धृतराष्ट्रः-
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम
द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर
राजेन्द्र पर्युपासीथा नीत्वा द्विविधमात्मना
तुष्टपुष्टजनश्शत्रुर् अर्थवानिति च स्मरेत्
पर्युपासनकाले तु विपरीतं विधीयते
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः
वमनं भेदनं चैव शत्रूणां कारयेत् ततः
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम्
प्रयास्यमानस्तु पनस् त्रिविधं परिचिन्तयेत्
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत
उपपन्नो नृपो यायाद् विपरीतमतोऽन्यथा
आददीत बलं राजा मौलं मित्रबलं तथा
अटवीबलं भृतं चैव तथा श्रेणीबलं च यत्
बन्धुमित्रबलं राजन् मौलेन च विशिष्यते
श्रेणीबलं प्राकृतं च तुल्यं तेनैव भारत॥
चोराटविबलं चैव परस्परबलं नृप
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते
आपदश्चैव बोद्धव्या बहुरूपा नराधिप
भवन्ति राजन् कौरव्य यास्ताः प्रथमतश्शृणु
विकल्पा बहुवो राजन्नापदां पाण्डुनन्दन
सामादिभिरुपन्यस्य गमयेत् तान् नृपस्सदा
यात्रां ययाद्बलैर्युक्तो राजा षड्भिः परन्तप
संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा
तुष्टपुष्टबलो राजा यायाद्वृद्ध्युदये धृतः
अाहूतश्चाप्यथो यायाद् विवृतेन हि पार्थिव
अन्वागतां वाजिरथप्रधानो महावृक्षां संवृतः कूलरोघाम्
पदातिना तैर्बहुकर्दमां च स्थूलश्मकां तोयवतीं च यायात्॥
अथोपपत्त्या शकटं वज्रं चक्रं च भारत
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो
साधयित्वा परबलं कृत्वा च बलमर्षणम्
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च
लब्धं प्रशमयेद्राजा निक्षिपेद् धनिनो नरान्
ज्ञात्वा सुविषयं तं च सामादिभिरुपक्रमात्
सर्वमेतन्महाराज शरीरं धारयेदिह
प्रेत्यैव चेह कर्तव्यम् आत्मनिश्श्रेयसं परम्
एवं कुर्वञ्शुभाचारो लोकेऽस्मिञ्शृणु ते नृप
प्रेत्य स्वर्गं तथाऽऽप्नोति प्रजा धर्मेण पालयन्
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च
मयाऽप्यवश्यं वक्तव्यं प्रीत्या स्नेहेन चाभिभो
एतत् सर्वं यथान्यायं कुर्वीथा भूरिदक्षिणः
प्रियं प्रजानां धर्मज्ञ स्वर्गं सुखमवाप्स्यसि
अश्वमेधसहस्रेण यो यजेत् पृथिवीपतिः
पालयेद्वाऽपि धर्मेण प्रजास्तुल्यं फलं लभेत्