वैशम्पायनः-
स दृष्ट्वा तु नृपः पुत्रान् तथा सम्बन्धिबान्धवान्
ऋषिप्रसादान् पुत्राणां सरूपाणां कुरूद्वहः
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा
अवाप्तवान् नरश्रेष्ठो बुद्धिनिश्चयमेव च
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्
धृतराष्ट्रस्समासाद्य व्यासं चापि तपस्विनम्
जनमेजयः-
ममापि वरदो व्यासो दर्शयेत् पितरं यदि
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत्
प्रियं मे स्यात् कृतार्थश्च स्यामहं कृतनिश्चयः
प्रसादादृषिमुख्यस्य मम कामस्समृद्ध्यताम्
सूतः-
इत्युक्तवचने तस्मिन् नृपे व्यासः प्रतापवान्
प्रसादमकरोद्धीमान् आनयच्च परिक्षितम्
ततस्तद्रूपवयसम् आगतं नृपतिं दिवः
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम्
शमीकं च महाभागं पुत्रं चाप्यस्य शृङ्गिणम्
अमात्या ये च निहता राज्ञस्तांश्च ददर्श सः
ततस्सोऽवभृथे राजा मुदितो जनमेजयः
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः
परीक्षिदपि तत्रैव बभूव स तिरोहितः
स्नात्वा च भरतशेष्टो ह्यास्तीकमिदमब्रवीत्
यायावरकुलोद्भूतं जरत्कारुसुतं तदा
जनमेजयः-
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः
आस्तीकः-
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः
कथञ्चित् तक्षको मुक्तस् सत्यत्वात् तव पार्थिव
ऋषयः पूजितास्सर्वे गतिं र्दृष्टा महात्मनः
प्राप्तस्सुविपुलो धर्मश् श्रुत्वा पापविनाशनम्
विमुक्तो हृदयग्रन्थिर् उदारजनदर्शनात्
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये
यान् दृष्ट्वा त्यजते पापं तेभ्यः कार्या नमस्क्रिया
सूतः-
एतच्छ्रुत्वा द्विजश्रेष्ठात् स नृपो जनमेजयः
पूजयामास तमृषिम् अनुमान्य पुनःपुनः
पप्रच्छ तमृषिं राजा वैशम्पायनमच्युतम्
कथावशेषं धर्मज्ञो वनवासस्य सत्तमः