वैशम्पायनः-
ततस्तस्मिन् मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः
नारदः पर्वतश्चैव देवलश्च महातपाः
द्वैपायनस्सशिष्यश्च सिद्धाश्चान्ये महर्षयः
शतयूपश्च राजर्षिर् वृद्धः परमधार्मिकः
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि
तस्यास्ते तुष्टुवुस्सर्वे तापसाः परिचर्यया
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्
कथान्तरे तु कस्मिंश्चिद् देवर्षिर्नारदस्ततदा
कथामिमामकथयत् सर्वप्रत्यक्षदर्शिवान्
नारदः-
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः
सहस्रचित्य इत्युक्तश् शतयूपपितामहः
स पुत्रे राज्यमासज्ज्य ज्येष्ठे परमधार्मिके
वनं विवेश धर्मात्मा शतचित्यो महीपतिः
स गत्वा तपसः पारं दीप्तस्स पृथिवीपतिः
पुरन्दरस्य संस्थानं प्रतिपेदे महामनाः
दृष्टपूर्वस्स बहुशो राजा सम्पतता मया
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः
तथा शैलालयो राजा भगदत्तपितामहः
तपोबलेनैव नृपो महेन्द्रसदनं गतः
तथा पृषध्रो नामासीद् राजा वज्रधरोपमः
स चापि तपसा लेभे नाकपृष्ठमितो गतः
अस्मिन्नरण्ये नृपतिर् मान्धातुरनघात्मजः
पुरुकुत्सस्तपस्सिद्धिं महतीं समवाप्तवान्
भार्या समभवद्यस्य नर्मदा सरितां वरा
सोऽस्मिन्नरण्ये नृपतिस् तपस्तप्त्वा दिवं गतः
शशलोमा च राजाऽऽसीद् राजन् परमधार्मिकः
स चाप्यस्मिन् वने तप्त्वा ततो दिवमवाप्तवान्
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि
त्वं चापि राजेन्द्र तथा तपसोऽन्ते श्रिया वृतः
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्
पाण्डुस्स्मरति नित्यं च बलहन्तुस्समीपतः
त्वां सदैव महीपालस् स त्वा श्रेयसि योक्ष्यते
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी
भर्तुस्सलोकतां कुन्ती गमिष्यति वधूस्तव
युधिष्ठिरस्य जननी स हि धर्मस्सनातनः
वयमेवं प्रपश्यामो नृपते दिव्यचक्षुषा
प्रवेक्ष्यति समात्मानं विदुरस्तु युधिष्ठिरम्
सञ्जयस्तदनुध्यानात् सूतस्स्वर्गमवाप्स्यति
वैशम्पायनः
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहैव पत्न्या प्रीतिमान् प्रत्यगृह्णात्।
विद्वान् वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय
तदा सर्वे नारदं विप्रसङ्घास् सम्पूजयामासुरतीव राजन्
राज्ञः प्रीता धृतराष्ट्रस्य ते वै पुनःपुनस्सम्प्रहृष्टास्तदानीम्