जनमेजयः-
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित्
दुर्योधनश्च कर्णश्च शकुनिश्चैव सौबलः
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः
घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः
एते वै कीर्तिता विप्र राजानो दीप्तमूर्तयः
स्वर्गे कालं कियन्तं च तस्थुस्तच्चापि शंस मे
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम
अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यसि
सूतः-
इत्युक्तस्स तु विप्रर्षिरनुज्ञातो महात्मना
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे
वैशम्पायनः-
गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ
त्रैलोक्यदर्शी योगी च दिव्यचक्षुः प्रतापवान्
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः
अगाधबुद्धिस्सर्वज्ञो गतिज्ञस्सर्वकर्मणाम्
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम्
कृतवर्मा च हार्दिक्यः प्रविवेश मरुद्गणान्
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान्
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः
भूरिश्रवाश्शलश्चैव भूरिश्च पृथिवीपतिः
उग्रसेनस्तथा राजा वसुदेवश्च वीर्यवान्
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः
विश्वेषां देवतानां ते गणमाविविशुर्नृप
यत्सुवर्चा इति ख्यातस्सोमपुत्रोऽथ वीर्यवान्
अभिमन्युर्महाबाहुः फल्गुनस्य सुतोऽभवत्
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्
विवेश सोमं धर्मात्मा अभिमन्युर्महारथः
आविवेश रविं कर्णः पितरं पुरुषर्षभ
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्
धृतराष्ट्रात्मजास्सर्वे यातुधाना प्रपेदिरे
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः
अनन्तो भगवान्रामः प्रविवेश रसातलम्
पितामहनियोगाद्धि यो योगाद्गामधारयत्
यस्स नारायणो नाम देवदेवस्सनातनः
तस्यांशो वासुदेवस्तु कर्मणोऽन्ते विवेश ह
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः
न्यमज्जन्त सरस्वत्यां कालेन जयतां वर
ताश्चाप्यप्सरसो राजन्वासुदेवमुपागमन्
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः
घटोत्कचादयस्सर्वे देवान्यक्षांश्च भेजिरे
दुर्योधनसहायास्तु पार्थिवा येऽनुकीर्तिताः
ते दानवान्गुह्यकांश्च गन्धर्वांश्च तथाऽविशन्
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते
कुरूणां चरितं कृत्स्नं पाण्डवानां च धीमताम्
सूतः-
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेषु च
ततस्समापयामासुः कर्मान्तं तस्य याजकाः
आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान्
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत्
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्
विसर्जयित्वा विप्रांस्तान्स राजा जनमेजयः
दृष्टस्तक्षशिलायास्तु पुनरायाद्गजाह्वयम्
एतद्वस्सर्वमाख्यातं व्यासशिष्येण धीमता
व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम्
कृष्णेन मुनिना विप्र रचितं सत्यदर्शिना
सर्वज्ञेन विधिज्ञेन सर्वज्ञानवता सता
अतीन्द्रियेण शुचिना तपसा भावितात्मना
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगविदा तथा
नैकतत्वविबुद्धेन दृष्टतत्वेन चक्षुषा
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्
क्रीडां च वासुदेवस्य देवदेवस्य शार्ङ्गिणः
विश्वेषां देवभागानां जन्म सायुज्यमेव च
य इदं श्रुणुयाद्विद्वान्पर्वसु द्विजसत्तमः
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति
कार्ष्णं वेदमिमं सर्वं शृणुयाद्यस्समाहितः
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति
यश्चेदं श्रावयेत्पुण्यं ब्राह्मणान्पादमन्ततः
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा
महाभारतमाख्याय सर्वपापैः प्रमुच्यते
त्रिभिर्वर्षैर्महत्सर्वं कृष्णद्वैपायनः प्रभुः
निखिलं भारतं चेदं चकार भगवानृषिः
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ
वाच्यते यत्र सततं जयाख्यं भारतं महत्
यशः कीर्तिश्च विद्या च भवन्ति मुदतास्सदा
जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता
राज्ञा राज्ञस्सुतैश्चैव गर्भिण्या चैव योषिता
यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः
श्रुणुयान्मुदितो भूत्वा आस्तिको बुुद्धिसंयुतः
अप्येकपादश्रवणादश्वमेधफलं लभेत्
भक्त्या द्विपादश्रवणाद्ब्रह्महत्या विनश्यति
त्रिपादश्रवणाद्भक्त्या पठनाद्वा तथैव च
पुनरावृत्तिरहिताल्ँलभेद्ब्रह्मगतिं शुभम्
वासुदेवं स्मरन्विद्वान्पुणडरीकायतेक्षणम्
इतिहासमिमं पुण्यं महार्थं वेदसम्मितम्
श्रावयेद्यस्तु वर्णास्त्रीन्कृत्वा ब्राह्मणमग्रतः
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः
इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते
व्यासप्रसादेन पुनस्स्वर्गलोकं स गच्छति
एतत्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत्
पूजनीयश्च सततं माननीयो भवेद्द्विजः