वैशम्पायनः
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्
अवेक्षन्तो महामेरुं शैलं शिखरिणां वरम्
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम्
याज्ञसेनी भ्रष्टयोगा निपपात महीतले
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ताम्
भीमः
नाधर्मश्चरितः कश्चिद् राजपुत्र्या परन्तप
कारणं किं नु तद्राजन् यत् कृष्णा पतिता भुवि
युधिष्ठिरः
पक्षपातो महानस्या विशेषेण धनञ्जये
तस्यैह फलमद्यैषा भुङ्क्ते पुरुषसत्तम
वैशम्पायनः
एवमुक्त्वाऽनवेक्ष्यैनां ययौ धर्मसुतो नृप
समाधाय मनो विद्वान् धृतात्मा पुरुषर्षभः
सहदेवस्ततो धीमान् निपपात महीतले
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्
भीमः
योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि
युधिष्ठिरः
आत्मना सदृशं प्राज्ञो नैषोऽमन्यत कञ्चन
तेन दोषेण पतितो विद्वानेष नृपात्मजः
वैशम्पायनः
इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा
भ्रातृभिस्सह कौन्तेयश् शुना चैव युधिष्ठिरः
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम्
आर्तो बन्धुप्रियश्शूरो नकुलो निपपात ह
तस्मिन् निपतिते वीरे नकुले चारुदर्शने
पुनरेव तदा भीमो राजानमिदमब्रवीत्
भीमः
योऽयमक्षुद्रकर्मा ते भ्राता वचनकारकः
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि
वैशम्पायनः
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः
युधिष्ठिरः
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम्
सुरूपश्चाहमेवैक इत्यस्य मनसि स्थितम्
नकुलः पतितस्तस्माद् आगच्छ त्वं वृकोदर
यस्य यद्विहितं भीम सोऽवश्यं तदुपाश्नुते
वैशम्पायनः
तांस्तु प्रपतितान् दृष्ट्वा पाण्डवश्श्वेतवाहनः
पपात शोकसन्तप्तस् ततो नु परवीरहा
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्
भीमः
अनृतं न स्मराम्यद्य स्वैरेष्वपि महात्मनः
अथ कस्य विकारोऽयं येनायं पतितोऽर्जुनः
युधिष्ठिरः
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्
न च तत् कृतवानेष शूरमानी ततोऽपतत्
अवमेने धनुर्ग्राहान् एष सर्वांस्तु फल्गुनः
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता
वैशम्पायनः
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम्
भीमः
भो भो राजन्नवेक्षस्व पतितं मां प्रियं तव
किन्निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह
युधिष्ठिरः
अतिभुक्तं च भवता प्राणेन च विकत्थसे
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ
वैशम्पायनः
इत्युक्त्वा तं महाबुद्धिर् जगामानवलोकयन्
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया