युधिष्ठिर महाबाहो यथाऽऽह कुरुनन्दनः
धृतराष्ट्रो महात्मा त्वं तत् कुरुष्वाविचारयन्
अयं हि वृद्धो नृपतिर् हतपुत्रो विशेषतः
नेदं कृच्छ्रं चिरगतस् सहेदिति मतिर्मम
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः
अनुज्ञां लभतां राजा मा वृथेह मरिष्यति
स्वस्थो भवत्वयं धीमान् वनेषु मधुगन्धिषु
राजर्षीणां पुराणानाम् अनुयातु गतिं नृपः
राजर्षीणां हि सर्वेषाम् अन्ते वनमुपाश्रयः
वैशम्पायनः-
इत्युक्तस्स ततो राजा व्यासेनाद्भुतकर्मणा
प्रत्युवाच महातेजा धर्मराजो महामुनिम्
युधिष्ठिरः-
भगवानेव नो मान्यो भगवानेव नो गुरुः
भगवानस्य राज्यस्य कुलस्य च परायणम्
अहं तु पुत्रो भगवन् पिता राजा गुरुश्च मे
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः
वैशम्पायनः-
इत्युक्तस्स तु तं प्राह व्यासो धर्मभृतां वरः
युधिष्ठिरं महातेजाः पुनरेव विशाम्पते
व्यासः-
एवमेतन्महाबाहो यथा वदसि कौरव
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः
सोऽयं मयाऽभ्यनुज्ञातस् त्वया च पृथिवीपतिः
करोतु स्वमभिप्रायं माऽस्य विघ्नकरो भव
एष एव परो धर्मो राजर्षीणां युधिष्ठिर
समरे वा भवेन्मृत्युर् वने वा विधिपूर्वकम्
पित्राऽपि तव राजेन्द्र पाण्डुना पृथिवीक्षिता
शिष्यभूतेन राजाऽयं गुरुवत् पर्युपासितः
क्रतुभिर्दक्षिणामिश्च रत्नपर्वतशोभितैः
महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च ललिताः
अत्र संस्थं च विपुलं राज्यं विप्रोषिते त्वयि
त्रयोदश समा भुङ्क्तं दत्तं च विपुलं वसु
त्वया च पुरुषव्याघ्र गुरुशुश्रूषया नृप
आराधितस्सभृत्येन गान्धारी च यशस्विनी
अनुजानीहि पितरं समयोऽस्य तपोविधौ
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर
वैशम्पायनः-
एतावदुक्त्वा वचनम् अनुज्ञाप्य च पार्थिवम्
तथाऽस्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम्
गते भगवति व्यासे राजा पाण्डुसुतस्ततः
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः
युधिष्ठिरः-
यथाऽऽह भगवान् व्यासो यच्चापि भवतो मतम्
यथाऽऽह च महेष्वासः कृपो विदुर एव च
युयुत्सुस्सञ्जयश्चैव तत् कर्तास्म्यहमञ्जसा
सर्वे ते ह्युनुमान्या मे कुलस्यास्य हितैषिणः
इदं तु याचे नृपते त्वामहं शिरसा नतः
क्रियतां तावदाहारस् ततो गच्छाश्रमं प्रति