वैशम्पायनः-
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः
धृतराष्ट्रमुपेत्यैवं वाक्यमाह यथार्थवत्
विदुरः-
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः
स च संश्रुत्य वाक्यं ते प्रशशंस महीपतिः
बीभत्सुश्च महातेजा निवेदयति ते गृहान्
वसु तच्च गृहे यच्च प्राणानपि च केवलान्
धर्मराजस्तु पुत्रस्ते राज्यं प्राणान् धनानि च
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत
कृच्छ्रादिव महाबाहुर् अनुजज्ञे विनिश्श्वसन्
स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा
अनुनीतो महाबाहुस् सौहृदे स्थापितोऽपि च
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत्
एवम्प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप
शुद्धेण क्षत्रयधर्मेण निरतोऽयं वृकोदरः
वृकोदरकृते चाहम् अर्जुनश्च पुनः पुनः
प्रसीदयाव नृपते भवान् प्रभुरिहास्ति यः
तददातु भवान् वित्तं यावदिच्छति पार्थिव
त्वमीश्वरो नो राज्यस्य प्राणानां चैव भारत
ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम्
इतो रत्नानि गाश्चैव दासीदासमजाविकम्
अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु
दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया
बह्वन्नरसपानाढ्यां सर्वं विदुर कारय
गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत्
इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः
यदत्रानन्तरं कार्यं तद्भवान् वक्तुमर्हति
वैशम्पायनः-
इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तम्
मनश्चक्रे महादाने कार्तिक्यां जनमेजय