वैशम्पायनः-
व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्
स गत्वा राजवचनाद् उवाचाच्युतमीश्वरम्
युधिष्ठिरं महातेजास् सर्वबुद्धिमतां वरः
विदुरः-
धृतराष्ट्रो महातेजा वनवासाय दीक्षितः
गमिष्यति वनं राजा कार्तिकीमागतामिमाम्
स त्वां कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः
यदि वाऽप्यनुजानीषे सैन्धवापशदस्य च
वैशम्पायनः-
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः
हृष्टस्सम्पूजयामास गुडाकेशश्च पाण्डवः
न तु भीमो दृढक्रोधस् तद्वचो जगृहे तदा
विदुरस्य महातेजा दुर्योधनकृतं स्मरन्
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः
किरीटी किञ्चिदानम्य भीमं वचनमब्रवीत्
अर्जुनः-
भीम राजा पिता वृद्धो वनवासाय दीक्षितः
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदैहिकम्
भवता निर्जितं वित्तं दातुमिच्छति कौरवः
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि
दिष्टया त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति
याचितोऽयं पुराऽस्माभिः पश्य कालस्य पर्ययम्
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति
मा तेऽन्यत् पुरुषव्याघ्र दानाद्भवतु दर्शनम्
अयशस्यमतोऽन्यत् स्याद् अधर्मश्च महाभुज
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ
वैशम्पायनः-
एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत्
भीमसेनस्तु सक्रोधम् उवाच विजयं तदा
भीमः-
वयं भीष्मस्य कर्मो हि प्रेतकार्याणि फल्गुन
सोमदत्तस्य नृपतेर् भूरिश्रवस एव च
बाह्लीकस्य च राजर्षेर् द्रोणस्य च महात्मनः
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति
श्राद्धानि पुरुषव्याघ्र मा दात् कौरवको नृपः
एवं ते वर्ततां बुद्धिर् मा वो नन्दन्तु शत्रवः
कष्टात् कष्टतरं यान्तु सर्वे दुर्योधनादयः
यैरियं पृथिवी सर्वा घातिता कुलपांसनैः
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्
अज्ञातवासगमनं द्रौपदीशोकवर्धनम्
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभत् तथा
कृष्णाजिनोपसंवीतो हृताभरणभूषणः
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्
क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाऽभवत्
यत्र द्वादश वर्षाणि वने वन्येन जीवसि
न तदा त्वत्पिता ज्येष्ठः पितृत्वेनाभिवीक्षति
वैशम्पायनः-
किं नु तद्विस्मृतं तेऽद्य यदेष कुलपांसनः
दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः
उवाच भ्रातरं धीमाञ् जोषमास्स्वेति भर्त्सयन्