वैशम्पायनः
प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः
ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम्
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्
अर्जुनोऽस्मीति नाम्ना वै निवेद्याभ्यवदत्तदा
स्वागतं तेऽस्त्विति प्राह स मुनिस्सत्यसङ्गरः
आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः
तमप्रतीतमनसं निश्श्वसन्तं पुनःपुनः
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीद्वचः
व्यासः
नखकेशदशाकुम्भवारिणा किं समुक्षितः
आभीरजोऽभियातस्ते ब्राह्मणो निहतस्त्वया
पराजितो वा युद्धेऽपि गतश्रीरिव लक्ष्यसे
न वा प्रत्यभिजानामि किमिदं भरतर्षभ
श्रोतव्यं चेन्मया पार्थ शंस मे कुरुपुङ्गव
अर्जुनः
यस्स मेघवपुश्श्रीमान् बृहत्पङ्कजलोचनः
स कृष्णस्सह रामेण त्यक्त्वा देहं दिवं गतः
तदनुस्मृत्य सम्मोहं सदा शोकं महामते
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते
तद्वाक्यस्पर्शनालोकसुखं त्वमृतसन्निभम्
संस्मृत्य देवदेवस्य प्रमुह्याम्यृतमात्मनः
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः
बभूव वीरान्तकरः प्रभासे रोमहर्षणः
एते शूरा महात्मानस् सिंहदर्पा महाबलाः
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि
गदापरिघशक्तीनां सहाः परिघबाहवः
त एरकाभिर्निहताः पश्य कालस्य पर्ययम्
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्
निधनं समरे प्राप्तास् समासाद्य परस्परम्
पुनःपुनर्न मृष्यामि विनाशममितौजसाम्
चिन्तयानो यदूनां च कृष्णस्य च महात्मनः
शोषणं सागरस्येव मन्दरस्येव चालनम्
नभसः पतनं चैव शैत्यमग्नेस्तथैव च
अश्रद्धेयमहं मन्ये विनाशं सर्वसात्वताम्
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः
अतः कष्टतरं चान्यच्छृणु मे त्वं महामुने
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः
प्रेक्षमाणस्य वै ब्रह्मन् वृष्णिदारास्सहस्रशः
आभीरैरभिहत्याजौ हृताः पञ्चनदालयैः
तत्राहं धनुरादाय न शक्नोमि प्रपूरणे
यथा पुरा च मे वीर्यं भुजयोर्न तथाऽभवत्
अस्त्राणि मे प्रनष्टानि विविधानि महामुने
शराश्च क्षयमापन्नाः क्षणेनैव पुनर्मम
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः
चतुर्भुजः पीतवासाश् श्यामः पद्मायतेक्षणः
यस्स याति पुरस्तान्मे रथस्य सुमहाद्युतिः
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम्
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यशातयम्
तमपश्यन्विरक्तोऽस्मि मुह्यामीव च सत्तम
परिनिर्विण्णचेताश्च शान्तिं नोपलभे मुने
देवकीनन्दनं देवं वासुदेवमजं प्रभुम्
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे
श्रुत्वैव हि गतं कृष्णं ममापि मुमुहुर्दिशः
प्रनष्टज्ञानवीर्यस्य शून्यस्य परिधावतः
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम
व्यासः
देवांशा देवदेवेन सम्भूतास्ते गतास्सह
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः
याता जनार्दनेनैव न ताञ्शोचितुमर्हसि
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मना
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम्
प्रभुरेतान् वृथा कर्तुं किमु शापं मनीषिणाम्
स्त्रियश्च ताः पुरा शप्ताः प्रभासकुपितेन वै
अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयः
रथस्य पुरतो याति यस्स चक्रगदाधरः
तव स्नेहात् पुराणर्षिर् वासुदेवश्चतुर्भुजः
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः
मोक्षयित्वा जगत् सर्वं गतस्स्वस्थानमुत्तमम्
त्वयात्विह महत् कर्म देवानां पुरुषर्षभ
कृतं भीमसहायेन यमाभ्यां च महाभुज
कृतकृत्यांश्च वो मन्ये संसिद्धान् कुरुपुङ्गव
गमनं प्राप्तकालं वस् तद्धि श्रेयो मतं मम
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत
भवन्ति भावकालेषु विपद्यन्ते विपर्यये
कालमूलमिदं विद्धि सर्वं भरतसत्तम
काल एव समादत्ते पुनरेतद्यदृच्छया
स एव बलवान् भूत्वा पुनर्भवति दुर्बलः
स एवेशश्च भूत्वा हि परैराज्ञाप्यते पुनः
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति
कालो गन्तुं गतिं मुख्यां भवतामपि भारत
एतच्छ्रेयो हि वो मन्ये परमं भवतां ध्रुवम्
वैशम्पायनः
एवं वचनमाज्ञाय व्यासस्यामिततेजसः
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम्
प्रविश्य च पुरीं वीरस् समासाद्य युधिष्ठिरम्
आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति