०१

॥अथ प्रथमोऽध्यायः॥

धृतराष्ट्र उवाच— धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय !॥१॥

अत्र च१ – ( धृतराष्ट्र उवाच — धर्मक्षेत्र इत्यादि।)३

भाष्यार्कप्रकाशः

अन्धो धृतराष्ट्रः स्वस्य (स्व)भारतयुद्धवृत्तान्तकथनार्थं व्यासेन नियुक्तेन तद्दत्तशक्तिना च सञ्जयेन साकं प्रश्नोत्तरिकया व्यव- हृतवानिति कृत्वा आह भगवान् व्यासः— धृतराष्ट्र उवाचेति। धृतं राष्ट्रं जगद्रूपं येन स धृतराष्ट्र ईश्वर इति भगवत्स्मरणात्मकमङ्गलं व्यञ्जनावृत्त्या भगवता बादरायणेन ग्रन्थादौ ग्रथितम्। यद्वा भारतग्रन्थान्तर्गतत्वात् तदादौ यन्मङ्गलं कृतं तदेव गीताशास्त्रस्यापि निर्विघ्नपरिसमाप्तयेऽलमिति न पृथङ् मङ्गलं कृतम्। वस्तुतस्तु गीताशास्त्रस्य ‘अशोच्यानि’त्यादित्वात् तदादौ ‘भगवानुवाच’ इति मङ्गलं ग्रथितमेवेति बोध्यम्। उवाचेति । पप्रच्छेत्यर्थः। सञ्जयमिति शेषः। तदेवाह—धर्मक्षेत्र इति। हे सञ्जय! धर्मक्षेत्रे कुरुक्षेत्रे युयुत्सवः समवेता मामकाः पाण्डवाश्चैव किमकुर्वतेत्यन्वयः। धर्मो यज्ञ- युद्धादिः श्रुत्यादिविहितः स्वर्गादिहेतुः, तस्य क्षेत्रं विहितस्थलं धर्मक्षेत्रम् । पुण्यभूमित्वादत्र कृतः स्वल्पोऽपि धर्मो बहुफलदो भवतीति द्योतनार्थमिदं विशेषणम्। कुरुक्षेत्रे कुरुराजपाल्यभूमौ। योद्धुमिच्छवो युयुत्सवः। युध्यतेः सन्नन्तादुः६। सन्तः इति शेषः। समवेताः सङ्गताः। ममेमे मामकाः ‘तवकममकावेकवचने’ इति ममकादेशः, मत्पुत्राः दुर्योधनादयः। पाण्डोरपत्यानि पाण्डवाः, ‘तस्यापत्यम्’ इत्यण् , धर्मराजादयः। चकारादन्ये सहाया राजानः । एवकाराच्चतुरङ्गसैन्यानि। किमकुर्वत किमनुष्ठितवन्तः? किं युद्धं चक्रुः, यद्वा सन्धिमिति प्रश्नार्थः। कर्मफलस्य विजयादिरूपस्यात्मगामित्वादात्मनेपदनिर्देशः॥१॥

[आनन्दगिरिकृतव्याख्या]

एवं गीताशास्त्रस्य साध्यसाधनभूतनिष्ठाद्वयविषयस्य परापराभिधेयप्रयोजनवतो व्याख्येयत्वं प्रतिपाद्य, व्याख्यातुकामः शास्त्रम् , तदेकदेशस्य प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य तात्पर्यमाह— अत्र चेति। गीताशास्त्रे प्रथमाध्याये प्रथमश्लोके कथासम्बन्ध- प्रदर्शनपरे स्थिते सतीति यावत्। २तत्रैषाऽक्षरयोजना— ३(धृतराष्ट्र उवाचेति।) धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद् बाह्यमर्थं प्रत्यक्षयितुमनीशः सन् अभ्याश- वर्तिनं सञ्जयमात्मनो हितोपदेष्टारं पृच्छति— धर्मक्षेत्र इति। धर्मस्य ४तद्बुद्धेश्च क्षेत्रम् अभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति, तत्र समवेताः संगता युयुत्सवो योद्धुकामाः, ते च केचिन्मदीया दुर्योधनप्रभृतयः, पाण्डवाश्चापरे युधिष्ठिरादयः, ते च सर्वे युद्धभूमौ संगता भूत्वा किम् ५अकुर्वत कृतवन्तः?॥१॥

किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीरपुरुषैर्भीष्मादिभिरधिष्ठितं, परेषां भयमाविरभूत्? यद्वा पक्षद्वयहिंसानिमित्ताधर्मभय- १. ‘अत्र च’– इत्यस्य ‘दृष्ट्वा तु पाण्डवानीकम् इत्यारभ्य…….व्याख्येयो ग्रन्थः’(पृ. ३१) इति द्वितीयाध्यायगतभाष्येण संबन्धः। २. प्रथमाध्यायस्य द्वितीया- ध्यायैकदेशसहितस्य भाष्यकारैस्तात्पर्यतो व्याख्यातत्वेऽपि अक्षरशः अव्याख्यातत्वात् स्वयमक्षरयोजनया तं व्याचष्टे— तत्रैषेति। ३. कुण्डलान्तर्गतः पाठः बहुषु पुस्तकेषु न दृश्यते। ४. ‘तद्वृद्धेश्च’ इति पाठान्तरम्। ५. ‘अकुर्वत’ इति क्वचिन्नास्ति। ६. ‘सनाशंसभिक्ष उः’ ( पा.सू.३.२.१६८) इति सूत्रेणेति शेषः।

[[१६]]

सञ्जय उवाच — दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥२॥

पश्यैतां पाण्डुपुत्राणामाचार्य ! महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥४॥

सञ्जय उवाच । धृतराष्ट्रं प्रतीति शेषः। तदेवाह— दृष्ट्वेत्यादिना। ५दृष्ट्वेति। राजा दुर्योधनस्तु तदा व्यूढं व्यूहाकारेण स्थितं पाण्डवानीकं पाण्डवसेनां दृष्ट्वा, आचार्यं द्रोणम् उपसङ्गम्य उपसृत्य, वचनं वक्ष्यमाणप्रकारं वाक्यम् , जात्येकवचनम् , वचनानीत्यर्थः। अब्रवीत् उवाच। पाकं पचतीतिवन्निर्देशः सर्वकविसम्मतत्वान्न पुनरुक्तिदोषावहः॥२॥

पश्येति। हे आचार्य! धीमता बुद्धिशालिना तव शिष्येण द्रुपदपुत्रेण धृष्टद्युम्नेन सेनापतिना व्यूढां व्यूहाकारेण स्थापितां महतीम् अधिकां प्रबलां वा पाण्डुपुत्राणां सम्बन्धिनीमेतां पुरोवर्तिनीं चमूं सेनां पश्य॥३॥

अत्रेति। अत्र पाण्डवसेनायां युधि युद्धे विषये भीमार्जुनसमाः महेष्वासा महाशरासनाः शूराः सन्तीति शेषः। तेषां नामान्याह— युयुधान इत्यादिना। युयुधानः सात्यकिः । महारथ इति । ‘आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः। स महारथसंज्ञः स्याद्’ इत्युक्तलक्षणः॥४॥

मासीद् , येनैते युद्धादुपरमेरन् इत्येवं पुत्रपरवशस्य पुत्रस्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने सञ्जयस्य प्रतिवचनम्—दृष्ट्वेत्यादि। पाण्डवानां भयप्रसङ्गो नास्तीत्येतत् तुशब्देन द्योत्यते । प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव। पाण्डवानां पाण्डुसुतानां युधिष्ठिरादीनाम् अनीकं सैन्यं धृष्टद्युम्नादिभिरतिधृष्टैर्व्यूहाधिष्ठितं१ दृष्ट्वा प्रत्यक्षेण प्रतीत्य, त्रस्तहृदयो दुर्योधनो राजा तदा तस्यां संग्रामोद्योगावस्थायाम् , आचार्यं द्रोणनामानम् आत्मनः शिक्षितारं रक्षितारं च श्लाघयन् उपसंगम्य तदीयं समीपं विनयेन प्राप्य, भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव२ वचनम् अर्थसहितं वाक्यमुक्तवानित्यर्थः॥२॥

तदेव वचनमुदाहरति— पश्येति। एताम् अस्मदभ्याशे महापुरुषानपि भवत्प्रमुखान् अपरिगणय्य भयलेशशून्यामवस्थितां चमूम् इमां सेनां पाण्डुपुत्रैर्युधिष्ठिरादिभिरानीतां महतीम् अनेकाक्षौहिणीसहितामक्षोभ्यां पश्य - इत्याचार्यं दुर्योधनो नियुङ्क्ते। नियोगद्वारा च तस्मिन् परेषामवज्ञां विज्ञापयन् क्रोधातिरेकमुत्पादयितुमुत्सहते। परकीयसेनाया वैशिष्ट्याभिधानद्वारा परपक्षेऽपि त्वदीयमेव बलमिति सूचयन्नाचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह— व्यूढामिति। राज्ञो द्रुपदस्य पुत्रस्तव च शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः, स्वयं च शस्त्रास्त्रविद्यासम्पन्नो महामहिमा, तेन व्यूहमापाद्याधिष्ठितामिमां चमूं किमिति न प्रतिपद्यसे? किमिति वा मृष्यसीत्यर्थः॥३॥

अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्ष(य)न्नाह— अत्रेति। अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नवीर्याभ्यां तुल्या युद्धभूमावुपलभ्यन्ते। तेषां युद्धशौण्डीर्यं३ विशदीकर्तुं विशिनष्टि— महेष्वासा इति। इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते४। तच्च महद् अन्यैरप्रधृष्यम् , तद् येषां ते राजान- स्तथा विवक्ष्यन्ते। तानेव परसेनामध्यमध्यासीनान् परपक्षानुरागिणो राज्ञो विज्ञापयति—युयुधान इत्यादिना सौभद्रो द्रौपदेयाश्चेत्यन्तेन ॥४॥

भाष्यार्कप्रकाशः

१. ‘व्यूह्याधिष्ठितं’ इति पा.। २. ‘राजा’ इति पदसामर्थ्यलभ्यमिदम्। राजृ दीप्तौ इति धात्वर्थानुसारात्। ३. शौण्डीर्यं प्रागल्भ्यम्। ४. तदुच्यत इति। इष्वासः उच्यत इत्यर्थः। ५. दृष्ट्वेत्यादिना इति समग्रं संजयवचनं गृहीतम्। दृष्ट्वेति इति तु अस्यैव श्लोकस्य विवरणार्थं प्रतीकग्रहणम्।

[[१७]]

धृष्टकेतुरिति। अत्र वीर्यवानिति, नरपुङ्गवः इति च विशेषणे । अवशिष्टानि विशेष्याणीति विवेकः॥५॥

युधामन्युरिति। युधामन्युरुत्तमौजाश्चेति विशेष्ये। तद्विशेषणे—विक्रान्तो वीर्यवानिति। सौभद्रः अभिमन्युः। ‘तस्येदम्’ इत्यण्३। द्रौपद्याः अपत्यानि द्रौपदेयाः४। ‘स्त्रीभ्यो ढगि’ति ढक् । एते सर्वे महारथा एव॥६॥

अस्माकमिति। सेनायामिति शेषः। ये विशिष्टाः उत्कृष्टाः, महारथत्वेन गणनीया इत्यर्थः। मम सैन्यस्य नायकाः, तान् संज्ञार्थं ते तुभ्यं ब्रवीमि । हे द्विजोत्तम ! तान् निबोध जानीहि॥७॥

भवानिति। द्रोणाचार्य इत्यर्थः। समितिं सङ्ग्रामं जयतीति समितिञ्जय इति कृपविशेषणम्५। सौमदत्तिर्भूरिश्रवाः॥८॥

अन्य इति। मदर्थे मत्कृते त्यक्तजीविताः विसृष्टप्राणाः- प्राणानपि त्यक्तुं व्यवसितवन्तः- प्राणैरप्यस्मदुपकारकरणे बद्धबुद्धय इत्यर्थः। न तु मरणकातरा इति भावः। अनेन च दैवादपजयो दुर्योधनस्य सूचितः। न तु तत्र दुर्योधनस्य तात्पर्यमस्तीति कल्पयितुं शक्यम्। अन्येऽपि शूरा बहवः सन्ति। सर्वेऽपि नानाशस्त्रप्रहरणाः नानाविधशस्त्रादिसाधनवन्तः युद्धविशारदाश्च भवन्तीति शेषः॥९॥

