वैशम्पायनः-
एवं गते कौरवेन्द्रे दुःखशोकसमाहताः
बभूवुः पाण्डवा राजन् मातृशोकेन चार्दिताः
तथा पौरजनस्सर्व शोचन्तस्तं नराधिपम्
तत्र तत्र कथा ह्यासन् द्विजानां कौरवान् प्रति
द्विजाः-
कथं नु राजा वृद्धस्स वने वसति निर्जने
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्
सुखार्हस्स हि राजर्षिर् असुखी तन्महावनम्
किमवस्थस्समासाद्य प्रज्ञाचक्षुर्महामनाः
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा
राज्यश्रियं च सन्त्यज्य वनवासमरोचयत्
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान्
स च गावल्गणिर्धीमान् भर्तृपिण्डानुपालकः
वैशम्पायनः-
आकुमारं च पौरास्ते चिन्ताशोकपरायणाः
तत्र तत्र कथाश्चक्रुस् समासाद्य परस्परम्
पाण्डवाश्चापि ते सर्वे भृशं शोकपरायणाः
शोचन्तो मातरं वृद्धाम् ऊषुर्नातिचिरं पुरे
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्
गान्धारीं च महाभागां विदुरं च महामतिम्
तेषां भोगेष्वभूत् प्रीतिर् न तांश्चिन्तयतां तदा
न राज्ये न च नारीषु न वेदाध्ययने तथा
परं निर्वेदमगमंश् चिन्तयन्तो नराधिपम्
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि
कर्णस्य च महाबाहोस् सङ्ग्रामेष्वपलायिनः
तथैव द्रौपदेयानाम् अन्येषां सुहृदामपि
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्
हतप्रवीरां पृथिवीं हृतरत्नां च भारत
सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी
नातिप्रीतियुते देव्यौ तदाऽऽस्तामप्रहृष्टवत्
वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम्
धारयन्ति स्म ते प्राणांस् तव पूर्वपितामहाः