वैशम्पायनः
एवं प्रयतमानानां वृष्णीनामन्धकैस्सह
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः
गृहाण्यावेष्ट्य वृष्णीनां नादृश्यत पुनः क्वचित्
उत्पेदिरे महावाता दारुणाश्च दिने दिने
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः
प्रवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा
वीची कूचीति वाश्यन्त शारिका वृष्णिवेश्मसु |
नोपशाम्यति शब्दश्च स दिवारात्रमेव हि
अन्वकुर्वन्नुलूकानां सारसा वृष्णिवेश्मसु
अजाश्शिवानां च रुतम् अन्वकुर्वन्त भारत
पाण्डरा रक्तपादाश्च विहगाः कालचोदिताः
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तथा
अजा गोषु व्यजायन्त करभाश्चाश्वतरीषु च
शुनीष्वपि बिडालाश्च मूषिका नकुलीष्वपि
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तथा
अर्दयन् ब्राह्मणांश्चापि पितृदेवांस्तथैव च
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ
भार्याः पतीनुच्चरन्ति भार्याश्च पुरुषास्तथा
विभावसुः प्रज्वलितो वामं विपरिवर्तते
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्
उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः
व्यदृश्यतासकृत् पुम्भिः कबन्धैः परिवारितः
महानसेषु सिद्धेऽन्ने ससूपेऽतीव भारत
अवतार्यमाणाः क्रिमयो ह्यदृश्यन्त नराधिप
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु
अभिधावमाना दृश्यन्ते न चादृश्यत कश्चन
परस्परं तु नक्षत्रं हन्यमानं पुनः पुनः |
ग्रहैरपश्यन् सर्वे ते नात्मनस्तु कथञ्चन
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकपुरस्कृतम्
समन्तात् प्रत्यदृश्यन्त रासभा दारुणस्वनाः
अपश्यत् स हृषीकेशस् सम्प्राप्तं कालपर्ययम्
त्रयोदशीममावास्यां तान् दृष्ट्वा प्राब्रवीदिदम्
श्रीभगवान्
त्रयोदशी पञ्चदशी कृतेयं राहुणा पुनः
तथा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः
वैशम्पायनः
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः
मेने प्राप्तं स षट्त्रिंशं वर्षं तु मधुसूदनः
श्रीभगवान्
पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा
यदनुव्याजहारार्ता तदिदं समुपस्थितम्
इदं च समनुप्राप्तम् अब्रवीद्यद्युधिष्ठिरः
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान् सुदारुणान्
वैशम्पायनः
इत्युक्त्वा वासुदेवस्तु चिकीर्षन् सत्यमेव तत्
आज्ञापयामास तदा तीर्थं घोषयतेति च
अघोषयन्त पुरुषास्तत्र केशवशासनात्
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः