वैशम्पायनः-
एवं सा रजनी तेषाम् अाश्रमे पुण्यकर्मणाम्
शिवा नक्षत्रविद्येता व्यतीयाय कुरूद्वह
तत्र तत्र कथाश्चासंस् तेषां धर्मार्थलक्षणाः
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः
पाण्डवास्त्वभितो मातुर् धरण्यां सुषुपुस्तदा
उत्सृज्य सुमहार्हाणि शयनानि नराधिप
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः
भ्रातृभिस्सह कौन्तेयो ददर्शाश्रममण्डलम्
सान्तःपुरपरीवारस् सभृत्यस्सपुरस्सरः
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया
ददर्श तत्र वेदीस्स सम्प्रज्वलितपावकाः
कृताभिषेकैर्मुनिभिर् हुताग्निभिरुपस्थिताः
वानेयपुष्पनिकरैर् आज्यधूमोत्करैरपि
ब्राह्मेण वपुषा युक्ता युक्ता मुनिजनस्य ताः
मृगयूथैरनुद्विग्नैस् तत्र तत्र समाश्रितैः
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः
कोकिलानां चित्ररवैश् शुभैश्श्रुतिमनोहरैः
प्राधीतद्विजघोषैश्च क्वचित् क्वचिदलङ्कृतम्
फलमूलसमुद्वाहैर् महद्भिश्चोपशोभितम्
ततस्स राजा प्रददौ तापसार्थमुपाहृतान्
कलशान् काञ्चनान् राजंस् तथैवौदुम्बराण्यपि
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः
कमण्डलूंस्तथा स्थालीं पिठराणि च भारत
भाजनानि च लौहानि पात्रीश्च विविधास्तथा
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्
वसु विश्राण्य तत् सर्वं पुनरायान्महीपतिः
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम्
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा
मातरं चाविदूरस्थां शिष्यवत् प्रणतां स्थिताम्
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम्
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह
भीमसेनादयश्चैव पाण्डवा कौरवर्षभ
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः
तेषु तत्रपविष्टेषु समाजग्मुर्महर्षयः
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः
व्यासश्च भगवान् विप्रो देवर्षिगणपूजितः
वृतश्शिष्यैर्महाराजा दर्शयामास तं नृपम्
ततस्स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट्
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन्
समागतस्ततो व्यासश् शतयूपादिभिस्तदा
धृतराष्ट्रं महीपालम् आस्यतामित्यभाषत
नवं तु विष्टरं कौशं कृष्णाजिनकुशोत्तरम्
प्रतिपेदे तदा व्यासस् तदर्थमुपकल्पितम्
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः