वैशम्पायनः-
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा
मन्दप्राणगतिर्धीमान् कृच्छ्रादिव समुद्धरन्
पदातिस्स महीपालो जीर्णो गजपतिर्यथा
तमन्वगच्छद्विदुरो विद्वान् सूतश्च सञ्जयः
स चैव परमेष्वासः कृपश्शारद्वतस्तदा
प्रविश्य च गृहं राजा कृतपूर्वाह्णिकक्रियः
तर्पयित्वा द्विजश्रेष्ठान् आहारमकरोत् तदा
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी
वधूभिरुपचारेण पूजिताऽभुङ्क्त भारत
कृताहारं कृताहारास् सर्वे ते विदुरादयः
पाण्डवाश्च कुरुश्रेष्ठम् उपातिष्ठन्त भारत
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः
धृतराष्ट्रः-
अप्रमादस्त्वया कार्यस् सर्वथा कुरुनन्दन
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते
ननु शक्यं यथा तात रक्षितुं पाण्डुनन्दन
राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत्
विद्यावृद्धान् सदैव त्वम् उपासीथा युधिष्ठिर
शृणुयास्ते हि यद्ब्रूयुः कुर्याश्चैवाविचारयन्
प्रातरुत्थाय तान् राजन् पूजयित्वा यथाविधि
कृच्छ्रकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः
ते सुसम्मानिता राजंस् त्वया राज्ये हितार्थिना
प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन
इन्द्रियाणि च सर्वाणि राज्यवत् परिपालय
हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा
अमात्यानुपधातीतान् पितृपैतामहाञछुचीन्
दान्तान् कर्मसु सर्वेषु मुख्यान् मुख्येषु योजय
साधयेथाश्च सततं चारैरविदितैः परान्
परीक्षितैर्बहुविधैस् स्वराष्ट्रेषु परेषु च
पुरं च ते सुगुप्तं स्याद् दृढप्राकारतोरणम्
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम्
तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च
सर्वतस्सुविभक्तानि यन्त्रैरारक्षितानि च
पुरुषैरर्थतत्त्वज्ञैर् विदितैः कुलशीलतः
आत्मा च रक्ष्यस्सततं भोजनादिषु भारत
विहारादिषु सर्वेषु माल्यशय्यासनेषु च
स्त्रियश्च ते सुगुप्तास्स्युर् वृद्धैराप्तैर्युधिष्ठिर
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर
मन्त्रिणश्चैव कुर्वीथा द्विजान् विद्याविशारदान्
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्
तैस्सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिस्सह
समस्तैरपि च व्यस्तैर् व्यपदेशेन केनचित्
सुसंवृतं मन्त्रगृहं सौधं चारुह्य मन्त्रयेत्
अरण्ये निश्शलाके वा न च रात्रौ कदाचन
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः
मन्त्रभेदे च ये दोषा भवन्ति पृथिवीक्षिताम्
न ते शक्यास्समाधातुं कथञ्चिदिति मे मतिः
दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले
अभेदे च गुणान् राजन् पुनःपुनररिन्दम
पौरजानपदानां च शौचशौचे युधिष्ठिर
यथा स्याद्विदितं राजंस् तथा कार्यं कुरूद्वह
व्यवहाराश्च ते तात नित्यमाप्तैरनुष्ठिताः
योज्यास्तुष्टैर्भृतै राजन् नित्यं चारैरनुष्ठितैः
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर
आदानरुचयश्चैव चरा ये भिमर्शिनाः
उग्रदण्डप्रधानाश्च मिथ्याव्याहारिणस्तथा
क्रोष्टारश्चैव लुब्धाश्च हन्तारस्साहसप्रियाः
हंसाविहारभोक्तारो वर्णानां च प्रदूषकाः
हिरण्यदण्ड्या वध्या वा कर्तव्या देशकालतः
अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत्
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते
अतिपानेन राजाऽपि सर्वं कोशं विनाशयेत्
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम्
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया
युक्त्या प्रकाशमयति सुवीर्यस्य विवृद्धये
प्रातरन्यांश्च पश्येथा ये कुर्युः प्रियकर्म ते
पश्येथाश्च ततो योधान् सततं परिहर्षयन्
अलङ्कारमथो भोज्यम् अत ऊर्ध्वं समाचर
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्
सदा चापररात्रान्ते भवेत् कार्याविनिर्णयः
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्
सर्वे त्वात्ययिके कालाः कार्याणां भरतर्षभ
तथैव चाचरन् काले तिष्ठेथा भूरिदक्षिणः
चक्रवत् कार्मणां तात पर्यायो ह्येष नित्यशः
कोशस्य सञ्जये यत्नं कुर्वीथा न्यायतस्सदा
विविधस्य महाराज विपरीतं विवर्जयेत्
चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः
तानाप्तैः पुरुषैर्दूराद् घातयेथाः परस्परम्
कर्म दृष्ट्वा ततोऽभात्यान् सङ्गृह्णीयाः कुरूद्वह
कामयेथाश्च कर्माणि युक्तायुक्तैरनुष्ठितैः
सेनाप्रणेता च भवेत् तव तात दृढव्रतः
शूरः क्लेशसहश्चैव प्रियश्च तव मानवः॥
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव
पौरोगवाश्च सभ्याश्च कुर्युर्यानविहारिणः
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर
देशान्तरस्थाश्च नरा विक्रान्तास्सर्वकर्मसु
यात्राभिरनुरूपाभिर् अनुग्राह्या हितास्त्वया
गुणानुसम्मतं कार्यं विदुषां राजसत्तम
अविचाल्यश्च देशस्सयाद् यथा मेरुरमहागिरिः