वैशम्पायनः
दारुकस्तु कुरून् गत्वा दृष्ट्वा पार्थं स्थितं तदा
आचष्ट मौसलैर्वृष्णीन् अन्योन्येनाभिसंहृतान्
श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजान् जनमेजय
पाण्डवाश्शोकसन्तप्ता वित्रस्तमनसोऽभवन्
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियस्सखा
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत्
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम्
यास्स्म ता लोकनाथेन नाथवत्यः पुराऽभवन्
तास्स्मानाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः
षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः
तासामासीन्महान् नादो दृष्ट्वैवार्जुनमागतम्
तास्तु दृष्ट्वा स कौरव्यो बाष्पेण पिहितोऽर्जुनः
हीनाः पुत्रैश्च कृष्णेन नाशकत् सोऽभिवीक्षितुम्
तां स्म वृष्ण्यन्धकजलां हयमीनां रथोडुपाम्
वादित्रस्वननिर्घोषां वेश्मतीर्थमहाग्रहाम्
रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम्
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम्
रामकृष्णमहाग्राहां द्वारकां सरितं तदा
कालपाशग्रहां घोरां नदीं वैतरणीमिव
तां ददर्शार्जुनो धीमान् विहीनां वृष्णिपुङ्गवैः
गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ||
तां दृष्ट्वा द्वारकां पार्थस् ताश्च कृष्णस्य योषितः
सस्वरं बाष्पमुत्सृज्य निपपात महीतले
सात्राजिती सत्यभामा रुक्मिणी च विशाम्पते
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम्
ततस्तं काञ्चने पीठे समुत्थाप्योपवेश्य च
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे
ततस्संस्तूय गोविन्दं कथयित्वा च पाण्डवः
आश्वास्य तास्स्त्रियश्चापि मातुलं द्रष्टुमागमत्