धृतराष्ट्रः-
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा
उदासीनगुणानां च मध्यमानां तथैव च
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्
मित्रं चामित्रमित्रं च बोद्धव्यं शत्रुकर्शन
तथाऽमात्या जनपदा दुर्गाणि विविधानि च
कुरुश्रेष्ठ भवन्त्येषां यथादेशं यथास्वकम्
ते च द्वादश कौन्तेय राजानो विविधात्मकाः
मन्त्रिप्रधानाश्च गुणाष् षष्टिर्द्वादश च स्मृताः
एतन्मण्डलमित्याहुर् आचार्या नीतिकोविदाः
अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत्
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन
द्विसप्तत्या महाबाहो ततष्षाड्गुण्यचारिणा
यथा स्वपक्षो बलवान् परपक्षस्तथाऽवरः
विगृह्य शत्रून् कौन्तेय यायात् क्षितिपतिस्तदा
यदा स्वपक्षस्त्ववरस् तदा सन्धिं समाश्रयेः
द्रव्याणां सञ्चये चैव यत्रः कार्यस्तदा भवेत्
यदा समर्थो यानाय नचिरण च भारत
तदा सर्वं विधातव्यं स्थाने चैव विधायकः
भूमिरल्पफला देया विपरीतस्य भारत
हिरण्यरूप्यभूयिष्ठम् अमित्रं क्षीणकोशवत्
विपरीतं न गृह्णीयात् स्वयं सन्धिविशारदः
सख्यार्थं राजपुत्रं वा लिप्सेथा भरतर्षभ
विपरीते कृते देयः पुत्रः कस्याञ्चिदापदि
तस्य प्रमोक्षे यत्नं च कुर्यास्सोपायमात्मवत्
प्रकृतीनां च कौन्तेय राजा दीनान् विभावयेत्
क्रमेण युगपद्बृद्धं व्यसनानां बलाबलम्
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च
कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम्
न च हिंस्योऽभ्युपगतस् सामन्तो वृद्धिमिच्छता
कौन्तेय तद्धितं ते स्यात् पृथिवीं विजिगीषतः
गुणाभेदने वै योगं गच्छेतास्सह मन्त्रिभिः
आत्मसात्करणे नित्यं पालनानि गृहे तथा
दुर्बलाश्चैव सततं नावष्टभ्या बलीयसा
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमाश्रितः
यद्येवमभियायास्त्वं बलवान् दुर्बलं नृप
सामादिभिरुपायैस्तं क्रमेण विनिवर्तय
अशक्नुवंस्तु युद्धाय निष्पतेस्सह मन्त्रिभिः
कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्
क्रमेणानेन मोक्षस्स्याच् छरीरमपि केवलम्