जनमेजयः-
वनवासं गते विप्र धृतराष्ट्रे महीपतौ
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते
विदुरे चापि धर्मज्ञे धर्मराजं व्यपाश्रिते
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले
यत् तदाश्चर्यमिति वै करिष्यामीत्युवाच ह
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे
वनवासे च कौरव्यः कियन्तं कालमच्युतः
युधिष्ठिरो नरपतिर् न्यवसत् सजनो द्विज
किमाहाराश्च ते तत्र ससैन्या न्यवसन् प्रभो
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम्
वैशम्पायनः-
वनवासगतं राजन् धृतराष्ट्रं महीपतिम्
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिस्सह
प्रथमे दिवसे चैषाम् आपो मूलं फलं तथा
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ
तेऽनुज्ञातास्ततो राजन् कुरुराजेन पाण्डवाः
विविधान्यन्नपानानि शय्याश्चान्वभवन् वने
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ
तथा तु तेषां सर्वेषां कथाभिर्नृपसन्निधौ
व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे
नारदः पर्वतश्चैव देवलश्च महातपाः
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत
तेषामपि यथान्यायं पूजां चक्रे महामनाः
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः
निषेदुस्ते ततस्सर्वे पूजां तां प्राप्य भारत
आसनेष्वथ पुण्येषु बर्हिष्केषु शुभेषु च
तेषु तत्रोपविष्टेषु स नृपस्सुमहातपाः
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह
गान्धारी चाथ कुन्ती च द्रौपदी सात्वती तथा
स्त्रियस्सर्वस्तथाऽप्यन्यास सहोपविविशुस्तदा
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन् नृप
राजर्षीणां पुराणानां देवासुरविमिश्रिताः
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः
प्रीयमाणो महातेजास् सर्ववेदविदां वरः
व्यासः-
विदितं मम राजेन्द्र यत् ते हृदि विवक्षितम्
दह्यमानस्य शोकेन पुत्रपौत्रकृतेन वै
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव
कुन्त्याश्चैव कुरुश्रेष्ठ द्रौपद्याश्च हृदि स्थितम्
यच्च धारयते दुःखं तीव्रं पुत्रविनाशजम्
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन
इमे च देवगन्धर्वास् सर्वे चैव महर्षयः
पश्यन्तु तपसो वीर्यम् अद्य मे चिरसम्भृतम्
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम्
वैशम्पायनः-
एवमुक्तस्स राजेन्द्रो व्यासेनामितबुद्धिना
मुहूर्तमिव निश्चित्य वचनायोपचक्रमे
धृतराष्ट्रः-
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे
यन्मे समागमोऽद्येह भवद्भिस्सह साधुभिः
अद्य चाप्यवगच्छामि गतिमिष्टां महात्मनः
भवद्भिर्ब्रह्मकल्पैर्यत् समेतोऽहं तपोधनाः
दर्शनादेव भवतां पूतोऽहं नात्र संशयः
विद्यते न भयं चापि परलोके ममानघाः
किं तु तस्य सुदुर्बुद्धेर् मन्दस्यापनयैर्भृशम्
दूयते मे मनो नित्यं शोचतः पुत्रगर्धिनः
अपापाः पाण्डवा येन निरस्ताः पापबुद्धिना
घातिता पृथिवी चेयं सहया सरथद्विपा
राजानश्च महात्मानो नानाजनपदेश्वराः
आगम्य मम पुत्रार्थे ते च मृत्युवशं गताः
ये ते पुत्रांश्च दारांश्च प्राणांश्च मनसः प्रियान्
परित्यज्य गताश्शूराः प्रेतराजनिवेशनम्
का नु तेषां गतिर्ब्रह्मन् मित्रार्थे ये हता मृधे
तथैव पुत्रपौत्राणां मम ये निहता युधि
दूयते मे मनोऽतीव घातयित्वा महाबलम्
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम्
मम पुत्रेण मूढेन पापेन च सुहृद्दिषा
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता
एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान्
भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च
परित्यज्य गताश्शूराः प्रेतराजनिवेशनम्
एतत् सर्वमनुस्मृत्य दह्यमानो दिवानिशम्
न शान्तिमुपगच्छामि पुत्रशोकसमाहतः
इति मे चिन्तयानस्य पितश्शर्म न विद्यते