम्भवात्। ५हेत्वर्थस्य च तुल्यत्वाद् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थोऽभिप्रेतो भगवतः। हन्तेस्त्वाक्षेप उदाहरणार्थत्वेन कथितः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
उत्तरत्र प्रतिवचनादर्शनात् नात्र प्रश्नो घटत इत्याह—प्रश्नासम्भवादिति। हेत्वर्थस्याविक्रियत्वस्य सर्वकर्मप्रतिषेधे समानत्वाद् यदि सर्वकर्मप्रतिषेधोऽभिप्रेतः, तर्ह्यङ्गन्त्यर्थः[तर्हि हन्त्यर्थः] एव किमित्याक्षिप्त इत्याशङ्क्याह— हन्तेस्त्वाक्षेप- स्येति [क्षेप इति]। आनन्दगिरिकृतव्याख्या पौनरुक्त्यपरिहारेऽपि ६प्रकारान्तरेणापौनरुक्त्यमाह— अविनाशिनमित्यादिना। प्रश्नेऽपि संभवति किमिति नञुल्लेखेन व्याख्यायते? तत्राह— उभयत्रेति। उत्तरत्र प्रतिवचनादर्शनान्नात्र प्रश्नः सम्भवतीत्यर्थः। विवक्षितं प्रकरणार्थं निगमयति— हेत्वर्थस्येति। अविक्रियत्वं हेत्वर्थः; तस्य, विदुषः सर्वकर्मनिषेधे समानत्वादिति यावत्। यदि विदुषः सर्वकर्मनिषेधोऽभिमतस्तर्हि किमिति हन्त्यर्थ एवाक्षिप्यते? तत्राह— हन्तेरिति। १. ‘अजमव्ययम् उपजनापक्षयरहितम्’ इति रा.पा.। २. ‘कं हन्ति’ इति पा.। ३. ‘कं वा कथं घातयति’ इति पा.। ४. ‘उभयत्रापि आक्षेपार्थ एव किंशब्दः, प्रश्ना- र्थासम्भवात्’ इति पा.। ५. ‘हेत्वर्थस्य चाविक्रियत्वस्य तुल्यत्वाद्’ इति पा.। ६. ‘नित्यस्य अनाशिनः’(भ.गी.२.१८) इति पदद्वयव्याख्यानावसरे द्विविधनाश- संबन्धवारकतया पौनरुक्त्यपरिहारः कृतः, इदानीं तु प्रकारान्तरेण क्रियते। ७. अनेन ‘हेत्वर्थस्य च तुल्यत्वादि’ति भाष्यं किंशब्दस्य हेत्वर्थत्वेऽपि प्रश्नार्थत्वेन तुल्यत्वादिति व्याख्यातं भवति। अत्र च ‘हेत्वर्थस्य च तुल्यत्वादि’त्यत्र वाक्यसमाप्तिः। ‘विदुषः सर्वकर्मप्रतिषेधः’ इत्यत्र न तस्यान्वयः। वस्तुतस्तु ‘हेत्वर्थस्य च तुल्यत्वादि’ति विदुषः सर्वकर्मप्रतिषेधः अभिप्रेतः इत्यत्रान्वेति। तथा चायमर्थः— आत्मनः हननक्रियाकर्तृत्वाभावे यो हेतुः- अविक्रियत्वम् , तस्य क्रियासामान्यकर्तृत्वाभावव्याप्यत्वात् , तत्सामर्थ्यादेव क्रियासामान्यकर्तृत्वाभावः सिध्यति। हेतुसाधारण्ये हेतुमतो विधेयस्यापि साधारण्येन सिद्धिः मीमांसकसंमता। अत एव आतिथ्याप्रकरणगते ‘चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानूयाजान् यक्ष्यन् भवति’ इत्यत्र हिशब्दोक्तहेतुबलात् , यत्र यत्रानूयाजाभावः- आतिथ्यातोऽन्यत्रापि, तत्रापि चतुर्थचतुर्गृहीताभाव इति उक्तवचनादेवेष्यते। द्र.भाट्टदी.४.१.१७। अयमेवानन्दगिर्यादिसंमतो भाष्यार्थः। इममेवार्थं स्वयं भगवान् भाष्यकारः स्पष्टीकरिष्यति—‘अत्र चात्मनो हननक्रियायाः कर्तृत्वं, कर्मत्वं, हेतुकर्तृत्वं चाज्ञानकृतं दर्शितम्। तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेरविद्याकृतत्वम् , अविक्रियत्वादात्मनः। ….तदेतदविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान् वासुदेवो विदुषः कर्माधिकारा- भावप्रदर्शनार्थम् — ‘वेदाविनाशिनं…कथं स पुरुषः’ इत्यादिना।’(भ.गी.२.२१) इति।
[[७७]]
माऽस्तु नाम, तदतिरिक्तस्तुतिनिन्दादिक्रियाश्रयत्वमस्ति किमित्यत आह— विदुषः सर्वकर्मप्रतिषेध इति। विदुषः सर्वकर्मासम्भवे को हेतुर्भगवताऽभिप्रेत इति पृच्छति— विदुष इति। पश्यन् जानन्नित्यर्थः। उत्तरयति— ननूक्तमिति। आत्मनः कर्मासम्भवकारणविशेषः अविक्रियत्वम् उक्तं ननु उक्तं खलु ‘य एनम्’ इति श्लोकेनेति भावः। तत्र शङ्कते— सत्यमि- त्यादिना। सत्यमविक्रियत्वमुक्तम् , तु किं तु , सः - विधेयप्राधान्यात्पुंस्त्वम् - अविक्रियत्वरूपः कारणविशेषः न विदुषो नास्ति। तत्र हेतुमाह— अन्यत्वादिति। अविक्रियादात्मनः इति निर्धारणे६ पञ्चमी। विदुषः अन्यत्वाद् भिन्नत्वात्। अविक्रियत्वमात्मन उक्तम् , न तु विदुषः; विद्वांस्तु भिन्न एवात्मन इति कृत्वा कथं विदुषः सर्वकर्मासम्भवे आत्मगतमविक्रियत्वं हेतुः स्यात्? न कथमपीत्यर्थः। तदेव प्रपञ्चयति— न हीति। अविक्रियात्मतत्त्वविदः पुरुषस्य यदि कर्मासम्भवस्तर्हि अविक्रियस्थाणुविदोऽपि कर्मासम्भव एवेत्यर्थः। परिहरति— नेति। हेतुमाह— विदुष आत्मत्वादिति। य आत्मानं वेत्ति स विद्वानात्मैव, यः स्थाणुं वेत्ति न स स्थाणुः। अतो न दृष्टान्तदार्ष्टान्तिकयोः साम्यमिति भावः। ननु देहादिसंघातस्यास्तु विद्वत्तेत्यत आह— नेति। देहादिसमूहस्य जडत्वान्न विद्वत्तेति भावः। फलितमाह— अत इति। देहादिसंघातस्य विद्वत्ताऽसम्भवादित्यर्थः। पारिशेष्यादिति। उक्तातिरिक्तः शेषः; स एव परिशेषः; तस्य भावः पारिशेष्यं; तस्मात्। आत्मानात्मानौ द्वावेव लोके पदार्थौ। तत्रानात्मनोऽविद्वत्तायां सिद्धायामात्मैव परिशिष्ट इति पारिशेष्यादात्मैव विद्वानित्यर्थः। असंहत इति एकत्वादसङ्गत्वाच्चान्यैरमिलित इत्यर्थः। तस्य विदुष इति। आत्मनो विदुष इत्यर्थः। भाष्यार्कप्रकाशः विदुषः कं कर्मासम्भवे हेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान् - ‘कथं स पुरुषः’ इति? १ननूक्त एवात्मनः अविक्रियत्वं सर्वकर्मासम्भवहेतुः२ कारणविशेषः। ३सत्यमुक्तः, न तु स कारणविशेषः, अन्यत्वाद् विदुषोऽविक्रिया- दात्मनः इति। न ह्यविक्रियं स्थाणुं विदितवतः कर्म न सम्भवतीति चेत्? न ; विदुषः आत्मत्वात्। न देहादिसंघातस्य विद्वत्ता। अतः पारिशेष्याद् असंहतः आत्मा विद्वानविक्रियः इति तस्य विदुषः कर्मासम्भवादाक्षेपो युक्तः— ‘कथं स आनन्दगिरिकृतव्याख्या उक्तं हेतुमाक्षेप्तुं पृच्छति— विदुष इति। अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति— नन्विति। उक्तमङ्गी- कृत्याक्षिपति— सत्यमिति। विदुषो विज्ञानात्मनो ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवद् भिन्नत्वाद् , विदुषः सर्वकर्मत्यागे नासौ कारणविशेषः स्यादित्याह— अन्यत्वादिति। अविक्रियादिति च्छेदः। तथापि कूटस्थमविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत्? ब्रह्मप्रतिपत्तिविरोधादित्याशङ्क्याह— न हीति। ‘अयमात्मा ब्रह्म’ इत्यादिश्रुत्या समाधत्ते— न ; विदुष इति। किञ्च विद्वत्ता ४विशिष्टस्य वा केवलस्य वा? नाद्यः, विशिष्टस्य विद्वत्तायां विशेषणस्यापि तत्प्रसङ्गात्। न च विशेषणीभूतसंघातस्याचेतनत्वाद् विद्वत्ता युक्तेत्याह— न देहादीति। द्वितीये तु जीवब्रह्मविभागासिद्धिरित्याह— असंहत इति। ५किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्यासिद्धत्वात् , प्रातिभासिकस्य च बिम्बप्रतिबिम्बयोरनैकान्त्याद् भेदानुमानायोगाज्जीवब्रह्मणोरभेदसिद्धिरित्यभिप्रेत्य फलितमाह— इति तस्येति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
हेतुमाक्षेप्तुं पृच्छति— विदुषः कमिति। जीवब्रह्मणोर्विरुद्धधर्माक्रान्तत्वाद् दहनतुहिनवद् भेदं मत्वाऽऽक्षिपति— सत्यमुक्तमित्यादिना। ‘अयमात्मा ब्रह्म’ इति श्रुतेरभेदमुपादाय परिहरति— न ; विदुष इति। किञ्च देहादिसंघातधर्म- विशिष्टस्यैव विरुद्धधर्माक्रान्तत्वम् , तस्य च ब्रह्मवित्त्वं न सम्भवति, कल्पितत्वात्। अतो व्यधिकरणासिद्धो हेतुरित्यभि- प्रेत्याह— न देहादिसंघातस्येति। ननु यद्यविक्रियब्रह्मस्वरूपतया विदुषः कर्मासम्भवः, तर्हि तस्य विद्वत्ता वा कथं घटते? १. ‘ननूक्तमात्मनः’ इति रा.पा.। २. ‘सर्वकर्मासंभवकारणविशेषः’ इति पा.। ३. ‘सत्यमुक्तम्’ इति पा.। ४. देहादिसंघातविशिष्टस्येत्यर्थः। ५. विद्वान् ब्रह्मणो भिन्नः, तद्विरुद्धधर्मवत्त्वात् , दहनात् तुहिनवदित्यत्र प्रामाणिकं विरुद्धधर्वत्त्वं हेतुः, प्रातिभासिकं वा? इति विकल्प्याद्ये स्वरूपासिद्धिः, द्वितीये बिम्बप्रतिबिम्बयोः वस्तुतो भेदाभावेऽपि आभिमुख्यादिरूपविरुद्धधर्मवत्त्वाद् व्यभिचार इत्याह— किञ्चेति। ६. ‘पञ्चमी विभक्ते’ (पा.सू.२.३.४२) इति सूत्रेणेति शेषः। अ.२. श्लो.२१ ]
[[७८]]
आक्षेपस्वरूपमाह— कथं स पुरुष इति। कथं स पुरुषः पार्थ! कं घातयति, हन्ति कमितीत्यर्थः। ननु अविक्रिये आत्मनि विद्वत्तारूपस्य विकारस्य कथं सङ्गतिः? अत आह— यथेति। शब्दाद्यर्थस्य शब्दस्पर्शरूपरसगन्धात्मकविषयपञ्चकस्य, तदाश्रयघटादिद्रव्यस्य च बुद्ध्याद्याहृतस्य इन्द्रियसहकृतान्तःकरणेन गृहीतस्य सतः - चक्षुरादीन्द्रियद्वारा निर्गतान्तःकरणवृत्तौ घटादिविषयाकारेण परिणम्य ‘घटोऽयम्’ इत्यादिविषयज्ञानं जनयन्त्यां सत्यामित्यर्थः, - अविक्रिय एव सन् आत्मा बुद्धिवृत्त्यविवेकविज्ञानेन बुद्धिवृत्तेरात्मनश्च तादात्म्याध्यासप्रयुक्तेन विवेकज्ञानाभावेन हेतुना, अविद्यया उपलब्धा प्रमाता कल्प्यते। अविद्यया यद् बुद्धिवृत्त्यविवेकविज्ञानं तेनेति वाऽन्वयः। अस्मिन् मते कल्प्यत इत्यस्य लोकैरिति कर्तुःशेषः। काकाक्षिन्यायेनाविद्यया कल्प्यत इत्येव वा। अविक्रियस्याप्यात्मनः अविद्याकृताद् विषयाकारपरिणतबुद्धिवृत्तितादात्म्याध्यासाद् यथा प्रमातृत्वव्यवहारः कल्पित इति पर्यवसन्नार्थः। एवमेव असत्य- रूपया, अविद्यामयत्वादिति भावः, आत्मानात्मविवेकविज्ञानेन ‘अहं ब्रह्मास्मी’त्यादिरूपेणेत्यर्थः५, बुद्धिवृत्त्या विद्यया तत्तादात्म्या- ध्यासादित्यर्थः; परमार्थतोऽविक्रिय एवात्मा विद्वानित्युच्यते। महावाक्यार्थ[महावाक् य]जन्याहम्ब्रह्मास्मीत्याद्याकारकबुद्धिवृत्तितादा- त्म्याध्यासाद् अविक्रियस्याप्यात्मनस्तथा विद्वत्त्वव्यवहारः कल्पित इति परमार्थः। ‘अहं ब्रह्म’ इत्याद्याकारकबुद्धिवृत्तेः विद्यारूपत्वात् तत्तादात्म्याध्यासेनात्मनः प्राप्तं विद्वत्त्वम् , यथा विषयग्राहिबुद्धिवृत्तितादात्म्याध्यासाद् विषयग्राहित्वलक्षणं प्रमातृत्वम् , तद्वत्। अनेन पुरुषः’ इति। यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य१ अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकविज्ञानेन बुद्धिवृत्त्या विद्ययाऽसत्यरूपयैव परमार्थतोऽविक्रिय एवात्मा विद्वानुच्यते। २नन्वविक्रियब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्ताऽपि कथं सम्भवति? न हि ब्रह्मणोऽविक्रियस्य विद्यालक्षणा विक्रिया ३स्वीक्रियामर्हति, तत्राह— यथेति। अदृष्टेन्द्रियादिसहकृतमन्तःकरणं प्रदीपप्रभावद् विषयपर्यन्तं परिणतं बुद्धिवृत्तिरुच्यते। तत्र प्रति- बिम्बितं चैतन्यम् अभिव्यञ्जकबुद्धिवृत्त्यविवेकाद् विषयज्ञानमिति व्यवह्रियते। तेन आत्मोपलब्धा कल्प्यते। तच्चाविद्याप्रयुक्तमिथ्या- सम्बन्धनिबन्धनम्। तथैवाध्यासिकसम्बन्धेन ४ब्रह्मात्मैक् याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते। न च मिथ्या- सम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः। ‘अहं ब्रह्म’ इति बुद्धिवृत्तेर्मोक्षावस्थायामपि भावाद् आत्मनः सविशेषत्वमाशङ्क्य , तस्याः यावदुपाधिसत्त्वमेवेत्याह— असत्येति। ननु कूटस्थस्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ कस्य कर्माणि विधीयन्ते? न हि निरधिकाराणां तेषां
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
इत्याशङ्क्याह— यथा बुद्ध्याद्याहृतस्येति। अदृष्टेन्द्रियादिसहकृतमन्तःकरणं गवाक्षनिःसृतप्रदीपप्रभावद् दीर्घप्रभाकारेण विषयपर्यन्तं परिणमते। सा बुद्धिवृत्तिरित्युच्यते। तस्यां प्रतिबिम्बितं चैतन्यं तया व्यञ्जकबुद्धिवृत्त्याऽविवेकाद् विषयज्ञान- मुच्यते। तेनात्मा उपलब्धा कल्प्यते अविद्या[अविद्यया] मिथ्यासम्बन्धेन यथा, तथाऽऽध्यासिकसम्बन्धेनैव ब्रह्मैक् यव्यञ्जक- बुद्धिवृत्त्या विद्वान् उच्यते। न हि मिथ्यासम्बन्धेनाविक्रियत्वं व्याहन्यते इति भावः। ‘अहं ब्रह्मास्मि’ इति बुद्धिवृत्तेरपि यावदुपाधित्व[धिसत्त्व]मेव, न मोक्षानुविधायित्वमिति कथयति— असत्यरूपयेति। ननु अस्तु अविक्रियस्यैव मिथ्यैव विद्यावत्त्वम् , तथापि तस्य कर्माधिकारनिवृत्तेः कस्य कर्माणि विधीयन्ते १. शब्दाद्यर्थस्य उपलब्धा इत्यन्वयः। २ ‘नन्वविक्रियस्य’ इति पा.। ३. ‘स्वक्रिया भवितुमर्हति’, ‘विक्रिया भवितुमर्हति’ इति च पा.। ४. ब्रह्मात्मैक् याभि- व्यञ्जकत्वं तद्विषयकाज्ञाननिवर्तकत्वम्। वाक्योत्थत्वं महावाक्यजन्यत्वम्। ५. आत्मानात्मनोः विवेकः भेदः, तदुपलक्षितस्यात्मनो विज्ञानेनेत्यर्थः। तथा च ‘अहं ब्रह्मास्मी’त्याकारेणेति फलितम्। तस्य बुद्धिवृत्त्या सामानाधिकरण्येनान्वयः।
[[७९]]
चाध्यासिकेन बुद्धिवृत्तिसम्बन्धेन न कोऽप्यात्मनोऽस्ति विकार इति भावः। ननु विदुषः सर्वकर्मासम्भवे ‘ज्योतिष्टोमेन यजेत’ इत्यादिविधीनां का गतिः? इत्यत आह— विदुष इत्यादि। ननु कर्माण्येवाविदुषो विहितानीति कोऽयं नियमः? ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादिना विद्याऽप्यविदुष एव विधीयत इति पृच्छति कश्चित्— नन्वित्यादिना। तत्रेति। एवं सतीत्यर्थः। ‘यानि कर्माणि शास्त्रेण विधीयन्ते तान्यविदुष एव, न तु विदुष इति विशेषो नियमो नोपपद्यते’ इत्यन्वयः। या तु विद्या शास्त्रेण विहिता सा विदुष एवेति नियमासिद्धेरिति भावः। यदि विद्या विदुष एव विहितेति नियमः सिध्येत् , तर्हि कर्माण्यविदुष एवेति नियमः सिध्यतु , न तु तदस्तीति तत्त्वम्। न च - विद्याकर्मद्वयमपि अविदुष एव विहितं, न तु विदुषः कोऽपि विधिरिति - वाच्यम् ; ‘ज्ञानयोगेन सांख्यानाम्’ इति विदुषो विद्याविधेर्वक्ष्यमाणत्वात्। परिहरति— नेति। अनुष्ठेयस्य भावाभावाभ्यामविदुषः कर्माणि, न तु विदुषः इति विशेषस्योपपत्तेरित्यर्थः। तदेव प्रपञ्चयति— अग्निहोत्रेति। अग्निहोत्रादिविधि- वाक्यार्थज्ञानानन्तरम् अनेकसाधनोपसंहारपूर्वकमग्निहोत्रादि कर्मानुष्ठेयम्। साधनानि उपकरणानि। उपसंहारः सम्पादनम्। कस्या- नुष्ठेयम्? अत आह— कर्तेति। ‘अहं कर्ता, ममेदं कर्तव्यम्’ इत्येवम्प्रकारकं विज्ञानं यस्यास्ति तस्याविदुषः। यथा अविदुषः कर्मानुष्ठेयं भवति, तथा, विदुषः इति शेषः; ‘न जायते’ इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चिदनुष्ठेयं कर्म न भवतीत्यन्वयः। आत्मस्वरूपप्रतिपादकवाक्यार्थः इह आत्मस्वरूपविध्यर्थः इत्युक्तः। न ह्यात्मस्वरूपे कश्चिद् विधिरस्ति। यद्वा ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ इत्यादयः आत्मस्वरूपविधयः ‘न जायते’ इत्यादिनोक्तं यदात्मस्वरूपं तस्य विधयः ‘श्रोतव्यः’ इत्यादयः, विधिरित्याशङ्क्याह— विदुष इति। कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति— नन्विति। कर्मविधानमविदुषः, विदुषश्च विद्याविधानमिति विभागे का हानिरित्याशङ्क्याह— विदितेति। विद्याया विदितत्वं लब्धत्वम्। कर्मविधिरविदुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह— तत्रेति। धर्मज्ञानानन्तरमनुष्ठेयस्य भावात् , ब्रह्मज्ञानोत्तरकालं च तदभावात् , ब्रह्मज्ञानहीनस्यैव कर्मविधिरिति समाधत्ते— न ; अनुष्ठेयस्येति। विशेषोपपत्तिमेव प्रपञ्चयति— अग्निहोत्रादीति। ननु देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेः, तथाविधज्ञानवता कर्मानुष्ठेयमिति चेत्? तत्राह— कर्ताऽहमिति। आत्मनि ‘कर्ता भोक्ते’त्येवं विज्ञानवत्त्वेऽपि ४ब्रह्मज्ञानविहीनत्वेनाविदुषोऽनुष्ठेयं कर्मेत्यर्थः। देहादिव्यतिरेकज्ञानवद् ब्रह्मज्ञानमपि ज्ञानत्वाविशेषात् कर्मप्रवृत्तौ उपकरिष्यतीत्याशङ्क्याह—न त्विति। अनुष्ठेयविरोधित्वादविक्रियात्मज्ञानस्येति शेषः। ननु ब्रह्मात्मैकत्वज्ञानादुत्तरकालमपि ‘कर्ताऽहम्’
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विदुषः कर्मासम्भववचनाद् यानि कर्माणि शास्त्रेण विधीयन्ते तान्यविदुषो विहितानीति भगवतो निश्चयो ऽवगम्यते। ननु विद्याऽप्यविदुष एव विधीयते, विदितविद्यस्य पिष्टपेषणवद् विद्याविधानानर्थक् यात् ; तत्राविदुषः कर्माणि विधीयन्ते, न विदुष इति विशेषो नोपपद्यते चेत्? न ; अनुष्ठेयस्य भावाभावविशेषोपपत्तेः। अग्निहोत्रादि- विध्यर्थज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकम्१, ‘कर्ताऽहम्’ ‘मम कर्तव्यम्’ इत्येवम्प्रकारक- विज्ञानवतोऽविदुषो यथाऽनुष्ठेयं भवति, न तु तथा ‘न जायते’ इत्याद्यात्मस्वरूप२विध्यर्थज्ञानोत्तरकालभावि १. ‘पूर्वकमनुष्ठेयम्’ इति पा.। २. अज्ञातज्ञापकत्वेन आत्मस्वरूपबोधकवाक्ये विधित्वव्यवहारः। ३. ‘ज्ञानानन्तरं च’ इति पा.। ४. ब्रह्मज्ञानवत्त्वमेवेह विद्वत्त्व- मभिप्रेतम् , अतस्तद्विहीनः कर्माधिकृतः कर्मानुष्ठानौपयिकज्ञानवानपि अविद्वानिति भावः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
इत्याशङ्क्याह— विदुष इति। अविदुषः कर्माणीति विशेषमाक्षिपति— ननु विद्याऽपीति। अनुष्ठानकालेऽपि तत्त्वापरिज्ञानस्य विद्यमानत्वाद् युक्तं विशेषणमित्याह— न ; अनुष्ठेयस्येति। देहमात्रात्मदर्शिनो न पारलौकिककर्मण्यधिकारः, किन्तु देहव्यतिरिक्तात्मदर्शिनः। ततः आत्मविदश्चेत् किञ्चिदनुष्ठेयं न सम्भवति, ३ज्ञानान्तरं च नोपपद्यते चेत् , कथं तर्हि तं प्रति अ.२. श्लो.२१ ]
[[८०]]
किंचिदनुष्ठेयं भवति। किन्तु ‘नाहं कर्ता, नाहं भोक्ता’ इत्याद्यात्मैकत्वाकर्तृत्वादिविषयज्ञानादन्यन्नोत्पद्यत इत्येष विशेष उपपद्यते। यः पुनः ‘कर्ताऽहम्’ इति वेत्त्यात्मानम् , तस्य ‘ममेदं कर्तव्यम्’ इत्यवश्यम्भाविनी१ बुद्धिः स्यात् , तदपेक्षया २सोऽधिक्रियत इति तं प्रति कर्माणि ३सम्भवन्ति। स चाविद्वान् , ‘उभौ तौ न विजानीतः’ इति वचनात्। विशेषितस्य च विदुषः कर्माक्षेपवचनाच्च - ‘कथं स पुरुषः’ इति। तस्माद् विशेषितस्याविक्रियात्मदर्शिनो विदुषः, मुमुक्षोश्च सर्वकर्मसंन्यास एवाधिकारः। तदर्थज्ञानोत्तरकालभावीत्यर्थः। ‘नाहं कर्ता, नाहं भोक्ते’त्यादिना शास्त्रेण आत्मैकत्वाकर्तृत्वज्ञानादन्यन्नोत्पद्यते। ‘नाहं कर्ता, नाहं भोक्ते’त्यादिशास्त्रमात्मन एकत्वमकर्तृत्वं च बोधयति, न त्वन्यदित्यर्थः। एष विशेष इति। ‘कर्ताऽहं, ममेदं कर्तव्यम्’ इति विज्ञानवतो विदुषः शास्त्रेण ‘वसन्ते वसन्ते ज्योतिषा यजेते’त्यादिना कर्माणि विहितानि। विदुषस्तु ‘कामः कर्ता नाहं कर्ते’त्यादिना शास्त्रेण आत्मैकत्वाकर्तृत्वज्ञानमात्रमुत्पन्नमित्ययं विशेष उपपद्यत इत्यर्थः। एतेन विदितविद्यस्य पिष्टपेषणवद् विद्याविधानानर्थक् यमिति प्रश्नो दत्तोत्तरः; विद्याविधानाभावात्। ननु विदुषः ‘नाहं कर्ता’ इत्यादिना आत्मैकत्वाकर्तृत्वज्ञानमात्रमुत्पन्नम् इतीदमयुक्तम् ; तज्ज्ञानोत्पत्तेः प्राक् तस्य विद्वत्ताया एवाभावादिति चेत् , सत्यम् ; अत एवात्माकर्तृत्वज्ञानान्नान्यदुत्पद्यते इत्युक्तम् ; तज्ज्ञानं तु प्रागेव सिद्धमिति। न च तर्हि विद्या व्यर्थेति वाच्यम् ; आत्मविदः कर्मसु नाधिकारः; किन्तु स्वस्वरूपदर्शन एवेत्येतदर्थं विद्याया आवश्यकत्वात्। वस्तुतस्तु विद्या नाम आत्मानात्मविवेकज्ञानम् ।‘अहमात्मा, देहादिरयमनात्मा’ इत्येवंप्रकारकं विवेकविज्ञानमेव विद्या। अस्यां हि ‘कर्ताऽहम्’ इत्यविद्वान् नाधिक्रियते, विरोधात्। किन्तु ‘न जायते’ इत्याद्यात्मस्वरूपं विद्वानेवाधिक्रियते, आत्मानात्मस्वरूपज्ञानपूर्वकत्वाद् आत्मानात्म- विवेकविज्ञानस्य। तस्मादात्मानात्मस्वरूपज्ञानिन एव विदुषः आत्मानात्मविवेकविज्ञानरूपविद्यायामधिकार इति न पिष्टपेषणात्मक- दोष इति। अविदुष एव कर्मस्वधिकार इतीममंशं प्रपञ्चयति— यः पुनरिति। यः पुनः यस्तु आत्मानं ‘कर्ताऽहम्’ इति वेत्ति जानाति। अवश्यं भवतीत्यवश्यम्भावि, तस्मिन् यज्ञादिकर्मणीत्यर्थः। अनुष्ठेयमिति बुद्धिः अनुष्ठेयबुद्धिः। तदपेक्षया तद्बुद्ध्यपेक्षया। अधिकृत इति। कर्मस्विति शेषः। कर्माणीति। विहितानीति शेषः। विशेषितस्येति। अविक्रियात्मज्ञानवतः इत्यर्थः। ‘वेदाविनाशिनं नित्यम्’ इति इत्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यादिति? नेत्याह— नाहमिति। कारणाभावादिति शेषः। कर्तृत्वादिज्ञानम् अन्यदित्युक्तम्। अनुष्ठानाननुष्ठानयोः उक्तविशेषादविदुषोऽनुष्ठानं, विदुषो नेत्युपसंहरति— इत्येष इति। नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्यादिशास्त्रात् तं प्रति कर्माणि विधीयन्ते? तत्राह— यः पुनरिति। आत्मनि कर्तृत्वादिज्ञानापेक्षया कर्मसु अधिकृतत्वज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते। स च प्राचीनवचनाद् अविद्वानेवेति निश्चीयते। न खल्वकर्तृत्वादिज्ञानवतः तद्विपरीतकर्तृत्वादिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः। कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह—विशेषितस्येति। ‘वेदाविनाशिनम्’ इत्यादिनेति शेषः। यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यादित्याशङ्क्याह— तस्मादिति। विद्यया विरुद्धत्वाद् , इष्यमाणमोक्षप्रतिपक्षत्वाच्च कर्मणामित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कर्माणि विधीयन्त इत्याशङ्क्याह— यः पुनः कर्ताऽहमिति। तर्ह्यात्मवित्त्वाविशेषात् कर्माधिकारिविलक्षणस्यापि ब्रह्मविदः कर्माधिकारो भवत्वित्याशङ्क्याह— विशेषितस्य चेति।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘अवश्यंभाविनि अनुष्ठेयबुद्धिः’ इति रा.पा.। २. ‘सोऽधिकृतः’ इति रा.पा.। ३. ‘संभवन्ति’ इति रा. पाठे नास्ति।
[[८१]]
विविच्य दर्शितस्येति यावत्। ‘कथं स पुरुषः’ इति कर्माक्षेपवचनाच्चेत्यन्वयः। उपसंहरति— तस्मादिति। अविक्रियात्मस्वरूपं विदुषः सर्वकर्मासम्भवादित्यर्थः। विदुषोऽपि प्रारब्धवशाल्लोकानुग्रहार्थं वा कर्मसु प्रवृत्तिः स्याज्जनकवद् वासुदेववच्चेत्याशङ्क्याह— मुमुक्षोश्चे- ति। मुक्तत्वाज्जनकादीनां न कुत्राप्यधिकारः इति भावः। अथवा अविदुषोऽपि मुमुक्षोः संन्यास एवाधिकारः, विद्यासंन्यासो विविदिषा- संन्यासश्चेति संन्यासद्वयदर्शनात्। गृहस्थस्य कर्मसु प्रवृत्तस्य दारापत्यादिकुटुम्बपोषणालसस्य वेदान्तश्रवणमननाद्यसम्भवात् , तं विना आत्मज्ञानालाभाच्चात्मानं जिज्ञासुः पुरुषः संसाराद्भीतः तीव्रमुमुक्षुः सद्य एव प्रव्रजेत् ,‘यदहरेव विरजेत् तदहरेव प्रव्रजेदि’ति श्रुतेः; इतीममर्थं दर्शयितुं मुमुक्षोश्चेत्युक्तम्। एतेनाविदुषोऽप्यमुमुक्षोरेव कर्मस्वधिकार इति सिद्धम्। स्वोक्तार्थे भगवन्तं वासुदेवमेव प्रमाणयति— अत एव भगवानिति। अत एव विदुषां ज्ञाने, अविदुषां कर्मणि चाधिकार- सत्त्वादेवेत्यर्थः। विदुषः कर्मण्यधिकाराभावादेवेति वा। प्रदर्शयिष्यतीति। तृतीयाध्याये—‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥’ इति श्लोकद्वयेनेति भावः। तत्र हि ‘तत्त्ववित्तु’ इति तुशब्दात् ‘प्रकृते’रिति श्लोकोऽतत्त्वविद्विषयः। ‘अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते’ इत्यनेन तत्त्वविद् नाहं करोमीति मन्यते इति सिद्धम्। तदेतदाह— अतत्त्वविदित्यादिना। तथा पञ्चमाध्याये— ‘सर्वकर्माणि मनसा यद्यपि मुमुक्षोराश्रमकर्माण्यपेक्षितानि, तथापि विद्यातत्फलाभ्यामविरुद्धान्येव तान्यभ्युपगतानि, अन्यथा विविदिषासंन्यास- विधिविरोधादित्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह— अत एवेति। विदुषो विविदिषोश्च संन्यासेऽधिकारः, अविदुषस्तु कर्मणीति विभागस्येष्टत्वादित्यर्थः। अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह— तथा चेति। अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमार्गश्चेति द्वौ मार्गावधिकारिभेदेनावेदितावित्यर्थः। आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’ २इत्यादि गृह्यते। उक्तयोः मार्गयोस्तुल्यतां परिहर्तुमुदाहरणान्तरमाह— तथेति। बुद्धिशुद्धिद्वारा कर्मतत्फलयोर्वैराग्योदयात्पूर्वं कर्ममार्गो विहितः, विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः, ३स चेतरस्मादतिशयशालीति श्रुतमित्यर्थः। उक्ते विभागे पुनरपि वाक् य- शेषानुकूल्यमादर्शयति— एतमेवेति। अहङ्कारविमूढात्मेत्यस्य व्याख्यानम्— अतत्त्वविदिति। ‘तत्त्ववित्तु’ इति श्लोकमवतार्य तात्पर्यार्थं संगृह्णाति— नाहमिति। पूर्वेण क्रियापदेन४ इतिशब्दः सम्बध्यते। विरक्तमधिकृत्य वाक् यान्तरं पठति— तथा चेति। आदिशब्दस्तस्यैव श्लोकस्य शेषसंग्रहार्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अत एव भगवान् नारायणः सांख्यान् विदुषः, अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति— ‘ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्’(भ.गी.३.३) इति। तथा च पुत्रायाह भगवान् व्यासो ‘द्वाविमावथ पन्थानौ’(म.भा.शां. २४०.६) इत्यादि। तथा च— ‘क्रियापथश्चैव पुरस्तात् पश्चात् संन्यासश्च’ इति। एतमेव विभागं १पुनः पुनर्दर्शयिष्यति भगवान्— अतत्त्वविद् अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते, तत्त्ववित्तु ‘नाहं करोमि’ (द्र.भ.गी. ३.२७) इति। तथा च ‘सर्वकर्माणि मनसा संन्यस्याऽऽस्ते’ (भ.गी. ५.१३) इत्यादि। उक्तेऽर्थे भगवद्वाक् यमाह— अत एव भगवानिति। पुरस्तादिति। अशुद्धसत्त्वस्य कर्मसु वैराग्योत्पत्तेः पूर्वं कर्ममार्गो विहितः, पश्चात् संन्यासश्चेत्यर्थः। ज्ञानक्रियाशक्तिद्वयाधारः आत्मा। अतो नाविक्रियात्मज्ञानं सम्भवतीति मीमांसकंमन्यमानः[मीमांसकम्मन्याः]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘पुनः प्रदर्शयिष्यति’ इति रा. पा.। २. अत्रादिपदेन ‘प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभावितः’ इति गृह्यते। ३. ‘तयोः संन्यास एवातिरेचयति’ इति श्रुति- शेषस्यार्थः अत्र विवृतः। ४. ‘मन्यते’ इत्यनेनेत्यर्थः। अ.२. श्लो.२१ ]
[[८२]]
संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देहे नैव कुर्वन्न कारयन्॥’ इति वक्ष्यतीत्याह— तथा चेति। तत्रेति। विदुषो नास्ति कर्माधिकार इत्यत्रेत्यर्थः। पण्डितमात्मानं मन्यन्ते पण्डितम्मन्याः; लोकाः एतान् पण्डितान् न मन्यन्ते; किन्तु स्वयमेव स्वानित्यर्थः। अपण्डिताः इति यावत्। न जायत इति। यदि ‘न जायते’ इत्यादिना शास्त्रेण अविक्रिय आत्मैक इति ज्ञानं श्रोतुर्नोत्पद्यते, तर्हि किमर्थं तच्छास्त्रम्? ननु संन्यासात्प्राग् वेदान्तशास्त्रश्रवणे नास्त्यधिकारः, ‘शान्तो दान्त उपरतः’ इति श्रुतिगतोपरतशब्दस्य संन्यासार्थ- वचनात्१। गीताशास्त्रं च वेदान्तशास्त्रमेव, ‘भगवद्गीतासूपनिषत्सु’ इत्युक्तत्वात् ; ‘न जायते’ इत्यादिना विदितात्मतत्त्वस्यैव सर्वकर्म- संन्यासाधिकारं ब्रूते भगवान् ; अतः परस्पराश्रयदोषः; संन्यासे सति ‘न जायते’ इति शास्त्रोपदेशः; ‘न जायते’ इति शास्त्रोपदेशे सति संन्यासः - इति चेत्? मैवम् ; गृहस्थानामपि जनकादीनां वेदान्तश्रवणदर्शनात्। श्रुतिस्तु वेदान्तश्रवणे संन्यासिनां मुख्याधिकारं ब्रूते। तेनाश्रमान्तराणामस्ति गौणोऽधिकारः। यद्वा संन्यासिनां वेदान्तश्रवणादिष्वेवाधिकारो, न त्वन्यत्रेति नियमार्थमुपरतपदम्। अथवा उपरतिर्न संन्यासः, किन्तु चित्तविक्षेपाभावः; स हि गृहस्थस्याप्युपपद्यते, जनकवत्। वस्तुतस्तु अधीतसाङ्गस्वाध्यायस्य शमदमादिसंस्कृतस्य वेदान्तशास्त्रेऽधिकारः इति ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण प्रतिपादितम्। स्वाध्यायो वेदः, तस्मिन्नेव सन्त्युपनिषदः इति कृत्वा ब्रह्मचर्याश्रमे एव वेदान्तश्रवणं सम्पद्यते द्विजस्य। व्याकरणादिना च वेदान्तानामर्थमापाततो जानाति। ततश्च ‘अविक्रियः आत्मा’ इति विज्ञानं तस्योपपद्यते; तदेवापातब्रह्मात्मज्ञानं द्रढयितुं यावद्ब्रह्मात्मसाक्षात्कारं वेदान्तश्रवणमननादि- कस्य कर्तव्यत्वाद् आश्रमान्तरेषु कर्मबाहुल्येन तदसम्भवान्मुमुक्षुरयं विद्वान् संन्यस्य ब्रह्मनिष्ठगुरूपसत्तिं कृत्वा वेदान्तश्रवणमननादिकं करोतीत्येष घण्टापथः। अतो न संन्यासवेदान्तश्रवणयोरन्योन्याश्रयदोषः; आपाततो वेदान्तश्रवणानन्तरं प्राधान्येन वेदान्तश्रवण- मित्युक्तत्वात्। अत एव वेदान्तश्रवणे गृहस्थानामप्यधिकारः इति, संन्यासिनामेवाधिकारः इति च पक्षद्वयं प्रवृत्तम् - वेदान्त- श्रवणस्यापातत्वप्राधान्याभ्याम्। ये तु महानुभावाः प्रारब्धसुकृतातिशयवशात् सकृद्वेदान्तश्रवणादेव ब्रह्मात्मापरोक्ष्यं लभन्ते शुकजनकवामदेवादिवत् , तेषां तु न क्वाप्यधिकारः, आत्मन्यधिकारासम्भवादिति बोध्यम्। ननु शास्त्रादपि कथमप्रसिद्धार्थाभ्युपगमः? अत आह— यथा चेति। धर्माधर्मौ तत्प्रयुक्तदेवनारकशरीरविशेषपरिग्रहौ च अविक्रियात्मज्ञानात् कर्मसंन्यासे दर्शिते मीमांसकमतमुत्थापयति— तत्रेति। आत्मनो ज्ञानक्रियाशक्त्याधारत्वेनाविक्रियत्वा- भावाद् अविक्रियात्मज्ञानं संन्यासकारणीभूतं न सम्भवतीत्यर्थः। यथोक्तज्ञानाभावो विषयाभावाद् वा मानाभावाद् वेति विकल्प्याद्यं दूषयति— नेत्यादिना। न तावदविक्रियात्माभावः, ‘न जायते म्रियते वे’त्यादिशास्त्रस्याप्तवाक् यतया प्रमाणस्य अन्तरेण कारणमानर्थ- क् यायोगादित्यर्थः। द्वितीयं प्रत्याह— यथा चेति। पारलौकिककर्मविधिसामर्थ्यसिद्धं विज्ञानमुदाहरति— कर्तुश्चेति। कर्मकाण्डादज्ञाते
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्र केचित् पण्डितम्मन्याः वदन्ति— ‘जन्मादिषड्भावविक्रियारहितोऽविक्रियोऽकर्तैकोऽहमात्मा’ इति न कस्यचिज्ज्ञानमुत्पद्यते, यस्मिन् सति सर्वकर्मसंन्यासः उपदिश्यते इति। तन्न। ‘न जायते’(भ.गी.२.२०) इत्यादि- शास्त्रोपदेशानर्थक् यप्रसङ्गात्। यथा च शास्त्रोपदेशसामर्थ्याद् धर्माधर्मास्तित्वविज्ञानं, कर्तुश्च देहान्तरसम्बन्धविज्ञानम्
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
चोदयन्तीत्याह— तत्र केचिदित्यादिना। किं विषयाभावादविक्रियात्मज्ञानाभावः, किं वा प्रमाणकारणाभावात्? प्रथमं प्रत्याह— तन्न, [न] जायत इत्यादि। शास्त्रस्य प्रमाणभूतस्य प्रधानार्थक् यव्यवहार[आनर्थक् य]प्रसङ्गाद् नाविक्रियात्माभावः शक् यते वक्तुमित्यर्थः। नापि द्वितीयः पक्ष इत्याह—यथा चेत्यादिना। यज्ज्ञानं तन्मनःसंयोगजन्यम्। ‘यतो वाचो निवर्तन्ते, १. संन्यासरूपार्थबोधकत्वादित्यर्थः।
[[८३]]
प्रत्यक्षादिप्रमाणाविषयत्वेनाप्रसिद्धावपि यथा आगमप्रामाण्यादास्तिकैरभ्युपगम्येते, तद्वदात्माविक्रियत्वादिकमपीत्यर्थः। ननु धर्माधर्म- स्वर्गनरकादीनां प्रत्यक्षाविषयत्वेऽपि मनोवाग्विषयत्वमस्ति, मनसा इदमीदृशमिति सङ्कल्पयितुं , वाचा वक्तुं च सुशकत्वात्। अतः तत्र शास्त्रं प्रमाणं भवतु नाम, ‘यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’ इति श्रुत्या वाङ्मनसागोचरे ब्रह्मणि कथं शास्त्रस्य प्रामाण्यमिति पृच्छति— करणागोचरत्वादिति। करणानां विषयग्रहणसाधनानां मनआदीनामगोचरत्वाद्धेतोः शास्त्रोपदेशादात्माकर्तृत्वादिविज्ञानं नोत्पद्यत इति पूर्वपक्षार्थः। परिहरति सिद्धान्ती— नेति। हेतुमाह— मनसैवेति। ‘अप्राप्य मनसा सह’ इति श्रुतिविरोधं परिहरति— शास्त्रेति। असंस्कृतेन मनसा सहेति तच्छ्रुत्यर्थान्न दोष इति भावः। ननु आत्मनः संस्कृतमनोवेद्यत्वाभ्युपगमे स्वतःसिद्धत्वं नित्यापरोक्षत्वं च हीयेतेति चेत्? मैवम् ; नित्यापरोक्षः स्वतःसिद्धो ऽप्यात्मा अविद्यया परोक्ष इव, साध्य इव च प्रतिभाति; तदविद्यानिरसने तु संस्कृतं मनः करणम् , तादृशमनोवृत्त्या ‘अहं ब्रह्म’ इत्याकारिकया विद्यया नष्टायामविद्यायामविक्रिय आत्मा स्वयंप्रभः स्वयं स्फुरतीति। ननु आत्मनः अकर्तृत्वान्मनसः करणत्वेन कर्तृत्वाभावाच्च कथमत्र मनोव्यापारसिद्धिः, कर्त्रधीनो हि करणव्यापार इति चेत्? उच्यते— अस्ति बुद्ध्यवच्छिन्नचैतन्यलक्षणः अविद्याकल्पितः प्रमाताऽत्र कर्ता; स चात्मानं मनसा वेत्ति – ‘नाहमवच्छिन्नः, किन्तु परिपूर्णोऽविक्रियः आत्मैव, ज्ञानघनेऽसङ्गे मय्यात्मनि कालत्रयेऽप्यविद्यायास्तत्कार्यबुद्ध्यादीनां वा वृत्त्ययोगाद्’ इति। तदधिगमायेति। आत्मनोऽविक्रियत्वैकत्वादिज्ञानाय अनुमाने ‘आत्मा अविक्रियः, निरवयवत्वाद् , व्यतिरेकेण घटादिवद्’ धर्मादौ विज्ञानोत्पत्तिवद् ज्ञानकाण्डादज्ञाते ब्रह्मात्मनि विज्ञानोत्पत्तिरविरुद्धा, प्रमाणत्वाविशेषादित्यर्थः। ज्ञानस्य मनःसंयोगजन्यत्वाद्, आत्मनश्च श्रुत्या मनोगोचरत्वनिरासाद् नात्मज्ञाने साधनमस्तीति शङ्कते— करणेति। श्रुतिमाश्रित्य परिहरति— न ; मनसेति। तत्त्वमस्यादिवाक्योत्थमनोवृत्त्यैव शास्त्राचार्योपदेशमनुसृत्य द्रष्टव्यं तत्त्वमिति श्रूयते। स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्तु वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं सविकल्पकव्यवहारालम्बनं भवतीति मनोगोचरत्वोपचारादसिद्धं करणागोचरत्वमित्यर्थः। कथं तर्हि ब्रह्मात्मनो मनोविषयत्वनिषेधश्रुतिः? इत्याशङ्क्य असंस्कृतमनोवृत्त्यविषयत्वविषया सेति मन्वानः सन्नाह— शास्त्रेति। सत्यपि श्रुत्यादौ ३तदनुग्राहकाभावाद् नास्माकम् अविक्रियात्मज्ञानमुत्पत्तुमर्हतीत्याशङ्क्याह— तथेति। तस्य अविक्रियस्यात्मनः अधिगत्यर्थम्— विमतो
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
उत्पद्यते, तथा शास्त्रात् तस्यैवात्मनोऽविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मान्नोत्पद्यत इति प्रष्टव्यास्ते। करणागोचरत्वादिति चेत्? न ; ‘मनसैवानुद्रष्टव्यम्’ (बृ.उ.४.४.१९) इति श्रुतेः। १शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम्। तथा च तदधिगमायानुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमात्रमेतत्।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
अप्राप्य मनसा सहे’त्यादिश्रुतेः नात्मा मनोगोचरः। तस्मान्नास्त्येवात्मज्ञाने साधनमित्याह— करणागोचरत्वादिति। श्रुत्यन्तरावष्टम्भेन परिहरति— [न, मनसैवेति।] तत्त्वमस्यादिवाक् योत्थमनोवृत्तौ अभिव्यक्तं ब्रह्मात्मैकत्वं सविकल्पकव्यव- हारगोचरं सम्भवतीति मनोगोचरत्वमुपचर्यत इत्यर्थः। या मनसोऽविषयत्वप्रतिपादिका श्रुतिः सा पुनरसंस्कृतमत्य- नवगाह्यत्वं दर्शयतीत्यभिप्रेत्याह— शास्त्राचार्येत्यादिना। ननु लौकिकव्युत्पत्त्यनुसारेण वेदार्थप्रतिपत्तिर्वक्तव्या। लोके च कार्यान्वितेऽर्थे सकलपदा(र्था)नां शक्तिसंवेदनान्न सिद्धार्थपरः आगमोऽस्ति। नापि तदनुग्राहकः कश्चित् तर्कोऽस्ति। ततः ‘सोऽरोदीदि’त्यादिवाक् यवद् वेदान्ताः न स्वार्थपरा इति अविक्रियात्मज्ञानाभावः इत्याशङ्क्याह— तथा तदधिगमायेति। वृद्धव्यवहारे अन्वितमात्रधीजनने पदानां शक्तिरवगम्यते, न कार्यान्विते, गौरवात् , २प्रयोजकद्वैविध्यापाताच्च। अतो वेदेऽ १. ‘शास्त्राचार्योपदेशजनितशम’ इति पा.। २. इतरपदानां कार्यान्वितस्वार्थे शक्तिः, कार्यपदस्य तु अन्वितमात्रे इति द्वैविध्यादित्यर्थः। ३. तदनुग्राहकम् अनु- मानम्। अ.२. श्लो.२१ ]
[[८४]]
इत्याद्यनुमाने सति, आगमे ‘न जायते’ इत्यादिशास्त्रे च सति ज्ञानं नोत्पद्यते इत्येतत् साहसमेव। सति कारणे कुतः कार्यानुदय इति भावः। ज्ञानं चेति।[ज्ञानम्]‘अविक्रिय एकोऽकर्ता आत्मा’ इत्येवंरूपम्। अज्ञानं ‘कर्ताऽहं भिन्नोऽहं भोक्ताऽहम्’ इत्येवंरूपम्। सर्वक्रियासु गमनादिसमस्तक्रियासु। सर्वक्रियास्वपि आत्मनः कर्तृत्वादेरविद्याकृतत्वरूपं तत् पूर्वोक्तं समानमित्यन्वयः। यद्वा तत् प्युपक्रमोपसंहारैकरूप्यादिषड्विधतात्पर्यलिङ्गगम्याविकार्यद्वितीयब्रह्मप्रमितिरिति तात्पर्यविशिष्टागमोऽस्ति। तदनुग्राहकं चानुमानं विद्यते— विमतं विकारजातं नात्मधर्मः, विकारत्वात् , दृश्यत्वाद्वा, सम्प्रतिपन्नवत्। तस्मिंश्च पुष्कलकारणे विद्यमाने सम्यग्ज्ञानं न जायत इति साहसमात्रमेव हि। ननु अध्ययनविध्युपात्तवेदवाक् यप्रसूतज्ञानं सप्रयोजनार्थे प्रमाणं वक्तव्यम्। प्रयोजनञ्च प्रवृत्तिनिवृत्तिसाध्यं, न सिद्ध- वस्तुज्ञानमात्रात् सम्भवतीत्याशङ्क्याह— ज्ञानं चोत्पद्यमानमिति। यथा रज्जुतत्त्वज्ञानात् तदज्ञाननिवृत्त्या तज्जभ्रमनिवृत्तिः, तथा आत्माज्ञाननिवृत्त्या तज्जप्रमातृत्वादिभ्रमसंसारभयनिवृत्तिः दृष्टमेव ज्ञानफलम्। प्रवृत्तिनिवृत्तिसाध्यफलमेव फलमिति नियमो नास्ति। ज्ञानाच्चाज्ञाननिवृत्तिरवश्यमभ्युपगन्तव्या। अन्यथा जीवनस्याप्यसम्भवादित्यर्थः। ननु अज्ञानं नाम न भावरूपमस्ति, प्रमाणाभावात्। किन्तु ज्ञानप्रागभाव एव। तन्निवृत्तिरेव ज्ञानं, न निवर्तकम्। ततः कथमनर्थकारणाज्ञान- प्रहाणं ज्ञानस्य दृष्टं फलमुच्यत इत्याशङ्क्याह— तच्चाज्ञानमिति। ननु भगवता वा कथमभावातिरिक्तमज्ञानं दर्शितमित्या- शङ्क्याह— अत्र चात्मन इति। विमतमज्ञानं नाभावः, उपादानत्वात् , मृद्वदिति भावः। ननु हननक्रियायाः प्रतिषिद्धत्वात् तत्कर्तृत्वं भवतु अज्ञानमूलम् ; न विहितक्रियायाः कर्तृत्वमित्याशङ्क्याह— तच्च सर्वक्रियास्वपीति। न तावदात्मगतं कर्तृत्वमात्मोपादानकम् , तस्याविक्रियत्वात्। नापि निरुपादानकम् , भावकार्यस्य सोपादानत्वनियमात्। नापि कार्यकरण- विकारो नात्मधर्मः, विकारत्वाद्, उभयाभिमतविकारवदित्यनुमाने, पूर्वोक्तश्रुतिस्मृतिरूपागमे च सत्येव, तस्मिन्१ नोत्पद्यते ज्ञानमिति वचः साहसमात्रम् , सत्येव माने मेयं न भातीतिवदित्यर्थः। ननु यथोक्तं ज्ञानमुत्पन्नमपि हानायोपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वम्? तत्राह— ज्ञानं चेति। अवश्यमिति। प्रकाशप्रवृत्तेस्तमोनिवृत्तिव्यतिरेकेणानुपपत्तिवद् आत्माज्ञाननिवृत्तिमन्तरेणात्मज्ञानोत्पत्तेरनुपपत्तेरित्यर्थः। नन्वज्ञानस्य ज्ञानप्रागभाव- त्वात् तन्निवृत्तिरेव ज्ञानं २, न तु तन्निवर्तकमिति? तत्राह— तच्चेति। कथं पुनर्भगवताऽपि ज्ञानाभावातिरिक्तमज्ञानं दर्शितमित्याशङ्क्याह— अत्र चेति। विमतं ज्ञानाभावो न भवति, उपादानत्वान्मृदादिवदिति भावः। ननु हननक्रियायाः ‘न हिंस्यादि’ति निषिद्धत्वात् तत्कर्तृ- त्वादेरज्ञानकृतत्वेऽपि विहितक्रियाकर्तृत्वादेर्न तथात्वमिति? नेत्याह— तच्चेति। न तावदात्मनि कर्तृत्वादि नित्यम् , अमुक्तिप्रसङ्गात्। न चानित्यमपि निरुपादानम् , भावकार्यस्योपादाननियमात् । न चानात्मा तदुपादानम् , आत्मनि तत्प्रतिभानात्। न चात्मैव तदुपादानम् , कूटस्थस्य तस्याविद्यां विना तदयोगादित्याह— अविक्रियत्वादिति। कर्तृत्वाभावेऽपि कारयितृत्वं स्यादित्याशङ्क्याह— विक्रियावानिति। आत्मनि कर्तृत्वादिप्रतिभानस्यानाद्यनिर्वाच्यमज्ञानमुपादानम् ; तन्निवृत्तिश्च तत्त्वज्ञानादित्युक्तम्। इदानीं कर्तृत्वकारयितृत्वयोरविद्या-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ज्ञानं चोत्पद्यमानं तद्विपरीतमज्ञानम् अवश्यं बाधत इत्यभ्युपगन्तव्यम्। तच्चाज्ञानं दर्शितम् – ‘हन्ताऽहम् , हतोऽस्मीत्युभौ तौ न विजानीतः’ इति। अत्र चात्मनो हननक्रियायाः कर्तृत्वं, कर्मत्वं, हेतुकर्तृत्वं चाज्ञानकृतं दर्शितम्। तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेरविद्याकृतत्वम् , अविक्रियत्वादात्मनः। विक्रियावान् हि कर्ताऽऽत्मनः १. तस्मिन् = अविक्रिये आत्मनि विषये। २. प्रागभावनिवृत्तेः प्रतियोगिरूपत्वाङ्गीकारादिति भावः।
[[८५]]
आत्मनः कर्तृत्वादेरविद्याकृतत्वं च सर्वक्रियास्वपि समानमित्यन्वयः। तत्र हेतुमाह— अविक्रियत्वादात्मन इति। अविक्रियत्वादात्मनः सर्वक्रियानिरूपितकर्तृत्वादिविकारो नोपपद्यत इत्यर्थः। अविशेषेणेति। हननादिविशेषाभावेनेत्यर्थः। विशेषितत्वादिति। कर्मणां ४सर्वविशेषणस्य दत्तत्वादित्यर्थः। सर्वेति। मनोव्यापाराभावे सर्वव्यापाराणां भावानुपपत्तेरि- त्यन्वयः। तत्र हेतुमाह— तत्पूर्वकत्वादिति। मानसिककर्माणि नाम सङ्कल्परूपमनोव्यापारा एव। गच्छेयं वदेयं हन्यामित्येवम् आदौ मनसा सङ्कल्प्यैव सर्वोऽपि गमनभाषणहननादिक्रियाः वाचिकीः कायिकीश्च करोति, न त्वसङ्कल्प्येत्यर्थः। ‘तदैक्षत’ इतीश्वर- जगत्सृष्ट्यादिव्यापारस्यापि सङ्कल्पपूर्वकत्वश्रवणादिति भावः। पुनः शङ्कते पूर्ववादी— शास्त्रीयाणामिति। वेदपाठज्योतिष्टोमादीना- मित्यर्थः। नैवेति। अशास्त्रीयाणि सर्वाणि कर्माणि मनसा संन्यस्येत्युक्तौ ‘नैव कुर्वन्’ इत्यादि व्यर्थम् , मनसा संन्यस्येत्यनेनैव वाचा कायेन चाकरणस्य सिद्धत्वादित्यर्थः। सिद्धान्ते तु मनसा विवेकबुद्ध्या कर्मादावकर्मदर्शनेन संत्यज्येत्यर्थ इति। ५आत्मसमवायिकर्तृत्व- भाष्यार्कप्रकाशः कर्मभूतमन्यं प्रयोजयति - ‘कुरु’ इति। तदेतदविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान् वासुदेवो विदुषः कर्माधिकाराभावप्रदर्शनार्थम् — ‘वेदाविनाशिनं…कथं स पुरुषः’ इत्यादिना। क्व पुनर्विदुषोऽधिकार इत्येतदुक्तं पूर्वमेव ‘ज्ञानयोगेन सांख्यानाम्’ (भ.गी.३.३) इति। तथा च सर्वकर्मसंन्यासं वक्ष्यति— ‘सर्वकर्माणि मनसा’(भ.गी.५.१३) इत्यादिना। ननु मनसेति वचनान्न वाचिकानां कायिकानां च संन्यास इति चेत् ? न ; सर्वकर्माणीति विशेषितत्वात्। मानसानामेव सर्वकर्मणामिति चेत् ? न ; मनोव्यापारपूर्वकत्वाद् वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेः। शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वाऽन्यानि सर्वकर्माणि मनसा १संन्यस्येदिति चेत्? न; ‘नैव कुर्वन् न कारयन्’ इति विशेषणात्। सर्वकर्मसंन्यासोऽयं भगवतोक्तो मरिष्यतः, न जीवत इति चेत् ? न ; आनन्दगिरिकृतव्याख्या कृतत्वे भगवतोऽनुमतिं दर्शयति— तदेतदिति। विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतः, तर्हि कुत्र तस्य जीवतोऽधिकारः स्यादिति पृच्छति— क्व पुनरिति। ज्ञाननिष्ठायामित्युक्तं स्मारयति— उक्तमिति। तदङ्गभूते सर्वकर्मसंन्यासे च तस्याधिकारोऽस्तीत्याह— तथेति। वक्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमादिति शङ्कते— नन्विति। विशेषणान्तरमाश्रित्य दूषयति— न ; सर्वेति। ‘मनसा’ इति विशेषणाद् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यादिति शङ्कते— मानसानामिति। सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणामनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति— नेत्यादिना। मानसेष्वपि कर्मसु संन्यासे ३सङ्कोचान्न वागादिव्यापारानुपपत्तिरिति शङ्कते— शास्त्रीयाणामिति। अन्यानीति। अशास्त्रीयवाक्कायकर्म- कारणानि अशास्त्रीयाणि मानसानि, तानि च सर्वाणि कर्माणीत्यर्थः। वाक् यशेषमादाय दूषयति— न ; नैवेति। न हि विवेकबुद्ध्या सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’ इत्यादिविशेषणस्य, विवेकबुद्धेश्च त्यागहेतोस्तुल्यत्वादित्यर्थः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
संघातोपादानकम् , तथा सति आत्मगतत्वेन प्रतिभासासम्भवात् , २सतः उपादानत्वेनाभ्रमत्वप्रसङ्गाच्च। अतः परिशेषाद् आत्मगतकर्तृत्वादिभ्रमस्य उपादानमनाद्यनिर्वाच्यमज्ञानं सिद्धम्। तन्निवृत्तिश्च सम्यग्ज्ञानफलमिति। प्रासङ्गिकं विहाय प्रकृतमिदानीमनुसंदधाति— तदेतदित्यादिना। यस्मादविदुष एव कर्तृत्वं तस्मादेतद् विदुषः प्रतिषेधति भगवानिति संबन्धः। १. ‘संन्यस्यास्ते’ इति पा.। २. सत्योपादानकत्वे कर्तृत्वस्य सत्यत्वप्रसङ्गेनात्मनि तद्भ्रमाभावप्रसङ्गादित्यर्थः। ३. अशास्त्रीयवाक्कायकर्मकारणमानसकर्मणां संन्यासे सर्वशब्दस्य संकोचादित्यर्थः। ४. सर्वेति विशेषणस्येत्यर्थः। ५. आत्मसमवेतेत्यर्थः। अ.२. श्लो.२१ ]
[[८६]]
कारयितृत्वयोर्वारणार्थं ‘नैव कुर्वन् न कारयन्’ इति च वक्ष्यति। मरिष्यत इति। आसन्नमरणस्येत्यर्थः। गमनभोजनादिसर्वकर्मोपरमः तस्यैव सञ्जाघटीतीति भावः। न जीवत इति। जीवतस्तु भोजनादिकर्माण्यवर्जनीयानीति भावः। आस्त इति। ‘आस उपवेशने’ इति धातोर्वर्तमाने लड् विधानात् जीवत एव सिद्धिरिति भावः। तदेव प्रपञ्चयति— न हीति। मृतः कथं सर्वाणि कर्माणि संन्यस्य देहे तिष्ठेदित्यर्थः। ननु ‘सर्वकर्माणि मनसा नवद्वारे पुरे देहे संन्यस्य निक्षिप्य नैव कुर्वन् न कारयन् वशी आस्ते’ इति श्लोकस्या- न्वयमाशङ्कते— अकुर्वत इति। अकुर्वतोऽकारयतश्च आत्मनः सर्वकर्माणि मनसा देहे संन्यस्य वशी सुखमास्त इति सम्बन्धः, न तु ‘देह आस्ते’ (इति) इत्यन्वयः। संन्यासक्रियाधिकरणत्वमेव देहस्य, न तूपवेशक्रियाधिकरणत्वमिति परमार्थः। ‘देहेन कर्माणि क्रियन्ते, कार्यन्ते च, न तु मया’ इत्यनुसन्धानपूर्वकं सर्वकर्माणि कर्तव्यानि विदुषोऽपीति पूर्वपक्ष्याशयः। परिहरति— नेति। हेतुमाह— सर्वत्रेति। अविक्रिये आत्मनि देहाधिकरणककर्मसंन्यासक्रियाकर्तृत्वमपि नोपपद्यत इत्यर्थः। न च सर्वकर्मत्यागकर्तृत्वमपि कथमिति वाच्यम् ; सर्वकर्मत्यागस्य निवृत्तिरूपस्याक्रियात्वात् ; निक्षेपस्य च क्रियात्वादिति। किञ्च देहे आस्ते इति पदयोः साकाङ्क्षत्वमस्ति, न तु देहे संन्यस्येति पदयोरित्याह— आसनेति। आधेयनिष्ठा ह्यासनक्रिया स्वाधिकरणमाधारमाकाङ्क्षते, आस्ते इत्युक्तौ, क्वास्ते? इत्याकाङ्क्षाया उत्थितत्वादित्यर्थः। न च घटं भुवि निक्षिप्येति निक्षेपक्रियाया अप्यधिकरणापेक्षत्वमस्तीति वाच्यम् ; सरूपस्य घटादेर्निक्षेपस्याधिकरणापेक्षत्वेऽपि नीरूपकर्मनिक्षेपो नाधिकरणापेक्षः; न हि ‘गमनं निक्षिप्ये’त्युक्तौ कुत्र निक्षिप्येत्याकाङ्क्षा जायते। दोषान्तरमाह— सम्पूर्व इति। न्यासशब्दस्य निक्षेपार्थकत्वेऽपि संन्यासशब्दो न निक्षेपार्थः, उपसर्गवशादर्थान्तरप्रतीतेः। भगवदभिमतसर्वकर्मसंन्यासस्यावस्थाविशेषे सङ्कोचं दर्शयन्नाशङ्कते— मरिष्यत इति। संन्यासो जीवदवस्थायामेवात्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तरमाह— न ; नवेति। अनुपपत्तिमेव स्फोरयति— न हीति। १अन्वयविशेषान्वाख्यानेन लिङ्गासिद्धिं चोदयति— अकुर्वत इति। विवेकवशादशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन्नकारयंश्च विद्वानवतिष्ठते। तथा च देहे कर्माणि संन्यस्य अकुर्वतोऽकारयतश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे कर्मत्यागविषयत्वाभावाज्जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः। २अथवा अकुर्वतः इत्यादि पूर्वत्रैव सम्बन्धनीयम्। लिङ्गासिद्धिचोद्यं तु ‘देहे संन्यस्ये’त्यारभ्योन्नेयम्। आत्मनः सर्वत्राविक्रियत्वनिर्धारणाद् देहसम्बन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेः अप्राप्तप्रतिषेधप्रसङ्गपरिहारार्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते— न ; सर्वत्रेति। श्रुतिषु स्मृतिषु चेत्यर्थः। किञ्च सम्बन्धस्याकाङ्क्षासन्निधियोग्यताधीनत्वादाकाङ्क्षावशादस्मदभि- मतसम्बन्धसिद्धिरित्याह— आसनेति। भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाऽभावादित्याह— तदनपेक्षत्वाच्चेति। संन्यासशब्दस्य निक्षेपार्थत्वात् तस्य चाधिकरणसापेक्षत्वाद् अस्मदिष्टसम्बन्धसिद्धिरित्याशङ्क्याह— सम्पूर्वस्त्विति। ३अन्यथोपसर्गवैयर्थ्यादित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
‘नवद्वारे पुरे देह्यास्ते’ इति विशेषणानुपपत्तेः। न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं सम्भवति। अकुर्वतोऽकारयतश्च देहे संन्यस्येति सम्बन्धः, न ‘देहे आस्ते’ इति चेत्? न ; सर्वत्रात्मनोऽविक्रियत्वावधारणात्। आसनक्रियायाश्चाधिकरणापेक्षत्वात् , तदनपेक्षत्वाच्च संन्यासस्य। सम्पूर्वस्तु न्यासशब्दस्त्यागार्थः, न निक्षेपार्थः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
आत्मनः सर्वत्राविक्रियत्वावधारणात् न देहसंबन्धं विना कर्तृत्वकारयितृत्वप्राप्तिः।अतोऽप्राप्तप्रतिषेधप्रसङ्गपरिहाराय ‘देहे आस्ते’ इत्येव संबन्धो वक्तव्य इत्याह— न ; सर्वत्रात्मनोऽविक्रियत्वावधारणादिति। किञ्च आकाङ्क्षायोग्यतासंनिधि- वशेनापि ‘देहे आस्ते’ इत्ययमेव सम्बन्ध इत्याह— आसनक्रियायाश्चेति। ननु संन्यासो नाम निक्षेपः। तस्याधिकरणापेक्षा विद्यत इत्याशङ्क्याह— सम्पूर्वस्त्विति। ‘न्यासहर्ता’ इत्यादौ केवलन्यासशब्दः निक्षेपवाची। सम्पूर्वस्तु त्यागे प्रसिद्ध १. अस्मिन् पक्षे—सर्वकर्माणि देहे संन्यस्येति अन्वयः। संन्यस्येत्यस्य निक्षिप्येत्यर्थः। २. अकुर्वतोऽकारयतश्चेत्यत्र पूर्ववाक्यसमाप्तिः। अकुर्वतोऽकारयतश्च आसनेऽन्वयः। ३. न्यस्येत्यनेनैव निक्षिप्येत्यर्थलाभात् समित्युपसर्गवैयर्थ्यम्।
[[८७]]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
‘अतः संन्यस्य सर्वाणि कर्माण्यात्मावबोधतः’ इत्यादिप्रयोगादिति भावः। उपसंहरति— तस्मादिति। ‘सर्वकर्माणि मनसे’त्यादिना विदुषां सर्वकर्मसंन्यास एवाधिकार इति भगवता वक्ष्यमाणत्वादित्यर्थः। न कर्मणीति। ननु विदुषो जीवतः सर्वकर्मसंन्यासो दुर्लभः, भोजनादिकर्मणामवर्जनीयत्वादिति चेत्? मैवम्। यानि शास्त्रेण विहितानि, यानि च निषिद्धानि तेषु अविद्वानेवाधिकारी, न तु विद्वानित्येतावत एवेह विवक्षितत्वात्। भोजनादीनि तु अविहितत्वाद् अनिषिद्धत्वाच्च न कर्माणीति। यद्यविद्वान् भोजनादावधिक्रियते शास्त्रात् तर्हि तत्र विदुषोऽधिकारो न भवेदेव, न तु तथाऽस्ति। तस्मान्न भोजनादेः कर्मत्वम् , नापि तत्र प्रवर्तमानस्याधिकृतत्वमिति संक्षेपः। अत्राह रामानुजः— ‘स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरेष्ववस्थितेष्वात्मसु कमप्यात्मानं कथं घातयति, कं वा कथं हन्ती’ति। तदयुक्तम् , ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ ‘य एनं वेत्ति हन्तारम्’ ‘अजो नित्यः शाश्वतोऽयं पुराणः’ ‘वेदाविनाशिनं नित्यं य एनमजमव्ययम्’ ‘अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः’ ‘नवानि देही’ ‘नैनं छिन्दन्ति शस्त्राणि’ ‘अच्छेद्योऽयम्’ ‘अव्यक्तोऽयम्’ ‘आश्चर्यवत्पश्यति कश्चिदेनम्’ इत्यादिषु सर्वत्राप्यात्मन एकत्वेनैव निर्देशात् ; अनेकत्वे परिच्छिन्न- त्वेनानित्यत्वप्रसङ्गात्। निरवयवत्वात् परमाणुपुञ्जवदात्मसमूहस्य नानित्यत्वमिति न वाच्यम् ; निरवयवपरमाणुपुञ्जस्यैवानभ्युगमात्। न हि निरवयवानां परमाणूनां पुञ्जत्वं स्यात् ; सावयववस्तुसंयोगात् खलु पुञ्जलाभः? सावयवस्य वस्तुनः उपचयो, न तु निरवयवस्येति त्वयाऽप्युक्तं प्राक्। न च - पुञ्जो माऽस्तु नाम; निरवयवाः परमाणवः सन्ति नित्याः यथा, तथा आत्मान इति - वाच्यम् , निरवयवपरमाणूनामेवाप्रमाणत्वात् ; मार्तिकाद्यणुपुञ्जस्यैव घटादिकार्योपादानत्वात् ; परमाणुकारणवादस्य च शारीरकमीमांसायां प्रत्याख्यातत्वात्४। निरवयवपरमाणुतुल्यस्यात्मनः सर्ववस्तुसंयोगाभावेन सर्वावभासकत्वासम्भवात् , ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुत्या आत्मनः सर्वावभासकत्वस्योक्तत्वात् ; तत्रात्मा नाम ईश्वरः इत्यभ्युपगमेऽपीश्वरस्यापि जीवादपि सूक्ष्मत्वेन सुतरां सर्वावभासकत्वासम्भवाच्च। तथा देवमनुष्यतिर्यक्स्थावरशरीरावस्थितात्मस्विति मूलाद् बहिः पदपरम्पराकल्पनमप्यप्रमाणम् , ‘य आत्मानं नित्यं वेद स कथमात्मानं हन्ती’त्युक्तौ ‘यस्त्वनित्यं वेद स हन्त्येवात्मान’मित्यापतति, तच्चानिष्टम् , विदितस्याविदितस्य वा आत्मनः नित्यत्वात्। न हि ज्ञानमात्रेणात्मनः स्यान्नित्यत्वं ज्ञानात्पूर्वमविद्यमानम्। तस्माद् यो वेद सः इत्यपार्थम्। यदि मूलकर्तुरियं विवक्षा स्यात् तर्हि - ‘कः कथं नित्यमात्मानं हन्ति कं घातयत्यपी’त्येव ब्रूयात्। किञ्च ‘कम्’ इत्यपि व्यर्थमेव, सर्वत्र ज्ञानैकाकारत्वादिभिरात्मनः मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वानित्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति— तस्मादिति। सर्वव्यापारोपरमात्मनः संन्यासस्य अविक्रियात्मज्ञानाविरोधित्वात् २प्रयोजकज्ञानवतो ३वैधे संन्यासेऽधिकारः, सम्यग्ज्ञानवतस्त्ववैधे स्वाभाविके फलात्मनीति विभागमभ्युपेत्योक्तेऽर्थे वाक् यशेषानुगुण्यं दर्शयति— इति तत्र तत्रेति॥२१॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इत्यर्थः। यस्माद् मनसा विवेकज्ञानेन सर्वकर्माणि संन्यस्यास्ते इत्ययमेव सम्बन्धः, तस्मादित्युपसंहारः। संन्यासस्य सर्व- (कर्म)व्यापारोपरमस्य १क्रियात्मज्ञानविरोधित्वात् , प्रयोजकज्ञानवतस्तावद् विधित एव संन्यासेऽधिकारः, सम्यग्ज्ञानवतः [अ]वैधसंन्यासे एवाधिकारः उत्सर्गसिद्ध इत्यर्थः॥२१॥
तस्माद् गीताशास्त्रे आत्मज्ञानवतः संन्यास एवाधिकारः, न कर्मणि इति तत्र तत्रोपरिष्टाद् आत्मज्ञानप्रकरणे दर्शयिष्यामः॥२१॥
१. ‘अविक्रियात्मज्ञानविरोधित्वात्’ इति पा.। २. विचारप्रयोजकवेदान्तजन्यापातज्ञानवतः मुमुक्षोरित्यर्थः। ३. विविदिषासंन्यासः वैधः। विद्वत्संन्यासस्तु स्वतःसिद्धत्वादवैधः इति भावः। ४. द्र.ब्र.सू. २.२.१२-१७। अ.२. श्लो.२१ ]
[[८८]]
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥२२॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। एकरूपत्वस्य त्वयाऽपीष्यमाणत्वात्। ‘कः कथं नित्यमात्मानं हन्ति वा घातयत्यपि’ इत्येव ब्रूयात्। अपि च नित्यात्मविदः नित्यात्महननाक्षेपेण अनित्यानात्महननं निराक्षेपं प्राप्तम्। नित्यात्मकर्मकहननेतरक्रियाश्रयत्वं च प्राप्तम्। उभयमपीदमनिष्टम् , ‘मा हिंस्यात् सर्वा भूतानि’ इति विद्वदविद्वत्साधारण्येन निषिद्धाया हिंसाया आत्मज्ञे विदुषि प्रसक्तत्वात् , पश्वादिप्राणिहिंसायामपि नात्मनो हिंसा, किं त्वनात्मनो देहस्यैव हिंसेत्यनात्महननस्य विदुषो निराक्षेपत्वात्। तथा नित्यात्मानं विद्वान् न हन्ति न घातयति, किन्तु स्तौति निन्दति तिरस्करोतीत्येवं विदुषः आत्मदूषणादिकं हि नरकावहम्। तस्मादात्मविदः सर्वकर्माधिकारासम्भव एवानेन श्लोकेनोच्यत इत्यनवद्यम्॥२१॥
‘वासांसी’ति श्लोकमवतारयति— तत्रेत्यादिना। तत्र ‘न जायते’ इति श्लोके इत्यर्थः। ‘अविनाशि तु तद्विद्धि’ इति श्लोके इति वा। तदविनाशित्वं किमिवेति शङ्कायामुच्यते— वासांसीति। यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि वासांसि गृह्णाति, तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि शरीराणि संयातीत्यन्वयः। श्लोकस्थक्रमेण पदानामर्थमाह— वासांसि वस्त्राणीत्यादिना। पुरुषः मनुष्य इत्यर्थः। यथा जीर्णवस्त्रत्यागात् , नूतनवस्त्रधारणाच्च देहस्य न काऽपि वृद्धिक्षयादिलक्षणा जन्मनाश- लक्षणा च विक्रिया, तद्वज्जीर्णदेहत्यागात् , नूतनदेहस्वीकाराच्च न काऽपि विक्रिया देहिनः इत्यर्थः॥२२॥
नैनमिति। एनं शस्त्राणि न छिन्दन्ति, एनं पावको न दहति, एनमापो न च क्लेदयन्ति, एनं मारुतो न शोषयतीत्यन्वयः। आत्मनोऽविक्रियत्वेन कर्मासम्भवं प्रतिपाद्य, अविक्रियत्वहेतुसमर्थनार्थमेवोत्तरग्रन्थमवतारयति— प्रकृतं त्विति। किं तत् प्रकृतम्? इति शङ्कमानं प्रत्याह— तत्रेति। अविनाशित्वमित्युपलक्षणम्। अविक्रियत्वमित्यर्थः। तदेव दृष्टान्तेन स्पष्टयितुम् उत्तरश्लोक- मुत्थापयति— तदित्यादिना। आत्मनः स्वतो विक्रियाऽभावेऽपि पुरातनदेहत्यागे नूतनदेहोपादाने च विक्रियावत्त्वध्रौव्याद् अविक्रियत्व- मसिद्धमिति चेत्? तत्राह— वासांसीति। शरीराणि जीर्णानि वयोहानिं गतानि, वलीपलितादिसङ्गतानीत्यर्थः। वाससां पुरातनानां परित्यागे, नवानां चोपादाने त्यागोपादानकर्तृभूतलौकिकपुरुषस्यापि अविकारित्वेन एकरूपत्ववद् , आत्मनो देहत्यागोपादानयोः अविरुद्धम् अविक्रियत्वमिति वाक् यार्थमाह— पुरुषवदिति॥२२॥
पृथिव्यादिभूतचतुष्टयप्रयुक्तविक्रियाभाक्त्वाद् आत्मनोऽसिद्धमविक्रियत्वमिति शङ्कते— कस्मादिति। यतो न भूतानि आत्मानं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रकृतं तु वक्ष्यामः। तत्रात्मनोऽविनाशित्वं प्रतिज्ञातम्। तत् किमिवेत्युच्यते— वासांसीति। वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषः अपराणि अन्यानि, तथा तद्वदेव शरीराणि विहाय जीर्णान्यन्यानि संयाति १संगच्छति नवानि देही आत्मा, पुरुषवद् अविक्रिय एवेत्यर्थः॥२२॥
कस्मादविक्रिय एवेति? आह— नैनं छिन्दन्तीति।२एनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि, निरवयवत्वाद् नावयवविभागं कुर्वन्ति शस्त्राणि अस्यादीनि। तथा नैनं दहति पावकः अग्निरपि न भस्मीकरोति। तथा न चैनं १. ‘समो गम्यृच्छिभ्याम्’ (पा.सू.१.३.२९) इति आत्मनेपदविधायकसूत्रे अकर्मकाच्चेत्यनुवृत्तेः प्रकृते सकर्मकत्वान्नात्मनेपदम्। २. ‘नैनं प्रकृतं देहिनं छिन्दन्ति निरवयवत्वाद्’ इति पा.।
[[८९]]
विश्लेषो वियोगः॥२३॥
अच्छेद्य इति। अयमच्छेद्यः, अयमदाह्यः, अयमक्लेद्यः, अयमशोष्य एव च। अयं नित्यः, सर्वगतः, स्थाणुः, अचलः, सनातनश्च भवतीति शेषः। नित्यत्वादिति। अनित्यस्य घटादेः सर्वगतत्वादर्शनादिति भावः। सर्वदेशसर्वकालसर्ववस्तुगतत्वं हि सर्वगतत्वम् , तत् कथं परिच्छिन्नस्यानित्यस्य स्यादिति बोध्यम्। इत्येतत् इति यावदित्यर्थः। अचलश्चलनरहितः। परिपूर्ण इति यावत्। सनेति सदार्थेऽव्ययम्। चिरार्थे इति केचित्। ‘सायञ्चिरम्’ इति सूत्रेऽव्ययग्रहणात् सनाशब्दाद् भवार्थे ट्युट्युलोरन्यतरप्रत्ययः तुडागमश्च। निष्पन्नः सिद्धः, जात इति यावत्। अभिनव इति। सदाऽपि नव इत्यर्थः। अनादिरिति यावत्। पौनरुक्त्यमेव प्रपञ्चयति— यत इत्यादिना। शब्दत इति। ४नित्यो नित्य इति। अर्थत इति।५सनातनः पुराणः इति। पौनरुक्त्यस्याचोदनीयत्वे हेतुमाह— दुर्बोधत्वा- गोचरयितुमर्हन्ति , अतो युक्तमाकाशवत् तस्याविक्रियत्वमित्याह— आहेत्यादिना॥२३॥
पृथिव्यादिभूतप्रयुक्तच्छेदनाद्यर्थक्रियाऽभावे योग्यताऽभावं कारणमाह— यत इति। पूर्वार्धमुत्तरार्धे हेतुत्वेन योजयति— यस्मादिति। नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति— नित्यत्वादित्यादिना। न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् ; तेषामेवाप्रामाणिकत्वेन व्यभिचारानवतारात्। न च सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात्। न च विक्रियाशक्तिमत्त्वे स्थैर्यमास्थातुं शक् यम् , तथाविधस्य मृदादेरस्थिरत्वदर्शनादि- त्याशयेनाह— स्थिरत्वादिति। स्वतो नित्यत्वेऽपि कारणान्नाशसम्भवाद् उत्पत्तिरपि सम्भावितेति कुतश्चिरन्तनत्वमित्याशङ्क्याह— न कारणादिति। आत्मनोऽविक्रियत्वस्य ‘न जायते म्रियते वा’ इत्यादिना साधितत्वात् तस्यैव पुनःपुनरभिधाने पुनरुक्तिरित्याशङ्क्याह— नैतेषामिति। अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति— यत इति। अतो ‘वेदाविनाशिनम्’ इत्यादौ शङ्क्यते पौनरुक्त्यमिति शेषः। कथं तत्र पौनरुक्त्याशङ्का समुन्मिषति? तत्राह— तत्रेति। ‘वेदाविनाशिनम्’ इत्यादिश्लोकः सप्तम्या परामृश्यते। श्लोकशब्देन ‘न जायते म्रियते वा’ इत्यादिरुच्यते। नन्विह श्लोके जन्ममरणाद्यभावोऽभिलक्ष्यते, ‘वेदे’त्यादौ पुनरपक्षयाद्यभावो विवक्ष्यते, तत्र कथमर्थातिरेकाभाव-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
क्लेदयन्ति आपः। अपां हि सावयवस्य वस्तुनः आर्द्रीभावकरणेनावयवविश्लेषापादने १सामर्थ्यम्। तन्न निरवयव आत्मनि सम्भवति। तथा स्नेहवद् द्रव्यं स्नेहशोषणेन नाशयति वायुः, एनं त्वात्मानं न शोषयति मारुतोऽपि॥२३॥
यत एवं तस्मात् — अच्छेद्योऽयमिति। यस्मादन्योन्यनाशहेतुभूतानि२ एनमात्मानं नाशयितुं नोत्सहन्ते ३अस्यादीनि, तस्मान्नित्यः, नित्यत्वात् सर्वगतः, सर्वगतत्वात् स्थाणुः, स्थाणुरिव स्थिरः इत्येतत्। स्थिरत्वाद् अचलोऽयमात्मा। अतः सनातनश्चिरन्तनः। न कारणात् कुतश्चिन्निष्पन्नः, अभिनव इत्यर्थः। नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम्। यत एकेनैव श्लोकेनात्मनो नित्यत्वमविक्रियत्वं चोक्तम् - ‘न जायते म्रियते वा’ इत्यादिना। तत्र यदेवात्मविषयं किञ्चिदुच्यते, तद् एतस्माच्छ्लोकार्थाद् नातिरिच्यते। किञ्चिच्छब्दतः पुनरुक्तम् , किञ्चिदर्थतः इति। दुर्बोधत्वाद् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः, कथं नु नाम १. ‘यत् सामर्थ्यम् , तन्निरवयव आत्मनि न सम्भवति’ इति रा.पा.। २. ‘नाशहेतूनि भूतानि’ पा.। ३. ‘अस्यादीनि’ इति नास्ति क्वचित्। ‘अग्न्यादीनि’ इति पा.। ४. ‘अजो नित्यः’ ‘अविनाशिनं नित्यं’ ‘नित्यः सर्वगतः’ इति शब्दतः पुनरुक्तम् । ५. ‘अचलोऽयं सनातनः’ ‘शाश्वतोऽयं पुराणः’ इति अर्थतः पुनरुक्तम्। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥२३॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥२४॥
अ.२. श्लो.२२-२४ ]
[[९०]]
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५॥
दित्यादिना। बोद्धुमशक् यं दुर्बोधम्। आपन्नमित्यस्य आत्मवस्तु इति कर्तृ। स्यादिति। अभिप्रायेणेति शेषः॥२४॥
अव्यक्त इति। अव्यक्तः अयम् , अचिन्त्यः अयम् , अविकार्यः अयम् इत्युच्यते। शास्त्रेणेति शेषः। तस्मादेनमेवं विदित्वा त्वमनुशोचितुं नार्हसीत्यन्वयः। न व्यज्यते न प्रतीयत इत्यव्यक्तः। ननु सर्वकरणाविषयत्वमसिद्धम् , ‘मनसैवानुद्रष्टव्यम्’ इति श्रुतेः, ‘शास्त्रोपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम्’ इति स्वेनैव पूर्वमुक्तत्वाच्चेति चेत्? सत्यम् ; संस्कृतमनोव्यतिरिक्तसर्वकरणाविषयत्वस्येह विवक्षितत्वात्। न च सर्वपदसङ्कोचः, मन- आदिसर्वकरणाविषयत्वस्य सत्त्वात्। यद्वा स्वयम्प्रभत्वादयमात्मा न करणविषयः, ‘यन्मनसा न मनुते येनाहुर्मनो मतम्’ इति श्रुत्या मनस एवात्मवेद्यत्ववचनात्। ‘साक्षी चेता निर्गुणः’ इति श्रुत्या सर्वसाक्षित्वमात्मनश्चोक्तम्। साक्षित्वं हि साक्षाद्द्रष्टृत्वम्। करण- नैरपेक्ष्येण स्वत एव सर्वद्रष्टृत्वमित्यर्थः। अत एव ‘अपाणिपादो जवनो ग्रहीता’ इति श्रुतिः सङ्गच्छते। इदमेव ह्यात्मनः स्वयम्प्रभत्वं नाम यत् स्वयमेवात्मानं सर्वांश्चायं प्रभासयतीति। संस्कृतमनसः करणत्वं तु आत्मस्वरूपावरकाविद्यानिरसन एवेति बोध्यम्। न च कथं सूर्यं तम इवात्मानमविद्याऽऽवृणुयादिति वाच्यम् ; तेजस्तिमिरयोरिवात्माविद्ययोर्नास्ति बाध्यबाधकभावः। प्रत्युतात्मैवाविद्यां भासयति। अविद्या हि जडा न स्वतो भातुं क्षमते। अविद्याविरोधि तु ‘अहं ब्रह्म’ इत्याकारकं संस्कृतमनोवृत्तिरूपं ज्ञानमेवेति युक्तमात्मनः सर्वकरणाविषयत्वम्। चिन्ता अयमीदृश इति विचारः। अविकार्य इति। विकर्तुं योग्यः विकार्यः, विकारं प्राप्तुमर्ह इत्यर्थः। न विकार्यः अविकार्यः। विकारो नाम परिणामः। अविकारित्वे हेतुं वदन् शब्दस्य फलितार्थमाह— निरवयवत्वाच्चाविक्रिय इति। विक्रिया आत्मनि यस्य तद् विक्रियात्मकं, विकारवदित्यर्थः। अथवा विक्रिया विकारः कार्यमित्यर्थः। तदात्मकं तद्रूपमित्यर्थः। सावयवस्यैव कार्यत्वं, कार्यस्यैव मादाय पौनरुक्त्यं चोद्यते? तत्राह—किञ्चिदिति। कथं तर्हि पौनरुक्त्यं न चोदनीयमिति ३मन्यसे? तत्राह— दुर्बोधत्वादिति। ४पुनःपुनर्विधानभेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह— कथं न्विति॥२४॥
त्वम्पदार्थपरिशोधनस्य प्रकृतत्वात् तत्रैव हेत्वन्तरमाह— किञ्चेति। आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति? तत्राह— अव्यक्त इति। मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यादित्याशङ्क्याह— अत एवेति। तदेव प्रपञ्चयति— यद्धीति। अतीन्द्रियत्वेऽपि ५सामान्यतोदृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेनात्मना व्याप्तलिङ्गाभावान्मैवमित्याह— अविकार्य इति। अविकार्यत्वे व्यतिरेकदृष्टान्तमाह— यथेति। किंच - आत्मा न विक्रियते, निरवयवद्रव्यत्वाद् , घटादिवदिति व्यतिरेक् यनुमानमाह— निरवयवत्वाच्चेति। निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिरित्याशङ्क्याह— न हीति। सावयवस्यैव विक्रियावत्त्वदर्शनाद् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः। यद्धि सावयवं सक्रियं क्षीरादि , तद् दध्यादिना विकारमापद्यते। न चात्मनः श्रुतिप्रमितनिरवयवत्वस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
संसारिणाम् १अव्यक्तं तत्त्वं बुद्धिगोचरतामापन्नं सत् संसारनिवृत्तये स्यादिति॥२४॥
किञ्च — अव्यक्तोऽयमिति। अव्यक्तः सर्वकरणाविषयत्वान्न व्यज्यते इत्यव्यक्तः अयम् आत्मा। अत एव अचिन्त्योऽयम्। यद्धीन्द्रियगोचरं वस्तु तच्चिन्ताविषयत्वमापद्यते। अयं त्वात्माऽनिन्द्रियगोचरत्वादचिन्त्यः। अत एव अविकार्यः। यथा क्षीरं २दध्यातञ्चनादिना विकारि , न तथाऽयमात्मा। निरवयवत्वाच्चाविक्रियः। न हि निरवयवं १. ‘असंसारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं’ इति पा.। २. ‘दध्यात्मत्वेन विकार्यं भवति, न तथाऽयम्’ इति पा.। ३. ‘मन्यते’ इति पा.। ४.‘पुनःपुनर्विधाभेदेन’ इति पाठः स्यात्। ५. सामान्यतोदृष्टम् कार्यकारणान्यलिङ्गकमनुमानम्।
[[९१]]
विकारवत्त्वं चेति भावः। शोकाकारं दर्शयति— हन्ताऽहमिति। आत्मनि हननक्रियाकर्तृत्वकर्मत्वादिविकारायोगादिति भावः॥२५॥
अथ चेति। अथ च एनं नित्यजातं नित्यं मृतं वा मन्यसे, हे महाबाहो! तथापि त्वमेवं शोचितुं नार्हसीत्यन्वयः। अव्ययानामनेकार्थत्वादाह— अथ चेत्यभ्युपगमार्थ इति। अथ च आत्मनः अनित्यत्वेऽभ्युपगतेऽपीत्यर्थः। यथा लोकप्रसिद्ध्या आत्मानं ‘क्रुद्धो जातः तृप्तो जातः हृष्टो जात इत्यन्तःकरणविक्रियाभेदमनु विक्रियते आत्मा’ इति मन्यसे इत्यन्वयः। यद्वा ‘क्रुद्धो जातस्तृप्तो जातो हृष्टो जात इति लोकप्रसिद्ध्या’ इत्यन्वयः। अन्यत् तुल्यम्। यथा च ‘तत्प्रत्ययविनाशमनु विनश्यत्यात्मा’ इति लोकप्रसिद्ध्या मन्यसे। तथा प्रत्यनेकशरीरोत्पत्तिं जातो जात आत्मेति मन्यसे, तथा नित्यं वा सदाऽपि प्रत्यनेकशरीरमृतिं मृतो मृत आत्मेति मन्यसे इत्यन्वयः। नित्यमपि जायत इति नित्यजातः, नित्यमपि म्रियत इति नित्यं वा मृत इति चार्थः। अयमाशयः— क्रोधतृप्तिहर्षाः अन्तःकरणधर्मत्वाद् अन्तःकरणविक्रियाः। लोकस्तु आत्मान्तःकरणयोस्तादात्म्याध्यासेन अन्तःकरणे क्रुद्धे सति आत्मा क्रुद्धो जात इति, तस्मिन् तृप्ते आत्मा तृप्त आसीदिति, तस्मिन् हृष्टे आत्मा हृष्ट इति चात्मानमेव विक्रियमाणं मन्यते। क्रोधादिप्रत्ययनाशे तु क्रुद्धात्मा नष्टः, हृष्टात्मा नष्टः, तृप्तात्मा नष्ट इत्यात्मानमेव नष्टं मन्यते। एतेनान्तःकरणविकाराणां क्रोधतृप्तिहर्षाणामुदयनाशाभ्याम् आत्मन उदयनाशौ लौकिकैरभ्युपगम्येते इति सिद्धम्। तद्वच्छरीरधर्मौ जन्मनाशौ लौकिकैरात्मन्यध्यस्तौ दृश्येते, शरीरेषु जातेषु आत्मा जात इति, तेषु मृतेषु आत्मा मृत इति च लोकप्रसिद्धेरिति। ननु अन्तःकरणधर्मक्रोधाद्युदयनाशाभ्यामन्तःकरणस्यैव नास्त्युदयनाशव्यवहारः; न ह्यन्तःकरणे क्रुद्धे सति कोऽप्यन्तः- करणं जातमिति, तस्मिन् शान्ते सति अन्तःकरणं नष्टमिति च प्रत्येति; किं पुनरात्मनस्तद्व्यवहारः; तस्मान्न दृष्टान्तोपपत्तिरिति चेत्? उच्यते— उपरतक्रोधो देवदत्तः ‘सखे, इतः प्राक् क्रुद्ध इदानीं क्व?’ इति यज्ञदत्तेन पृष्टः, तं प्रति वदति— ‘क्रुद्धो नष्टः, शान्तो जातः’ इति। तथा यतिश्च वदति— ‘गृही नष्टो यतिर्जातः’ इति। ततश्च धर्मनाशोदयाभ्यां धर्मिनाशोदयोपचार इति। ततो न लोक- सावयवत्वम्। अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह— अविक्रियत्वादिति। आत्मयाथात्म्योपदेशम् ‘अशोच्यान- न्वशोचस्त्वम्’ इत्युपक्रम्य व्याख्यातमुपसंहरति— तस्मादिति। अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मादात्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः। प्रतिषेध्यमनुशोकमेवाभिनयति— हन्ताऽहमिति॥२५॥
आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वादुत्तरश्लोकानुपपत्तिरित्याशङ्क्याह— आत्मन इति। अनित्यत्वमिति च्छेदः। शाक् यानां लोकायतानां वा मतम् इदमा परामृश्यते। श्रोतुरर्जुनस्य पूर्वोक्तमात्मयाथात्म्यं श्रुत्वाऽपि तस्मिन् निर्धारणासिद्धेः द्वयोर्मतयोरन्यतर- मताभ्युपगमः शङ्कितः, तदर्थो निपातद्वयप्रयोग इत्याह— अथ चेति। प्रकृतस्यात्मनो नित्यत्वादिलक्षणस्य पुनःपुनर्जातत्वाभिमानो मानाभावादसम्भवीत्याशङ्क्याह— लोकेति। नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनिवेशो व्याहतः स्यादित्याशङ्क्याह— तथेति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्चिद् विक्रियात्मकं दृष्टम्। अविक्रियत्वाद् अविकार्योऽयमात्मोच्यते। तस्माद् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा त्वं नानुशोचितुमर्हसि - ‘हन्ताऽहमेषाम् , मयैते हन्यन्ते’ इति॥२५॥
आत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते— अथ चैनमिति। अथ चेत्यभ्युपगमार्थः। एनं प्रकृतमात्मानं नित्य- जातं १लोकप्रसिद्ध्या २प्रत्यनेकशरीरोत्पत्तिं जातो जात इति मन्यसे, तथा प्रतितद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत १. ‘लोकप्रसिद्ध्या क्रुद्धो जातः, तृप्तो जातः, हृष्टो जात इत्यन्तःकरणविक्रियाभेदमनु विक्रियते इति मन्यसे, तथा तत्प्रत्ययविनाशमनु विनश्यतीति लोकप्रसिद्ध्या’ इति रा.पा.। २. प्रतीति पृथक्पदम्। लक्षणाद्यर्थे यथासंभवं प्रतिशब्दो योज्यः। ‘प्रत्यनेकशरीरोत्पत्ति’ इति पा.। अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथापि त्वं महाबाहो ! नैवं शोचितुमर्हसि॥२६॥
अ.२. श्लो.२५-२६ ]
[[९२]]
प्रसिद्ध्यनुपपत्तिः। वस्तुतस्तु भाष्यकारैः प्रौड्या प्रोक्तोऽयमर्थः। न त्वत्राभिनिवेशस्तेषाम्। किं तर्हि? अन्तःकरणधर्माणां क्रोधादी- नामिव देहधर्मयोर्जन्मनाशयोरात्मन्यध्यासाल्लोके आत्मा क्रुद्धो हृष्ट इत्यादिवद् आत्मा जातो मृत इति व्यवहारः, तद्बलाच्च अर्जुनस्यापि ‘नित्यजातो नित्यमृत आत्मा’ इति मतिरित्येतावत्येवार्थे भाष्यकाराणामभिनिवेश इति। आत्मनीति विषयसप्तमी। महाबाहो! इति सम्बुद्धिर्धीरत्वद्योतनार्था। ततश्च नायं शोको धीरस्य तवोचित इति भावः। अत्राह रामानुजः— अथ नित्यजातं नित्यमृतं देहमेवैनमात्मानं मनुषे - इति; तदसत् ; मूले देहपदाभावात् ; आस्तिकस्या- र्जुनस्य नास्तिकबौद्धादिवद् देहे आत्मबुद्ध्यभावात्। किन्तु ‘देहातिरिक्त आत्मा अस्त्येव; स तु न जन्मादिविकारहीनः, देहोदय- मनूत्पन्नत्वाद् देहनाशमनु विनष्टत्वादि’त्येवार्जुनस्य मतिः; पुत्रो जातः पुत्रो नष्ट इति लोकव्यवहारात्। मृते पुत्रदेहे दृश्यमानेऽपि पुत्रो नष्ट इति शोचति हि पित्रादिलोकः। तस्मादर्जुनोऽपि न देहमात्मानं मन्यते; किन्तु देहवदात्मानं जन्मनाशयुक्तं मन्यत इति रामानुजभाष्यमसत्॥२६॥
जातस्येति। जनिक्रियाश्रयस्येत्यर्थः। लब्धजन्मन इति। जन्मना लब्धसत्ताकस्येति यावत्। अव्यभिचारीति। यो यो जातः स स मृत इति व्याप्तेः क्वापि नास्ति व्यभिचार इत्यर्थः। न च विभीषणहनूमन्मार्कण्डेयादिषु व्यभिचार इति वाच्यम् , प्रलये तेषामपि नाशश्रवणात्। स्वाभाविकः स्वभावसिद्धो धर्मः, यथा अग्नेरौष्ण्यं, जलस्य शैत्यं च, तद्वदिति भावः। ननु जन्मवतो नाशः सर्वजनप्रत्यक्षः, जन्मवतां पितृपुत्रादीनां नाशदर्शनात्। नाशवतः पुनर्जन्म त्वप्रत्यक्षं कथमभ्युपगन्तुं शक् यमिति चेत्? मैवम् ; बीजस्य भुवि निक्षेपान्नष्टस्य अङ्कुरात्मना जन्मदर्शनात् ; न हि बीजस्वरूपनाशं विनाऽङ्कुरोदयः। शास्त्रप्रामाण्याच्च पुनर्जन्माभ्युपगमः। अत्र ‘कथमिदमुपपद्यते विनष्टस्योत्पत्ति’रित्याक्षिप्य सत्कार्यवादमवतारयामास रामानुजः। तत्र विचार्यते— मृद्द्रव्यं सद् घटाद्यात्मना विक्रियत इति सतो मृद्द्रव्यस्यैवावस्थाविशेषा घटाद्युत्पत्तिविनाशादय इत्यमीषां प्रघोषः अविचारितरमणीयः। तथाहि— यद् विक्रियते तन्न सत् , यथा घटादयः; यदविक्रियं तत् सत् , व्यतिरेकेण घटादिवदिति कथं विक्रियमाणस्य मृद्द्रव्यस्य सत्त्वम्? ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति कालत्रयेऽप्यभाववत्त्वस्यासल्लक्षणत्वात्। परकीयमतमनुभाषितमभ्युपेत्य ‘अहो बत महत्पापं कर्तुं व्यवसिता वयम्’ इत्यादेस्तदीयशोकस्य निरवकाशत्वमित्याह— तथापीति। एवम् ३इति अर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह— जन्मवत इति। जन्मवतो नाशो, नाशवतश्च जन्मेत्येतौ अवश्यम्भाविनौ मिथो व्याप्ताविति योजना॥२६॥
तयोरवश्यम्भावित्वे सति अनुशोकस्याकर्तव्यत्वे हेत्वन्तरमाह— तथा चेति॥२७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इति। तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो ! नैवं शोचितुमर्हसि। १जन्मवतो जन्म नाशवतो नाशश्चेत्येतौ अवश्यम्भाविनाविति॥२६॥
तथा च सति — जातस्येति। जातस्य हि लब्धजन्मनो ध्रुवः अव्यभिचारी मृत्युः मरणम्। ध्रुवं जन्म मृतस्य च। तस्माद् अपरिहार्योऽयं जन्ममरणलक्षणोऽर्थः। तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि२॥२७॥
१.‘यस्मात् जन्मवतो नाशः, नाशवतो जन्म ‘इति पा.। आनन्दगिरीये जन्मवतो नाशः, नाशवतश्च जन्मेति योजनाप्रदर्शनात् यथास्थित एव भाष्यपाठः तत्संमत इति भाति। २. एतदनन्तरम्—जन्मवतो नाशः, नाशवतो जन्मेति च स्वाभाविकश्चेत् , अपरिहार्यः अर्थः। इत्यधिकः रा. पुस्तके पाठः। ३. ‘इति’ क्वचिन्न। जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥२७॥
[[९३]]
मृद्द्रव्यस्य च भूतोत्पत्तेः प्राक्, भूतप्रलयानन्तरं चाभाववत्त्वेनासत्त्वात्। ‘मृत्तिकेत्येव सत्यम्’ इति तु श्रुत्या यावत्प्रपञ्चं सत्यत्वस्य विवक्षितत्वात्। न च - अनित्यमपि मृद्द्रव्यं रज्जुसर्पादिवन्नासत् , किन्तु सदेवेति - वाच्यम् ; ‘विनाशस्वभावो ह्यसत्त्वम् , अविनाश- स्वभावश्च सत्त्व’मिति त्वयैव सत्त्वस्य नित्यत्वेनोपवर्णितत्वात्। नित्ये वस्तुन्यसत्त्वस्य, असति वस्तुनि नित्यत्वस्य च क्वाप्यदर्शनात्। ‘अविनाशि तु तद्विद्धि’ इति तुशब्देनात्मान्यस्य सर्वस्यापि विनाशित्वप्रतिपादनात् , मृदादीनामप्यविनाशित्वे तद्वैलक्षण्यप्रतिपादक- तुशब्दप्रयोगानुपपत्तेः ‘आत्मन आकाशः सम्भूतः’ इति श्रुत्या आत्मनः सकाशादाकाशादीनां जन्मश्रवणात् , ‘पृथिव्यप्सु प्रविलीयते’ इत्यादिना तेषां लयश्रवणाच्च कथं पृथिव्यादिभूतानां सद्द्रव्यत्वं येन तद्विकाराणां घटादीनां सत्कार्यत्वं स्यात्? न च - प्रकृतिः सती, पृथिव्यादयस्तु तद्विकारत्वात् सत्कार्याण्येव, पृथिव्यादिविकारत्वाच्च घटादीनां परम्परया सत्कार्यत्वमिति - वाच्यम् ; प्रकृतेः ईश्वरात्पृथगसिद्धत्वेन स्वतन्त्रसत्ताऽभावान्न सत्त्वं, नाप्यसत्त्वमिति सिद्धान्तात्। प्रकृतिर्न सांख्याभिमतं प्रधानम् , तस्याशब्दत्वात् ; किन्तु मायैव। माया नामेश्वरशक्तिः। सा ह्यग्निशक्तिवदग्नेः पृथग् ईश्वरात् पृथगसिद्धा। इयं च कार्यगम्यैव। कार्यं चास्याः प्रपञ्चः। स च प्रलये नश्यतीति कथं महाभूतप्रलये प्रकृत्याः सत्त्वमनुमेयम्? लिङ्गाभावात्। ‘पादोऽस्य विश्वा भूतानि, त्रिपादस्यामृतं दिवि’ इति मुक्तप्राप्ये ब्रह्मणि मायातत्कार्याभावश्रवणाद् नास्ति मुक्तौ प्रकृतिः। तस्मान्न प्रकृतिरपि सद्द्रव्यम्। एतेन - जीवः ईश्वरस्यापृथक्सिद्धविशेषणमिति वादोऽपि प्रत्युक्तः; तथात्वे जीवस्यापीश्वरसत्ताधीनसत्ताकतया स्वतन्त्रसत्ता- ऽभावादसत्त्वमेव स्यात् ; तच्चानिष्टम् , त्वयाऽपि जीवसत्यत्वस्याभ्युपगतत्वात्। तस्मादात्मान्यस्यासत्त्वात् , सत आत्मनश्च अविक्रियत्वान्न सत्कार्यवादसिद्धिः। किञ्च सतो द्रव्यस्यावस्थान्तरप्राप्तिरुत्पत्तिरित्यभ्युपगमेऽपि अवस्थान्तरस्य पूर्वमसत एवोत्पत्तिः, न तु सतः, सत उत्पत्त्ययोगादिति कृत्वा असत्कार्यवाद एव सिद्धस्तवापि; मृदि पूर्वमसत एव घटाद्याकारस्य कारकव्यापारेण जातत्वात्। अत एव कारकव्यापारनैरपेक्ष्यरूपदोषासम्भवश्च, कारकव्यापारात्प्राग् घटाद्याकाराभावात्। तस्मान्न सत्कार्यवादो, नाप्यसत्कार्यवादः; किन्तु मिथ्याकार्यवाद एवानवद्यः। सत उत्पत्त्यादिविकारायोगात् , असतश्च शशशृङ्गवदुपलब्ध्ययोगात् , उपलभ्यमानं विक्रियमाणं चेदं कार्यमात्रं ३मिथ्यैव; शुक्तिकायामुपलभ्यमानं नाशरूपं विकारं भजमानं च रजतमिवेति॥२७॥
अव्यक्तादीनीति श्लोकमवतारयति— कार्यकरणेति। कार्यं देहः, करणानि मनआदीन्द्रियाणि, तेषां संघातः कार्यकरणसंघातः, स आत्मा स्वरूपं येषां तानि कार्यकरणसंघातात्मकानि, आत्मातिरिक्तचतुर्विंशतितत्त्वात्मकानीत्यर्थः। भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनान्येव भवन्तीति शेषः। हे भारत! तत्र का परिवेदना। अव्यक्तशब्दार्थमाह— अदर्शनमिति। अभाव इति यावत्। पुत्रमित्रादीनि भूतानि उत्पत्तेः प्रागनुपलभ्यमानत्वादव्यक्तादीनि। इदमेवाव्यक्तं नैयायिकाः प्रागभावं वदन्ति। व्यक्तमुपलब्धिः आत्मानमुद्दिश्यानुशोकस्य कर्तुमयोग्यत्वेऽपि, भूतसंघातात्मकानि भूतान्युद्दिश्य तस्य कर्तव्यत्वमाशङ्क्याह— कार्येति। सम- नन्तरश्लोकस्तत्र हेतुरित्याह— यत इति। २चाक्षुषदर्शनमात्रव्यावृत्तिं व्यावर्तयति— अनुपलब्धिरिति। न हि यथोक्तसंघातरूपाणि भूतानि
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कार्यकरणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुम् , यतः— अव्यक्तादीनीति। अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिर्येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानाम् , तानि अव्यक्तादीनि १. ‘परिवेदना’ इति रा.पा.। २. ‘अदर्शनम् अनुपलब्धिः’ इति भाष्येण अदर्शनप्रतियोगिभूतं दर्शनम् उपलब्धिः, न तु चाक्षुषमात्रमिति व्याख्यातं भवति। तेन अदर्शनशब्दस्य उपलब्धिव्यावृत्तिपरत्वम् , न तु चाक्षुषमात्रव्यावृत्तिपरत्वमिति भावः। ‘चाक्षुषदर्शनमात्रवृत्तिं’ इति पा.। ३. मिथ्यात्वं तु सदसद्विलक्षणत्वम्। अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना१॥२८॥
अ.२. श्लो.२७-२८ ]
[[९४]]
मध्ये येषां तानि व्यक्तमध्यानि; जन्मनाशयोर्मध्ये प्रतीयमानानीत्यर्थः। अव्यक्तनिधनानीति। निधनम् अन्त इति यावत्। इदमेवाव्यक्तं नैयायिकाः प्रध्वंसाभावमाहुः। अव्यक्तमरणयोरेकार्थतामाशङ्क्याह— मरणादूर्ध्वमिति। प्राणत्यागादनन्तरमित्यर्थः। ननु सर्वकरणागोचरत्वरूपाव्यक्तत्वस्य आत्मधर्मत्वाद्, ‘अव्यक्तोऽयमचिन्त्योऽयम्’ इतीहाप्युक्तत्वात् , यो यस्माज्जातः स तस्यादिरिति सिद्धान्तात् ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुत्या ब्रह्मणः सर्वभूतकारणत्वावगमाच्च अव्यक्त आत्मा आदिर्येषां तान्यव्यक्तादीनि। तथा कार्यस्य कारणे लयदर्शनाद् ,‘यत् प्रयन्त्यभिसंविशन्ति’ इति ब्रह्मणि भूतानां लयश्रवणाच्च अव्यक्तं ब्रह्म निधनं येषां तान्यव्यक्तनिधनानीत्यर्थो वाच्यः। यद्वा मायाकार्यत्वात् प्रपञ्चस्य मायादीनि मायान्तानि चेत्यर्थो वाच्यः। तथैव व्याख्यातं च यादवप्रकाशादिभिरिति चेत्? सत्यम् ; यद्यत्रादिशब्दस्य कारणमित्यर्थः, निधनशब्दस्य च नाशावधिरिति, तदा अव्यक्तशब्दस्य ब्रह्मैवार्थः स्यात् , परं तु आदिशब्दस्य जन्मेत्यर्थः; निधन[शब्द]स्य च मरणमिति; न हि भूतानां ब्रह्म जन्म मरणं वा भवितुमर्हति, माया च। न च - अदर्शनार्थेऽपि समानोऽयं दोषः; न ह्यदर्शनं जन्म भवतीति - वाच्यम् , जन्मनः प्राक् मरणादूर्ध्वं च भूताना- मदृश्यमानत्वाद् अदर्शनस्य आदित्वमन्तत्वं चोक्तमिति। नन्वेवम् ‘अदर्शनादापतिताः पुनश्चादर्शनं गताः’ इति श्लोकानुगुण्यादादिनिधनशब्दयोरत्र कारणनाशावधिरूपावर्थावेवाप- तितौ; जन्मनः प्राक्, मरणात्पश्चाच्चादर्शनमस्तीत्यनेनापि तदेव सिद्धम् ; ततश्चासत्कार्यवादप्रसङ्गः, प्रपञ्चनाशानन्तरं शून्यवादप्रसङ्गश्च इति चेत्? मैवम् ; भूतानि स्वोत्पत्तेः प्राग् भूतस्वरूपेण न दृश्यन्ते, स्वनाशात् पश्चाच्चेति कृत्वा भूतानामव्यक्तादित्वमव्यक्तनिधनत्वं चोक्तं लोकदृष्टिमभिप्रेत्य। शास्त्रदृष्ट्या तु भूतानि स्वोत्पत्तेः प्राक्, स्वकाले, स्वनाशानन्तरं च ब्रह्मरूपेणैव दृश्यन्त इति ब्रह्मादित्वं ब्रह्मनिधनत्वं च युक्तं भूतानामिति। नन्वस्मिन् गीताशास्त्रे शास्त्रदृष्टेरेवाश्रयणीयत्वात् किं लोकदृष्ट्या अव्यक्तशब्दस्यादर्शनार्थवर्णनमिति चेत्? उच्यते— व्यक्तमध्यानीति लिङ्गात् न शास्त्रदृष्टिरिह परिग्राह्येति। न हि शास्त्रदृष्ट्या भूतानां मध्यकालेऽपि अब्रह्मात्मकत्वमस्ति येन व्यक्तमध्यत्वं स्यात् ; अव्यक्तं हि ब्रह्म, व्यक्तं त्विन्द्रियविषयमन्यदेव। घटतत्त्ववेत्ता हि पुरुषः घटप्रतीतिकालेऽपि घटं मृद्रूपमेव जानाति। एतेन अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानीति पदानां - भूतानि जन्मनः प्राक् नोपलभ्यन्ते, मध्ये उपलभ्यन्ते, मरणादनन्तरं च नोपलभ्यन्ते इत्यर्थः सिद्धः। नैतावता असत्कार्यवादशून्यवादयोः प्रसङ्गः, भूतान्यभावादुत्पद्यन्ते, अभावं प्रत्यस्तं यन्तीत्यनुक्तत्वात्। ननु ‘अदर्शनादापतिताः पुनश्चादर्शनं गताः’ इति प्रमाणश्लोके तथैवोक्तमिति कथं तद्वादयोरप्रसङ्ग इति चेत्? उच्यते— भूतानामुत्पत्तेः प्रागदृश्यमानत्वाद् ‘अदर्शनादापतिताः’ इत्युक्तं, न त्वदर्शनप्रभूतत्वादिति। एवं मरणानन्तरमदृश्यमानत्वाद् ‘अदर्शनं गताः’ इत्युक्तं, न त्वदर्शनं प्रत्यस्तङ्गतत्वादिति। अदर्शनादित्यवधित्वरूपापादाने पञ्चमी, ग्रामादायातीतिवत् ; न तु जनिरुक्तः पूर्वमुत्पत्तेरुपलभ्यन्ते, तेन तानि तथा व्यपदेशभाञ्जि भवन्तीत्यर्थः। किं तन्मध्यं यदेषां व्यक्तमिष्यते? तदाह— उत्पन्नानीति। उत्पत्तेरूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते। जन्मानुसारित्वं विलयस्य युक्तमिति मत्वा तात्पर्यार्थमाह— मरणादिति। उक्तेऽर्थे पौराणिकसम्मतिमाह— तथा चेति। तत्रेत्यस्यार्थमाह— अदृष्टेति। पूर्वमदृष्टानि सन्ति पुनर्दृष्टानि तान्येव पुनर्नष्टानि। तदेवं भ्रान्तिविषयतया घटीयन्त्रवच्चक्रीभूतेषु भूतेषु शोकनिमित्तस्य प्रलापस्य नावकाशोऽस्तीत्यर्थः॥२८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
भूतानि प्रागुत्पत्तेः; उत्पन्नानि च प्राङ्मरणाद् व्यक्तमध्यानि ; अव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि, मरणादूर्ध्वमव्यक्ततामेव प्रतिपद्यन्त इत्यर्थः। तथा चोक्तम्— १‘अदर्शनादापतितः पुनश्चादर्शनं गतः। नासौ तव न तस्य त्वं वृथा का परिदेवना॥’(म.भा.स्त्री.२.१३) इति। तत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः॥२८॥
१. ‘अदर्शनादापतिताः पुनश्चादर्शनं गताः’ इति रा.पा.।
[[९५]]
[जनिकर्तुः] प्रकृतित्वरूपापादाने पञ्चमीति बोध्यम्। अदृष्टेति। अदृष्टानि दृष्टानि नष्टानि चेत्येवंरूपभ्रान्तिरूपेष्वित्यर्थः। अत्राह रामानुजः— ‘मनुष्यादिभूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुप- लब्धोत्तरावस्थानी’ति, तत्तुच्छम् ; जन्मनाशादिविक्रियावतां मनुष्यादिभूतानां सत्त्वासम्भवात्। अविक्रियं वस्तु हि सत् ; तच्च ब्रह्मैवेति दर्शितमेव ‘अविनाशी’ति श्लोकेन। अनुपलब्धपूर्वावस्थानीत्यप्ययुक्तम् ; वीर्यरक्तान्नादिपूर्वावस्थोपलम्भात्। अनुपलब्धोत्तरावस्थानी- त्यप्ययुक्तम् ; भस्ममृत्तिकाद्युत्तरावस्थोपलम्भात्॥२८॥
आश्चर्यवदिति श्लोकमवतारयति— दुर्विज्ञेय इति। साधारणे सर्वलोकसाधारणे भ्रान्तिनिमित्ते त्वामेकमेवोपालभे किम्? भूतेष्वदृष्टदृष्टनष्टभ्रान्तिं प्रति यन्निमित्तम् अज्ञानं तत् सर्वसाधारणमेव। तद्वैभवाच्चायं पुरुष आत्मा सर्वस्यापि दुर्विज्ञेय इत्यत्र न त्वमेक एवोपालभ्यः; किं तर्हि? सर्वेऽपि जनाः। ‘अहो! अमीषामात्मज्ञानं नासीदि’ति सर्वेऽपि शोच्या एवेत्यर्थः। आश्चर्येण तुल्यमाश्चर्यवदिति ‘तेन तुल्यं क्रिया चेद्वति’रिति वतिः। कश्चिद् अनेकजन्मस्वनुष्ठितनिष्कामकर्मतपआदिना शुद्धचित्तः कोऽपि धन्यः पुरुषः पश्यति जानाति, साक्षात्कुरुत इति यावत्। आत्मनि चक्षुर्व्यापारासम्भवान्न निरीक्षणार्थस्येहोपयोगः, ४‘दृशोऽनालोचने’ इति लिङ्गाच्च पश्यते- र्ज्ञानार्थकत्वम्। वदतीति। ‘न जायते’ इत्याद्यात्मस्वरूपं वक्तीत्यर्थः। एनं श्रुत्वाऽपि कश्चिच्च नैव वेदेत्यन्वयः। अथवा इति व्याख्यान्तरे। आश्चर्यतुल्यः कश्चिदेनं पश्यति, तथैवाश्चर्यतुल्यः कश्चिदेनं वदति, आश्चर्यतुल्यः अन्यः कश्चिदेनं शृणोतीत्यन्वयः। कश्चिच्छब्दार्थमाह— अनेकसहस्रेष्विति। ‘मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥’ अर्जुनं प्रत्युपालम्भं दर्शयित्वा प्रकृतस्यात्मनो दुर्विज्ञेयत्वात् तं प्रत्युपालम्भो न सम्भवतीति मन्वानः सन्नाह— दुर्विज्ञेय इति। तथा चात्माज्ञाननिमित्त३विभ्रमस्य साधारणत्वादसाधारणोपालम्भस्य निरवकाशतेत्याह— किं त्वामेवेति। अहम्प्रत्ययवेद्यत्वादात्मनो दुर्विज्ञेयत्वमसिद्धमिति शङ्कते— कथमिति। विशिष्टस्यात्मनोऽहम्प्रत्ययदृष्टत्वेऽपि केवलस्य तदभावादस्ति दुर्विज्ञेयतेति श्लोकमव- तारयति— आहेति। आश्चर्यवदित्याद्येन पादेनात्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दौर्लभ्यमुच्यते। द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्त्या तदुपदेष्टुस्तथात्वं कथ्यते। तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता। श्रवणदर्शनोक्तीनां भावेऽपि तद्विषयसाक्षात्कारस्यात्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतमिति विभागः। आत्मगोचरदर्शनादिदुर्लभत्वद्वारा दुर्बोधत्वमात्मनः साधयति— आश्चर्यवदिति। सम्प्रत्यात्मनि द्रष्टुः वक्तुः श्रोतुः साक्षात्कर्तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्बोधत्वं कथयति— अथवेति। व्याख्यानद्वयेऽपि फलितमाह— अत इति॥२९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
दुर्विज्ञेयोऽयं प्रकृत आत्मा, किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते। कथं दुर्विज्ञेयोऽयमात्मेति? १आह— आश्चर्यवदिति। आश्चर्यवद् , आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद् दृश्यमानं, तेन तुल्यम् आश्चर्यवत् , आश्चर्यमिवैनमात्मानं पश्यति कश्चित्। आश्चर्यवद् एनं वदति तथैव चान्यः। आश्चर्यवच्च एनमन्यः शृणोति। २श्रुत्वा दृष्ट्वोक्त्वाऽप्येनं वेद न चैव कश्चित्। अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यो, यो वदति, यश्च शृणोति सोऽनेकसहस्रेषु कश्चिदेव भवति। अतो दुर्बोध आत्मेत्यभिप्रायः॥२९॥
आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित्॥२९॥
१. ‘अत आह’ इति पा.। २. ‘श्रुत्वाऽप्येनं वेद न चैव कश्चित्’ इति पा.। ३. ‘विप्रलम्भस्य’ इति पा.। ४. आलोचनं हि चाक्षुषज्ञानम्। तद्भिन्नोऽप्यर्थः दृशेरस्तीति अनालोचने इति पर्युदासेन ज्ञापितम्। ‘पश्यार्थैश्चानालोचने’ (पा. सू . ८।१।२५) इत्यप्युदाहर्तुं युक्तम्। अ.२. श्लो.२८-२९ ]
[[९६]]
इति स्मरणादिति भावः। अत इति। आत्मद्रष्टृवक्तृश्रोतॄणां दुर्लभत्वादित्यर्थः। अत्र ‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः॥’ इति मन्त्रोऽनुसन्धेयः॥२९॥
देहीति। नित्यं ध्रुवम्। देहिनि अवध्यत्वं न व्यभिचरतीत्यर्थः। यस्मात् कार्यकरणसंघातस्यानित्यत्वेऽपि तदन्तर्गत आत्मा नित्यः, तस्मात् त्वं सर्वाणि भूतान्युद्दिश्य न शोचितुमर्हसि। भीष्मादिसंघातगतानित्यत्वस्यावर्जनीयत्वाद् भीष्माद्यात्मगतनित्यत्वस्य शोकविरोधित्वाच्चेति भावः॥३०॥
स्वधर्ममिति। हि क्षत्रियस्य धर्म्याद् युद्धादन्यच्छ्रेयो न विद्यते, तस्मादिति शेषः। स्वधर्ममवेक्ष्यापि, त्वमिति शेषः, विकम्पितुं न चार्हसि, ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्। धर्म्यं श्रेय इति श्रेयोहेतावौपचारिकः प्रयोगः, श्रेयस्करमित्यर्थः। स्वः स्वीयः क्षत्रिय- जातेर्विहित इत्यर्थः। इदमेवाह— क्षत्रियस्य युद्धमिति। युद्धदर्शनादपि तव कम्पो नोचित इति श्लोकपूर्वार्धस्यार्थः। तत्र हेतुमाह— श्लोकान्तरमुत्थापयति— अथेति। आत्मनो दुर्ज्ञानत्वप्रदर्शनानन्तरमिति यावत्। वस्तुवृत्तापेक्षया शोकमोहयोरकर्तव्यत्वं प्रकरणार्थः। देहे वध्यमानेऽपि देहिनो वध्यत्वाभावे फलितमाह— ५तस्मादिति। हेतुभागं विभजते— सर्वस्येति। फलितप्रदर्शनपरं श्लोकार्धं व्याचष्टे— तस्माद्भीष्मादीनीति॥३०॥
श्लोकान्तरमवतारयन् वृत्तं कीर्तयति— इहेति। पूर्वश्लोकः सप्तम्यर्थः। यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयो- रसम्भवो न भवति, किन्तु स्वधर्ममपि चावेक्ष्येति सम्बन्धः। स्वकीयं क्षात्रं धर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः। यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मयाऽनुवर्तितव्यमित्याशङ्क्याह— धर्म्यादिति। जातिप्रयुक्तं स्वाभाविकं धर्ममेव विशिनष्टि— क्षत्रियस्येति। ६पुनर्नकारोपादानमन्वयार्थम्। प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति— स्वाभाविकादिति। स्वाभाविकत्वमशास्त्रीयत्वमिति शङ्कां वारयितुं तात्पर्यमाह— आत्मेति। आत्मनः स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रियस्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः। धर्मार्थं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अथेदानीं प्रकरणार्थमुपसंहरति१— देहीति। २(यस्माद् देही शरीरी नित्यं सर्वदा सर्वावस्थास्ववध्यो निरवयवत्वाद् , नित्यत्वाच्च। तत्रावध्योऽयं देहे शरीरे सर्वस्य सर्वगतत्वात् स्थावरादिषु स्थितोऽपि) सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही न वध्यो यस्मात् , तस्माद् भीष्मादीनि सर्वाणि भूतान्युद्दिश्य न त्वं शोचितुमर्हसि॥३०॥
इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न सम्भवतीत्युक्तम्। न केवलं परमार्थतत्त्वापेक्षायामेव, किन्तु— स्वधर्ममिति। स्वधर्ममपि स्वो धर्मः ३स्वधर्मः, क्षत्रियस्य धर्मो युद्धम्। तमप्यवेक्ष्य त्वं न विकम्पितुं ४प्रचलितुं नार्हसि धर्म्यात् क्षत्रियस्य स्वाभाविकाद् धर्मात् , आत्मस्वाभाव्यादित्यभिप्रायः। तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजा- १. ‘प्रकरणार्थ उपसंह्रियते’ इति, ‘प्रकरणार्थमुपसंहरन् ब्रूते’ इति च पा.। २. कुण्डलितो भागः नास्ति सर्वत्र। ३. ‘स्वधर्मः’ इति क्वचिन्न। ‘स्वधर्मः क्षत्रियस्य युद्ध’मिति रा.पा.। ४. ‘न प्रचलितुमर्हसि स्वधर्मत्वादित्यभिप्रायः’ रा.पा.। ५. श्लोकगतपदस्य प्रतीकधारणमिदम्। पुस्तकान्तरे तु ‘यस्मादिति’ इति प्रतीकधारणं दृश्यते। ६. ‘न विकम्पितुम्’ इत्यत्र नञमुपादाय पुनः ‘नार्हसि’ इत्यत्र नञुपादानं तस्य अर्हसीत्यनेनान्वयबोधनार्थमित्यर्थः। देही नित्यमवध्योऽयं देहे सर्वस्य भारत !। तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥३०॥
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।
[[९७]]
स्वधर्मत्वादिति। क्षत्रियस्य तव युद्धस्य स्वधर्मत्वादित्यर्थः। ‘क्षत्रियस्य विजित(व्य)म्’ इति शास्त्रादिति भावः। अत्र रामानुजः— इदं युद्धमिति मूलाद् बहिः प्रकल्प्य इदं युद्धं स्वधर्ममवेक्ष्येति व्याचख्यौ। तन्मन्दम् ; मूलाद् बहिः कल्पनस्याप्रमाणत्वात्॥३१॥
यदृच्छयेति। ‘हे पार्थ ! सुखिनः क्षत्रियाः यदृच्छया चोपपन्नमपावृतं स्वर्गद्वारमीदृशं युद्धं लभन्ते’ इत्यन्वयः। ये लभन्ते ते सुखिनो न किमिति भाष्यं त्वर्थात् सिद्धार्थकथनम्॥३२॥
अथेति। महादेवः शिवः। आदिशब्देनेन्द्रादिग्रहणम्। तत्समागमजन्यामित्यर्थः। वन्यवराहवधखाण्डवदहनादिष्विति भावः ॥३३॥
प्रजापरिपालनार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धातव्येत्याशङ्क्याह— तच्चेति। ततोऽपि श्रेयस्करं किञ्चिदनुष्ठातुं युद्धादुपरतिः उचितेत्याशङ्क्याह— तस्मादिति। तस्माद् युद्धात् प्रचलनमनुचितमिति शेषः॥३१॥
युद्धस्य गुर्वाद्यनेकप्राणिहिंसात्मकस्य अहिंसाशास्त्रविरोधान्नास्ति कर्तव्यतेति शङ्कते— कुतश्चेति। अग्नीषोमीयहिंसादिवद्५ युद्धमपि क्षत्रियस्य विहितत्वादनुष्ठेयम् , सामान्यशास्त्रतो विशेषशास्त्रस्य बलीयस्त्वादित्याह— उच्यत इति। तथापि युद्धे प्रवृत्तानाम् ऐहिकामुष्मिकस्थायिसुखाभावाद् उपरतिरेव ततो युक्ता प्रतिभातीत्याशङ्क्याह— यदृच्छयेति। चिरेण चिरतरेण च कालेन यागाद्यनुष्ठायिनः स्वर्गादिभाजो भवन्ति, युध्यमानास्तु क्षत्रिया बहिर्मुखताविहीनाः सहसैव स्वर्गादिसुखभोक्तारः, तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति— यदृच्छयेत्यादिना। इहामुत्र च भाविसुखवतामेव क्षत्रियाणां स्वधर्मभूतयुद्धसिद्धेस्तादर्थ्येनोत्थानं शोकमोहौ हित्वा कर्तव्यमित्यर्थः॥३२॥
स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गादिमहाफलप्राप्तिं प्रदर्श्य, तदकरणे प्रत्यवायप्राप्तिं प्रदर्शयन्नुत्तरश्लोकगताथशब्दार्थं कथयति— एवमिति। विहितत्वं फलवत्त्वम्। इति अनेन प्रकारेणेत्यर्थः। अन्वयार्थं पुनः चेदित्यनूद्यते। महादेवादीत्यादिशब्देन महेन्द्रादयो गृह्यन्ते॥३३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
रक्षणार्थं चेति धर्मादनपेतं १परं धर्म्यम्। तस्माद् धर्म्याद् युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते। हि यस्मात्॥३१॥
कुतश्च तद् युद्धं कर्तव्यमिति? उच्यते— यदृच्छयेति। यदृच्छया चाप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम् अपावृतम् उद्घाटितम्२। य एतदीदृशं युद्धं लभन्ते क्षत्रियाः, हे पार्थ ! किं न सुखिनस्ते?॥३२॥
एवं ३कर्तव्यताप्राप्तमपि — अथेति। अथ चेत् त्वमिमं धर्म्यम् धर्मादनपेतं ४विहितं सङ्ग्रामं युद्धं न करिष्यसि चेत् , ततः तदकरणात् स्वधर्मं, कीर्तिञ्च महादेवादिसमागमनिमित्तां हित्वा त्यक्त्वा केवलं पापमवाप्स्यसि॥३३॥
१. ‘परमम्’ इति पा.। २. ‘उद्घाटितकवाटम्’ पा.। ३. ‘कर्तव्यतया’ इति पा.। ४. ‘विहितमिति’ इति आनन्दगिरिसंमतः पाठः भाति। ५. ‘हिंसावत्’ इति पा.। धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥३१॥
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ ! लभन्ते युद्धमीदृशम्॥३२॥
अथ चेत् त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥३३॥
अ.२. श्लो.३०-३३ ]
[[९८]]
अकीर्तिमिति। अकीर्तिम् अपकीर्तिम् ‘अर्जुनो युद्धाद्भीतः’ इत्याकारिकाम्। भूतानि प्राणिनः, जनाः इति यावत्। कथयन्तु नाम, किं तेन मे? इत्यत आह— सम्भावितस्येति। धर्मात्मत्वशौर्यधैर्यादिगुणैरुत्कृष्टस्येत्यर्थः॥३४॥
ननु स्वजने स्नेहकारुण्यादिना युद्धान्निवृत्तस्य मम कथमपकीर्तिः? अत आह— भयादिति। भयहे(तु)त्वाकाङ्क्षां पूरयति— कर्णादिभ्य इति। काकोलूकयोरिव कर्णार्जुनयोर्निसर्गवैरित्वात् कर्णशब्दश्रवणेनार्जुनस्य कोपोद्दीपनं स्यादिति कर्णग्रहणम्। ‘महारथास्ते कर्णादिभ्यो भयाद्धेतोः त्वां रणादुपरतं मन्यन्ते’ इत्यन्वयः॥३५॥
अवाच्येति। वक्तुमयोग्या अवाच्याः॥३६॥
युद्धाकरणे क्षत्रियस्य प्रत्यवायमामुष्मिकमापाद्य, शिष्टगर्हालक्षणं दीर्घकालभाविनमैहिकमपि प्रत्यवायं प्रतिलम्भयति— न केवलमिति। युद्धे स्वमरणसंदेहात् तत्परिहारार्थम् अकीर्तिरपि सोढव्या, आत्मसंरक्षणस्य श्रेयस्करत्वादित्याशङ्क्याह— धर्मात्मेति। मान्यानाम् अकीर्तिर्भवति मरणादपि दुःसहेति तात्पर्यार्थमाह— सम्भावितस्येति॥३४॥
इतश्च त्वया युद्धं कर्तव्यमित्याह— किञ्चेति। प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह— भयादिति। महारथानेव विशिनष्टि— येषां चेति। दुर्योधनादिभिः तव उपहास्यतानिरसनार्थं २ संग्रामे प्रवृत्तिरवश्यम्भाविनीत्यर्थः॥३५॥
इतश्च मा त्वं युद्धादुपरमं कार्षीरित्याह— किञ्चेति। ननु भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः स्वसामर्थ्यनिन्दनादि शत्रुकृतं सोढुं शक्ष्यामीत्याशङ्क्याह— तत इति॥३६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
न केवलं स्वधर्मकीर्तिपरित्यागः— अकीर्तिमिति। अकीर्तिं चापि भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घ- कालाम्। धर्मात्मा शूरः इत्येवमादिभिर्गुणैः सम्भावितस्य चाकीर्तिः मरणादतिरिच्यते। सम्भावितस्य चाकीर्तेर्वरं मरणमित्यर्थः॥३४॥
किञ्च — भयादिति। भयात् कर्णादिभ्यो रणाद् युद्धाद् उपरतं निवृत्तं १मंस्यन्ते चिन्तयिष्यन्ति, न कृपयेति, त्वां महारथाः दुर्योधनप्रभृतयः। येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिर्गुणैर्युक्तः इत्येवं मतो बहुमतो भूत्वा पुनः यास्यसि लाघवं लघुभावम्॥३५॥
किञ्च— अवाच्यवादानिति। अवाच्यवादान् अवक्तव्यवादांश्च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवो निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तम्। ततः तस्माद् निन्दाप्राप्तेर्दुःखाद् १. ‘मन्यन्ते’ इति मूले भाष्ये च रा.पा.। २. निरसनाय इति पा.। अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते॥३४॥
भयाद् रणादुपरतं १मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥३५॥
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्?॥३६॥
[[९९]]
दुःखतरं नु किम्? ततः कष्टतरं दुःखं नास्तीत्यर्थः॥३६॥
युद्धे पुनः क्रियमाणे कर्णादिभिः— हतो वेति। हतो वा २प्राप्स्यसि स्वर्गं, हतः सन् स्वर्गं प्राप्स्यसि। जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम्। उभयथाऽपि तव लाभ एवेत्यभिप्रायः। यत एवं तस्मादुत्तिष्ठ, कौन्तेय ! युद्धाय कृतनिश्चयः- जेष्यामि शत्रून् , मरिष्यामि वेति निश्चयं कृत्वेत्यर्थः॥३७॥
तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं शृणु— सुखदुःखे इति। सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषा- वकृत्वेत्येतत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा, ततो युद्धाय युज्यस्व घटस्व। नैवं युद्धं कुर्वन् पापमवाप्स्यसीत्येष उपदेशः प्रासङ्गिकः॥३८॥
हत इति। हतः इति हन्तेः कर्मणि क्तः। कर्त्राकाङ्क्षां पूरयति— कर्णादिभिरिति। भोक्ष्यसे अनुभविष्यसि। उत्तिष्ठेति। ‘उदोऽनूर्ध्वकर्मणि’ इति५ न तङ्। यस्माद् हतो वा स्वर्गं प्राप्स्यसे, जित्वा वा [महीं] भोक्ष्यसे, तस्माद् हे कौन्तेय! युद्धाय कृतनिश्चयः सन् उत्तिष्ठेत्यन्वयः॥३७॥
सुखेति। सुखदुःखसमीकरणफलितार्थमाह— रागद्वेषावकृत्वेति। सुखे रागमकृत्वा, दुःखे द्वेषमकृत्वा चेत्यर्थः। एवं लाभजययोः अलाभाजययोश्च ऊह्यम्। एवं युद्धं कुर्वन् त्वं पापं नावाप्स्यसीत्यन्वयः॥३८॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
१-२. ‘प्राप्स्यसे’ इति मूले, ‘हतो वेति। युद्धे पुनः क्रियमाणे कर्णादिभिः हतो वा प्राप्स्यसे’ इति भाष्ये च रा.पाठः। ३. सुखदुःखयोः समताकरणेन समानमित्यर्थः। ४. गीताशास्त्रस्येत्यर्थः। ५. ऊर्ध्वदेशसंयोगानुकूलक्रियाभिन्नकर्मवृत्तेः स्थाधातोः उत्पूर्वादात्मनेपदमित्यर्थकमिदं सूत्रम्। प्रकृते तु उपविष्टमर्जुनं प्रति उत्तिष्ठेत्युक्तेः ऊर्ध्वकर्मपरत्वान्नात्मनेपदमित्यर्थः। हतो वा प्राप्स्यसि१ स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय ! युद्धाय कृतनिश्चयः॥३७॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८॥
[आनन्दगिरिकृतव्याख्या]
तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थनिन्दा, ततो निवृत्तौ शत्रुनिन्देत्युभयतःपाशा रज्जुरित्याशङ्क्याह— युद्धे पुनरिति। जये पराजये च लाभध्रौव्याद् युद्धार्थमुत्थानमावश्यकमित्याह— तस्मादिति। न हि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह— कौन्तेयेति। जये पराजये चेत्येतद् उभयथेत्युच्यते। जयादिनियमाभावेऽपि लाभनियमे फलितमाह— यत इति। कृतनिश्चयत्वमेव विशदयति— जेष्यामीति॥३७॥
पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातुं शक्नोमीत्याशङ्क्याह— तत्रेति। युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत्। सुहृज्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकरणं कथमिति? तत्राह— रागद्वेषाविति। लाभः शत्रुकोषादिप्राप्तिः, अलाभः तद्विपर्ययः। न्याय्येन युद्धेनापरिभूतेन परस्य परिभवो जयः, तद्विपर्ययस्तु अजयः। तयोः लाभालाभयोर्जयाजययोश्च समताकरणं ३समानमेव रागद्वेषावकृत्वेत्येतद् दर्शयितुं तथेत्युक्तम्। यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्धकर्तव्यतोक्तेः समुच्चयपरत्वं ४शास्त्रस्य प्राप्तमित्याशङ्क्याह— एष इति। क्षत्रियस्य तव धर्मभूतयुद्धकर्तव्यतानुवादप्रसङ्गागतत्वाद् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः॥३८॥
अ.२. श्लो.३४-३८ ]
[[१००]]
एष इति। ‘स्वधर्ममपि चावेक्ष्य’ इत्येवमादिभिः श्लोकैरुक्तः शोकमोहापनये लौकिको न्याय एष उपदेशः प्रासङ्गिकः प्रसङ्गादागतः; प्रसङ्गादुक्त इति यावत्। न त्वस्मिन्नुपदेशे वक्तुस्तात्पर्यमस्तीत्याह— न तु तात्पर्येणेति। तत्र हेतुमाह— परमार्थेति। इह परमार्थदर्शनमेव प्रकृतं, न तु लौकिकदर्शनमिति तुशब्दार्थः। तच्चोक्तमिति। ‘अशोच्यानि’त्यारभ्य ‘न त्वं शोचितुमर्हसी’त्येतदन्तेन ग्रन्थेनेति भावः। तेऽभिहिता एषा बुद्धिः सांख्ये सांख्यविषयेत्यर्थः। एषा सांख्ये बुद्धिस्तेऽभिहितेति वाऽन्वयः। एतावता ग्रन्थसन्दर्भेण ते सांख्यबुद्धिरुपदिष्टेति परमार्थः। सांख्यशब्दार्थमाह— २परमार्थवस्तुविवेक इति। सप्तम्यर्थमाह— विषय इति। बुद्धिं विशिनष्टि— साक्षादिति। शोकमोहादिरूपो यः संसारहेतुभूतो दोषः तस्य साक्षान्निवृत्तिकारणमित्यर्थः। ज्ञानेनाज्ञाननाशे सति तत्कार्यशोक- मोहादिनाश इति भावः। योगशब्दार्थमाह— तत्प्राप्तीत्यादिना। तस्य सांख्यस्य प्राप्तौ उपायः साधनं, तस्मिन्। निःसङ्गतया फलाभिसन्धिराहित्येन। द्वन्द्वप्रहाणं शीतोष्णादिद्वन्द्वसहनम्। ईश्वरस्याराधनमेवार्थो यस्मिन् तस्मिन् , परमेश्वरप्रीत्यर्थमिति सङ्कल्प- ननु ‘स्वधर्ममपि चावेक्ष्य’ इत्यादिश्लोकैर्न्यायावष्टम्भेन शोकमोहापनयनस्य तात्पर्येणोक्तत्वात् तस्मिन्नुपसंहर्तव्ये, किमिति परमार्थदर्शनमुपसंह्रियते? तत्राह— शोकेति। ‘स्वधर्ममपी’त्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वजनमरणगुर्वादिवधशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपनयार्थं ‘वर्णाश्रमकृतं धर्ममनुतिष्ठितः स्वर्गादि सिध्यति, नान्यथे’त्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः। किं तर्हि तात्पर्येणोक्तम्? तदाह— परमार्थेति। ‘न त्वेवाहं जातु नासम्’ इत्यादि सप्तम्या परामृश्यते। उक्तं ‘न जायते म्रियते वा’ इत्यादिनोपपादितमित्यर्थः। उपसंहारप्रयोजनमाह— शास्त्रेति। तस्य वस्तुद्वारा विषयो निष्ठाद्वयं, तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं परमार्थदर्शनोपसंहार इत्यर्थः। ननु किमिति अत्र शास्त्रस्य विषयविभागः प्रदर्श्यते, उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः सम्भवादिति? तत्राह— इह हीति। शास्त्रप्रवृत्तेः श्रोतृप्रतिपत्तेश्च सौकर्यार्थमादौ विषयविभागसूचन- मित्यर्थः। उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारमवतारयति— अत आहेति। परमार्थतत्त्वविषयां ज्ञाननिष्ठामुक्तामुपसंहृत्य वक्ष्यमाणां संगृह्णाति— योगे त्विति। तामेव बुद्धिं विशिष्टफलवत्त्वेनाभिष्टौति— बुद्ध्येति। तत्रोपसंहारभागं विभजते— एषेत्यादिना। बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति— ज्ञानमिति। तस्य सहकारिनिरपेक्षस्य विशिष्टं फलवत्त्वमाचष्टे— साक्षादिति। शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानं, तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम्। अज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगतसाधनत्वादित्यर्थः। ‘योगे त्विमाम्’ इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्यवच्छिनत्ति— तत्प्राप्तीति। प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते। ज्ञानोदयोपायमेव प्रकटयति— निःसङ्गतयेति। फलाभि-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ ! कर्मबन्धं प्रहास्यसि॥३९॥
१शोकमोहापनयनाय लौकिको न्यायः ‘स्वधर्ममपि चावेक्ष्य’ (भ.गी.२.३१) इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण। परमार्थदर्शनं त्विह प्रकृतम्। तच्चोक्तमुपसंहरति— ‘एषा तेऽभिहिता’ इति, शास्त्रविषयविभागप्रदर्शनाय। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे, उपरिष्टात् ‘ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्’(भ.गी.३.३) इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्तीत्यत आह— एषा त इति। एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानं साक्षाच्छोकमोहादिसंसारहेतुदोषनिवृत्ति- कारणम् । योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकमीश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने, समाधियोगे च १. ‘एष उपदेशः प्रासङ्गिकः शोकमोहापनये’ इत्यादिः रा.पा.। २. भाष्ये— ‘परमार्थवस्तुविवेके विषये’ इति रा.पा. भाति।
[[१०१]]
पूर्वकमनुष्ठिते इत्यर्थः। कोऽसौ योगः? अत आह— कर्मयोग इति। तत्स्वरूपमाह— कर्मानुष्ठान इति। समाधिरपि कर्मयोग एवेत्याह—समाधियोग इति। यमनियमाद्यष्टाङ्गयोग इत्यर्थः। एतावता योगे इत्यस्य कर्मानुष्ठानयोगानुष्ठानात्मककर्मयोगविषया- मित्यर्थः सिद्धः। तत्प्राप्त्युपायेत्यनेन च सांख्ययोगादुत्तमाधिकारिविषयात् कर्मयोगस्यापकर्षः सूचितः। न हि संसारकारणाज्ञाननिवृत्तौ साक्षात् साधनेन सांख्ययोगेन परम्परासाधनं कर्मयोगस्तुल्यः स्यात्। न च वैयर्थ्यं शङ्क्यम् , योगस्य सांख्योपजीव्यत्वात्। प्ररोचनार्थं रुच्युत्पादनार्थम्। ‘यवागूं पिब शिखा ते वर्धिष्यते’ इति वाक् यवदिति भावः। ज्ञानप्राप्त्यैवेति। न तु साक्षादित्येवकारार्थः। कर्मयोगादीश्वरप्रसादः; आदिपदाच्चित्तशुद्धिः, तेन निमित्तेन ज्ञानप्राप्तिरिति परम्परया योगात् कर्मबन्धप्रहाणमिति भावः। अत्राह रामानुजः— संख्या बुद्धिः; बुद्ध्या निर्धारणीयमात्मतत्त्वं सांख्यम् ; ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिरभिधेया, ‘न त्वेवाहम्’ इत्यारभ्य ‘तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसी’त्यन्तेन सैषा तेऽभिहिता। आत्मज्ञानपूर्वकमोक्षसाधनकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देनोच्यते इति; तदसत् ; ‘या, अभिधेया, सा’ इति पदत्रयस्य मूलाद् बहिः प्रकल्पनस्या- प्रमाणत्वात्। मूलकर्तुरेतद्विवक्षासत्त्वे ‘सैषा तेऽभिहिता’ इत्येव वक्तव्यत्वात्। तज्ज्ञानाय या बुद्धिरित्यसङ्गतार्थकं वाक्यम्; ज्ञानस्यैव बुद्धित्वेन बुद्धेर्ज्ञानार्थत्वस्यासम्भवात् ; न हि स्वयमेव स्वार्थं भवति यत्किमपि। तथा कर्मणां मोक्षसाधनत्वं श्रुतिविरुद्धम् , ‘नास्त्यकृतः कृतेन’ ‘नान्यः पन्था विद्यतेऽयनाय’ इत्यादिश्रुतेः। आत्मज्ञानस्यैव मोक्षसाधनत्वं च श्रुतिसिद्धम् , ‘तरति शोकमात्मवित्’ ‘ब्रह्मविद् ब्रह्मैव भवति’ इत्यादिश्रुतेः। आत्मज्ञस्य कर्मसु प्रवृत्तिरेव न सम्भवति। ‘निष्कलं निष्क्रियं शान्तम्’ ‘साक्षी चेता केवलो निर्गुणश्च’ इत्यादिना अकर्त्रभोक्त्रविक्रियसाक्षिचैतन्यात्मकमात्मानं विदुषः कथं कर्मसु प्रवृत्तिः? कर्माणि हि कर्त्रादिकारकव्यापारसाध्यानि। तथा ‘कर्मानुष्ठाने या बुद्धिर्वक्तव्या तामिमां शृणु’ इत्यनेनैव विवक्षितार्थसिद्धेः, ‘कर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, तत्र या बुद्धिर्वक्तव्या, तामिमां शृणु’ इति कोऽयं वक्रः पन्थाः? कर्मानुष्ठानविषयबुद्धेः कर्मानुष्ठानविषयबुद्धियोगविषयबुद्धेर्वैलक्षण्यस्य दुर्वचत्वात्॥३९॥
