वैशम्पायनः-
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः
प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा
ततोऽभिरूपान् भीष्माय ब्राह्मणानृषिसत्तमान्
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः
कारयित्वाऽन्नपानानि यानान्याच्छादनानि च
सुवर्णमणिरत्नानि दासीदासपरिच्छदान्
कम्बलानि च रत्नानि ग्रामान् क्षेत्राण्यजाविकान्
अलङ्कारानथाश्वांश्च काम्याश्चैव वरस्त्रियः
आदिश्यादिश्य विप्रेभ्यो स ददौ नृपसत्तमः
द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम्
दुर्योधनं च राजानं पुत्रांश्चैव पृथक् पृथक्
जयद्रथपुरोगाण्णां सुहृदां चैव सर्वशः
स श्राद्धयज्ञो ववृते बहुगोपशुदक्षिणः
अनेकधनरत्नौघो युधिष्ठिरमते तदा
अनिशं यत्र पुरुषा गणका लेखकास्तथा
युधिष्ठिरस्य वचनाद् आपृच्छन्त स्म तं नृपम्
आज्ञापय त्वमेतेभ्यः प्रदेयं दीयतामिति
तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते
शते देये दशशतं सहस्रं चायुतं तथा
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः
एवं स वसुधाराभिर् वर्षमाणो नृपाम्बुदः
तर्पयामास विप्रांस्तान् वर्षाद् भूमिमिवाम्बुदः
ततोऽनन्तरमेवात्र सर्ववर्णान् महामतिः
अन्नपानरसौघेण प्लावयामास पार्थिवः
सवस्त्रधेन रत्नौघो मृदङ्गनिनदध्वनिः
गवाश्वमहिषावर्तो नानारत्नमहाकरः
ग्रामाग्रहारकुल्यपाढ्यो मणिहेमजलार्णवः
जगत् सम्प्लावयामास धृतराष्ट्रोडुपो ध्रुवम्
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तदा
गान्धार्यपि महाराज प्रददौ चौर्ध्वदेहिकम्
परिश्रान्तो यदासीत् स ददद्दानान्यनेकशः
ततो निवर्तयामास दानयज्ञं कुरुद्वहः
एवं स राजा कौरव्यश् चक्रे दानमहोत्सवम्
नटनर्तप्रगीताढ्यं बह्वन्नरसदक्षिणम्
दशाहमेवं दानानि दत्त्वा राजाऽम्बिकासुतः
बभूव पुत्रपौत्राणाम् अनृणो भरतर्षभ