वैशम्पायनः-
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः
युधिष्टिरः-
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्
कच्चित् सकुशलं विप्र शुभं वा प्रर्युपस्थितम्
के देशाः भवता दृष्टाः कार्यं किञ्च करोमि ते
तद्ब्रूहि द्विजमुख्य त्वं ह्यस्माकं च प्रियोऽतिथिः॥
नारदः-
चिरदृष्टोऽसि मे राजन्नगतोऽहं तपोवनात्
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप
युधिष्ठिरः-
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः
धृतराष्ट्रं महात्मानम् आस्थितं परमं तपः
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः
कथं वर्तयते चाद्य स पिता मम पार्थिवः
श्रोतुमिच्छामि भगवन् यदि दृष्टस्त्वया नृपः
नारदः-
स्थिरो भूत्वा महाराज शृणु सर्वं यथातथम्
यथा श्रुतं यथा दृष्टं मया तस्मिंस्तपोवने
वनवासन्निवृत्तेषु भवत्सु कुरुनन्दन
कुरुक्षेत्रात् पिता तुभ्यं गङ्गाद्वारं ययौ नृपः
गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः
सञ्जयेन च सूतेन साग्निहोत्रस्सयाजकः
तत्रोग्रं तप आस्थाय धृतराष्ट्रो महामनाः
ततो विधिं समास्थाय वायुभक्षोऽभवन्मुनिः
वने स मुनिभिस्सर्वैः पूज्यमानो महातपाः
त्वगस्थिमात्रावशेषष् षण्मासानभवन्नृपः
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी
सञ्जयष्षष्ठभुक्तेन वर्तयामास भारत
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत् प्रभो
दृश्यतोऽदृश्यतश्चैव वने तस्मिन् नृपस्य ह
अनिकेतो हि राजाऽसौ बभूव वनगोचरः
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः
सञ्जयो नृपतेर्नेता समेषु विषमेषु च
गान्धार्याश्च पृथा राजंश् चक्षुरासीदनिन्दिता
ततः कदाचिद्गङ्गायां गच्छत्सु कुरुसत्तम
गङ्गायामाप्लुतो धीमान् आश्रमाभिमुखो ययौ
अथ वायुस्समुद्भूतो दावाग्निरभवन्महान्
ददाह च वनं सर्वं परिगृह्य समन्ततः
दह्यत्सु मृगयूथेषु विह्वलेषु समन्ततः
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्
सम्प्रदीप्ते वने तस्मिन् प्राप्तो व्यसनमुत्तमम्
निराहारतया राजा मन्दप्राणविचेष्टितः
असमर्थोऽपसरणे सुकृशे मातरौ च ते
ततस्स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्
इदमाह वचस्सूतं सञ्जयं पृथिवीपते
धृतराष्ट्रः-
गच्छ सञ्जय यत्राग्निर् न त्वां दहति कर्हिचित्
वयमप्यग्निसंयुक्ता गमिष्यामः परां गतिम्
नारदः-
तमुवाच किलोद्विग्नस् सञ्जयो वदतां वरः
सञ्जयः-
राजन् मृत्युरनिष्टोऽयं भविता ते यथाऽग्निना
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः
यदत्रानन्तरं कार्यं तद्भवान् वक्तुमर्हति
नारदः-
धृतराष्ट्रः-
इत्युक्तस्सञ्जयेनेदं पुनराह स पार्थिवः
नैष मृत्युरनिष्टो नो निस्सृता हि गृहाद्वयम्
जलमग्निस्तथा वायुर् अथवाऽपि विकर्षणम्
तापसानां प्रशस्यन्ते गच्छ सञ्जय मा चिरम्
नारदः-
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तथा
प्राङ्मुखस्सह गान्धार्या कुन्त्या चोपाविशत् तदा
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्
उवाच चैनं मेधावी युज्यस्वेति नराधिपम्
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः
सन्निरुध्येन्द्रियग्रामम् आसीत् काष्ठोपमस्तदा
गान्धारी च महाप्राज्ञा जननी च पृथा तव
दावाग्निना समायुक्ते स च राजा पिता तव
सञ्जयस्तु महाप्राज्ञस् तस्माद्दावादमुच्यत
गङ्गाकूले मया दृष्टस् तापसैः परिवारितः
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः
प्रययौ सञ्जयस्सूतो हिमवन्तं महागिरिम्
एवं स निधनं प्राप्तः कुरुराजो महामनाः
गान्धारी च पृथा चैव जननी ते नराधिप
यदृच्छया तु व्रजता मया राज्ञः कलेबरम्
तयोश्च देव्योरुभयोर् दृष्टानि भारतर्षभ
ततस्तपोवने तस्मिन् समाजग्मुस्तपोधनाः
श्रुत्वा राज्ञस्तथा निष्ठाम् अन्वशोचन् गतिं च ते
तत्राश्रौषमहं सर्वम् एतत् पुरुषसत्तम
यथा च नृपतिर्दग्धो तथा देव्यौ च पाण्डव
न शोचितव्यो राजेन्द्र स्वर्गस्थः पृथिवीपतिः
प्राप्तवानग्निसंयोगाद् गान्धारी जननी च ते
वैशम्पायनः-
एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम्
निर्याणं धृतराष्ट्रस्य शोकस्समभवन्महान्
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्
पौराणां च महाराज श्रुत्वा राज्ञस्तथा गतिम्
अहो धिगिति राजा च विक्रुश्य भृशदुःखितः
ऊर्ध्वबाहुस्स्मरन् मातुः प्ररुरोद युधिष्ठिरः
भीमसेनपुरोगाश्च भ्रातरस्सर्व एव ते
‘रुरुदुर्दुःखसन्तप्ता वर्णयन्तः पृथां तदा
अन्तःपुरेषु सुमहांस् ततो रुदितनिस्वनः
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्
तपोवृद्धं तथा दग्धं हतपुत्रं वनेचरम्
अन्वशोचन्त ते सर्वे गान्धारीं च यशस्विनीम्
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्