नेहेति। इहाभिक्रमनाशो नास्ति, प्रत्यवायो न विद्यते, अस्य धर्मस्य स्वल्पं लेशोऽपि महतो भयात् त्रायते अनुष्ठातारमिति शेषः। मोक्षमार्ग इति। परम्परया कर्मयोगस्यापि मोक्षहेतुत्वादिति भावः। कृष्यादेरिति। कृष्यादेः प्रारम्भस्य यथा नाशोऽस्ति सन्धिवैधुर्यं निःसङ्गत्वम्। बुद्धिस्तुतिप्रयोजनमाह— प्ररोचनार्थमिति। अभिष्टुता हि बुद्धिः श्रद्धातव्या सती अनुष्ठातारमधिकरोति, तेन स्तुतिरर्थवतीत्यर्थः। कर्मानुष्ठानविषयबुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः? न हि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक् यमित्याशङ्क्याह— ईश्वरेति॥३९॥
ननु कर्मानुष्ठानस्यानैकान्तिकफलत्वेनाकिञ्चित्करत्वाद् , अनेकानर्थकलुषितत्वेन दोषवत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति, तत्राह —किञ्चेति। अन्यच्च किञ्चिदुच्यते कर्मानुष्ठानस्यावश्यकत्वे कारणमिति यावत्। कर्मणा सह समाधेरनुष्ठातुमशक् यत्वाद् , ३अनेकान्तराय- सम्भवात् , तत्फलस्य च साक्षात्कारस्य ४दीर्घकालाभ्याससाध्यस्य एकस्मिञ्जन्मन्यसम्भवाद् , अर्थाद् योगी भ्रश्येत, अनर्थे च निपतेदित्याशङ्क्याह— नेहेति। प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः। यत्तु कर्मानुष्ठानस्यानैकान्तिक-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणु। तां च बुद्धिं स्तौति प्ररोचनार्थम्। बुद्ध्या यया योगविषयया युक्तः, हे पार्थ ! कर्मबन्धं कर्मैव धर्माधर्माख्यं१ बन्धः कर्मबन्धः, तं प्रहास्यसि, ईश्वरप्रसादनिमित्त२ज्ञानप्राप्तेरित्यभिप्रायः॥३९॥
किञ्चान्यत् — नेहाभीति। न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशःअभिक्रमणमभिक्रमः प्रारम्भः, तस्य १. ‘धर्माधर्माख्यः’ इति पा. प्रायेण सर्वत्र दृश्यते। २. ‘ईश्वरप्रसादादिनिमित्तज्ञानप्राप्त्यैवेत्यर्थः’ इति रा. पा.। ३. ‘व्याधिस्त्यानसंशयप्रमाद —’ (यो.सू. १-२९) इत्यादिसूत्रे अन्तरायाः परिगणिताः, तद्व्याख्यासु विवृताश्च द्रष्टव्याः। ४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (यो.सू. १-१४) इति सूत्रादिति भावः। नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। अ.२. श्लो.३९-४० ]
[[१०२]]
तद्वदित्यर्थः। ननु प्रारम्भस्य कथं नाशः, प्रारब्धस्य तु भवेन्नाश इत्यत आह— नानैकान्तिकमिति। प्रारम्भस्य फलव्यभिचारित्वमेव नाश इत्यर्थः। कृष्यादिप्रारम्भस्य तु न नियतं फलं, वर्षाभावतदाधिक् यादिना निष्फलत्वसम्भवात्। योगविषयप्रारम्भस्य तु नियतं फलमित्यर्थः। ननु प्रारब्धे योगे अपरिसमाप्ते सति कथं योगप्रारम्भस्यानैकान्तिकं फलं नेति? अत आह— स्वल्पमपीति। योगस्यारम्भमात्रादपि संसारभयनिवृत्तिर्भवेत् , किं पुनर्योगस्य परिसमाप्तेरिति द्योतयितुं स्वल्पमपीत्यपिपदम्। ननु रोगनिवृत्त्यर्थं क्रियमाणे चिकित्सात्मके योगे असमाप्ते सति प्रत्यवायोऽस्ति, पूर्वापेक्षया समधिकतरव्याधिविजृम्भदर्शनात्। तथा संसारनिवृत्त्यर्थं क्रियमाणे कर्मयोगे असमाप्ते सति संसारविजृम्भरूपप्रत्यवायः स्यादिति, अत आह— प्रत्यवायो न विद्यत इति। कर्मयोगस्यासमाप्तौ दोषो न विद्यते, परं तु संसारो यथापूर्वं वर्तते इत्यर्थः। यद्वा चिकित्साया अकरणे रोगस्य वृद्धिरूपः प्रत्यवायो विद्यते यथा, तद्वत् कर्मयोगस्याकरणे दोषोऽस्ति किमिति? अत आह— प्रत्यवाय इति। अकरणे दोषः प्रत्यवायः इति शास्त्रवित्समयः; सन्ध्या- वन्दनादिवत् कर्मयोगस्याकरणे नास्ति प्रत्यवाय इत्यर्थः। न च - सन्ध्यावन्दनादिनित्यकर्मविधानमेव कर्मयोग इति कृत्वा कथमुच्यते सन्ध्यावन्दनादिवदिति - वाच्यम् , ईश्वराराधनबुद्ध्या कर्मानुष्ठानस्यैव कर्मयोगत्वात् , नित्यकर्मविधानस्य फलाभिसन्धिपूर्वकत्वाच्च। नित्यकर्मानुष्ठानमेव फलाभिसन्ध्या५ विरहितं सत् कर्मयोग इत्युच्यत इति भावः। अथवा रोगनिवृत्त्यर्थं चिकित्सायां क्रियमाणायां यथा रसौषध्यादिमारणरूपजीवहिंसावत्त्वेन नरकपातलक्षणः प्रत्यवायोऽस्ति कर्तुस्तथा कर्मयोगानुष्ठातुर्नास्ति प्रत्यवायः, कर्मयोगे हिंसाऽभावात्। न चात्रापि पशुहिंसादिकमस्तीति वाच्यम् , ‘अग्नीषोमीयं पशुमालभेते’त्यादिशास्त्राद् विहितस्य पश्वालम्भनादे- रहिंसात्वात्। न च ‘मा हिंस्यात् सर्वा भूतानि’ इति निषिद्धैव हिंसेति वाच्यम् , ६सामान्यविधित्वात् तस्य। विशेषविधिना हि सामान्यविधिर्बाध्यते। न च पश्वालम्भनस्य पशुदुःखहेतुत्वात् कुतो न हिंसात्वमिति वाच्यम् , यज्ञादावालम्भितस्य७ पशोः स्वर्गलाभात्। यद्वा चिकित्सायां क्रियमाणायां व्याधिनिवृत्तिरवश्यं भवतीति वक्तुं न शक् यते, प्राणिकर्मविपाकस्य विचित्रत्वात् ; प्रत्युत व्याध्यतिशयो मरणं वा भविष्यतीत्यस्ति दोषश्चिकित्साकरणे। एवं कर्मयोगस्य करणे नास्ति यः कश्चिद् दोषः, नियतफलत्वात् कर्मयोगस्य। यद्यपि चिकित्साया अकरणेऽपि तदुभयं भविष्यति, तथापि तत्करणेऽपि तदुभयसत्त्वात् तत्करणस्य दुष्टत्वमिति बोध्यम्। वस्तुतस्तु रोगिणश्चिकित्साकरणात् प्रत्यवायो भिषज एव; स्वकृतचिकित्सया यदि रोगिणो रोगवृद्धिः स्यात् , यदि वा मरणं फलत्वेनाकिञ्चित्करत्वमुक्तम् , तद् दूषयति— यथेति। कृषिवाणिज्यादेरारम्भस्यानियतं फलं, सम्भावनामात्रोपनीतत्वात्। न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्रविरोधादित्यर्थः। यत्तूक्तमनेकानर्थकलुषितत्वेन दोषवदनुष्ठानमिति, तत्राह— किञ्चेति। इतोऽपि कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमेव स्फुटयति— नापीति। चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात्। न तथा कर्मानुष्ठाने दोषोऽस्ति विहितत्वादित्यर्थः। सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति— किन्त्विति। उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति— स्वल्पमपीति। सम्यग्ज्ञानोत्पादनद्वारेण रक्षणं विवक्षितम्। ४‘सर्वपापप्रसक्तोऽपि ध्यायन् निमिषमच्युतम्। यतिस्तपस्वी भवति पङ्क्तिपावनपावनः॥’ इति स्मृतेरित्यर्थः॥४०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
नाशो नास्ति, यथा कृष्यादेः। योगविषये प्रारम्भस्य नानैकान्तिकफलत्व१मित्यर्थः। किञ्च नापि चिकित्सावत् प्रत्यवायो २विद्यते। किन्तु भवति? स्वल्पमप्यस्य धर्मस्य ३योगधर्मस्यानुष्ठितं त्रायते रक्षति महतः भयात् संसारभयात् जन्ममरणादिलक्षणात् ॥४०॥
१. ‘नानैकान्तिकं फलम्’ इति रा.पा.। २. ‘विद्यते भवति। किन्तु स्वल्प’ इति रा.पा.। ३. ‘योगस्यानुष्ठितम्’ इति रा.पा.। ४. ‘सर्वपापेषु सक्तोऽपि’ इति पा.। ५. ‘फलाभिसंधिना’ इति पाठो युक्तः। ६. सामान्यशास्त्रत्वादित्यर्थः। ७. ‘आलब्धस्य’ इति पाठो युक्तः। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥४०॥
[[१०३]]
स्याद्, उभयथाऽपि भिषजो नरकपातलक्षणः प्रत्यवाय एव। एवं प्रत्यवायित्वादेव चिकित्सकानामपाङ्क्तेयत्वं स्मर्यते। न च रोगनिवारणात् सुकृतमपि भवेद् भिषज इति वाच्यम् ; सुकृतप्राप्तेः पाक्षिकत्वात्। किञ्च पाक्षिक् यपि सुकृतप्राप्तिर्नैव ; धनाशया चिकित्सायाः कृतत्वाद् भिषजा; भेषजसिद्ध्यर्थं रसौषधीनां भिषजा मारितत्वाच्च नरकपातः। न चैवं भिषजामेवाभावे चिकित्साया अप्यभावात् कथं रोगिणां रोगनिवृत्तिरिति वाच्यम् ; प्रारब्धपापफलस्य व्याधेः प्रारब्धावसानेऽवश्यं नाशसम्भवात्। अपि च भेषजेन यदि व्याधिप्रतिबन्धः स्यात् , तर्हि जन्मान्तरे तद्व्याधिं पुनरनुभवेदेव, अनुभवं विना कृतस्य क्षयाभावात्। एवं च चिकित्सायाः अन्वयव्यतिरेकाभ्यां रोगनिवृत्त्यहेतुत्वात् , प्रत्युत प्रतिकूलचिकित्साया रोगवृद्धिमरणहेतुत्वाद् , रसौषधिमारणरूपहिंसागर्भत्वाच्च भिषजः प्रत्यवायजनकत्वमिति सिद्धम्। नैवं चिकित्साकर्तुरिव कर्मयोगकर्तुः कोऽपि प्रत्यवायो विद्यते, हिंसाद्यभावात् कर्मयोगे इति भावः। चिकित्सावदिति ‘तत्र तस्येव’ इति १वतिः। चिकित्सायामिवेत्यर्थः। यथा चिकित्सायां प्रत्यवायो विद्यते, तथा कर्मयोगे प्रत्यवायो न विद्यते इति व्यतिरेकदृष्टान्तः॥४०॥
व्यवसायेति। हे कुरुनन्दन! इह व्यवसायात्मिका एकैव बुद्धिरस्ति। अव्यवसायिनां बुद्धयः बहुशाखाः अनन्ताश्च भवन्ति हि। का सा व्यवसायात्मिका बुद्धिः? अत आह— येयमिति। सांख्यविषया योगविषया चेत्यर्थः। ननु सांख्यबुद्धेर्योगबुद्धेश्च परस्परं भिन्नत्वात् कथमेकत्वमिति चेत्? उच्यते— नात्र बुद्धिद्वयस्यैकत्वमुक्तम् ; किन्तु सांख्ये न बह्व्यो बुद्धयः सन्ति, तथा योगे च न बह्व्यो बुद्धयः सन्ति; परं तु एकैव व्यवसायात्मिका बुद्धिः सांख्ये; तथा योगे च व्यवसायात्मिका बुद्धिरेकैवेति सांख्ययोगयोः प्रत्येकमेकबुद्धिमत्त्वमुक्तमिति। तदेवाह— इतरेति। इतरा विपरीताश्च या बुद्धिशाखास्तासां भेदस्य। अनेकशाखाभिन्नेतरविपरीतबुद्धीनामित्यर्थः। कुतोऽस्या इतरबुद्धिभेदबाधकत्वम्? अत आह— सम्यगिति। निर्दुष्टशास्त्रप्रमाणजनित- त्वादित्यर्थः। इहेत्यस्य सांख्ययोगकर्मयोगसाधारण्यायाह— श्रेयोमार्ग इति। ‘अविक्रियः सर्वगतः नित्य एकः स्वयम्प्रभोऽप्रमेयः आत्मा’ इत्येवंरूपनिश्चयस्वभावा सांख्यबुद्धिः; ‘फलसङ्गं त्यक्त्वा ईश्वराराधनार्थतया सिद्ध्यसिद्ध्योः समः सन् शास्त्रविहितानि कर्माणि ननु अन्या अपि काम्यविषयाः वैदिक् यः आगमिक् यश्च त्रिपुरादिविषयाः काणादादिशास्त्रसिद्धाश्च बुद्धयः सन्ति। ताः परित्यज्य किमिति द्वे एव बुद्धी भगवतोपदिष्टे इत्याशङ्क्याह—[येयमिति।] येयं सांख्ये बुद्धिरुक्ता योगे च वक्ष्यमाणा, सैव ननु बुद्धिद्वयातिरिक्तानि बुद्ध्यन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते। तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति? तत्राह— येयमिति। सेवैका प्रमाणभूता बुद्धिरित्याह— व्यवसायात्मिकेति। बुद्ध्यन्तराणि अविवेकमूलानि अप्रमाणानीत्याह— बहुशाखा हीति। व्यवसायात्मिकाया बुद्धेः श्रेयोमार्गे प्रवृत्तायाः विवक्षितं फलमाह— इतरेति। प्रकृतबुद्धिद्वयापेक्षयेतराः विपरीताश्चाप्रमाणजनिताः स्वकपोलकल्पिताः या बुद्धयस्तासां शाखाभेदो यः संसारहेतुस्तस्य बाधिकेति यावत्। तत्र हेतुः— सम्यगिति। निर्दोषवेदवाक् य- समुत्थत्वाद् उक्तमुपायोपेयभूतं बुद्धिद्वयं साक्षात्पारम्पर्याभ्याम् संसारहेतुबाधकमित्यर्थः। उत्तरार्धं व्याचष्टे— याः पुनरिति। प्रकृत-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
येयं सांख्ये बुद्धिरुक्ता, योगे च वक्ष्यमाणलक्षणा, सा— व्यवसायेति। व्यवसायात्मिका निश्चयस्वभावा एकैव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनितत्वात् , इह श्रेयोमार्गे, हे कुरुनन्दन ! । याः पुनः व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन !। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥४१॥
अ.२. श्लो.४०-४१ ] १. सप्तम्यन्ताद् वतिरित्यर्थः।
[[१०४]]
कुर्याद्’ इत्येवंनिश्चयस्वभावा योगबुद्धिः; विपरीतबुद्धयस्तु ‘आत्मा कर्ता भोक्ता च, धर्मादिपुरुषार्थास्तेन सम्पादितव्याः[सम्पाद- यितव्याः]’ ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ ‘पशुकामः[वृष्टिकामः] कारीर्येष्ट्या’ इत्येवमादयः इति विवेकः। अत्र यदाह रामानुजः - आत्मयाथात्म्यनिश्चयपूर्विका व्यवसायात्मिका बुद्धिरेकफलसाधनविषयतयैका, एकस्मै मोक्षाख्य- फलाय हि कर्माणि विधीयन्त इति; तत्तुच्छम् ; नित्यत्वस्वयम्प्रकाशत्वानन्दत्वापहतपाप्मत्वादिरूपमात्मयाथात्म्यं पक्षद्वयसम्मतम्। यस्यास्ति एतन्निश्चयः, तस्य कथं कर्मसु प्रवृत्तिः स्यात्? न कथमपि; कर्मसम्पाद्योत्कर्षाभावात् कर्मनिवार्यापकर्षाभावाच्च। अनेक- कारकोपसंहारपूर्वककर्मानुष्ठानदुःखस्य आनन्दे आत्मन्ययोगाच्च, मोक्षस्य कर्मसाध्यत्वे घटादिवदनित्यत्वाच्च, सकामानां स्वर्गाद्यर्थं, निष्कामानां चित्तशुद्ध्यर्थं च कर्मणां विहितत्वेन ३मोक्ष[फलाय ]विहितत्वासम्भवाच्च; ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ ४‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने’त्यादिश्रुतेः। मोक्षकाम इदं कुर्यादिति श्रुत्यभावाच्च। नित्ये आत्मनि क्रियावत्त्वादिरूपविकारायोगाच्च। किञ्च व्यवसायात्मिकेति पदान्निश्चयपूर्विकेत्यर्थोऽपि दुर्लभः, आत्मशब्दस्य पूर्वार्थाभावात्॥४१॥
यामिति, कामात्मान इति च श्लोकद्वयस्यैकान्वयः। हे पार्थ! वेदवादरताः अन्यन्नास्तीति वादिनः कामात्मानः स्वर्गपराः अविपश्चितः भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलां जन्मकर्मफलप्रदां पुष्पितां यामिमां वाचं प्रवदन्तीति। यच्छब्दस्य तु तयेति तृतीयश्लोकस्थतच्छब्देनान्वयः। भाष्यार्कप्रकाशः इतराः विपरीतबुद्धयः, यासां शाखाभेदप्रचारवशाद् अनन्तोऽपारोऽनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्चोपरतासु अनन्तभेदबुद्धिषु संसारोऽप्युपरमते१, ताः बुद्धयो बहुशाखाः बह्व्यः शाखा यासां ता बहुशाखाः, बहुभेदा इत्येतत्। प्रतिशाखाभेदेन ह्यनन्ताश्च बुद्धयः, केषाम्? अव्यवसायिनाम् प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः॥४१॥
बुद्धिद्वयापेक्षयाऽर्थान्तरत्वम् इतरत्वम्। तासामनर्थहेतुत्वं दर्शयति— यासामिति। अप्रामाणिकबुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानाम- तीव [जायमाना अवान्तर]बुद्धिपरिणामविशेषाः शाखाभेदाः, तेषां प्रचारः प्रवृत्तिः, तद्वशादित्येतत्। २अनन्तत्वं सम्यग्ज्ञानमन्तरेण निवृत्तिविरहितत्वम्। अपारत्वं कार्यस्यैव सतो वस्तुभूतकारणविरहितत्वम्। अनुपरतत्वं स्फोरयति— नित्येति। कथं तर्हि तन्निवृत्त्या पुरुषार्थपरिसमाप्तिः? तत्राह— प्रमाणेति। अन्वयव्यतिरेकाख्येनानुमानेन आगमेन च पदार्थपरिशोधनपरिनिष्पन्ना विवेकात्मिका या बुद्धिस्तां निमित्तीकृत्य समुत्पन्नसम्यग्बोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते। तास्वसंख्यातासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन्नुपरतो भवतीत्यर्थः। ‘याःपुनः’ इत्युपक्रान्तास्तत्त्वज्ञानापनोद्याः संसारास्पदभूताः विपरीतबुद्धीरनुक्रामति— ता बुद्धय इति। बुद्धीनां वृक्षस्येव कुतो बहुशाखत्वम्? तत्राह— बहुभेदा इत्येतदिति। एकैकां बुद्धिं प्रति शाखाभेदोऽवान्तरविशेषः, तेन बुद्धीनामसंख्यत्वं प्रख्यातमित्याह— प्रतिशाखेति। बुद्धीनामानन्त्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः। सम्यग्ज्ञानवतां यथोक्तबुद्धिभेदभाक्त्व- मप्रसिद्धमित्याशङ्क्य प्रत्याह— केषामित्यादिना॥४१॥
यदि सांख्ययोगरूपैकैव प्रमाणभूता बुद्धिस्तर्हि सैव सर्वेषां चित्ते किमिति स्थिरा न भवति? तत्राह— येषामिति। ते यामिमां आनन्दगिरिकृतव्याख्या १. ‘विभाषाऽकर्मकात्’ (पा.सू.१.३.८५) इति उपाद् रमतेः परस्मैपदस्य वैकल्पिकत्वादात्मनेपदम्। एवं ‘यत्रोपरमते’(भ.गी.६.२०) इत्यत्रापि। २. अनन्तत्वे ‘सम्यग्ज्ञानेनोपरतासु अनन्तभेदबुद्धिषु संसारोऽप्युपरमते’ इति भाष्यासंगतिमाशङ्क्यानन्तत्वं व्याचष्टे—अनन्तत्वमिति। ३. साक्षान्मोक्षफलाय विहितत्वाभावा- दित्यर्थः। परम्परया मोक्षफलकत्वं तु कर्मणां न निवार्यते। ४. अत्र विविदिषोद्देशेन वेदनोद्देशेन वा कर्मविधानेऽपि चित्तशुद्धिद्वारैव तत्संभवात् चित्तशुद्ध्यर्थत्वं कर्मणामभिप्रेतम्। ‘इदं मेऽनेनाङ्गं संस्क्रियते’ इत्यादिश्रुतिस्मृतिभ्यश्च।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
प्रमाणभूता। अन्याश्चाविवेकमूला एवेत्यभिप्रायः॥४१॥
[[१०५]]
पुष्पाण्यस्याः सञ्जातानि पुष्पिता, ‘तदस्य सञ्जातम्’ इति तारकादित्वादितच्। कथं वृक्षधर्मस्य पुष्पवत्त्वस्य वाचो लाभ इत्यत आह— पुष्पितवृक्षवदिति। औपचारिकप्रयोग इति भावः। फलितार्थमाह— श्रूयमाणेति। यथा पुष्पितवृक्षो दृश्यमानरमणीयस्तद्वदियं वाक् श्रूयमाणरमणीया। श्रूयमाणं रमणीयं यस्याः सा श्रूयमाणरमणीया श्रवणमात्रमनोहरेत्यर्थः। संसाररूपदुःखावसानत्वादिति भावः। वाक् यं लक्षणं यस्याः सा वाक् यलक्षणा वाक् यरूपेत्यर्थः। वाक् यमिति यावत्। आकाङ्क्षादिमत्पदकदम्बकं वाक् यमिति बोध्यम्। विशेषेण पश्यन्ति जानन्तीति विपश्चितः; पृषोदरादित्वात् साधुः। न विपश्चितोऽविपश्चितः। जन्मैव कर्मफलमिति। यज्ञादिविहित- कर्मणः फलं स्वर्गानुभवः, स च देवत्वेन जातेनानुभाव्यः; हिंसादिनिषिद्धकर्मणः फलं नरकं, तद्धि नारकत्वेन जातेनानुभाव्यम् ; मिश्रकर्मणः फलं मनुष्यलोकः, स हि मनुष्यत्वेन जातेनानुभाव्यः इत्येवं कर्मफलानुभवस्य देवादिजन्मपरिग्रहपूर्वकत्वात् कर्मणः फलं जन्मैवेत्युक्तम्। परिवर्तन्ते भ्रमन्ति - जन्मनो मरणं मरणाज्जन्म चेत्यविच्छेदेन संसरन्तीत्यर्थः॥४२, ४३॥
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ ! नान्यदस्तीति वादिनः॥४२॥
कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम्। पुष्पितां वाचं प्रवदन्ति तयाऽपहृतचेतसां कामिनां कामवशान्निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह— ते - यामिति। इमामि- त्यध्ययनविध्युपातत्त्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते। वक्ष्यमाणत्वं ‘क्रियाविशेषबहुला’मित्यादौ द्रष्टव्यम्। किंशुको हि पुष्पशाली शोभमानोऽनुभूयते, न पुरुषभोग्यफलभागी लक्ष्यते, तथेयमपि कर्मकाण्डात्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यते साध्यसाधनसम्बन्धप्रतिभानात् , न त्वेषा निरतिशयफलभागिनी भवति, कर्मानुष्ठानफलस्यानित्यत्वादिति मत्वाऽऽह— पुष्पितामिति। वाक् यत्वेन लक्ष्यतेऽर्थवत्त्वप्रतिभानात् , वस्तुतस्तु न वाक् यम् , अर्थाभासत्वादित्याह— वाक् यलक्षणामिति। प्रवक्तॄणां वेदवाक् यतात्पर्य- परिज्ञानाभावं सूचयति— अविपश्चित इति। वेदवादाः वेदवाक् यानि, तानि च बहूनामर्थवादानां फलानां साधनानां च विधिशेषाणां प्रकाशकानि, तेषु रतिरासक्तिस्तन्निष्ठत्वं, तद्वत्त्वमपि तेषां विशेषणमित्याह— वेदवादेति। कर्मकाण्डनिष्ठत्वफलं कथयति— नान्यदिति। ईश्वरो वा मोक्षो वा नास्तीत्येवं वदन्तो नास्तिकाः सन्तः सम्यग्ज्ञानवन्तो न भवन्तीत्यर्थः॥४२॥
प्रकृतान् प्रवक्तॄनविवेकिनो व्यवसायात्मकबुद्धिभाक्त्वासम्भवसिद्ध्यर्थं विधान्तरेण विशिनष्टि— ते चेति। तेषां संसारपरिवर्तन-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
येषां व्यवसायात्मिका बुद्धिर्नास्ति, ते— यामिति। यामिमां वक्ष्यमाणां पुष्पितां १पुष्पितवृक्ष इव शोभमानां श्रूयमाणरमणीयां वाचं वाक् यलक्षणां प्रवदन्ति। के? अविपश्चितः अमेधसः। अविवेकिन इत्यर्थः। वेदवादरताः बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक् येषु रताः, हे पार्थ, ‘नान्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्योऽस्ति’ इत्येवं वादिनो वदनशीलाः॥४२॥
ते च— कामात्मान इति। कामात्मानः कामस्वभावाः। कामपरा इत्यर्थः। स्वर्गपराः स्वर्गः परः पुरुषार्थो ननु यदि सांख्ययोगरूपैव बुद्धिः प्रमाणभूता, तर्हि किमिति सैव सर्वेषां चित्ते न स्थिरा भवतीत्याशङ्क्याह— येषां व्यवसायात्मिका बुद्धिर्नास्ति [इति]। यामिमां वाचं [प्र]वदन्ति तयाऽपहृतचेतसामिति व्यवहितेन सम्बन्धः। कामिनामुप- च्छन्दनवशाद् निश्चयात्मिका बुद्धिः प्रायेणास्थिरा भवतीत्यर्थः॥४२-४४॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. ‘पुष्पितवृक्षवत् शोभनां’ इति पा.। अ.२. श्लो.४१-४३ ]
[[१०६]]
भोगेति। तयाऽपहृतचेतसां भोगैश्वर्यप्रसक्तानां समाधौ व्यवसायात्मिका बुद्धिर्न विधीयते। तदात्मभूतानामिति। भोगैश्वर्या- भिनिविष्टान्तःकरणतादात्म्याध्यासवतां बहिर्मुखानामित्यर्थः। समाधीयते निक्षिप्यते, ईश्वरेणेति शेषः। पुरुषस्य नास्ति स्वतो भोगः अभोक्तृत्वात् , किन्तु अन्तःकरणस्य विज्ञानबुद्ध्यपरपर्यायस्य भोक्तुस्तादात्म्याध्यासेनैव। यथाऽऽह माघः—‘समीक्ष्योक्ते बुद्धेर्भोग परिदर्शनार्थं प्रस्तुतां वाचमेव विशिनष्टि— जन्मेति। ननु पुंसां कामस्वभावत्वमयुक्तम् , चेतनस्येच्छावतः तदात्मत्वानुपपत्तेरिति, तत्राह— कामपरा इति। तत्परत्वं तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकाज्ज्ञानाद् बहिर्मुखत्वम्। ननु कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भवत्याभिमुख्यमिति? नेत्याह— स्वर्गेति। तत्परत्वं तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम्। उच्चावचमध्यमदेहप्रभेदग्रहणं जन्म। वाचो यथोक्तफलप्रदत्वमप्रामाणिकमित्याशङ्क्यानुष्ठानद्वारा तदुपपत्तिरित्याह— क्रियेति। क्रियाणामनुष्ठानानां यागदानादीनां विशेषाः देशकालाधिकारिप्रयुक्ताः ३सत्राहीनैकाहलक्षणास्ते खल्वस्यां वाचि प्राचुर्येण प्रतिभान्तीत्यर्थः। कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येनावस्थानमित्याशङ्क्य , प्रकाश्यत्वेनेत्येतद् विशदयति— स्वर्गेति। तथापि तेषां मोक्षोपायत्वोपपत्तेस्तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह— भोगेति। यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति— तद्बहुलामिति॥४३॥
ननु कर्मकाण्डनिष्ठानां कर्मानुष्ठायिनामपि बुद्धिशुद्धिद्वारेणान्तःकरणे साध्यसाधनभूतबुद्धिद्वयसमुदयसम्भवाद् ४अक्षतो मोक्षो भविष्यति? नेत्याह— तेषां चेति। तदात्मभूतानां तयोरेव भोगैश्वर्ययोरात्मकर्तव्यत्वेनारोपितयोः अभिनिविष्टे चेतसि तादात्म्याध्यासवतां बहिर्मुखानामित्यर्थः। तथापि शास्त्रानुसारिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धिस्तेषामुदेष्यतीत्याशङ्क्याह— तयेति। ननु समाधिः
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३॥
भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४॥
येषां ते स्वर्गपराः, स्वर्गप्रधानाः। जन्मकर्मफलप्रदाम् कर्मणः फलं कर्मफलं, जन्मैव कर्मफलं जन्मकर्मफलं, तत् प्रददातीति जन्मकर्मफलप्रदा, तां वाचं प्रवदन्तीत्यनुषज्यते। क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रियाविशेषास्ते बहुलाः यस्यां वाचि ताम् , स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते। भोगैश्वर्यगतिं प्रति भोगश्चैश्वर्यं च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति साधनभूताः ये क्रियाविशेषाः, तद्बहुलां तां वाचं प्रवदन्तो मूढाः संसारे परिवर्तन्त इत्यभिप्रायः॥४३॥
तेषां च— भोगेति। भोगैश्वर्यप्रसक्तानां १भोगः ऐश्वर्यं चेति २भोगैश्वर्ये, तयोरेव प्रणयवतां तदात्मभूतानां तया क्रियाविशेषबहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयतेऽस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं बुद्धिः, तस्मिन् समाधौ न विधीयते न भवतीत्यर्थः॥४४॥
१. ‘भोगः कर्तव्यः, ऐश्वर्यं चेति’ ‘भोगः कर्तव्यम् ऐश्वर्यं चेति’ इति पा.। २. ‘भोगैश्वर्ययोरेव प्रणयवताम्’ इति पा.। ३. यस्य यागस्य विधिवाक्ये ‘आसीरन्’ इति ‘उपेयुः’ इति वा श्रूयते स सोमयागः सत्रम् , तच्च नियतबहुयजमानकम्। अनियतसंख्याकयजमानकः यजधातुघटितविधिवाक्यगम्यः अहीनः। एकदिनसाध्य- सुत्याकः एकाहः। ‘सप्ताहानेकाहलक्षणाः’ इति पा.। ४. ‘अतः’ इति पा.।
[[१०७]]
इवात्मनि’ इति। सांख्योक्ते आत्मनि बुद्धेर्भोग इवेत्यर्थः। तस्मात् पुरुषोपभोगाय कामादिकं सर्वमन्तःकरणे सृष्टमीश्वरेणेति कृत्वा समाधिरन्तःकरणं भवति। न च बुद्धेर्बुद्धौ कथं विधानमिति वाच्यम् , ज्ञानस्यान्तःकरणे विधानमित्यदोषात्। ‘न विधीयते’ इति कर्मकर्तरि लकार इत्याह— न भवतीति। न जायत इति यावत्। वस्तुतस्तु न विधीयते ईश्वरेणात्मनेति शेषः। तस्यैव सर्वबुद्धिप्रेरकत्वात् , ‘मत्तः स्मृतिर्ज्ञानमपोहनं च’ इति वक्ष्यमाणत्वादिति॥४४॥
त्रैगुण्येति।त्रैगुण्यविषयाः संसारप्रकाशकाः। सत्त्वादित्रिगुणजन्यत्वात्सुखदुःखादिलक्षणसंसारस्य त्रैगुण्यव्यपदेशः। केषाम्? इत्यत आह— कामात्मनामिति। निर्गतं त्रैगुण्यं यस्मात् स निस्त्रैगुण्यः निःसंसार इत्यर्थः। कामस्यैव संसारहेतुत्वात् फलितमाह— निष्काम इति। सप्रतिपक्षौ परस्परं प्रतिपक्षावित्यर्थः। पदार्थौ शीतोष्णादिरूपौ। ततो निर्गत इति ‘निरादयः क्रान्ताद्यर्थे पञ्चम्या’ इति समासः। निर्द्वन्द्व इति। द्वन्द्वसह इत्यर्थः। दुष्करेति। अनुपात्तस्य धनधान्यादेरुपादाने, उपात्तस्य च तस्य रक्षणे व्यग्रस्य संसारिणः कथं मोक्षमार्गे प्रवृत्तिः? न कथमपीत्यर्थः। आत्मवानित्यत्र आत्मशब्दस्य देहमनोबुद्धिपुरुषादिरूपस्य यस्य कस्याप्यर्थस्य बोधकत्वं न सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विधोच्यते, तत्र बुद्धिद्वयविधिरप्रसक्तः सन् कथं निषिध्यते? तत्राह— समाधीयत इति॥४४॥
अविवेकिनामपि वेदाभ्यासवतां विवेकबुद्धिरुदेष्यतीत्याशङ्क्याह— य एवमिति। तर्हि वेदार्थतया कामात्मता प्रशस्तेत्या- शङ्क्याह— निस्त्रैगुण्य इति। भवेति पदं निर्द्वन्द्वादिविशेषणेष्वपि प्रत्येकं सम्बध्यते। त्रयाणां सत्त्वादीनां गुणानां पुण्यपापव्यामिश्रकर्म- तत्फलसम्बन्धलक्षणः समाहारस्त्रैगुण्यमित्यङ्गीकृत्य व्याचष्टे— संसार इति। वेदशब्देनात्र कर्मकाण्डमेव गृह्यते। तदभ्यासवतां तदर्थानुष्ठानद्वारा संसारध्रौव्यान्न विवेकावसरोऽस्तीत्यर्थः। तर्हि संसारपरिवर्जनार्थं विवेकसिद्धये किं कर्तव्यमित्याशङ्क्याह— त्वं त्विति। कथं निस्त्रैगुण्यो भवेति गुणत्रयराहित्यं विधीयते, नित्यसत्त्वस्थो भवेति वाक् यशेषविरोधादित्याशङ्क्याह— निष्काम इति। सप्रतिपक्षत्वं परस्परविरोधित्वम्। पदार्थौ शीतोष्णादिलक्षणौ। निष्कामत्वे द्वन्द्वान्निर्गतत्वं शीतोष्णादिसहिष्णुत्वं हेतुमुक्त्वा, तत्रापि हेत्वपेक्षायां सदा सत्त्वगुणाश्रितत्वं हेतुमाह— नित्येति। योगक्षेमव्यापृतचेतसो रजस्तमोभ्यामसंस्पृष्टे सत्त्वमात्रे समाश्रितत्वमशक् यमित्याशङ्क्याह— तथेति। योगक्षेमयोः जीवनहेतुतया पुरुषार्थसाधनत्वान्निर्योगक्षेमो भवेति कुतो विधिरित्याशङ्क्याह— योगेति। योगक्षेमप्रधानत्वं सर्वस्य स्वारसिकमिति ततो निर्गमनमशक् यमित्याशङ्क्याह— आत्मवानिति। अप्रमादो मनसो विषयपारवश्यशून्यत्वम्। अथ यथोक्तोपदेशस्य मुमुक्षुविषयत्वाद् अर्जुनस्य मुमुक्षुत्वमिह २विवक्षितमिति? नेत्याह— एष इति॥४५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन !। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥४५॥
य एवं विवेकबुद्धिरहितास्तेषां कामात्मनां यत्फलम् , तदाह— त्रैगुण्येति। त्रैगुण्यविषयास्त्रैगुण्यं संसारो विषयः प्रकाशयितव्यो येषां ते वेदास्त्रैगुण्यविषयाः। त्वं तु निस्त्रैगुण्यो भवार्जुन ! निष्कामो भवेत्यर्थः। निर्द्वन्द्वः सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ। ततो निर्गतो निर्द्वन्द्वो भव १त्वम्। नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव। तथा निर्योगक्षेमः अनुपात्तस्योपादानं योगः, उपात्तस्य रक्षणं क्षेमः। योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करेत्यतो निर्योगक्षेमो भव। आत्मवान् अप्रमत्तश्च भव। एष तवोपदेशः स्वधर्ममनुतिष्ठतः॥४५॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
‘नित्यसत्त्वस्थ’ इति वचनात् न गुणत्रयप्रतिषेधो विवक्षितः, किन्तु तदेकदेशप्रतिषेधो निस्त्रैगुण्यशब्देन लक्ष्यत इत्याह— निष्कामो भवेति॥४५॥
१. ‘त्वम्’ इति क्वचिन्न। २. ‘अविवक्षितम्’ इति पा.। अ.२. श्लो.४३-४५ ]
[[१०८]]
सम्भवति, आत्मराहित्ये प्रसक्ते सति हि आत्मवत्त्वं विधेयम् ; तदेव न सम्भवति देहादिरूपाणामात्मनां विधानात्प्रागेव सत्त्वादित्यभिप्रेत्य अप्रमत्त इत्युक्तम्। मनोवाचिनो बुद्धिवाचिनो वा आत्मशब्दस्य तद्धर्मे अवधाने लक्षणेति भावः। एष इति। ‘निस्त्रैगुण्यः’ इत्यादिना प्रोक्त इत्यर्थः। स्वधर्ममनुतिष्ठतस्तवेत्यन्वयः॥४५॥
‘यावान्’ इति श्लोकमवतारयति— सर्वेष्विति। फलाभावाद् योगमार्गो व्यर्थ इति प्रष्टुराशयः। आक्षेपसमाधानं प्रतिजानीते— उच्यते तदिति। तच्छब्दस्य योगानुष्ठानस्य फलमित्यर्थः। ३किमर्थमिति फलस्यैवाक्षिप्तत्वादिति भावः। श्रोतुः सावधानत्वापादनायाह — शृण्विति। वाक् यार्थः कर्म। यावानिति। यावत्तावदर्थशब्दानामावृत्तिः। ‘उदपाने यावानर्थः, सर्वतःसम्प्लुतोदके तावानर्थः, सर्वेषु वेदेषु यावानर्थः, विजानतो ब्राह्मणस्य तावानर्थः’ इत्यन्वयः। पूर्वार्थ[र्ध]स्य दृष्टान्तत्वादाह— यथेति। दृष्टान्तार्थस्य लोकसिद्धत्वादाह— लोके इति। उदकं पीयतेऽस्मिन्निति, उदकस्य पानं यस्मिंस्तदिति वा व्युत्पत्त्या ‘उदकस्योदः संज्ञायामि’त्युदादेशे सिध्यत्युदपानमिति रूपम्। किं तदुदपानम्? अत आह— कूपेति। ईश्वरार्पणधिया स्वधर्मानुष्ठानेऽपि फलकामनाभावाद् वैफल्यं योगमार्गस्येति मन्वानः शङ्कते— सर्वेष्विति। कर्ममार्गस्य फलवत्त्वं प्रतिजानीते— उच्यत इति। किं तत्फलमित्युक्ते तद्विषयं श्लोकमवतारयति— शृण्विति। यथोदपाने कूपादौ परिच्छिन्नोदके स्नानाचमनादिर्योऽर्थो यावानुत्पद्यते, स तावानपरिच्छिन्ने सर्वतःसम्प्लुतोदके समुद्रेऽन्तर्भवति, परिच्छिन्नोदकानाम् अपरिच्छिन्नो- दकांशत्वात्। तथा सर्वेषु वेदोक्तेषु कर्मसु यावान् अर्थो विषयविशेषोपरक्तः सुखविशेषो जायते, स तावान् आत्मविदः स्वरूपभूते सुखेऽन्तर्भवति, परिच्छिन्नानन्दानाम् अपरिच्छिन्नानन्दान्तर्भावाभ्युपगमात् ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः। तथा चापरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह— यावानिति। उक्तमर्थमक्षरयोजनया प्रकटयति— यथेति। उदकं पीयतेऽस्मिन्निति व्युत्पत्त्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति— कूपेति। कूपादि- गतस्याभिधेयस्य समुद्रेऽन्तर्भावासम्भवात् कथमिदमित्याशङ्क्यार्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति— फलमिति। यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते। तत् कथं तडागादिकृतं स्नानपानादि तथेत्याशङ्क्य तस्याल्पीयसो नाशोपपत्तेरित्याह— प्रयोजनमिति। तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वमयुक्तम् , अन्यस्यान्यात्मत्वानुपपत्तेरित्याशङ्क्याह— तत्रेति। घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्यापरिच्छिन्नोदककार्यान्तर्भावः सम्भवति, तत्प्राप्तावितरापेक्षाऽभावादित्यर्थः। पूर्वार्धं दृष्टान्तभूतमेवं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि, तानि नापेक्ष्यन्ते चेत् किमर्थं तानीश्वरायेत्यनुष्ठीयन्त इति। १उच्यते, शृणु— यावानिति। यथा लोके २कूपतडागादावनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनम् , स सर्वोऽर्थः सर्वतःसम्प्लुतोदके(ऽपि) योऽर्थः, तावानेव यावानर्थ उदपाने सर्वतः सम्प्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
यथा परिच्छिन्नोदकेषु यत् स्नानादिकं तदपरिच्छिन्नोदकेषु अन्तर्भवति, तदंशत्वात् परिच्छिन्नोदकानाम् , तथा शुभ- कर्मोपस्थापितविषयविशेषोपरक्तबुद्धिषु प्रतिबिम्बितमात्मसुखमेव विषयानन्दाः। अतस्तेषां परिच्छिन्नानन्दानामपरिच्छिन्ना- नन्दान्तर्भूतत्वात् तथाभूतात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य न निष्फलत्वमित्याह— यावानर्थ इत्यादिना। १. ‘उच्यते तत् , शृणु’ इति रा.पा.। २. ‘कूपतडागाद्यनेकस्मिन्’ इति पा.। ३. किमर्थम् = कस्मै फलायेत्यर्थः।
[[१०९]]
आदिपदाद् वाप्यादिग्रहणम्। उदपानानां नानात्वादाह— अनेकस्मिन्निति। कस्मादनेकत्वम्? अत आह— परिच्छिन्नेति। परिच्छिन्न- त्वस्य नानात्वप्रयोजकत्वादिति भावः। यावानिति यच्छब्दात्परिमाणे (ड)वतुप्३ विहितः इत्यभिप्रायादाह— यावत्परिमाण इति। अर्थविशेषं दर्शयति—स्नानेति। अर्थशब्दार्थमाह—फलमिति। फल्गुत्वेन लीयत इति फलम्। ४यावदर्थमाह—प्रयोजनमिति। स इति। एतदानुगुण्येन स्नानपानादिरर्थ इत्यत्र स्नानपानादिः योऽर्थ इति यच्छब्दाध्याहारो बोध्यः। न तु यः कश्चनार्थ इत्याह— सर्व इति। सर्वतः सम्प्लुतं व्याप्तमुदकं यस्य तस्मिन् सर्वतःसम्प्लुतोदके अपरिच्छिन्नोदके समुद्रे इत्यर्थः। मूले क्रियापदाभावात् तदध्याहृत्याह— सम्पद्यत इति। जायत इत्यर्थः। ननु परिच्छिन्नोदके यावानर्थोऽपरिच्छिन्नोदकेऽपि तावानर्थ इति कथमुच्यते? अत आह— तत्रान्तर्भवतीति। परिच्छिन्नोदकानां कूपादीनामपरिच्छिन्नोदकसमुद्रांशत्वाद्, घटाकाशानां महाकाशांशत्ववदिति भावः। न च कथं कूपादीनां समुद्रांशत्वम् , समुद्रव्यवहितत्वादिति वाच्यम् ; समुद्रमध्ये भुवः ईश्वरेण स्थापितत्वात् समुद्रजलस्यैव भूगतवापीकूपेषु अनुगतत्वाद्, नदीतटाकादिषु च मेघवृष्टिद्वारा तज्जलस्यैव वर्तमानत्वाच्च। तस्माल्लोके ये ‘अस्माभिः कूपे तटाकादौ वा स्नातं, जलं पीतम्’ इति मन्यन्ते, तैः सर्वैः समुद्र एव स्नातं, समुद्रजलमेव पीतं भवति वस्तुत इति भावः। उत्तरार्थ[र्ध]स्य दार्ष्टान्तिकत्वादाह— एवमिति। तावच्छब्दस्य पूर्वमनुक्तार्थत्वादाह— तावत्परिमाण इति। वेदेषु फलाभावा- दाह—वेदोक्तेषु कर्मस्विति। यज्ञादिष्वित्यर्थः। यावानित्यस्यात्राप्यन्वय इत्यभिप्रेत्याह—यत्परिमाणमिति। कर्मफलं स्वर्गादिकम्। योऽर्थ इति यच्छब्दस्योक्तत्वादाह— सोऽर्थ इति। इदं च यत्तच्छब्दद्वयमन्वयसौष्ठवाय भाष्यकारैरध्याहृतम्। नायं जातिमात्रवाची ब्राह्मणशब्दोऽमुख्यः, किन्तु मुख्य एवेत्याह— संन्यासिन इति। ‘जन्मना जायते शूद्रः कर्मणा जायते द्विजः। वेदपाठेन विप्रः स्याद् ब्रह्मज्ञानेन ब्राह्मणः॥’ इति वचनात् , ब्रह्मज्ञानस्य च वेदान्तश्रवणाद्यधीनत्वात् , तत्र च ‘शान्तो दान्त उपरतः’ इति संन्यासिन एवाधिकाराद्, ‘ब्राह्मणो निर्वेदमाया’दिति ब्राह्मणजातीयस्यैव संन्यासेऽधिकाराच्च ब्रह्मज्ञानिब्राह्मणसंन्यासिपर एव मुख्यो ब्राह्मणशब्द इति भावः। ब्रह्मणोऽयं ब्राह्मणः। वेद्यवेदितृभावरूपसम्बन्धे शेषे ‘तस्येदम्’ इत्यण्। ब्रह्मविदित्यर्थः। न च ५‘ब्राह्मोऽजाता’विति पाणिनिसूत्रादजातौ ब्राह्म इति स्यादिति वाच्यम् ; तत्र ब्रह्मशब्दस्य पुंलिङ्गस्य हिरण्यगर्भार्थकस्य ग्रहणात्। अत्र ब्रह्मशब्दस्य परब्रह्मवाचित्वाच्च। अत एव ‘(अ)जातौ किम्? ब्राह्मो नारदः’ इति प्रत्युदाहृतम् , ‘उत्सङ्गान्नारदो जज्ञे’ इति हिरण्यगर्भाङ्गभवत्वाद् नारदस्य। किञ्च ‘ब्राह्मणोऽस्य मुखमासीदि’ति श्रुतिश्च ब्राह्मणादिजात्युत्पत्तिहेतुं साकारमेव पुरुषं निर्दिशति, न तु निराकारं ब्रह्म, तस्य मुखाद्यवयवाभावात्। न च ब्राह्मणशब्दो ब्रह्मज्ञानिनमेव वक्ति, न तु संन्यासिनमिति वाच्यम् ; असंन्यासिनो ब्रह्मज्ञानित्वाभावात्। न च गृहस्थो जनकादिर्ब्रह्मज्ञान्येवेति वाच्यम् ; जनकादेर्यदि ब्रह्मवित्त्वेन ब्राह्मणत्वं स्यात् , तर्हि कर्मगतफलाभिसन्धिकर्तृत्वपरित्यागेन व्याख्याय दार्ष्टान्तिकमुत्तरार्धं व्याकरोति— एवमित्यादिना। कर्मसु योऽर्थ इत्युक्तं व्यनक्ति— यत् कर्मफलमिति। सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थस्तावानेव सम्पद्यत इति सम्बन्धः। तदेव स्पष्टयति— विज्ञानेति। २तस्मिन्नन्तर्भवन्निति शेषः। सर्वं कर्मफलं ज्ञानफले ऽन्तर्भवतीत्यत्र प्रमाणमाह— सर्वमिति। यत्किमपि प्रजाः साधु कर्म कुर्वन्ति तत् सर्वं स पुरुषोऽभिसमेति प्राप्नोति यः पुरुषस्तद्वेद विजानाति, यद्वस्तु स रैक्वो वेद , तद्वेद्यमिति श्रुतेरर्थः। कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते, कथमेतावता
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सम्पद्यते। तत्रान्तर्भवतीत्यर्थः। एवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु योऽर्थः - १यत् कर्मफलं सोऽर्थः, ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतो योऽर्थः - यद् विज्ञानफलं सर्वतःसम्प्लुतोदकस्थानीयं १. ‘यत्परिमाणं कर्मफलं’ इति रा.पा.। २. ‘तस्मिन्नन्तर्भवती’ति पा.। ३. वतुप् प्रत्ययः। ४. ‘प्रयोजनमिति यावदि’ति वक्तव्ये यावत्पदं विना तदर्थमाहेति भावः। ५. अनेन सूत्रेण अणि ब्रह्मन्शब्दे अनः लोपो निपात्यते अजातौ। तेन ब्राह्मशब्दः सिध्यति। जातौ तु ब्राह्मणशब्दः। प्रकृते जातित्वाभावात् कथं ब्राह्मणशब्दः इति शङ्का। समाधानं तु पुंलिङ्गब्रह्मशब्दस्यैव सूत्रे ग्रहणम् , अत एव ‘ब्राह्मो नारदः’ इति प्रत्युदाहृतम्। प्रकृते नपुंसकलिङ्गशब्दात् ब्राह्मण इति रूपं सिध्यतीति। अ.२. श्लो. ४६ ]
[[११०]]
संन्यासित्वमपि स्यात् ; जनकादेः कर्माकर्मैवेत्युक्तत्वात्। ‘कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः’ इति मूल एव वक्ष्यमाणत्वाच्च। कर्मणामकर्तृत्वं हि संन्यासः। तस्माद् ब्राह्मणः संन्यास्येव। २अस्तु वा सूत्रगतब्रह्मशब्दस्य परब्रह्मवाचित्वम् , तथापि न काचिदत्रानुपपत्तिः; ब्राह्मणजातीयस्यैव संन्यास इत्युक्तत्वात्। न चैवं ब्राह्मणस्येत्यस्य ब्राह्मणजातीयो गृहस्थादिरप्यर्थः स्यादिति वाच्यम् ; विजानत इति विशेषणात् ; विजानत्त्वं हि ब्रह्मवित्त्वम् , तच्चासंन्यासिनो न भवत्येवेति। एतेन ब्राह्मणस्य वैदिकस्येति रामानुजोक्तार्थः परास्तः; तस्य तत्त्वविज्ञानाभावेन ‘विजानतः’ इति विशेषणासाङ्गत्यप्रसङ्गात्। न च वेदविदो वैदिका एव ब्रह्मविद इति वाच्यम् ; ‘वेदवादरताः पार्थ नान्यदस्तीति वादिनः’ ‘त्रैगुण्यविषया वेदाः’ इति वेदविदामब्रह्मवित्त्वस्य, वेदानां त्रैगुण्यपरत्वस्य च भगवतैवोक्तत्वात्। यत्त्वत्र वेदान्तदेशिकः - ब्रह्मानितीति निरुक्त्या ब्रह्मणः, ‘शकन्ध्वादिषु पररूपं वक्तव्यम्’ इति पररूपे कृते प्रज्ञादित्वाद् अण्प्रत्यये च ब्राह्मण इति रूपं भवति। ब्रह्म चात्र वेदः इति; तत्तुच्छम् ; प्रज्ञादिषु ब्रह्मणशब्दाभावात् ; ब्रह्मण इति क्वापि प्रथमान्तपदप्रयोगाभावेन प्रज्ञादिषु शकन्ध्वादिषु वा आकृतिगणत्वेन तद्ग्रहणायोगात्। प्रसिद्धपदप्रयोगनिर्वहणाय हि स्वीकृत आकृतिगणः। किञ्च ब्रह्मानितीति व्युत्पत्तौ ‘कर्मण्यण्’ स्यात्। ततश्च वृद्धौ ब्रह्माण इत्येव स्यादिति। किं विजानतः? अत आह— परमार्थतत्त्वमिति। ब्रह्मेत्यर्थः। विजानदर्थस्य (न) ज्ञानफलत्वादाह— विज्ञानफलमिति। पूर्वोक्तदृष्टान्तवाक् यस्थेन केन पदार्थेन सहास्य बिम्बप्रतिबिम्बभावः? अत आह— यत्सर्वत इति। सर्वतःसम्प्लुतोदकफलस्थानीय- मित्यर्थः। विज्ञानस्यैव सर्वतःसम्प्लुतोदकस्थानीयत्वादिति भावः। स्थानीयं तुल्यमित्यर्थः। तस्मिन्निति। विज्ञानफले अपरिच्छिन्ने ब्रह्मानन्दे इत्यर्थः। ब्रह्मानन्दलक्षणमोक्षस्यैव विज्ञानफलत्वादिति भावः। तावानेव सम्पद्यत इति। तत्रैवान्तर्भवति, ‘एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः। अपरिच्छिन्नब्रह्मानन्दांशत्वात् परिच्छिन्नस्वर्गादिविषयानुभवजन्यानन्दानामिति भावः। ननु कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र किं प्रमाणम्? अत आह— सर्वमिति। प्रजाः यत्किञ्च साधु सत्कर्म कुर्वन्ति तत् सर्वं , स इति शेषः। अभिसमेति प्राप्नोति। कः सः? इत्यत आह— यस्तद्वेदेति। किं तद्? इत्यत आह – यत् स वेदेति। स रैक्वो यद्वेद तद् ब्रह्म यो वेद स तत्त्ववित् प्रजाकर्तृकसर्वसाधुकर्मफलं प्राप्नोति, तत्त्ववित्प्राप्तब्रह्मानन्दांशत्वात् प्रजासाधुकर्मफलभूतानन्दस्येति भावः। स्मृतिमपि प्रमाणयति— सर्वमिति। ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ इति गीताश्लोकः। ज्ञानफले कर्मफलस्यान्तर्भावाज्ज्ञाने कर्मणः परिसमाप्तिरित्यर्थः। अयमत्र भाष्यपदान्वयः - ‘यथा उदपाने यावान् योऽर्थः स सर्वोऽर्थः सर्वतःसम्प्लुतोदके योऽर्थस्तावानेव सम्पद्यते - एवं सर्वेषु वेदेषु यावान् योऽर्थः सोऽर्थः विजानतो ब्राह्मणस्य योऽर्थः तावानेव सम्पद्यते’ - इति। श्लोकव्याख्यामुपसंहरन् फलितमाह— निर्गुणज्ञानफले कर्मफलान्तर्भावः सम्भवतीत्याशङ्क्याह— सर्वमिति। तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणादित्याशङ्क्याह— तस्मादिति। योगमार्गस्य निष्फलत्वाभावस्तच्छब्दार्थः॥४६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तस्मिन् , तावानेव सम्पद्यते। तत्रैवान्तर्भवतीत्यर्थः। ‘यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं १सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद् वेद यत् स वेद’(छा.उ.४.१.४) इति श्रुतेः। ‘सर्वं कर्माखिलम्’ (भ.गी.४.३३) इति च वक्ष्यति। तस्मात् प्राग् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम्॥४६॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
यत् किञ्चित् प्रजाः साधु कुर्वन्ति तत् सर्वमभिसमेति प्राप्नोति, यः पुरुषः यद्[तद्] वेद जानाति, यद् वस्तु स रैक्वो वेदेत्यर्थः॥४६॥
१. ‘यथा…..एवमेनं’ इति क्वचिन्न। २. लिङ्गविशेषं विना ब्रह्मशब्दमात्रस्य सूत्रे ग्रहणेऽपि जातिवाचित्वं स्वीकृत्य ब्राह्मणशब्दं समर्थयते— अस्तु वेति।
[[१११]]
तस्मादिति। समुद्रफले कूपफलस्येव विज्ञानफले कर्मफलस्यान्तर्भावादित्यर्थः। अधिकृतेन कर्म कर्तव्यमित्यन्वयः। क्वाधिकृतेन? इत्यत आह— कर्मणीति। कियत्पर्यन्तम्? अत आह— प्रागिति। ज्ञाननिष्ठायां यावता कालेनास्याधिकारो भवति, तावत्पर्यन्त- मित्यर्थः। ज्ञाननिष्ठाधिकारप्राप्त्यनन्तरं तु कर्म नैव कर्तव्यमिति भावः। कीदृशं कर्म? इत्यत आह— कूपेति। अर्थशब्दोऽत्र वस्तुवाच्येव, न तु फलवाची। कूपतटाकादिस्थानीयमित्यर्थः। अपिशब्दाद् विज्ञानादल्पत्वेन कर्तुमयुक्तमपीति गम्यते। विज्ञाने ऽधिकाराभावादिति भावः। ननु किमर्थं कर्मयोगानुष्ठानमिति यदादावाक्षिप्तं तस्य किं समाधानमायातमिति चेद्? उच्यते— मोक्षप्रदायां ज्ञाननिष्ठाया- मधिकाराभावात् तदधिकारसिद्ध्यर्थं कर्मयोगानुष्ठानमिति। न च नायं समाधानार्थो मूलादायातीति वाच्यम् ; अर्थादेतत्सिद्धेः। तथाहि— विज्ञानमेव सर्वैः सम्पाद्यं, समुद्रफले कूपफलस्येव विज्ञानफले ब्रह्मानन्दे एव सर्वकर्मफलविषयानन्दानामन्तर्भावात्। तच्च विज्ञानं कर्मयोगानुष्ठानं विना दुःसम्पादमिति कृत्वा मुमुक्षुणा विज्ञानसिद्ध्यर्थं कर्मयोगोऽनुष्ठेय इति। एवं ज्ञानप्राप्तिद्वारा अपरिच्छिन्न- ब्रह्मानन्दप्राप्तिहेतुत्वात् तत्तत्क्षुद्रफलान्यनभिसन्धाय विहितानि कर्माण्यधिकृतेन कर्तव्यानीति परमार्थः। अत्र भाष्ये १कर्मफलमित्यस्य अनभिसंहितकर्मफलं चित्तशुद्धिरूपार्थ इत्यर्थः। कूपतटाकाद्यर्थस्थानीयमित्यस्य कूपतटाकादौ योऽर्थः स्नानपानादिक्रिया तत्तुल्यमित्यर्थः। ततश्च समुद्रे सिष्णासुः पुरुषः यथा समुद्रस्नानाधिकारसिद्ध्यर्थं समुद्रस्नानात्प्राक् कूपतटाकादौ स्नानाचमनादिक्रियां करोति, तथा मुमुक्षुः पुरुषः मोक्षसाधनज्ञाननिष्ठाधिकारसिद्ध्यर्थं ततः प्रागफलाभिसन्धि विहितं कर्म कुर्यात्। स यथा कूपादिस्नानानन्तरं समुद्रे स्नाति, देहस्य शुद्धत्वात् , तथाऽयं कर्मयोगानुष्ठानानन्तरं ज्ञाननिष्ठां प्राप्नुयाच्चित्तस्य शुद्धत्वात्। यथा तस्य कूपादिस्नानजं फलं समुद्रस्नानफले एवान्तर्भवति समुद्रस्नानातिरिक्तकूपादिस्नानजन्यफलाभावात् , तथाऽस्यापि कर्मफलं विज्ञानफले एवान्तर्भवति। एवं च कूपस्नानसमुद्रस्नानयोरिव कर्मज्ञानयोगयोरस्त्युपजीव्योपजीवकभावः; कूपस्नानसाध्यत्वात् समुद्रस्नानस्य कर्मयोगसाध्यत्वाच्च ज्ञानयोगस्य। उभयोः फलविषये तु हस्तिमशकान्तरमस्त्येव; कूपस्नानस्य देहमलापाकरण- मात्रफलकत्वात् , समुद्रस्नानस्य च सर्वनदीस्नानजन्यमहाफलकत्वात्। तथा - कर्मयोगस्य चित्तशुद्धिमात्रफलकत्वाद् , विज्ञानस्य च निरतिशयानन्दमोक्षरूपपरमपुरुषार्थफलकत्वादिति केचिद् वर्णयन्ति। अस्मिन् पक्षे - किमर्थं कर्मयोगानुष्ठानमित्याक्षेपस्य समुद्रस्नानाधिकारसिद्ध्यर्थं कूपादिस्नानमिव ज्ञाननिष्ठाधिकारसिद्ध्यर्थं कर्मयोगानुष्ठानमिति कण्ठोक्तमेवोत्तरं सिध्यति। ननु ‘कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम्’ इति न्यायेन पिपासुरुदकपाने यावत्परिमाणं जलं पिबति सर्वतःसम्प्लुतोदकेऽपि तावत्परिमाणमेव जलं पिबति। न च समुद्रजलमपेयमिति वाच्यम् ; बाष्पभूतस्य समुद्रजलस्य पेयत्वात् इत्यनेनोच्यत इति चेत्? मैवम् - दार्ष्टान्तिकाननुरोधात् प्रकृतस्यार्थस्य। न च दार्ष्टान्तिकेऽपि सर्वेषु वेदोक्तेषु कर्मसु यावत्फलं लभते कर्मी तावदेव संन्यासी विज्ञाने फलं लभत इत्यर्थो वाच्य इति वाच्यम् ; कर्मफलेभ्यः स्वर्गादिभ्योऽनित्येभ्यः विज्ञानफलस्य मोक्षस्य नित्यस्य परमोत्कृष्टत्वात्। अत एव हि ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’ति श्रुत्या कर्मफलेषु स्वर्गपशुपुत्रादिषु क्षयिष्णुत्वसातिशयत्वादिदोषदर्शनेन यस्य पुरुषस्य यस्मिन्नहनि विरागो जायते स तस्मिन्नेवाहनि संन्यासं स्वीकुर्यादित्युक्तम्। अन्यथा विज्ञानफलस्यापि कर्मफलतुल्यत्वे ‘अथातो ब्रह्मजिज्ञासा’ इत्यारब्धं वेदान्तशास्त्रं व्यर्थमेव स्यात् ,’अथातो धर्मजिज्ञासा’ इति पूर्वमीमांसाशास्त्रेणैव स्वर्गादिलाभात्। न च - व्यर्थं भवतु , को दोष इति - वाच्यम् ; ‘तरति शोकमात्मवित्’ ‘ब्रह्मविद् ब्रह्मैव भवति’ ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादिज्ञान- तत्फलविधायकश्रुतिशतविरोधात्। तस्याप्यङ्गीकारेऽनुभवविरोधो बलवान् जागर्ति। कर्मिणां दुःखात्मकसंसारस्यानुपरमदर्शनात् , संन्यासिनां तदुपरमेण निरतिशयात्मानन्दानुभवदर्शनाच्च। तस्माद् विज्ञानफलकर्मफलयोः हस्तिमशकयोरिव महदन्तरम्। न चानभिसंहितफलानां कर्मणां मोक्षः फलमिति वाच्यम् ; चित्तशुद्धेरेव फलत्वादिति। भाष्यार्कप्रकाशः १. भाष्ये कर्मेत्यस्य स्थाने ‘कर्मफलम्’ इति रा.पा. भाति। अ.२. श्लो.४६ ]
[[११२]]
अत्र यथा गङ्गायमुनादितत्तन्नदीस्नानादिजन्यानि तानि तानि फलानि समुद्रस्नानादेकस्मादेव पुरुषस्य भवन्ति, तथा तत्तत्कर्मजन्या हैरण्यगर्भाद्यानन्दा एकस्मादेव ब्रह्मज्ञानाद् विदुषो भवन्तीति कतिचिद् वर्णयन्ति। यत्त्वाह रामानुजः– न च वेदोदितं सर्वं सर्वस्योपादेयम् ; यथा सर्वार्थपरिकल्पिते सर्वतःसम्प्लुतोदके उदपाने पिपासोर्यावानर्थः यावदेव प्रयोजनं पानीयं, तावदेव तेनोपादीयते, न सर्वम्। एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतो वैदिकस्य मुमुक्षोर्यदेव मोक्षसाधनं तदेवोपादेयं नान्यदिति। तन्मन्दम् ; सर्वतःसम्प्लुतोदकशब्दात् सर्वार्थपरिकल्पितत्वरूपार्थालाभात् , कूपादेः स्नानादियत्किञ्चिदर्थपरि- कल्पितत्वेन सर्वार्थपरिकल्पितत्वाभावाच्च। न हि स्त्रीपश्वादिकामस्य कूपादिना यःकश्चिदर्थः। सर्वशब्दस्य सङ्कोचश्च न न्याय्यः। तथा यावत्प्रयोजनं तावत् तेनोपादीयत इत्यप्ययुक्तम् ; जलस्यैवोपादेयत्वेन प्रयोजनस्यानुपादेयत्वात्। प्रयोजनवाचिनो(र)[ऽ]र्थशब्दस्य जलवाचित्वाभावात्। यावताऽर्थेन जलेन प्रयोजनं तावदेव जलं तेनोपादीयत इति वक्तव्यत्वात्। न च तथैव वदामीति वाच्यम् ; यावानिति प्रथमान्तपदसत्त्वात्। तेनेति उपादीयत इति च कर्म[कर्तृ]क्रिययोर्द्वयोर्मूलाद् बहिः कल्पितत्वात्। पिपासोरिति च नियन्तु- मशक् यम् , सिष्णास्वादिसत्त्वात्। यदि पिपासोरित्युदाहरणार्थम् , तर्हि आरामसेचनेच्छोरपि ग्रहणं स्यात्। न चेष्टापत्तिः; तस्य सर्वेणापि कूपजलेन प्रयोजनसत्त्वात् तावदेव तेनोपादीयते, न सर्वमिति वक्तुमशक् यत्वात्। तथा ब्राह्मणशब्दाद् वैदिकार्थलाभः प्रागेव प्रत्युक्तः। विजानतः इति शब्दाच्च न मुमुक्षुलाभः, वेदवादरतानां वैदिकानां बहूनां कामात्मनामेव दर्शनात् , वैदिकस्य ‘अथातो धर्मजिज्ञासा’ इति कर्मस्वेव प्रवृत्तत्वेन मुमुक्षुत्वासम्भवात् , ‘त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुने’ति भगवतैव वैदिकत्वस्य कामहेतुत्वेन दूषितत्वात् , निष्कामस्यैव मुमुक्षुत्वाच्च। निष्कामस्तु न २वैदिकः, किन्तु वेदान्त्येवेति सिद्धान्तात्। यो विशेषेणात्मतत्त्वं विजानाति, स हि विजानन्नित्युच्यते। स च मुक्त एवेति किमिति मुमुक्षुत्वं तस्य? त्वयाऽपि नित्यमुक्तानामनन्तगरुडादीनाम् , ईश्वरस्य च विजानत्त्वमभ्युपगतम्। किञ्च मुमुक्षोरेव ज्ञानेऽधिकारः। मुमुक्षुर्हि वेदान्तश्रवणादिकं कृत्वा तमात्मानं विशेषेण जानातीति कथं विजानत्त्वस्यैव मुमुक्षु[त्वरूप]त्वम्? मुमुक्षुत्वानन्तरभाव्यत्वाद् विज्ञानस्य। यदेव मोक्षसाधनं तदेवोपादेयमिति सर्वमपि वाक् यं मूलाद् बहिः कल्पितत्वात् सुतरामप्रमाणम्। वेदान्तेष्वेव मोक्षसाधनज्ञानश्रवणाद् वेदेषु मोक्षसाधनमित्यप्ययुक्तम् ; वेदेष्वेव मोक्षसाधनस्यापि धर्मादिसाधनयज्ञादेरिव श्रवणे सति वेदान्तश्रवणाद्यानर्थक् यात् ; पूर्वोत्तरमीमांसाभेदेन शास्त्रभेदकल्पनस्याप्ययुक्तत्वापत्तेः। न च - सर्वशब्दस्वारस्याद् उपनिषदोऽपि वेदा एवेति - वाच्यम् ; ‘त्रैगुण्यविषया वेदाः’ इति भगवतैवोक्तत्वाद् , उपनिषदाञ्च सत्त्वादिगुणातीतब्रह्मात्मतत्त्व- प्रतिपादकत्वात्॥४६॥
कर्मणीति। एवकारार्थमाह— न ज्ञाननिष्ठायामिति। ते तवेति। क्षत्रियस्येत्यर्थः। ब्राह्मणस्यैव संन्यासाधिकारात् , ‘ब्राह्मणो भाष्यार्कप्रकाशः तव च — कर्मणीति। कर्मण्येवाधिकारो, न ज्ञाननिष्ठायां, ते तव। तत्र च कर्म कुर्वतो मा फलेष्वधिकारो कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। १. ‘तत्फलाभिलाषोऽपि स्यादिति’ इति पा.। २. वेदोक्तकर्माधिकृतः इत्यर्थः। आनन्दगिरिकृतव्याख्या
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
ननु तर्हि यत् साक्षादपरिमितात्मसुखप्राप्तिसाधनमात्मज्ञानं, तदेव मह्यमुपदिश। किमनेन योगेन परम्परया पुरुषार्थसाधनेनेत्याशङ्क्याह— [तव चेति।] तव च कर्मण्येवाधिकारः, पुत्रवित्ताद्यभिस्नेहस्य विद्यमानत्वादित्यर्थः॥४७॥
तर्हि परम्परया पुरुषार्थसाधनं योगमार्गं परित्यज्य साक्षादेव पुरुषार्थकारणमात्मज्ञानं तदर्थमुपदेष्टव्यम् । तस्मै हि स्पृहयति मनो मदीयमित्याशङ्क्याह— तव चेति। तर्हि १तत्फलाभिलाष्यपि स्यामिति? नेत्याह— मा फलेष्विति। पूर्वोक्तमेवार्थं प्रपञ्चयति— मा
[[११३]]
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥४७॥
निर्वेदमायाद्’ ‘ब्राह्मणः प्रव्रजेदि’त्यादिश्रुतिभ्यः। यद्वा विवेकवैराग्यादिरहितस्येत्यर्थः। विवेकादिशालिन एव संन्यासेऽधिकारात्। ज्ञाननिष्ठा हि सर्वकर्मसंन्यासः, २तत्पूर्विकेति वा। तृष्णा स्पृहा। कस्यांचिदपीति ।स्वप्नाद्यवस्थास्वपीत्यर्थः। न च ‘मा फलेषु कदाचने’त्यनेन ‘फलहेतुर्मा भू’रित्यस्य पौनरुक्त्यमिति वाच्यम् ; ‘फलेषु स्वर्गादिषु’ इति, ‘कर्मफलस्य जन्मनः’ इति च व्याख्यातत्वात्। यदि तव स्वर्गादिषु तृष्णा स्यात् तर्हि तदनुभवाय तव जन्मापि स्यात् ; तस्मात् फलहेतुर्जन्महेतुश्च मा भूस्त्वमिति वक्तुं वाक् यद्वयस्यावश्यकत्वात्। कर्मफलहेतुत्वं नाम कर्मफलरूपजन्मानुभवितृत्वम्। फलेष्वधिकारो नाम फलविषयस्पृहेति विवेकः। यदि कर्मफलं नेष्यते, तर्हि दुःखरूपेण कर्मणा किमिति शङ्कायामाह— मा ते सङ्गोऽस्त्वकर्मणीति। कर्मशब्दस्य क्रियायां यज्ञादिकर्मणि च प्रसिद्धत्वादाह— अकर्मणि अकरणे इति। कर्मणामकरणे इत्यर्थः। फलमनभिसन्धाय त्वया कर्माण्येव कर्तव्यानि, न तु संन्यासः, तत्र तवानधिकारादिति श्लोकस्य फलितार्थः। यत्तु रामानुजः– ‘फलस्य च क्षुन्निवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेय’मिति, तत्तुच्छम् ; भोजनादिकर्मणामकर्मत्वात् क्षुन्निवृत्त्या- देश्चाफलत्वात्। न हि केनचिच्छास्त्रेण कश्चिद् भोजनादिकर्मण्यधिक्रियते, येन भोजनादिकर्मण्येव तवाधिकार इत्युच्येत। नक्तभोजनोपवासपारणादिकं तु नित्यनैमित्तिकादिकर्माङ्गमेवेति न तत्र पृथग्विधिः। किञ्च यदि क्षुन्निवृत्त्यादिः फलं स्यात् , कथं तत्सङ्गो भोक्तुर्न भवेत्? यज्ञादिकर्मणः स्वर्गादिफलं तु कालान्तरभावीति तत्सङ्गस्त्यक्तुं शक्यः पुंसा। अपि च फलमनभिसन्धाय यज्ञादीनि क्रियन्तां नाम, क्षुन्निवृत्तिमनभिसन्धाय कथं क्षुधितो भोजने प्रवर्तेत? अन्यथा अक्षुधितस्यापि भोजने प्रवृत्तिः स्यात्। यत्तु क्षुत्पिपासादेः प्राणधर्मत्वानुसन्धानं, भोजनादेश्च शरीरधर्मत्वानुसन्धानं सा ज्ञाननिष्ठैव, अविक्रियात्मदर्शनहेतुत्वात्। तथा कर्मफलयोर्हेतुर्मा भूरिति च रामानुजोक्तमसत् ; कर्मण्येवाधिकारः इति कर्महेतुत्वस्योक्तत्वात्। यच्चोक्तम् - वेदान्तदेशिकेन कर्तृत्वानभिसन्धानमेव कर्माहेतुत्वमिति; तच्चायुक्तम् ; कर्तृत्वानभिसन्धानस्य फलाहेतुत्वात्। यः ‘कर्ताऽहम्’ इति मन्यते, स एव हि फलमभिसन्धत्ते; कर्माहेतुत्वे तु कर्मैव न स्यात् ; यथा फलाहेतुत्वे फलस्य स्वरूपानिष्पत्तिः, तथा कर्माहेतुत्वे किमिति कर्मणः स्वरूपानिष्पत्तिर्न भवेत्?॥४७॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
ऽस्तु कर्मफलतृष्णा मा भूत् कदाचन कस्यांचिदप्यवस्थायामित्यर्थः। यदा कर्मफले तृष्णा ते स्यात् , तदा कर्मफलप्राप्तेः हेतुः स्याः। एवं मा कर्मफलहेतुः भूः। यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते, तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्। यदि कर्मफलं नेष्यते, किं कर्मणा दुःखरूपेणेति मा ते तव सङ्गोऽस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥४७॥
[आनन्दगिरिकृतव्याख्या]
कर्मेति। फलाभिसन्ध्यसम्भवे कर्माकरणमेव १श्रद्दध्यामित्याशङ्क्याह— मा त इति। ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति— कर्मण्येवेति। कर्मण्येवेत्येवकारार्थमाह— न ज्ञानेति। न हि तत्राब्राह्मणस्यापरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः। फलैस्तर्हि सम्बन्धो दुर्वारः स्यादित्याशङ्क्याह— तत्रेति। कर्मण्येवाधिकारे सतीति सप्तम्यर्थः। फलेष्वधिकाराभावं स्फोरयति— कर्मेति। कर्मानुष्ठानात् प्राग् ऊर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह— कस्याञ्चिदिति। फलाभिसन्धाने दोषमाह— यदेति। एवं कर्मफलतृष्णाद्वारेणेत्यर्थः। कर्मफलहेतुत्वं विवृणोति— यदा हीति। तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यमिति शङ्कामनुभाष्य दूषयति— यदीत्यादिना। अकर्मणि ते सङ्गो मा भूदित्युक्तमेव स्पष्टयति— अकरण इति॥४७॥
१. ‘श्रद्दधामि’ इति पा.। २. सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा इत्यर्थः। अ.२. श्लो.४७ ]
[[११४]]
योगस्थ इति। ‘हे धनञ्जय! सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समो भूत्वा योगस्थःसन् कर्माणि कुरु’ इत्यन्वयः। फलप्रयुक्तेनेति। फलाभिसन्धिमतेत्यर्थः। अथवा प्रयुक्तं प्रयोग इति भावे क्तः, प्रसङ्ग इति यावत्। पुंसेति शेषः। फलप्रसङ्गेन कर्म न कर्तव्यम्। फलमभिसन्धाय कर्म न कुर्याद् विवेकीत्यर्थः। इति शङ्कायामिति शेषः। उच्यते भगवतेति शेषः। कर्माणि कुर्वित्यत्र किमर्थमित्याशङ्कां पूरयति— केवलमीश्वराराधनार्थमिति। तत्रापि ईश्वराराधनत्वेऽपीत्यर्थः। ईश्वरप्रीतावपि स्पृहा न कार्येत्यर्थः। ईश्वरप्रीत्याशाया अपि सिद्ध्यसिद्धिशङ्कादिना चित्तचाञ्चल्यहेतुत्वादिति भावः। तद्विपर्ययजेति। तच्छब्देन चित्तशुद्धिः परामृश्यते। चित्तशुद्धेर्विपर्ययश्च चित्ताशुद्धिः, तस्माज्जायत इति तज्जा। ज्ञानप्राप्तौ रागः, तदप्राप्तौ द्वेषश्च न कर्तव्य इति भावः। योगस्थशब्दगतयोगशब्दार्थं भगवानेव तुरीयपादेन वक्तीत्याह— कोऽसौ योग इत्यादि। उच्यत इति। शास्त्रज्ञैरिति शेषः। यत्तु रामानुजः - राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योः समो भूत्वेति, तत्तुच्छम् ; ‘मा फलेषु कदाचने’त्यनेनैव राज्यादिफलसङ्गस्याकर्तव्यत्वस्योक्तत्वात्। बन्धुप्रभृतिषु सङ्गाकर्तव्यत्वस्य ‘अशोच्यानि’त्यारभ्य ‘न त्वं शोचितुम- र्हसी’त्येतदन्तेन ग्रन्थेन प्रतिपादितत्वात्। प्रधानफलसिद्ध्यसिद्ध्योः समत्वमुपेक्ष्य तदन्तर्भूतविजयादिसिद्ध्यसिद्धिसमत्ववचनस्यायुक्त- त्वात्। प्रधानफलसिद्ध्यसिद्धिसमत्वस्य इतः प्रागनुक्तत्वाच्च। ‘सुखदुःखे समे कृत्वा’ इति श्लोके जयापजयसमत्वस्योक्तत्वाच्च॥४८॥
दूरेणेति। हे धनञ्जय! बुद्धियोगात् कर्म दूरेणावरं हि। बुद्धौ शरणमन्विच्छ। फलहेतवः कृपणा भवन्तीति शेषः। ५बुद्धिना(?) आसक्तिरकरणे न युक्ता चेत् , तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यमित्याशङ्कामनूद्य श्लोकान्तरमवतारयति—यदीत्यादिना। वक्ष्यमाणयोगमुद्दिश्य तन्निष्ठो भूत्वा कर्माणि क्लेशात्मकान्यपि विहितत्वाद् ३अनुतिष्ठेत्याह— योगस्थः सन्निति। कर्मानुष्ठानस्योद्देश्यं दर्शयति— केवलमिति। फलान्तरापेक्षामन्तरेण ईश्वरार्थं तत्प्रसादनार्थमनुष्ठानमित्यर्थः। तर्हीश्वरसंतोषोऽभिलाषगोचरीभूतो भविष्यति? नेत्याह— तत्रापीति। ईश्वरप्रसादनार्थे कर्मानुष्ठाने स्थितेऽपीत्यर्थः। सङ्गं त्यक्त्वा कुर्विति पूर्वेण सम्बन्धः। आकाङ्क्षितं पूरयित्वा सिद्धि- शब्दार्थमाह— फलेति। तद्विपर्ययजा सत्त्वाशुद्धिजन्या ४ज्ञानाप्राप्तिलक्षणेति यावत्। कर्माण्यनुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृत- माकाङ्क्षापूर्वकं प्रकटयति— कोऽसावित्यादिना॥४८॥
किमिति योगस्थेन तत्त्वज्ञानमुद्दिश्य कर्म कर्तव्यम् , फलाभिलाषेणापि तदनुष्ठानस्य सुलभत्वादित्याशङ्क्य, यथोक्तयोगयुक्तं कर्म
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यदि १कर्मफलप्रयुक्तेन न कर्तव्यं कर्म , कथं तर्हि कर्तव्यमित्युच्यते— योगस्थ इति। योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थं,२ तत्रापीश्वरो मे तुष्यत्विति सङ्गं त्यक्त्वा, धनञ्जय ! फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः, तद्विपर्ययजाऽसिद्धिः, तयोः सिद्ध्यसिद्ध्योरपि समः तुल्यो भूत्वा कुरु कर्माणि। कोऽसौ योगो यत्रस्थः कुर्वित्युक्तम्? इदमेव तत् - सिद्ध्यसिद्ध्योः समत्वं योग उच्यते॥४८॥
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्मोक्तम् , एतस्मात् कर्मणः— दूरेणेति। दूरेण अतिविप्रकर्षेण हि योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय !। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥४८॥
दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय !। १. ‘कर्म’ इति नास्ति क्वचित् । २. ‘ईश्वराराधानार्थम्’ इति रा.पा.। ३. ‘अनुष्ठेयानीत्याह’ इति पा.। ४. ‘अज्ञानप्राप्तिलक्षणेति’ इति पा.। ५. ‘बुद्ध्या व्यवसायात्मकबुद्ध्या’ इति पाठो युक्तः।
[[११५]]
व्यवसायात्मकबुद्धिना योगो यस्य तद् बुद्धियोगम्४, तस्माद् बुद्धियोगात्। फलितमाह—समत्वबुद्धियुक्तात् कर्मण इति। जन्ममरणादि- हेतुत्वादिति। फलार्थिना क्रियमाणस्य कर्मण इति भावः। स्वर्गादिफलानुभवार्थं जन्म, तत्सुकृतक्षयानन्तरं मरणं चेति बोध्यम्। आदिशब्दात् सुखदुःखादिग्रहणम्। परिपाकजा परिणामजाता, फलभूतेति यावत्। सांख्ये बुद्धौ सांख्यविषयायां बुद्धावित्यर्थः। परमार्थज्ञानमेव शरणमभयप्राप्तिकारणं यस्य स परमार्थज्ञानशरणः। ‘फलहेतवः सन्तः अवरं कर्म कुर्वाणाः कृपणाः’ इत्यन्वयः। फलहेतव इत्यनेनार्थसिद्धस्यैव वचनमवरं कर्म कुर्वाणा इति। कर्मफलतृष्णाशालित्वरूपफलहेतुत्ववन्तो ह्यवरं कर्म कुर्वन्ति। कर्मण एकस्यैवोत्कर्षापकर्षौ तत्कर्तृबुद्धिगतफलासङ्गतत्सङ्गप्रयुक्तावेव, न तु स्वाभाविकाविति बोध्यम्। एतेन - अविवेकिकामिजनसमाश्रयात् कर्मणामेवापकर्षो जात इति तन्निन्दा सूच्यते। फलहेतूनां कृपणत्वे श्रुतिं प्रमाणयति— यो वेति। हे गार्गि! यो वा पुरुषः एतदक्षरम् अविनाशि ब्रह्मेति यावत्। अविदित्वा अस्माल्लोकान्मनुष्यलोकात् प्रैति, मनुष्यलोकं विहाय स्वर्गादिलोकं प्राप्नोति, स्वकृतफलसङ्ग- पूर्वककर्मफलानुभवार्थं भूरादिलोकान् प्राप्नोतीत्यर्थः। सोऽ(पि)विद्वान् पुरुषः कृपणः शोच्यः। अस्माल्लोकादिति ल्यब्लोपे पञ्चमी। यद्वा अस्माल्लोकाद् देहात् प्रैति उत्क्रामति, म्रियत इति यावत्। तत्त्वविदः उत्क्रान्त्यभावादिति भावः। यत्तु रामानुजः - बुद्धियोगादित्यस्य बुद्धियोगयुक्तात् कर्मणः इत्यर्थमाह, अत्रोपपत्तिमाह अजहल्लक्षणयेति वेदान्तदेशिकश्च यत् ; तदुभयं तुच्छम् ; ५लक्षणाश्रयणस्य दुष्टत्वात् , बुद्धियुक्तादित्यनेनैवेष्टसिद्धौ बुद्धियोगयुक्तादित्यस्यानर्थक् याच्च॥४९॥
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥४९॥
स्तुवन्ननन्तरश्लोकमुत्थापयति— यत्पुनरिति। अवरं कर्म बुद्धिसम्बन्धविधुरमिति१ शेषः। बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति— बुद्धीति। बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति— बुद्धाविति। यत्तु फलेच्छयाऽपि कर्मानुष्ठानं सुकरमिति, तत्राह— कृपणेति[णा इति]। निकृष्टं कर्मैव विशिनष्टि—फलार्थिनेति। कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टमित्याशङ्क्य प्रतीकमुपादाय व्याचष्टे— बुद्धीत्यादिना। फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह— जन्मेति। समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह— यत इति। योगविषया बुद्धिः समत्वबुद्धिः। बुद्धिशब्दस्यार्थान्तरमाह— तत्परिपाकेति। तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते। तस्य परिपाकस्तत्फलभूता बुद्धिशुद्धिः। शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह— अभयेति। २सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक् यार्थमाह— परमार्थेति। तथाविधज्ञानशरणत्वे हेतुमाह— यत इति। फलहेतुत्वं विवृणोति— फलेति। तेन परमार्थज्ञानशरणतैव युक्तेति शेषः। परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति— यो वा इति। ३अस्थूलादिविशेषणमेतदित्युच्यते॥४९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं, बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः, जन्ममरणादिहेतुत्वात् , हे धनञ्जय ! यत एवं ततः योगविषयायां बुद्धौ, तत्परिपाकजायां वा सांख्यबुद्धौ शरणम् आश्रयम् अभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व। परमार्थज्ञानशरणो भवेत्यर्थः। यतोऽवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णा- प्रयुक्ताः सन्तः, ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः’ (बृ.उ.३.८.१०) इति श्रुतेः॥४९॥
१. ‘विरुद्धमिति’ इति पा.। २. ‘बुद्धौ’ इत्यत्र सप्तम्याः वाच्यार्थो न विवक्षितः, लक्षणया तु कर्मत्वं विवक्षितम्। तथा च ‘बुद्धिं शरणमन्विच्छ’ इत्यत्र सांख्यबुद्धिं गृहीत्वा वाक्यतात्पर्यार्थमाहेत्यर्थः। ३. ‘अस्थूलमनणु’ इत्यादिपूर्ववाक्ये प्रकृतं ब्रह्मेत्यर्थः। ब्रह्मज्ञानहीनाः कृपणाः इति श्रुतावुक्तम्। अतः कृपणताव्यावृत्तये परमार्थज्ञानशरणता कर्तव्या। सा च तत्प्राप्तिसाधनकर्मयोगानुष्ठानलक्षणा। बुद्धिशब्देन योगबुद्धिग्रहणे सांख्यबुद्धिग्रहणे च परमार्थज्ञानशरणता समाना। ४. व्यधिकरणबहुव्रीहिः। अन्यपदार्थः कर्म। ५. अस्माभिस्तु बहुव्रीहिसमासाश्रयणेनोक्तार्थो लब्धः। यद्यपि बहुव्रीहावपि लक्षणाऽस्त्येव, तथापि सा निरूढेति न दोषः इति भावः। अ.२. श्लो.४८-४९ ]
[[११६]]
बुद्धीति। बुद्धियुक्तः पुरुष इह उभे सुकृतदुष्कृते जहातीत्यन्वयः। कर्मणि समत्वं नाम कर्मजन्यसिद्ध्यसिद्ध्योः समत्वम् , तस्यैव प्रकृतत्वात्। अथवा फलपरित्यागान्नित्येषु नैमित्तिकेषु काम्येषु च कर्मसु समत्वबुद्धिः, सर्वेषामपि सत्त्वशुद्धिरूपैकफलकत्वेन समत्वात्। ननु ‘तद्विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती’ति श्रुत्या आत्मविद एव पुण्यपापपरित्यागश्रवणात् कथं कर्मयोगिनः पुण्यपापविधूननम्? अत आह— सत्त्वशुद्धिज्ञानप्राप्तिद्वारेणेति। सत्त्वशुद्ध्या यज्ज्ञानं तत्प्राप्तिद्वारेण, सत्त्वशुद्धिपूर्वकज्ञान- प्राप्तिद्वारेणेत्यर्थः। कर्मयोगात् सत्त्वशुद्धिस्ततो ज्ञानप्राप्तिस्तया सुकृतदुष्कृतपरित्याग इति भावः। स्वभावादिति बन्धकत्वरूपात् स्वभावादित्यर्थः। यत्तु रामानुजः— बुद्धियुक्तो बुद्धियोगयुक्त इति। योगो बुद्धियोगः, कौशलम् अतिसामर्थ्यम् , अतिसामर्थ्यसाध्य इत्यर्थ इति, तत्तुच्छम् ; बुद्धिशब्दाद् बुद्धियोगरूपार्थालाभात् प्रकृतयोगस्य कर्मयोगत्वेन बुद्धियोगशब्दवाच्यत्वाभावात्। बुद्धियोगो हि ज्ञानयोगः, बुद्धेर्ज्ञानपर्यायत्वात्। न च बुद्धियोगादिति पूर्वश्लोकादत्र बुद्धेर्बुद्धियोगार्थबोधकत्वमिति वाच्यम् ; तत्रापि बुद्धियुक्तादित्येवार्थस्य सिद्धान्तितत्वात्। योगः कौशलमिति पदद्वयस्य स्वारसिकं सामानाधिकरण्यं भञ्जयित्वा कौशलसाध्य इति लाक्षणिकार्थ- स्वीकारस्याप्रमाणत्वाच्च॥५०॥
पूर्वोक्तसमत्वबुद्धियुक्तस्य स्वधर्मानुष्ठाने प्रवृत्तस्य किं स्यादित्याशङ्क्याह— समत्वेति। बुद्धियुक्तः स्वधर्माख्यं कर्मानुतिष्ठन्निति शेषः२। बुद्धियोगस्य फलवत्त्वे फलितमाह— तस्मादिति। पूर्वार्धं व्याचष्टे— बुद्धीत्यादिना। ननु समत्वबुद्धिमात्रान्न पुण्यपापनिवृत्तिर्युक्ता, परमार्थदर्शनवतस्तन्निवृत्तिप्रसिद्धेरिति? तत्राह— सत्त्वेति। उत्तरार्धं व्याचष्टे— तस्मादिति। स्वधर्ममनुतिष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयमित्याशङ्क्याह— योगो हीति। तर्हि यथोक्तयोगसामर्थ्यादेव दर्शितफलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्तेत्याशङ्क्याह— स्वधर्माख्येष्विति। ईश्वरार्पितचेतस्तया कर्मसु वर्तमानस्यानुष्ठाननिष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलमिति योजना। कर्मणां बन्धस्वभावत्वात् तदनुष्ठाने बन्धानुबन्धः स्यादित्याशङ्क्य , कौशलमेव विशदयति— तद्धीति। समत्वबुद्धेरेवंफलत्वे स्थिते फलित- मुपसंहरति— तस्मादिति ॥५०॥
समत्वबुद्धियुक्तस्य सुकृतदुष्कृततत्फलपरित्यागेऽपि कथं मोक्षः स्यादित्याशङ्क्याह— यस्मादिति। समत्वबुद्ध्या यस्मात्
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्॥५०॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति तच्छृणु— बुद्धीति। बुद्धियुक्तः कर्मणि समत्वविषयया बुद्ध्या युक्तो बुद्धियुक्तः। स जहाति परित्यजति, इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यपापे, सत्त्वशुद्धिज्ञानप्राप्ति- द्वारेण यतः, तस्मात् समत्वबुद्धियोगाय युज्यस्व घटस्व। योगो हि कर्मसु कौशलम्। स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिरीश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः। तद्धि कौशलं यद् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावान्निवर्तन्ते१। तस्मात् समत्वबुद्धियुक्तो भव त्वम्॥५०॥
यस्मात्— कर्मजमिति। कर्मजं फलं त्यक्त्वेति व्यवहितेन सम्बन्धः। इष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो १. ‘निवर्त्यन्ते’ इति पा.। २. इत्थं शेषपूरणेन श्लोकव्याख्यानं भाष्ये ‘समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत् फलं प्राप्नोति’ इति अवतारिकया सूचितम्।
[[११७]]
बुद्धियुक्ताः पुरुषाः कर्मजं फलं त्यक्त्वा मनीषिणः सन्तः जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्तीत्यन्वयः। ज्ञानिनो भूत्वेति। चित्तशुद्धिद्वारा आत्मज्ञाननिष्ठां प्रपद्येत्यर्थः। गच्छन्तीति वर्तमाननिर्देशादाह— जीवन्त एवेति। अन्यथा हि गमिष्यन्तीति वक्तव्यं स्यात्। ‘तद्विष्णोः परमं पद’मिति श्रुतेराह— विष्णोरिति। किं तत् पदम्? अत आह— मोक्षाख्यमिति। सच्चिदानन्दलक्षणं स्वरूपमित्यर्थः। आत्मन्यनात्माध्यासहेतोरविद्यायाः ‘अहं ब्रह्म’ इति विद्यया, तेजसा तिमिरस्येव, नाशे सति सच्चिदानन्दब्रह्मात्म- साक्षात्कारो जायते। स एव मोक्ष इत्युच्यते। स च जीवद्दशायामेव सुलभः, शमदमादिसंस्कृतमनःसाध्यत्वाद् विद्यायाः ‘ब्रह्मविद् ब्रह्मैव भवती’ति विद्याया अव्यवहितफलत्वाच्च मोक्षस्य। न च विदेहकैवल्यस्य मोक्षस्य कथं जीवद्दशायां लाभ इति वाच्यम् ; आत्मनः सर्वदाऽपि विदेहत्वात् , ‘निष्कलं निष्क्रियं शान्तम्’ ‘अशब्दमस्पर्शमरूपमव्ययम्’ इत्यादिश्रुतेः, सदेहत्वस्य चाविद्यासिद्धत्वात्। विद्यया आत्मनि सदेहत्वभ्रान्तिमात्रस्यैव निवर्त्यत्वात् , रज्जुसर्पभ्रान्तेराप्तोपदेशनिवर्त्यत्ववत्। तस्मादविक्रिये आत्मनि स्वयम्प्रभे कालत्रयेऽपि बन्धतद्धेतुसङ्गाभावात् सिद्धा जीवन्मुक्तिरात्मज्ञस्य। ननु ‘सुकृतदुष्कृते जहाति’ ‘अनामयं पदं गच्छन्ती’ति साक्षाज्ज्ञानफलस्य सुकृतदुष्कृतप्रहाणस्य परमपदप्राप्तेश्च प्रोक्तत्वान्नात्र कर्मयोगप्रसञ्जनमतीवोचितमित्यत आह— अथवेति। अयं च श्लोकानामर्थः। हे धनञ्जय! बुद्धियोगाज्ज्ञानयोगात् सांख्ययोगादित्यर्थः। कर्म कर्मयोगः दूरेणावरं हि। तस्माद् बुद्धौ सांख्ये शरणमन्विच्छ। कर्मफलहेतवस्त्वतीव कृपणाः। कर्मयोगनिष्ठास्तु नातीव कृपणाः, अफलहेतुत्वादित्यर्थः। बुद्धियुक्तः सांख्यबुद्धियुक्तः इह उभे सुकृतदुष्कृते जहाति, ‘तद्विद्वान् पुण्यपापे विधूय’ इति श्रुतेः। तस्मात् त्वं योगाय सांख्यबुद्धिजनककर्मयोगाय तावद् युज्यस्व। ‘योगः कर्मसु कौशलम्’ इत्यनतिरिक्तार्थम्। बुद्धियुक्ताः सांख्यज्ञानयुक्ता मनीषिणो विद्वांसः कर्मजं फलं त्यक्त्वा कर्मत्यागद्वारा तत्फलत्यागं कृत्वेत्यर्थः। जन्मबन्धविनिर्मुक्ताः सन्तः अनामयं पदं गच्छन्ती- जातम्। बुद्धियुक्ताः समत्वबुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणो ज्ञानिनो भूत्वा जन्मबन्ध- विनिर्मुक्ताः जन्मैव बन्धो जन्मबन्धस्तेन विनिर्मुक्ताः, जीवन्त एव जन्मबन्धविनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रवरहितमित्यर्थः। अथवा ‘बुद्धियोगाद् धनञ्जय’(भ.गी.२.४९) इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतःसम्प्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता, साक्षात् सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात्॥५१॥
