वैशम्पायनः-
नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः
शतयूपस्तु राजर्षिर् नारदं वाक्यमब्रवीत्
शतयूपः-
अहो भगवता राज्ञः प्रीतिरस्य विवर्धिता
सर्वस्य च जनस्यास्य मम चैव महाद्युते
अस्ति काचिद्विवक्षा तु मम तां गदतश्शृणु
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजितम्
लोकवृत्तान्ततत्त्वज्ञो भवान् दिव्येन चक्षुषा
युक्तः पश्यतु देवर्षे गतयो विविधा नृणाम्
उक्तवान् नृपतीशांस्त्वं महेन्द्रसमलोकगान्
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने
स्थानमस्य क्षितिपतेश् श्रोतुमिच्छाम्यहं विभो
त्वत्तः कीदृक् कदा चेति तन्ममाचक्ष्व पृच्छतः
वैशम्पायनः-
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्
व्याजहार सतां मध्ये दिव्यदर्शी महातपाः
नारदः-
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्
दृष्टवानस्मि राजेन्द्र तत्र पाण्डुं नृपं तदा
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप
तपसो दुश्चरस्यास्य यदयं तप्स्यते नृपः
तत्राहमिदमश्रौषं शक्रस्य वदतो दिवि
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः
ततः कुबेरभवनं गान्धारीसहितो नृपः
विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः
कामगेन विमानेन दिव्याभरणभूषितः
ऋषिपुत्रो महाभागस् तपसा दग्धकिल्बिषः
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात्
देवगुह्यमिदं प्रीत्या मया वः कथितं महत्
भवन्तो हि श्रुतधनास् तपसा दग्धकिल्बिषाः
वैशम्पायनः
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः
सर्वे सुमनसः प्रीता बभूवुस्स च पार्थिवः
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणम्
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः