वैशम्पायनः-
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः
ये राजकार्येषु पुरा नामाद्यन्त क्कचित्रृप
ते राजकार्याणि तदा नाकार्षुर्मनसा पुरे
अविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन
सम्भाष्यमाणा अपि ते न किञ्चित् प्रत्यपूजयन्
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः
शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन्
अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः
पाण्डवाः-
कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा॥
कथं च स महीपालो हतपुत्रो निराश्रयः
पत्न्या सह वसत्येको वने श्वापदसेविते
सा च देवी महाभागा गान्धारी हतबान्धवा
पतिमन्धं कथं वृद्धम् अन्वेति विजने वने
वैशम्पायनः-
एवं तेषां कथयताम् औत्सुक्यमभवत् तदा
गमने चाभवद्बुद्धिर् धृतराष्ट्रदिदृक्षया
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्
सहदेवः
अहो नु भवतो दृष्टं हृदयं गमनं प्रति
न हि त्वा गौरवेणाहम् अशकं वक्तुमात्मना
गमनं प्रति राजेन्द्र तदिदं प्रत्युपस्थितम्
दिष्टया द्रक्ष्यामि तां कुन्तीं वर्तमानां तपस्विनीम्
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्
प्रासादहर्म्यसंवृद्धाम् अत्यन्तसुखभागिनीम्
कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ
कुन्ती राजसुता यत्र वसत्यसुखिनी वने
वैशम्पायनः-
सहदेववचश्श्रुत्वा द्रौपदी योषितां वरा
उवाच देवी राजानम् अभिपूज्याभिनन्द्य च
द्रौपदी-
द्रक्ष्यामि तां कदा देवीं यदि जीवति सा पृथा
जीवन्त्या ह्यद्य नः प्रीतिर् भविष्यति जनाधिप
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः
योऽद्य त्वमस्मान् राजेन्द्र श्रेयसा योजयिष्यसि
अग्रपादस्थितमिदं विद्धि राजन् वधूजनम्
काङ्क्षितं दर्शनं कुन्त्या गान्धार्याश्श्वशुरस्य च
वैशम्पायनः-
इत्युक्तस्स नृपो देव्या पाञ्चाल्या भरतर्षभ
सेनाध्यक्षान् समानाय्य सर्वानिदमथाब्रवीत्
युधिष्ठिरः-
निर्यातयत सेनां मे प्रभूतरथकुञ्जराम्
द्रक्ष्यामो वनवासस्थं धृतराष्ट्रं महीपतिम्
वैशम्पायनः-
अध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः
शकटापणवेशाश्च कोशश्शिल्पिन एव च
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति
यश्च पौरजनः कश्चिद् द्रष्टुमिच्छति पार्थिवम्
अनावृतस्सुविहितस् स च यातु सुरक्षितः
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम
प्रयाणं घुष्यतामद्य श्वोभूत इति मा चिरम्
क्रियतां पथि चाप्यत्र वेश्मानि विविधानि च
एवमाज्ञाप्य राजा स भ्रातृभिस्सह पाण्डवः
श्वोभूते निर्ययौ राजा सस्त्राबालपुरस्कृतः
स बहिर्दिवसानेव जनौघं परिपालयन्
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति