युधिष्ठिरः-
एवमेतत् करिष्यामि यथाऽऽत्थ पृथिवीपते
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने
विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति
यस्तु मामनुशास्त्येवं भवानद्य हिते स्थितः
कर्तास्मि तन्महीपाल निर्वृतो भव भारत
धृतराष्ट्रः-
वैशम्पायनः-
एवमुक्तस्स राजर्षिर् धर्मराजेन भारत
कौन्तेयं समनुज्ञातुम् इयेष भरतर्षभ
पुत्र विश्राम्यतां तावन्ममापि बलवाञ्छ्रमः
वैशम्पायनः-
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा
तमासनगतं देवी गान्धारी धर्मचारिणी
उवाच काले कालज्ञा प्रजापतिसमं पतिम्
गान्धारी-
अनुज्ञातस्स्वयं तेन व्यासेनापि महर्षिणा
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि
धृतराष्ट्रः-
गान्धार्यहमनुज्ञातस् स्वयं पित्रा महात्मना
युधिष्ठिरस्यानुमतेर् गन्तास्मि नचिरादिव
अहं तु तव पुत्राणां तेषां दुर्द्यूतदेविनाम्
सर्वेषां दातुमिच्छामि प्रेत्यभावानुगं वसु
सर्वप्रकृतिसान्निध्यं कारयित्वा स्ववेश्मनि
वैशम्पायनः-
इत्युक्त्वा प्रेषयामास धर्मराजाय पार्थिव
स च तद्वचनात् सर्वं समानिन्ये महीपतिः
ततो निष्क्रम्य नृपतिस् तस्मादन्तःपुरात् तदा
सर्वं सुहृज्जनं चैव सर्वाः प्रकृतयस्तथा
समवेतांश्च तान् सर्वान् पौराजानपदानथ
ब्राह्मणांश्च महीपालान् नानादेशसमागतान्
ततः प्राह महातेजा धृतराष्ट्रो महीपतिः
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः
भवन्तः कुरुवश्चैव बहुकालं सहोषिताः
परस्परस्य सुहृदः परस्परहिते रताः
यदिदानीमहं ब्रूयाम् अस्मिन् काल उपस्थिते
तथा भवद्भिः कर्तव्यम् अविचार्य वचो मम
अरण्यगमने बुद्धिं गान्धारीसहितस्य मे
व्यासस्यानुमते राज्ञस् तथा कुन्तीसुतस्य च
भवन्तोऽप्यनुजानन्तु मा वो भूयाद्विचारणा
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती
न चन्येष्वपि देशेषु राज्ञामिति मतिर्मम
श्रान्तोऽस्मि वयसाऽनेन तथा पुत्रैर्विनाकृतः
उपवासकृशश्चास्मि गान्धारीसहितोऽनघः
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि फलं महत्
मन्ये दुर्योधनैश्वर्याद् विशिष्टं बहुभिर्गुणैः
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः
ऋते वनं महाभागास् तदनुज्ञातुमर्हथ
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः
बाष्पसन्दिग्धवचना रुरुदुर्भरतर्षभ
तांस्त्वविब्रुवतः किञ्चिद् दुःखशोकपरायणान्
पुनरेव महाराजो धृतराष्ट्रोऽब्रवीदिदम्