वैशम्पायनः
एवमुक्तस्ततः पार्थो मातुलेन परन्तप
दुर्मना दीनमनसं वसुदेवमुवाच ह
अर्जुनः
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो
राजा च भीमसेनश्च सहदेवश्च पाण्डवः
नकुलो याज्ञसेनी च षडेकमनसो वयम्
राज्यसङ्क्रमणे चापि कामोऽयं नित्यमेव हि
तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिन्दम |
इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः
अर्जुनः
अमात्यान् वृष्णिवीराणां द्रष्टुमिच्छामि मा चिरम्
इत्युक्त्वा वृष्णिवीराणां सुधर्मां यादवीं सभाम्
प्रविवेशार्जुनश्शूरश् शोचमानो महाभुजः
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा
ब्राह्मणा नागराश्चैव परिवार्योपतस्थिरे
तान् दीनमनसस्सर्वान् निर्भग्नहतचेतसः
उवाचेदं वचः पार्थस् स्वयं दीनतरस्तथा
अर्जुनः
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम्
इदं हि नगरं सर्वं समुद्रः प्लावयिष्यति
सज्जीकुरुत यानानि रत्नानि विविधानि च
वज्रस्तु भवतां राजा शक्रप्रस्थे भविष्यति
सप्तमे दिवसेऽपेते रवौ विमल उद्यते
बहिर्वत्स्यामहे सर्वे सज्जीभवत मा चिरम्
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा
सर्वमाशु तदा चक्रुस् संसिद्ध्यर्थं समुत्सुकाः
तां रात्रिमवसत् पार्थः केशवस्य निवेशने
महता शोकमोहेन सहसाऽभिपरिप्लुतः
श्वोभूते तु ततश्शौरिर् वसुदेवः प्रतापवान्
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमाम्
ततश्शब्दो महानासीद् वसुदेवस्य वेश्मनि
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्
प्रकीर्णमूर्धजास्सर्वा विमुक्ताभरणस्रजः
उरांसि बाहुभिर्घ्नन्त्यो व्यलपन् करुणं स्त्रियः ||
तं देवकी च भद्रा च मदिरा रोहिणी तथा
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः
ततश्शौरिं नृयुक्तेन बहुमूल्येन भारत
यानेन महता पार्थो बहिर्निष्क्रामयत् तदा
तमन्वयुस्तत्र तत्र दुःखशोकसमन्विताः
द्वारकावासिनः पौरास् सर्व एव नरर्षभ
तस्याश्वमेधिकास्सर्वे दीप्यमानाश्च पावकाः
पुरस्तस्य यानस्य याजकाश्च समाययुः
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः |
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः
तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः
ततोऽन्वारुरुहुः पत्न्यश् चतस्रः पतिलोकगाः
तं वै चतसृभिस्स्त्रीभिरन्वितं पाण्डुनन्दनः
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि
ततः प्रादुरभूच्छब्दस् समिद्धस्य विभावसोः
सामगानां च निर्घोषो नराणां रुदतामपि
ततो वज्रप्रधानास्ते वृष्णिवीराः कुमारकाः
सर्व एवोदकं चक्रुस् स्त्रियश्चैव महात्मनः ||
अलुप्तधर्मं तद्धर्मं कारयित्वा स फल्गुनः
जगाम वृष्णयो यत्र विनष्टाः पुरुषर्षभाः
स तान् दृष्ट्वा निपतितान् भूतले दुःखितो भृशम्
बभूवातीव कौरव्यः प्राप्तकालं चकार ह
यथाप्रधानकं चैषां चक्रे सर्वास्तथा क्रियाः
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः
ततो भगवतो देहं दृष्ट्वाऽऽश्लिष्य प्रलप्य च
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः
ततश्शरीरे रामस्य वासुदेवस्य चोभयोः
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः
स तेषां विधिवत् कृत्वा प्रेतकार्याणि पाण्डवः
सप्तमे दिवसे प्रायाद् रथमारुह्य सत्वरः
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि
स्त्रियश्च वृष्णिवीराणां रुदन्त्यश्शोककर्शिताः
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम्
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये
वीरहीना वृद्धबालाः पौरजानपदास्तथा
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्
कुञ्जरैश्च गजारोहा ययुश्शैलनिभैस्तथा
सपादरक्षैस्संयुक्तास् सोत्तरायुधिका ययुः
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः
ब्राह्मणाः क्षत्रिया वैश्याश् शूद्राश्चैव महाधनाः
दश षट् च सहस्राणि वासुदेवावरोधनम्
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः
तत् सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत्
उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः
निर्याते तु जने तस्मिन् सागरो मकरालयः
द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत् तदा
यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत
तत्तत् सम्प्लावयामास सलिलेन स सागरः
तदद्भुतमभिप्रेक्ष्य द्वारकानिलयो जनः
तूर्णात् तूर्णतरं प्रायाद् अहो दैवमिति ब्रुवन्
तान् वनेषु च रम्येषु पर्वतेषु नदीषु च
निवसन्नानयामास वृष्णिवीरान् धनञ्जयः
स पञ्चनदमासाद्य श्रीमानतिसमृद्धिमत्
देशे गोपशुधान्याढ्ये निवेशमकरोत् प्रभुः
ततो कामस्समभवद् दस्यूनां निहतेश्वराः
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत
ततस्ते पापकर्माणो लोभोपहतचेतसः
आभीरा मन्त्रयामासुस् समेत्याशुभदर्शनाः
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम्
नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः
अभ्यधावन्त वृष्णीनां जनं तं लोप्त्रहारिणः
महता सिंहनादेन प्राद्रवन्तः पृथक् पृथक्
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः
ततो निवृत्य कौन्तेयस् सहसा सपदानुगः
उवाच तान् महाबाहुर् अर्जुनः प्रहसन्निव
अर्जुनः
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः
नेदानीं शरनिर्दग्धाश् शेष्यध्वं निहता मया
वैशम्पायनः
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजयं युधि
आरोपयितुमारेभे यत्नादिव कथञ्चन
चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि
वैकृतं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि
दिव्यानां च तथाऽस्त्राणां विनाशाद्व्रीडितोऽभवत्
वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम्
कलत्रस्य बहुत्वात्तु सम्पतन् स ततस्ततः
प्रयत्नमकरोत् पार्थो जनस्य परिरक्षणे
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः
समन्ततो ह्यकर्षन्त कामाच्चान्याः प्रदुद्रुवुः
ततो गाण्डीवनिर्मुक्तैश् शरैः पार्थो धनञ्जयः
जघान दस्यून् सोद्वेगो वृष्णिभृत्यैस्समाहितः
क्षणेन तस्य ते राजन् क्षयं जग्मुः पतत्रिणः
अक्षयाश्च पुरा भूत्वा क्षीणाः क्षतजभोजनाः
स शरक्षयमासाद्य दुःखशोकसमाहतः
धनुष्कोट्या तदा दस्यून् अवधीद्भरतर्षभ
धनञ्जयस्तदा दैवं निश्चित्य मनसा प्रभुः
दुःखशोकसमाविष्टो निश्श्वासपरमोऽभवत्
अस्त्राणां तु विनाशेन भुजवीर्यस्य च क्षयात्
धनुषश्चाविधेयत्वाच्छराणां प्रक्षयेण च |
बभूव विमना राजन् दैवमेव विचिन्तयन् ||
ततश्शेषमादाय कलत्रस्य महामतिः
हतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्
युधिष्ठिरस्यानुमते तत्र तत्र कुमारकान्
न्यवेशयत कौरव्यस् तत्रतत्र समन्ततः
हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते
दग्धेऽत्र खाण्डवारण्ये राष्ट्रे तं सन्न्येवशयत् ||
भोजराजकलत्रं च भृत्यांश्चैषां नरोत्तमः
तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः
विधेर्विहीनान् स तदा शक्रप्रस्थे न्यवेशयत्
युधां वरं सरस्वत्यां पुत्रं सात्यकिनः प्रियम्
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्
इन्द्रप्रस्थे ददौ राज्यं वज्रस्य परवीरहा
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः
रुक्मिणी त्वथ गान्धारी शैब्याख्या नाग्रजित्यपि
देवी जाम्बवती चैव विविशुर्जातवेदसम्
सत्यभामा तथा चान्या देव्यः कृष्णस्य सम्मताः
वनं प्रविविशुस्सर्वास् तपसे कृतनिश्चयाः
द्वारकावासिनो ये च पुरुषाः पार्थमन्वयुः
यथार्हं संविभज्यैतान् वज्राय प्रददौ जयः
स तत् कृत्वा प्राप्तकालं विनिश्चित्य शुचान्वितः
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे