कुन्ती-
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्
त्वं मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः
भिक्षामुपागतो भोक्तुम् अहं तं पर्यतोषयम्
शौचन स्वागतेनैव शुद्धेन मनसा तथा
कोपस्थानेष्वपि महत्स्वकुप्यन्त्या कदाचन
स मे वरमदात् प्रीतः कृतकृत्याऽहमब्रवम्
अवश्यं ते ग्रहीतव्यम् इति मां सोऽब्रवीद्वचः
ततश्शापभयाद्विप्रम् अवोचं पुनरेव तम्
एवमस्त्विति स प्राह पुनरेव च मां द्विजः
दुर्वासाः-
धर्मस्य जननी भद्रे भवित्री त्वं शुभानने
वशे स्थास्यन्ति देवास्ते यांस्त्वमावाहयिष्यसि
कुन्ती-
इत्युक्त्वाऽन्तर्हितो विप्रस् ततोऽहं विस्मिताऽभवम्
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति
अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्
स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती
अथ देवस्सहस्रांशुर् मत्समीपगतोऽभवत्
द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च
तताप लोकानेकेन द्वितीयेनागमच्च माम्
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व वै
गम्यतामिति तं चाहं प्रणम्य शिरसाऽवदम्
स मामुवाच तिग्मांशुर् वृथाऽऽह्वानं न मे क्षमम्
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव
तमहं रक्षती विप्रं शापादनपराधिनम्
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्
ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान्
उवाच भविता पुत्रस् तवेत्यभ्यगमद्दिवम्
ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्
नूनं तस्यैव देवस्य प्रसादात् पुनरेव तु
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः
स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः
तन्मां दहति विप्रर्षे तत् सर्वं विदितं त्वया
यदि पापमपापं वा तवैतद्विवृतं मया
तन्मे दहन्तं भगवन्नपनेतुमिहार्हसि
वैशम्पायनः-
यच्चास्य राज्ञो विज्ञातं हृदिस्थं भगवंस्त्वया
तं चायं लभतां कामत् अद्यैव मुनिसत्तम
इत्युक्तः प्रत्युवाचैनां व्यासो वेदविदां वरः
व्यासः-
अपराधश्च ते नास्ति कन्याभावगता ह्यसि
देवा आश्चर्यवन्तो हि शरीराण्याविशन्ति वै
सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये
वाचा दृष्ट्या तथा स्पर्शात् सङ्घर्षेणेति पञ्चधा
मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि
सर्वं बलवतां धर्म्यं सर्वं बलवतां स्वकम्
साधु सर्वमिदं तथ्याम् एवमेतद्यथाऽऽत्थ माम्