वैशम्पायनः
ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं नयन्तः
अथापश्यद्राममनन्तवीर्यं वृक्षाश्रितं चिन्तयानं विविक्ते
ततस्समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् ||
श्रीभगवान्
गत्वा कुरून् सर्वमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् |
ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान् यादवान् ब्रह्मशापात् ||
वैशम्पायनः
इतीदमुक्तस्स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः |
ततो गते दारुके केशवोऽथ दृष्ट्वाऽग्रतो बभ्रुमुवाच वाक्यम् ||
श्रीभगवान्
वैशम्पायनः
स्त्रियो भवान् रक्षितुं यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तभावात्
स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च ||
तं वै यान्तं सन्निधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम्
ब्रह्मानुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य
श्रीभगवान्
ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णो वाक्यं भ्रातरमग्रजं तु
इहैव त्वं मां प्रतीक्षस्व राम यावत् स्त्रियो ज्ञातिवशाः करोमि
वैशम्पायनः
ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम् ||
श्रीभगवान्
सर्वं भवान् रक्षतु नस्समग्रं धनञ्जयस्यागमनं प्रतीक्षन् |
रामो वनान्ते प्रतिपालयन् माम् अास्तेऽद्याहं तेन समागमिष्ये ||
दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुङ्गवानाम् |
नाहं विहीनो यदुभिर्नृवीर पुरीमिमां द्रष्टुमिहाद्य शक्तः ||
तपश्चरिष्यामि निबोध तद्वै रामेण सार्धं वनमभ्युपेतः
वैशम्पायनः
इतीदमुक्त्वा शिरसा च पादौ प्रगृह्य कृष्णोऽथ जगाम तूर्णम्
ततश्शब्दो दारुणः प्रादुरासीत् सस्त्रीकुमारस्य जनस्य तस्य
श्रीभगवान्
ततोऽब्रवीत् केशवस्सन्निवृत्य शब्दं श्रुत्वा योषितां क्रोशतीनाम्
पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः
वैशम्पायनः
ततो गत्वा केशवस्तं ददर्श रामं तमेकं स्थितमेक एव
अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निस्सरन्तं महान्तम्
श्वेतं ययौ स च तं वीक्ष्य वीक्ष्य महार्णवे येन महानुभावः
सहस्रशीर्षा पर्वताभोगवर्ष्मा रक्ताननस्स्वां तनुं तां विसृज्य
सन्दृश्य तं सागरान्तं विशन्तं सम्यक् तदा सागरः प्रत्यगृह्णात् ||
नागा दिव्यास्सरितश्चैव सर्वाः कार्कोटको वासुकिस्तक्षकश्च |
पृथुश्रवा अरुणः कुञ्जरश्च मिश्री शङ्खः कुमुदः पुण्डरीकः ||
तथा नागो धृतराष्ट्रो महात्मा ह्रादः क्रोधश्शिनिपृष्ठो निकेतुः |
तथा नागौ चक्रमन्दातिषण्डौ नागश्रेष्ठो विमुखश्चाश्वधिश्च ||
स्वयं राजा वरुणश्चाह देवैः प्रत्युद्गम्य स्वागतेनाभ्यनन्दत् ||
तेऽपूजयंश्चार्यविधिक्रियाभिस् सङ्कर्षणं भूधरं शुद्धसत्त्वम्
ततो गते भ्रातरि वासुदेवो जानन् सर्वा गतयो दिव्यदृष्टिः
वने शून्ये विचरंश्चिन्तयानो भूमौ ततस्संविवेशाग्र्यतेजाः
सर्वं हि तेन प्राक् तदा प्राप्तमासीद् गान्धार्या यद्वाक्यमुक्तं स्वधर्मात्
दुर्वाससा पायसोच्छिष्टलिप्तो यच्चाप्युक्तं तच्च सस्मार कृष्णः
कुलस्त्रीणां सुव्रतानां गवां च द्विजेन्द्राणां बलमाधाय धर्मे
योनिर्लोकानां वरदो ब्रह्मदेवो गोविन्दाख्यो वासुदेवोऽथ नित्यः
सञ्चिन्तयानोऽन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः
मेने ततस्सङ्क्रमणस्य कालं ततश्चकारेन्द्रियसन्निरोधम्
यथा च लोकस्थितिपालनार्थं दुर्वासवाक्यप्रतिपालनार्थम्
देवोऽपि वा देहमोक्षहेतोर् निमित्तमैच्छत् सकलार्थतत्त्ववित्
स सन्निरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः
जरश्च तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ||
कृष्णं शयानं स विकृष्य बाणं विव्याध पादे मृगशङ्कया च ||
अथापश्यत् पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम्
मत्वाऽऽत्मानं त्वपराद्धं तु तस्य जग्राह पादौ शिरसा चार्तरूपः
आश्वासितः पुण्यफलेन भक्त्या तथाऽनुतापात् कर्मणो जन्मनश्च
दृष्ट्वा तथा देवमनन्तवीर्यं देवैस्स्वर्गं प्रापितस्त्यक्तदेहः
गणैर्मुनीनां पूजितस्तत्र कृष्ण ऊर्ध्वं गच्छन् प्राप्य लोकान् स्वलक्ष्म्या
दिवि प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या मरुतो विश्वसङ्घाः
प्रत्युद्गमन्नृषयश्चापि सिद्धास् सब्रह्मकाः पतयश्च प्रजानाम्
ततो राजन् भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं चाग्र्यं मण्डलं प्राप योगात्
ततस्समेतैर्मधुसूदनस्तैर् देवैस्सर्वैरृषिभिश्चारणैश्च
गन्धर्वाग्र्यैरप्सरोभिर्वराभिस् सिद्धैस्साध्यैस्सन्नतैः पूज्यमानः
तं वै देवं प्रत्यनन्दन्त राजन् मुनिश्रेष्ठा वाग्भिरानर्चुरीशम्
गन्धर्वाश्चाप्युपतस्थुस्स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत्
पुरुहूतः
नमो नमस्ते भगवञ् शार्ङ्गधन्वन् धर्मस्थित्या प्रादुरासीर्धरायाम्
कंसाख्यादीन् देवशत्रूंश्च सर्वान् हत्वा भूमिस्स्थापिता भारतप्ता
दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैर्गम्यमग्र्यम्
गच्छ प्रभो रक्ष चार्तिं प्रपन्नान् कल्पे कल्पे जायमानास्स्वमूर्त्या
वैशम्पायनः
इत्येवमुक्त्वा देवसङ्घोऽनुगम्य श्रिया युक्तं पुष्पवृष्ट्या ववर्ष
वाणी ह्यासीत् संश्रिता रूपिणी सा भानोर्मध्ये प्रविश त्वं च राजन्
श्रीभगवान्
भुजैश्चतुर्भिस्समुपेतं ममेदं रूपं विशिष्टं दिवि वै संस्थितं च
भूमौ गतं पूजयताप्रमेयं सदा हि तस्मिन् निवसामि देवाः
वैशम्पायनः
देवा निवृत्तास्तत् पदं नाप्नुवन्तो बुद्ध्या देवं संस्मरन्तः प्रतीताः
ब्रह्माद्यास्ते तद्गुणान् कीर्तयन्तश् शुभाल्ँलोकान् स्वान् प्रपेदुस्सुरेन्द्राः