वैशम्पायनः-
तच्छ्रुत्वा वदतस्तस्य राजर्षेः परिदेवितम्
पुनर्नवीकृतश्शोको गान्धार्याः पुरुषर्षभः
कुन्त्या द्रुपदकन्यायास् सुभद्रायाश्च पार्थिव
तासां च वरनारीणां वधूनां कौरवस्य ह
पुत्रशोकसमाविष्टा गान्धारी त्वब्रवीदिदम्
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता
गान्धारी-
लोकान्तरगतान् पुत्रान् अयं काङ्क्षति मानद
तच्चास्य मानसं ज्ञातं भगवंस्तपसा त्वया
षोडशोमानि वर्षाणि गतानि मुनिपुङ्गव
तस्य राज्ञो हतान् पुत्राञ् शोचतो मम चापि भो
पुत्रशोकसमाविष्टो निश्श्वसन् ह्योष भूमिपः
न शेते वसतीस्सर्वा धृताराष्ट्रो महामुने
लोकानन्यान् समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्
किमु लोकान्तरगतान् राज्ञो दर्शयितुं सुतान्
इयं च द्रौपदी कृष्णा हतज्ञातिसुता तदा
शोचत्यतीव साध्वी ते स्नुषया दयिता स्नुषा
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी
सौभद्रवधसन्तप्ता भृशं तप्यति भामिनी
इयं च भूरिश्रवसो भार्या परमदुःखिता
भर्तृव्यसनशोकार्ता न होते वसतीः प्रभो
यस्यास्तु श्वशुरो धीमान् बाह्लिकस्स कुरूद्वहः
निहतस्सोमदत्तश्च पित्रा सह महारणे
श्रीमच्चास्य महाबुद्धेस् सङ्ग्रामेष्वपलायि तत्
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे
तस्य भार्याशतमिदं दुःखशोकसमाहतम्
पनः पुनर्वर्धयते शोकं राज्ञो ममैव च
महता शोकभारेण मामुपास्ते महामुने
ये च शूरा महात्मानश् श्वशुरा मे महारथाः
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो
तव प्रसादाद्भगवन् विशोकोऽयं महीपतिः
कुर्यात् कालमहं चेयं वधूस्तव महामुने
वैशम्पायनः-
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसन्निभम्
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः
अपशयद्दुःखितां देवीं मातरं सव्यसाचिनः
तामुवाच ततो व्यासो यत् ते कार्यं विवाक्षितम्
तद्ब्रूहि त्वं महाप्राज्ञो यत् ते मनसि वर्तते
ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा
उवाच वाक्यं सव्रीडा विवृण्वाना पुरा कृतम्