कर्मानुष्ठीयमानं दुरितादि त्याजयति, तस्मात् परम्परयाऽसौ मुक्तिहेतुरित्यर्थः। मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मानुतिष्ठन्तस्ततो जातं फलं १देहप्रदं हित्वा जन्मलक्षणाद् बन्धाद् विनिर्मुक्ता वैष्णवं पदं सर्वसंसारसंस्पर्शशून्यं प्राप्नुवन्तीति श्लोकोक्तमर्थं श्लोकयोजनया दर्शयति— कर्मजमित्यादिना। इष्टो देहो देवादिलक्षणः, अनिष्टो देहस्तिर्यगादिलक्षणः, तत्प्राप्तिरेव कर्मणो जातं फलम्। तद् यथोक्तबुद्धियुक्ता ज्ञानिनो भूत्वा तद्बलादेव परित्यज्य बन्धविनिर्मोकपूर्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः। बुद्धियोगादित्यादौ बुद्धिशब्दस्य समत्वबुद्धिरर्थो व्याख्यातः। सम्प्रति परम्परां परिहृत्य सुकृतदुष्कृतप्रहाणहेतुत्वस्य समत्वबुद्धावसिद्धेर्बुद्धिशब्दस्य योग्यमर्थान्तरं कथयति— अथवेति। अनवच्छिन्नवस्तुगोचरत्वेनानवच्छिन्नत्वं तस्याः सूचयन् बुद्ध्यन्तराद् विशेषं दर्शयति— सर्वत इति। असाधारणं निमित्तं तस्या निर्दिशति— कर्मेति। यथोक्तबुद्धेर्बुद्धिशब्दार्थत्वे हेतुमाह— साक्षादिति। जन्मबन्धविनिर्मोकादिरादिशब्दार्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥५१॥
अ.२. श्लो.५०-५१ ] १. ‘देहप्रभेदं’ इति पा.।
[[११८]]
त्यनतिरिक्तार्थम्। परमार्थदर्शनं परतत्त्वज्ञानं लक्षणं स्वरूपं यस्याः सा परमार्थदर्शनलक्षणा कर्मयोगजा सत्त्वशुद्धिः, तज्जा कर्मयोगजसत्त्वशुद्धिजा बुद्धिः , सांख्यबुद्धिरित्यर्थः। दर्शिता भगवतेति शेषः। तत्र हेतुमाह— साक्षादिति। कर्मयोगस्य परम्परया सुकृतदुष्कृतप्रहाणादिहेतुत्वमस्ति, न तु साक्षात्। ज्ञानयोगस्य तु साक्षात् तदस्तीति कृत्वा प्रकृतश्लोकेषु साक्षात् तद्धेतुत्वश्रवणात् साक्षात् तद्धेतुत्ववान् सांख्ययोग एवेहाप्युक्त इति ज्ञेयमिति भावः॥५१॥
यदेति। यदा ते बुद्धिः मोहकलिलं व्यतितरिष्यति, तदा श्रोतव्यस्य श्रुतस्य च निर्वेदं गन्तासि। कालुष्यमेव कार्यद्वारा दर्शयति— येनेति। आत्मानात्मविवेकरूपो बोधो ज्ञानं, तं कलुषीकृत्य अपहृत्य, विषयं शब्दादिकं प्रति अन्तःकरणं येन प्रवर्त्यते तत् कालुष्यमित्यन्वयः। विवेकजलकलुषीकरणादविवेकस्य रजस इव कलिलशब्दव्यवहार इति भावः। श्रुतेन किम्? श्रोतव्येन किम्? इति श्रुतश्रोतव्यविषयं निर्वेदं प्राप्स्यसीत्यर्थः। श्रुतं श्रोतव्यञ्चेति। आत्मनोऽन्यत् सर्वं धर्मशास्त्रादिकमित्यर्थः। आत्मनस्तु यावत्साक्षात्कारं सर्वदाऽपि श्रोतव्यत्वान्न तत्र निर्वेद उचितः - ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ इति श्रुतेः ‘आसुप्तेरामृतेः कालं नयेद् वेदान्तचिन्तया’ इति स्मृतेश्च॥५२॥
२यस्मिन् कर्मणि क्रियमाणे परमार्थदर्शनलक्षणा बुद्धिरुद्देश्यतया युज्यते, तस्मात् कर्मणः सकाशादितरत् कर्म तथाविधोद्देश्य- भूतबुद्धिसम्बन्धविधुरमतिशयेन ३निष्कृष्यते, ततश्च परमार्थबुद्धिमुद्देश्यत्वेनाश्रित्य कर्मानुष्ठातव्यम् , परिच्छिन्नं फलान्तरमुद्दिश्य तदनुष्ठाने कार्पण्यप्रसङ्गात्। किञ्च परमार्थबुद्धिमुद्देश्यामाश्रित्य कर्मानुतिष्ठन् अन्तःकरणशुद्धिद्वारा परमार्थदर्शनसिद्धौ जीवत्येव देहे सुकृतादि हित्वा मोक्षमधिगच्छति। तथा च परमार्थदर्शनलक्षणयोगार्थं मनो धारयितव्यम्। योगशब्दितं हि परमार्थदर्शनमुद्देश्यतया४ कर्मसु अनुतिष्ठतो नैपुण्यमिष्यते। यदि च परमार्थदर्शनमुद्दिश्य तद्युक्ताः सन्तः समारभेरन् कर्माणि, तदा तदनुष्ठानजनितबुद्धिशुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य निर्मुक्तबन्धना मुक्तिभाजो भवन्तीत्येवमस्मिन् पक्षे श्लोकत्रयाक्षराणि व्याख्यातव्यानि॥५१॥
यथोक्तबुद्धिप्राप्तिकालं प्रश्नपूर्वकं प्रकटयति— योगेति। श्रुतं श्रोतव्यं दृष्टं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धान्नोक्ता बुद्धिरुदेष्यतीत्याशङ्क्याह— यदेति। विवेकपरिपाकावस्था कालशब्देनोच्यते। कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिनष्टि— येनेति। तद् अनर्थरूपं कालुष्यम्। तवेत्यन्वयार्थं पुनर्वचनम्। बुद्धिशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्यप्राप्तिं दर्शयति— तदेति। अध्यात्म- शास्त्रातिरिक्तं शास्त्रं श्रोतव्यादिशब्देन गृह्यते। उक्तं वैराग्यमेव स्फोरयति— श्रोतव्यमिति। यथोक्तविवेकसिद्धौ सर्वस्मिन्ननात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः॥५२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
योगानुष्ठानजनितसत्त्वशुद्धिजा बुद्धिः कदा १प्राप्स्यत इत्युच्यते— यदेति। यदा यस्मिन् काले ते तव मोहकलिलं मोहात्मकमविवेकरूपं कालुष्यं, येनात्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्त्यते तत् , तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति। शुद्धभावमापत्स्यत इत्यर्थः। तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च। तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्यभिप्रायः॥५२॥
श्रोतव्यस्ये(ष्टा)[ति]। अध्यात्मशास्त्रातिरिक्तशास्त्रस्येत्यर्थः॥५२॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२॥
१. ‘प्राप्यते’ इति पा.। २. अथवेत्युक्तपक्षे ‘दूरेण ह्यवर’मित्यादिश्लोकत्रयं व्याचष्टे— यस्मिन्नित्यादिना। ३. ‘निकृष्यते’ इति पाठो युक्तः। ४. आश्रितमिति शेषः।
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
[[११९]]
‘श्रुती’ति श्लोकमवतारयति— मोहेति। आत्मानात्मविवेकाच्छादकस्य मोहकलिलस्यात्यये नाशे सति आत्मानात्मविवेक- रूपा प्रज्ञा लभ्यते पुंसा। तादृशश्च पुरुषः कर्मयोगजं परमार्थयोगं सांख्ययोगरूपं फलं कदा प्राप्स्यसि? इत्येतदहं वच्मि, तत् त्वं शृणु; श्रुतिविप्रतिपन्ना ते बुद्धिः यदा निश्चला सती समाधावचला सती स्थास्यति, तदा योगमवाप्स्यसीत्यन्वयः। अनेकेषां साध्यानां साधनानां सम्बन्धानां च प्रकाशनं याभिस्ताभिः श्रुतिभिः प्रवृत्तिनिवृत्तिलक्षणैः श्रवणैः, प्रवृत्तिनिवृत्ती लक्षणं स्वरूपं येषां तैः तथोक्तैर्वेदैः हेतुभिः विप्रतिपन्ना विप्रतिपत्तिं प्राप्ता नानाप्रतिपन्ना बहुभेदं प्राप्तेत्यर्थः। प्रवृत्तिनिवृत्तिधर्मप्रतिपादकवेदश्रवणात् ‘किं कर्म कुर्याम् , किंवा प्रव्रजेयम् , किंवा वनं विशेयम्? कर्मस्वपि किं काम्यानि कुर्याम् , अथवा नित्यानि?’ इत्येवं बहुविधविकल्पान् प्राप्तेति भावः। निश्चलाचलपदयोः पौनरुक्त्यं वारयति—विक्षेपेति। विक्षेपो बुद्धेरात्मस्वरूपात् प्रच्युतिः, विषयचिन्तेति यावत्। तत्रापीति। आत्मन्यपीत्यर्थः। विकल्पो बुद्धिवृत्तिः। विवेकप्रज्ञाम् ‘अयमात्मा, इदमनात्मा’ इति विवेकरूपं ज्ञानम्। यावदर्थमाह— समाधिमिति। चित्तसमाधानमित्यर्थः। निर्विकल्पसमाधिमिति यावत्। सुषुप्ताविव लयरहितं, जाग्रत्स्वप्नयोरिव विक्षेपरहितम् ‘अहं ब्रह्म’ इत्याकारकवृत्तिशून्यं च सदन्तःकरणं यत् केवलमात्मस्वरूपानुसन्धानपरं वर्तते, तदेव निर्विकल्पसमाधिरिति फलितार्थः। यदा स्वस्यान्तःकरणं निर्विकल्पं निर्विक्षेपं च सदात्मनि स्थिरं वर्तते, तदा निर्विकल्पसमाधिशाल्यहमिति ज्ञातव्यं त्वयेति श्लोकनिष्कृष्टार्थः। निर्विकल्पसमाधावात्मस्वरूपसाक्षात्कारे सति ‘अयमात्मा, इदमनात्मा’ इति विवेकः सुखेन भवति पुंस इति भावः। एतेन ज्ञानयोगस्य समाधिरेव परा काष्ठेति सूचितम्। न च यमनियमाद्यष्टाङ्गलक्षणयोगस्यैव समाधिः परा काष्ठेति वाच्यम् ; मनःसंयमसाध्यस्य समाधेः सांख्ययोगयोरुभयोरपि परमावधित्वात्। मनःसंयमस्तु केषाञ्चित् प्राणायामादियोगसाध्यः, केषाञ्चिदात्मानात्मविवेचनरूपसांख्य- साध्य इति विवेकः। अत एव ‘एकं सांख्यं च योगं च यः पश्यति स पश्यति’ इति वक्ष्यति भगवान्। मोहकलिलात्ययद्वारेण १लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगमवाप्स्यसीति२ चेत्? तच्छृणु— श्रुतिविप्रतिपन्नेति। श्रुतिविप्रतिपन्ना अनेकसाध्यसाधनसम्बन्धप्रकाशनश्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्ति- लक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना श्रुतिविप्रतिपन्ना, विक्षिप्ता सती, ते तव बुद्धिः यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला ३विक्षेपरूपचलनवर्जिता सती समाधौ समाधीयते चित्तमस्मिन्निति समाधिः आत्मा, तस्मिन् आत्मनीत्येतत्। अचला तत्रापि विकल्पवर्जितेत्येतत्। बुद्धिः अन्तःकरणम् , तदा तस्मिन् काले योगमवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि॥५३॥
बुद्धिशुद्धिविवेकवैराग्यसिद्धावपि पूर्वोक्तबुद्धिप्राप्तिकालो दर्शितो न भवतीति शङ्कते— मोहेति। प्रागुक्तविवेकादियुक्तबुद्धेरात्मनि स्थैर्यावस्थायां प्रकृतबुद्धिसिद्धिरित्याह— तच्छृण्विति। पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते। बुद्धेः श्रुतिविप्रतिपन्नत्वं विशदयति— अनेकेति। ४नानाप्रतिपन्नत्वमेव संक्षिपति— विक्षिप्तेति। उक्तं हेतुद्वयमनुरुध्य वैराग्यपरिपाकावस्था कालशब्दार्थः। नैश्चल्यं विक्षेपराहित्यम् , अचलत्वं विकल्पशून्यत्वम्। विक्षेपो विपर्ययः, विकल्पः संशय इति विवेकः। विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः। समाधिः तत्रैव निष्ठा॥५३॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥५३॥
१. ‘लब्धात्मविवेकप्रज्ञः’ इति पा.। २. ‘अवाप्स्यामि’ इति पा.। ३. निश्चला अचला इत्यनयोः पुनरुक्तिं वारयति—विक्षेपेति। ‘विक्षेपचलनवर्जिता’ इति पा.। ४. ‘नानाश्रुतिप्रतिपन्नत्वमेव’ इति पा.। अ.२. श्लो.५२-५३ ]
[[१२०]]
ननु ‘समाधावचला बुद्धिः स्थास्यती’त्यनेनैव निर्विकल्पसमाधिरुक्तः; पुनः समाधिं प्राप्स्यसीति वचनं त्वयुक्तम् ; समाधिमतः समाधिप्राप्तिरिति पौनरुक्त्यादिदोषादिति चेत्? अत एव श्लोकनिष्कृष्टार्थस्तथोक्तो मया। यद्वा - कर्मयोगजा सत्त्वशुद्धिः, सत्त्वशुद्धौ निर्विकल्पसमाधिलाभः, ततश्चात्मानात्मविवेकलक्षणज्ञानयोगात्मकसमाधिलाभ इति विवेकः। सत्त्वशुद्धिं प्रति कर्मानुष्ठानवद् यमनियमादयोऽपि हेतव एवेति कृत्वा निर्विकल्पसमाधेर्योगपरमावधित्वं चोच्यत इति बोध्यम्। एतेन सर्वेऽपि योगा ज्ञानयोगसाधका एव, न तु तत्साध्यः कश्चन योगोऽस्तीति ज्ञानयोगस्य सर्वयोगाधिकत्वं सूचितम्। यद्यपि ज्ञानयोगस्य परा काष्ठा ब्रह्मात्मसाक्षात्कारः, निर्विकल्पसमाधिश्च स एवेति नोभयोर्भेदः३, तथापि निर्विकल्प- समाधावात्मानुभवं कुर्वन्तोऽपि योगिनः न तमात्मानं ब्रह्माभिन्नं विदुरिति हेतोर्निर्विकल्पसमाधेर्योगसाध्यात् ज्ञानयोगस्योत्कर्ष उक्तः। येन केनापि योगाद्युपायेन यदा तवान्तःकरणस्य निर्विकल्पसमाधिलाभः, तदैव तव ‘अयमात्मा, इदमनात्मा’ इति विवेको जायते, निर्विकल्पसमाधावात्मस्वरूपसाक्षात्कारस्य जातत्वादिति श्लोकस्य तात्पर्यम्। न चैवं निर्विकल्पसमाधिनैवालम् , तत एवात्मस्वरूप- साक्षात्कारलाभात् , स च समाधिः प्राणायामादिसाध्य इति कोऽर्थो ज्ञानयोगेनेति वाच्यम् ; ‘सच्चिदानन्दलक्षणः सर्वान्तरः स्वयम्प्रभ आत्मा’ इति ज्ञाने सत्येव निर्विकल्पसमाध्यनुभूतवस्तुनि ब्रह्मात्मज्ञानं स्यात् पुंसः, न त्वन्यथेति ज्ञानयोगस्यावश्यकत्वात्। न हि सौषुप्तिक आत्मानन्दानुभवो मोक्षाय भवति पुंसाम् ,‘अयमात्मा’ इति ज्ञानाभावस्य तुल्यत्वात् इति। अथवा विक्षेपो विपर्ययः विकल्पः संशय इत्यर्थान्नात्र श्लोके पूर्ववाक् येन निर्विकल्पसमाधिरभिधीयत इति न कोऽपि दोष इति बोध्यम्। ‘नायमात्मा’ इति, ‘अयमात्मा वा न वा’ इति च विक्षेपविकल्परहिता सती यदा ते बुद्धिरात्मनि स्थिरा स्थास्यति ‘अयमेवात्मा’ इति तदा त्वं योगमवाप्स्यसीति भावः। योगम् आत्मसाक्षात्कारमिति मधुसूदनः। यत्तु ‘समाधौ मनसि बुद्धिः स्थास्यती’ति रामानुजः; तदसत् ; मनोबुद्ध्योरुभयोरेकतत्त्वत्वेनाधाराधेयभावायोगात् , एकमेव ह्यन्तःकरणं सङ्कल्पविकल्परूपं मन इति, निश्चयरूपं बुद्धिरिति चोच्यते। विप्रतिपन्नेत्यस्य विशेषतः प्रतिपन्नेत्यर्थोऽपि तदुक्तोऽयुक्तः; विप्रतिपत्तिशब्दस्य विरुद्धप्रतिपत्त्यर्थकत्वेन विप्रतिपन्नशब्दस्यापि तादृशार्थबोध[कत्व]स्यैवौचित्यात् , अप्रसिद्धार्थकल्पनस्यान्या- य्यत्वात् ॥५३॥
‘स्थितप्रज्ञस्ये’ति श्लोकमवतारयति— प्रश्नबीजमिति। ‘समाधौ बुद्धिरचला स्थास्यति’, ‘योगमवाप्स्यसी’ति वाक् यश्रवणात् प्रष्टुमवकाशो जात इत्यर्थः। तदेवाह— लब्धसमाधिप्रज्ञस्येति। लब्धे समाधिप्रज्ञे निर्विकल्पसमाधिविवेकौ येन तस्य। बोद्धुं ज्ञातुमिच्छा बुभुत्सा। प्रतिष्ठितेति। दृढेत्यर्थः। प्रज्ञाया आकारमाह— अहमिति। ‘अहं परं ब्रह्मास्मी’त्यन्वयः। प्रज्ञा बुद्धिवृत्तिरूपं ज्ञानम्। समाधौ संन्यासिनो १ज्ञाननिष्ठाप्राप्तिवचनं प्रश्नबीजम्। पृच्छतोऽर्जुनस्याभिप्रायमाह—लब्धेति। लब्धा २समाधौ आत्मनि, समाधानेन वा प्रज्ञा परमार्थदर्शनलक्षणा येन, तस्येति यावत्। ननु तस्य भाषा तत्तत्कार्यानुरोधिनी भविष्यति, किमित्यसौ जिज्ञास्यते? तत्राह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अर्जुन उवाच— स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव !। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्?॥५४॥
प्रश्नबीजं प्रतिलभ्यार्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया— स्थितप्रज्ञस्येति। स्थिता प्रतिष्ठिता ‘अहमस्मि परं ब्रह्म’ इति प्रज्ञा यस्य स स्थितप्रज्ञः, तस्य स्थितप्रज्ञस्य का भाषा? किं भाषणं वचनम्। कथमसौ १. ‘ज्ञाननिष्ठातत्प्राप्ति’ इति पा.। २. लब्धा समाधिप्रज्ञा येनेति विग्रहः। समाधौ आत्मनि प्रज्ञा, समाधानेन प्रज्ञा वा समाधिप्रज्ञा। उभयथा परमार्थदर्शनं तदर्थः। ३. निर्विकल्पसमाधेः ब्रह्मात्मसाक्षात्कारस्य च एकविषयकत्वेऽपि प्रमाणजन्यत्वेन ब्रह्मात्मसाक्षात्कारस्याविद्यानिवर्तकत्वं विशेषः ब्रह्मानन्दीयादौ निरूपितः।
[[१२१]]
आत्मनि निर्विकल्पसमाधाविति वा। किं प्रभाषेतेत्यनेन पौनरुक्त्यादाह— परैर्भाष्यत इति। ‘स्थितप्रज्ञोऽयम्’ इत्यन्यैः कथमुच्यत इत्यर्थः। किं प्रभाषेतेत्यादौ किंशब्दानां कथमित्यर्थो ज्ञेयः - कथं प्रभाषेत? कथमासीत? कथं व्रजेत? इति। ननु स्थितप्रज्ञस्य भाषणादिकमसम्भवि, ब्रह्मात्मनिष्ठत्वादिति किमर्जुनप्रश्नाशयः? इत्यत आह— स्थितप्रज्ञस्येति। भाषणादिकं किंरूपमिति तल्लक्षणं पृच्छ्यत इत्यर्थः। अर्जुनेनेति शेषः। कोऽसौ स्थितप्रज्ञः? अत आह—यो हीति। हिः प्रसिद्धौ, त्वर्थे वा। आदितो ब्रह्मचर्यादेव कर्माणि संन्यस्य [ज्ञानयोग]निष्ठायाम् आत्मदर्शननिष्ठायां [प्रवृत्तः], यश्च कर्मयोगेन क्रमाज्ज्ञाननिष्ठायां प्रवृत्तः’ इत्यन्वयः। तयोः स्थितप्रज्ञ- शब्दवाच्ययोर्द्वयोरपि लक्षणं पृच्छ्यत इत्यर्थः। स्थितप्रज्ञस्येत्येकवचननिर्देशेन ज्ञाननिष्ठाप्राप्त्यनन्तरमुभयोर्भेदाभावः सूचितः। संन्यासद्वारा कर्मयोगद्वारा वा निर्विकल्पक- समाधिं लब्ध्वा यः ‘अहं ब्रह्मास्मि’ इति दृढां प्रज्ञां प्राप, स स्थितप्रज्ञ इति परमार्थः। कीदृशं पुरुषं लोकाः स्थितप्रज्ञं मन्यन्ते? कीदृशश्च स्वयं स्थितप्रज्ञमात्मानं मन्यते? स्थितप्रज्ञस्य मनोव्यापारः कीदृशः? कायव्यापारश्च कीदृशः? वाग्व्यापारश्च कीदृशः? इति कथमिति। ज्ञाननिष्ठस्य लक्षणविवक्षया प्रश्नमवतार्य, तन्निष्ठासाधनबुभुत्सया विशिनष्टि— समाधिस्थस्येति। तस्यैवार्थक्रियां पृच्छति— स्थितधीरिति। ५(प्रश्नाक्षराणि व्याख्याय वाक्यार्थमाह—स्थितप्रज्ञस्येति)॥५४॥
प्रतिवचनमवतारयितुं पातनिकां करोति— यो हीति। हिशब्देन कर्मसंन्यासकारणीभूतविरागतासम्पत्तिः सूच्यते। आदितो ब्रह्मचर्यावस्थायामिति यावत्। ज्ञानमेव योगो ६ब्रह्मभावप्रापकत्वात् , तस्मिन् निष्ठा परिसमाप्तिः, तस्यामित्यर्थः। कर्मैव योगस्तेन, कर्माण्यसंन्यस्य ७तन्निष्ठायामेव प्रवृत्त इति शेषः। ननु तत् कथमेकेन वाक् येनार्थद्वयमुपदिश्यते, द्वैयर्थ्ये वाक् यभेदात् । न च लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेरिति, तत्राह— सर्वत्रैवेति। यद्यपि कृतार्थस्य ज्ञानिनो ८लक्षणं तद्रूपेण फलत्वान्न साधनत्वमधिगच्छति , तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते। लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते, न विधीयते, विदुषो विधिनिषेधागोचरत्वात्। तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादाद् ९एकस्मिन्नेव साधनानुष्ठाने तात्पर्यमित्यर्थः। उक्तेऽर्थे भगवद्वाक् यमुत्थापयति— यानीति। लक्षणानि च ज्ञानसामर्थ्यलभ्यान्ययत्नसाध्यानीति शेषः। स्थितप्रज्ञस्य का भाषेति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
श्रीभगवानुवाच— परैर्भाष्यते? समाधिस्थस्य समाधौ स्थितस्य, हे केशव ! स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत? किमासीत? व्रजेत किम्? १भाषणम् आसनं व्रजनं वा तस्य कथमित्यर्थः। स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छ्यते॥५४॥
यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः, यश्च कर्मयोगेन, तयोः २प्रजहातीत्यारभ्य ३आ अध्यायपरिसमाप्तेः ४स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते। सर्वत्रैव ह्यध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनान्युपदिश्यन्ते यत्नसाध्यत्वात्। यानि यत्नसाध्यानि साधनानि, लक्षणानि च भवन्ति, तानि श्रीभगवानुवाच—
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
ननु कथमेकेनैव वाक् येनार्थद्वयमुपदेष्टुं शक् यत इत्याशङ्क्याह— सर्वत्रैवाध्यात्मिकशास्त्र इति। प्रारब्धकर्मशेषनिब- न्धनभोग्यस्य विद्ययाऽपि वारयितुमशक् यत्वात् , विदुषश्च विधिप्रतिषेधचोदनाकिङ्करत्वाभावात् , यद्यपि तल्लक्षणं वक्तुं न १. ‘आसनम् , व्रजनं वा’ इति पा.। २. ‘तयोः’ इत्यन्तं भाष्यं भाष्यार्कप्रकाशव्याख्यानुसारेण पूर्वश्लोकशेषः, ‘प्रजहातीत्यारभ्य’ इत्यत उत्तरश्लोकस्यावतारिका । ३. ‘अध्यायपरिसमाप्तिपर्यन्तम्’ इति पा.। ४. ‘स्थितप्रज्ञस्य लक्षणं’ इति रा.पा.। ५. कुण्डलितः पाठो बहुत्र नोपलभ्यते। ६. ब्रह्मभावेन युज्यतेऽनेनेति व्युत्पत्त्या ज्ञानं योग इत्यर्थः। ‘ब्रह्मात्मभावप्रापकत्वात्’ इति पा.। ७. ज्ञानयोगनिष्ठायामित्यर्थः। ८. ‘ज्ञानलक्षणं तद्रूपेण’ इति पा.। ९. साधनानुष्ठाने एकस्मिन्नेव तात्पर्यम् , अतो न वाक्यभेदः इत्यर्थः। अ.२. श्लो. ५४ ]
[[१२२]]
स्थितप्रज्ञलक्षणं पप्रच्छार्जुन इति पर्यवसन्नार्थः। अत्र स्थितप्रज्ञस्य को वाचकः शब्दः? इति ‘का भाषे’त्यस्यार्थमाह रामानुजः, तन्मन्दम् ; स्थितप्रज्ञशब्दस्यैव तद्वाचकत्वेन वाचकान्तरप्रश्नानर्थक् यात्॥५४॥
‘प्रजहाती’ति श्लोकमवतारयति— प्रजहातीति। आ अध्यायपरिसमाप्तेरिति छेदः। समासे त्वाध्यायपरिसमाप्तीति स्यात्। यावदध्यायपरिसमाप्तीत्यर्थः। साधनं चेति। ननु लक्षणस्यैव पृष्टत्वात् किमिति साधनोपदेशः? इत्यत आह— सर्वत्रेति। अध्यात्मशास्त्रे वेदान्तशास्त्रे। कृतार्थः स्थितप्रज्ञः, तस्यैव कृतकृत्यत्वात्। कृतकृत्यस्य यानि लक्षणानि, तान्येव कृतकृत्यत्वस्य साधनानीति उपदिश्यन्ते उच्यन्ते। तत्र हेतुमाह— यत्नसाध्यत्वादिति। कृतार्थे पुरुषे वर्तमानानि यानि कृतार्थत्वसूचकानि चिह्नानि कामपरित्यागात्मतुष्टिसुखस्वभावादीनि, तान्येव कृतार्थत्वसाधकानि, मनःसंयमरूपयत्नसाध्यत्वात् तेषामित्यर्थः। ननु साधनलक्षणयोरेकत्वमयुक्तम् , साधनसाध्यत्वाल्लक्षणानामिति चेत्? सत्यमन्यत्र तथैव। इह तु साधनलक्षणयोरैक् यमेव, कामप्रहाणादिभिः साधनैः कृतार्थत्वसिद्धेः। कृतार्थे पुंसि कामप्रहाणादीनां लक्षणत्वाच्च। लक्षयन्तीति लक्षणानि, साधयन्तीति साधनानीति निरुक्तेः। यान्येव कृतार्थत्वं लक्षयन्ति तान्येव तत् साधयन्ति। कथमन्यथा कृतार्थत्वासाधकानां कृतार्थत्वलक्षकत्वं स्यात्? साधनेन हि साध्यं लक्ष्यते, धूमेन वह्निवत्। साध्यं चात्र कृतार्थत्वम्। तल्लक्षकत्वं चास्ति तत्साधनस्य। तस्मात् साधनत्वलक्षकत्वयोरैक् यात् साधनलक्षणयोरैक् यमिति भावः। यानि लक्षणानि तानि साधनानीत्येतदेव द्रढयितुमाह— यानि साधनानि तान्येव लक्षणानीति३। हे पार्थ! यदा पुरुष इति शेषः। मनोगतान् सर्वान् कामान् प्रजहाति, आत्मन्येवात्मना तुष्टश्च भवति, तदा स्थितप्रज्ञ इत्युच्यते। सर्वकामेति। सति पुत्रादिविषयकामे तत्सिद्ध्या पुंसस्तुष्टिः स्यात् , सुतरां कामाभावे तु तुष्टिरेव न स्यात् , तुष्टिकारणस्य कामितार्थलाभरूपस्याभावादित्यर्थः। किञ्च सर्वकामपरित्यागाद् भोजनकामस्यापि परित्यागः प्राप्तः, सति च तस्मिन् भोजनकामत्यागे भोजनाभावाद् विदुष आकस्मिकं बलात्कारमरणं स्यात् ; तच्चायुक्तम् , दोषावहत्वात्। अथैतद्भयाच्छरीरधारणनिमित्तभोजनादि- कामविशेषोऽस्त्वित्यत आह—शरीरेति। उन्मादं प्राप्त उन्मत्तः, मदिरापानादिना मत्तः प्रमत्तः। उन्मत्तवत् प्रमत्तवच्चेत्यर्थः। प्रवृत्तिरिति भोजनादिमात्रे इति भावः। यथा उन्मत्तः कमपि पुरुषार्थं न वाञ्छति, न तस्मै यतते; परन्तु क्षुत्तृड्भ्यामर्दितः तदपनोदाय प्रथमप्रश्नस्योत्तरमाह— प्रजहातीति। कामत्यागस्य प्रकर्षो वासनाराहित्यम्। कामानामात्मनिष्ठत्वं कैश्चिदिष्यते। तदयुक्तम् , तेषां मनोनिष्ठत्वश्रुतेरित्याशयवानाह— मनोगतानिति। आत्मन्येवात्मनेत्याद्युत्तरभागनिरस्यं चोद्यमनुवदति— सर्वकामेति। तर्हि प्रवर्तका- भावाद् विदुषः सर्वप्रवृत्तेरुपशान्तिरिति? नेत्याह— शरीरेति। उन्मादवान् उन्मत्तो विवेकविरहितबुद्धिभ्रमभागी। प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्तवद् व्यवहरन् प्रमत्त इति विभागः। उत्तरार्धमवतार्य व्याकरोति— उच्यत इति। आत्मन्येवे- त्येवकारस्य आत्मनेत्यत्रापि सम्बन्धं द्योतयति— स्वेनैवेति। बाह्यलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टयति— परमार्थेति। स्थितप्रज्ञपदं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रजहातीति। प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छाभेदान् , हे पार्थ मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान्। सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे१ च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्तेत्यत उच्यते— आत्मन्येव प्रत्यगात्मस्वरूप एव आत्मना स्वेनैव २बाह्यलाभनिरपेक्षः प्रजहाति यदा कामान् सर्वान् पार्थ ! मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५॥
१. ‘शरीरधारणनिमित्तविशेषे’ इति रा.पा.। २. ‘अन्यलाभनिरपेक्षः’ इति रा.पा.। ३. ‘यानि साधनानि तान्येव लक्षणानि’ श्रीभगवानुवाच इति भाष्ये रा.पा.भाति।
[[१२३]]
यत्किमपि निन्दितमन्नं जलं च भुङ्क्ते, तद्वद् विद्वानपि प्रवर्तेतेति भावः। इति शङ्कायामाह— आत्मन्येवेति। स्वेनैवेत्यस्यार्थमाह— अन्यलाभनिरपेक्ष इति। ‘आत्मन्येवात्मना तुष्टः’ इत्यस्य फलितार्थमाह— परमार्थेति। यथा लब्धामृतस्यान्नादावलम्बुद्धिः, तद्वद् आत्मस्वरूपानन्दानुभवशालिनस्तदितरत्र सर्वत्राप्यलम्बुद्धिरेवेत्यर्थः। एतेन - नामुष्य विदुषः शरीरधारणस्पृहा, यदर्थमुन्मत्तवद् भोजनादिकर्मणि प्रवर्तेत। नापि क्षुत्तृड्बाधा, आत्मानन्दानुभवव्यग्रत्वात् , नापि शरीरपातः, यावत्प्रारब्धं तस्यापातात् - इति सिद्धम्। श्लोकस्य निष्कृष्टार्थमाह— त्यक्तेति। एषणा अभिलाषः। त्यक्ताः पुत्रे वित्ते लोकेषु स्वर्गादिषु च एषणा येन सः त्यक्तपुत्रवित्तलोकैषणः। पुत्रशब्दः दारपश्वाद्युपलक्षणः। संन्यासी कृतसर्वकर्मसंन्यासः। आत्मारामः आत्मैवारामो विहारस्थानं यस्य सः। आत्मन्येव रतिः प्रीतिर्यस्य स आत्मरतिः। एवंविधः पुरुषः स्थितप्रज्ञ इत्युच्यते। ननु ‘प्रजहाति यदा कामानि’त्यादिना त्यक्तपुत्रवित्तलोकैषणः इति, ‘आत्मन्येवात्मना तुष्टः’ इत्यनेनात्माराम आत्मरतिरिति च सिध्यति ; संन्यासीति तु न कुतोऽपीति कथं निर्मूलस्य तस्य वचनं भाष्ये इति चेन्मैवम् ; सर्वकर्मसंन्यासपूर्वकत्वादात्मनिष्ठायाः। न हि कर्मसु व्यग्रस्यात्मरतिः स्यात्। तस्मादर्थसिद्धार्थकथनं संन्यासिनः इति, न निर्मूलत्वं तस्य। न च वासुदेवजनकवसिष्ठादीनाम् असंन्यासिनामेतावन्मात्रेणास्थितप्रज्ञत्वं चोदनीयम् ; लोकातिगत्वात् तच्चरितस्य। न हि वासुदेवादिभिरनुष्ठितानि कर्माणि कर्माणि, येन तत्संन्यासः संन्यासः स्यात्। उक्तं हीदं शङ्कराचार्यैरेव ग्रन्थारम्भे२। यद्यधुनातना अपि वासुदेवादिदृष्टान्तेन संन्यासं न स्वीकुर्युः, तर्हि किमिति ते शङ्कराचार्यादिदृष्टान्तेन गृहस्थाश्रमं न परित्यजेयुः? न च कोऽयं तव संन्यासे पक्षपात इति वाच्यम्। कोऽयं तव संन्यासे प्रद्वेषहेतुः गृहस्थाश्रमविषयकरागादृते? सति चास्मिन् रागे तव नात्मरतिः स्यात्। अतस्तद्रागभ्रंशनाय संन्यासः स्वीकार्यो गृहस्थाश्रमस्थैर्मुमुक्षुभिः स्थितप्रज्ञत्वलाभार्थम्। न च संन्यासोऽपि भिक्षावन्दनादिरागपूर्वक एवेति वाच्यम् ; ‘यदहरेव विरजेत्तदहरेव प्रव्रजेद्’ इति श्रुत्यैव संन्यासस्य वैराग्यपूर्वकत्वस्योक्तत्वात्। यदि मोक्षकामः सकामः स्यात् , तर्हि संन्यासरागी रागी स्यात्। ननु जन्मान्तरानुष्ठितसंन्यासादिसुकृतवशाद् यः कश्चिद् ब्रह्मचर्यात्प्राग् , ब्रह्मचर्ये वा, गार्हस्र्ह्ये वा स्थितप्रज्ञो भवति जडभरतादिवत् , तत्र संन्यासस्य व्यभिचार इति चेन्मैवम् ; तस्य जनकादिवल्लोकातिगचरितेष्वेव गणनीयत्वात्। अथवा इह जन्मनि संन्यासवज्जन्मान्तरीयसंन्यासस्यापि स्थितप्रज्ञत्वहेतुत्वाज्जनकभरतादीनां जन्मान्तरीयसंन्यासित्वात् स्थितप्रज्ञत्वमिति बोध्यम्॥५५॥
विभजते— स्थितेति। प्रज्ञाप्रतिबन्धकसर्वकामविगमावस्था तदेति निर्दिश्यते। उक्तमेव प्रपञ्चयति— त्यक्तेति। आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वैषणात्यागात्मकं संन्यासमासाद्य, श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेवासक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभागित्यर्थः॥५५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलम्प्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य स स्थितप्रज्ञो विद्वांस्तदोच्यते। त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः१ ॥५५॥
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
१. अनेन स्थितप्रज्ञो जीवन्मुक्त इति स्पष्टम्। ‘अनारब्धकार्ये एव तु पूर्वे तदवधेः’(ब्र.सू. ४.१.१५) इत्यधिकरणे भाष्यकारैः जीवन्मुक्तिसाधकत्वेनायं स्थितप्रज्ञ- लक्षणनिर्देशः आदृतः। इयं जीवन्मुक्तिः आत्मतत्त्वसाक्षात्कारफलभूतेहोपन्यस्यत इति बोध्यम्। २. ‘तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थं पूर्वं यथा प्रवृत्तस्तथैव कर्मणि प्रवृत्तस्य यत् प्रवृत्तिरूपं दृश्यते, न तत् कर्म, येन बुद्धेः समुच्चयः स्यात्। यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद् विदुषः।’ (द्र. पृ. ४०) इति भाष्यमिहानुसंधेयम्। शक् यते, तथापि साधकस्यानुष्ठानायैतल्लक्षणमुच्यते। ततः साधनानुष्ठान एवैकस्मिन्नर्थे तात्पर्यमित्यर्थः। अर्थात् तल्लक्षणं भवतीत्यर्थः॥५५॥
अ.२. श्लो.५५ ]
[[१२४]]
दुःखेष्विति। ‘एवंविधो मुनिः स्थितधीरित्युच्यते’ इत्यन्वयः। आध्यात्मिकादिष्वित्यादिपदादाधिदैविकाधिभौतिकयोर्ग्रहणम्। तापानां दुःखहेतुत्वाद् दुःखेष्वित्यौपचारिकप्रयोगः। तत्राध्यात्मिका ज्वरादिजन्याः, आधिभौतिका व्याघ्रसर्पादिजन्याः, आधिदैविकाः शीतवातातपादिजन्यास्तापा इति विवेकः। दुःखप्राप्ताविति। आध्यात्मिकादितापप्रयुक्तदुःखप्राप्तावित्यर्थः। न च दुःखेष्वित्यस्य तापार्थमुक्त्वा दुःखप्राप्ताविति पुनःपदान्तरकल्पना दुष्टेति वाच्यम् ; दुःखेष्विति बहुवचनान्न तस्य साक्षाद्दुःखार्थवचनं युक्तम्। अतो दुःखहेतुषु तापेष्वित्युक्तिर्युक्तेति। प्राप्तेष्विति। ननु प्राप्येषु सुखेषु भवतीच्छा पुंसः, न तु प्राप्तेषु, इच्छायाः फलावसानत्वादित्यत आह— नाग्निरिवेति। इन्धनाद्याधाने काष्ठाज्यादिनिधाने यथाऽग्निर्वर्धते, तथा सुखप्राप्तौ यस्य सुखानि नानुविवर्धन्ते, स सुखेषु विगतस्पृहः। अयमाशयः— अन्नप्राप्तौ यथा अन्नेच्छा निवर्तते पुंसस्तथा धनप्राप्तौ धनेच्छा निवर्तमाना न दृष्टा। एवं सुखप्राप्तावपि सुखेच्छा न निवर्तते, पुनरपि ‘इतोऽधिकं मे सुखं स्या’दिति सुखेच्छा वर्धत एव। यथा काष्ठाज्यादिप्राप्तावपि नाग्नेः काष्ठाद्याशा निवर्तते, ‘नाग्निस्तृप्यति काष्ठानाम्’ इति न्यायात् किन्तु सा वर्धत एव। यदग्नेः[यद्यग्नेः] काष्ठादिभ्यस्तृप्तिस्तर्हि तत्र निक्षिप्तं काष्ठादिकं सोऽग्निः पुनर्न दहेदेव। नैवं लोके दृश्यते, परं त्वतीव प्रवृद्धजिह्वःसन् काष्ठादिकं प्रार्थयत्येव। तस्मान्न सुखप्राप्त्या सुखेच्छाया निवृत्तिरिति युक्तमुक्तं सुखेषु प्राप्तेष्विति। तदेति। पूर्वश्लोकाद् यदातदाशब्दयोरिहानुवृत्तिः। ‘यदा मुनिरेवंविधो भवति, तदा स्थितप्रज्ञ इत्युच्यते’ इत्यन्वयः। यद्वा पुरुष इति शेषः। यदा पुरुष एवंविधो मुनिर्भवति, तदा स्थितप्रज्ञ इत्युच्यत इति। न चात्र मुनिशब्दस्य संन्यासस्य लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति— किञ्चेति। ज्वरशिरोरोगादिकृतानि दुःखान्याध्यात्मिकानि। आदि- शब्देनाधिभौतिकानि व्याघ्रसर्पादिप्रयुक्तानि, आधिदैविकानि चातिवातवर्षादिनिमित्तानि दुःखानि गृह्यन्ते। तेषूपलब्धेष्वपि नोद्विग्नं मनो यस्य स तथेति सम्बन्धः। नोद्विग्नमित्येतद् व्याचष्टे— न प्रक्षुभितमिति। दुःखानामुक्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभावितं दुःखम् उद्वेगः, तेन सहितं मनो यस्य न भवति स तथेत्याह— दुःखप्राप्ताविति। मनो यस्य नोद्विग्नमिति पूर्वेण सम्बन्धः। सुखान्यपि दुःखवत् त्रिविधानीति मत्वा तथेत्युक्तम्। तेषु प्राप्तेषु सत्सु तेभ्यो विगता स्पृहा तृष्णा यस्य स विगतस्पृह इति योजना। अज्ञस्य हि प्राप्तानि सुखान्यनु विवर्धते तृष्णा, विदुषस्तु नैवमित्यत्र वैधर्म्यदृष्टान्तमाह— नाग्निरिवेति। यथा हि दाह्यस्येन्धनादेरभ्याधाने वह्निर्विवर्धते, तथा अज्ञस्य सुखानि उपनतानि अनु विवर्धमानाऽपि तृष्णा विदुषो न तान्यनु विवर्धते। न हि वह्निरदाह्यम् ३उपनतमपि दग्धुं विवृद्धि- मधिगच्छति। तेन जिज्ञासुना सुखदुःखयोस्तृष्णोद्वेगौ न कर्तव्यावित्यर्थः। रागादयश्च तेन कर्तव्या न भवन्तीत्याह— वीतेति। ४अनुभूताभिनिवेशो विषयेषु रञ्जनात्मकस्तृष्णाभेदो रागः। परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयम्। क्रोधस्तु परवशीकृत्यात्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः। मनुते इति मुनिः आत्मविद्५ इत्यङ्गीकृत्याह— संन्यासीति। सुखादिविषयतृष्णादेः रागादेश्चा- भावावस्था तदेच्युच्यते॥५६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥५६॥
किञ्च— दुःखेष्विति। दुःखेषु आध्यात्मिकादिषु प्राप्तेषु १नोद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः। तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, नाग्निरिवेन्धनाद्याधाने २सुखान्यनु विवर्धते, स विगतस्पृहः। वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतरागभयक्रोधः, स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदोच्यते॥५६॥
१. ‘अनुद्विग्नम्’ इति पा.। २. ‘सुखान्यनुविवर्धन्ते’ इति रा.पा.। ३. ‘उपगतमपि’ इति पा.। ४. अनेनार्थविवरणेन विगतस्पृहः वीतराग इत्यनयोरपौनरुक्त्यमुक्तम्। ५. आत्मविदः अर्थसिद्धः संन्यास इति संन्यासीति फलितार्थवर्णनमिति भावः।
[[१२५]]
[संन्यास्य]र्थबोधकत्वे विवदितव्यम् ; मुनिर्मननशीलः; सर्वकर्मसंन्यासिनस्तु इतरव्यापाराभावादात्ममननशीलतोपपद्यते, न गृहिण इति। न च कथमसंन्यासिनां वसिष्ठादीनां मुनित्वमिति वाच्यम् ; गृहिणोऽपि ते त्यक्तसर्वकर्माणो वनमाश्रित्य निरन्तरमात्ममननं कुर्वन्त्येवेति मुनयस्ते संन्यासिन एवेति॥५६॥
य इति। ‘यः सर्वत्रानभिस्नेहःसन् तत्तच्छुभाशुभं प्राप्य नाभिनन्दति, न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता’ इत्यन्वयः। तस्य प्रज्ञा प्रतिष्ठितेत्यस्य स स्थितप्रज्ञः इत्यर्थः॥५७॥
यदेति। यदाऽयं कूर्मोऽङ्गानीव सर्वश इन्द्रियार्थेभ्यः इन्द्रियाणि संहरते च तदा तस्य प्रज्ञा प्रतिष्ठिता - इत्यन्वयः। इन्द्रियार्थेभ्य इति पञ्चमी। उपसंहरते प्रतिनिवर्तयति , इन्द्रियाणां विषयप्रावीण्यं [विषयप्रावण्यं ]वारयतीत्यर्थः॥५८॥
लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति— किञ्चेति। विवेकवतो १विविदिषोः विवेकजन्या प्रज्ञा कथं प्रतिष्ठां प्रतिपद्यतामित्याशङ्क्याह— यः सर्वत्रेति। ननु २देहजीवितादौ स्पृहा, शुभाशुभप्राप्तौ हर्षविषादौ विदुषो विविदिषोश्चावर्जनीयाविति प्रज्ञास्थैर्यासिद्धिः, तत्राह— यो मुनिरिति। तत्तदिति शोभनवत्त्वेनाशोभनवत्त्वेन वा प्रसिद्धत्वं प्रतिनिर्दिश्यते। तदेव विभजते— शुभमिति। विषयेष्वभिषङ्गाभावः, शुभादिप्राप्तौ हर्षाद्यभावश्च प्रज्ञास्थैर्ये कारणमित्याह— तस्येति॥५७॥
जिज्ञासोरेव कर्तव्यान्तरं सूचयति— किञ्चेति। इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वादादौ जिज्ञासुना तदनुष्ठेयमित्याह— यदेति। मुमुक्षुणा मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानीति श्लोकव्याख्यानेन कथयति— यदेत्यादिना। उपसंहारः स्ववशत्वापादनम् , तस्य च सम्यक्त्वमतिदृढत्वम्। अयमिति प्रकृतस्थितप्रज्ञ- ग्रहणं व्यावर्तयति— ज्ञाननिष्ठायामिति। इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य सङ्कोचात्मकत्वं दृष्टान्तेन३ दर्शयति— कूर्म इति। दृष्टान्तं व्याकरोति— यथेति। दार्ष्टान्तिके योजयन् ४ज्ञाननिष्ठपदं तत्र प्रवर्तयति— एवमिति। इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुरित्युक्तमुपसंहरति— तस्येति॥५८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्च — यः सर्वत्रेति। यो मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभिस्नेहवर्जितः, तत्तत्प्राप्य शुभाशुभं तत्तच्छुभमशुभं वा लब्ध्वा नाभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति - न हृष्यति, अशुभं च प्राप्य न द्वेष्टीत्यर्थः। तस्य एवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति॥५७॥
किञ्च — यदा संहरत इति। यदा संहरते सम्यगुपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः, कूर्मोऽङ्गानीव यथा कूर्मो भयात् स्वान्यङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्य उपसंहरते। तस्य प्रज्ञा प्रतिष्ठितेत्युक्तार्थं वाक्यम्॥५८॥
यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥५७॥
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥५८॥
अ.२. श्लो.५६-५८ ] १. ‘विदुषो’ इति पा.। २. ‘देहजीवनादौ’ इति पा.। ३. यथा कूर्मो भयात् स्वाङ्गानि उपसंहरति, तथा इति दृष्टान्ते संकोचयतीत्यर्थप्रतीतेः दार्ष्टान्तिकेऽपि संकोचस्यैव विवक्षेति भावः। ४. ‘ज्ञाननिष्ठापदं’ इति पा.।
[[१२६]]
