वैशम्पायनः-
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम
व्रीडितास्सन्न्न्यवर्तन्त पाञ्चाल्या सह भारत
ततश्शब्दो महानासीत् सर्वेषामेव भारत
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम्
प्रदक्षिणमपावृत्त्य राजानं पाण्डवास्तदा
अभिवाद्य निवर्तन्त पृथां तामनिवर्त्य ते
तामब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च
धृतराष्ट्रः-
युधिष्ठिरस्य जननी देवी साऽपि निवर्त्यताम्
यथा युधिष्ठिरः प्राह तत् सर्वं सत्यमेव हि
पुत्रैश्वर्यं महदिदम् अपाहाय महाफलम्
का गच्छेत वनं दुर्गं पुत्रानुत्सृज्य मूढवत्
राज्यस्थया तपश्चर्तुं नानाव्रतङ्कृतं महत्
अनया शक्यमद्येह श्रूयतां च वचो मम
गान्धारि परितुष्टोऽस्मि वध्वाश्शुश्रूषणेन वै
तस्मात् त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि
वैशम्पायनः-
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्
न च सा वनवासाय देवी कृतमतिस्तदा
शक्ता ह्युपावर्तयितुं कुन्ती धर्मपरा सती
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः
निवृत्तांश्च कुरुश्रेष्ठ दृष्ट्वा प्ररुरुदुस्तदा
उपावृत्तेषु पार्थेषु सर्वष्वन्तःपुरेषु च
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः
यानैस्स्त्रीसहितास्सर्वे पुरं प्रविविशुस्तदा
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत्
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्
सर्वे चासन् निरुत्साहाः पाण्डवा जातमन्यवः
कुन्त्या हीनास्सुदुःखार्ता वत्सा इव निवारिताः
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम्
ततो भागीरथीतीरे निवासमकरोत् प्रभुः
प्रादुष्कृता यथान्यायम् अग्नयो वेदपारगैः
व्यराजन्त द्विजश्रेष्ठैस् तत्र तत्र तपोधनैः
प्रादुष्कृताग्निरभवत् स च वृद्धो नराधिपः
स राजाऽग्नीन् पर्युपास्य हुत्वा च विधिवत् तदा
सन्ध्यागतसहस्रांशुम् उपातिष्ठत भारत
विदुरस्सञ्जयश्चैव राज्ञश्शय्यां कुशैस्ततः
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः
गान्धार्यास्सन्निकर्षे तु निषसाद कुशेष्वथ
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता
तेषां संश्रवणे चापि निषेदुर्विदुरादयः
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः
प्राधीतद्विजमुख्या सा सम्प्रज्वलितपावका
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः
हुत्वाऽग्निं विधिवत् सर्वे प्रययुस्ते यथाक्रमम्
उदङ्मुखा निरीक्षन्त उपवासपरायणाः
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि
शोचतां वदतां चापि पौरजानपदानपि