धृतराष्ट्रः-
शान्तनुः पालयामास यथावत् पथिवीमिमाम्
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः
पालयामास वस्तातो विदितं वो न संशयः
तथा च पाण्डुर्भ्राता मे दयितो भवतामभूत्
स चापि पालयामास यथावत् तच्च वेत्थ ह
अनन्तरं हि पितरम् अनुजातो युधिष्ठिरः
नात्र किञ्चिन्मृषा जातु भावितेति मतिर्मम
यच्च दुर्योधनेनेदं भुक्तं राज्यमकणटकम्
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्
तस्यापराधाद्दुर्बुद्धेर् अभिमानान्महीक्षिताम्
विमर्दस्सुमहानासीद् अनयश्चैव मुत्कृते
घातिताः कौरवेयाश्च पृथिवी च विनाशिता
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम्
तद्वो हृदि न कर्तव्यम् अनुज्ञातुमुहार्हथ
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः
पूर्वराज्ञां च पुत्रोऽयम् इति कृत्वाऽनुजानथ
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा
अनुजानीत भद्रं वो व्रजामि शरणं च वः
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः
सर्वैर्भवद्भिर्द्रष्टव्यस् समेषु विषमेषु च
न जातु विषमं चैव गमिष्यति कदाचन
चत्वारस्सचिवा यस्य भ्रातरो विपुलौजसः
लोकपालोपमा ह्येते धर्मधर्मार्थदर्शिनः
चतुर्णां लोकपालानां मध्ये विपरिवर्तते
ब्रह्मेव भगवान् देवस् सर्वभूतजगत्पतिः
एवमेव महाबाहुर् भीमार्जुनयमैर्वृतः
युधिष्ठिरो महातेजा भवतः पालयिष्यति
अवश्यमेव वक्तव्यम् इति कृत्वा ब्रवीमि वः
एष न्यासो मया दत्तस् सर्वेषां वो युधिष्ठिरः
भवन्तो हास्य धीरस्य न्यासभूता मया कृताः
यद्येवं तैः कृतं किञ्चिद् व्यलीकं वा सुतैर्मम
यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ
भवद्भिर्हि न मे मन्युः कृतपूर्वः कदाचन
अत्यन्तगुरुभक्तानाम् एषोऽञ्जलिरिदं नमः
तेषामपि विबुद्धीनां लुब्धानां कामचारिणाम्
कृते याचामि वस्सर्वान् गान्धारीसहितो द्विजाः
वैशम्पायनः-
इत्युक्तास्तेन राज्ञा ते पौरजानपदा जनाः
नोचुर्बाष्पकलाः किञ्चिद् वीक्षाञ्चक्रुः परस्परम्