वैशम्पायनः-
तत आज्ञापयामास सेनां भरतसत्तमः
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः
योगो योग इति प्रीत्या ततश्शब्दो महानभूत्
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति
केचिद्यानैर्जना जग्मुः केचिदश्वैर्मनोजवैः
रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः
गजेन्द्रैर्गर्जितैः केचित् केचिदुष्ट्रैर्नराधिप
पदातयश्च पुरुषाः नखरप्रासयोधिनः
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा
अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया
स चापि राजवचनाद् आचार्यो गौतमः कृपः
सेनामादाय सेनानीः प्रययावाश्रमं प्रति
ततो द्विजैर्घृतश्श्रीमान् कुरुराजो युधिष्ठिरः
संस्तूयमानो मुनिभिस् सूतमागधवन्दिभिः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
रथानीकेन महता निर्ययौ कुरुनन्दनः
गजैश्चाचलसङ्काशैर् भीमकर्मा महाभुजः
सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ
जग्मतुश्शीघ्रगमनौ सन्नद्धकवचध्वजौ
अर्जुनश्च महातेजा रथेनादित्यवर्चसा
वशी श्वेतैर्हयैर्दिव्यैर् युक्तेनान्वगमन्नृपम्
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाश्शिबिकागताः
स्त्र्यध्यक्षगुप्ताः प्रययुर् विसृजन्तोऽमितं वसु
समृद्धरथनागाश्वं वेणुवीणानुनादितम्
शुशुभे पाण्डवं सैन्यं तत् तदा भरतर्षभ
नदीतीरेषु रम्येषु सरस्सु च विशाम्पते
वासं कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः
युधिष्ठिरस्य वचनात् पुरगुप्तिं प्रचक्रतुः
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम्
स ददर्शाश्रमं दूराद् राजर्षेस्तस्य धीमतः
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव हि
ततः प्रमुदितस्सर्वो जनस्तद्वनमञ्जसा
विवेश सुमहानादैर् आपूर्य भरतर्षभ