वैशम्पायनः-
ततस्ते पाण्डवा दूराद् अवतीर्य पदातयः
अभिजग्मुर्नरपतेर् आश्रमं विनयान्विताः
स च सेनाजनस्सर्वो ये च राष्ट्रनिवासिनः
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा
तत्राश्रममुपाजग्मुर् धृतराष्ट्रस्य पाण्डवाः
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्
ततस्तत्र समाजग्मुस् तापसा विविधव्रताः
पाण्डवानागतान् द्रष्टुं कौतूहलसमन्विताः
तानपृच्छत् ततो राजा क्वासौ कौरववंशभृत्
पिता ज्येष्ठो गतोऽस्माकम् इति बाष्पपरिप्लुतः
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम्
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो
तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा
ददृशुश्चाविदूरे तान् सर्वानथ पदातयः
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा
सुस्वरं प्रारुदद् धीमान् मातुः पादावुपस्पृशन्
सा तु बाष्पाकुलमुखी तं ददर्श प्रियं सुतम्
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च भारत
गान्धार्याः कथयामास सहदेवमुपस्थितम्
अनन्तरं च राजानं भीमसेनमथार्जुनम्
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे
सा ह्यग्रे गच्छति तयोर् दम्पत्योर्हतपुत्रयोः
कर्षन्ती तौ ततस्ते तां दृष्ट्वैव न्यपतन् भुवि
तयोस्तु पादयो राजन् न्यपतन् हतपुत्रयोः
तान् राजा स्वरयोगेन स्पर्शेन च महामनाः
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्
उपतस्थुर्महात्मानो मातरं च यथाविधि
सर्वेषां तोयकलशाञ् जगृहुस्ते स्वयं तथा
पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिता भृशम्
ततो नार्यो नृसिंहानां स च योधजनस्तथा
पौरजानपदाश्चैव ददृशुस्तं नराधिपम्
निवेदयामास ततो जनं तं गोत्रनामतः
युधिष्ठिरो नरपतिस् स चैनान् प्रत्यपूजयत्
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः
राजाऽऽत्मानं गृहगतं पुरेव गजसाह्वये
अभिवादितो वधूभिश्च कृष्णाद्याभिस्स पार्थिवः
गान्धारीसहितो धीमान् कुन्त्या च प्रत्यनन्दत
ततस्त्वाश्रममागच्छत् सिद्धचारणसेवितम्
दिदृक्षुभिस्समाकीर्णं नभस्तारागणैरिव