२( किञ्च— धृष्टकेतुरिति। स्पष्टम् )॥५॥

तेषां सर्वेषामपि महाबलपराक्रमभाक्त्वाद् अनुपेक्ष्यत्वं पुनर्विवक्षति — सर्व एवेति॥६॥

यद्येवं परकीयं बलमतिप्रभूतं प्रतीत्यातिभीतवदभिदधासि, हन्त सन्धिरेव परैरिष्यताम् , अलं विग्रहाग्रहेणेत्याचार्याभिप्रायमा- शङ्क्य ब्रवीति— अस्माकमिति। तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति। ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषः, तान् मयोच्यमानान् निबोध निश्चयेन मद्वचनादवधारयेत्यर्थः। यद्यपि त्वमेव त्रैवर्णिकेषु त्रैविद्यवृद्धेषु प्रधानत्वात् तान् प्रतिपत्तुं प्रभवसि, तथापि मदीयसैन्यस्य ये मुख्यास्तान् अहं ते तुभ्यं संज्ञार्थम् असंख्येषु तेषु मध्ये कतिचित् नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं [ब्रवीमि] विज्ञापनं करोमि, न त्वज्ञातं किञ्चित् तव ज्ञापयामीति मत्वाऽऽह— द्विजोत्तमेति॥७॥

तानेव स्वसेनानिविष्टान् पुरुषधौरेयान् आत्मीयभयपरिहारार्थं परिगणयति— भवानित्यादिना ॥८॥

द्रोणादिपरिगणनस्य परिशिष्टपरिसंख्यार्थत्वं व्यावर्तयति— अन्ये चेति। सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह— मदर्थ इति। यत्तु तेषां शूरत्वमुक्तम् , तदिदानीं विशदयति— नानेति। नानाविधानि अनेकप्रकाराणि शस्त्राणि आयुधानि प्रहरणानि प्रहरणसाधनानि येषां ते तथा। बहुविधायुधसम्पत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेत् , नेत्याह— सर्व इति॥९॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥५॥

युधामन्युश्च विक्रान्तः उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६॥

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम !। नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते॥७॥

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च १सौमदत्तिस्तथैव च॥८॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘सौमदत्तिर्जयद्रथः’इति पा.। २. कुण्डलान्तर्गतः पाठः क्वचिन्नास्ति। ३. सुभद्रायाः अयं सौभद्रः।अपत्यार्थे तु ढकि सौभद्रेय इति स्यादिति भावः। ४. द्रौपद्याः पञ्च पुत्राः - ‘प्रथमः प्रतिविन्ध्यस्तु सुतसोमस्तथा परः। श्रुतकीर्तिः शतानीकः श्रुतकर्मा च पञ्चमः॥’ इति श्लोकोक्ताः। ५. ‘सर्वविशेषणं वा’ इत्यपि पाठः।

[[अ. १. श्लो. २-९]] [[१८]]

अपर्याप्तमिति। तत् तस्मात् पूर्वोक्तविधत्वादित्यर्थः। भीष्माभिरक्षितमस्माकं बलम् अपर्याप्तम् असमग्रं परबलविजयाक्षममि- त्यर्थः। भीष्मस्य वृद्धत्वादिति भावः। इदं च भीष्मसामर्थ्यापरिज्ञानमूलकं वाक्यम्। भीष्मस्य धर्मिष्ठत्वेन पाण्डवपक्षपातित्वादिति वा भावः। इदं दृश्यमानं भीमाभिरक्षितम् एतेषां पाण्डवानां बलं तु पर्याप्तम्। भीमस्य तरुणत्वात् , सर्वधार्तराष्ट्रवधदीक्षितत्वाद् , आबाल्यात् ससोदरस्य दुर्योधनस्य भीमेन बहुशो निर्जितत्वाच्च भयहेतुर्भीमो दुर्योधनस्येति भावः॥१०॥

अयनेष्विति। हि तस्मात् सर्व एव सर्वे च भवन्तः सर्वेषु अयनेषु स्थानेषु यथाभागमवस्थिताः सन्तः भीष्ममेवाभिरक्षन्तु। भीष्मस्य सेनापतित्वात् तस्मिन् रक्षिते सर्वसेना रक्षिता स्यादिति भावः॥११॥

तस्येति। प्रतापवान् कुरुवृद्धः कुरुषु वृद्धः पितामहो भीष्मः, तस्य दुर्योधनस्य हर्षं सञ्जनयन् सम्यगुत्पादयन् सन् उच्चैः सिंहनादं विनद्य कृत्वेत्यर्थः। शङ्खं दध्मौ पूरयामास। सर्वोत्कृष्टतमस्वसामर्थ्यप्रदर्शनार्थमिति भावः॥१२॥

राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति— अपर्याप्तमिति। अस्माकं खलु इदम् एकादशसंख्याकाक्षौहिणी- परिगणितम् अपरिमितं बलं, भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं, पर्याप्तम् परेषां परिभवे समर्थम्। एतेषां पुनस्तदल्पं सप्तसंख्याकाक्षौहिणीपरिमितं बलं, भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितम् , अपर्याप्तम् अस्मानभिभवितुमसमर्थमित्यर्थः१। अथवा तदिदमस्माकं बलं भीष्माधिष्ठितम् अपर्याप्तम् अपरिमितम् अधृष्यमक्षोभ्यम् , एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं परिमितम् , सोढुं शक्यमित्यर्थः। अथवा तत् पाण्डवानां बलम् अपर्याप्तं नालम् अस्माकम् अस्मभ्यम्। भीष्माभिरक्षितं भीष्मोऽभि- रक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते। इदं पुनरस्मदीयं बलम् एतेषां पाण्डवानां पर्याप्तं परिभवे समर्थम् , भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितः। तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः॥१०॥

स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते— अयनेष्विति। कर्तव्यविशेष- द्योती चशब्दः। समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि नियम्यन्ते। तान्यत्र अयनानि उच्यन्ते। सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति। तेषु सर्वेषु प्रक्लृप्तं प्रविभागमप्रत्याख्याय, भवान् अश्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु । तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् , परबलनिवृत्त्यर्थत्वेन तस्यास्माभी रक्षितत्वादित्यर्थः॥११॥

तमेवमाचार्यं प्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहः तद्बुद्ध्यनुरोधार्थमित्थं कृतवानित्याह— तस्येति। राज्ञो दुर्योधनस्य हर्षं बुद्धिगतमुल्लासविशेषं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् , भयं तदीयमपनिनीषुः उच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान्। किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते? कुरुवृद्धत्वात् , तस्य कुरुराजत्वात् , पितामह- त्वाच्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता, तदुपजीवितया तद्वशत्वाच्च। तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा सम्भाव्यते,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥१०॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥११॥

तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१२॥

१. अस्माकमिदं बलं भीष्माभिरक्षितं पर्याप्तम् , एतेषां तु तद् बलं भीमाभिरक्षितम् अपर्याप्तम् इति प्रथमयोजना। द्वितीययोजना तु— तदिदम् अस्माकं बलं भीष्माभिरक्षितम् अपर्याप्तम् , एतेषां तु बलं भीमाभिरक्षितं पर्याप्तम् इति। तृतीययोजना तु— तद् बलम् = पाण्डवानां बलम् अस्माकम् अपर्याप्तम् , यतो भीष्माभिरक्षितं तत् । इदं बलम्— अस्मदीयं बलं तु एतेषां पर्याप्तम् , यतो भीमाभिरक्षितम् इदम् इति । अन्या अपि योजनाः व्याख्यान्तरेषु द्रष्टव्याः।

[[१९]]

तत इति। शङ्खादयो वाद्यविशेषाः सहसैव अभ्यहन्यन्त वादिताः सेनाचारिपुरुषैरिति भावः। स शब्दः ध्वनिः तुमुलः सङ्कुलः अभवत्॥१३॥

तत इति। श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः कृष्णः, पाण्डवोऽर्जुनश्च दिव्यौ शङ्खौ प्रदध्मतुरेव॥१४॥

पाञ्चजन्यमिति। हृषीकेशः कृष्णः पाञ्चजन्यं शङ्खं दध्मौ । धनञ्जयो देवदत्तं दध्मौ । भीमकर्मा शत्रुभयंकरव्यापारो ३वृकस्योदरमिवोदरं यस्य स वृकोदरो भीमः पौण्ड्रं तन्नामकं महाशङ्खं दध्मौ॥१५॥

अनन्तेति। राजा जनरञ्जकः कुन्तीपुत्रः श्लाघ्यमातृवंशो युधिष्ठिरः अनन्तविजयं दध्मौ। नकुलः सहदेवश्च द्वौ क्रमेण सुघोषं मणिपुष्पकं च दध्मतुः॥१६॥

काश्य इति। परमेष्वासः महाशरासनः॥

द्रुपद इति। हे पृथिवीपते ! काश्यादयः सर्वशः पृथक्पृथक् शङ्खान् दध्मुः॥१७, १८॥

दूरादेवारिनिवहं प्रति भयजननलक्षणप्रतापत्वादित्यर्थः॥१२॥

राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पक्षैस्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः सम्पादिताः। स च शङ्खादिप्रयुक्तशब्दः तुमुलो बहुलं भयं परेषां परिद्योतयन्नासीदित्याह— तत इति॥१३॥

एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबलपराक्रमैर्युक्ते महति अप्रधृष्ये रथे व्यवस्थितौ अप्राकृतौ शङ्खौ पूरितवन्तावित्याह— ततः श्वेतैर्हयैरिति॥१४॥

तयोः शङ्खयोर्दिव्यत्वमेवावेदयति— पाञ्चजन्यमिति। केशवार्जुनयोर्युद्धाभिमुख्यं दृष्ट्वा संहृष्टः स्वारस्येन समररसिको भीमसेनो ऽपि युद्धाभिमुखोऽभूदित्याह— पौण्ड्रमिति॥१५॥

एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो युधिष्ठिरस्यापि प्रवृत्तिं दर्शयति— अनन्तेति। ज्यायसां भ्रातॄणाम- नुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह— नकुल इति॥१६॥

अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां सञ्जयो व्युदस्यति— काश्यश्चेत्यादिना१। परमेष्वासादि- विशेषणचतुष्टयं २ प्रत्येकं संबध्यते ॥१७, १८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥१३॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥१४॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥१५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥

काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते !। सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८॥

१. अतःपरम् - द्रुपद इति। इति प्रतीकः क्वचित् पठ्यते। श्लोकद्वयस्य सह व्याख्यानादनावश्यकं प्रतीकग्रहणम्। २. विशेषणचतुष्टयम् - परमेष्वासः, महारथः, अपराजितः, महाबाहुः इति। ३. ‘यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः। मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः॥’ इति मात्स्यवचनात् वृको नामाग्निरुदरे यस्य स वृकोदरो भीमः। तेन बह्वन्नपचनसामर्थ्यादतिबलिष्ठत्वं सूचितमिति परे। वृकस्येव कृशमुदरं यस्येत्यन्ये।

[[अ. १. श्लो. १०-१८]] [[२०]]

स इति। तुमुलः स घोषो नभश्च पृथिवीं च २अनुनादयन् प्रतिध्वनयन् सन् धार्तराष्ट्राणां हृदयानि व्यदारयत् बिभेदैव३॥१९॥

अथेति। अथ कपिध्वजः हनुमत्केतुः पाण्डवः अर्जुनः व्यवस्थितान् युद्धाय समवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते शस्त्रप्रयोगे प्रवृत्ते सति धनुः गाण्डीवम् उद्यम्य उद्धृत्य॥२०॥

हृषीकेशमिति। हे महीपते धृतराष्ट्र ! हृषीकेशं प्रति तदा इदं वक्ष्यमाणं वाक्यं वचनमाह— हे अच्युत! मे रथमुभयोः सेनयोर्मध्ये स्थापय॥२१॥

यावदिति। यावदहं योद्धुकामान् योद्धुं कामो येषां तान् , ‘तुम् काममनसोरपि’ इति मकारलोपः, अवस्थितानेतान् निरीक्षे, तावत् स्थापयेत्यर्थः। अस्मिन् रणसमुद्यमे युद्धव्यापारे कैः सह मया योद्धव्यम् ?॥२२॥

तैस्तैः राजभिः शङ्खानापूरयद्भिरापादितो महान् घोषः तुमुलोऽतिभैरवो नभश्चान्तरिक्षं पृथिवीं च भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन् नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधनादीनां हृदयानि अन्तःकरणानि व्यदारयद् विदारितवान्। युज्यते हि तत्प्रेरितशङ्खघोषश्रवणात् त्रैलोक्याक्रोशे तमुपशृण्वतां तेषां हृदयेषु दोधूयमानत्वम्। तदाह— स घोष इति॥१९॥

दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति—अथेत्यादिना। भीतिप्रत्युप- स्थितेरनन्तरं पलायने प्राप्तेऽपि १धैर्यमुत्पाद्य व्यवस्थितान् अप्रचलितानेव परान् प्रत्यक्षेणोपलभ्य, हनूमन्तं वानरवरं ध्वजलक्षणत्वेना- दायावस्थितोऽर्जुनो भगवन्तमाहेति सम्बन्धः। किमाहेत्यपेक्षायामिदं वक्ष्यमाणं हेतुमद् वचनमित्याह—वाक्यमिदमिति। कस्यामवस्था- यामिदमुक्तवानिति? तत्राह— प्रवृत्त इति। शस्त्राणाम् इषुप्रासप्रभृतीनां सम्पातः समुदायस्तस्मिन् प्रवृत्ते, प्रयोगाभिमुखे सतीति यावत्। किं कृत्वा भगवन्तं प्रत्युक्तवानिति, तदाह— धनुरिति। महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन सम्बोध्यते। तदेव गाण्डीवधन्वनो वाक् यमनुक्रामति— सेनयोरिति। ‘उभयोरपि सेनयोः सन्निहितयोः मध्ये मदीयं रथं स्थापये’त्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते। किं हि भक्तानामशक्यम् , यद् भगवानपि तन्नियोगमनुतिष्ठति। युक्तं हि भगवतो भक्तपारवश्यम्। अच्युतेति सम्बोधनतया [ सम्बोधयता ] भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते ॥२०,२१॥

‘मध्ये रथं स्थापये’त्युक्तम्। तदेव रथस्थापनस्थानं निर्धारयति— यावदिति। एतान् प्रतिपक्षे प्रतिष्ठितान् भीष्मद्रोणादीन् अस्माभिः सार्धं योद्धुमपेक्षावतो यावद् गत्वा निरीक्षितुमहं क्षमः स्याम् , तावति प्रदेशे रथस्य स्थापनं कर्तव्यमित्यर्थः। किञ्च प्रवृत्ते युद्धप्रारम्भे, बहवो राजानोऽमुष्यां युद्धभूमावुपलभ्यन्ते , तेषां मध्ये कैः सह मया योद्धव्यम्? न हि क्वचिदपि मम गतिप्रतिहतिरस्ती- त्याह— कैर्मयेति॥२२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥२०॥

हृषीकेशं तदा वाक्यमिदमाह महीपते !। अर्जुन उवाच— सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत !॥२१॥

यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥२२॥

१. ‘वैपरीत्याद् व्यवस्थितान्’ इति पा.। २. ‘व्यनुनादयन्’ इति पाठः संभाव्यते। ३. ‘बिभेदैव’ इति एवकारस्य भिन्नक्रमेण योजना प्रदर्शिता।

[[२१]]

योत्स्यमानानिति। युद्धे दुर्बुद्धेः धार्तराष्ट्रस्य दुर्योधनस्य प्रियचिकीर्षवः प्रियं कर्तुमिच्छवः सन्तः ये एते अत्र समागताः, योत्स्यमानान् युद्धं करिष्यतः तान् अहम् अवेक्षे पश्यामि॥२३॥

एवमिति, भीष्मेति च। एवं गुडाकेशेन अर्जुनेनोक्तो हृषीकेशः, हे भारत धृतराष्ट्र ! उभयोः सेनयोर्मध्ये भीष्मद्रोणप्रमुखतः भीष्मद्रोणयोरग्रे । सार्वविभक्तिकस्तसिः। सर्वेषां महीक्षितां राज्ञां च प्रमुखतः रथोत्तमं स्थापयित्वा ‘हे पार्थ! एतान् समवेतान् कुरून् कुरुवंशजान् दुर्योधनादीन् पश्य’ इत्युवाच॥२४,२५॥

तत्रेति। अथ पार्थः तत्र युद्धभुवि उभयोः सेनयोरपि स्थितान् - पितॄन् , पितामहान् , आचार्यान् , मातुलान् , भ्रातॄन् , पुत्रान् १प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद् भवेदिति? तत्राह— योत्स्यमानानिति। ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् परिगृहीतप्रहरणोपायान् अतितरां संग्रामसमुत्सुकानुपलभे। तेन प्रतियोगिनां बाहुल्यमित्यर्थः। तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्प्यते? तत्राह— धार्तराष्ट्रस्येति। धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपाय- मप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते। तेन तेषामौपाधिक- मस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः॥२३॥

‘एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात् तं निवर्तयिष्यति’ इति धृतराष्ट्रस्य मनीषां दुदूषयिषुः सञ्जयो राजानं प्रत्युक्तवानित्याह— सञ्जय इति। भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्यार्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति— एवमिति। भीष्मद्रोणादीनामन्येषां च राज्ञाम् अन्तिके रथं स्थापयित्वा भगवान् किं कृतवानिति? तदाह— उवाचेति। एतान् अभ्याशे वर्तमानान् कुरून् कुरुवंशप्रसूतान् २भवद्भिः सार्धं युद्धार्थं संगतान् पश्य। दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते, तैः साकं युद्धं कुरु। नो खल्वेतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते। सारथ्ये तु न मनः खेदनीयमित्यर्थः॥२४,२५॥

एवं स्थिते, ‘महान् अधर्मो हिंसा’ इति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य संप्रवृत्तेति कथयति— तत्रेत्यादिना। सप्तम्या३ भगवदभ्यनुज्ञाने समरसमारम्भाय संवृत्ते सतीत्येतदुच्यते। सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति सम्बन्धः। ४अथशब्दः तथाशब्द- पर्यायः। श्वशुरा भार्याणां जनयितारः। सुहृदो मित्राणि कृतवर्मप्रभृतयः॥२६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रियचिकीर्षवः॥२३॥

सञ्जय उवाच— एवमुक्तो हृषीकेशो गुडाकेशेन भारत !। सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥२४॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ ! पश्यैतान् समवेतान् कुरूनिति॥२५॥

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान्। आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥२६॥

१. प्रतियोगिनः प्रतिपक्षिणः। २. भवद्भिः पाण्डवैरित्यर्थः। ३. तत्रेति सप्तम्यन्तपदेनेत्यर्थः। ४. पितॄनथेत्यत्रेति शेषः। अव्ययानामनेकार्थत्वादिति भावः।

[[अ. १. श्लो. १९-२६]] [[२२]]

पौत्रान् , सखीन् , तथा तद्वत् श्वशुरान् , सुहृदश्चापि अपश्यत्॥२६१/२ ॥

तानिति। स कौन्तेयः कुन्तीपुत्रः अवस्थितान् तान् सर्वान् बन्धून् समीक्ष्य दृष्ट्वा परया अधिकया कृपया आविष्टः विषीदन् विषादं गच्छन् इदं वक्ष्यमाणं वचनमब्रवीत्॥२७१/२ ॥

दृष्ट्वेति, सीदन्तीति च। हे कृष्ण ! युयुत्सुं योद्धुमिच्छुं समुपस्थितम् युयुत्सया समागतमित्यर्थः। इमं स्वजनं दृष्ट्वा मम गात्राणि सीदन्ति अवसादं प्राप्नुवन्ति, मुखं च परिशुष्यति । मे शरीरे वेपथुः कम्पः, रोमहर्षो रोमाञ्चश्च जायते॥२८, २९॥

गाण्डीवमिति। मे हस्ताद् गाण्डीवं स्रंसते भ्रश्यति। मे त्वक् च परिदह्यत एव। अहमवस्थातुं न शक्नोमि। मे मनः भ्रमतीव॥३०॥

निमित्तानीति। हे केशव! विपरीतानि निमित्तानि च पश्यामि। आहवे युद्धे स्वजनं हत्वा श्रेयो नैवानुपश्यामि॥३१॥

सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीनालोच्य१ परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह— तानिति। विषीदन् यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः॥२७॥

तदेवेदंशब्दवाच्यं वचनमुदाहरति— दृष्ट्वेति। आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति— सीदन्तीति। देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मात्मीयाभिमानवतः २तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः३ शोको महानासीदित्यर्थः ॥२८॥

अङ्गेषु व्यथा, मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् । सम्प्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति— वेपथुश्चेति। रोमहर्षो रोम्णां गात्रेषु पुलकितत्वम्॥२९॥

किं चाधैर्यमपि संवृत्तमित्याह— न चेति। मोहोऽपि महान् भवतीत्याह— भ्रमतीवेति॥३०॥

विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह— निमित्तानीति। तानि विपरीतानि निमित्तानि, यानि वामनेत्रस्फुरणादीनि। युद्धे

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि। तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥२७॥

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्। अर्जुन उवाच— दृष्ट्वेमं स्वजनं कृष्ण ! युयुत्सुं समुपस्थितम्॥२८॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९॥

गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३०॥

निमित्तानि च पश्यामि विपरीतानि केशव !। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥३१॥

१. ‘आलोक्य’ इति पा.। २. ते उक्ताभिमानविषयाः स्वपरदेहाः प्रिया यस्येति अर्जुनविशेषणम्। ३.‘दर्शनशोको’ इति पा.।

[[२३]]

नेति। हे कृष्ण ! विजयं न काङ्क्षे नेच्छामि। राज्यं च न काङ्क्षे। सुखानि च न काङ्क्षे। हे गोविन्द ! नः राज्येन किम्? भोगैः किम्? जीवितेनापि किम्?॥३२॥

येषामिति। नः अस्माभिः येषामर्थे राज्यं काङ्क्षितं, भोगाः काङ्क्षिताः, सुखानि च काङ्क्षितानि, त इमे प्राणान् धनानि च त्यक्त्वा युद्धेऽवस्थिताः॥३३॥

आचार्या इति। आचार्यादिशब्दानां ते इति पूर्वश्लोकस्थतच्छब्देनान्वयः॥३४॥

एतानिति। हे मधुसूदन ! घ्नतोऽपि मां मारयतोऽपि एतान् आचार्यादीन् त्रैलोक्यराज्यस्य हेतोरपि हन्तुं नेच्छामि, किं पुनर्महीकृते भूम्यर्थम्?॥३५॥

निहत्येति। हे जनार्दन ! धार्तराष्ट्रान् निहत्य, तद्धननादित्यर्थः, नः का प्रीतिः स्यात्? न काऽपीत्यर्थः। १मधुसूदन जनार्दनेति सम्बुद्धिद्वयेन दुष्टराक्षसजनहननमेव तवापि सम्मतम् , न त्वाचार्यादिस्वजनहननमिति सूच्यते। एतान् आततायिनः - ‘अग्निदो गरद- श्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरौ चैव षडेते आततायिनः॥’ इत्युक्तलक्षणान् हत्वा, एतद्धननादित्यर्थः, अस्मान् पापमेवाश्रयेत् स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायत इत्याह— न चेति॥३१॥

प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह— न काङ्क्ष इति। किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते, तेन हि पुत्रभ्रात्रादीनां स्वास्र्ह्यमाधातुं शक्यमित्याशङ्क्याह— किमिति॥३२॥

राज्यादीनामाक्षेपे हेतुमाह— येषामिति॥३३॥

तानेव विशिनष्टि— आचार्या इति। श्यालाः भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः॥३४॥

वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद् युद्धात् पूर्वोक्तमोहादिवशात् प्रच्युतिं प्रदर्शयति— एतानिति। ‘जिघांसन्तं जिघांसीयात्’ इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह— घ्नतोऽपीति। पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते। न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति— अपीति। न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति। पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः॥३५॥

दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसम्भवाद् युद्धं कर्तव्यमित्याशङ्क्याह— निहत्येति। यदि पुनरमी दुर्योधनादयो न निगृह्येरन् , भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह— पापमेवेति। यदीमे दुर्योधनादयो निर्दोषानेवास्मान् अकस्माद् युद्धभूमौ

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

न काङ्क्षे विजयं कृष्ण ! न च राज्यं सुखानि च। किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा॥३२॥

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा॥३४॥

एतान् न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन !। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५॥

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन !। पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६॥

१. मधुनामकराक्षसघातक , असुराणां नरकादिप्रापक (द्र.भ.गी. १०-१८) इत्यर्थकसंबुद्धिद्वयसूचितमर्थमाह— मध्विति।

[[अ. १. श्लो. २७-३६]] [[२४]]