विषया इति। अनाहरतः अगृह्णतः, इन्द्रियव्यापाराभावादिति भावः। आतुरः तपसा पीडितः। संह्रियन्ते उपसंहृतानि भवन्ति, निर्व्यापाराणि भवन्तीत्यर्थः। इत्युच्यते इति शङ्कायामुच्यत इत्यर्थः। निराहारस्य देहिनो विषयाः रसवर्जं विनिवर्तन्ते। विषयेभ्य इति शेषः। ननु इन्द्रियाणां विषयेभ्यो विनिवृत्तिर्भवतु नाम, कथं पुनर्विषयाणाम्? अत आह— विषयोपलक्षितानीति। ग्राह्यग्राहकभाव- रूपसम्बन्धेन हेतुना विषयशब्दो लक्षणया विषयग्राहकाणीन्द्रियाणि प्रतिपादयतीत्यर्थः। अर्थानुपपत्तेर्लक्षणाबीजस्य सत्त्वात्। निराहारस्येति। आहरणमाहारः, तच्चाहरणं प्रकरणाद् विषयाणामेव, निर्गत आहारो विषयाहरणं यस्मात् स निराहारः, तस्य शब्दस्पर्शादीन् विषयानगृह्णत इत्यर्थः। कथं तदग्रहणम्? अत आह— काष्ठतपसि स्थितस्येति। यस्मिन् तपसि पुरुषः काष्ठवद् वर्तते तत् तपः काष्ठतपः, तस्मिन् स्थितस्य। नेत्रश्रोत्रादिनिमीलनविधा[पिधा]नादिपूर्वकं काष्ठवन्निश्चलाङ्गस्य कथं विषयग्रहणसम्भव इति भावः। न चात्र निराहारस्य त्यक्तभोजनस्य, कृतलङ्घनस्येति यावत् इत्यर्थ इति शङ्क्यम्। आहाराभावेऽपि चक्षुस्त्वगादिभी रूपस्पर्शादिविषयग्रहणसम्भवात् न सर्वेन्द्रियप्रतिनिवृत्तिरिति। मूर्खस्येति। ज्ञानहीनस्य। देहिन इति। देहादिसंघाते अहमभिमानिनः, न त्वात्मनः, तस्य सर्वज्ञस्य मूर्खत्वासम्भवात्। विषयेष्विति विषयसप्तमी। विषयाः शब्दादयः, तेषु। तद्विषय इत्यर्थः। ननु रसशब्दस्य कट्वादिरसेषु, शृङ्गारादिरसेषु वा प्रसिद्धप्रयोगस्य कथमत्र रागवाचित्वम्? अत आह— स्वरसेनेत्यादि। स्वरसेन स्वेच्छया। ‘अनुभवरसिको विजानाती’त्यादौ रसिकशब्दश्च रागवति प्रसिद्धः, रसज्ञशब्दश्च रक्ते प्रसिद्धः ‘शृङ्गारमुख्यमधुरादिसुवर्णरेतो- निर्यासरागगरलद्रवपारदेषु। आस्वादनध्वनिसुधाम्बुरसाख्यधातुष्विष्टो रसोऽथ धरणी रसना रसा स्यादि’त्यभिधानं चास्ति। अस्य यतेः रसोऽपि परं दृष्ट्वा निवर्तते इति वाक् यं व्याख्यातुमारभते— सोऽपीति। रञ्जनारूपो रागात्मकः। दृष्ट्वेत्यस्यार्थमाह— उपलभ्येति। इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्विषयरागानुवृत्तौ कथं प्रज्ञालाभः स्याद्? इति शङ्कते— तत्रेति। व्यवहारभूमिः सप्तम्यर्थः। विषयाननाहरतः तदुपभोगविमुखस्येत्यर्थः। रागश्चेत् नोपसंह्रियते, न तर्हि प्रज्ञालाभः सम्भवति, रागस्य तत्परिपन्थित्वादिति मत्वाऽऽह — स कथमिति। रागनिवृत्त्युपायमुपदिशन्नुत्तरमाह— उच्यत इति। विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः? तत्परावृत्तिश्चा- प्रस्तुता इत्याशङ्क्याह—यद्यपीति। निराहारस्येत्यस्य व्याख्यानम्— अनाह्रियमाणविषयस्येति। यो हि विषयप्रवणो न भवति तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापीन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते , तथापि रागोऽवशिष्यते। स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः। रसशब्दस्य माधुर्यादिषड्विधरसविषयत्वं निषेधति— रसशब्द इति। वृद्धप्रयोगमन्तरेण कथं प्रसिद्धि- रित्याशङ्क्याह— स्वरसेनेति। स्वेच्छयेति यावत्। रसिकः स्वेच्छावशवर्ती। रसज्ञो विवक्षितापेक्षितज्ञातेत्यर्थः। कथं तर्हि तस्य निवृत्तिः? तत्राह— सोऽपीति। दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति— अहमेवेति। रागापगमे सिद्धमर्थमाह— निर्बीजमिति। ननु सम्यग्ज्ञानमन्तरेण
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्र विषयान् अनाहरत आतुरस्यापीन्द्रियाणि निवर्तन्ते, कूर्माङ्गाणीव संह्रियन्ते, न तु तद्विषयो रागः, स कथं संह्रियत इति, उच्यते— विषया इति। यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानीन्द्रियाणि १(अथवा विषया एव) निराहारस्य अनाह्रियमाणविषयस्य २कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः, रसवर्जम् रसो रागो विषयेषु यस्तं वर्जयित्वा। रसशब्दो रागे प्रसिद्धः। स्वरसेन प्रवृत्तः, रसिकः, रसज्ञः इत्यादिदर्शनात्। सोऽपि रसो रञ्जनारूपः सूक्ष्मोऽस्य यतेः, परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ‘अहमेव तदि’ति विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥५९॥
१. कुण्डलितः पाठः क्वाचित्कः। २. ‘काष्ठतपसि’ इति रा.पा.।
[[१२७]]
ज्ञात्वेत्यर्थः। साक्षात्कृत्येति यावत्। ज्ञानस्याकारमाह— अहमेव तदिति। अहमेव ब्रह्मेत्यात्मानं साक्षात्कृत्वेत्यर्थः। फलितमाह— निर्बीजमिति। विषयविज्ञानस्य राग एव बीजम् , नीरागस्य विषयप्रवृत्त्यदर्शनात्। रागस्यापि निवृत्तत्वाद् विषयज्ञानं निर्बीजं जायत इत्यर्थः। मूर्खस्य तु न रसनिवृत्तिरात्मदर्शनाभावादिति कृत्वा न तस्य विषयज्ञानबीजध्वंस इति तपोनिवृत्त्यनन्तरं पुनरपि विषय- विज्ञानप्रसङ्गः, बीजसत्त्वात्। अतो न काष्ठतपसा स्थितप्रज्ञत्वलाभ इति भावः। इदमेवाह— नेति। सम्यग्दर्शने परमार्थतत्त्वज्ञाने असति रसस्य उच्छेदो नाशो न च भवति। तस्मात् तपसा रसोच्छेदाभावात् सम्यग्दर्शनमेवात्मा स्वरूपं यस्यास्तस्याः सम्यग्दर्शनात्मिकायाः प्रज्ञायाः ज्ञानस्य स्थैर्यं प्रतिष्ठा कर्तव्यं यतिनेति शेषः॥५९॥
यतत इति। हे कौन्तेय! हि यततो विपश्चितः पुरुषस्य मनोऽपि प्रमाथीनीन्द्रियाणि प्रसभं हरन्ति। प्रयत्नमिति। प्रज्ञास्थैर्य- लाभार्थमिति भावः। मेधाविनो बुद्धिमतः मनोऽपीति, किं पुनर्मूर्खस्य मनः इत्यपेरर्थः। मनःपुरुषयोस्तादात्म्याध्यासादाह— विषयाभिमुखं पुरुषमिति। विषयाभिमुखमनस्कं पुरुषमित्यर्थः। विषयाभिमुखं पुरुषाध्यस्तमन इति वाऽर्थः। विषयाभिमुखं पुरुषं हि यस्मादिन्द्रियाणि प्रमथ्नन्ति तत इन्द्रियाणि प्रमाथीनीत्युच्यन्त इति भावः। प्रमथ्नन्तीत्यस्यार्थमाह— विक्षोभयन्तीति। तस्याप्यर्थ- माह— आकुलीकुर्वन्तीति। एवं प्रमथनशीलत्वादिन्द्रियाणि तावदाकुलीकृत्य मनो हरन्तीत्याह— आकुलीकृत्येति। प्रसभमित्यस्य यावदर्थमाह— प्रकाशमेवेति। पश्यत इति। पुरुषस्येति शेषः। कीदृशं मनो हरन्तीत्यत आह— विवेकविज्ञानयुक्तं मन इति। विपश्चितो यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥६०॥
रागो नापगच्छति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगादितरेतराश्रयतेति? नेत्याह— नासतीति। इन्द्रियाणां विषय- पारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते। ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः नेतरेतराश्रयतेत्यर्थः। प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह— तस्मादिति॥५९॥
श्लोकान्तरमवतारयति— सम्यग्दर्शनेति। मनसः स्ववशत्वादेव प्रज्ञास्थैर्यसम्भवे किमर्थमिन्द्रियाणां स्ववशत्वापादनमित्या- शङ्क्याह— यस्मादिति। ननु विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्य- मिति? तत्राह— यततो हीति। विषयेषु भूयो भूयो दोषदर्शनमेव प्रयत्नः। हिशब्दस्य यस्मादर्थस्य समाप्तौ सम्बन्धं वक्ष्यति। अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा सम्बन्धान्तरमाह— पुरुषस्येति। प्रमथनशीलत्वं प्रकटयति— विषयेति। विक्षोभस्याकुलीकरणस्य फलमाह— आकुलीकृत्येति। प्रकाशमेवेत्युक्तं विशदयति— पश्यत इति। विपश्चितो विदुषोऽपि प्रकाशमेव प्रकाशशब्दितविवेकाख्य- विज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति सम्बन्धः। हिशब्दार्थमनूद्य तस्मादिन्द्रियाणि स्ववशे स्थापयितव्यानीति पूर्वेण सम्बन्ध-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
वर्तमानस्य, निवर्तते। निर्बीजं विषयविज्ञानं सम्पद्यत इत्यर्थः। नासति सम्यग्दर्शने रसस्योच्छेदः। तस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यमित्यभिप्रायः॥५९॥
सम्यग्दर्शनलक्षणप्रज्ञास्थैर्यं चिकीर्षता आदाविन्द्रियाणि स्ववशे स्थापयितव्यानि, यस्मात् तदनवस्थापने दोषमाह— यतत इति। यततः प्रयत्नं कुर्वतोऽपि हि यस्मात् , कौन्तेय ! पुरुषस्य विपश्चितो मेधाविनोऽपीति१ व्यवहितेन सम्बन्धः। इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य, प्रकाशमेव, पश्यतो विवेकविज्ञानयुक्तं मनः २यतस्तस्मात्॥६०॥
१. ‘मेधाविनो मनोऽपि’ इति रा. पा.। २. रा.पाठे ‘यतस्तस्मात्’ इति उत्तरश्लोकेऽन्वितम् । अ.२. श्लो.५९-६० ]
[[१२८]]
मन इत्यस्यार्थतः सिद्धं विवेकविज्ञानयुक्तमिति। ‘आत्मैक एवानवद्यः, विषयास्तु दुष्टा एव’ इति जानत एव पुरुषस्य मनः प्रकाशमेवेन्द्रियाणि विषयाभिमुखं कृत्वा व्याकुलीकृत्य निष्प्रज्ञं कुर्वन्तीत्यर्थः॥६०॥
तर्हि किं कर्तव्यम्? अत आह— तानीति। यतस्तस्मादिति। यस्मादेवमिन्द्रियाणि विपश्चितोऽपि मनः प्रक्षोभ्य प्रसभं हरन्ति, तस्मादित्यर्थः। सर्वाणीन्द्रियाणीति शेषः। समाहित इति। चित्तसमाधानशालीत्यर्थः। अहंशब्दार्थमाह— वासुदेव इति। किमयं वसुदेवपुत्रः? नेत्याह— सर्वप्रत्यगात्मेति। सर्वेषां भूतानां हृदि प्रत्यग्रूपेण स्थित आत्मा वासुदेव इत्यर्थः। परः प्राप्य इत्यर्थः। प्रत्यगभिन्नब्रह्मात्मानुसन्धानपर इति यावत्। तदेवाह— नान्योऽहं तस्मादिति। ‘अहं वासुदेवाद्भिन्नो न, किन्तु वासुदेव एवाहम्’ इति ज्ञानवानिति शेषः। आसीत वर्तेत, किञ्चिदप्यकुर्वन् तूष्णीं वर्तेतेत्यर्थः। एवमासीनस्य सतो यस्य यतेर्वशे इन्द्रियाणि वर्तन्ते, तस्य प्रज्ञा प्रतिष्ठिता। कुतो वर्तन्ते वशे इन्द्रियाणि? इत्यत आह— अभ्यासबलादिति। इन्द्रियाणां विषयप्रावण्यं वारयित्वा मन आत्मनि समाधाय ‘ब्रह्माहमस्मि’ इति यो नित्यमनुसन्धत्ते, तस्य क्रमेण भवतीन्द्रियजयः। तथा सतीन्द्रियजये स स्थितप्रज्ञ इत्युच्यत इत्यर्थः। अत्राधिकारिविशेषणानि शमदमोपरतिसमाधानान्युक्तानीति बोध्यम्। यत्तु - मत्परः चेतसः शुभाश्रयभूते मयि मनोऽवस्थाप्येति रामानुजः; तन्मन्दम् ; स्थितप्रज्ञस्य सांख्यस्य योगिवद् ध्यानधारणासम्भवात् ; न हि सच्चिदानन्दब्रह्मात्मतत्त्ववित् स्थितप्रज्ञः कञ्चिदाकारमात्मनि प्रकल्प्य ध्यायति, कल्पितस्य मिथ्यात्वात् कल्पनस्य क्लेशावहत्वात् , चिरकालावस्थानाभावेन कल्पितस्य क्षणिकत्वात् ततो दुःखहेतुत्वाच्च; नाप्यात्मनोऽन्यं परमात्मानं मनुते, तन्मननस्य भयहेतुत्वात्। ‘द्वितीयाद्वै भयं भवति’ इति श्रुतेः, तत्त्वमस्यादिश्रुतिभिर्ब्रह्मात्मैक् यप्रतिपादनात् , समाहिते मनसि सच्चिदानन्दलक्षणात्मस्वरूपाद्भिन्नस्य परमात्मस्वरूपस्य स्फुरणाभावाच्च, परमात्मनोऽपि सच्चिदानन्दरूपत्वेन आत्मस्वरूपात् पृथक्त्वायोगाच्च॥६१॥
मभिसन्धायाह— यतस्तस्मादिति॥६०॥
इन्द्रियाणां स्ववशत्वसम्पादनानन्तरं कर्तव्यमर्थमाह—तानीति। एवमासीनस्य किं स्यादिति? तदाह—वशे हीति। समाहितस्य विक्षेपविकलस्य कथमासनमित्यपेक्षायामाह— मत्पर इति। परापरभेदशङ्कामपाकृत्यासनमेव स्फोरयति— नान्योऽहमिति। उत्तरार्धं व्याकरोति—एवमिति। हिशब्दार्थं स्फुटयति—अभ्यासेति। परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्यादरेण नैरन्तर्य- दीर्घकालानुष्ठानसामर्थ्यादित्यर्थः। अथवा विषयेषु दोषदर्शनाभ्याससामर्थ्यादिन्द्रियाणि संयतानीत्यर्थः॥६१॥
समनन्तरश्लोकद्वयतात्पर्यमाह— अथेति। पुरुषार्थोपायोपदेशानन्तर्यम् अथशब्दार्थः। तन्निष्ठत्वराहित्यावस्थां दर्शयति— इदानीमिति। पराभविष्यतो महान्तमनर्थं गमिष्यतो विवेकविज्ञानविहीनस्येति यावत्। सर्वानर्थमूलं विषयाभिध्यानम्। तस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥६१॥
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। तानीति। तानि सर्वाणि संयम्य, संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन्नासीत। मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य स मत्परो, नान्योऽहं तस्मादित्यासीतेत्यर्थः। एवमासीनस्य यतेर्वशे हि यस्येन्द्रियाणि वर्तन्ते अभ्यासबलात् , तस्य प्रज्ञा प्रतिष्ठिता॥६१॥
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते— ध्यायत इति। ध्यायतः चिन्तयतो विषयान् शब्दादीन्
[[१२९]]
ध्यायत इति। पराभविष्यत इति। तिरस्करिष्यत इत्यर्थः३। यतमानस्य विपश्चितः पराभवं जनयिष्यत इति यावत्। ४पुरेति पाठस्तु सुगमः। तावदित्यर्थः। भविष्यतः उत्पत्स्यमानस्य सर्वविधस्याप्यनर्थस्य मूलं कारणमिदं विषयध्यानरूपमुच्यते। सर्वानर्थमूलमिति पाठे पराभविष्यतः पराभवं गमिष्यतो विवेकविज्ञानहीनस्य पुरुषस्येत्यर्थः। कुतश्चिद्धेतोः कामे प्रतिहते सति क्रोधो जायत इत्यर्थः। यथा स्त्रीकामस्य स्त्रियामपहृतायामपहर्तरि क्रोधः। ‘विषयान् ध्यायतः पुंसस्तेषु सङ्ग उपजायते, सङ्गात् कामः सञ्जायते, कामात् क्रोधोऽभिजायते’ इत्यन्वयः॥६२॥
क्रोधादिति। अविवेक इति। नायमात्मानात्मविषय इत्याह— कार्येति। ‘इदं कर्म कार्यम् , इदं कर्माकार्यम्’ इति विवेको न भवति क्रुद्धस्य पुंस इत्यर्थः। तदेव निदर्शयति— क्रुद्धो हीति। हिः प्रसिद्धौ। [आ]क्रोशति उपालभते, निन्दतीति यावत्। स्मृतीति। अनुभवजन्यः संस्कारः, संस्कारजन्या तु स्मृतिः। शास्त्रं श्रुतिस्मृत्यादिकम् , आचार्योपदेशः गुरूपदेशः, ताभ्यामाहितः सम्पादितो यः संस्कारः आत्मज्ञानवासना, तस्माज्जनितायाः स्मृतेः ‘सच्चिदानन्द आत्मा’ इत्याकारकस्मरणस्य। भ्रंशशब्दार्थमाह— स्मृतीति। स्मृत्युत्पत्तौ यन्निमित्तं सदृशवस्तुदर्शनादिकं तस्य प्राप्तावपि स्मृतेरनुत्पत्तिः भ्रंश इत्युच्यत इत्यर्थः। बुद्धिनाशः बुद्धेः अन्तःकरणस्य नाशः कार्याकार्यविषयविवेकाभावः बुद्धिनाशः। न हि यावन्मुक्तिदशमन्तःकरणस्य स्वरूपनाशः५। ‘अन्तःकरणस्य कार्याकार्यविषय- विवेकायोग्यता बुद्धेर्नाश इत्युच्यते’ इत्यन्वयः। प्रणश्यतीत्यस्यार्थमाह— तावदित्यादिना। यावदन्तःकरणं यस्य कार्याकार्यविषय- तथात्वमनुभवसिद्धमिति वक्तुमिदमित्युक्तम्। विषयेषु विशेषत्वमारोपितरमणीयत्वम्। २प्रीतिरिति साधारणासक्तिमात्रं गृह्यते। तृष्णेति उद्रिक्तासक्तिरुक्ता। प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः॥६२॥
क्रोधस्य सम्मोहहेतुत्वमनुभवेन द्रढयति— क्रुद्धो हीति। आक्रोशति अधिक्षिपति। तदयोग्यत्वम् अपेरर्थः। सम्मोहकार्यं कथयति— सम्मोहादिति। स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं निरूपयति— शास्त्रेति। क्षणिकत्वादेव तस्याः स्वतो नाशसम्भवान्न सम्मोहाधीनत्वं तस्येत्याशङ्क्याह— स्मृतीति। स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति? तत्राह— कार्येति। ननु पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते? तत्राह— तावदेवेति। कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते॥६२॥
क्रोधाद् भवति संमोहः सम्मोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥६३॥
१विषयविशेषानालोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते। सङ्गात् प्रीतेः सञ्जायते समुत्पद्यते कामः तृष्णा।(तस्मात् ) कामात् कुतश्चित् प्रतिहतात् क्रोधोऽभिजायते॥६२॥
क्रोधादिति। क्रोधाद् भवति सम्मोहः अविवेकः कार्याकार्यविषयः। क्रुद्धो हि सम्मूढः सन् गुरुमप्याक्रोशति। सम्मोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्याद् विभ्रमो भ्रंशः, स्मृत्युत्पत्ति- निमित्तप्राप्तावनुत्पत्तिः। ततः स्मृतिभ्रंशाद् बुद्धिनाशः बुद्धेर्नाशः, कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते। बुद्धिनाशात् प्रणश्यति। तावदेव हि पुरुषो यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम्। १. ‘शब्दादिविषयविशेषानालोचयतः’ इति पा.। २. ‘प्रीतिरासक्ति’रिति पा.। ३. ‘पराभविष्यतः सर्वानर्थस्य मूल’मिति पा.। तत्र - पराभविष्यतः इति अनर्थ- विशेषणम् , अतो व्याचष्टे— तिरस्करिष्यत इति। ४. ‘पुरा भविष्यतः’ इति पाठे इत्यर्थः। तत्र पुरा इत्यस्यार्थमाह— तावदिति। ५. ‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्’ (ब्र.सू.२.३.३०) इत्यत्र तथोक्तत्वादिति भावः। अ.२. श्लो.६१-६३ ]
[[१३०]]
विवेकयोग्यं तावदेव स पुरुष इत्युच्यते। तद्योग्यत्वे नष्टे स पुरुषो नैव भवति , किन्तून्मत्तः, स्थाणुः, पशुर्वा भवति। अयमेव हि पुरुषस्य प्रणाशः यदन्तःकरणस्य कार्याकार्यविषयविवेकाभावः। अतस्तादृशविवेकशून्यान्तःकरणः पुरुषः प्रणष्ट इव भवति। पुरुषात् तस्मात् पुरुषत्वस्यैवापगतत्वादिति कृत्वा प्रणश्यतीत्युक्तम्। पुरुषनिष्ठं पुरुषत्वं पौरुषं च पुरुषार्थयोग्यत्वमेवेत्यभिप्रेत्याह— पुरुषार्थायोग्य इति। न ह्यपुरुषाः पश्वादयः किमपि पुरुषार्थं साधयेयुरिति भावः॥६३॥
रागेति। रागद्वेषवियुक्तैरिन्द्रियैर्विषयांश्चरन् विधेयात्मा तु प्रसादमधिगच्छति। तत्पुरःसरेति। तौ रागद्वेषौ पुरःसरौ यस्याः सा तत्पुरःसरा, रागद्वेषप्रयुक्तेत्यर्थः। प्रवृत्तिरिति। विषयेष्विति शेषः। स्वाभाविकी स्वभावादागता - स्वभावसिद्धेति यावत्। चरन्निति। ‘चर गतिभक्षणयो’रिति धातुः। तत्र ‘ये गत्यर्थास्ते ज्ञानार्थाः’ इति न्यायात् चरतेर्ज्ञानार्थत्वमित्यभिप्रेत्याह— उपलभमान इति। अनुभवन्नित्यर्थः।इच्छातो विधेय इति। स्वेच्छाधीन इत्यर्थः। स्वाधीन इति यावत्। स्वास्र्ह्यमिति। मनःक्षोभाभावमित्यर्थः। अत्र चरन्नित्यस्य तिरस्कृत्य वर्तमान इति रामानुजेनोक्तम् ; तत्तुच्छम् ; चरतेस्तादृशार्थालाभात्। चरतिरत्र आक्रमणरूप- गतिपरः, भक्षणार्थः संहारपरो वा, तेन तिरस्कारार्थलाभ इति वेदान्तदेशिकः; तत्तुच्छम् ; गमनाक्रमणयोर्भेदात्। प्राप्त्याक्रमणयोस्तु भवति कथञ्चिदभेदः, तथापि नाक्रमणात् तिरस्कारलाभः। तथा भक्षणसंहारयोरपि भेद एव, भक्षणस्याहिंसात्मकत्वात् , संहारस्य च हिंसात्मकत्वात्। व्याघ्रः पुरुषं भक्षयतीत्यादौ कथञ्चिद्भक्षणस्य हिंसात्मकत्वेऽपि न तिरस्काररूपत्वं भक्षणस्य। भक्षणं ह्यनुभवः, तिरस्कारस्तु तत्रानादरः। स ह्यननुभवे पर्यवस्यति, अन्नं तिरस्कृत्य भक्ष्यान् भक्षयतीत्यादिप्रसिद्धेः। तस्माच्चरतेः तिरस्कारार्थकत्व- मप्रमाणम् ॥६४॥
२करणाभावादपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः; तदेतदाह— पुरुषार्थेति॥६३॥
विषयाणां स्मरणमपि चेदनर्थकारणम् , सुतरां तर्हि भोगः, तेन जीवनार्थं भुञ्जानो विषयान् अनर्थं कथं न प्रतिपद्यत इत्याशङ्क्य वृत्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह—सर्वानर्थस्येति। अनर्थमूलकथनानन्तर्यमथशब्दार्थः। परिहर्तव्ये निर्णीते तत्परिहारोपायजिज्ञासां दर्शयति—इदानीमिति। रागद्वेषपूर्विका प्रवृत्तिरित्यत्रानुभवदर्शनार्थो हिशब्दः। शास्त्रीयप्रवृत्तिव्यासेधार्थं स्वाभाविकीत्युक्तम्। तत्रे- त्यधिकृतानधिकृत्य प्रयोगः। अवर्जनीयान् अशनपानादीन् देहस्थितिहेतूनिति यावत्। इन्द्रियाणां विषयेषु प्रवृत्तिश्चेत् नियमानुपपत्त्या वर्जनीयेष्वपि सा स्यादित्याशङ्क्याह— आत्मेति। अन्तःकरणाधीनत्वेऽपीन्द्रियाणां तदनियमात् तेषामपि नियमानुपपत्तिरित्याशङ्क्याह— विधेयात्मेति॥६४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तदयोग्यत्वे नष्ट एव पुरुषो भवति। अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति। पुरुषार्थायोग्यो भवतीत्यर्थः॥६३॥
सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम्। अथेदानीं मोक्षकारणमिदमुच्यते— रागद्वेषेति। रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ। तत्पुरःसरा हीन्द्रियाणां प्रवृत्तिः स्वाभाविकी। तत्र यो मुमुक्षुर्भवति स ताभ्यां वियुक्तैः श्रोत्रादिभिरिन्द्रियैः विषयानवर्जनीयान् चरन् उपलभमानः आत्मवश्यैः आत्मनो वश्यानि वशीभूतानि तैरात्मवश्यैः विधेयात्मा इच्छातो विधेय आत्माऽन्तःकरणं यस्य सोऽयं प्रसादमधिगच्छति। १प्रसादः प्रसन्नता स्वास्र्ह्यम्॥६४॥
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥६४॥
१. ‘प्रसादं प्रसन्नतां’ इति पा.। २. ‘करभवत्’ इति पा.।
[[१३१]]
प्रसाद इति। बुद्धिरन्तःकरणं निश्चयात्मकम् , चेतस्तु संशयात्मकमिति विवेकः। समाचरेत् आसीत, वर्तेतेति यावत्। ज्ञाननिष्ठामभ्यसेदिति वा। ‘बुद्धिः पर्यवतिष्ठती’त्यत्र बुद्धिशब्दस्य ज्ञानार्थाश्रयणे ‘तस्य प्रज्ञा प्रतिष्ठिते’त्यनेनैकार्थश्च प्रतिभाति। ननु आत्मस्वरूपेणैव निश्चला भवतीत्यस्य अर्थानुपपत्तिः, अन्तःकरणात्मिकाया बुद्धेः, ‘अहं ब्रह्म’ इति बुद्धिवृत्तेर्वा सच्चिदानन्दलक्षणात्मस्वरूपा[पत्वा]योगादिति चेत्? उच्यते— सच्चिदानन्दलक्षणात्मतादात्म्याध्यासादन्तःकरणस्यात्मस्वरूप[त्व]- लाभ इति। यथा निरन्तरविष्णुमूर्तिध्यानवशान्मनसस्तद्रूपत्वलाभः। बुद्धिवृत्तेस्तु आत्मस्वरूपविषयत्वेन नैश्चल्यं विवक्षितमित्यदोषः ॥६५॥
नास्तीति। बुद्धिः ज्ञानम्। सुखस्य स्वरूपमाह— इन्द्रियाणामिति। इन्द्रियाणां विषयसेवायां या तृष्णा स्पृहा, तस्या इति तथापि नानाविधदुःखाभिभूतत्वान्न स्वास्र्ह्यमास्थातुं शक् यमित्याशयेन पृच्छति— प्रसाद इति। श्लोकार्धेनोत्तरमाह— उच्यत इति। सर्वदुःखहान्या बुद्धिस्वास्र्ह्येऽपि प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धमित्याशङ्क्याह— प्रसन्नेति। बुद्धिप्रसादस्यैव फलान्तरमाह— किञ्चेति। तस्माद् बुद्धिप्रसादार्थं प्रयतितव्यमिति शेषः। श्लोकद्वयस्याक्षरोत्थमर्थमुक्त्वा तात्पर्यार्थमुपसंहरति— एवमिति। युक्तः समाहितो विषयपारवश्यशून्यः सन्निति यावत्॥६५॥
किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति? नेत्याह— सेयमिति। असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभातीत्याशङ्क्य विशिनष्टि— आत्मस्वरूपेति। न हि विक्षिप्तचित्तस्यात्मस्वरूपविषया बुद्धिरुदेतुमर्हतीत्यत्र हेतुमाह— न चेति। आत्मज्ञाने शब्दादापाततो जाते स्मृतिसन्तानकरणं साक्षात्कारार्थम् अभिनिवेशो भावनेति चोच्यते। न चासौ विक्षिप्तबुद्धेः सिध्यतीति हेत्वर्थं विवक्षित्वाऽऽह— आत्मज्ञानेति। भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिरित्याशङ्क्याह— तथेति। असमाहितस्य भावनाऽभाववदिति यावत्। आत्मन्यापाततो ज्ञाते श्रवणाद्यावृत्तिरूपां स्मृतिमनातन्वानस्यापरोक्षबुद्ध्यभावे नानर्थनिवृत्तिः सिध्यतीत्याह— उपशम इति। अनिवृत्तानर्थस्य परमानन्दसागराद् विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न सम्भवतीत्याह— अशान्तस्येति। तस्यापि विषयसेवातो वैषयिकं सुखं सम्भवतीत्याशङ्क्याह— इन्द्रियाणां हीति। तृष्णाक्षयस्य ४शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रसादे सति किं स्यादित्युच्यते — प्रसाद इति। प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हानिः विनाशः, अस्य यतेः उपजायते। किञ्च प्रसन्नचेतसः २स्वस्थान्तःकरणस्य हि यस्माद् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशमिव परि समन्तादवतिष्ठते। आत्मस्वरूपेणैव ३निश्चलीभवतीत्यर्थः। एवं प्रसन्नचेतसोऽवस्थितबुद्धेः कृतकृत्यता यतः तस्माद् रागद्वेषवियुक्तैरिन्द्रियैः शास्त्राविरुद्धेष्ववर्जनीयेषु युक्तः समाचरेदिति वाक्यार्थः॥६५॥
सेयं प्रसन्नता स्तूयते— नास्तीति। नास्ति न विद्यते। न भवतीत्यर्थः। बुद्धिरात्मस्वरूपविषया, अयुक्तस्य असमाहितान्तःकरणस्य। न चास्त्ययुक्तस्य भावना आत्मज्ञानाभिनिवेशः। तथा न चास्ति अभावयतः आत्म- ज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमः। अशान्तस्य कुतः सुखम्? इन्द्रियाणां हि विषयसेवातृष्णातो निवृत्तिर्या तत् प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः १पर्यवतिष्ठते॥६५॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। १. ‘पर्यवतिष्ठति’ इति मूले भाष्ये च रा.पा.। २. ‘स्वच्छान्तःकरणस्य’ इति पा.। ३. ‘निश्चला भवतीत्यर्थः’ इति पा.। ४. ‘यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥’ इत्यादि शास्त्रम्। अ.२. श्लो.६४-६६ ]
[[१३२]]
पञ्चम्यास्तसिः। विषयविषया शब्दादिविषया तृष्णा तु न सुखम्। सा विषयतृष्णा। गन्धमात्रं लेशमात्रमपि नोपपद्यते न जायते। ननु विषयसिद्धौ विषयतृष्णातः सुखमेवेति चेत्? मैवम् , यदि विषयसिद्धिमात्रेण विषयतृष्णा निवर्तेत, तर्हि सुखमेव, न तु निवर्तते, प्रत्युत वर्धते। न हि लब्धधनस्य धनतृष्णा निवर्तमाना दृष्टा, श्रुता वा। नापि स्त्रिया सह मिथुनीभूय वर्तमानस्य स्त्रीतृष्णा निवर्तमाना दृष्टा श्रुता वा। तृष्णायां निवृत्तायामेव मनस्यन्तर्मुखे सति तत्रात्मसुखप्रतिबिम्बात् सुखलाभः। ततश्च सुखविरोधिनी तृष्णा दुःखहेतुत्वाद् दुःखमेवेति॥६६॥
इन्द्रियाणामिति। इन्द्रियाणां स्वविषयेषु चरतां सतां, यद्वा चरतामिन्द्रियाणामिति कर्मणि षष्ठी। चरन्ति इन्द्रियाणीत्यर्थः। यदिति मनसो विशेषणम्। सांयात्रिकाः पोतवणिजः। विषयविषयां शब्दादिविषयां प्रज्ञाम्॥६७॥
तस्मादिति। तस्मात् इन्द्रियाणां विषयेषु प्रवृत्तेर्बहुदोषवत्त्वादित्यर्थः। हे महाबाहो! यस्य इन्द्रियाणि सर्वशः सर्वेभ्य इन्द्रियार्थेभ्यो निगृहीतानि तस्य प्रज्ञा प्रतिष्ठितेत्यन्वयः। अगृहीतविषयेन्द्रियो जितेन्द्रियः स्थितप्रज्ञ इत्युच्यत इत्यर्थः॥६८॥
हिशब्दः। विषयसेवातृष्णयाऽपि विषयोपभोगद्वारा सुखमुपलब्धमित्याशङ्क्याह— दुःखमेवेति। तत्रापि हिशब्दोऽनुभवावद्योती। तदेव स्पष्टयति— नेत्यादिना॥६६॥
आकाङ्क्षाद्वारा श्लोकान्तरमुत्थापयति— अयुक्तस्येति। विक्षिप्तचेतसो भावनाऽभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति— इन्द्रियाणामिति। यत्पदोपात्तं मनस्तत्पदेनापि गृह्यते। इन्द्रियाणां श्रोत्रादीनां विषयाः शब्दादयस्तेषां विकल्पनं मिथो विभज्य ग्रहणं , तेनेति यावत्। दृष्टान्तं व्याकरोति— उदक इति। करोति यस्मात् तस्मादयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥६७॥
‘यततो ही’त्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वादस्ति पुनरुक्तिरित्याशङ्क्य परिहरति— यततो हीत्यादिना। ‘ध्यायतो विषयानि’त्यादिनोपपत्तिवचनमुन्नेयम्। तच्छब्दापेक्षितार्थोक्तिद्वारा श्लोकमवतारयति— इन्द्रियाणामिति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सुखम् , न विषयविषया तृष्णा, दुःखमेव हि सा। न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यत१ इत्यर्थः॥६६॥
अयुक्तस्य कस्माद् बुद्धिर्नास्तीत्युच्यते — इन्द्रियाणामिति। इन्द्रियाणां हि यस्मात् चरतां स्वस्वविषयेषु प्रवर्तमानानां यन्मनः अनुविधीयते अनुप्रवर्तते तद् इन्द्रियविषयविकल्पनेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञाम् आत्मानात्मविवेकजां नाशयति। कथम्? वायुर्नावमिव अम्भसि उदके २जिगमिषतां मार्गादुद्धृत्योन्मार्गे यथा वायुर्नावं प्रवर्तयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति॥६७॥
‘यततो ह्यपि’ इत्युपन्यस्तस्यार्थस्यानेकधोपपत्तिमुक्त्वा तं चार्थमुपपाद्योपसंहरति— तस्मादिति। इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् , तस्माद् यस्य यतेः हे महाबाहो ! निगृहीतानि सर्वशः सर्वप्रकारैः मानसादि- १. ‘उत्पद्यते’ इति पा.। २. ‘जिगमिषतां सांयात्रिकाणाम्’ इति पा.। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्?॥६६॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥६७॥
तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः।
[[१३३]]
येति। सर्वभूतानां या निशा तस्यां संयमी जागर्ति, यस्यां भूतानि जाग्रति, पश्यतो मुनेः सा निशा। लौकिक इति भोजनादिः, वैदिकः यज्ञादिः, व्यवहारः कर्म मनोवाक्कायनिष्पाद्यः। अविद्या ‘अहमज्ञः’ इत्यनुभवसिद्धा अनादिभावत्वे सति ज्ञाननिवर्त्यत्व- लक्षणलक्षिता अज्ञानशक्त्यादिपर्याया माया। विद्या ‘अहं ब्रह्म’ इति ज्ञानम्। स्थितप्रज्ञस्य ज्ञानेनाज्ञाननिवृत्तौ तत्कार्यव्यवहार- निवृत्तिरित्यर्थः। सर्वपदार्थानां घटादीनाम् अविवेककरी विवेकाभावकारिणी। न हि निशायां दीपादिज्योतिरभावे ‘घटोऽयं पटोऽयम्’ इति विवेकः कस्यापि सम्भवति। तत्र हेतुमाह— तमःस्वभावत्वादिति। अन्धकारमयत्वादित्यर्थः। अत्र निशावर्णनस्याप्रकृतत्वात् पृच्छति— किं तदिति। का सा निशेत्यर्थः। निशापदाभिधेयं तद् वस्तु किमित्यक्षरार्थः। उत्तरयति— परमार्थतत्त्वमिति। आत्मेति यावत्। तस्यैव परमार्थसत्यत्वात्। प्रपञ्चो हि व्यवहारसत्यः। कस्तद्वेदेत्यत आह— स्थितप्रज्ञस्य विषय इति। गोचर इत्यर्थः। तद्बुद्धिविषय इति यावत्। ननु या सर्वभूतानामविवेककरी निशा सा स्थितप्रज्ञस्याविवेककरी निशैव भवितुमर्हतीति कथं तस्याः स्थितप्रज्ञविषयत्वम्? अत आह—यथेत्यादि। अन्येषामस्मदादीनामहरेव सद् नक्तञ्चराणां निशा भवति,अहनि नक्तञ्चराणाम- प्रवृत्तेश्चेति भावः। नक्तं निशायां चरन्तीति नक्तञ्चराः भूतपिशाचोलूकादयः। तद्वदज्ञानिनां सर्वभूतानां निशा सत्यपि स्थितप्रज्ञस्य विषय एव परमार्थतत्त्वमिति। ननु परमार्थतत्त्वस्य कथं निशात्वम्? अत आह— निशेव निशेति। औपचारिकः प्रयोग इति भावः। ननु गौणप्रयोगेऽपि साम्यं वक्तव्यम्? अत आह— अगोचरत्वादिति। अतद्बुद्धयः आत्मज्ञानशून्याः, तेषामगोचरत्वाद् अविषयत्वात्। यथा असमाहितेन मनसा यस्मादनुविधीयमानानीन्द्रियाणि प्रसह्य प्रज्ञामपहरन्ति, तस्मादिति योजना॥६८॥
आत्मविदः स्थितप्रज्ञस्य सर्वकर्मपरित्यागेऽधिकारस्तद्विपरीतस्याज्ञस्य कर्मणीत्येतस्मिन्नर्थे समनन्तरश्लोकमवतारयति— योऽयमिति। अविद्यानिवृत्तौ सर्वकर्मनिवृत्तिश्चेत् तन्निवृत्तिरेव कथमित्याशङ्क्याह— अविद्यायाश्चेति। स्फुटीकुर्वन् बाह्याभ्यन्तरकरणानां पराक्प्रत्यक्प्रवृत्तिवत् तथाविधे दर्शने च मिथो विरुध्येते, पराग्दर्शनस्यानाद्यात्मावरणाविद्याकार्यत्वाद् आत्मदर्शनस्य च तन्निवर्तकत्वात्। ततश्चात्मदर्शनार्थमिन्द्रियाण्यर्थेभ्यो निगृह्णीयादित्याहेति योजना। सर्वप्राणिनां निशा पदार्थाविवेककरीत्यत्र हेतुमाह— तमःस्वभावत्वा- दिति। सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति— किं तदित्यादिना। स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञान् प्रति निशात्वमित्याशङ्क्याह— यथेति। तत्र हेतुमाह— अगोचरत्वादिति। अतद्बुद्धीनां परमार्थतत्त्वातिरिक्तद्वैतप्रपञ्चे प्रवृत्तबुद्धीनामप्रतिपन्नत्वात् परमार्थतत्त्वं निशेवाविदुषामित्यर्थः। तस्यामित्यादि व्याचष्टे— तस्यामिति। भेदैरिन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः, तस्य प्रज्ञा प्रतिष्ठिता॥६८॥
योऽयं लौकिको वैदिकश्च व्यवहारः, स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वादविद्यानिवृत्तौ निवर्तते अविद्यायाश्च विद्याविरोधान्निवृत्तिरित्येतमर्थं स्फुटीकुर्वन्नाह— या निशेति। या निशा रात्रिः सर्वपदार्थाना- मविवेककरी तमःस्वभावत्वात्१ सर्वभूतानां सर्वेषां भूतानाम्। किं तत्? परमार्थतत्त्वम् , स्थितप्रज्ञस्य विषयः। यथा नक्तञ्चराणामहरेव सद् अन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानिनां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगोचरत्वाद् अतद्बुद्धीनाम्। तस्यां परमार्थतत्त्वलक्षणायाम् २अज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥६८॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ.२. श्लो.६६-६९ ] १. ‘तमःस्वभावत्वात् निशा’ इति पा.। २. ‘अज्ञाननिद्रायाम्’ इति रा.पा.।
[[१३४]]
निशा अस्मदादिचक्षुर्वृत्त्यविषयः, तथा आत्मतत्त्वमप्यविदुषां बुद्धिवृत्त्यविषय इत्यर्थः। न च निशायाः कथं चक्षुर्वृत्त्यविषयत्त्वम् , तत्तमसः चक्षुषैव गृह्यमाणत्वादिति वाच्यम् ; चक्षुर्वृत्तिनिरोधकत्वस्यैव तमसो लक्षणत्वात् , नेत्रगोलकसम्बद्धे तमसि चक्षुर्वृत्त्यनपेक्षणात् , चक्षुर्वृत्तेर्बहिर्निर्गमनायोगाच्च, नेत्रे निमीलितेऽप्यान्तरतमोग्रहणसम्भवाच्च। तस्माच्चक्षुर्वृत्तिनिरोधकं तमो मनसैव वेद्यत इति बोध्यम्। परमार्थतत्त्वमेव लक्षणं यस्यास्तस्याम्। तस्यां निशायाम्। नास्या निशाया जाग्रदाद्यवस्थास्वन्तर्भाव इत्याह— अज्ञाननिद्रायामिति। जाग्रत्स्वप्नयोरिव न ज्ञानानि, सुषुप्ताविव न निद्राख्यं तमः, न विद्येते ज्ञाननिद्रे यस्यां तस्यामिति बहुव्रीहिः। अज्ञानानिद्रायामिति पाठे ४बहुव्रीहिद्वयस्य कर्मधारयः। सच्चिदानन्दरूपे आत्मनि अज्ञानाभावान्न निद्रा, बुद्ध्यभावान्न तद्वृत्तिज्ञानानि सन्तीत्यर्थः। न चाज्ञानोपाधिके आत्मनि कथमज्ञानाभाव इति वाच्यम् , निरुपाधिके आत्मनि अज्ञानोपाधिकल्पनस्यातात्त्विकत्वात् , परमार्थदशायामात्मनि अविद्याऽभावाच्च। यावद्व्यवहारं हि व्यवहारान्यथानुपपत्त्या आत्मन्यज्ञानं कल्पितम्। किञ्च ‘नाहं घटं जानामि’ इति यावद् घटाज्ञानानुभवः, तावद् घटाज्ञानमस्ति, चक्षुर्वृत्त्या घटाज्ञाने नाशिते तु घटप्रत्यक्षं भवति। सति च घटप्रत्यक्षे कथं पुनर्घटाज्ञानसद्भावः? एवं ‘नाहं ब्रह्म जानामि’ इति यावदात्माज्ञानानुभवः, तावदात्माज्ञानमस्ति, ‘अहं ब्रह्म’ इति धीवृत्त्या आत्माज्ञाने नाशिते तु आत्मसाक्षात्कारो जायते। सति चात्मसाक्षात्कारे कथं पुनरात्माज्ञानानुभवः यद्बलेनात्मन्यज्ञानं कल्प्येत? न च कार्यलिङ्गकानुमानेन कल्प्यतामिति वाच्यम् ; परमार्थतः प्रपञ्चाभावात्। तस्मान्नास्ति परमार्थतत्त्वे ज्ञानाज्ञानद्वन्द्वमित्यनवद्यम्। प्रबुद्धः विद्वान् स्थितप्रज्ञ इति यावत्। कोऽसौ प्रबुद्धः? अत आह— संयमीति। संयम इन्द्रियजयः। एतेन सर्वभूतानामविषयम् आत्मतत्त्वं स्थितप्रज्ञ एक एव नित्यमनुसन्दधानो वर्तत इति सिद्धम्। इदमेव हि विदुष आत्मनि जागरणं नाम यदात्मस्वरूपानुभवः। इदमेव ह्यविदुषामात्मनि स्वापो नाम यदात्मस्वरूपाज्ञानम्। अथ श्लोकस्योत्तरार्धं व्याचष्टे— यस्यामिति। ग्राह्याणि विषयाः, ग्राहकाणि समनस्कानीन्द्रियाणि, तद्भेद एव लक्षणं स्वरूपं यस्यास्तस्यां निशायामविद्यानिद्रायाम् अज्ञानात्मकनिद्रायाम्। निशाकार्ये निद्रायां निशात्वोपचार इति भावः। प्रसुप्तान्येवेति। अज्ञाननिद्राभिभूतत्वादिति भावः। उच्यत इति। अविवेकिभिरिति शेषः। तत्र दृष्टान्तमाह— प्रसुप्ता इव स्वप्नदृश इति। यथा निद्रायां प्रसुप्ताः स्वप्नद्रष्टृत्वाज्जाग्रतीत्युच्यन्ते, तद्वदिति। यद्वा व्यतिरेकदृष्टान्तोऽयम्। यथा स्वप्नदृशः पुरुषाः निद्रायां प्रबुद्धा अपि प्रसुप्ता इत्युच्यन्ते, तद्वदिति। यत्राविदुषां सर्वेषां भूतानां लौकिके च वैदिके च सर्वस्मिन्नविद्याकार्ये व्यवहारे प्रवृत्तिः, न स स्थितप्रज्ञस्य विषयः, तस्यात्मानुभवव्यग्रत्वात् , तद्विद्यया अविद्यायाः सकार्याया नष्टत्वाच्चेत्यभिप्रायः। अत्रायं निष्कर्षः— यो भूतानामविषयत्वान्निशारूपः आत्मा स स्थितप्रज्ञस्य गोचरत्वादहोरूपः। यस्तु भूतानां विषयत्वादहोरूपः आविद्यको व्यवहारः स स्थितप्रज्ञस्याविषयत्वान्निशारूपः इति। यथा नक्तञ्चराणां निशा अस्मदादीनामहः, अस्मदादीनां निशा नक्तञ्चराणामहः, तद्वदिति। भाष्यार्कप्रकाशः संयमवान् जितेन्द्रियो योगीत्यर्थः। यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां१ प्रसुप्तान्येव भूतानि २जाग्रती- त्युच्यन्ते (यस्यां निशायां)३, प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् , परमार्थतत्त्वं पश्यतो मुनेः। निशावदुक्तायामवस्थायामिति यावत्। योगीति ज्ञानी कथ्यते। द्वितीयार्धं विभजते— यस्यामिति। प्रसुप्तानां जागरणं विरुद्धमित्याशङ्क्याह— प्रसुप्ता इवेति। परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशेत्यत्र हेतुमाह— अविद्या- रूपत्वादिति। आनन्दगिरिकृतव्याख्या १. ‘अविद्यानिद्रायां’ इति पा.। २. ‘जाग्रतीत्युच्यते’ इति पा.। ३. कुण्डलितं क्वचिन्न। ४. ज्ञानं च निद्रा च ज्ञाननिद्रे इति द्वन्द्वोत्तरबहुव्रीहिरुक्तः। अज्ञानानिद्राया- मिति पाठे तु— न विद्यते ज्ञानं यस्यामिति, न विद्यते निद्रा यस्यामिति च बहुव्रीहिद्वयं कृत्वा, अज्ञाना चासौ अनिद्रा चाज्ञानानिद्रा इति कर्मधारयः।
[[१३५]]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यद्वा यस्मिन् ब्रह्मणि भूतानि निलीयन्ते सुषुप्तौ निशायां, तद् ब्रह्म भूतानां निशेत्युच्यते। तत्र च स्थितप्रज्ञो जागर्ति, तदनुभवितृत्वात् तस्य। यस्यामविद्यानिशायां भूतान्यहनि व्यवहरन्ति, सा अविद्यानिशा भूतानामहरित्युच्यते। तत्र च न स्थितप्रज्ञो जागर्ति, स्थितप्रज्ञाविषयत्वाद् व्यवहारस्य। यथा अस्मदहोरूपायां निशायां नक्तञ्चरा न जाग्रति, वयं तु जागृमः, अस्मन्निशारूपे अहनि तु नक्तञ्चरा जाग्रति, वयं तु न जागृमः, तद्वदिति। भूतानां ब्रह्मैव निशा, अविद्यैवाहः। स्थितप्रज्ञस्य तु ब्रह्मैवाहः, अविद्यैव निशेति सङ्क्षिप्तोऽर्थः। निर्व्यवहारः आत्मानुभवपरः स्थितप्रज्ञः, व्यवहारिण आत्मज्ञानहीनास्तु सर्वे प्राणिन इति भावार्थः। एवं श्लोकं व्याख्याय फलितमाह— अत इत्यादिना। अतः अविदुषां ब्रह्मज्ञानाभावाद् , विदुषश्च व्यवहाराभावादित्यर्थः। चोद्यन्ते विधीयन्ते शास्त्रेणेति शेषः। शर्वर्या इदं शार्वरम् , ‘तस्येदम्’ इत्यण्। सवितर्युदिते शार्वरं तम इव विद्यायां सत्यामविद्या प्रणाशमुपगच्छतीत्यन्वयः। विद्या ‘अहं ब्रह्मास्मि’ ‘तत्सत्यं स आत्मा तत्त्वमसि’ ‘स भूमा’ ‘अतोऽन्यदार्तम्’ इत्यादिज्ञानम्। ‘अहमज्ञः, कर्ता, भोक्ता, ब्राह्मणो, यष्टव्यं मम दातव्यम्’ इत्याद्यज्ञानमविद्या। अविद्यापरिणामरूपत्वात् सर्वोऽपि प्रपञ्चोऽविद्येत्युच्यते। इयं ह्यविद्या दर्शितविद्योत्पत्तेः प्राक् प्रमाणमिव प्रतिभाति। सर्वे ह्यास्तिका अतत्त्वविदः पुरुषाः - वेदशास्त्रादीनि, यज्ञयागादिक्रियाः, तत्तदुपकरणानि, स्वर्गादिफलानि च ब्राह्मणादिवर्णान् , ब्रह्मचर्याद्याश्रमान् , इन्द्रादिदेवताः - किं बहुना? सर्वमपि जगत् सत्यमेव मन्वते, ‘ब्रह्म सत्यं जगन्मिथ्या’ इति विद्योत्पत्त्यनन्तरं तु सर्वमप्यसत्यत्वादप्रमाणमित्येव मन्वते इत्याह— प्राग्विद्येत्यादिना। विद्योत्पत्तेः प्राक् क्रियाकारकफलभेदरूपा अविद्या प्रमाणबुद्ध्या गृह्यमाणा सती कर्महेतुत्वं प्रतिपद्यते हि। अप्रमाणबुद्ध्या गृह्यमाणाया अविद्यायाः कर्महेतुत्वोपपत्तिर्न, हि यतः कर्ता पुरुषः प्रमाणभूतेन वेदेन चोदितं कर्म मम कर्तव्यमिति मत्वा कर्मणि प्रवर्तते, ‘इदं सर्वं निशेवाविद्यामात्रम्’ इति जानंस्तु नैव प्रवर्तते इति भाष्यवाक् यान्वयः। विद्यादशायां तु वेदस्यैवाप्रमाणत्वात् कथं तच्चोदितकर्मणः [अविद्यावस्थायामेव कर्मविधिः] अतः कर्माण्यविद्यावस्थायामेव चोद्यन्ते, न विद्यावस्थायाम्। विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिव तमः, प्रणाशमुपगच्छत्यविद्या। प्राग्विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्व- कर्महेतुत्वं प्रतिपद्यते। नाप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः। प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्मेति परमार्थावस्था निशेवाविदुषाम् , विदुषां तु द्वैतावस्था तथेति स्थिते फलितमाह— अत इति। अविद्यावस्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः। विद्योदयेऽपि तत्प्रतिभानाविशेषात् पूर्वमिव कर्माणि विधीयेरन्नित्याशङ्क्याह— विद्यायामिति। अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिर्विभागाभिनिवेशाभावादित्यर्थः। अविद्यावस्थायामेव कर्माणीत्युक्तं व्यक्तीकरोति— प्रागिति। विद्योदयात्पूर्वं बाधकाभावादबाधिताऽविद्या क्रियादिभेदमापद्य, प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतु- र्भवति, क्रियादिभेदाभिमानस्य तद्धेतुत्वादित्यर्थः। न विद्यावस्थायामित्युक्तं प्रपञ्चयति—नाप्रमाणेति। उत्पन्नायां च विद्यायामविद्याया निवृत्तत्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते। तया गृह्यमाणा यथोक्तविभागभागिन्यप्यविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेनाभासतया तद्धेतुत्वायोगादित्यर्थः। विद्याऽविद्याविभागेनोक्तमेव विशेषं विवृणोति— प्रमाणभूतेनेति। यथोक्तेन वेदेन
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
ननु विद्योदयेऽपि देहादिप्रतिभासानिवृत्तेः, यथा पूर्वं कर्माणि विधीयन्ते, तथा विद्योदयादूर्ध्वमपि कस्मान्न विधीयन्त इत्याशङ्क्य विशेषमाह— प्राग्विद्योत्पत्तेरविद्या प्रमाणबुद्ध्या गृह्यमाणा सतीति। १‘अत्र वेदा अवेदा भवन्ती’ति श्रुतेः वैदिक- अ.२. श्लो. ६९ ] १. ‘अत्र पिताऽपिता भवती’त्यारभ्य पठितयाऽनया श्रुत्या अत्रेति प्रकृतपरामर्शात् सुषुप्तौ पित्राद्यभावः प्रतिपाद्यते। तच्च ‘तद्वा अस्यैतदतिच्छन्दा अपहत- पाप्माभयं रूपम्’ इति श्रुत्या तदा पित्रादिसंबन्धनिमित्तकर्मासंबन्धित्वादात्मनः उपपद्यते। आत्मतत्त्वप्रबोधेऽपि कर्मासंबन्धित्वं तुल्यमिति पित्राद्यभावः सिद्धः। अत एव ‘आत्मेति’(ब्र.सू. ४-१-३) इत्यत्र ‘वेदा अवेदाः(बृ.उ ४.३.२२) इति वचनादिष्यत एवास्माभिः श्रुतेरप्यभावः प्रबोधे’ इत्युक्तं भाष्यकारैः।
[[१३६]]
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
प्रामाण्यमिति भावः। निशेवेत्यस्य निद्रेवेत्यर्थः। निद्राया अविद्यामात्रत्वात्। दर्शयिष्यतीति। भगवानिति शेषः। पञ्चमाध्याये इति भावः। ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः।’ इति ज्ञाननिष्ठायामेव विदुषोऽधिकारं दर्शयिष्यतीत्यन्वयः। ननु विद्यावस्थायां वेदस्यैवाप्रमाणत्वेन तच्चोदितः प्रवृत्तिधर्म इव निवृत्तिधर्मोऽप्यप्रमाणमेवेति कथं विदुषो निवृत्तिधर्मे ज्ञाननिष्ठायां संन्यासेऽधिकार इति वक्तुं शक् यमिति शङ्कते— तत्रापीति। ज्ञाननिष्ठायामपीत्यर्थः। परिहरति— नेति। आत्मज्ञानस्य ज्ञाननिष्ठाया इत्यर्थः। विवृणोति— न हीति। आत्मनः स्वस्य स्वात्मनि प्रवर्तकप्रमाणापेक्षा न हि। तत्र हेतुमाह— आत्मत्वादेवेति। हि कर्मणि कर्ता प्रवर्तते, न अविद्यामात्रमिदं सर्वं निशेवेति१। यस्य पुनर्निशेवाविद्यामात्रमिदं सर्वं भेदजातमिति ज्ञानं तस्यात्मज्ञस्य सर्वकर्मसंन्यास एवाधिकारो, न प्रवृत्तौ। तथा च दर्शयिष्यति— ‘तद्बुद्धयस्तदात्मानः’ (भ.गी.५.१७) इत्यादिना ज्ञाननिष्ठायामेव तस्याधिकारम्। तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्तेरनुपपत्तिरिति चेत्? न ; स्वात्मविषयत्वादात्मविज्ञानस्य। न ह्यात्मनः आनन्दगिरिकृतव्याख्या कामनाजीवनादिमतो मम कर्म विहितं, तेन मया तत्कर्तव्यमिति मन्वानः सन् कर्मण्यज्ञोऽधिक्रियते, तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः। सर्वमेवेदमविद्यामात्रं द्वैतं निशेवेति मन्वानस्तु न प्रवर्तते कर्मणीति व्यावर्त्यमाह— नाविद्येति। विदुषो न कर्मण्यधिकारश्चेत् तस्याधिकारस्तर्हि कुत्रेत्याशङ्क्याह—यस्येति। तस्यात्मज्ञस्य फलभूतसंन्यासाधिकारे वाक् यशेषं प्रमाणयति—तथा चेति। प्रवर्तकं प्रमाणं विधिः। तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनुपपत्तेराश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते— तत्रापीति। किमात्मज्ञानं विधिमपेक्षते, किं वाऽऽत्मा? नाद्यः, तस्य स्वरूपविषयस्य यथाप्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह—न, स्वात्मेति। न द्वितीय इत्याह— न हीति। प्रवर्तकप्रमाणशब्दितस्य विधेः साध्यविषयत्वादात्मनश्चासाध्यत्वादिति हेतुमाह— आत्म-
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
विधिविधेयादिव्यवहारस्यावस्तुत्वं, स्वात्मना चासंस्पर्शं मन्यमानस्य कर्मणि नाधिकारश्चेत् , कथं तर्हि विदुषो वर्तमान [वर्तन]मित्याशङ्क्याह— यस्य पुनर्निशेवेति। प्रवर्तकप्रमाणस्य विधेरभावे यथा न कर्मसु प्रवृत्तिः, तथाऽस्य ज्ञाननिष्ठायामपि प्रवृत्तिर्न स्यात्। अतोऽवश्यं ज्ञाने [ऽपि प्रवर्तकप्रमाणं]२ विधिराश्रयणीय इत्याह— तत्रापि प्रवर्तकप्रमाणाभाव इति। तर्हि किं ज्ञानोत्पत्यर्थं विधिराश्रीयते, किं वा निष्प्रपञ्चस्वरूपेण स्थित्यर्थं, किं वा ज्ञानिव्यवहारस्य प्रामाणिकत्वसिद्ध्यर्थमिति वाच्यम्। प्रथमं प्रत्याह— नेति। ‘अहं ब्रह्मास्मी’ति वाक् याज्जायमानस्य ज्ञानस्य स्वात्मविषयत्वात् , स्वात्मनश्च नित्यापरोक्षत्वात् , ३विषयापरोक्षनिबन्धनत्वाच्च ज्ञानापरोक्षत्वस्य प्रथमत एव शब्दादपरोक्षज्ञानं जायते, न तत्र विध्यपेक्षेत्यर्थः। कथञ्चित् पुरुषदोषवशात् कस्यचित् पारोक्ष्यभ्रमेऽपि परमानन्दसाक्षात्कारस्य पुरुषार्थरूपत्वेन तत्प्रतिबन्धकपारोक्ष्यभ्रमनिरासे स्वयमेव प्रवृत्तिसम्भवात् न तत्रापि विध्यपेक्षेति द्रष्टव्यम्। द्वितीयं पक्षं दूषयति— न ह्यात्मन इति। अविद्याध्यारोपितमात्मनः सप्रपञ्चत्वम्। विद्यया चाविद्यानिवृत्तौ निष्प्रपञ्चस्वरूपावस्थानस्य स्वतःसिद्धत्वात् न तत्र विध्यपेक्षा। साध्ये(ति) ४नियोगो, न सिद्धे। कस्यचित् १. ‘निशेवेति जानन्’ इति रा.पा.। २. इदं क्वचिन्न। ३. आत्मनो ‘यत्साक्षादपरोक्षाद् ब्रह्म’ इति श्रुतेः स्वप्रकाशचिद्रूपत्वमेवापरोक्षत्वम्। जडार्थस्य चापरोक्षत्वम् अनावृतप्रमातृचैतन्यतादात्म्यमेव। वृत्तिज्ञानस्य त्वपरोक्षार्थगोचरत्वमेवापरोक्षत्वमित्यर्थाधीनमेव ज्ञानापरोक्षत्वं वक्तव्यम्। अत एव शाब्दापरोक्षं सिद्धान्त- संमतम्। अतश्चोक्तरीत्या आत्मनो नित्यापरोक्षत्वादेव शब्दादपि तद्विषयकमपरोक्षमेव ज्ञानं जायते इति भावः। ४. नियोगो विधिः।
[[१३७]]
यथा देहात्माभिमानिनः पुरुषस्य स्वदेहदर्शने प्रवर्तकं किञ्चित् प्रमाणं नास्ति, तदभावेऽपि स तत्र प्रवर्तत एव, तद्वदिति भावः। तदन्तत्वादिति। आत्मावसानत्वादित्यर्थः। तदन्तत्वमेव विवृणोति— न हीति। यावदात्मसाक्षात्कारं सर्वाणि शास्त्रादीनि प्रमाणानि भवन्ति, सति चात्मसाक्षात्कारे निष्प्रपञ्चे स्वयम्प्रभे आत्मन्यविक्रियेऽद्वितीये सच्चिदानन्दे ब्रह्मणि परमार्थतत्त्वे द्वैतादर्शनात् ‘आविद्यकं प्रतीतिमात्रसत्ताकमिदं द्वैतं मिथ्यात्वादप्रमाणमेव’ इति विदुषो निश्चयो जायते। एवं निश्चयशालिनो विदुषः कथं प्रमाणप्रमेयादि- व्यवहारसम्भवः? न कथमपीत्यर्थः। ननु प्रमातर्यात्मनि सति कथं प्रमाणाद्यसम्भवः? अत आह— प्रमातृत्वमपी[त्वं ही]ति। अन्त्यं शास्त्ररूपं प्रमाणमात्मनः प्रमातृत्वं निवर्तयति हि, ‘अहं ब्रह्म’ इत्याकारकवृत्तिजननद्वारेत्यर्थः। आत्मस्वरूपसाक्षात्कारजननद्वारेति वा। प्रमातृत्वस्य प्रमेयाधी- नत्वादप्रमेये आत्मनि प्रमेयस्य द्वैतस्यासम्भवाच्च नात्मनः प्रमातृत्वं पारमार्थिकमिति भावः। ‘एकमेवाद्वितीयं ब्रह्म’ इत्यादिशास्त्रं, विद्वदनुभवश्चात्र प्रमाणमिति बोध्यम्। नन्वाविद्यकत्वेनाप्रमाणस्य शास्त्रस्य कथं प्रामाण्यमत्र? इत्यत आह— निवर्तयदेवेति। यावदात्मनः प्रमातृत्वं तावच्छास्त्रस्य प्रामाण्यम् , यदा तु शास्त्रमात्मनः प्रमातृत्वं निवर्तयति तदैव शास्त्रमप्रमाणं भवति। यथा कतकरजः अम्भसि क्षिप्तं सत् तद्गतमालिन्यं हरदेव स्वयमपि नश्यति, तद्वदिति भावः। तस्मादात्मनः प्रमातृत्वं निवर्तयत् सदेव शास्त्रमप्रमाणं भवतीत्यनवद्यम्। उक्तार्थे दृष्टान्तमाह— ५स्वप्नेति। यथा स्वप्नकालप्रमाणं स्वप्नदशायामनुभवसिद्धं चक्षुरादिप्रमाणं प्रबोधे जाग्रत्यप्रमाणं भवति, तद्वदिति। स्वप्ने काशीनगरं दृष्टवान् पुरुषः तदा स्वस्य काशीनगरदर्शनकरणं निद्रया कल्पितं मृषाभूतमेव चक्षुः प्रमाणं मन्यते। प्रबोधे तु ‘मृषैव मया स्वप्ने काशी दृष्टा’ इति तादात्विकं चक्षुरप्रमाणमेव निश्चिनोति। एवमविद्यावस्थायां प्रमाणभूतं स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव। तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य। न ह्यात्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः सम्भवति। १प्रमातृत्वं ह्यात्मनो निवर्तयति अन्त्यं प्रमाणम्। निवर्तयदेव चाप्रमाणीभवति, त्वादेवेति। आत्मतज्ज्ञानयोर्विध्यनपेक्षत्वेऽपि ज्ञानिनो मानमेयव्यवहारप्रतिनियमार्थं विध्यपेक्षा स्यादित्याशङ्क्याह— तदन्तत्वाच्चेति। सर्वेषां प्रमाणानां प्रामाण्यस्यात्मज्ञानोदयावसानत्वात् तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वान्न तत्प्रतिनियमाय ज्ञानिनो विधिरित्यर्थः। उक्तमेव व्यक्तीकरोति— न हीति। धर्माधिगमवदात्माधिगमेऽपि किमिति यथोक्तो व्यवहारो न भवतीत्याशङ्क्याह— प्रमातृत्वं हीति। तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यमित्याशङ्क्याह— निवर्तयदेवेति। प्रमातृत्वं निवर्तयदद्वैतज्ञानं ४स्वयं निवृत्तेर्न प्रमाणमित्यत्र
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
संस्कारप्रचयापेक्षकमिथ्याज्ञानप्राबल्यप्राप्तौ २परिसंख्याविधिर्भविष्यति— आत्मा द्रष्टव्यः, अनात्मदर्शनं न कर्तव्यमिति। न त्वपूर्वविधिरप्रवृत्तप्रवर्तनात्मकः संभवतीति भावः। द्वितीय[तृतीय]विकल्पं दूषयति—तदन्तत्वाच्चेति। प्रमाणानां प्रमाणत्वस्य ब्रह्मज्ञानोदयान्तत्वाद् उत्तरकाले ज्ञानाभासादिलक्षणो व्यवहारो न विधिप्रतिषेधप्रमाणाधीनः, किन्त्वाभासरूप एवेति भावः। ननु सर्वस्य भेदस्य मिथ्यात्वावगमात् ज्ञानिनः सर्वो व्यवहारः अप्रामाणिक इति कथमुच्यते, यतः आत्मज्ञानमेव प्रमाणं विद्यत इत्याशङ्क्याह—प्रमातृत्वं हीति। यथा विनश्यदाश्रया विनाशक्रिया स्वाश्रयं ३निहन्ति, तथा प्रमात्राश्रयम् अद्वैतप्रमाणं १. प्रमातृत्वाभावे प्रमाणप्रमेयव्यवहारो न संभवति। तदुक्तमध्यासभाष्ये सर्वेषां प्रमाणानामविद्यावद्विषयत्वोपपादनावसरे—‘देहेन्द्रियादिष्वहम्ममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः।’ इत्यादि। २. सिद्धत्वेनात्मस्वरूपे विध्यसंभवेऽपि तज्ज्ञाने विधिरस्तु ‘आत्मा द्रष्टव्यः’ इति श्रुतेरित्याशङ्क्याभ्युपेत्यवादेन परिसंख्याविधिमाह—परीति। ‘अविशेषप्राप्तौ परप्रतिषेधफलोऽन्यतरानुवादः परिसंख्या’ (प्रकटार्थे पृ १११२) इति ग्रन्थकृतोऽभिमतं तल्लक्षणम्। परिसंख्यायाश्च विधित्वं गौणमेव। तत्र हि परप्रतिषेधो वाक्यार्थः। प्रतिषेधवाक्यस्य च कार्यपरत्वाभावः समन्वयाधिकरणद्वितीयवर्णके विस्तरेण निरूपितः। अतो नेह ज्ञाने विधिस्वीकारप्रयुक्तः सिद्धान्तविरोधः। ३. विनाशो हि अर्थस्य चरमसमयमात्रसंसर्गी भावविकारः। अत एव ‘घटो विनश्यति’ इति घटस्य चरमसमय एव व्यवहारः। तदुत्तरं तु ‘घटो विनष्टः’ इत्यतीतताप्रतीतिरेव। तत्र च धात्वर्थभूतविनाशक्रिया कर्तरि घटे उत्पद्यमाना उत्तरक्षणे घटाभावं संपादयतीति दृष्टान्तार्थः। ४. ‘स्वनिवृत्तेर्न’ इति पा.। ५. इदमुत्तरपृष्ठे द्र.। अ.२. श्लो.६९ ]
[[१३८]]
शास्त्रादिकं विद्यावस्थायामप्रमाणमेव भवति। एतावता तत्रापीति प्रश्नस्य किमुत्तरमायातमिति चेद्? इदमायातम्— यावदात्मसाक्षात्कारं शास्त्रस्य प्रमाणत्वात् पारोक्ष्येणा- त्मतत्त्वविदं विद्वांसं ज्ञाननिष्ठायां प्रवर्तयत्येव शास्त्रमिति। प्रवर्तकाभावेऽपि स्वात्मनि स्वत एव प्रवृत्तिरिति तु प्रौड्योक्तमुत्तरम् - इति। न केवलमात्मन्येव प्रवर्तकाभावेऽपि प्रवृत्त्युपपत्तिः, किन्तु लोकेऽपीत्याह— लोके चेति। घटादिवस्त्वनुभवे विषये पुरुषं न प्रवर्तयति चक्षुरादिप्रमाणम् , किन्तु तत्तद्वस्तुविषयेच्छैव। इच्छया घटाद्यधिगमे प्रवृत्तस्तु पुरुषः तत्करणं चक्षुरादिप्रमाणमपेक्षते। तस्मात् प्रमाणं प्रमातुः प्रमेयाधिगमे साधनमेव, न प्रवर्तकमित्यर्थः। एतेनात्मजिज्ञासुः पुरुषः तज्जिज्ञासया आत्मज्ञाने प्रमाणं वेदान्तशास्त्रमपेक्षते यावदात्मसाक्षात्कारम् , यथा घटं दिदृक्षुः पुरुषः तद्दिदृक्षया घटदर्शने प्रमाणं चक्षुरपेक्षते यावद्घटसाक्षात्कारम्। साक्षात्कारानन्तरं तु किं तस्य प्रमाणेन? न किञ्चिदपीत्यप्रमाणमेव प्रमाणम् , व्यर्थत्वादिति सिद्धम्। यथा कूपखानकः पुरुषस्तोयप्राप्त्यनन्तरं खनित्रादिकं खननसाधनं परित्यजति, तथा मुमुक्षुरात्मसाक्षात्कारानन्तरं वेदान्तशास्त्रं परित्यजेदेवेति नात्मस्वरूपाधिगमनानन्तरं प्रमाणव्यवहारः पण्डितस्य, नापि प्रामाण्यं शास्त्रस्य इति बोध्यम्। उपसंहरति— तस्मादिति। अविद्यावस्थायामेव कर्माणि चोद्यन्ते, न विद्यावस्थायामिति हेतोरित्यर्थः। आत्मविदः कर्मण्यधिकारो न, किन्तु ज्ञाननिष्ठायामेव। अयं च ज्ञाननिष्ठाधिकारोऽपि यावदात्मसाक्षात्कारमेव, पश्चात्तु अधिकार्याधिकारकयो- रेवाभावादधिकारस्यैवाभावः। न ह्यात्मा केनचित् कुत्रचिदधिक्रियते, सर्वशेषित्वादात्मनोऽविक्रियत्वाच्च। अधिकारकं शास्त्रं तु अद्वितीये आत्मनि नास्त्येव। अतः कथमधिकारसिद्धिः? न कथमपीति बोध्यम्॥६९॥
आपूर्यमाणमिति। यद्वत् आपः आपूर्यमाणमचलप्रतिष्ठं समुद्रं प्रविशन्ति, तद्वत् सर्वे कामा यं प्रविशन्ति सः शान्तिमाप्नोति, दृष्टान्तमाह— स्वप्नेति। आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह—लोके चेति। व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्चयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भाद् अद्वैतज्ञानमपि प्रमाणत्वान्न विधिमपेक्षते, रज्ज्वादिज्ञानवदित्यर्थः। आत्मज्ञानवतस्तन्निष्ठाया विधिमन्तरेण ज्ञानमाहात्म्येनैव सिद्धत्वात् तस्य कर्मसंन्यासेऽधिकारो, न कर्मणीत्युपसंहरति—तस्मादिति॥६९॥
नन्वसंन्यासिनाऽपि विद्यावता विद्याफलस्य मोक्षस्य लब्धुं शक् यत्वात् किमिति विदुषः संन्यासो नियम्यते? तत्राह— विदुष
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
स्वप्नकालप्रमाणमिव प्रबोधे१। लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्वादर्शनात् प्रमाणस्य। तस्मान्नात्मविदः कर्मण्यधिकार इति सिद्धम्॥६९॥
विदुषस्त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, न त्वसंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन
[अनुभूतिस्वरूपाचार्यटिप्पणम्]
स्वाश्रयस्य प्रमातृत्वं हत्वा स्वयमपि शाम्यतीत्यर्थः। इतश्च न ज्ञानोत्तरकालं प्रामाणिको व्यवहार इत्याह— लोके चेति। रज्ज्वां सर्पाध्यारोपात् तु यत् पलायनं कर्म, तद् रज्जुसाक्षात्कारे यथा न भवति, तथा स्वात्मनि संन्यासित्वाद्यध्यारोपात् यत् त्रिषवणस्नानादिलक्षणं कर्म विधितः आसीत् , तत् कथं संन्यासित्वादिविधुरस्वरूपावगमे विधित एव भवेत्? किन्त्वाभास- मात्रं स्यादिति भावः॥६९-७२॥
॥ इति श्रीमद्भगवद्गीताभाष्यटिप्पणे द्वितीयोऽध्यायः॥
१. अत्रेदं बोध्यम्—यस्मादात्मज्ञानवान् आत्मनो वर्णाश्रमवयोऽवस्थादिमत्त्वेऽश्रद्दधानो ‘विधिषु श्राद्धोऽधिकारी’ इति न्यायेन कर्मविधिभिर्नाधिक्रियते, तस्मात् तं प्रति कर्मविधीनामप्रामाण्यमननुष्ठापकत्वलक्षणमेव, न तु भ्रमजनकत्वलक्षणम्। यदि तु बाधितविषयकत्वादप्रामाण्यमुच्येत, तदापि ब्रह्मज्ञानेतराबाध्य- विषयकत्वलक्षणस्य व्यावहारिकप्रामाण्यस्य न क्षतिः। अतः प्रवृत्तिविशेषकरत्वाभाव एवाप्रमाणत्ववाचोयुक्तिः द्रष्टव्या।
[[१३९]]
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इति। आपातज्ञानवतो विवेकवैराग्यादिविशिष्टस्य एषणाभ्यः सर्वाभ्यो व्युत्थितस्य श्रवणादिद्वारा समुत्पन्नसाक्षात्कारवतो मुख्यस्य संन्यासिनो मोक्षो, नान्यस्य विषयतृष्णापरिभूतस्येत्येतद् दृष्टान्तेन २प्रतिपादयितुमिच्छन् ‘रागद्वेषवियुक्तैस्तु’ इति श्लोकोक्तमेवार्थं पुनराहेति योजना। अद्भिः समुद्रस्य समन्तात्पूर्यमाणत्वे वृद्धिह्रासवती तदीया स्थितिरापतेदित्याशङ्क्याह— अचलेति। न हि समुद्रस्योदकात्मकं प्रतिनियतं रूपं कदाचिदपि वर्धते ह्रसते वा। तेन तदीया स्थितिरेकरूपैवेत्यर्थः। ३तत्तन्नादेयाश्चेदापः समुद्रान्तर्गच्छन्ति, तर्हि तस्य विक्रियावत्त्वादप्रतिष्ठा स्यादित्याशङ्क्याह— स्वात्मस्थमिति। इच्छाविशेषाः विषयाणामसन्निधौ विदुषि निर्विकारेऽप्रविशन्तोऽपि सन्निधाने तस्मिन् प्रविशन्तो विकारमापादयेयुरित्याशङ्क्याह— विषयेति। प्रवेशं विशदयति— सर्व इति। ‘योऽकामः’ इत्यादिश्रुतेर्विषयविमुखस्य निष्कामस्य मोक्षः, न कामकामुकस्येत्याह— स शान्तिमिति॥७०॥
कामकामी शान्तिं नाप्नोति। आ समन्तात्पूर्यमाणम् आपूर्यमाणम्। कर्त्राकाङ्क्षां वारयति— अद्भिरिति। यद्वा भगवतेति कर्तुःशेषः। आपस्तु करणम्। अचलप्रतिष्ठं न चलतीत्यचलः, पाराभावाच्चलनरहितः। प्रतिष्ठा शाश्वती स्थितिः अस्यास्तीति प्रतिष्ठः, अर्श- आद्यजन्तः। प्रतिष्ठति प्रकर्षेण शाश्वतं तिष्ठतीति प्रतिष्ठ इति पचाद्यजन्तो वा४। अचलश्चासौ प्रतिष्ठश्चाचलप्रतिष्ठः। अचल इति हेतुगर्भं विशेषणम्— यस्मादचलस्तस्मात् प्रतिष्ठ इति। इदं सर्वमभिप्रेत्याह— अचलतया प्रतिष्ठा यस्य तमिति। ‘अचला प्रतिष्ठा यस्य तम्’ इति व्याख्याने तु मूलाद्बहिरेव अपारत्वादिति हेतुः कल्पनीयः स्यात्। इदानीं तु अचलशब्दादर्थतः सिद्धं तदपारत्वमिति बोध्यम्। सर्वतो गताः सर्वतः प्राप्ताः आपः गङ्गादिनदीजलानि। स्वात्मस्थं स्वरूपस्थम्। तदेव विवृणोति— अविक्रियमेव सन्तमिति। समुद्रमित्यस्य विशेषणमिदम्। नदीजलप्रवेशाप्रवेशाभ्यां समुद्रस्य वृद्धिह्रासरूपो न कोऽपि स्वरूपगतो विकार इत्यर्थः। विषयसन्निधावपीति। अपिना विषयाणामसन्निधौ सुतरामेवास्य नास्ति कोऽपि कामकृतो विकार इति सूच्यते। केचिद् धीराः स्त्र्याद्यसन्निधौ निष्कामविकारा वर्तन्ते, तत्सन्निधौ तु कामविकारं भजन्ते इति दर्शनादाह— विषयसन्निधावपीति। अविकुर्वन्तः कमपि विकारमजनयन्तः। यतिं कामाः प्रविशन्तीत्यस्यार्थमाह— सर्व इति। आत्मनि ५मनसि, कूटस्थे वा। फलितमाह— नेति। कामा यतिं स्वात्मवशं कामपरतन्त्रं न कुर्वन्ति। शान्तिं मोक्षं ब्रह्मेति यावत्। सर्वप्रपञ्चोपशमसम्भवाद् ब्रह्मणः शान्तिपदाभिधेयत्वम्। यद्वा शान्तिं सकार्यस्याज्ञानस्य निवृत्तिमित्यर्थः। सर्वदुःखनिवृत्तेर्मोक्षत्वादाह— मोक्षमिति॥७०॥
प्रतिपादयिष्यन्नाह— आपूर्येति। आपूर्यमाणमद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिर्यस्य तमचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत् , तद्वत् कामाः विषयसन्निधावपि सर्वत इच्छाविशेषाः यं १पुरुषं समुद्रमिवापोऽविकुर्वन्तः प्रविशन्ति, सर्वे आत्मन्येव प्रलीयन्ते, न स्वात्मवशं कुर्वन्ति, स शान्तिं मोक्षम् आप्नोति। नेतरः कामकामी। काम्यन्त इति कामा विषयाः, तान् कामयितुं शीलं यस्य स कामकामी नैव प्राप्नोतीत्यर्थः ॥७०॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥७०॥
१. ‘यं यतिम्’ इति रा.पा.। २. अनेन ‘प्रतिपिपादयिषन्नाह— ’ इति भाष्यपाठः आनन्दगिरिसंमत इत्यूह्यते। ३. ‘तत्तन्नादेय्यः’ इति पाठः स्यात्। ‘नद्यादिभ्यो ढक्’ (पासू ४-२-९७) इति सूत्रविहितढगन्तस्य स्त्रियां ङ्यन्तत्वौचित्यात्। ४. पचाद्यचि तु तिष्ठादेशो दुर्लभ इति प्रतिरुपसर्गो ग्राह्यः। शप्रत्ययो वा वाच्यः, पाघ्रादिसूत्रेण तिष्ठादेशसंभवात्। ५. कामानां मनःपरिणामतया मनोधर्मत्वेन तत्र विलयौचित्यादाह—मनसीति। अ.२. श्लो.६९-७० ]
[[१४०]]
विहायेति श्लोकमवतारयति— यस्मादेवं तस्मादिति। यस्मादेवं निष्काम एव शान्तिमाप्नोति, न कामकामी, तस्मात् - कामकामिनो मोक्षाभावादित्यर्थः। यः पुमान् सर्वान् कामान् विहाय निःस्पृहो निर्ममो निरहङ्कारश्च सन् चरति स शान्तिमधिगच्छति। यः संन्यासीति। तस्यैव प्रकृतत्वादिति भावः। जीवनमात्रचेष्टाशेषः जीवनमेव जीवनमात्रम् , तत्सम्बन्धिनी चेष्टा शरीरचेष्टा जीवनमात्रचेष्टा, सैव शेषो यस्य स तथोक्तः। प्राणधारणमात्रफलकभिक्षाटनव्यापारमात्रवानित्यर्थः। चरतेर्गत्यर्थत्वादाह—पर्यटतीति। परितः सर्वेषु ग्रामादिषु अटति सञ्चरति, ग्रामैकरात्रवासित्वात् संन्यासिन इत्यर्थः। ननु ‘सर्वान् कामान् परित्यज्ये’त्यनेनैव निःस्पृहत्वं सिद्धमिति निःस्पृह इति पुनरुक्तमित्याह— शरीरेति। येन केनाप्युपायेन शरीरजीवनमवश्यं कर्तव्यमिति नास्ति यतेः कामः। तथा सति कृष्यादिस्तेयादिप्रसङ्गात्। किन्तु माधुकरान्नेन सरिदम्बुपानेन च क्षुत्तृडपनयनमात्रं कर्तव्यमित्येव यतिर्मन्येत। एतेन न यतेर्मरणभीतिः कार्येत्युपदिष्टम्। निर्ममः ममतारहितः। ननु संन्यस्तसर्वस्य क्व ममता, स्वीयस्यैवाभावाद्? अत आह— शरीरेति। शरीरजीवनमात्रार्थमाक्षेपतः प्राप्ते भिक्षाकपालशाट्यादिरूपेऽपि परिग्रहे परिगृह्यत इति परिग्रहः, तस्मिन्। अभिनिवेशोऽभिमानः। आत्मसम्भावना स्वश्लाघा। निर्वाणं मोक्षः। ब्रह्मभूतो भवति ‘ब्रह्मविद् ब्रह्मैव भवति’ इति श्रुतेः ब्रह्मभावं प्राप्नोति इति। ननु ‘स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥’ इत्यर्जुनप्रश्नस्यैतावता किमुत्तरमायातमिति चेत्? उच्यते— सर्वकामपरित्यागः, आत्मरतिः, दुःखेष्वनुद्वेगः, सुखेषु स्पृहाऽभावः, रागभयक्रोधाभावः, सर्वत्र स्नेहाभावः, शुभप्राप्तावानन्दाभावः, अशुभप्राप्तौ द्वेषाभावः, इन्द्रियजयः, प्रत्यग्ब्रह्मपरता, समाहितचित्तत्वं, व्यवहारराहित्यं, निःस्पृहत्वं, निर्ममत्वं, निरहङ्कारत्वमित्येतानि पञ्चदश स्थितप्रज्ञस्य लक्षणानि। स्थितप्रज्ञत्वस्य साधनानि चेमानि। यस्मिन्नेतानि दृश्यन्ते स स्थितप्रज्ञ इति परैरुच्यते। स्वयं चात्मानं स्थितप्रज्ञं स विद्यात्। भिक्षायाच्ञामृते नास्य कोऽपि वाग्व्यापारः। सति तु सौम्ये यस्मादेवं तस्मात् — विहायेति। विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः - कार्त्स्न्येन, चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः। निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य स निःस्पृहः सन् , १निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ‘ममेदम्’ इत्यभिनिवेशवर्जितः, निरहङ्कारो विद्यावत्त्वादिनिमित्तात्मसम्भा- वनारहित इत्यर्थः। स एवम्भूतः स्थितप्रज्ञो ब्रह्मवित् शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति। ब्रह्मभूतो भवतीत्यर्थः॥७१॥
यदि गृहस्थेनापि मनसा समस्ताभिमानं हित्वा कूटस्थं ब्रह्मात्मानं परिभावयता ब्रह्मनिर्वाणमाप्यते, प्राप्तं तर्हि मौड्यादि [मौण्ड्यादि] विडम्बनमेवेत्याशङ्क्याह— यस्मादिति। शब्दादिविषयप्रवणस्य तत्तदिच्छाभेदभागिनो न मुक्तिरिति व्यतिरेकस्य सिद्धत्वात् पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक् यमित्यर्थः। अशेषविषयत्यागे जीवनमपि कथमित्याशङ्क्याह— जीवनेति। सम्भवद्रागद्वेषादिके देशे निवासव्यावृत्त्यर्थं चरतीति; एतद् व्याचष्टे— पर्यटतीति। ‘विहाय कामानि’त्यनेन पुनरुक्तिं२ परिहरति— शरीरेति। निःस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् कथं पुनरुक्तिमार्थिकीं न ३पश्यतीत्याशङ्क्याह— शरीरजीवनेति। सत्यहङ्कारे ममकारस्यावश्यकत्वाद् निरहङ्कारत्वं व्याकरोति— विद्यावत्त्वादीति। स शान्तिमाप्नोतीत्युक्तमुपसंहरति— स एवम्भूत इति। संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकाम-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शान्तिमधिगच्छति॥७१॥
१. ‘निर्मम इति ममत्ववर्जितः शरीर’इति पा.। २. निःस्पृहः इत्यस्येति शेषः। ३. ‘पश्यसीत्याशङ्क्याह’ इति पा.।
[[१४१]]
शिष्ये तस्मै तत्त्वमुपदिश्यादिति३ त्वत्रानुक्तमपि ग्राह्यमन्यतः ४शास्त्रात्। अन्यथा सम्प्रदायविच्छेदप्रसङ्गात्। मानसिकव्यापारस्तु इन्द्रियाणां विषयेभ्यः प्रत्यावर्त्य स्ववशे स्थापनम्। आत्मस्वरूपानुसन्धानञ्च स्वस्वरूपेणावस्थानम्। कायव्यापारस्तु भिक्षार्थं पर्यटनमेव। तच्च ‘चरती’त्यनेन प्रतिपादितमिति। किञ्च प्रश्नश्लोके ‘व्रजेत किम्’ इत्यस्य किं प्राप्नुयादित्यप्यर्थ आयाति, तस्य च समाधानमुक्तम्— स शान्तिमधिगच्छतीति। एतेन स्थितप्रज्ञस्य मोक्ष एव फलमिति सिद्धम्। युक्तञ्चेदम् , विद्ययैवाविद्याया नाशाद् आविद्यकसर्वसंसारोपरमात्मको मोक्षः स्थितप्रज्ञस्येति। ततश्च न कर्मिणां मोक्ष इति फलितम्। अत एव ‘नास्त्यकृतः कृतेन’ इति श्रुतिरुपपद्यते। ‘तमेवं विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति च। कामत्यागेन्द्रियजयनिर्व्यवहारत्वादीनां गृहस्थे ऽसम्भवात् तादृशसंन्यास्येव स्थितप्रज्ञ इति संक्षेपः॥७१॥
एषेति। ब्राह्मीति ‘तत्र भवः’ इति भवार्थेऽण् इत्याह— ब्रह्मणि भवेति। टिलोप आर्षः। न च ‘ब्राह्मः’ इति निपातनात् सिध्यतीति वाच्यम् ; तत्र ५चतुर्मुखवाचिब्रह्मशब्दग्रहणात्। न च ६तत्त्वविध्योरुभयोर्ग्रहणमिति वाच्यम् ; अनेकार्थत्वस्यान्याय्यत्वात्। न च तत्त्वस्यैव ग्रहणमिति वाच्यम् ; ब्राह्मं हविरित्यसिद्धेः, ब्रह्मदेवताकं हि ब्राह्ममित्युच्यते। ब्राह्मं हि हविः स्वयम्भुवमुद्दिश्याग्नौ निक्षिप्यते। यद्वा चतुर्मुखवाच्येवात्रापि ब्रह्मशब्दः। लक्षणया तु शुद्धब्रह्माभिधीयत इति ब्राह्म इति निपानाट्टिलोपः। ब्रह्मस्वरूपेणाव- स्थानं नाम ‘ब्रह्माहम्’ इति निश्चयेनावस्थानमित्यर्थः। ब्रह्मनिर्वृतिं ब्रह्मानन्दमित्यर्थः। अन्तकालेऽपीत्यपिशब्दसूचितमर्थमाह— किमु वक्तव्यमित्यादिना। ब्रह्मण्येवेति। ज्ञाननिष्ठायामित्यर्थः। ब्रह्मण्यवस्थानं ब्रह्मात्मस्वरूपानुसन्धानमिति वा। एतेन ब्रह्मचर्यादारभ्य देहपातादर्वाग् यदा कदा वा ब्राह्मणेन संन्यसितव्यम् , संन्यस्य च सर्वकामप्रहाणादिपूर्वकं स्थितप्रज्ञा परित्यागादीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि। तत्सम्पत्तिफलं तु कैवल्यमित्यर्थः॥७१॥
तत्र तत्र संक्षेपविस्तराभ्यां प्रदर्शितां ज्ञाननिष्ठाम् १अधिकारिप्रवृत्त्यर्थत्वेन स्तोतुमुत्तरश्लोकमवतारयति— सैषेति। गृहस्थः संन्यासीत्युभावपि चेन्मुक्तिभागिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन? इत्याशङ्क्य संन्यासिव्यतिरिक्तानामन्तरायसम्भवादपेक्षितः संन्यासो मुमुक्षोरित्याह— एषेति। स्थितिमेव व्याचष्टे— सर्वमिति। न विमुह्यतीति पुनर्नञोऽनुकर्षणमन्वयार्थम्। संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति। २विचित्तः सन् परमार्थविवेकरहितो भवतीत्यर्थः। यथोक्ता ब्राह्मी स्थितिः सर्वकर्मसंन्यासपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमामायुषश्चतुर्थेऽपि भागे कृत्वेत्यर्थः। अपिशब्दसूचितं कैमुतिकन्यायमाह— किमु वक्तव्यमिति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सैषा ज्ञाननिष्ठा स्तूयते— एषा ब्राह्मीति। एषा यथोक्ता ब्राह्मी ब्रह्मणि भवेयं स्थितिः, सर्वं कर्म संन्यस्य ब्रह्मरूपेणैवावस्थानमित्येतत्। हे पार्थ, न एनां स्थितिं प्राप्य लब्ध्वा, न विमुह्यति न मोहं प्राप्नोति। स्थित्वाऽस्यां स्थितौ ब्राह्म्यां यथोक्तायाम् अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति गच्छति। किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येवावतिष्ठते स ब्रह्मनिर्वाणमृच्छतीति॥७२॥
एषा ब्राह्मी स्थितिः पार्थ ! नैनां प्राप्य विमुह्यति। स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥७२॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः॥२॥
१. अनेन ज्ञाननिष्ठास्तुतेः प्रयोजनं दर्शितम्। २. ‘विक्षिप्तः’ इति पा.। ३.आशिषि लिङ् । ४. ‘तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्॥’ (मु.उ.१.१३) इति शास्त्रात्। प्रोवाच= प्रब्रूयात्। ५. द्र. पृ. १०९। ६. तत्त्वं ब्रह्म, विधिः ब्रह्मा। अ.२. श्लो.७१-७२ ]
[[१४२]]
सम्पादनीयेति हितोपदेशः सूचितः। न चानधिकारिणोऽर्जुनस्य कुतः संन्यासोपदेश इति वाच्यम् , तेन स्थितप्रज्ञलक्षणस्य पृष्टत्वात्। अर्जुनेन स्वस्य ज्ञाननिष्ठायामधिकाराभावस्याविदितत्वाच्च प्रश्नस्योपपत्तिः। न च ‘कर्मण्येवाधिकारस्ते’ इति भगवतोक्तं खल्विति वाच्यम् ; उक्तत्वेऽपि आपातत एव स्वस्य कर्माधिकारं जानाति, न तु सहेतुकं निःसंशयम्। कथमन्यथा ‘ज्यायसी चेत् कर्मणः’ इत्यनुपदमर्जुनः प्रष्टा इति॥७२॥
६सांख्ययोगः सांख्येन योगः सम्बन्धो यस्य स सांख्ययोगः, सांख्ययोगो ज्ञानयोगः सोऽस्मिन्नस्तीत्यर्शआद्यजन्तो वा। प्रतिपाद्यप्रतिपादकयोरभेदसम्बन्धेन सांख्ययोगप्रतिपादकस्याध्यायस्य सांख्ययोगशब्दवाच्यत्वम् , उपचारादिति वा। यद्यप्यत्र कर्म- योगोऽपि क्वचित् प्रतिपादितः, तथापि प्रायशः सांख्यस्य प्रतिपादनात् तद्व्यपदेशः। परमहंसपरिव्राजकेति। कुटीचक-बहूदक-हंस-परमहंसात्मकाश्चत्वारो यतिनः। तत्र पूर्वपूर्वापेक्षया उत्तरोत्तर उत्कृष्टः ज्ञानवैराग्यादिगुणैः। परित्यज्य व्रजतीति परिव्राजकः संन्यासी। परमहंसश्चासौ परिव्राजकश्च परमहंसपरिव्राजकः। आचारमाचारयतीत्याचार्यः। शास्त्रोक्तं निवृत्तिधर्मं स्वयमाचरन् अन्येभ्यः पद्मपादादिभ्यः शिष्येभ्य उपदिशतीत्याचार्यः। पूज्यौ पादौ यस्य स पूज्यपादो गुरुः। भगवान् षड्गुणैश्वर्यसम्पन्नश्चासौ पूज्यपादश्च भगवत्पूज्यपादः। गोविन्द इति भगवत्पूज्यपादः गोविन्दभगवत्पूज्यपादः। तस्य शिष्यः। श्रीमान् ज्ञानवैराग्यादिसम्पच्छाली। भगवन्तौ पादौ यस्य स भगवत्पादः। आत्मगुणस्य भगस्य पादे आरोपः। पद्यते गम्यते सेव्यत इति पादः, भगवतामपि पद्मपादादीनां पाद भगवत्पादः इति वा। भगवतः शङ्करस्य पादोंऽशः भगवत्पाद इति वा, शिवावतारत्वादस्य। भगवन्तं परमात्मानं पद्यते जानाति, पादयति बोधयतीति वा भगवत्पादः। शङ्कर इति भगवत्पादः शङ्करभगवत्पादः। विशेष्यमिदम् , प्राचीनानि तु विशेषणानि प्रथमान्तानि, अनेन साकं तेषामभेदेन सम्बन्धः, विशेषणानामपि परस्परमभेदसम्बन्धात् समासः ‘विशेषणं विशेष्येण’ इति सूत्रे बहुलग्रहणात् सिध्यति, केषुचिद् विशेषणेषु विशेष्यत्वारोपादिति वा। क्रियत इति कृतिः, भगवत्पादस्य कृतिः भगवत्पादकृतिः, तस्याम् ; तेन कृते इत्यर्थः। श्रीयुक्तो भगवान् श्रीभगवान् भगान्तःपातिन्या अपि श्रियः पृथग्ग्रहणं प्राशस्त्यार्थं प्राधान्यार्थं वा। इन्दिरावानिति वा। तस्य गीताः श्रीभगवद्गीताः कर्तरि षष्ठीसमासः। तत्कर्तृकगीता इत्यर्थः। गीयन्त इति गीताः श्लोकाः, तासां भाष्ये ग्रन्थे द्वितीयोऽध्यायः, इति समाप्तः। ॥इति बेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे द्वितीयोऽध्यायः॥
७[कीलकसंवत्सरकार्तिकबहुलसप्तम्यामस्य समाप्तिः] तदेवं तत्त्वम्पदार्थौ, तदैक् यं वाक् यार्थः, तज्ज्ञानादेकाकिनो२ मुक्तिः, ३तदुपायश्च इत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति ४निष्ठाद्वयम् उपायोपेयभूतमध्यायेन सिद्धम् ५॥७२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने द्वितीयोऽध्यायः॥२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ श्रीभगवद्गीताभाष्ये द्वितीयोऽध्यायः॥ इति रीत्या पाठः रामकवि- संमतः। एवमग्रेऽपि। २. एकाकिनः= कर्मणा असमुच्चितादित्यर्थः। ३. ज्ञानोपाय इत्यर्थः। ४. ज्ञाननिष्ठा मुक्त्युपायभूतोपेया, तदुपायः कर्मयोगनिष्ठा। ५. अत्र पङ्क्तितात्पर्यं तु ‘तदनेन द्वितीयाध्यायेन तत्पदलक्ष्यं परमात्मानमेव त्वंपदलक्ष्यत्वेन प्रतिपादयता साक्षाच्छोकमोहनिवृत्तिहेतुभूतां ज्ञाननिष्ठां लक्षणसहितां प्राधान्येन, तदुपायभूतां योगनिष्ठां च गुणभावेन प्रदर्शयता उपायोपेयभूतं निष्ठाद्वयं प्रकाशितम्।’ इति भाष्योत्कर्षदीपिकया विशदीकृतम्। ६. ‘सांख्ययोगो नाम द्वितीयोऽध्यायः’ इत्येतद् व्याचष्टे—सांख्ययोग इत्यादिना। ७. इदं ग्रन्थकृतैव लिखितं स्यादिति संभाव्य ग्रन्थानन्तर्गतत्वेऽपि स्थापितम्। १इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः॥२॥
ॐ श्रीपरमात्मने नमः