वैशम्पायनः
तं शयानं महात्मानं वीरमानकदुन्दुभिम्
पुत्रशोकाभिसन्तप्तं ददर्श कुरुनन्दनः
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत
तस्य मूर्धानमाघ्रातुम् इयेषानकदुन्दुभिः
स्वस्रीयस्य महाबाहुर् न शशाक च शत्रुहन्
समालिङ्ग्यार्जुनो वृद्धं स भुजाभ्यां महाभुजः
रुरोदाथ स्मरञ्छौरिं विललाप सुविह्वलः
भ्रातॄन् पुत्रांश्च पौत्रांश्च दौहित्रांश्च तथैव च
वसुदेवः
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन
तान् दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मनाः
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा
तयोरपनये पार्थ वृष्णयो निधनं गताः
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ
प्रद्युम्नो युयुधानश्च कथयन् कत्थसे च यौ
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः
तावेव वृष्णिनाशस्य मुखमास्तां धनञ्जय
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्
केशिनं यस्तु कंसं च विक्रम्य हतवान् प्रभुः
विदेहमकरोत् पार्थ चैद्यं च मधुसूदनः
नैषादिमेकलव्यं च पत्रं कालिङ्गमागधान्
गान्धारान् काशिराजं च मरुभूमौ च पार्थिवान्
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्
सोऽभ्युपेक्षितवान् नूनमनयान् मधुसूदनः
त्वं हि तं नारदश्चैव मुनयश्च सनातनम्
गोविन्दमनघं देवमभिजानीध्वमच्युतम्
प्रत्यपश्यच्च स विभुर् ज्ञातिक्षयमधोक्षजः
समुपेक्षितवान् नित्यं स्वयं स मम पुत्रकः
गान्धार्या वचनं यत्तद् ऋषीणां च परन्तप
तन्नूनमन्यथा कर्तुं नैच्छत् स जगतः प्रभुः
प्रत्यक्षं भवतश्चापि तव पौत्रः परन्तप
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा ||
इमांस्तु नैच्छत् स्वान् ज्ञातीन् रक्षितुं स सखा तव
ततस्स पुत्रान् पौत्रांश्च भ्रातॄनथ सखीनपि
शयानान् निहतान् दृष्ट्वा कृष्णो मामिदमब्रवीत्
श्रीभगवान्
सम्प्राप्तोऽद्यायमस्यान्तकालस्स पुरुषर्षभ
आगमिष्यति बीभत्सुर् इमां द्वारवतीं पुरीम्
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्
सखा नूनं महातेजाश् श्रुत्वैनमनयं प्रभो
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा
योऽहं तमर्जुनं विद्धि फल्गुनं विद्धि मामिति
स यद् ब्रूयात् तथा कार्यम् इति बुद्ध्यस्व माधव
स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च
प्रतिपत्स्यति बीभत्सुर् भवतां चौर्ध्वदेहिकम्
इमां हि नगरीं सद्यः प्रतियाते धनञ्जये
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति
अहं हि देशे कस्मिंश्चित् पुण्ये नियममास्थितः
कालं काङ्क्षे सद्य एव रामेण प्रहितं हि मे
वसुदेवः
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः
हित्वा मां बालकैस्सार्धं दिशं कामप्यगात् प्रभो
सोऽहं तौ च महात्मानौ चिन्तयन् रामकेशवौ
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः
न च भोक्ष्ये न जीविष्ये दिष्ट्या दृष्टोऽसि पाण्डव
यदुक्तं पार्थ कृष्णेन तत् सर्वमखिलं कुरु
एतत् ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह
इष्टान् प्राणानहं हीमांस् त्यक्ष्यामि रिपुसूदन