वैशम्पायनः-
एवमुक्तास्तु ते तेन पौरजानपदा जनाः
वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन्
तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान् महीपतिः
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत
धृतराष्ट्रः-
वृद्धया हतपुत्र्या च धर्मपत्न्या सहानया
विलपन्तं बहुविधं कृपणं चैव सत्तमाः
पित्रा चैवाभ्यनुज्ञातं कृष्णद्वैपायनेन वै
वनवासाय धर्मज्ञा धर्मजेन नृपेण च
सोऽहं पुनःपुनर्याचे शिरसा च नतोऽनघाः
गान्धारीसहितं तन्मात् समनुज्ञातुमर्हथ
वैशम्पायनः-
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते
रुरुदुस्सर्वतो राजन् समेताः कुरुजाङ्गलाः
उत्तरीयैः करैश्चापि सञ्छाद्य वदनानि ते
कुरवश्शोकसन्तप्ता मुहूर्तं पितृमातृवत्
हृदयैश्शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्
दुःखं सन्धारयन्ति स्म नष्टसञ्ज्ञास्समाहिताः
ते विनीय तमायासं कुरुराजवियोगजम्
शनैश्शनैस्तदाऽन्योन्यम् अब्रुवन् स्वमतान्युत
ततस्सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः
एकस्मिन् ब्राह्मणे कार्यम् आवेश्योचुर्नराधिपम्
ततस्स्वे चरणे वृद्धस् सम्मतोऽर्थविशारदः
शाकल्यो बह्वृचो राजन् वक्तुं समुपचक्रमे
अनुमान्य महाराजं सदस्समनुभाष्य च
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह
शाकल्यः-
राजन् वाक्यं जनस्यास्य मयि सर्वं समर्पितम्
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप
यथा वदसि राजेन्द्र सर्वमेतत् तथा विभो
नात्र मिथ्या वचः किञ्चित् सुहृदश्च परस्परम्
न जात्वस्य तु वंशस्य राज्ञां कश्चित् कदाचन
राजाऽऽसीद्यः प्रजापालः प्रजानां न प्रियोऽभवत्
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः
न च दुर्योधनः किञ्चिद् अयुक्तं कृतवान् नृपः
प्रियाणि कुर्वन् सर्वेषाम् अनुवृत्त्यर्थमुद्यतः
यथाऽब्रवीत्तु धर्माज्ञो मुनिस्सत्यवतीसुतः
तथा कुरु महाराज स हि नः परमो गुरुः
त्यक्ता वयं तु भवता दुःखशोकपरायणाः
भविष्यामश्चिरं राजन् भवद्गुणशतैर्हृताः
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता
तथा दुर्योधनेनापि राज्ञा स्म परिपालिताः
न नस्सोऽण्वपि पुत्रस्ते व्यलीकं कृतवान् नृप
पितरीव सुविश्वस्तास् तस्मिन्नपि नराधिपे
वयमास्म यथा सम्यग् भवतो विदितं तथा
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता
पाल्यमाना धृतिमता सुखं विन्दामहे नृप
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्
कुरुसंवरणादीनां भरतस्य च धीमतः
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते
उषितास्स्म सुखं नित्यं भवता परिपालिताः
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन
न तद्दुर्योधनकृतं न च तद्भवता कृतम्
न कर्णसौबलाभ्यां च कुरवो यत् क्षयं गताः
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्
दैवं पुरुषकारेण न शक्यमपि बाधितुम्
अक्षौहिण्यो महाराज दशाष्टौ च समागताः
अष्टादशाहेन हता दशभिर्योधपुङ्गवैः
भीष्मद्रोणकृपै राजन् कर्णेन च महात्मना
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप
जनक्षयोऽयं नृपते कृतो दैवबलात्कृतेैः
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः
कर्तव्यं निधनं काले क्षत्रेण हतबन्धुना
यैरियं पुरुषव्याघ्रैर् विद्याबाहुबलान्वितैः
पृथिवी निहता सर्वा सरथा सहयद्विपा
न च राजाऽपरध्नोति पुत्रस्तव महात्मनाः।
न भवान् न च ते भृत्या न कर्णो न च सौबलः
यद्विनिष्टाः कुरुश्रेष्ठ राजानश्च सहस्रशः
सर्वे दैवकृते यद्वै कोऽत्र किं वक्तुमर्हति
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः
धर्मात्मानमतस्तुभ्यम् अनुजानीमहे सुतम्
लभतां वीरलोकं स ससहायो नराधिपः
द्विजाग्र्यैस्समनुज्ञातस् त्रिदिवे मोदतां सुखम्
प्राप्स्यते च भवान् पुण्यं धर्मेण सततं स्थितः
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः
अनुवत्स्यन्ति कौरव्यस् समेषु विषमेषु च
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्
ब्रह्मदेयाग्रहारांश्च पारिहाराश्च पार्थिवः
पूर्वराजनिसर्गांश्च पालयत्येव पाण्डवः
दीर्घदर्शी कृतप्रज्ञस् सदा वैश्रवणो यथा
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ
ऋजुः पश्यति मेधावी पुत्रवत् पाति नस्सदा
विप्रियं च जनस्यास्य संसर्गाद् धर्मजस्य वै
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः
मन्दा मृदुषु कौरव्यास् तीक्ष्णेष्वाशीविषोपमाः
वीर्यवन्तो महात्मानः पौराणां च हिते रताः
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्
भवत्कृतमिदं स्नेहं युधिष्ठिरविवर्धितम्
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः
मानवान् पालयिष्यन्ति भूत्वा धर्मपरायणाः
स राजन् मानसं दुःखम् अपनीय युधिष्ठिरात्
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ
वैशम्पायनः-
तस्य तद्वचनं धर्म्यम् अनुमान्य गुणोत्तरम्
साधु साध्विति सर्वस्स जनः प्रतिगृहीतवान्
धृतराष्ट्रस्तु तद्वाक्यम् अभिपूज्य पुनःपुनः
विसर्जयामास तदा सर्वास्तु प्रकृतीश्शनैः
स तैस्सम्पूजितो राजा शिवेनावेक्षितस्तथा
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ
ततो विवेश भवनं गान्धारीसहितो नृपः
आगतायां च शर्वर्यां सुखं शेते नराधिपः