वैशम्पायनः-
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव
स्त्रीणां च पुरुषाणां च सुमहान् निस्स्वनोऽभवत्
स राजा राजमार्गेण नृनारीसङ्कुलेन च
कथञ्चिन्निर्ययौ धीमान् वेपमानः कृताञ्जलिः
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात्
विसर्जयामास तदा तं जनौघं स मुहुर्मुहुः
राज्ञा सह वनं गन्तुं विदुरो धृतनिश्चयः
सञ्जयश्च महामात्रस् सूतो गावल्गणिस्तथा
कृपं निवर्तयामास युयुत्सुं च महारथम्
धृताराष्ट्रो महाराज कुन्तीपुत्रं युधिष्ठिरम्
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः
सोऽब्रवीन्मातरं कुन्तीम् उपेत्य भरतर्षभ
युधिष्ठिरः-
अहं राजानमन्विष्ये भवती विनिवर्तताम्
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि
राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः
वैशम्पायनः-
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना
जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह
कुन्ती-
सहदेवे महाराज मा प्रमादं कृथाः क्वचित्
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा
कर्णं स्मरेथास्सततं सङ्ग्रामेष्वपलायिनम्
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा
आयसं हृदयं नूनं मन्दाया मम पुत्रक
यत् सूर्यजमपश्यन्त्याश् शतशो यत्र दीर्यते
एवं कृते तु किं शक्यं मया कर्तुमरिन्दम
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्
सदैव भ्रातृभिस्सार्धं अग्रजस्यारिमर्दन
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह
समाधेयास्त्वया धीमंस् त्वं ह्योव कुलधूर्गतः
श्वश्रूश्वशुरयोः पादौ शुश्रूषन्ती वने त्वहम्
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी
वैशम्पायनः-
एवमुक्तस्स धर्मात्मा भ्रातृभिस्सहितो वशी
विषादमगमत् तीव्रं न च किञ्चिदुवाच ताम्
स मुहूर्तमिव ध्यात्वा धर्मराजो युधिष्ठिरः
उवाच मातरं दीनश् चिन्ताशोकपरायणः
युधिष्ठिरः-
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि
व्यरोचयः पुराऽस्माकम् उत्साहं शुभदर्शने
विदुलाया वचोभिस्त्वं नास्मान् सन्त्यक्तुमर्हसि
निहत्य पृथिवीपालान् राज्यं प्राप्तमिदं मया
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम्
कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे
वैशम्पायनः-
इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्
भीमः-
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रसाद्गतम्
प्राप्तव्या दानधर्माश्च यथेयं ते कुतो मतिः
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्
कस्य हेतोः परित्यज्य राज्यं गन्तुमिहार्हसि
वनात् तस्मात् किमानीता भवत्या बालका वयम्
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तदा
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि
श्रियं यौधिष्ठिरीं तावद् भुङ्क्ष्व पार्थबलार्जिताम्
वैशम्पायनः-
इति सा निश्चितैवाथ वनवासकृतक्षणा
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा
वनवासाय गच्छन्तीं रुदन्ती भद्रया सह
सा पुत्रान् रुदतस्सर्वान् मुहुर्मुहुरुदीक्षती
जगामैव महाभागा वनाय धृतनिश्चया
अन्वयुः पाण्डवास्तत्र सभृत्यान्तःपुरास्तदा
ततः प्रमृज्य साऽश्रूणि पुत्रान् वचनमब्रवीत्