वैशम्पायनः-
ततो भागीरथीतीरे मध्ये पुण्यजनोचिते
निवासमकरोद्राजा विदुरस्य मते स्थितः
तत्रैनं पर्युपातिष्ठन् ब्राह्मणा राष्ट्रवासिनः
क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ
स तैः परिवृतो राजा कथाभिरभिनन्द्य तान्
अनुजज्ञे सशिष्यान् वै विधिवत् प्रतिपूज्य च
सायाह्ने स महीपालस् ततो गङ्गामुपेत्य च
चकार विधिवच्छौचं गान्धारी च यशस्विनी
तथैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत
चक्रुस्सर्वाः क्रियास्तत्र पुरुषा विदुरादयः
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा
गान्धारीं च पृथा राजन् गङ्गातीर्थमुपानयत्
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः
जुहाव तत्र वह्नीन् स नृपतिस्सत्यसङ्गरः
ततो भागीरथीतीरात् कुरुक्षेत्रं जगाम सः
सानुगो नृपतिर्वृिद्धान् नियतस्संयतेन्द्रियः
तत्राश्रमपदं श्रीमान् अभिगम्य स पार्थिवः
आससादाथ राजर्षिं शतयूपं मनीषिणम्
स हि राजा महानासीत् केकयेषु परन्तपः
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्
तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा
तत्रैवं विधिवद्राजन् प्रत्यगृह्णात् कुरूद्वहम्
स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः
शतयूपाश्रमे तस्मिन् निवासमकरोत् तदा
तस्मै सर्वं विधिं राजन्नाचख्यौ स नृपस्तदा
आरण्यकं महाराज व्यासस्यानुमते तदा
एवं स तपसा राजा धृतराष्ट्रो महामनाः
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा
तथैव देवी गान्धारी वल्कलाजिनवासिनी
कुन्त्या सह महाराज समानव्रतचारिणी
कर्मणा मनसा वाचा चक्षुषा चापि ते नृप
सन्नियम्येन्द्रियग्रामम् आस्थिताः परमं तपः
त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः
स पार्थिवस्तत्र तपश्चचार राजर्षिवत् तीव्रमपेतमोहः
क्षत्ता च धर्मार्थविदग्र्यबुद्धिस् ससञ्जयस्तं नृपतिं सदारम्
उपाचरद्घोरतपा महात्मा तदा कृशो वल्कलचीरवासाः