युधिष्ठिरः-
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम
यत्र वैचित्रवीर्यो हि दह्यतैवं ववाग्निना
यस्य पुत्रशतं श्रीमद् अभवद्बाहुशालिनः
नागायुतसमप्राणस् स दग्धो हि दवाग्निना
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः
तं गृध्राः पर्यवीजन्त दावाग्निपरिकूलितम्
सूतमागधसङ्घैश्च शयाने यः प्रबोध्यते
धरण्यां स नृपश्शेते विकृष्टो गृध्रवायसैः
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम्
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत्
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्
धिग् राज्यमिदमस्माकं धिग् बलं धिक् पराक्रमम्
क्षत्रधर्मं च धिग् यस्मान्मृता जीवामहे वयम्
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम
यत् समुत्सृज्य राज्यं सा वनवासमरोचयत्
युधिष्ठिरस्य जननी भीमस्य विजयस्य च
अनाथवत् कथं दह्येद् इति मुह्यामि चिन्तयन्
वृथा सन्तर्पितो वह्निः खाण्डवे सव्यसाचिना
उपकारमजानन् स कृतघ्न इति मे मतिः
यत्रादहत् स भगवान् मातरं सव्यसाचिनः
कृत्वा यो ब्राह्मणच्छद्म भैक्षार्थी तमुपागतः
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम्
इदं कष्टतरं चान्यद् भगवन् प्रतिभाति मे
वृथाग्निना समायोगो यदभूत् पृथिवीपतेः
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य च
कथमेवं गतो मृत्युः प्रशास्य पृथिवीमिमाम्
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने
स वृथाग्निसमायुक्तो निष्ठां प्राप्तः पिता मम
मन्ये पृथा वेपमाना कृशा धमनिसन्तता
हा तात धर्मराजेति मामाक्रन्दन्महाभये
भीम पर्याप्नुहि भयाद् इति चैवाभियाचती
समन्ततः परिक्षिप्ता माता मेऽभूद् दवाग्निना
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिकमेव तु
न चैनां मोक्षयामास वीरो माद्रवतीसुतः
वैशम्पायनः-
तच्छ्रुत्वा रुरुदुस्सर्वे समालिङ्ग्य परस्परम्
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः
प्रासादभागसंरुद्धो रोदसी समरुन्धत
नारदः-
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया
वैचित्रवीर्यो नृपतिर् न ते शोच्यो नराधिप
वनं प्रविशताऽनेन वायुभक्षेण धीमता
अग्नयः कारयित्वेष्टिम् उत्सृष्टा इति नश्श्रुतम्
याजकास्तानथैतस्य तदानीं निर्जने वने
समुत्सृज्य यथाकामं यर्युर्भरतसत्तम
स विवृद्धस्तदा वह्निर् वने तस्मिन्नभूत् किल
तेन तद्वनमादीप्तम् इति ते तापसा ब्रुवन्
स राजा जाह्नवीतीरे यथा ते कथितं मया
तेनाग्निना समायुक्तस् स्वेनैव भरतर्षभ
एवमावेदयामासुर् मुनयस्ते ममानघ
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर
एवं स्वेनाग्निना राजा समायुक्तो महीपते
मा शोचिथास्तं नृपतिं गतस्स परमां गतिम्
गुरुशुश्रूषया चैव जननी तव पाण्डव
गतिं प्राप्ता सुमहतीम् इति मे नास्ति संशयः
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम्
भ्रातृभिस्सहितस्सर्वैर् एतदत्र विधीयते
वैशम्पायनः-
ततस्स पृथिवीपालः पाण्डवानां धुरन्धरः
निर्ययौ सह सोदर्यैस् सदारो भरतर्षभः
पौरजानपदाश्चैव राजभक्तिमुपाश्रिताः
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः
ततोऽवगाह्य सलिलं सर्वे तु कुरुपुङ्गवाः
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः
शौचन्तो वर्तयन्तस्ते तत्रोषुर्नगराद्बहिः
प्रेषयामास च नरान् विधिज्ञानाप्तकारिणः
गङ्गाद्वारे कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात् तदा
कर्तव्यानीति पुरुषान् दत्तदेयान् महीपतिः
द्वादशेऽहनि तेभ्यश्च कृतशौचो नराधिपः
ददौ श्राद्धानि विधिवद् दक्षिणावन्ति पाण्डवः
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक् पृथक्
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम्
यो यदिच्छति यावच्च तावत् स लभते द्विजः
शयनं भोजनं यानं मणिरत्नमथो धनम्
पानमाच्छादनं भोगान् दासीश्च परिचारिकाः
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतेः
ततस्स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः।
प्रविवेश पुनर्धीमान् पुरं वारणसाह्वयम्
ते चापि राजवचनात् पुरुषा ये गता भवन्
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम्
नारदोऽप्यगमत् प्रीतः परमर्षिर्यथेप्सितम्
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः
वनवासे तथा त्रीणि नगरे दश पञ्च च
हतपुत्रस्य सङ्ग्रामे दानानि ददतस्सदा
नृपतेः पुत्रपौत्राणां मित्राणां स्वजनस्य च
युधिष्ठिरस्तु नृपतिर् नातिप्रीतमनास्तदा
धारयामास तद्राज्यं निहतज्ञातिबान्धवः