भजेत्। यद्यपि ‘आततायिनमायान्तं हन्यादेवाविचारयन्’ इति शास्त्रादाततायिहननं धर्म एव, तथापि धर्मेऽप्यधर्मभ्रमादेवमुक्त- मर्जुनेनेति बोध्यम्॥३६॥

तस्मादिति। तस्मात् सबान्धवान् धार्तराष्ट्रान् हन्तुं वयं नार्हाः, हे माधव! स्वजनं हत्वा कथं वा सुखिनः स्याम भवेम?॥३७॥

यद्यपीति। यद्यपि विचार्यमाणे लोभोपहतचेतसः एते कुलक्षयकृतं दोषं, मित्रद्रोहे पातकं च न पश्यन्ति॥३८॥

कथमिति। तथापीति शेषः। हे जनार्दन ! कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिरस्मात् पापान्निवर्तितुं कथं न ज्ञेयम्?॥३९॥

कुलक्षय इति। कुलक्षये सति सनातनाः कुलधर्माः प्रणश्यन्ति। धर्मे नष्टे सति कृत्स्नं कुलम् अधर्मोऽभिभवत्युत तिरस्करोत्येव ॥४०॥

हन्युः, तदैतान् ‘अग्निदो गरदश्च’ इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः१। अथवा यद्यप्येते भवन्त्याततायिनः, तथाप्येतानतिशोच्यान् दुर्योधनादीन् हिंसित्वा हिंसाकृतं पापमस्मानेवाश्रयेत्२। अतो नास्माभिरेते हन्तव्याः इत्यर्थः। ३अथवा गुरुभ्रातृसुहृत्प्रभृतीनेतान् हत्वा वयमाततायिनः स्याम। ततश्चैतान् हत्वा तत्कृतं पापमाततायिनोऽस्मानेव समाश्रयेदिति युद्धादुपरमणमस्माकं श्रेयस्करमित्यर्थः॥३६॥

फलाभावादनर्थसम्भवाच्च परहिंसा न कर्तव्येत्युपसंहरति— तस्मादिति। किञ्च राज्यसुखमुद्दिश्य ४युद्धमुपक्रम्यते । न च स्वजनपरिक्षये सुखमुपपद्यते। तेन न कर्तव्यं युद्धमित्याह— स्वजनं हीति॥३७॥

कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिः? तत्राह— यद्यपीति। लोभोपहतबुद्धित्वात् तेषां कुलक्षयादिप्रयुक्तदोष- प्रतीत्यभावात् प्रवृत्तिविस्रम्भः सम्भवतीत्यर्थः ॥३८॥

परेषामिवास्माकमपि प्रवृत्तिविस्रम्भः संभवेदिति चेत् , नेत्याह— कथमिति। कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिः तद् दोषशब्दितं पापं कथं न ज्ञातव्यम् ? तदज्ञाने तत्परिहारासम्भवात् । अतोऽस्मात्पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनाम् अस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः॥३९॥

कोऽसौ कुलक्षये दोषो यद्दर्शनाद् युष्माकं युद्धादुपरतिरपेक्ष्यते? तत्राह— कुलेति। कुलस्य हि क्षये कुलसम्बन्धिनश्चिरन्तना

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिन: स्याम माधव !॥३७॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन !॥३९॥

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत॥४०॥

१. अस्मान् हत्वा आततायिनः एतान् पापमेवाश्रयेत् इति। २. आततायिनः एतान् हत्वा अस्मान् एव पापमाश्रयेत् इति। ३. एतान् हत्वा आततायिनोऽस्मान् एव पापमाश्रयेत् इति च क्रमेण योजना। हत्वा इत्यनन्तरं ‘स्थितान्’ इति पदमध्याहृत्य समानकर्तृकत्वेन क्त्वाप्रयोगो निर्वाह्यः। ४. ‘युद्धमुपक्रम्य तेन च स्वजन- परिक्षये न सुखमुपपद्यते।’ इति पा.।

[[२५]]

अधर्मेति। हे कृष्ण ! अधर्माभिभवाद्धेतोः कुलस्त्रियः प्रदुष्यन्ति प्रकर्षेण दुष्टा भवन्ति। हे वार्ष्णेय वृष्णिवंशप्रसूत! स्त्रीषु दुष्टासु सतीषु वर्णसङ्करो जायते॥४१॥

सङ्कर इति। सङ्करः कुलघ्नानां वंशनाशकानां, कुलस्य च नरकायैव भवति। हि यतः एषां पितरः लुप्तपिण्डोदकक्रियाः सन्तः पतन्ति॥४२॥

दोषैरिति। कुलघ्नानां वर्णसङ्करकारकैरेतैर्दोषैः शाश्वता जातिधर्माः, कुलधर्माश्च उत्साद्यन्ते नाश्यन्ते॥४३॥

उत्सन्नेति। हे जनार्दन ! उत्सन्नकुलधर्माणां मनुष्याणां नरके वासो नियतं निश्चयेन भवतीत्यनुशुश्रुम वृद्धेभ्यः श्रुतवन्तः ॥४४॥

अहो इति। अहो बतेति खेदातिशये। वयं महत् पापं कर्तुं व्यवसिता निश्चितवन्तः- यद् यस्माद् राज्यसुखलोभेन स्वजनं हन्तुम् उद्यता उद्युक्ताः॥४५॥

धर्मास्तत्तदग्निहोत्रादिक्रियासाध्या नाशमुपयान्ति, कर्तुरभावादित्यर्थः। धर्मनाशेऽपि किं स्यादिति चेत्? तत्राह— धर्म इति। कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति। अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः॥४०॥

कुलक्षयकृतोऽवशिष्टकुलस्याधर्मप्रवणत्वे को दोषः स्यादिति? तत्राह— अधर्मेति। पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति? तत्राह— स्त्रीष्विति॥४१॥

वर्णसङ्करस्य दोषपर्यवसायितामादर्शयति— संकर इति। कुलक्षयकराणां दोषान्तरं समुच्चिनोति— पतन्तीति। कुलक्षयकृतां पितरो निरयगामिनः (सं)भवन्तीत्यत्र हेतुमाह— लुप्तेति। पुत्रादीनां कर्तॄणामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा। ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरकपतनमेवावश्यकमापतेदित्यर्थः॥४२॥

कुलक्षयकृतामेतैरुदाहृतैर्दोषैर्वर्णसंकरहेतुभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते। तेन कुलक्षयकारणाद् युद्धादुपरतिरेव श्रेयसीत्याह— दोषैरिति॥४३॥

किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यादनर्थकरमिदमेव१ हेयमित्याह— उत्सन्नेति। यथोक्तानां मनुष्याणां नरकपातस्यावश्यकत्वे प्रमाणमाह— इत्यनुशुश्रुमेति॥४४॥

राज्यप्राप्तिप्रयुक्तसुखोपभोगलुब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह — अहो बतेति॥४५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अधर्माभिभवात् कृष्ण ! प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसङ्करः॥४१॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२॥

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन !। नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४॥

अहो बत महत् पापं कर्तुं व्यवसिता वयम्। यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥४५॥

१. ‘अवहेयम्’ इति पा.।

[[अ. १. श्लो. ३७-४५]] [[२६]]

यदीति। अशस्त्रम् अप्रतीकारं प्रतिक्रियाशून्यं मां शस्त्रपाणयो धार्तराष्ट्राः रणे हन्युर्यदि, तद् हननं मे क्षेमतरं भवेत्॥४६॥

एवमिति। अर्जुनः संख्ये युद्धे एवमुक्त्वा सशरं चापं विसृज्य शोकसंविग्नमानसः शोकव्याकुलचित्तः सन् रथोपस्थे रथमध्ये उपाविशत् तस्थौ॥४७॥

[इतीति।] इतिशब्दः समाप्तौ। श्रीयुक्तो भगवान् श्रीभगवान्। यद्यपि भगान्तःपातिनी श्रीः, तथापि तस्याः पुनरुक्तिः श्रियः प्राधान्यद्योतनाय। २श्रीभगवता गीता उक्ताः श्रीभगवद्गीताः। ३श्रीयुक्ता भगवद्गीता इति वा । तासूपनिषत्सु इति ‘सिंहो माणवकः’ इतिवद् गौणप्रयोगः। ४संसारशिथिलीकरणादिगुणसादृश्याद् गीतानामुपनिषत्त्वमौपचारिकम्। ५यद्वा उपनिषच्छब्दो ब्रह्मात्मैक् य- विद्यापरः। तद्योगाद् यथोपनिषदामुपनिषत्त्वव्यवहारः, एवं गीतानामपीति। अत्र च पक्षे उपनिषच्छब्दो योगरूड्या वेदान्तपरः६ , योगेन तु गीतापर इति बोध्यम्। एतावता अत्र ‘उपनिषत्सु’ इत्यस्य उपनिषद्विद्याप्रतिपादिकासु इति निष्कृष्टार्थः सिद्धः। ७अथवा ‘उपनिषत्सु’ इत्यस्य लक्षणया उपनिषदपरपर्यायवेदान्तार्थप्रतिपादिकासु इत्यर्थो वाच्यः। उपनिषत्त्वमेव स्फुटयितुमाह— ब्रह्मविद्यायामिति । ब्रह्मज्ञानप्रदास्वित्यर्थः। योगशास्त्र इति । कर्मज्ञानयोगद्वयं यस्मादिदं शास्ति तस्मादुच्यते योगशास्त्रमिति। श्रीकृष्णार्जुनयोः संवाद उक्तिप्रत्युक्तिरूपो यस्मिन् तस्मिन् । षष्ठीतत्पुरुषो वा। अर्जुनविषादयोगः अर्जुनविषादसङ्गतिः, ‘योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु’ इति कोशात्। अस्मिन्नध्यायेऽर्जुनविषादस्य सङ्गतत्वादस्येदं नाम। यद्यप्यशोच्यानित्यारब्धस्यैव यद्येवं युद्धे विमुखः सन् परिभवप्रतीकाररहितो वर्तेथाः, तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्त्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्या- शङ्क्याह— यदीति। प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः॥४६॥

यथोक्तमर्जुनस्य वृत्तान्तं सञ्जयो धृतराष्ट्रं राजानं प्रति प्रवेदितवान्। तमेव प्रवेदनप्रकारं दर्शयति— एवमिति। प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन्नर्जुनः संख्ये युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा ‘न योत्स्येऽहम्’ इति ब्रुवन् मध्ये रथस्य संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः॥४७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने प्रथमोऽध्यायः॥१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युः तन्मे क्षेमतरं भवेत्॥४६॥

सञ्जय उवाच — एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७॥

१इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥१॥

१. अत्र च अध्यायान्ते — ‘इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि’ इत्यादि, ‘ॐ तत्सदिति श्री’ इत्यादि च पाठान्तरं दृश्यते। २.श्रीभगवद्गीतासु इति पाठमवलम्ब्य व्याचष्टे— श्रीभगवता इत्यादि। श्रीमद्भगवद्गीतासु इति पाठोऽपि अनयैव रीत्या व्याख्येयः। ३. प्रथमव्याख्याने श्रीमत्त्वं भगवतो विशेषणम् , द्वितीये तु गीतायाः। ४. उपनिषदो वेदान्ताः। ‘षदॢ विशरणगत्यवसादनेषु’ इत्यस्माद् धातोर्निष्पन्नः उपनिषच्छब्दः संसारशिथिलीकरणा- द्यर्थयोगाद् वेदान्तेषु मुख्यः। गीतासु तु गौण इति भावः। ५. गीतासु उपनिषच्छब्दस्य मुख्यत्वायाह— यद्वेति। ६. प्रयोगप्राचुर्यादिति भावः। ७. रूढिपूर्वक- लक्षणाया योगापेक्षया प्राबल्यमभिप्रेत्याह— अथवेति।

[[२७]]

ग्रन्थस्य योगशास्त्रमिति व्यवहारस्तथापि योगशास्त्रोपोद्घातत्वादस्याध्यायस्य योगशास्त्रान्तःपातित्वमिति बोध्यम्। अनेन च विषाद- योगाध्यायेन संसारे दृष्टदोषस्य जातविषादस्य योगशास्त्रे प्रवृत्तिः स्यादिति विषयेषु दोषदृष्टिस्तावत् कार्या मुमुक्षुणेति शास्यते। अत एवास्याप्यध्यायस्य योगशास्त्रत्वम्। ॥इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते श्रीभगवद्गीताभाष्यार्कप्रकाशे प्रथमोऽध्यायः॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. १. श्लो. ४६-४७ ] DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः