युधिष्ठिरः-
नेह पश्यामि विबुधा राधेयममितौजसम्
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः
राजानो राजपुत्राश्च ये मदर्थे हता रणे
क्व ते महारथास्सर्वे शार्दूलसमविक्रमाः
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः
स्थितं वित्त हि मां देवास्सहितं तैर्महात्मभिः
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयश्शुभः
न तैरहं विना वत्स्ये बन्धुभिर्भ्रातृभिस्तथा
मातुर्मे वचनं श्रुत्वा तदा सलिलकर्मणि
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै
इदं च परितप्यामि पुनः पुनरहं सुराः
यन्मातुस्सदृशौ पादौ तस्याहममितौजसः
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्
अविज्ञानान्मया योऽसौ घातितस्सव्यसाचिना
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम
अर्जुनं चेन्द्रसङ्काशं यमौ चापि महाबलौ
द्रष्टुमिच्छामि तां चापि पाञ्चालीं धर्मचारिणीम्
न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः
यत्र ते स मतस्स्वर्गो नायं स्वर्गो मतो मम
देवाः-
यदि तत्र तव श्रद्धा गम्यतां तत्र मा चिरम्
प्रिये हि तव वर्तामो देवराजस्य शासनात्
वैशम्पायनः-
इत्युक्त्वा ते ततो देवा देवदूतमथाब्रुवन्
युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः
अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः
तमसा संवृतं घोरं केशशैवलशाद्वलम्
पृक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम्
दंशोत्थानं सझिल्लीकं मक्षिकामशकान्वितम्
इतश्चेतश्च कुणपैस्समन्तात्परिवारितम्
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्
ज्वलनेन प्रदीप्तेन समन्तात्परिवारितम्
अयोमुखैश्च काकोलैः गृध्रैश्चैव समन्वितम्
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम्
मेदोरुधिरसम्पृक्तैर्भिन्नजानूरबाहुभिः
निकृत्तोदरपादैश्च तत्र तत्र प्रवेशितैः
स तं कुणपदुर्गन्धमशिवं रोमहर्षणम्
जगाम राजा धर्मात्मा मध्येन बहु चिन्तयन्
सुदुर्गमाम् वैतरणीं पापपूर्णां ददर्श ह
असिपत्रवनं चैव निशितं क्षुरसंवृतम्
करम्भवालुकास्तप्ताः पृथुळाश्च शिलाः पृथक्
लोहकुम्भीश्च तैलस्य क्वाथ्यमानास्समन्ततः
कूटशाल्मलिनं चैव दुस्पर्शं तीक्ष्णकण्टकम्
ददर्श चान्याः कौन्तेयो यातनाः पापकर्मिणाम्
स तं दुर्गन्धमालक्ष्य पुरुषं तमुवाच ह
युधिष्ठिरः-
कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम्
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्
वैशम्पायनः-
स तं निववृते श्रुत्वा धर्मराजस्य भाषितम्
देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव
निवर्तितव्यो हि मया तथाऽसम्युक्तो दिवौकसैः
यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः
निवर्तने धृतमनाः पर्यवर्तत भारत
स सन्निवृत्तो धर्मात्मा दुःखशोकसमन्वितः
शुश्राव तत्र वदतां दीना वाचः समन्ततः
वाचः-
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम्
आयाति त्वयि दुर्धर्ष वाति पुण्यस्समीरणः
तव गन्धानुगस्तात तेनास्मान्सुखमागतम्
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम
सन्तिष्ठस्व महाबाहो मुहूर्तमिह भारत
त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते
वैशम्पायनः-
एवं बहुविधा वाचः कृपणा वेदनावताम्
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप
तेषां तु वचनं श्रुत्वा दयावान्दीनभाषितम्
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः
अबुध्यमानस्ता वाचो धर्मराजो युधिष्ठिरः
उवाच के भवन्तो वै किमर्थं चेह तिष्ठथ
इत्युक्तास्ते ततस्सर्वे समन्तादपि भाषिरे
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो
नकुलस्सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत
द्रौपदी द्रौपदेयाश्च इत्येवं तत्र चुक्रुशुः
ता वाचस्स तदा श्रुत्वा तथैव सदृशीर्नृप
रोषाद्विममृशे राजा किं न्विदं दैवकारितम्
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः
कर्णश्च द्रौपदेयाश्च पाञ्चाली च सुमध्यमा
त इमे पापगन्धेऽस्मिन्देशे सन्नास्सुदारुणे
न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम्
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः
तथा श्रिया वृतः पापस्सह सर्वैस्सहानुगैः
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः
कस्येदानीं विकारोऽयं य इमे नरकं गताः
सर्वे धर्मविदश्शूरास्सत्यागमपरायणाः
क्षात्रधर्मपराः प्राज्ञा यज्वानस्सत्यसङ्गराः
किं नु सुप्तोऽस्मि जागर्मि खेदयानश्च चिन्तये
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः
एवं बहुविधं राजा विममर्श युधिष्ठिरः
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृप
देवांश्च गर्हयामास धर्मं चैव महामतिः
स तीव्रशोकसन्तप्तो देवदूतमुवाच ह
युधिष्ठिरः-
गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम्
न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम्
मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे
इत्युक्तस्स तदा दूतः पाण्डुपुत्रेण धीमता
जगाम तत्र यत्रास्ते देवराजश्शतक्रतुः
निवेदयामास च तद्धर्मराजचिकीर्षितम्
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप