कुन्ती-
एवमेतन्महाबाहो यथा वदसि पाण्डव
कृतमुद्धर्षणं पूर्वं मया वस्सीदतां नृप
द्यूतापहृतराज्यानां पतितानां सुखादपि
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया
कथं पाण्डोर्न नश्येद्धि सन्ततिः पुरुषर्षभ
यशश्च वो न नश्येद्धि इति चोद्धरणं कृतम्
यूयमिन्द्रसमास्सर्वे देवतुल्यपराक्रमाः
मा परेषां मुखप्रेक्षास् स्युरित्येवं कृतं मया
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः
पुनर्वनं न गच्छेता इति चोद्धरणं कृतम्
नागायुतसमप्राणः ख्यातविक्रमपौरुषः
नायं भीमोऽत्ययं गच्छेद् इति चोद्धरणं कृतम्
भीमसेनादवरजस् तथाऽयं वासवोपमः
विजयो नावसीदेत इति चोद्धरणं कृतम्
नकुलस्सहदेवश्च तथेमौ गुरुवर्तिनौ
क्षुधा कथं न सीदेताम् इति चोद्धरणं कृतम्
इयं च बृहती श्यामा श्रीमत्यायतलोचना
तथा सभातले क्लिष्टा मा भूदिति च तत् कृतम्
पश्यन्त्या मे तथा हीमां वेपन्तीं कदलीमिव
स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम्
दुश्शासनस्तां मौर्ख्यात्तु दासीवत् पर्यकर्षत
तदैव विदितं मह्यं परिभूतमिदं कुलम्
विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः
यथैषा नाथमिच्छन्ती प्रालपत् कुररी यथा
केशपक्षे परामृष्टा पापेन हतबुद्धिना
यदा दुश्शासनेनैषा तदा मुह्याम्यहं नृप
युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धरणं कृतम्
तदानीं विदुलावाक्यैर् इति तद्वित्त पुत्रकाः
कथं न राजवंशोऽयं नश्येत् प्राप्य सुतान् मम
पाण्डोरिति मया पुत्रास् तस्मादुद्धरणं कृतम्
न तस्य पुत्राः पौत्रा वा कुत एव स पार्थिवः
लभते सुकृताल्ँलोकान् यस्माद्वंशः प्रणश्यति
भुक्तं राज्यफलं तात भर्तुर्मे विपुलं पुरा
महादानानि दत्तानि पीतस्सोमा यथाविधि
सोऽहं नात्मफलार्थं वै वासुदेवमचूचुदम्
विदुलायाः प्रलापैस्तैः प्लावनार्थं तु तत् कृतम्
नाहं राज्यफलं पुत्राः कामये भर्तृवर्जितम्
पतिलोकानहं पुण्यान् कामये तपसा विभो
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः
तपसा शोषयिष्यामि युधिष्ठिर कलेबरम्
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिस्सह
धर्मे ते धीयतां बुद्धिर् मनसो महदस्तु ते