वैशम्पायनः
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः
ददर्श विपरीतानि निमित्तानि युधिष्टिरः
ववुर्वातास्सनिर्घाता रूक्षाश्शर्करवर्षिणः
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः
उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि
आदित्यो रजसा राजन् समवच्छन्नमण्डलः
विरश्मिरुदये नित्यं कबन्धैस्समलङ्कृतः
परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसूर्ययोः
त्रिवर्णाश्श्यामरूक्षान्तास् तथा भस्मारुणप्रभाः
एते चान्ये च बहव उत्पाता भयशंसिनः
दृश्यन्ते जगतो नाथे दिवमारोढुमिच्छति
यस्य प्रसादाद्धर्मोऽयं कृते यद्वत् कलावपि
पाण्डवास्तु महाभाग युक्तास्तु यशसाऽनघाः
कस्य चित्त्वथ कालस्य कुरुराजो युधिष्ठिरः
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम्
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः
समानीयाब्रवीद्भ्रातॄन् किं करिष्याम इत्युत
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्
वृष्णीन् विनष्टान् श्रुत्वा ते व्यथिताः पाण्डवा भृशम्
निधनं वासुदेवस्य समुद्रस्येव शोषणम्
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः
मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः
विष्ण्णा हतसङ्कल्पाः पाण्डवास्समुपाविशन्*
जनमेजयः
कथं विनष्टा भगवन्नन्धका वृष्णिभिस्सह
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः
वैशम्पायनः
षट्त्रिंशेऽथ गते वर्षे वृष्णीनामनयो महान्
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः
जनमेजयः
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व तत्
वैशम्पायनः
विश्वामित्रं च कण्वं च नारदं च तपोधनम्
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान्
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा
अब्रुवन्नुपसङ्गृह्य दैवदण्डनिपीडिताः
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः
ऋषयस्साधु जानीत किमियं जनयिष्यति
वैशम्पायनः
इत्युक्तास्ते महाराज विप्रलम्भप्रधर्षिताः
प्रत्यब्रुवंस्तान् मुनयो यत्तच्छृणु नराधिप
ऋषयः
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्
वासुदेवस्य दायादस् साम्बोऽयं जनयिष्यति
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः
उच्छेत्तारः कुलं सर्वम् ऋते रामजनार्दनौ
समुद्रं यास्यति श्रीमांस् त्यक्त्वा देहं हलायुधः
व्याधः कृष्णं महाभागम् शयानं भुवि वेत्स्यति
वैशम्पायनः
इत्यब्रुवंस्ततो राजन् प्रलब्धास्तैर्महर्षयः
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः
अथाब्रवीत् तदा वृष्णीञ् श्रुत्वैतन्मधुसूदनः
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान्
कृतान्तमन्यथा नैच्छत् कर्तुं स जगतः प्रभुः
श्वोभूते तु ततस्साम्बो मुसलं तदसूयत
वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत्
प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन्
विवर्णरूपस्तद्राजा सूक्ष्मचूर्णमकारयत्
प्राक्षिपन् सागरे तच्च पुरुषा राजशासनात्
अघोषयंश्च नगरे वचनादाहुकस्य ह
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः
अद्यप्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्वथ
सुरासवो न कर्तव्यस् सर्वैर्नगरवासिभिः
यश्च नो विदितं कुर्यात् पेयं किञ्चित् क्वचिन्नरः
जीवन् स शूलमारोहेत् क्षयं कृत्वा सबान्धवः
ततो राजभयात् सर्वे नियमं चक्रिरे तदा
नराश्शासनमाज्ञाय तस्य राज्ञो महात्मनः