वैशम्पायनः-
ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः
आदाय पाण्डवान् वीरान् वनवासे कृतक्षणः
गान्धारीसहितो धीमान् अभिनन्द्य यथाविधि
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसङ्घृतः
वधूपरिवृतो राजा निर्ययौ भवनात् ततः
ततस्त्रियः कौरवपाण्डवानां याञ्चाप्यन्या कौरवराजवंश्याः
तासां नादः प्रादुरासीत् तदानीं वैचित्रिवीर्ये नृपतौ प्रयाते
ततो लाजैस्सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा
संयोज्यार्थैर्भृत्यजनं च सर्वं समुत्सृज्य प्रययौ कौरवेयः॥
ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरस्सस्वरं बाष्पकण्ठः
विनद्योच्चैर्हा महाराज साधो क्व गन्तासीत्यपतत् तत्र भूमौ
ततोऽर्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निश्श्वसन् भारताग्र्यः
युधिष्ठिरं मैवमित्येवमुक्त्वा प्रगृह्याथो दीनतरो बभूव
वृकोदरः फल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरस्सञ्जयश्च
वैश्यापुत्रस्सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः
कुन्ती गान्धारीमनुभर्तृ व्रजन्तीं स्कन्धासक्तं हस्तमथोद्वहन्ती
राजा गान्धारीस्स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः
तथा कृष्णा द्रौपदी यादवी च बालापत्या चोत्तरा कौरवी च
चित्राङ्गदा याश्च काश्चित् करूणां सार्धं राज्ञा प्रस्थितास्ता वधूभिः
तासां नादो रुदतीनां तदाऽऽसीद् राजन् दुःखात् कुररीणामिवोच्चैः
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव नार्यस्समन्तात्
तन्निर्याणे दुःखितः पौरवर्गो गजाह्वयेऽतीव बभूव राजन्
यथापूर्वं गच्छतां पाण्डवानां द्यूते राजन् कौरवाणां सभायाम्
या नापश्यच्चन्द्रमा नैव सूर्यो रामाः काश्चित् तास्तु तस्मिन् नरेन्द्रे
महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः